नारायणीयम्/दशकम् २९
← दशकम् २८ | नारायणीयम् दशकम् २९ [[लेखकः :|]] |
दशकम् ३० → |
उद्गच्छतस्तव करादमृतं हरत्सु
दैत्येषु तानशरणाननुनीय देवान् ।
सधस्तिरोदधिथ देव भवत्प्रभावाद्
उद्यत्सयूथ्यकलहा दितिजा बभूवुः ॥ २९१॥
श्यामां रुचापि वयसापि तनुं तदानीं
प्राप्तोऽसि तुङ्गकुचमण्डलंभङ्गुरां त्वम् ।
पीयुषकुम्भकलहं परिमुच्य सर्वे
तृष्णाकुलाः प्रतिययुस्त्वदुरोजकुम्भे ॥ २९२॥
का त्वं मृगाक्षि विभजस्व सुधामिमामि
त्यारूढरागविवशानभियाचतोऽमून् ।
विश्वस्यते मयि कथं कुलटास्मि दैत्या
इत्यालपन्नपि सुविश्वसितानतानीः ॥ २९३॥
मोदात्सुधाकलशमेषु ददत्सु सा त्वं
दुश्चेष्टितं मम सहध्वमिति ब्रुवाणा ।
पङ्क्तिप्रभेदविनिवेशितदेवदैत्या
लीलाविलासगतिभिः समदाः सुधां ताम् ॥ २९४॥
अस्मास्वियं प्रणयिनीत्युसुरेषु तेषु
जोषं स्थितेष्वथ समाप्य सुधां सुरेषु ।
त्वं भक्तलोकवशगो निजरूपमेत्य
स्वर्भानुमर्धपरिपीतसुधं व्यलावीः ॥ २९५॥
त्वत्तः सुधाहरणयोग्यफलं परेषु
दत्त्वा गते त्वयि सुरैः खलु ते व्यगृह्णन् ।
घोरेऽथ मूर्छति रणे बलिदैत्यमाया
व्यामोहिते सुरगणे त्वमिहाविरासीः ॥ २९६॥
त्वं कालनेमिमथ मालिसुखाञ्जघन्थ
शक्रो जघान बलिजम्भवलान् सपाकान् ।
शुष्कार्द्रदुष्करवधे नमुचौ च लूने
फेनेन नारदगिरा न्यरुणो रणं त्वम् ॥ २९७॥
योषावपुर्दनुजमोहनमाहितं ते
श्रुत्वं विलोकनकुतूहलवान्महेशः ।
भूतैस्समं गिरिजया च गतः पदं ते
स्तुत्वाब्रवीदभिमतं त्वमथो तिरोधाः ॥ २९८॥
आरामसीमनि च कन्दुकघातलीला
लोलायमाननयनां कमनीं मनोज्ञाम् ।
त्वामेष वीक्ष्य विगळद्वसनां मनोभू
वेगादनङ्गरिपुरङ्ग समालिलिङ्ग ॥ २९९॥
भूयोऽपि विद्रुतवतीमुपधाव्य देवो
वीर्यप्रमोक्षविकसत्परमार्थबोधः ।
त्वन्मानितस्तव महत्वमुवाच देव्यै
तत्तादृशस्त्वमव वातनिकेतनाथ ॥ २९१०॥