सामग्री पर जाएँ

धर्मस्कन्धः

विकिस्रोतः तः
धर्मस्कन्धः
[[लेखकः :|]]


१. (अविद्याप्रत्ययाः संस्काराः)

(३ १) संमोहः प्रमोहो मोहं मोहजमियमुच्यते अविद्या <।> अविद्याप्रत्ययाः संस्काराः कतमे <।> एवमुक्तं भगवता <।>

अविद्या भिक्षवो हेतुः संरागाय हेतुः संद्वेषाय हेतुः सं<मोहाय । इति> (३ २) या सा संरागता संमोहता इयमुच्यते अविद्याप्रत्ययाः संस्काराः <।>

अपि खल्वेवमुक्तं भगवता <।>

अविद्या भिक्षवः पूर्वंगमं पूर्वनिमित्तमनेकविधानां पाप<कानामकुशला>नां (३ ३) धर्माणां समुत्पत्तयेऽनूत्पातिको भवति यदुत आःरीक्यं चानपत्राप्यं च <।> अह्रीमान् भिक्षवो भिक्षुरनपत्रापी मिथ्यादृष्टिको भवति <।> तत्र भिक्षवो मिथ्या मिथ्यादृष्ट्या मिथ्यासंकल्पो भव<ति ।>

<मिथ्या>संकल्पान् (३ ४) मिथ्यावाचं भाषति <।> मिथ्यावाचो मिथ्याकर्मान्तः प्रभवति <।> मिथ्याकर्मान्तान्मिथ्याजीवः प्रभवति <।> मिथ्याजीवान्मिथ्याव्यायामः प्रभवति <।> मिथ्याव्याया<मा>न्मिथ्यास्मृति<ः> प्रभवति <। मिथ्यास्मृ>तेर्(३ ५) मिथ्यासमाधिः प्रभवति <।> इति या सा मिथ्यादृष्टिर्मिथ्यासंकल्पो मिथ्यावाङ्मिथ्याकर्मान्तो मिथ्याजीवो मिथ्याव्यायामो मिथ्यास्मृतिः मिथ्यासमाधिरिम उच्यन्ते अविद्या<प्रत्ययाः> (३ ६) संस्काराः <।>

अपि खल्वेवमुक्तं भगवता <।>

ये के चिद्भिक्षवोऽनेकविधाः पापका अकुशला धर्माः संभवन्ति सर्वे ते अविद्यामूलका अविद्यासमुदया अविद्याजातीया <अविद्या>पृष्ठरभवा <।> (३ ७) अविदागतो हि भिक्षवः अजानन् कुशलाकुशलान् धर्मान् यथाभूतं न प्रजानाति सावद्यानवद्यान् सेवितव्यासेवितव्यान् हीनप्रणीतान् कृष्णशुक्लान् सप्रतिभागप्रती<त्यसमु>त्पन्नान् (३ ८) धर्मान् यथाभूतं न प्रजानाति <।> स एवं कुशलाकुशलान् धर्मान् यथाभूतमप्रजानन् सावद्यानवद्यान् सेवितव्यासेवितव्यान् हीनप्रणीतकृष्णशुक्लसप्रतिभागप्र<तीत्यस>मुत्पन्नान् (३ ९) धर्मान् यथाभूतमप्रजानन्मिथ्यादृष्टिको भवति <।> तत्र भिक्षवो मिथ्यादृष्ट्या मिथ्यासंकल्पः प्रभवति विस्तरेण यथा पूर्वोक्तं <।> इम उच्यन्ते अविद्याप्रत्ययाः <स>ं<स्काराः ।>

(३ १) अपि खल्वेवमुक्तं भगवता कुंभोपमे व्याकरणे <।>

पुण्यानपि संस्कारानभिसंस्करोति अविद्याप्रत्ययान् <।> अपुण्यानप्यानिंज्यानपि संस्कारानभिसंस्करोति <।> अविद्याप्रत्ययाः पुण्यसंस्का<राः कतमे । आह कुशलं कायकर्म> (३ २) वाक्कर्म कुशलाश्चित्तचैतसिका धर्माः कुशलाश्चित्तविप्रयुक्ताः संस्काराः <।> यदपि तत्कुशलस्य कायकर्मवाक्कर्मणः कुशलानां चित्तचैतसिकानां कुशलानां चित्तविप्रयुक्तानां संस्काराणां दीर्घरात्रं <इष्टं कान्तं प्रि>यं (३ ३) मनापं विपाकं प्रतिसंवेदयते तदिदमुच्यते पुण्यमिति वा पुण्यफलमिति वा पुण्यफलविपाकमिति वा <।>

अपुण्याः संस्काराः कतमे <।> आहाकुशलं कायकर्मवाक्कर्म अकुशलाश्चित्तचैतसिका धर्माः अकु<शलाश्चि>त्तविप्रयुक्ता<ः> (३ ४) संस्कारा <।> यदपि तदकुशलस्य कायकर्मवाक्कर्मणः अकुशलानां चित्तचैतसिकानां धर्माणामकुशलानां चित्तविप्रयुक्तानां संस्काराणां दीर्घरात्रमनिष्टमकान्तमप्रियममनापं प्रतिसंवे<दयते त>द्(३ ५) उच्यते अपुण्यमिति वा अपुण्यफलमिति वा अपुण्यफलविपाकमिति वा <।> इम उच्यन्ते अपुण्याः संस्काराः <।>

आनिंज्याः संस्कारा<ः> कतमे <।> आह । चत्वार्यारूप्याण्यानिंज्यमित्युच्यते ॥

कथमपुण्यान् संस्कारान<भिसंस्कुरु>ते (३ ६) अविद्याप्रत्ययान् <।> आह । यथा खल्विहैकत्यो रागपर्यवस्थितो द्वेषपार्यवस्थितो मोहपर्यवस्थितः कायेन दुश्चरितं चरति वाचा मनसा दुश्चरितं चरति <।> इतीमे ते अकुशलाः कायसंस्कारा <वाक्संस्कारा> (३ ७) मनःसंस्कारा <।> इम उच्यन्ते अपुण्या<ः> संस्कारा <।> यदपि तद्धेतोस्तत्प्रत्ययं कायस्य भेदान्नरकेषूपपद्यन्ते । तत्र च संस्कारानभिनिर्वर्तयन्ते <।> एवमपुण्यान् संस्कारानभिसंस्करोति अविद्याप्रत्य<यान् ।>

<यथा> (३ ८) नरकेष्वेवं तिर्यक्प्रेतेषु ।

कथं पुण्यान् संस्कारानभिसंस्करोति अविद्याप्रत्ययान् <।> आह । यथा खल्विहैकत्यो मनुष्यसुखकेष्ववेक्षावान् भवति प्रतिबद्धचित्तस्<।> तस्यैवं भवत्य्<।> अहो बताहं मनुष्यसुखकानां <सभागता>याम् (३ ९) उपपद्येयमिति <।> स तं प्रार्थयमानस्तद्धेतुकं संवर्तनीयं कायेन सुचरितं चरति वाचा मनसा सुचरितं चरति <।> इति ये ते कुशलाः कायसंस्कारा वा वाक्संस्कारा वा मनःसंस्कारा वा <इम उच्यन्ते पु>ण्याः (३ १०) संस्काराः <।> यदपि तद्धेतु तत्प्रत्ययं कायस्य भेदान्मनुष्यसुखकानां सभागतायामुपपद्यते <।> तत्र च संस्कारानभिनिर्वर्तयत्य्<।> एवं पुण्यान् संस्कारानभिसंस्करोति अविद्याप्रत्ययान् <। न्>अ है<वावेक्षावा>न् (४ १) भवति प्रतिबद्धचित्तः <।> अपि त्वविद्यायां सत्यामविद्यासंचेतनाहेतोः कायेन सुचरितं चरति वाचा मनसा सुचरितं चरति <।> इति ये ते कुशलाः कायसंस्कारा विस्तरेण यावन्मनुष्यसुखकानां सभागताया<मुपपद्यते ।> (४ २) तत्र च संस्कारानभिसंवर्तयत्य्<।> एवं पुण्यान् संस्कारानभिसंस्कुरुते अविद्याप्रत्ययान् <।>

यथा मनुष्यसुखकानामेवं चातुर्महाराजकायिकानां त्रयस्त्रिंशानां यामानां तुषितानां निर्माणरतीनां परनिर्मितव<शवर्तिनाम् ।>

(४ ३) यथा खल्विहैको ब्रह्मकायिकानां देवानामवेक्षावान् भवति प्रतिबद्धचित्तः <।> तस्यैवं भवति <।> अहो बताहं ब्रह्मकायिकानां देवानां सभागतायामुपपद्येयं <।> स तं प्रार्थयमानः तद्धेतोस्तत्संवर्तनीयं विविक्तं का<मैर्विवि>क्तं (४ ४) पापकैरकुशलैर्धर्मैः सवितर्कं सविचारं विवेकजं प्रीतिसुखं प्रथमं ध्यानमुपसंपद्य विहरति <।> तथा समापन्नस्य यत्कायसंवरो वाक्संवरः आजीवपरिशुद्धिः इम उच्यन्ते पुण्याः संस्काराः <।> यदपि <तद्धेतोस्त>त्प्रत्ययं (४ ५) कायस्य भेदाद्ब्रःमकायिकानां देवानां सभागतायामुपपद्यते <।> तत्र च संस्कारानभिनिर्वर्तयति <।> एवं पुण्यान् संस्कारानभिनिर्वर्तयत्यविद्याप्रत्ययान् <।> न हैवावेक्षावान् भवति प्रतिबद्धचि<त्तः । अपि> (४ ६) त्वविद्यायां सत्यामविद्यासंचेतनाहेतोर्विविक्तं कामैर्यावत्प्रथमं ध्यानमुपसंपद्य विहरति <।> तथा समापन्नस्य यः कायसंवरो वाक्संवरः <।> विस्तरेण यावत्<।> तत्र च संस्कारानभिनिर्वर्तयति <। एवं पुण्यान्> (४ ७) संस्कारानभिनिर्वर्तयत्यविद्याप्रत्ययान्*<।>

