नटेशसहस्रनामस्तोत्रम्

विकिस्रोतः तः
नटेशसहस्रनामस्तोत्रम्
अज्ञातः
१९५३

ॐ ॥ सद्गुरुसेवा जयति॥ ॥ श्रीचित्सभेशाय मङ्गळम् ॥

श्रीनटेशसहस्रनामस्तोत्र

॥ पूर्वपीठिका ॥

यस्मात्सर्वं समुत्पन्नं चराचरमिदं जगत् । इदं नमो नटेशाय तस्मै कारुण्यमूर्तये ॥ ओं कैलासशिखरे रम्ये रत्नसिंहासने स्थितम् । शङ्करं करुणामूर्तिं प्रणम्य परया मुदा ॥ १ विनयावनता भूत्वा पप्रच्छ परमेश्वरी । भगवन् भव सर्वज्ञ भवतापहराव्यय ॥ २ त्वत्तः श्रुतं मया देव सर्वं नामसहस्रकम् । नटेशस्य तु नामानि न श्रुतानि मया प्रभो ॥ ३ असकृत्प्रार्थितोऽपि त्वं न तत्कथितवानसि । इदानीं कृपया शंभो वद वाञ्छाभिपूर्तये ॥ ४ ५२६ बृहत्स्तोत्ररत्नाकरे - प्रथमभाग:

श्री शिव उवाच- साधु साधु महादेवि पृष्टं सर्वजगद्धितम् । पुरा नारायणः श्रीमान् लोकरक्षापरायणः ॥ ५ क्षीराब्धौ सुचिरं कालं साम्बमूर्तिधरं शिवम् । मामेकाप्रेण चित्तेन ध्यायन् न्यवसदच्युतः ॥ ६ तपसा तस्य सन्तुष्टः प्रसन्नोऽहं कृपावशात् । ध्यानात्समुत्थितो विष्णुर्लक्ष्म्या मां पर्यपूजयत् ॥ ७ तुष्टाव विविधैस्स्तोत्रैर्वेदवेदान्तसम्मितैः । वरं वरय हे वत्स यदिष्टं मनसि स्थितम् ॥ ८ तत्ते दास्यामि न चिरादित्युक्तः कमलेक्षणः । प्राह मां परया भक्त्या वरं दास्यसि चेत्प्रभो ॥ ९ रक्षार्थं सर्वजगतामसुराणां क्षयाय च । सार्वात्स्ययोगसिद्ध्यर्थं मन्त्रमेकं ममादिश ॥ १० इति सम्प्रार्थितस्तेन माधवेनाहमम्बिके । सञ्चिन्त्यानुत्तमं स्तोत्रं सर्वेषां सर्वसिद्धिदम् ॥ ११ नटेशनामसाहस्रमुक्तवानस्मि विष्णवे । नटेशसहस्रनामस्तोत्रपूर्वपीठिका ५२७

तेन जित्वाऽसुरान् सर्वान् ररक्ष सकलं जगत् ॥ सार्वात्म्ययोगसिद्धिं च प्राप्तवानम्बुजेक्षणः । तदेव प्रार्थयस्यद्य नामसाहस्रमम्बिके ॥ १३ पठनान्मननाद्यस्य नृत्तं दर्शयति प्रभुः । सर्वपापहरं पुण्यं सर्वरक्षाकरं नृणाम् ॥ १४ सर्वैश्वर्यप्रदं सर्वसिद्धिदं मुक्तिदं परम् । वक्ष्यामि शृणु हे देवि नामसाहस्रमुत्तमम् ॥ २५

॥ इति पूर्वपीठिका । ॥ श्रीनटेशसहस्रनामस्तोत्रम् ॥

ओं अस्य श्रीनटेशसहस्रनामस्तोत्रमहामन्त्रस्य स- दाशिवऋषिः, महाविराट्छन्दः, श्रीमन्नटेशो देवता । बीजं, शक्तिः, कीलकं, अङ्गन्यासकरन्यासौ च चिन्तामणिमन्त्रवत् ।

