नारदस्मृतिः/मातृकाः/भाषा

विकिस्रोतः तः
Jump to navigation Jump to search

सुनिश्चितबलाधानस्त्वर्थी स्वार्थप्रचोदितः ।
लेखयेत्पूर्वपक्षं तु कृतकार्यविनिश्चयः ।। २.१ ।।

पूर्वपक्षश्रुतार्थस्तु प्रत्यर्थी तदनन्तरम् ।
पूर्वपक्षार्थसंबन्धं प्रतिपक्षं निवेशयेत् ।। २.२ ।।

श्वो लेखनं वा स लभेत्त्र्यहं सप्ताहं एव वा ।
अर्थी तृतीयपादे तु युक्तं सद्यो ध्रुवं जयी ।। २.३ ।।

मिथ्या संप्रतिपत्तिर्वा प्रत्यवस्कन्दं एव वा ।
प्राङ्न्यायविधिसाध्यं वा उत्तरं स्याच्चतुर्विधम् ।। २.४ ।।

मिथ्यैतन्नाभिजानामि तदा तत्र न संनिधिः ।
अजातश्चास्मि तत्काल एवं मिथ्या चतुर्विधा ।। २.५ ।।

मिथ्या च विपरीतं च पुनः शब्दसमागमम् ।
पूर्वपक्षार्थसंबन्धं उत्तरं स्याच्चतुर्विधम् ।। २.६ ।।

भाषाया उत्तरं यावत्प्रत्यर्थी न निवेशयेत् ।
अर्थी तु लेखयेत्तावद्यावद्वस्तु विवक्षितम् ।। २.७ ।।

अन्यार्थं अर्थहीनं च प्रमाणागमवर्जितम् ।
लेख्यं हीनाधिकं भ्रष्टं भाषादोषास्तूदाहृताः ।। २.८ ।।

लब्धव्यं येन यद्यस्मात्स तत्तस्मादवाप्नुयात् ।
न त्वन्योऽन्यदथान्यस्मादित्यन्यार्थं इदं त्रिधा ।। २.९ ।।

मनसाहं अपि ध्यातस्त्वन्मित्रेणेह शत्रुवत् ।
अतोऽन्यथा महाक्षान्त्या त्वं इहावेदितो मया ।। २.१० ।।

द्रव्यप्रमाणहीनं यत्फलोपाश्रयवर्जितम् ।
प्रमाणवर्जितं नाम लेख्यदोषं तदुत्सृजेत् ।। २.११ ।।

आगमवर्जितं दोषं पूर्वपादे विवर्जयेत् ।
एकस्य बहुभिः सार्धं पुरराष्ट्रविरोधकम् ।। २.१२ ।।

बिन्दुमात्रापदवर्णेष्वेकाविधिष्टया (?) ।
हीनाधिका भवेद्व्यर्था तां यत्नेन विवर्जयेत् ।। २.१३ ।।

भ्रष्टं तु दुःस्थितं यत्स्याज्जलतैलादिभिर्हतम् ।
भाषायां तदपि स्पष्टं विस्पष्टार्थं विवर्जयेत् ।। २.१४ ।।

सत्या भाषा न भवति यद्यपि स्यात्प्रतिष्ठिता ।
बहिश्चेद्भ्रश्यते धर्मान्नियताद्व्यवहारिकात् ।। २.१५ ।।

गन्धमादनसंस्थस्य मयास्यासीत्तदर्पितम् ।
व्यवहारिकधर्मस्य बाह्यं एतन्न सिध्यति ।। २.१६ ।।

अन्याक्षरनिवेशेन अन्यार्थगमनेन च ।
आकुलं च क्रियादानं क्रिया चैवाकुला भवेत् ।। २.१७ ।।

रागादीनां यदेकेन कोपितः करणे वदेत् ।
तदादौ तु लिखेत्सर्वं वादिनः फलकादिषु ।। २.१८ ।।

निराकुलावबोधाय धर्मस्थैः सुविचारितम् ।
तस्मादन्यद्व्यपोह्यं स्याद्वादिनः फलकादिषु ।। २.१९ ।।

वादिभ्यां अभ्यनुज्ञातं शेषं च फलके स्थितम् ।
ससाक्षिकं लिखेयुस्ते प्रतिपत्तिं च वादिनोः ।। २.२० ।।

वादिभ्यां लिखिताच्छेषं यत्पुनर्वादिना स्मृतम् ।
तत्प्रत्याकलितं नाम स्वपादे तस्य लिख्यते ।। २.२१ ।।

अर्थिना संनियुक्तो वा प्रत्यर्थिप्रहितोऽपि वा ।
यो यस्यार्थे विवदते तयोर्जयपराजयौ ।। २.२२ ।।