यथा ब्रह्मकायिकानामेवं ब्रह्मपुरोहितानां महाब्रःमाणां परीत्ताभानामप्रमाणाभाना<मा>भास्वराणां परीत्तशुभानामप्रमाणशुभानां शुभकृत्स्नानाम<नभ्रका>णां (४ ८) पुण्यप्रसवानां बृहत्फलानां <।> एषु सर्वेषु यथायोग्यानि ध्यानानि वक्तव्यानि <।>

यथा खल्विहैकत्यः असंज्ञिसत्वानां देवानामवेक्षावान् भवति प्रतिबद्धचित्तः <।> तस्यैवं भवत्य्<।> अहो बताहमसंज्ञिस<त्त्वानां देवा>नां (४ ९) सभागतायामुपपद्येयं <।> स तं प्रार्थयमानस्तद्धेतोस्तत्संवर्तनीयं संज्ञामौदारिकतो दुःखिलतः स्थूलभित्तिकतो मनसिकरोति आसंज्ञिकं च शान्ततः प्रणीततो निःसरण<तः । तस्य संज्ञामौ>दारिकतो (४ १०) दुःखिलतः स्थूलभित्तिकतो मनसिकुर्वतः आसंज्ञिकं च शान्ततः प्रणीततो निःसरणतः संज्ञा अन्तरायत्यासंज्ञिकं च संस्थिहति <।> यत्रास्य संज्ञा अन्तरायत्यासंज्ञिकं <संस्थिहत्येता>वद्(४ १) असंज्ञिसमापत्तिं समापन्न इति वक्तव्यं <।> तथा समापन्नस्य यः कायसंवरो वाक्संवरः आजीवविशुद्धिरिम उच्यन्ते पुण्याः संस्काराः <।> यदपि तद्धेतोस्तत्प्रत्ययं कायस्य भे<दादसं>ज्ञ्<इसत्त्वानां सभा>गतायाम् (४ २) उपपद्यते । तत्र च संस्कारानभिसंनिर्वर्तयत्यविद्याप्रत्ययान् <।> न हैवावेक्षावान् भवति प्रतिबद्धचित्तो <।>ऽपि त्वविद्यायां सत्यामविद्याभिसंचेतनाहेतोः संज्ञामौदारिकतो दुःखिलतः <स्थूलभित्तिकतो> (४ ३) मनसिकुरुते आसंज्ञिकं च शान्ततः प्रणीततो निःसरणतः <।> तस्य विस्तरेण यावदासंज्ञिकं संस्थिहत्येतावतसंज्ञिसमापत्तिं समापन्न इति वक्तव्यं <।> तथा समापन्नस्य यः कायसंवरो <। विस्तरे>ण (४ ४) यावत्<।> तत्र च संस्कारानभिनिर्वर्तयत्य्<।> एवं पुण्यान् संस्कारानभिसंस्करोत्यविद्याप्रत्ययान् <।>

कथमानिंज्यान् संस्कारानभिसंस्करोत्यविद्याप्रत्ययान् <।> आह । यथा खल्विहैकत्यः आकाशानन्त्यायत<नानां देवाना>म् (४ ५) अवेक्षावान् भवति प्रतिबद्धचित्तः <।> तस्यैवं भवत्य्<।> अहो बताहमाकाशानन्त्यायत<ना>नां देवानां सभागतायामुपपद्येयं <।> स तं प्रार्थयमानः तद्धेतोस्तत्संवर्तनीयं सर्वशो रूपसं<ज्नानाम>तिक्रमात्(४ ६) प्रतिघसंज्ञानामस्तंगमान्नानात्वसंज्ञानाममनसिकारादनन्तमाकाशमित्याकाशानन्त्यायतनमुपसंपद्य विहरति <।> तथा समापन्नस्य या चेतना चेतितं चेतनामितं <चेतयि>तत्वं (४ ७) चेतनागतं चित्ताभिसंस्कारो मनस्कर्म इम उच्यन्ते आनिंज्याः संस्काराः <।> यदपि तद्धेतोस्तत्प्रत्ययं कायस्य भेदादाकाशानन्त्यायतनानां देवानां सभागतायामुपपद्यते त<त्र च सं>स्कारान् (४ ८) अभिनिर्वर्तयत्य्<।> एवमानिंज्यान् संस्कारानभिनिर्वर्तयत्यविद्याप्रत्ययान् <।> न हैवावेक्षावान् भवति प्रतिबद्धचित्तः <।> अपि त्वविद्यायां सत्यामविद्याभिसंचेतनाहेतोः सर्वशो रूपसंज्ञानां <समति>क्रमाद्(४ ९) विस्तरेण यावदाकाशानन्त्यायतनमुपसंपद्य विहरति <।> तथा समापन्नस्य या चेतना विस्तरेण इम उच्यन्ते आनिंज्याः संस्कारा <।> यदपि तद्धेतोस्तत्प्रत्ययं कायस्य भेदा<दा>काशा<नन्त्यायत>नानां (४ १०) देवानां सभागतायामुपपद्यते <।> तत्र च संस्कारानभिनिर्वर्तयत्य्<।> एवमानिंज्यान् संस्कारानभिनिर्वर्तयत्यविद्याप्रत्ययान्* <।>

यथाकाशानन्त्यायतनानामेवं विज्ञानानन्त्यायतनानामा<किंचन्याय>तनानां (५ १) नैवसंज्ञानासंज्ञायतनानामेतेषां प्रत्येकप्रत्येकसः आरूप्या वक्तव्या <।> इति ये ते संस्कारा अविद्यामागम्याविद्यां निश्रित्याविद्यां प्रतिष्ठाय उत्पद्यन्ति समुत्पद्यन्ते जायन्ति संजायन्ति <समुदागच्छन्ति> (५ २) प्रादुर्भवन्ति इम उच्यन्ते अविद्याप्रत्ययास्संस्काराः ॥

२. (संस्कारप्रत्ययं विज्ञानं)

उद्दानं <।>

हेतुः पूर्वंगमं बलं संस्काराः कुम्भेन <।>
चतुष्कम् ॥
उद्दानं <।>
लोभः अलोभः अथ चक्षुः संस्कृतं कुम्भोपमेन <।>
द्वितीयं चतुष्कम् ॥

संस्का<रप्रत्ययं> (५ ३) विज्ञानं कतमद्<।> आह । यथ तावल्लोभसहजां वेदनां प्रतीत्य लोभसहजस्य विज्ञानस्याभिनिर्वृत्तिर्भवति प्रादुर्भावश्च द्वेषसहजां मोहसहजां वेदनां प्रतीत्य मोहसहजस्य विज्ञान<स्याभिनिर्वृत्तिर्भव>ति (५ ४) प्रादुर्भावः <।> तदुच्यते संस्कारप्रत्ययं विज्ञानं <।> अपि खलु चक्षुः प्रतीत्य रूपाणि चोत्पद्यते चक्षुर्विज्ञानं <।> तत्र चक्षुःसंस्कृतं रूपाणि च बाह्यं प्रत्ययं चक्षुर्विज्ञानस्य तदुच्यते संस्कार<प्रत्ययं विज्नानम् ।> (५ ५) श्रोत्रघ्राणजिह्वाकायमनः प्रतीत्य धर्मांश्चोत्पद्यते मनोविज्ञानं <।> तत्र मनःसंस्कृतं धर्माश्च बाह्यं प्रत्ययं मनोविज्ञानस्य तदुच्यते संस्कारप्रत्ययं विज्ञानं <।> अपि खल्वेवमुक्तं <भगवता कुम्भो>पृष्ठअमेस्मिन् (५ ६) व्याकरणे <।>

तस्य पुण्यान् संस्कारानभिसंस्कृत्य पुण्योपगं भवति विज्ञानं <।> अपुण्यानानिंज्यान् संस्कारानभिसंस्कृत्यानिंज्योपगं भवति विज्ञानं <।>

कथमपुण्यं <।> आह <।> यथा ख<ल्विहैकत्यो राग>पृष्ठअर्यवस्थितो (५ ७) द्वेषपर्यवस्थितो मोहपर्यवस्थितः कायेन दुश्चरितं चरति वाचा मनसा दुश्चरितं चरति <।> इति ये ते अकुशलाः कायसंस्कारा वाक्संस्कारा मनःसंस्कारा इ<म उच्यन्तेऽपु>ण्याः (५ ८) संस्काराः <।> यदपि तद्धेतोस्तत्प्रत्ययं कायस्य भेदान्नरकेषूपपद्यते <।> तत्र च विज्ञानमभिनिर्वर्तयति <।> एवमपुण्यान् संस्कारानभिसंस्कृत्यापुण्योपगं विज्ञानं भवति <।>