॥ ध्यानम् ॥

ध्यायेत्कोटिरविप्रभं त्रिणयनं शीतांशुगङ्गाधरं दक्षाङ्घ्रिस्थितवामकुञ्चितपदं शार्दूलचर्माम्बरम् । वह्निं डोलकराभयं डमरुकं वामे शिवां श्यामलां कह्लारां जपसूक्शुकां कटिकरां देवीं सभेशं भजे ॥ लं पृथिव्यात्मन इत्यादिना पञ्चपूजा कार्या श्रीशिव-उवाच- श्रीशिवः श्रीशिवानाथ: श्रीमान् श्रीपतिपूजितः । शिवङ्कुरश्शिवतरश्शिष्टहृष्टश्शिवागमः ॥ १ अखण्डानन्दचिद्रूपः परमानन्दताण्डवः । नटेशसहस्रनामस्तोत्रम् ५२९

अपस्मृतिन्यस्तपादः कृत्तिवासाः कृपाकरः ॥ २ कालीवादप्रियः कालः कालातीत: कलाधरः । कालनेता कालहन्ता कालचक्रप्रवर्तकः ॥ ३ कालज्ञः कामदः कान्तः कामारिः कामपालकः । कल्याणमूर्तिः कल्याणीरमणः कमलेक्षणः ॥ ४ कालकण्ठः कालकालः कालकूटविषाशनः । कृतज्ञः कृतिसारज्ञः कृशानु: कृष्णपिङ्गलः ॥ ५ करिचर्माम्बरधरः कपाली कलुषापहः । कपालमालाभरणः कङ्कालः कलिनाशनः ॥ ६ कैलासवासी कामेशः कविः कपटवर्जितः । कमनीयः कलानाथशेखरः कम्बुकन्धरः ॥ ७ कन्दर्पकोटिसदृशः कपर्दी कमलाननः । कराब्जधृतकालाग्निः कदम्बकुसुमारुणः ॥ ८ कमनीयनिजानन्दमुद्राञ्चितकराम्बुजः । स्फुरड्डमरुनिध्वाननिर्जिताम्भोधिनिस्वनः ॥ ९ उद्दण्डताण्डवश्चण्ड ऊर्ध्वताण्डवपण्डितः । ५३० बृहत्स्तोत्ररत्नाकरे - प्रथमभाग:

सव्यताण्डवसंपन्नो महाताण्डववैभवः ॥ १० ब्रह्माण्डकाण्डविस्फोटमहाप्रलयताण्डवः । महोग्रताण्डवाभिज्ञः परिभ्रमणताण्डवः ॥ ११ नन्दिनाट्यप्रियो नन्दी नटेशो नदवेषभृत् । कालिकानाट्यरसिको निशानटननिश्चलः ॥ १२ भृङ्गिनाठ्यप्रमाणज्ञो भ्रमरायितनाट्यकृत् । वियदादिजगत्स्रष्टा विविधानन्ददायकः ॥ १३ विकाररहितो विष्णुर्विराडीशो विराण्मयः । विराङ्हृदयपद्मस्थो विधिर्विश्वाधिको विभुः ॥ १४ वीरभद्रो विशालाक्षो विष्णुबाणो विशां पतिः । विद्यानिधिर्विरूपाक्षो विश्वयोनिर्वृषध्वजः ॥ १५ विरूपो विश्वदिग्व्यापी वीतशोको विरोचनः । व्योमकेशो व्योममूर्तिव्योमाकारोऽव्ययाकृतिः ॥ १६ व्याघ्रपादप्रियो व्याघ्रचर्मधृव्द्याधिनाशनः । व्याकृतो व्यापृतो व्यापी व्याप्यसाक्षी विशारदः ॥ व्यामोहनाशनो व्यासो व्याख्यामुद्रालसत्करः । नटेशसहस्रनामस्तोत्रम् ५३१