यो न भ्राता न च पिता न पुत्रो न नियोगकृत् ।
परार्थवादी दण्ड्यः स्याद्व्यवहारेऽपि विब्रुवन् ।। २.२३ ।।

पूर्ववादं परित्यज्य योऽन्यं आलम्बते पुनः ।
वादसंक्रमणाज्ज्ञेयो हीनवादी स वै नरः ।। २.२४ ।।

सर्वेष्वपि विवादेषु वाक्छले नापहीयते ।
पशुस्त्रीभूम्यृणादाने शास्योऽप्यर्थान्न हीयते ।। २.२५ ।।

अभियुक्तोऽभियोगस्य यदि कुर्यादपह्नवम् ।
अभियोक्ता दिशेद्देश्यं प्रत्यवस्कन्दितो न चेत् ।। २.२६ ।।

पूर्वपादे हि लिखितं यथाक्षरं अशेषतः ।
अर्थी तृतीयपादे तु क्रियया प्रतिपादयेत् ।। २.२७ ।।

क्रियापि द्विविधा प्रोक्ता मानुषी दैविकी तथा ।
मानुषी लेख्यसाक्षिभ्यां धटादिर्दैविकी स्मृता ।। २.२८ ।।

दिवा कृते कार्यविधौ ग्रामेषु नगरेषु वा ।
संभवे साक्षिणां चैव दिव्या न भवति क्रिया ।। २.२९ ।।

अरण्ये निर्जने रात्रावन्तर्वेश्मनि साहसे ।
न्यासस्यापह्नवे चैव दिव्या संभवति क्रिया ।। २.३० ।।

कारणप्रतिपत्त्या च पूर्वपक्षे विरोधिते ।
अभियुक्तेन वै भाव्यं विज्ञेयं पूर्वपक्षवत् ।। २.३१ ।।

पलायते य आहूतो मौनी साक्षिपराजितः ।
स्वयं अभ्युपपन्नश्च अवसन्नश्चतुर्विधः ।। २.३२ ।।

अन्यवादी क्रियाद्वेषी नोपस्थाता निरुत्तरः ।
आहूतप्रपलायी च हीनः पञ्चविधः स्मृतः ।। २.३३ ।।

मणयः पद्मरागाद्या दीनारादि हिरण्मयम् ।
मुक्ताविद्रुमशङ्खाद्याः प्रदुष्टाः स्वामिगामिनः ।। २.३४ ।।

गन्धमाल्यं अदत्तं तु भूषणं वास एव वा ।
पादुकेति राजोक्तं तदाक्रामन्वधं अर्हति ।। २.३५ ।।

पण्यमूल्यं भृतिर्न्यासो दण्डो यच्चावहारकम् ।
वृथादानाक्षिकपणा वर्धन्ते नाविवक्षिताः ।। २.३६ ।।

मिथ्याभियोगिनो ये स्युर्द्विजानां शूद्रयोनयः ।
तेषां जिह्वां समुत्कृत्य राजा शूले विधापयेत् ।। २.३७ ।।

आज्ञा लेखः पट्टकः शासनं वा आधिः पत्त्रं विक्रयो वा क्रयो वा ।
राज्ञे कुर्यात्पूर्वं आवेदनं यस्तस्य ज्ञेयः पूर्वपक्षः विधिज्ञैः ।। २.३८ ।।

साक्षिकदूषणे कार्यं पूर्वसाक्षिविशोधनम् ।
शुद्धेषु साक्षिषु ततः पश्चात्साक्ष्यं विशोधयेत् ।। २.३९ ।।

साक्षिसभ्यावसन्नानां दूषणे दर्शनं पुनः ।
स्वचर्यावसितानां तु नास्ति पौनर्भवो विधिः ।। २.४० ।।

स्वयं अभ्युपपन्नोऽपि स्वचर्यावसितोऽपि सन् ।
क्रियावसन्नोऽप्यर्हेत परं सभ्यावधारणम् ।। २.४१ ।।

पक्षानुत्सार्य कार्यस्तु सभ्यैः कार्यविनिश्चयः ।
अनुत्सारितनिर्णिक्ते विरोधः प्रेत्य चेह च ।। २.४२ ।।

सभैरेव जितः पश्चाद्राज्ञा शास्यः स्वशास्त्रतः ।
जयिने चापि देयं स्याद्यथावज्जयपत्रकम् ।। २.४३ ।।

व्यवहारमुखं चैतत्पूर्वं उक्तं स्वयंभुवा ।
मुखशुद्धौ हि शुद्धिः स्याद्व्यवहारस्य नान्यथा ।। २.४४ ।।