यथा न<रकेषु तिर्यक्प्रे>तेषु (५ ९) <।>

कथं पुण्यानभिसंस्कारानभिसंस्कृत्य पुण्योपगं भवति विज्ञानं <।> आह । यथा खल्विहैकत्यो मनुष्यसुखकेष्ववेक्षावान् भवति प्रतिबद्धचित्तः <।> विस्तरेण यावत्<।> तत्र च विज्ञानमभि<निर्वर्तयति । ए>वं (५ १०) पुण्यान् संस्कारानभिसंस्कृत्य पुण्योपगं भवति विज्ञानं <।>

यथा मनुष्यसुखकानामेवं यावत्परनिर्मितवशवर्तिनां ब्रह्मकायिकानां विविक्तं कामैर्विविक्तं तत्र च विज्ञानमभि<निर्वर्तयति ।> (५ ११) (अबोउत्६५-७० अक्षरसिल्लेगिब्ले)

(५ १) यावद्बृहत्फलानां सर्वेषु प्रतिप्रतिध्यानानि वक्तव्यानि <।>

कथमानिंज्यान् संस्कारानभिसंस्कृत्यानिंज्योपगं भवति विज्ञानं <।> आह <।> यथा खल्विहैकत्य आकाशानन्त्यायतनानां देवानामवे<क्षावान् भवति प्रति>बद्धचित्तो (५ २) विस्तरेण तत्र च विज्ञानमभिनिर्वर्तयति <।> एवं यावन्नैवसंज्ञानासंज्ञायतनानामिति यावद्विज्ञानं संस्कारानागम्य विस्तरः ॥


३. (विज्ञानप्रत्ययं नामरूपं)

लोभसहजं विज्ञानमलोभसहजं तथा
नादि<कफल्गुनवा>दं (५ ३) स्वातिरानन्द एव च ।
उद्दानम् ॥

विज्ञानप्रत्ययं नामरूपं कतरद्<।> आह <।> यथा तावल्लोभसहजं विज्ञानं प्रतीत्य लोभसहजस्य कायकर्मवाक्कर्मणोऽभिनिर्वृत्तिर्भवति प्रादुर्भा<वश्च लोभस>हजा (५ ४) विविधा उत्पद्यन्ते रूपि विकृतं <।> य इदं रूपस्य तज्जा वेदना संज्ञा संस्कारा विज्ञानमिदं नामस्य विज्ञानप्रत्ययं नामरूपस्य <।> तदुच्यते विज्ञानप्रत्ययं नामरूपं <।>

एवं <लोभसहजं> (५ ५) मोहसहजं विपर्ययेण शुक्लपक्षेष्वलोभसहजममोहसहजं वक्तव्यं <।>

अपि खल्वेवमुक्तं भगवता नादिकाववादव्याकरणे <।>

प्रियाणां नादिक ज्ञातीनां विपरिणामा<न्यथीभा>वाद्(५ ६) उत्पद्यन्ते शोकाः परिदेवा दुःखदौर्मनस्योपायासाः <।>

इत्येतच्छोकसहजं विज्ञानं प्रतीत्य शोकसहजस्य कायवाक्कर्मणोऽभिनिर्वृत्तिर्भवति प्रादुर्भावः <। यदिदं रूपस्य तज्जा> (५ ७) वेदना संज्ञा संस्कारा विज्ञानं <।> इदं नामस्य विज्ञानं विज्ञानस्य प्रत्ययं नामरूपस्य <।> तदुच्यते विज्ञानप्रत्ययं नामरूपं <।>

अपि खल्वेवमुक्तं भगवता फल्गुनाववादे व्याक<रणे ।>

<विज्नानं> (५ ८) फल्गुन आहारं यावदेवायत्यां पुनर्भवस्याभिनिर्वृत्तये प्रादुर्भावाय <।>

तत्कतरद्विज्ञानं <।> आह <।> यत्तद्गन्धर्वस्य चरमं चित्तं मनोविज्ञानमाचितमुपचितं प्रतिष्ठितमप्रह<तमपरिज्ञा>तं (५ ९) अनिरोधितमशान्तीकृतं <।> यस्य विज्ञानस्य समनन्तरं मातुः कुक्षौ कललात्मभावोऽभिसंमूर्च्छति <।> कललमात्मभावमभिसंमूर्च्छतीति <।> इदं रूपस्य तज्जा वेदना संज्ञा संस्का<रास्तज्जं> (५ १०) विज्ञानमिदं नामस्य विज्ञानप्रत्ययं नामरूपस्य <।> तदुच्यते विज्ञानप्रत्ययं नामरूपं <।>

अस्ति खल्वेवमुक्तं भगवता स्वातिं भिक्षुं कैवर्तपूर्विणमारभ्य <।>

त्रयाणां भि<क्षवः> (६ १) सन्निपातान्मातुः कुक्षौ गर्भस्यावक्रान्तिर्भवति <।> कतमेषां त्रयाणां <।> इह भिक्षवो मातापितरौ रक्तौ भवतः सन्निपतितौ माता च कल्या भवति ऋतुमती गन्धर्वश्च प्रत्युपस्थितो (६ २) भवति <।> इमेषां भिक्षवस्त्रयाणां सन्निपातान्मातुः कुक्षौ गर्भस्यावक्रान्तिर्भवति <।>

इति यत्तद्गर्भस्य चरमं चित्तं मनोविज्ञानं विस्तरेण यावद्विज्ञानप्रत्यययं (६ ३) नामरूपस्य <।> तदुच्यते विज्ञानप्रत्ययं नामरूपं <।>

अस्ति खल्वेवमुक्तं भगवता महानिदानपर्याये व्याकरणे आयुष्मते आनन्दाय <।>

अस्ति प्रत्ययमानन्द नामरूपं <।> (६ ४) पृष्टे सति अस्तीत्यस्य वचनीयं <।> किंप्रत्ययमानन्द नामरूपं <।> विज्ञानप्रत्ययमिति स्याद्वचनीयं <।>

विज्ञानप्रत्ययमानन्द नामरूपं <।> इति मया यदुक्तम् (६ ५) इदं मे तत्प्रत्युक्तं <।> विज्ञानं चेदानन्द मातुः कुक्षौ नावक्रमिष्यदपि नु नामरूपं कललत्वं हि संमुर्च्छिष्यत्* <।> नो भदन्त <।> विज्ञानं चेदानन्द मातुः कुक्षौ नावक्रमित्वा पुन<र्न व्यु>त्क्रमिष्यत्* (६ ६) अपि नु नामरूपमिमं धातुमागमिष्यन् <।> नो भदन्त <।> विज्ञानं चेदानन्दादावेव दःर<म>स्य तरुणस्य कुमारकस्य उच्छिद्येत विनश्येत न भवेत अपि नु नामरू<पं वि>रूढिं (६ ७) वैपुल्यतामापद्येत <।> नो भदन्त <।> सर्वशो वा पुनः सर्वश आनन्द विज्ञाने असति न नामरूपं प्रज्ञायेत <।> नो भदन्त <।> तस्माद्धि आनन्द एतन्निदानमेष हेतुः एष प्रत्ययो ना<मरूपस्य> (६ ८) यदुत विज्ञानं <।> विज्ञानप्रत्ययमानन्द नामरू<प>म् <।> इति मया यदुक्तमिदं मे तत्प्रत्युक्तम् ॥


४. (नामरूपप्रत्ययं विज्ञानं)

उद्दानम् ॥

द्वयप्रत्ययात्* विज्ञानं फल्गुनः स्वातिरेव च
रागजं द्वेषमोहश्च आनन्दो भवति + +

(६ ९) नामरूपप्रत्ययं विज्ञानं कतरद्<।> आह <।> चक्षुः प्रतीत्य रूपाणि चोत्पद्यते चक्षुर्विज्ञानं <।> तत्र यच्चक्षुर्यानि च रूपाणि इदं रूपस्य तज्जा वेदना संज्ञा संस्कारा विज्ञानं <।> इदं ना<मरूपस्य> (६ १०) मनसिकारं नामप्रत्ययस्य मनोविज्ञानस्य <।> तदुच्यते नामरूपप्रत्ययं मनोविज्ञानं <।>

एवं श्रोत्रं घ्राणं जिह्वां कायं <।>

मनः प्रतीत्य धर्मांश्चोत्पद्यते <मनोविज्ञानम् ।> (६ १) तत्र ये रूपिणो मनोविज्ञेया धर्मा इदं रूपस्य तज्जा वेदना संज्ञा संस्काराः तज्जं विज्ञानं <।> इदं नामरूपस्य तज्जं मनसिकारं नामप्रत्ययस्य मनोविज्ञानस्य <।> तदुच्यते नामरूपप्रत्य<यं मनोविज्ञानम् ।
अपि> (६ २) खल्वेवमुक्तं भगवता फल्गुनाववादे व्याकरणे । विज्ञानं फल्गुनाहारं यावदेवायत्यां पुनर्भवस्याभिनिर्वृत्तये प्रादुर्भावाय <।>

तत्कतरद्विज्ञानं <।> आह । यत्तद्गन्धर्वस्य चरमं चित्तं वि<स्तरेण यावद्> (६ ३) यस्य गन्धर्वस्य समनन्तरं मातुः कुक्षौ कललमात्मभावं संमूर्च्छति <।> कललमात्मभावं संमूर्च्छतीति <।> इदं रूपस्य तज्जा वेदना संज्ञा संस्कारास्तज्जं विज्ञानमिदं नामस्य <।> इत्येतदयोनिशोम<नसिकारस>हजं (६ ४) नामरूपं प्रतीत्य मातुः कुक्षौ विज्ञानस्याभिनिर्वृत्तिर्भवति प्रादुर्भावस्<।> तदुच्यते नामरूपप्रत्ययं विज्ञानं <।>