वरदो वामनो वन्द्यो वरिष्ठो वज्रवर्भभृत् ॥ १८ वेदवेद्यो वेदरूपो वेदवेदान्तवित्तमः । वेदार्थविद्वेदयोनिः वेदाङ्गो वेदसंतुतः ॥ १९ वैकुण्ठवल्लभोऽवर्ष्यो वैश्वानरविलोचनः । समस्तभुवनव्यापी समृद्धस्सततोदितः ॥ २० सूक्ष्मात्सूक्ष्मतरः सूर्यः सूक्ष्मस्थूलत्ववर्जितः । जह्नुकन्याधरो जन्मजरामृत्युनिवारकः ॥ २१ शूरसेनः शुभाकारः शुभ्रमूर्तिः शुचिस्मितः । अनर्घरत्नखचितकिरीटो निकटे स्थितः ॥ २२ सुधारूपः सुराध्यक्षः सुभ्रू: सुखधनः सुधीः । भद्रो भद्रप्रदो भद्रवाहनो भक्तवत्सलः ॥ २३ भगनेत्रहरो भर्गो भवघ्नो भक्तिमन्निधिः । अरुणः शरणः शर्वः शरण्यः शर्मदः शिवः ॥ २४ पवित्रः परमोदारः परमापन्निवारकः । सनातनस्स्मः सत्यः सत्यवादी समृद्धिदः ॥ २५ धन्वी धनाधिपो धन्यो धर्मगोप्ता धराधिपः । ५३२ बृहत्स्तोत्ररत्नाकरे - प्रथमभाग:

तरुणस्तारकस्ताम्रस्तरिष्णुस्तत्त्वबोधकः ॥ २६ राजराजेश्वरो रम्यो रात्रिञ्चरविनाशनः । गह्वरेष्ठो गणाधीशो गणेशो गतिवर्जितः ॥ २७ पतञ्जलिप्राणनाथ: परापरविवर्जितः । परमात्मा परंज्योतिः परमेष्ठी परात्परः ॥ २८ नारसिंहो नगाध्यक्षो नादान्तो नादवर्जितः । नमदानन्ददो नम्यो नगराजनिकेतनः ॥ २९ दैव्यो भिषक्प्रमाणज्ञो ब्रह्मण्यो ब्राह्मणात्मकः । कृताकृतः कृशः कृष्णः शान्तिदश्शरभाकृतिः ॥ ३० ब्रह्मविद्याप्रदो ब्रह्मा बृहद्गर्भो बृहस्पतिः । सद्यो जातस्सदाराध्यः सामगस्सामसंस्तुतः ॥ ३१ अघोरोऽद्भुतचारित्र आनन्दवपुरग्रणीः । सर्वविद्यानामीशानईश्वराणामधीश्वरः ॥ ३२ सर्वार्थः सर्वदा तुष्टः सर्वशास्त्रार्थसम्मतः । सर्वज्ञः सर्वदः स्थाणुः सर्वशस्समरप्रियः ॥ ३३ जनार्दनो जगत्स्वामी जन्मकर्मनिवारकः । नटेशसहस्रनामस्तोत्रम् ५३३

मोचको मोहविच्छेत्ता मोदनीयो महाप्रभुः ॥ ३४ व्युप्तकेशश्च विशदः विष्वक्सेनो विशोधक: । सहस्राक्षः सहस्राङ्घ्रिः सहस्रवदनाम्बुजः ॥ ३५ सहस्राक्षार्चितस्संराट् सन्धाता सम्पदालयः । बभ्रुर्बहुविधाकारो बलप्रमथनो बली ॥ ३६ मनोभर्ता मनोगम्यो मननैकपरायणः । उदासीन उपद्रष्टा मौनगम्यो मुनीश्वरः ॥ ३७ अमानी मदनोऽमन्युरमानो मानदो मनुः । यशस्वी यजमानात्मा यज्ञभुग्यजनप्रियः ॥ ३८ मीढुष्टमो मृगधरो मृकण्डतनयप्रियः । पुरुहूतो पुरद्वेषी पुरत्रयविहारवान् ॥ ३९ पुण्यः पुमान् पुरिशयः पूषा पूर्णः पुरातनः । शयनश्शन्तमः शान्तः शासकश्श्यामलाप्रियः ॥ ४० भावज्ञो बन्धविच्छेत्ता भावातीतोऽभयङ्करः । मनीषी मनुजाधीशो मिथ्याप्रत्ययनाशनः ॥ ४१ निरञ्जनो नित्यशुद्धो नित्यबुद्धो निराशयः । ५३४ बृहत्स्तोत्ररत्नाकरे - प्रथमभाग:

निर्विकल्पो निरालम्बो निर्विकारो निरामयः ॥ ४२ निरङ्कुशो निराधारो निरपायो निरत्ययः । गुहाशयो गुणातीतो गुरुमूर्तिर्गुहप्रियः ॥ ४३ प्रमाणं प्रणवः प्राज्ञः प्राणदः प्राणनायक: । सूत्रात्मा सुलभस्स्वच्छः सूदरस्सुन्दराननः ॥ ४४ कपालमालालङ्कारः कालान्तकवपुर्धरः । दुराराध्यो दुराधर्ष्यो दुष्टदूरो दुरासदः ॥ ४५ दुर्विज्ञेयो दुराचारनाशनो दुर्मदान्तकः । सर्वेश्वरः सर्वसाक्षी सर्वात्मा साक्षिवर्जितः ॥ ४६ सर्वद्वन्द्वक्षयकरः सर्वापद्विनिवारकः । सर्वप्रियतमस्सर्वदारिद्र्यक्लेशनाशनः ॥ ४७ द्रष्टा दर्शयिता दान्तो दक्षिणामूर्तिरूपभृत् । दक्षाध्वरहरो दक्षो दहरस्थो दयानिधिः ॥ ४८ समदृष्टिस्सत्यकामः सनकादिमुनिस्तुतः । पतिः पञ्चत्वनिर्मुक्तः पञ्चकृत्यपरायणः ॥ ४९ पञ्चयज्ञप्रियः पञ्चप्राणाधिपतिरव्ययः। नटेशसहस्रनामस्तोत्रम् ५३५

पश्चभूतप्रभुः पश्चपूजासन्तुष्टमानसः ॥ ५० विघ्नेश्वरो विघ्नहन्ता शक्तिपाणिश्शरोद्भवः । गूढो गुह्यतमो गोप्यो गोरक्षी गणसवितः ॥ ५१ सुव्रतस्सत्यसङ्कल्पः स्वसंवेद्यस्सुखावहः । योगगम्यो योगनिष्ठो योगानन्दो युधिष्ठिरः ॥ ५२ तत्वावबोधस्तत्वेशः तत्वभावो तपोनिधिः । अक्षरस्त्र्यक्षरस्त्र्यक्षः पक्षपातविवर्जितः ॥ ५३ माणिभद्रार्चितो मान्यो मायावी मात्रिन्को महान् । कुठारभृत्कुलाद्रीशः कुञ्चितैकपदाम्बुजः ॥ ५४ यक्षराड्यज्ञफलदो यज्ञमूर्तिर्यशस्करः । सिद्धेशस्सिद्धिजनक: सिद्धान्तस्सिद्धवैभवः ॥ ५५ रविमण्डलमध्यस्थो रजोगुणविवर्जितः । वह्निमण्डलमध्यस्थो वर्षीयान्वरुणेश्वरः ॥ ५६ सोममण्डलमध्यस्थः सोमस्सौम्यस्सुहृद्वरः । दक्षिणाग्निर्हपत्यो दमनो दमनान्तकः ॥ ५७ चतुर्वक्त्रश्चक्रधरः पञ्चवक्त्रः परं तपः । ५३६ बृहत्स्तोत्ररत्नाकरे - प्रथमभाग:

विश्वस्यायतनो वर्यो वन्दारुजनवत्सलः ॥ ५८ गायत्रीवल्लमो गार्ग्यो गायकानुग्रहोन्मुखः । अनन्तरूप एकात्मा स्वस्तरुर्व्याहृतिस्स्वधा ॥ ५९ स्वाहारूपो वसुमनाः वटुक: क्षेत्रपालकः । श्राव्यश्शत्रुहरश्शूली श्रुतिस्मृतिविधायकः ॥ ६० अप्रमेयोऽप्रतिरथः प्रद्युम्नः प्रमथेश्वरः । अनुत्तमो ह्युदासीनो मुक्तिदो मुदिताननः ॥ ६१ ऊर्ध्वपच्चोर्ध्वरेताश्च प्रौढनर्तनलम्पटः । महामायो महाग्रासो महावीर्यो महाभुजः ॥ ६२ महानन्दो महास्कन्दो महेन्द्रो महसांनिधिः । भाजिष्णुर्भावनागम्यः भ्रान्तिज्ञानविनाशनः ॥ ६३ महर्धिमहिमाधारो महासेनगुरुर्महः । सर्वद्दरसर्वभृत्सर्गः सर्वहृत्कोशसंस्थितः ॥ ६४ दीर्घपिङ्गजटाजूटो दीर्घबाहुर्दिगम्बरः । संयद्वामस्संयमीन्द्रः संशयच्छित्सहस्नदृक् ॥ ६५ हेतुदृष्टान्तनिर्मुक्तो हेतुर्हेरम्बजन्मभूः । नटेशसहस्रनामस्तोत्रम् ५३७

हेलाविनिर्मितजगद्धेमश्मश्रुर्हिरण्मयः ॥ ६६ सकृद्विभातस्संवेत्ता सदसत्कोटिवर्जितः । स्वात्मस्थस्स्वायुधः स्वामी स्वानन्यस्स्वांशिताखिलः ॥ ६७ रातिर्दातिश्चतुष्पादः स्वात्मबन्धहरस्स्वभूः । वशी वरेण्यो विततो वज्रभृद्वरुणात्मजः ॥ ६८ चैतन्यश्चिच्छिदद्वैतः चिन्मात्रश्चित्शुभाधिपः । भूमा भूतपतिर्भव्यः भूर्भुवो व्याहृतिप्रियः ॥ ६९ वाच्यवाचकनिमुक्तो वागीशो वागगोचरः । वेदान्तकृत्तुर्यपादो वैद्युतस्सुकृतोद्भवः ॥ ७० अशुभक्षयकृज्ज्योतिः अनाकाशो ह्यलेपकः । आप्तकामोऽनुमन्तात्मकामोऽभिन्नोनणुर्हरः ॥ ७१ अस्नेहस्सङ्गानिर्मुक्तोऽह्रस्वोऽदीर्घाऽविशेषक: । स्वच्छन्दस्स्वच्छसंवित्तिरन्वेष्टव्योऽश्रुतोऽमृतः ॥ ७२ अपरोक्षोऽव्रणोऽलिङ्गोऽद्वेष्टा प्रेमसागरः । ज्ञानलिङ्गो गतिर्ज्ञानी ज्ञानगम्योऽवमासक: ॥ ७३ शुद्धस्फीटकसङ्काशः श्रुतिप्रस्तुतवैभवः । ५३८ बृहत्स्तोत्ररत्नाकरे - प्रथमभाग:

हिरण्यबाहुस्सेनानीः हरिकेशो दिशां पतिः ॥ ७४ सस्पिञ्जरः पशुपतिः त्विषीमानध्वनां पतिः । बभ्लुशो भगवान्भव्यो विव्याधी विगतज्वरः ॥ ७५ अन्नानां पतिरत्युपग्रो हरिकेशोऽद्वयाकृतिः । पुष्टानां पतिरव्यग्रो भवहेतुर्जगत्पतिः ॥ ७६ आततायी महारुद्र: क्षेत्राणामधिपाक्षयः । सूतस्सदसस्पतिस्सूरिरहन्त्यो वनपो वरः ॥ ७७ रोहितस्स्थपतिर्वृक्षपतिर्मन्त्री च वाणिजः । कक्षपश्च भुवन्तिश्च भवाख्यो वारिवत्कृतः ॥ ७८ ओषधीशस्सतामीशः उच्चैर्घोषो विभीषणः । पत्तीनामधिपः कृत्स्नवीतो धावत्स सत्वपः ॥ ७९ सहमानस्सत्यधर्मा विव्याधी नियमो यमः । अव्याधिपतिरादित्यः ककुभः कालकोविदः ॥ ८० निषङ्गीषुधिमदिन्द्रः तस्कराणामधीश्वरः । निचरुक: परिचरोऽरण्यानां पतिरद्भुतः ॥ ८१ सृकावी मुष्णतां नाथ: पञ्चाशद्वर्णरूपभृत् । नटेशसहस्रनामस्तोत्रम् ५३९

