नारदपञ्चरात्रम्/प्रथमैकरात्रे/अध्यायः १
नारदपञ्चरात्रम् अध्यायः १ [[लेखकः :|]] |
प्रथमैकरात्रे, अध्यायः २ → |
श्रीनारदपञ्चरात्रम्
प्रथमैकरात्रे प्रथमोऽध्यायः
ओं नमो भगवते वासुदेवाय
अथ मङ्गलाचरणम्
नारायणं नमस्कृत्य नरं चैव नरोत्तमं ।
देवीं सरस्वतीं चैव ततो जयं उदीरयेथ् ।।
गणेशशेषब्रह्मेशदिनेशप्रमुखाः सुराः ।
कुमाराद्याश्च मुनयः सिद्धाश्च कपिलादयः ।। १.१ ।।
लक्ष्मी सरस्वती दुर्गा सावित्री राधिका परा ।
भक्त्या नमन्ति यं शश्वत्तं नमामि परात्परं ।। १.२ ।।
ध्यायन्ते सततं सन्तो योगिनो वैष्णवास्तथा ।
ज्योतिरभ्यन्तरे रूपं अतुलं श्यामसुन्दरं ।। १.३ ।।
ध्यायेत्तं परमं ब्रह्म परमात्मानं ईश्वरं ।
निरीहं अतिनिर्लिप्तं निर्गुणं प्रकृतेः परं ।। १.४ ।।
सर्वेशं सर्वरूपं च सर्वकारणकारणं ।
सत्यं नित्यं च पुरुषं पुराणं परं अव्ययं ।। १.५ ।।
मङ्गल्यं मङ्गलार्हं च मङ्गलं मङ्गलालयं ।
स्वेच्छामयं परं धाम भगवन्तं सनातनं ।। १.६ ।।
स्तुवन्ति वेदा यं शश्वन्नानन्तं जानन्ति यस्य ते ।
तं स्त्ॐइ परमानन्दं सानन्दं नन्दनन्दनं ।। १.७ ।।
भक्तप्रियं च भक्तेशं भक्तानुग्रहविग्रहं ।
श्रीदं श्रीशं श्रीनिवासं श्रीकृष्णं राधिकेश्वरं ।। १.८ ।।
ज्ञानामृतं ज्ञानसिन्धोः संप्राप्य शङ्कराद्गुरोः ।
परावराच्च परमाद्योगीन्द्राणां गुरोर्गुरोः ।। १.९ ।।
वेदेभ्यो दधिसिन्धुभ्यश्चतुर्भ्यः सुमनोहरं ।
तज्ज्ञानमन्थदण्डेन संनिर्मथ्य नवं नवं ।। १.१० ।।
नवनीतं समुद्धृत्य नत्वा शम्भोः पदाम्बुजं ।
विधिपुत्रो नारदोऽहं पञ्चरात्रं समारभे ।। १.११ ।।
ओं नारायणाश्रमे पुण्ये पुण्यक्षेत्रे च भारत ।
सिद्धे नारायणक्षेत्रे वटमूले सुपुण्यदे ।। १.१२ ।।
कृष्णांशं कृष्णभक्तं च पलं कृष्णपरायणं ।
श्रीकृष्णचरणाम्भोजध्यानैकतानमानसं ।। १.१३ ।।
जपन्तं परमं ब्रह्म कृष्ण इत्यक्षरद्वयं ।
सुखासने सुखासीनं कृष्णद्वैपायनं मुनिं ।। १.१४ ।।
पप्रच्छ शुकदेवश्च सर्वज्ञं पितरं मुनिः ।
कारणण्च पुराणानां पुराणं परं अव्ययं ।। १.१५ ।।
श्रीशुक उवाच
भगवन्सर्वतत्त्वज्ञ वेदवेदाङ्गपारग ।
यद्यत्प्रकारं ज्ञानं च निगूढं श्रुतिसम्मतं ।। १.१६ ।।
तेषु यत्सारभूतं चाप्यज्ञानान्धप्रदीपकं ।
तत्तत्सर्वं समालोच्य मां बोधयितुं अर्हसि ।। १.१७ ।।
अथ श्रीकृष्णभक्तिप्रशंशा
स पिता ज्ञानदाता यो ज्ञानं तत्कृष्णभक्तिदं ।
सा भक्तिः परमा शुद्धा कृष्णदास्यप्रदा च या ।। १.१८ ।।
तदेव दास्यं शस्तं यत्साक्षाच्चरणसेवनं ।
नित्यं गोलोकवासं च पुरतः स्तवनं हरेः ।। १.१९ ।।