अपि खल्वेवमुक्तं भगवता स्वातिं भिक्षुं कैवर्तपूर्विणमारभ्य <।>

त्रयाणां <भिक्षवः स>न्निपातान् (६ ५) मातुः कुक्षौ गर्भस्यावक्रान्तिर्भवति <।> विस्तरेण यावद्<।> इत्येवमयोनिशोमनसिकारेण सहजं नामरूपं प्रतीत्य मातुः कुक्षौ विज्ञानस्यावक्रान्तिर्भवति प्रादुर्भावस्<।> तदु<च्यते नामरू>पृष्ठअप्रत्ययं (६ ६) विन्ज्ञानं <।>

अपि खल्वेवमुक्तं भगवता महानिदानपर्याये <।>

विस्तरेण यावद्<।> विज्ञानं चेदानन्द नामरूपप्रतिष्ठां न लभेत तथाप्रतिष्ठिते विज्ञाने अनतिरूढे + + + + + (६ ७) भवसमुदयसमुत्थापकं जातिजरामरणमभिनिर्वर्तेत <।> नो भदन्त <।> सर्वशो वा पुनरानन्द नामरूपे असति अपि नु विज्ञानं प्रज्ञायेत <।> नो भदन्त <।> तस्मादानन्द (६ ८) एतन्निदानं विस्तरेण यथा पूर्वोक्तं <।>


५. (नामरूपप्रत्ययं षडायतनम्)

उद्दानं <।>

शीतमुष्णं च भोज्य<ं> च पानमुद्वर्तनं तथा
शीतोदिका पुष्करिणी स्वातिरेव च रागजं
द्वेषजं चैव मोहजं भवति पश्चिमम् ॥

(६ ९) नामरूपप्रत्ययं षडायतनं कतरद्<।> आह । यथा खल्विहैकत्यः शीतप्रचुरादुष्णं गच्छति <।> तस्य तत उत्पद्य<न्>ते उष्णसहजानि महाभूतानि <।> तत्र यानि च उष्णसहजानि (६ १०) महाभूतानि इदं रूपस्य तज्जा वेदना संज्ञा संस्कारा विज्ञानमिदं नामस्य <।> इत्येतच्छीतसहजं नामरूपं प्रतीत्य चक्षुरिन्द्रियस्योपचयो भवति <।>

(७ १) <एवं श्रोत्रं घ्राणं> जिह्वा कायो मनोऽपि तत्र उपचीयते <।> तदुच्यते नामरूपप्रत्ययं षडायतनम् <।> इति एष उष्णप्रचुराच्छीतं <।>

यथा खल्विहैकत्यो जिघत्सादौर्बल्यपरीतः शुचि प्राणीतं खादनीयं भोजनीय<ं खादयति । तस्य> (७ २) <तत> उत्पद्यन्ते भोजनसहजानि महाभूतानि <।> तत्र यच्च भोजनं यानि च भोजनसहजानि महाभूतानि इदं रूपस्य तज्जा वेदना <।> विस्तरेण यथा पूर्वोक्तं <।>

यथा खल्विहैकत्यस्तृषितः क्लान्तः पि<पासितः> (७ ३) शुचि शीतलं पानीयं पिबति <।> तस्य तत उत्पद्यन्ते पानसहजानि महाभूतानि <।> विस्तरः <।>

यथा खल्विहैकत्यः उत्सदनपरिमर्दनसंवाहनायोगमनुयुक्तो विहरति <।> तस्य तत उत्पद्यन्ते उत्सद<नप>रिमर्दनसंवाहनसहजानि (७ ४) महाभूतानि <।> तत्र यच्च उत्सदनं परिमर्दनसंवाहनं यानि च उत्सदनपरिमर्दनसंवाहनसहजानि महाभूतानि इदं रूपस्य तज्जा वेदना संज्ञा संस्कारास्तज्जं वि<ज्ञा>नम् (७ ५) इदं नामस्य <।> विस्तरः <।>

यथा खल्विहैकत्यो ग्रीष्माभितप्तो ग्रीष्मपरीतस्तृषितः क्लान्तः पिपासितः वातातपपरिद्यूनः शीतोदिकां पुष्करिणीमवगाहयेत्* <।> तस्य तत उ<त्पद्यन्ते> (७ ६) शीतसहजानि महाभूतानि <।> तत्र च यच्च शीतं यानि च शीतसहजानि महाभूतानि {।} तस्य तज्जा वेदना <।> विस्तरः <।>

अपि खल्वेवमुक्तं भगवता फल्गुनाववादे व्याकरणे ।

वि<ज्ञानं फल्गु>न (७ ७) आहारं यावदायत्यां पुनर्भवस्याभिनिर्वृत्तये प्रादुर्भावाय <।>

यत्तत्कतरद्विज्ञानं <।> विस्तरेण यावत्* <।> यस्य विज्ञानस्य समनन्तरं मातुः कुक्षौ कललमात्मभावमभि<संमूर्च्छति ।> (७ ८)< क>ललमात्मभावं संमूर्च्छतीति <।> इदं रूपस्य तज्जा वेदना संज्ञा संस्कारास्तज्जं विज्ञानमिदं नामस्य <।> इत्येतदयोनिशोमनसिकारसहजं नामरूपं प्रतीत्य मातुः कुक्षौ षण्णा<मिन्द्रियाणा>म् (७ ९) अभिनिर्वृत्तिर्भवति प्रादुर्भावस्<।> तदुच्यते नामरूपप्रत्ययं षडायतनमिति <।>
अपि खल्वेवमुक्तं भगवता स्वातिं भिक्षुं कैवर्तपूर्विणमारभ्य <।>

त्रयाणां भिक्षवः संनिपातान्मातुः <कुक्षौ गर्भस्याव>क्रान्तिर्(७ १०) भवति <।> विस्तरेण यावन् <।> मातुः कुक्षौ षण्णामिन्द्रियाणामभिनिर्वृत्तिर्भवति प्रादुर्भावः <।> तदुच्यते षडायतनप्रत्ययं नामरूपमिति <।>

यथा खल्विहै<कत्यो> + + + <रा>गपर्यवस्थितो (७ १) द्वेषपर्यवस्थितो मोहपर्यवस्थितः कायेन दुश्चरितं चरति <।> वाचा मनसा दुश्चरितं चरति <।> कायेन वाचा दुश्चरितं चरति <।> इदं रूपस्य <।> मनसा दुश्चरितमिदं नामस्येत्य्<।> एत<दकुशलं नाम>रूपं (७ २) प्रतीत्य दुःखोदयं दुःखविपाकं कायस्य भेदान्नरकेषूपपद्यते । तत्र च षण्णामिन्द्रियाणामभिनिर्वृत्तिर्भवति प्रादुर्भावः <।> तदुच्यते नामरूपप्रत्ययं षडायतनं <।>

यथा नर<केषु तिर्य>क्प्रेतेषु (७ ३) <।>

यथा खल्विहैकत्यो मनुष्यसुखकेष्ववेक्षावान् भवति प्रतिबद्धचित्तः <।> तस्यैवं भवत्य्<।> अहो बताहं मनुष्यसुखकानां सभागतायामुपपद्येयं <।> स तं प्रार्थयमानो <।> विस्तरेण या<वत्कायेन वा>चा (७ ४) मनसा सुचरितं चरतीति <।> इदं रूपस्य <।> मनसा सुचरितं चरतीति <।> इदं नामस्येत्य्<।> एतत्कुशलं नामरूपं प्रतीत्य सुखोदयं सुखविपाकं कायस्य भेदान्मनुष्यसुखकानां सभागता<या(५)मु>पृष्ठअपद्यते (७ ५) <।> तत्र च षण्णामिन्द्रियाणामभिनिर्वृत्तिर्भवति प्रादुर्भावः <।> तदुच्यते नाम<रूप>पृष्ठरत्ययं षडायतनमिति <।>

यथा मनुष्यसुखकानामेवं यावत्परनिर्मितवशवर्तिनां <।>

<यथा ख>ल्व्(७ ६) इहैकत्यो ब्रह्मकायिकानां देवानामवेक्षावान् भवति प्रतिबद्धचित्तः <।> विस्तरेण यावत्<।> तथा समापन्नस्य यः कायसंवरो वाक्संवरः आजीवविशुद्धिः इदं रूपस्य तज्जा वेदना (७ ७) विस्तरेण यावद्विज्ञानमिदं नामस्य <।> इत्येतत्कुशलं नामरूपं प्रतीत्य सुखोदयं सुखविपाकं कायस्य भेदाद्ब्रह्मकायिकानां देवानां सभागतायामुपपद्यते <।> तत्र च षण्णां (७ ८) इन्द्रियाणामभिनिर्वृत्तिर्भवति प्रादुर्भावः <।> तदुच्यते नामरूपप्रत्ययं षडायतनमिति <।>

यथा ब्रह्मकायिकानामेवं यावदसंज्ञिसत्वसंगृहीतानां बृहत्फलानां <।> इति यत्त<त्षडाय>तनं (७ ९) नामरूपमागम्य च नामरूपं निश्रित्य नामरूपं प्रतिष्ठाय उत्पद्यते समुत्पद्यते जायते संजायते निर्वर्तयत्यभिनिर्वर्तयति समुदागच्छति प्रादुर्भवति इदमुच्य<ते नामरू>पृष्ठअप्रत्ययं (७ १०) षडायतनं <॥>