नक्तंचरः प्रकृन्तानां पतिर्गिरिचरो गुरुः ॥ ८२ कुलुञ्चानां पतिः कूप्यो धन्वावी धनदाधिपः । आतन्वानश्शतानन्दः गृत्सो गृत्सपतिस्सुरः ॥ ८३ त्रातो व्रातपतिर्विप्रो वरीयान् क्षुल्लक: क्षमी । बिल्मी वरूथी दुन्दुभ्योऽऽहनन्यः प्रमृशाभिधः ॥ ८४ धृष्णुईतस्तीक्ष्णदंष्ट्रः सुधन्वा सुलभस्सुखी । स्रुत्यः पथ्यः स्वतन्त्रस्थः काट्योनीप्यः करोटिभृत् ॥ ८५ सूद्यस्सरस्यो वैशन्तो नाद्योऽवद्यश्च वार्षिकः । वैद्युत्यो विशदो मेध्यो रोष्मियो वास्तुपो वसुः ॥ ८६ अग्रेवधेऽग्रे सम्पूज्यो हन्ता तारो मयो भवः । मयस्करो महातीर्थ्यः कूल्यः पार्यः पदात्मकः ॥ ८७ शङ्ग प्रतरणोऽवार्यः फेन्यः शष्प्य: प्रवाहजः । मुनिरातार्य आलाद्यः सिकत्यश्चाथ किंशिलः ॥ ८८ पुलस्त्यः क्षयणो गृध्यो गोष्ट्यो गोपरिपालक: । शुष्क्यो हरित्यो लोप्यश्च सूर्म्यः पण्र्योऽणिमादिभूः ॥ ८९ पर्णशद्यः प्रत्यगात्मा प्रसन्नः परमोन्नतः । ५४० बृहत्स्तोत्ररत्नाकरे - प्रथमभाग:

शीघ्रियश्शीभ्य आनन्दः क्षयद्वीरश्शरोऽक्षरः ॥ ९० पाशी पातकसंहर्ता तीक्ष्णेषुस्तिमिरापहः । वराभयप्रदो ब्रह्मपुच्छो ब्रह्मविदां वरः ॥ ९१ ब्रह्मविद्यागुरुर्गुह्यो गुह्यकैस्समभिष्टुतः । कृतान्तकृत्क्रियाधारः कृती कृपणरक्षकः ॥ ९२ नैष्कर्म्यदो नवरस: त्रिस्थत्रिपुरभैरवः । त्रिमात्रकस्त्रिवृद्रूपः तृतीयस्त्रिगुणातिगः ॥ ९३ त्रिधामा त्रिजगद्धेतुः त्रिकर्ता तिर्यगूर्ध्वगः । प्रपञ्चोपशमो नामरूपंद्वयविवर्जितः ॥ ९४ प्रकृतीशः प्रतिष्ठाता प्रभवः प्रमथः प्रथी । सुनिश्चितार्थो राद्धान्तः तत्वमर्थस्तपोमयः ॥ ९५ हितः प्रमाता प्राग्वर्ती सर्वोपनिषदाशयः । विशृङ्खलो वियद्धेतुः विषमो विद्रुमप्रभः ॥ ९६ अखण्डबोधोऽखण्डात्मा घण्टामण्डलमण्डितः । अनन्तशक्तिराचार्य: पुष्कलस्सर्वपूरणः ॥ ९७ पुरजित्पूर्वजः पुष्पहासः पुण्यफलप्रदः ।

