नवरत्नमाला

विकिस्रोतः तः
नवरत्नमाला
कालिदासः
१९३७

नवरत्नमाला। महाकविश्रीकालिदासकृता नवरत्नमाला। ॐकारपञ्जरशुकीमुपनिषदुद्यानकेलिकलकण्ठीम् । आगमविपिनमयूरीभार्यामन्तर्विभावये गौरीम् ॥ १ ॥ दयमानदीर्घनयनां देशिकरूपेण दर्शिताभ्युदयाम् । वामकुचनिहितवीणां वरदां संगीतमातृकां वन्दे ॥ २ ॥ श्यामलिमसौकुमार्यामानन्दामन्दसंपदुन्मेषाम् । तरुणिमकरुणापूरां मदजलकल्लोललोचनां वन्दे ॥३॥ नखमुखमुखरितवीणानादरसास्वादनवनवोल्लासम् । मुखमम्ब मोदयतु मां मुक्ताताटङ्कमुग्धहसितं ते ॥ ४ ॥ सारेगमपधनिरतां तां वीणासंक्रान्तकान्तहस्तान्ताम् । शान्तां मृदुलस्वान्तां कुचभरतान्तां नमामि शिवकान्ताम् ॥५॥ अवटुतटघटितचूलीपालीं तालीपलाशताटङ्काम् । वीणावादनवेलाकम्पितशिरसं नमामि मातङ्गीम् ॥ ६ ॥ वीणारवानुषङ्गं विकचमदामोदमाधुरीभृङ्गम् । करुणापूरतरङ्गं कलये मातङ्गकन्यकापाङ्गम् ॥ ७ ॥ मणिभङ्गमेचकाङ्गी मातङ्गीं नौमि सिद्धमातङ्गीम् । यौवनवनसारङ्गी संगीताम्भोरुहानुभवभृङ्गीम् ॥ ८॥ मेचकमासेचनकं मिथ्यादृष्टान्तमध्यभागं तम् । मातस्तव स्वरूपं मङ्गलसंगीतसौरभं मन्ये ॥ ९ ॥ नवरत्नमालिकाख्यां विरचितमातङ्गकन्यकाभूषाम् । यः पठति लिखति वैतां स भवेद्वागीश्वरः साक्षात् ॥ १० ॥ इति महाकविश्रीकालिदासकृता नवरत्नमाला 'समाप्ता। १. देवीस्तुतिरूपोऽयं ग्रन्थः. २. सारेगमेति सप्तखरसूचकान्यक्षराणि. ३. खिन्नाम् ४. 'तदासेचनकं तृप्तस्त्यिन्तो यस्य दर्शनात्'.

"https://sa.wikisource.org/w/index.php?title=नवरत्नमाला&oldid=290856" इत्यस्माद् प्रतिप्राप्तम्