६. (नामरूपप्रत्ययः स्पर्शः)

नामरूपप्रत्ययः स्पर्शः <कतरः ।>

॥ उद्दानं

+ + य<प्र>त्ययाच्च स्पर्श<ः> फल्गुनः स्वातिरेव च
रागजं द्वेषजं मोहजमानन्देन पंचिकाह ।

(८ १) चक्षुः प्रतीत्य रूपाणि चोत्पद्यते चक्षुर्विज्ञानं <।> त्रयाणां सन्निपातः स्पर्शः <।> तत्र यच्चक्षुर्यानि च रूपाणि इदं रूपस्य तज्जा वेदना संज्ञा संस्कारास्तज्जं विज्ञानं <।> इदं नामस्य तज्जं मनसिकारं नामप्रत्य<यं चक्षुः>संस्पर्शस्य (८ २) <।> तदुच्यते नामरूपप्रत्ययः स्पर्शः <।>

एवं श्रोत्रघ्राणजिह्वाकायमनः प्रतीत्य धर्मांश्चोत्पद्यते मनोविज्ञानं <।> त्रायाणां सन्निपातः स्पर्शः <।> तत्र ये रूपिणो मनोविज्ञेया धर्मा इदं <रूप>स्य (८ ३) तज्जा वेदना संज्ञा संस्कारा विज्ञानं <।> इदं नामस्य तज्जं मनसिकारं नामप्रत्ययं मनःसंस्पर्शस्य <।> तदुच्यते नामरूपप्रत्ययः स्पर्शः <।>

अपि खल्वेवमुक्तं भगवता फल्गुनाववादे व्याकरणे <।>

विज्ञानं <फ>ल्गुनाहारं (८ ४) यावदेवायत्यां पुनर्भवस्याभिनिर्वृत्तये प्रादुर्भावाय ।

तत्कतरद्विज्ञानम् <।> आह <।> यत्तद्गन्धर्वस्य चरमं चित्तं मनोविज्ञानं <।> विस्तरेण यावत्<।> कललमात्मभावमभिसंमूर्च्छतीति <।> इदं रूपस्य (८ ५) तज्जा वेदना संज्ञा संस्कारास्तज्जं विज्ञानमिदं नामस्य <।> इत्येतदयोनिशोमनसिकारसहितं नामरूपं प्रतीत्य मातुः कुक्षौ स्पर्शस्याभिनिर्वृत्तिर्भवति प्रादुर्भावः <।> तदुच्यते नामरूपप्रत्ययः (८ ६) स्पर्शः <।>

अपि खल्वेवमुक्तं भगवता स्वातिं भिक्षुं कैवर्तपूर्विणमारभ्य <।>

त्रयाणां भिक्षवः सन्निपातान्मातुः कुक्षौ गर्भस्यावक्रान्तिर्भवति <।> विस्तरेण यावद्<।> अयोनिशोमनसिकारसहजं (८ ७) नामरूपं प्रतीत्य मातुः कुक्षौ गर्भस्यावक्रान्तिर्भवति प्रादुर्भावस्<।> तदुच्यते नामरूपप्रत्ययः स्पर्शः <।>

यथा खल्विहैकत्यो रागपर्यवस्थितो द्वेषपर्यवस्थितो मोहपर्यवस्थितः (८ ८) कायेन दुश्चरितं चरति <।> वाचा मनसा दुश्चरितं चरति इदं रूपस्य <।> मनसा दुश्चरितं चरतीति इदं नामस्य <।> इत्येतदकुशलं नामरूपं प्रतीत्य दुःखोदयं दुःखविपाकं कायस्य भेदान्नरकेषूपपद्यते <।> (८ ९) तत्र च स्पर्शमभिनिर्वर्तयति <।> तदुच्यते नामरूपप्रत्ययः स्पर्श इति <।>

यथा नरकेष्वेवं तिर्यक्प्रेतेषु <।>

यथा खल्विहैकत्यो मनुष्यसुखकेष्ववेक्षावान् भवति प्रतिबद्धचित्तो <।> विस्तरेण (८ १०) यावत्<।> कायेन वाचा सुचरितं चरतीति इदं रूपस्य <।> मनसा सुचरितं चरतीति इदं रूपस्य <।> मनसा सुचरितं चरतीति इदं नामस्येत्य्<।> एतत्कुशलं नामरूपं प्रतीत्य विस्तरेण (८ १) यावत्<।> तत्र च स्पर्शमभिनिर्वर्तयति <।> तदुच्यते नामरूपप्रत्ययः स्पर्श इति <।>

यथा मनुष्यसुखकेष्वेवं यावत्परनिर्मितवशवर्तिषु <।>

यथा खल्विहैकत्यो ब्रह्मकायिकानां देवानामवेक्षावान् भवति प्रति<बद्ध>चित्तो <।> (८ २) यावत्<।> तथा समापन्नस्य यः कायसंवरो वाक्संवरः आजीवपरिशुद्धिरिदं रूपस्य तज्जा वेदना संज्ञा संस्कारास्तज्जं विज्ञानमिदं नामस्य <।> इत्येतत्कुशलं नामरूपं प्रतीत्य विस्तरेण यावत्<।> तत्र च स्पर्शम् (८ ३) अभिनिर्वर्तयति <।> तदुच्यते नामरूपप्रत्ययः स्पर्शः <।>

यथा ब्रह्मकायिकानामेवं यावदसंज्ञिसत्वसंगृहीतानां बृहत्फलानां <।>

अपि खल्वेवमुक्तं भगवता महानिदानपर्यायेस्मिन् व्याकरणे आयुष्मते (८ ४) आनन्दाय <।>

अस्ति प्रत्ययमानन्द स्पर्श इति <।> विस्तरेण यावत्* <।> येषामानन्दाकाराणां येषामुद्देशानां सति नामकायस्य प्रज्ञप्तिर्भवति तेषामाकाराणां तेषामुद्देशानामसत्यपि (८ ५) नु अधिवचनसंस्पर्शः प्रज्ञायेत <।> नो भदन्त <।> येषामानन्दाकाराणां येषामुद्देशानां सति रूपकायस्य प्रज्ञप्तिर्भवति तेषामाकाराणां तेषामुद्देशानामसत्यपि नु प्रतिघसंस्पर्शः प्रज्ञायेत <।> (८ ६) नो भदन्त <।> सर्वशो वा पुनरानन्द नामकायरूपकायानामसति अपि नु स्पर्शो वा प्रज्ञायेत स्पर्शप्रज्ञप्तिर्वा <।> नो भदन्त <।> तस्माद्ध्यानन्दैतन्निदानं विस्तरेण यावद्<।> इदं मया यद्(८ ७) उक्तमिदं मे तत्प्रत्युक्तं <।>


७. (षडायतनप्रत्ययः स्पर्शः)

त्रयाणां सन्निपाताच्चक्षुराध्यात्मिकं तथा
चक्षुष्टो रूपतश्चैवं न चक्षुष्टो न रूपतः ॥

षडायतनप्रत्ययः स्पर्शः कतम <।> आह <।> चक्षुः प्रतीत्य रूपाणि चोत्पद्यते चक्षुर्विज्ञानं <।> (८ ८) त्रयाणां संनिपातः स्पर्शः <।>

एवं श्रोत्रघ्राणजिह्वाकायमनः प्रतीत्य धर्मांश्चोत्पद्यते मनोविज्ञानं <।> त्रयाणां सन्निपातात्स्पर्शस्<।> तदुच्यते षडायतनप्रत्ययः स्पर्श इति <।>

अपि खलु (८ ९) चक्षुः प्रतीत्य रूपाणि चोत्पद्यते चक्षुर्विज्ञानं <।> त्रयाणां सन्निपातात्स्पर्शः <।> तत्र चक्षुराध्यात्मिकमायतनं रूपं च बाह्यं प्रत्ययं चक्षुःसंस्पर्शस्य <।> तदुच्यते षडायतनप्रत्ययः स्पर्श इति <।>

<एवं> (८ १०) श्रोत्रं घ्राणं जिह्वा कायो <।>

मनः प्रतीत्य धर्मांश्चोत्पद्यते मनोवि<ज्ञान>ं <। (त्रयाणां संनि>)पातात्स्पर्शः <।> तत्र मन आध्यात्मिकमायतनं धर्माश्च बाह्यं प्रत्ययं मनःसंस्पर्शस्य <।> तदुच्यते <षडायत>)नप्रत्ययः (९ १) स्पर्श इति <।>

अपि खलु चक्षुः प्रतीत्य रूपाणि चोत्पद्यते <चक्षुर्विज्ञानम् । त्रया>णां सन्निपातात्स्पर्शः <।> चक्षुष्टो रूपतश्च चक्षुर्विज्ञानतः <।>

एवं श्रोत्रघ्राणजिह्वाकायमनो वक्तव्य<म् ।>

<अपि> खलु चक्षु<ः प्रती>त्य (९ २) रूपाणि चोत्पद्यते चक्षुर्विज्ञानं <।> त्रयाणां सन्निपातात्* स्पर्शः <।> तत्र सचक्षु + + + + रूपाणि न चक्षुर्विज्ञानं <।> या त्वेषा त्रयाणां धर्माणां संगति<ः> सन्निकर्षः सन्निपातः संस्पर्शः <।>