शश्वन्निमेषरहितं तत्पादपद्मदर्शनं ।
शश्वत्तत्सार्धं आलापसेवाकर्मनियोजनं ।। १.२० ।।
तेन सार्धं अविच्छेदस्थानं परं शोभनं ।
भक्तानां वाञ्च्छितं वस्तु सारभूतं श्रुतौ श्रुतं ।। १.२१ ।।
पुत्रस्य वचनं श्रुत्वा व्यासदेवो जहास सः ।
विज्ञाय ज्ञानिनं पुत्रं परमाह्लादं आप ह ।। १.२२ ।।
पुत्रं शुभाशिषं कृत्वा सर्वज्ञः सर्वभावनः ।
यथाप्राप्तं गुरुमुखात्प्रवक्तुं उपचक्रमे ।। १.२३ ।।
श्रीव्यास उवाच
शुक धन्योऽसि मान्योऽसि पुण्यरूपोऽसि भारते ।
पुत्रेण भवतास्माकं कुलं मुक्तं च पावनं ।। १.२४ ।।
स पुत्रः कृष्णभक्तो यो भारते सुयशस्करः ।
पुनाति पुंसां शतकं जन्ममात्रेण लीलया ।। १.२५ ।।
मातामहानां शतकं मातरं मातृमातरं ।
सोदरान्बान्धवांश्चैव भृत्यान्पत्नीं सहात्मजां ।। १.२६ ।।
यत्कन्यां प्रतिगृह्णाति तदादिपुरुषत्रयं ।
कन्याप्रदाता श्वशुरो जीवन्मुक्तः सभार्यकः ।। १.२७ ।।
स्वयं विधाता भगवान्परं कृष्णपरायणः ।
कृष्णभक्तो वसिष्टस्तु तत्सुतो वैष्णवः स्वयं ।। १.२८ ।।
वैष्णवस्तत्सुतः शक्तिः कृष्णध्यानैकमानसः ।
पराशरश्च तत्पुत्रः कृष्णपादाब्जसेवया ।। १.२९ ।।
जीवन्मुक्तो महाज्ञानी योगीन्द्राणां गुरोर्गुरुः ।
अहं वेदविभक्ता च श्रीकृष्णपादसेवया ।। १.३० ।।
गुरुर्मे भगवान्साक्षाद्योगीन्द्रो नारदो मुनिः ।
गुरोर्गुरुर्मे शम्भुश्च योगीन्द्राणां गुरोर्गुरुः ।। १.३१ ।।
तेषां पुण्येन पुत्रस्त्वं पुण्यराशिश्च मूर्तिमान् ।
पद्मानां मम पुंसां च प्रकाशो भास्करः स्वयं ।। १.३२ ।।
श्रीकृष्णचरणाम्भोजं पादाब्जं नारदेशयोः ।
सरस्वतीं नमस्कृत्य ज्ञानं वक्ष्ये सनातनं ।। १.३३ ।।
श्रूयतां पञ्चरात्रं च वेदसारं अभीप्सितं ।
पञ्चसंवादं इष्टं च भक्तानां अभिवाञ्च्छितं ।। १.३४ ।।
प्राणाधिकं प्रियं शुद्धं परं ज्ञानामृतं शुभं ।
अथ षट्संवादाः ?wहत्? हि गोलोके शतशृङ्गे च पर्वते ।। १.३५ ।।
सुपुण्ये विरजातीरे वटमूले मनोहरे ।
पुरतो राधिकायाश्च ब्रह्माणं कमलोद्भवं ।। १.३६ ।।
तं उवाच महाभक्तं स्तुवन्तं प्रणतं सुतं ।
पञ्चरात्रं इदं पुण्यं श्रुत्वा च जगतां विधिः ।। १.३७ ।।
प्रणम्य राधिकां कृष्णं प्रययौ शिवमन्दिरं ।
भक्त्या तं पूजयां आस शङ्करः परमादरं ।। १.३८ ।।
सुखासने सुखासीनं स्वस्थं भक्तं च पूजितं ।
पप्रच्छ वार्तां विनयी विनयेन सुखावहां ।। १.३९ ।।
सर्वं तं कथयां आस पञ्चरात्रादिकं शुभं ।
वसन्तं वटमूले च स्वर्गे मन्दाकिनीतटे ।। १.४० ।।
योगीन्द्रैरपि सिद्धेन्द्रैर्मुनीन्द्रैश्च स्तुतं प्रभुं ।
