नटेशपञ्चरत्नम्

विकिस्रोतः तः
नटेशपञ्चरत्नम्
अज्ञातः
१९५३

श्री नाथमृग्यचरणात् विधिमृग्यचूडात्
श्री पुण्डरीकनिलयात् श्रितदुःखनाशात् ।
श्रीमद्गृहस्य जनकात् सुखटत्तराजात्
श्रीशात्परंकिमपि तत्वमहं न जाने ॥ ३
श्रीमद्गणेशजनकात् मखिबृन्दपूज्यात्
तिल्लाटवीसुनिलयात् त्रिपुराम्बिकेशात् ।
व्याघ्राजिनाम्बरधरात् उरुरोगनाशात्
रुद्रात्परं किमपि तत्वमहं न जाने ।|
श्रीमद्व्याघ्रपुरेश्वरात् फणिराजभूषात्
संसाररोगभिषनः निखिलाण्डपालात् ।
श्रीमद्धेमसभेश्वरात् ललिताम्बिकेशात्
स्थाणोः परं किमपि तत्वमहं न जाने ॥

पञ्चरत्नं नटेशस्य सोमशेखर यज्वभिः।
संस्तुतं यः पठेन्नित्यं शाश्वतं तस्य मङ्गलम् ॥ ६

"https://sa.wikisource.org/w/index.php?title=नटेशपञ्चरत्नम्&oldid=320264" इत्यस्माद् प्रतिप्राप्तम्