एवं श्रोत्रघ्राणजिह्वाकायमनो (९ ३) वक्तव्यं <।>

मनः प्रतीत्य धर्मांश्चोत्पद्यते मनोविज्ञानं <।> या त्वेषा त्रयाणां धर्माणां संगतिः सन्निकर्षः समवायः संस्पर्शः तदुच्यते षडायतनप्रत्ययः स्पर्श <।> इति स्पर्शः षडायतनम् (९ ४) आगम्य षडायतनं निश्रित्य षडायतनं प्रतिष्ठाय उत्पद्यते समुत्पद्यते जायते संजायते निर्वर्तयत्यभिनिर्वर्तयति समुदागच्छति प्रादुर्भवति <।> अयमुच्यते षडायतनप्रत्ययः (९ ५) स्पर्श इति <।>


८. (स्पर्शप्रत्यया वेदना)

त्रयाणां सन्निपाताज्जायते या हि वेदना
सुखवेदनीयः स्पर्शः घोषिलानन्द एव च <॥>
उद्दानम् ॥

स्पर्शप्रत्यया वेदना कतमा <।> आह <।> चक्षुः प्रतीत्य रूपाणि चोत्पद्यते (९ ६) चक्षुर्विज्ञानं <।> त्रयाणां सन्निपातात्* स्पर्शः <।> स्पर्शप्रत्यया वेदना <।>

एवं श्रोत्रघ्राणजिह्वाकायमनः प्रतीत्य धर्मांश्चोत्पद्यते मनोविज्ञानं <।> त्रयाणां सन्निपातात्* स्पर्शः <।> स्पर्शप्रत्यया वेदना <।> (९ ७)

अपि खलु चक्षुः प्रतीत्य रूपाणि चोत्पद्यते चक्षुर्विज्ञानं <।> त्रयाणां सन्निपातात्* स्पर्शः सुखवेदनीयो दुःखवेदनीयोऽदुःखासुखवेदनीयः <।> तत्खलु सुखवेदनीयं स्पर्शं प्रतीत्योत्पद्यते (९ ८) सुखा वेदनासुखवेदनीयं स्पर्शं प्रतीत्योत्पद्यते दुःखा वेदना <।> अदुःखासुखवेदनीयं स्पर्शं प्रतीत्योत्पद्यते दुःखा वेदना <।> अदुःखासुखवेदनीयं स्पर्शं प्रतीत्योत्पद्यते अदुःखासुखा (९ ९) वेदना <।> तदुच्यते स्पर्शप्रत्यया वेदना <।>

अपि खल्वेवमुक्तमायुष्मता आनन्देन घोषिलस्य गृहपतेर्<।>

अन्यो च गृहपते चक्षुर्धातुरन्यो रूपधातुरन्यश्चक्षुर्विज्ञानधातुः <।> सुखवेदनीयं गृहपते (९ १०) द्वयं प्रतीत्य विज्ञानस्योत्पादो भवति <।> त्रयाणां सन्निपातात्* स्पर्शः <।> तत्खलु सुखवेदनीयं स्पर्शं प्रतीत्योत्पद्यते सुखा वेदना <।> अन्य एव यावद्<।> दुःखवेदनीयं गृहपते द्वयं प्रतीत्य (९ १) विज्ञानस्योत्पादो भवति <।> त्रयाणां सन्निपातात्* स्पर्शः दुःखवेदनीयः <।> तत्खलु दुःखवेदनीयं स्पर्शं प्रतीत्योत्पद्यते दुःखा वेदना <।> अन्य एव यावद्<।> अदुःखासुखवेदनीयं गृहपते द्वयं प्रतीत्य विज्ञानस्योत्पादो (९ २) भवति <।> त्रयाणां सन्निपातः स्पर्शः अदुःखासुखवेदनीयः <।> तत्खल्वदुःखासुखवेदनीयं स्पर्शं प्रतीत्योत्पद्यते अदुःखासुखा वेदना <।>

अन्य एव गृह<प>ते श्रोत्रघ्राणजिह्वाकायमनोधातुरन्यो धर्मधातुर्(९ ३) अन्यो मनोविज्ञानधातुः <।> सुखवेदनीयं गृहपते द्वयं प्रतीत्य विस्तरेण यथा पूर्वोक्तं <।> तदुच्यते स्पर्शप्रत्यया वेदना <।>

अपि खल्वेवमुक्तं भगवता महानिदानपर्यायेस्मिन् व्याकरणे आयुष्मते आनन्दाय <।> (९ ४)

अस्ति प्रत्ययमानन्द वेदना विस्तरेण यावच्<।> चक्षुःसंस्पर्शश्चेदानन्द नाभविष्यदपि नु चक्षुःसंस्पर्शप्रत्ययमध्यात्ममुत्पद्येत सुखं वा दुःखं वा अदुःखासुखं वा <।> नो भदन्त <।>

एवं श्रोत्रघ्राणजिह्वाकायमहःसंस्पर्शः (९ ५) चेदानन्द नाभविष्यदपि नु मनःसंस्पर्शप्रत्ययमध्यात्ममुत्पद्येत वेदितं सुखं वा दुःखं वा अदुःखासुखं वा <।> नो भदन्त <।> सर्वशो वा आनन्द स्पर्शे असति (९ ६) वेदना प्रज्ञायेत <।> नो भदन्त <।> तस्माद्ध्यानन्दैतन्निदानं विस्तरेण यावद्<।> इदं मया यदुक्तमिदं तत्प्रत्युक्तम् ॥


९. (वेदनाप्रत्यया तृष्णा)

उद्दानम् ॥

चक्षुः प्रतीत्यास्वादं द्वौ स्कन्धौ आयतनौ
गुह्येनापरद्वयं महानामा (९ ७) लिच्छविश्चैव
निदानं पूर्णमासिकं <॥>

वेदनाप्रत्यया तृष्णा कतमा <।> आह <।> चक्षुः प्रतीत्य रूपाणि चोत्पद्यते चक्षुर्विज्ञानं <।> त्रयाणां सन्निपातः स्पर्शः <।> स्पर्शप्रत्यया वेदना <।> वेदनाप्रत्यया (९ ८) तृष्णा <।>

एवं श्रोत्रघ्राणजिह्वाकायमनः प्रतीत्य धर्मांश्चोत्पद्यते मनोविज्ञानं <।> त्रयाणां सन्निपातात्स्पर्शः <।> स्पर्शप्रत्यया वेदना <।> वेदनाप्रत्यया तृष्णा <।> तदुच्यते वेदनाप्रत्यया तृष्णा <।>

अपि खलु चक्षुरास्वादं (९ ९) वेदयितं प्रतीत्य भूयो भूयश्चक्षुषि अप्रतिकूलता संतिष्ठते <।> अप्रतिकूले सति भूयो भूयश्चक्षुषि उत्पद्यते रागः संरागः आलयो नियन्तिरध्यवसानं तृष्णा <।>

एवं श्रोत्रघ्राणजिह्वाकायमनःास्वादं (९ १०) वेदयितव्य्ं प्रतीत्य भूयो भूयो मनसि अप्रतिकूलता संतिष्ठते । अप्रतिकूले सति भूयो भूयो मनस्युत्पद्यते रागः संरागः आलयो नियन्तिरध्यवसानं वा तृष्णा <। तदुच्यते> (१० १) वेदनाप्रत्यया तृष्ना <।>

अपि खल्वेवमुक्तं भगवता पंचोपादानस्कन्धिके व्याकरणे <।>

रूपस्याहं भिक्षवः आस्वादपर्येषणामचार्षं <।> यो रूपे आस्वादस्तमन्वभोत्स्यं यावद्रूपे आस्वादः प्रज्ञया मे सुदृष्ट <।> इत्येत<द्रूपा>स्वादं (१० २) वेदयितं प्रतीत्य भूयो भूयो रूपे अप्रतिकूलता संतिष्ठते <।> अप्रतिकूले सति भूयो भूयो रूपे उत्पद्यते रागः संरागः आलयो नियन्तिरध्यवसानं तृष्णा <।> तदुच्यते वेदनाप्रत्यया तृष्णा <।>

एवं वेदनायाः (१० ३) संज्ञायाः संस्काराणां

विज्ञानस्याहं भिक्षवः आस्वादपर्येषणामचार्षं <।> यो विज्ञाने आस्वादस्तमन्वभोत्स्यं यावद्विज्ञाने आस्वादः प्रज्ञया मे सुदृष्ट <।> इत्येतद्विज्ञानास्वादं वेदयितं प्रतीत्य भूयो भूयो विज्ञाने अप्रतिकूलता (१० ४) संतिष्ठते <।> अप्रतिकूले सति भूयो भूयो विज्ञाने उत्पद्यते रागः संरागः आलयो नियन्तिरध्यवसानं तृष्णा <।> तदुच्यते वेदनाप्रत्यया तृष्णा <।>

अपि खल्वेवमुक्तं भगवता पंचोपादानस्कन्धिके व्याकरणे <।> (१० ५)

रूपे चेद्भिक्षव आस्वादो न भवेन्नेमे सत्वा रूपे संरज्येरन्* <।> यस्मात्तु भिक्षवोऽस्ति रूपे आस्वादः तेनेमे सत्वा रूपे संरज्यन्ते <।> इत्येतद्रूपास्वादं वेदयितं प्रतीत्य भूयो विस्तरेण यावदुत्पद्यते तृष्णा <।>

(१० ६) वेदनायां संज्ञायां संस्कारेषु

विज्ञाने चेद्भिक्षवः आस्वादो न भवेन्नेमे सत्वा विज्ञाने संरज्येरन्* <।> यस्मात्तु भिक्षवोऽस्ति विज्ञाने आस्वादस्तस्मादिमे सत्वा विज्ञाने संरज्यन्ते <।> इत्येतद्विज्ञानास्वाद<वेद>यितं प्रतीत्य भूयो (१० ७) भूयो विस्तरेण यावदुत्पद्यते तृष्णा <।> तदुच्यते वेदनाप्रत्यया तृष्णा <।>