ज्ञानामृतं तं उक्त्वा स ब्रह्मलोकं जगाम ह ।। १.४१ ।।
शम्भुश्च कथयां आस स्वशिष्यं नारदं मुनिं ।
नारदः कथयां आस पुष्करे सूर्यपर्वणि ।। १.४२ ।।
मां भक्तं अनुरक्तं च पुण्याहे मुनिसंसदि ।
पञ्चरात्रं इदं शुद्धं भ्रमान्धध्वंसदीपकं ।। १.४३ ।।
अथ पञ्चरात्रपदव्याख्या
रात्रं च ज्ञानवचनं ज्ञानं पञ्चविधं स्मृतं ।
तेनेदं पञ्चरात्रं च प्रवदन्ति मनीषिणः ।। १.४४ ।।
ज्ञानं परमतत्त्वं च जन्ममृत्युजरापहं ।
ततो मृत्युञ्जयः शम्भुः संप्राप कृष्णवक्त्रतः ।। १.४५ ।।
ज्ञानं द्वितीयं परमं मुमुक्षूणां च वाञ्च्छितं ।
परं मुक्तिप्रदं शुद्धं यतो लीनं हरेः पदे ।। १.४६ ।।
ज्ञानं शुद्धं तृतीयं च मङ्गलं कृष्णभक्तिदं ।
तद्दास्यं अधीष्टं च यतो दास्यं लभेद्धरेः ।। १.४७ ।।
चतुर्थं यौगिकं ज्ञानं सर्वसिद्धिप्रदं परं ।
सर्वस्वं योगिनां पुत्र सिद्धानां च सुखप्रदं ।। १.४८ ।।
अणिमा लघिमा व्याप्तिः प्राकाम्यं महिमा तथा ।
ईशित्वं च वशित्वं च तथाकामावसायिता ।। १.४९ ।।
सावज्ञं दूरश्रवणं परकायप्रवेशनं ।
कायव्यूहं जीवदानं परजीवहरं परं ।। १.५० ।।
सर्गकर्तृत्वशिल्पं च सर्गसंहारकारणं ।
सिद्धं च षोडशविधं ज्ञानिनां च यतो भवेथ् ।। १.५१ ।।
ज्ञानं च परमं प्रोक्तं तद्वै वैषयिकं नृणां ।
यदिष्टदेवी माया सा परं संमोहकारणं ।। १.५२ ।।
विषये बद्धचितं च सर्वं इन्द्रियसेवनं ।
पोषनं स्वकुटुम्बानां स्वात्मनश्च निरन्रतं ।। १.५३ ।।
प्रथमं सात्त्विकं ज्ञानं द्वितीयं च तदेव च ।
नैर्गुण्यं च तृतीयं च ज्ञानं च सर्वतः परं ।। १.५४ ।।
चतुर्थं च राजसिकं भक्तस्तन्नाभिवाञ्च्छति ।
पञ्चमं तामसं ज्ञानं विद्वांस्तन्नाभिवाञ्च्छति ।। १.५५ ।।
ज्ञानं पञ्चविधं प्रोक्तं पञ्चरात्रं विदुर्बुधाः ।
पञ्चरात्रं सप्तविधं ज्ञानिनां ज्ञानदं परं ।। १.५६ ।।
ब्राह्मं शैवं च क्ॐआरं वासिष्टं कापिलं परं ।
गौतमीयं नारदीयं इदं सप्तविधं स्मृतं ।। १.५७ ।।
अथ ग्रन्थप्रशंसा
षट्पञ्चरात्रं वेदाश्च पुराणानि च सर्वशः ।
इतिहासं धर्मशास्त्रं शात्रं च सिद्धियोगजं ।। १.५८ ।।
दृष्ट्वा सर्वं समालोक्य ज्ञानं संप्राप्य शङ्कराथ् ।
ज्ञानामृतं पञ्चरात्रं चकार नारदो मुनिः ।। १.५९ ।।
पुण्यं च पापविघ्नं भक्तिदास्यप्रदं हरेः ।
सर्वस्वं वैष्णवानां च प्रियं प्राणाधिकं सुत ।। १.६० ।।
सारभूतं च सर्वेषां वेदानां परमाद्भुतं ।
नारदीयं पञ्चरात्रं पुराणेषु सुदुर्लभं ।। १.६१ ।।
सर्वान्तरात्मा भगवान्ब्रह्मज्योतिः सनातनं ।
परिपूर्णतमः श्रीमान्यथा कृष्णः सुरेषु च ।। १.६२ ।।