ध्यानगम्यो ध्यातृरूपः ध्येयो धर्मविदां वरः ॥९८
अवशः स्ववशः स्थाणुरन्तर्यामी शतक्रतुः ।
कूटस्थ: कूर्मपीठस्थः कूश्माण्डग्रहमोचकः ॥ ९९
कूलङ्कषकृपासिन्धुः कुशली कुङ्कुमेश्वरः ।
गदाधरो गणस्वामी गरिष्ठस्तोमरायुधः ॥१००
जवनो जगदाधारो जमदग्निर्जराहरः।
जटाधरोऽमृताधारोऽमृतांशुरमृतोद्भवः ॥ १०१
विद्वत्तमो विदूरस्थो विश्रमो वेदनामयः ।
चतुर्भुजश्शततनुः शमिताखिलकौतुकः ॥ १०२
वौषट्कारो वषट्कारो हुङ्कारः फट्करः पटुः ।
ब्रह्मिष्ठो ब्रह्मसूत्रार्थो ब्रह्मज्ञो ब्रह्मचेतनः ।। १०३
गायको गरुडारूढो गजासुरविमर्दनः ।
गर्वितो गगनावासो ग्रन्थित्रयविभेदनः ॥ १०४
भूतमुक्तावलीतन्तुः भूतपूर्वो भुजङ्गभृत् ।
अतर्क्यसूकरः सूरः सत्तामात्रस्सदाशिवः ॥ १०५
शक्तिपातकरश्शक्तः शाश्वतश्श्रेयसां निधिः ।

५४२ बृहत्स्तोत्ररलाकरे-प्रथमभाग:


अजीर्णस्सुकुमारोऽन्यः पारदर्शी पुरन्दरः ॥ १०६
अनावरणविज्ञानो निर्विभागो विभावसुः।
विज्ञानमात्रो विरजाः विरामो विबुधाश्रयः॥१०७
विदग्धमुग्धवेषाढ्यो विश्वातीतो विशोकदः ।
मायानाट्यविनोदज्ञो मायानट नशिक्षकः ॥ १०८
मायानाटककृन्मायी मायायन्त्रविमोचकः ।
वृद्धिक्षयविनिर्मुको विद्योतो विश्ववञ्च्कः ॥ १०९
कालास्मा कालिकानाथः काकेटिकविभूषणः ।
षडूर्मिरहितः स्तव्यः षड्गुणैश्वर्यदायकः ॥ ११०
षडाधारगत: सांख्यः षडक्षरसमाश्रयः।
अभिर्देश्योऽनिलो गम्योऽविक्रियोऽमोघवैभवः ॥
हेयादेयविनिर्मुक्तो हेलाकलितताण्डवः ।
अपर्यन्तोऽपरिच्छेद्योऽगोचरो रुग्विमोचकः॥११२
निरंशो निगमानन्दो निरानन्दो निदानभूः।.
आदिभूतो महाभूतः स्वेच्छाकलितविग्रहः ॥ ११३


.
नटेशसहस्रनामस्तोत्रम् ५४३


निस्पन्दः प्रत्यगानन्दो विनिर्मेषो निरन्तरः।
प्रबुद्धः परमोदारः परमानन्दसागरः ॥ ११४
संवत्सरः कलापूर्णः सुरासुरनमस्कृतः ।
निर्वाणदो निर्वृतिस्थो निर्वैरो निरुपाधिकः ॥ ११५
आभास्वरः परं तत्वमादिमः पशल: पविः ।
संशान्तसर्वसङ्कल्पः संसदीशस्सदोदितः ॥ ११६
भावाभावविनिर्मुक्तो भारूपो भावितो भरः।
सर्वातीतत्सारतरः साम्बस्सारस्वतप्रदः ॥
सर्वकृत्सर्वभृत्सर्वमयस्सत्वावलम्बकः ।
केवलः केशवः केलीकरः केवलनायकः॥ ११८
इच्छानिच्छाविरहितो विहारी वीर्यवर्धनः ।
विनिघत्यो विगतभीः विपिपासो विभावनः ।।
विश्रान्तिभूर्विवसनो विहनहन्ता विशोधकः ।
वीरप्रियो वीतभयो विन्ध्यदर्पविनाशनः ॥ १२०
वेतालनटनप्रीतो वेतण्डत्वकृताम्बरः ।
वेलातिलङ्घिकरणो विलासी विक्रमोन्नतः ॥ १२१
Braha-18