अपि खल्वेवमुक्तं भगवता षडायतनिके व्याकरणे <।>

चक्षुषोऽहं भिक्षव आस्वादपर्येषणामचार्षं <।> यश्चक्षुषि आस्वादस्तमन्वभोत्स्यन् <।> यावांश्चक्षुष्यास्वादः (१० ८) प्रज्ञया मे स सुदृष्टः <।> इत्येतच्चक्षुष आस्वादं वेदयितं प्रतीत्य भूयो विस्तरेण यावत्तृष्णा <।> तदु<च्य्>अते वेदनाप्रत्यया तृष्णा <।>

एवं श्रोत्रघ्राणजिह्वाकायमनसोऽहं भिक्षवः आस्वादपर्येषणामचार्षं <।> यो (१० ९) मनस्यास्वादस्तमन्वभोत्स्यं यावन्मनस्यास्वादः प्रज्ञया मे स सुदृष्ट <।> इत्येतन्मनस आस्वादवेदयितं प्रतीत्य भूयो विस्तरेण यावत्तृष्णा <।> तदुच्यते वेदनाप्रत्यया तृष्णा <।>

अपि खल्वेवमुक्तं भगवता षडायन्तिके (१० १०) व्याकरणे <।>

चक्षुषि भिक्षव आस्वादश्चेन्न भवेन्नेमे सत्वाश्चक्षुषि संरज्येरन्* <।> यस्माद्भिक्षवः अस्ति चक्षुष्वास्वादस्तस्मादिमे सत्वाश्चक्षुषि संरज्यन्ते <।> इत्येतच्चक्षुरास्वादं वेदयितं विस्तरेण प्रतीत्य यावत्तृष्णा <।> तदुच्यते (१० १) वेदनाप्रत्यया तृष्णा <।>

एवं श्रोत्रघ्राणजिह्वायां कायेमनसि चेद्भिक्षवः आस्वादो न भवेन्नेमे सत्वा मनसि संरज्येरन्* <।> यस्मात्तु भिक्षवोऽस्ति मनस्यास्वादस्तस्मादिमे सत्वा मनसि संरज्यन्ते <।> इत्येतन्मनस आस्वादवेदयितं (१० २) प्रतीत्य भूयो भूयो मनस्यप्रतिकूलता संतिष्ठते <।> विस्तरेण यावत्तृष्णा <।> तदुच्यते वेदनाप्रत्यया तृष्णा <।>

अपि खल्वेवमुक्तं भगवता षडायतनिके व्याकरणे <।>

रूपस्याहं भिक्षवः आस्वादपर्येषणामचार्षम्* <।> (१० ३) यो रूपे आस्वादस्तमन्वभोत्स्यं यावद्रूपे आस्वादः प्रज्ञया मे स सुदृष्टः <।> इत्येतद्रूपास्वादवेदयितं प्रतीत्य यावत्तृष्णा <।> तदुच्यते वेदनाप्रत्यया तृष्णा <।>

एवं शब्दगन्धरसस्पर्शधर्माणामहं भिक्षव आस्वादपर्येषणाम् (१० ४) अचार्षं <।> यो धर्मे आस्वादस्तमन्वभोत्स्यं <।> यावान् धर्मेष्वास्वादः प्रज्ञया मे स सुदृष्टः <।> इत्येतद्धर्मास्वादवेदयितं प्रतीत्य विस्तरेण यावत्तृष्णा <।> तदुच्यते वेदनाप्रत्यया तृष्णा <।>

अपि खल्वेवमुक्तं भगवता (१० ५) षडायतनिके व्याकरणे <।>

रूपे चेद्भिक्षव आस्वादो न भवेन्नेमे सत्वा रूपे संरज्येरन् <।> यस्मात्तु भिक्षवोऽस्ति रूपे आस्वादस्तस्मादिमे सत्वा रूपे संरज्यन्ते <।> इत्येतद्रूपास्वादवेदयितं प्रतीत्य विस्तरेण यावत्(१० ६) तृष्णा <।> तदुच्यते वेदनाप्रत्यया तृष्णा <।>

एवं शब्दे गन्धे रसे स्प्रष्टव्ये धर्मे चेद्भिक्षव आस्वादो न भवेन्नेमे सत्वा धर्मे संरज्येरन्* <।> तस्मात्तु भिक्षवोऽस्ति धर्मेष्वास्वादस्<।> तेनेमे सत्वा धर्मे संरज्यन्ते <।> इत्येतद्(१० ७) धर्मास्वादं प्रतीत्य वेदयितं विस्तरेण यावत्तृष्णा <।> तदुच्यते वेदनाप्रत्यया तृष्णा ॥

अपि खल्वेवमुक्तं भगवता महानामानं लिच्छविमागम्य <।>

रूपं चेन्महानामन्नेकान्तदुःखं भवेन्न सुखं न सुखानुगतं (१० ८) न सुखसौमनस्यपरीतमवक्रान्तमेव सुखेन हेतुरपि महानामन्न प्रज्ञायेत सत्वानां रूपे संरागाय न चेमे सत्वा रूपे संरज्येरन्* <।> यस्मात्तु महानामन् रूपं नैकान्तदुःखं सुखं (१० ९) सुखानुगतं सुखसौमनस्यपरीतमवक्रान्तमेव सुखेन तस्मादिमे सत्वा रूपे संरज्यन्ते संरक्ताः संयुज्यन्ते संयुक्ताः संक्लिष्यन्ते <।> इत्येतद्रूपास्वादवेदयितं प्रतीत्य विस्तरेण यावत्तृष्णा <।> तदुच्यते (१० १०) वेदनाप्रत्यया तृष्णा <।>

वेदना संज्ञा संस्कारा विज्ञानं चेन्महानामन्नेकान्तदुःखं भवेन्न सुखं न सुखानुगतं न सुखसौमनस्यपरीतमवक्रान्तं चैव सुखेन हेतुरपि महानामन्न प्रज्ञायेत स<त्त्वानां> (११ १) विज्ञाने संरागाय न चेमे सत्वा विज्ञाने संरज्येरन्* <।> यस्मात्तु महानामन् विज्ञानं नैकान्तदुःखं सुखं सुखानुगतं सुखसौमनस्यपरीतमनवक्रान्तमेव सुखेन तस्मादिमे सत्वा विज्ञाने संरज्यन्ते संरक्ता<ः सं>युज्यन्ते (११ २) संयुक्ताः संक्लिष्यन्ते <।> इत्येतद्विज्ञानास्वादवेदयितं प्रतीत्य विस्तरेण यावत्तृष्णा <।> तदुच्यते वेदनाप्रत्यया तृष्णा <।>

अपि खल्वेवमुक्तं भगवता पौर्णमासिके व्याकरणे <।>

यद्भिक्षवो रूपं प्रतीत्योत्पद्यते (११ ३) सुखमुत्पद्यते सौमनस्यमयं रूपे आस्वादः <।> इत्येतद्रूपास्वादवेदयितं प्रतीत्य यावत्तृष्णा <।> तदुच्यते वेदनाप्रत्यया तृष्णा <।>

यद्भिक्षवो वेदनासंज्ञासंस्कारान् यद्विज्ञानं प्रतीत्योत्पद्यते सुखमुत्पद्यते सौमनस्यम् (११ ४) अयं विज्ञाने आस्वाद <।> इत्येतद्विज्ञानास्वादवेदयितं प्रतीत्य भूयो भूयो विज्ञाने अप्रतिकूलता संतिष्ठते <।> अप्रतिकूले सति भूयो भूयो विज्ञाने उत्पद्यते रागः संरागः आलयो नियन्तिरध्यवसानम्* (११ ५) तृष्णा <।> तदुच्यते वेदनाप्रत्यया तृष्णा <।>

अपि खल्वेवमुक्तं भगवता महानिदानपर्याये आयुष्मत्यानन्दे <।>

तत्रानन्द या च भवतृष्णा या च विभवतृष्णा इतीमे द्वे तृष्णाद्वयेन वेदनासमवसरणे (११ ६) भवतः <।> तदुच्यते वेदनाप्रत्यया तृष्णा ॥


१०. (तृष्णाप्रत्ययमुपादानम्)

उद्दानम् ॥

तत्प्रथमाभिनिपातः कामैश्चावेक्षावांस्तथा
दृष्टिर्विचिकित्सा उपादानं विभागो नन्दमेव च ॥

तृष्णाप्रत्ययमुपादानं कतमद्<।> आह । यत्प्रथमाभिनिपातं (११ ७) तृष्णावैपुल्यमुपादानं यथा कथमिति <।>

यथा खल्विहैकत्यः कामेष्ववेक्षावान् भवति प्रतिबद्धचित्तः कामरागपर्यवस्थानमुत्पादयति <।> स तस्मात्पर्यवस्थानादन्यं पर्यवस्थानमुत्पादयति (११ ८) अधिमात्रादधिमात्रतरं तीव्रात्तीव्रतरं पूर्णात्पूरिततरं <।> इति पूर्वकं पर्यवस्थानं तृष्णा पश्चिममुपादानं <तदुच्यन्ते> तृष्णाप्रत्ययमुपादानं <।>