यथा देवीषु पूज्या सा मूलप्रकृतिरीश्वरी ।
वैष्णवानां च सिद्धानां ज्ञानिनां योगिनां शिवः ।। १.६३ ।।
विश्वस्तानां इन्द्रियानां मनश्च शीघ्रगामिनां ।
ब्रह्मा च वेदविदुषां पूज्यानां च गणेश्वरः ।। १.६४ ।।
सनत्कुमारो भगवान्मुनीनां प्रवरो यथा ।
बृहस्पतिर्बुद्धिमतां सिद्धानां कपिलो यथा ।। १.६५ ।।
योगीन्द्रानां सतां शुद्ध ऋषिर्नारायणो यथा ।
कवीनां च यथा शुक्रः पण्डितानां बृहस्पतिः ।। १.६६ ।।
सरितां च यथा गङ्गा समुद्राणां जलार्णवः ।
वृन्दावनं वनानां च वर्षानां भारतं यथा ।। १.६७ ।।
पुष्करं तत्र तीर्थानां पूज्यानां वैष्णवो यथा ।
आत्माकाशो यथाप्तानां यथा काशी पुरीषु च ।। १.६८ ।।
वृक्षाणां कल्पवृक्षश्च सुरभी कामधेनुषु ।
पुष्पाणां पारिजातश्च पत्राणां तुलसी यथा ।। १.६९ ।।
मन्त्राणां कृष्णमन्त्रश्च यथा विद्या धनेष्वपि ।
यथा तेजस्विनां सूर्यो मिष्टानां अमृतं यथा ।। १.७० ।।
आधाराणां च स्थूलानां महाविष्णुर्यथा सुत ।
सूक्ष्माणां परमाणुश्च गुरुणां मन्त्रतन्त्रदः ।। १.७१ ।।
पुत्रश्च स्नेहपात्राणां नक्षत्राणां यथा शशी ।
यथा घृतं च गव्यानां शस्यानां धान्यं ईप्सितं ।। १.७२ ।।
शास्त्राणां च यथा वेदाः साश्रमाणां यथा द्विजः ।
तैजसानां यथा रत्नं मुक्तामाणिक्यहीरकं ।। १.७३ ।।
यथा छन्दसि गायत्री दुर्गा शक्तिमतीष्वपि ।
पतिव्रतासु लक्स्मीश्च क्षमाशीलासु मेदिनी ।। १.७४ ।।
सौभाग्यासु सुन्दरीषु राधा कृष्णप्रियासु च ।
हनुमान्वानराणां च पक्षिणां गरुडो यथा ।। १.७५ ।।
वाहनानां बलवतां शङ्करस्य यथा वृषः ।
शालग्रामश्च यन्त्राणां पूजासु कृष्णपूजनं ।। १.७६ ।।
एकादशी व्रतानां च तपःस्वनशनं यथा ।
यज्ञानां जपयज्ञश्च सत्यं धर्मेषु पुत्रक ।। १.७७ ।।
सुशीलं च गुणानां च पुण्येषु कृष्णकीर्तनं ।
शोभाशु सुखदृश्येषु प्रभा तेजःसु सर्वतः ।। १.७८ ।।
पोष्ट्रीणां उपकर्तृणां मित्राणां जननी यथा ।
लोकानां अपि लोकेशः शेषो नागेषु पूजितः ।। १.७९ ।।
सुदर्शनं च शस्त्राणां विश्वकर्मा च शिल्पिनां ।
धर्मिष्ठेषु दयावत्सु देवर्षिसु महत्सु च ।। १.८० ।।
विष्णुभक्तेषु विज्ञेषु यथैव नारदो मुनिः ।
एवं च सर्वशास्त्रेषु पञ्चरात्रं च पूजितं ।। १.८१ ।।
यथा निपीय पीयूषं न स्पृहा चान्यवस्तुषु ।
पञ्चरात्रं अभिज्ञाय नान्येषु च स्पृहा सतां ।। १.८२ ।।
सर्वार्थज्ञानबीजं चाप्यज्ञानान्धप्रदीपं ।
वेदसारोद्धृतं तत्त्वं सर्वेषां समभीप्सितं ।। १.८३ ।।
इति श्रीनारदपञ्चरात्रे ग्रन्थप्रशंसनं नाम प्रथमोऽध्यायः