५४४ बृहत्स्तोत्ररत्नाकरे - प्रथमभाग:

वैराग्यशेवधिर्विश्वभोक्ता सर्वोर्ध्वसंस्थितः । महाकर्ता महाभोक्ता महासंविन्मयो मधुः॥१२२ मनोवचोभिरग्राह्यो महाबिलकृतालयः । अनहङ्कृतिरछेद्यः स्वानन्दैकघनाकृतिः ॥ १२३ संवर्ताग्न्युदरस्सर्वान्तरस्थत्सर्वदुर्ग्रहः । . सम्पन्नस्सङ्क्रमत्सत्री सन्धाता सकलोर्जितः ॥ सम्प्रवृद्धरसन्निकृष्टः संविमृष्टस्समुत्सुकः । संघमस्थस्सन्दुर्दिस्थः सम्प्रविष्टस्समुत्सुकः ॥ १२५ सम्प्रदुष्टस्सन्निविष्टः संस्पृष्टस्सम्प्रमर्दनः सूत्रभूतस्वप्रकाश: समशीलस्सदादयः ।। सत्वसंस्थस्सुषुप्तिस्थः सुतल्पस्सत्वरूपगः । सङ्कल्पोल्लासनिर्मुक्तः समनीरागचेतनः ॥ १२७ आदित्यवर्णस्संज्योतिः सम्यग्दर्शनतत्परः महातात्पर्यनिलयः प्रत्यग्ब्रह्मैक्यनिश्चयः ॥ १२८ प्रपञ्चोल्लासनिर्मुक्तः प्रत्यक्षा प्रतिभात्मकः। प्रवेगः प्रमदार्धाङ्गः प्रनर्तनपरायणः ।। १२९

योगयोनिर्यथाभूतो यक्षगन्धर्ववन्दितः ।
जटिलश्चटुलापाङ्गो महानटनलम्पटः॥ १३०
पाटलांशु पटुतरः पारिजातस्य मूलगः
पापाटवीबृहद्भानुः भानुमत्कोटिकोटिभः ॥ १३१
कोटिकन्दर्पसौभाग्यसुन्दरो मधुरस्मितः।
लास्यामृताब्धिलहरीपूर्णेन्दुः पुण्यगोचरः ॥ १३२
रुद्राक्षस्रङ्मयाकल्पः कल्हारकिरणद्युतिः ।
अमूत्यमणिसम्भावस्फणीन्द्रकरकङ्कणः ॥
चिच्छक्तिलोचनानन्दकन्दलः कुन्दपाण्डुरः ।
अगम्यमहिमाम्भोधिरनौपम्ययशोनिधिः ॥ १३४
चिदानन्दनटाधीश: चित्केवलवपुर्धरः ।
चिदेकरससम्पूर्णः श्रीशिवः श्रीमहेश्वरः ॥
॥ इति श्रीनटेशसहस्त्रनामस्तोत्रं सम्पूर्णम् ॥

वामे भूधरजा पुरश्च वृषराट् पश्चान्मुनिर्जैमिनिः
श्रीमद्व्यासपतञ्जलीत्युभयतः वाय्वादिकोणेषु च |
श्रीमतिल्लवनैकवासिमखिनः ब्रह्मादिवृन्दारकाः मध्ये
स्वर्णसभापतिर्विजयते ह्रुत्पुण्डरीके पुरे ॥

॥ श्रीनटेशार्पणमस्तु॥
॥शिवं भूयात्.॥

॥ श्री नटेशपश्चरत्नम् ॥
श्रीमच्चिदम्बरनटात् नटराजराजात्
विद्याधिपात् विविधमङ्गलदानशौण्डात् ।
पूर्णेन्दुसुन्दरमुखात् द्विजराजचूडात्
भर्गात्परं किमपि तत्वमहं न जाने ।
डक्काविभूषितकरात् विषनीलकण्ठात्
फुल्लारविन्दनयनात् फणिराजवन्द्यात् ।
व्याघ्रांघ्रिपूज्यचरणात् शिवकुञ्चिताङ्ग्रेः
शम्भोः परं किमपि तत्वमहं न जाने॥