यथा खल्विहैकत्यो रूपेष्वारूप्येष्ववेक्षावान् भवति प्रतिबद्धचित्त (११ ९) आरूप्यरागपर्यवस्थानमुत्पादयति <।> स तस्मात्पर्यवस्थानादन्यत्पर्यवस्थानमुत्पादयति अधिमात्रादधिमात्रतरं यावत्परिपूर्णात्परिपूर्णतरं <।> इति पूर्वकं पर्यवस्थानं तृष्णा पश्चिममुपादानम्* <।> (११ १०) तदुच्यते तृष्णाप्रत्ययमुपादानं <।>

अस्ति खल्वेवमुक्तं भगवता पातलेयव्याकरणे <।>

देशिता वो भिक्षवो मया धर्माः स्कन्धानां प्रविचयाय । यदुत चत्वारि स्मृत्युपस्थानानि चत्वारि सम्यक्प्रधानानि (११ १) चत्वार ऋद्धिपादाः पंचेन्द्रियाणि पंच बलानि सप्त बोध्यंगान्यार्याष्टांगो मार्ग <।> एवं देशितेषु वो भिक्षवो मया धर्मेषु स्कन्धानां प्रविचयाय <।>

अथ च पुनरिहैकत्या मोहपुरुषा न तीव्रच्छन्दा विहरन्ति न तीव्रस्नेहा न तीव्रप्रेमाणो (११ २) न तीव्रप्रमादास्<।> ते धन्धमेवानुत्तर्यं स्पृशन्ति यदुतास्रवाणां क्षयाय । एवं देशितेषु वो भिक्षवो मया धर्मेषु स्कन्धानां प्रविचयाय <।>

अथ च पुनरिहैकत्याः कुलपुत्राः अतीवतीव्रच्छन्दा विहरन्ति अतीवतीव्रस्नेहा (११ ३) अतीवतीव्रप्रेमाणोऽतीवतीव्रप्रमादास्<।> ते क्षिप्रमेवानुत्तर्यं स्पृशन्ति यदुतास्रवाणां क्षयाय <।> एवं देशितेषु वो भिक्षवो मया धर्मेषु स्कन्धानां प्रविचयाय <।>

अथ च पुनरिहैकत्यो रूपमात्मतः (११ ४) समनुपश्यति <।> या सा समनुपश्यना संस्कारास्ते <।> ते पुनः संस्काराः किन्निदानाः किंसमुदयाः किंजातीयाः किंप्रभवाः <।> अविद्यासंस्पर्शजं भिक्षवो वेदयितं प्रतीत्य तृष्णोत्पन्ना <।> ततस्ते सं<स्>कारास्<।> तृष्णा पुनर्भिक्षवः (११ ५) किन्निदाना किंसमुदया किंजातीया किंप्रभवा <।> तृष्णा भिक्षवो वेदनानिदाना वेदनासमुदया वेदनाजातीया वेदनाप्रभवा <।> वेदना पुनर्भिक्षवः किन्निदाना किंसमुदया किंजातीया किंप्रभवा <।> वेदना भिक्षवः (११ ६) स्पर्शनिदाना स्पर्शसमुदया स्पर्शजातीया स्पर्शप्रभवा <।> स्पर्शः किन्निदानः किंसमुदयः किंजातीयः किंप्रभवः <।> स्पर्शो भिक्षवः षडायतननिदानः षडायतनसमुदयः षडायतनजातीयः (११ ७) षडायतनप्रभवः <।> तत्र भिक्षवः षडायतनमनित्यं संस्कृतं चेतितं प्रतीत्यसमुत्पन्नं <।> सोऽपि स्पर्शः सापि वेदना सापि तृष्णा सापि समनुपश्यना अनित्या संस्कृता चेतिता प्रतीत्यसमुत्पन्ना <।> (११ ८)

स रूपमात्मेति समनुपश्यतीति सत्कायदृष्टिपर्यवस्थानमुत्पादयति <।> स तस्मात्पर्यवस्थानादन्यत्पर्यवस्थानमुत्पादयति अधिमात्रादधिमात्रतरं यावत्परिपूर्णात्परिपूर्णतरं (११ ९) <।> इति पूर्वकं पर्यवस्थानं तृष्णा पश्चिममुपादानं <।> तदुच्यते तृष्णाप्रत्ययमुपादानं <।>

न हैव रूपमात्मेति समनुपश्यत्यपि तु रूपवन्तमात्मानं समनुपश्यति <।> न हैव रूपवन्तमात्मानं संनुपश्यत्यपि (११ १०) तु रूपमात्मीयं समनुपश्यति <।> न हैव रूपमात्मीयं समनुपश्यत्यपि तु रूपे आत्मानं समनुपश्यति <।>

न हैव रूपे आत्मानं समनुपश्यत्यपि तु वेदनामात्मतः समनुपश्यति <।> न हैव वेदना<मात्मतः> (१२ १) संनुपश्यत्यपि तु वेदनावन्तमात्मानं समनुपश्यति <।> न हैव वेदना<वन्तं> आत्मानं समनुपश्यत्यपि तु वेदनामात्मीयां समनुपश्यति <।> न हैव वेदनामात्मीयां समनुपश्यत्यपि तु वेदनायामात्मानं समनुप<श्यति ।>

(१२ २) न हैव वेदनायामात्मानं समनुपश्यत्यपि तु संज्ञामात्मतः समनुपश्यति <।> न हैव संज्ञामात्मतः समनुपश्यत्यपि तु संज्ञावन्तमात्मानं समनुपश्यति <।> न हैव संज्ञावन्तमात्मानं समनुपश्यत्यपि तु संज्ञामात्मीयां (१२ ३) समनुपश्यति <।> न हैव संज्ञामात्मीयां समनुपश्यत्यपि तु संज्ञायामात्मानं समनुपश्यति <।>

न हैव संज्ञायामात्मानं समनुपश्यत्यपि तु संस्कारानात्मतः समनुपश्यति <।> न हैव संस्कारानात्मतः (१२ ४) समनुपश्यत्यपि तु संस्कारवन्तमात्मानं समनुपश्यति <।> विस्तरः <।>

विज्ञानमात्मतः समनुपश्यति <।> न हैव विज्ञानमात्मतः समनुपश्यत्यपि तु विज्ञानवन्तमात्मानं समनुपश्यति <।> न हैव विज्ञानवन्तमात्मानं (१२ ५) समनुपश्यति अपि तु विज्ञानमात्मीयं समनुपश्यति< ।> न हैव विज्ञानमात्मीयं समनुपश्यत्यपि तु विज्ञाने आत्मानं समनुपश्यति <।>

न हैव विज्ञाने आत्मानं समनुपश्यत्यपि तु कांक्षी भवति विचिकित्सी <।> न हैव कांक्षी भवति विचिकित्सी अपि (१२ ६) तु भवदृष्टिर्भवति विभवदृष्टिः <।> न हैव भवदृष्टिर्भवति विभवदृष्टिः अपि त्वस्तीति वाचाधिगतं भवत्य्<।> अयमहमस्मीति समनुपश्यति <।> योऽसावस्मीत्यधिगमोऽयमहमस्मीत्यधिगमो <।> यासावस्मी<ति> समनुपश्यना (१२ ७) संस्कारास्ते <।> ते पुनः संस्काराः किंनिदानाः किंसमुदयाः किंजातीयाः किंप्रभवा <।> विस्तरेण यावत्<।>

तत्र भिक्षवः षडायतनमनित्यं संस्कृतं चेतितं प्रतीत्यसमुत्पन्नं <।> सोऽपि स्पर्शः सापि वेदना सापि तृष्णा (१२ ८) तेऽपि संस्काराः सापि समनुपश्यना अनित्या संस्कृता चेतिता प्रतीत्यसमुत्पन्ना अस्मीत्यधिगता भवत्य्<।> अयमहमस्मीति संनुपश्यति <।> सत्कायदृष्टिपर्यवस्थानमुत्पादयति <।> स तस्मात्पर्यवस्थानादन्यत्(१२ ९) पर्यवस्थानमुत्पादयति अधिमात्रादधिमात्रतरं तीव्रात्तीव्रतरं परिपूर्णात्परिपूर्णतरं <।> इति पूर्वकं पर्यवस्थानं त्र्ष्णा पश्चिममुपादानं <।> तदुच्यते तृष्णाप्रत्ययमुपादानं <।>

अपि खलु शाश्वतो लोकः (१२ १०) अन्तग्राहदृष्टिपर्यवस्थानमुत्पादयत्यधिमात्रा<द>धिमात्रतरं यावत्परिपूर्णात्परिपूर्णतरम् <।> इति पूर्वकं पर्यवस्थानं तृष्णा पश्चिमकमुपादानं <।> तदुच्यते तृष्णाप्रत्ययमुपादानं <।>

अशाश्वतो (१२ १) लोकः <।> शाश्वतश्चाशाश्वतश्च <।> नैव शाश्वतो नाशाश्वतः <।> अन्तवान् लोकः <।> अनन्तवान् लोकः <।> अन्तवांश्चानन्तवांश्च <।> नैवान्तवाननन्तवांश्च । स जीवस्तच्छरीरं <।> अन्यो जीवोऽन्यच्छरीरं भवति <।> तथागतः परं मरणान्न भवति <।> तथागतः (१२ २) परं मरणाद्भवति च न भवति च <।> नैव भवति न न भवति परं मरणाद्<।> अन्तग्राहदृष्टिपर्यवस्थानमुत्पादयति <।> स तस्मात्पर्यवस्थानाद्यावत्परिपूर्णात्परिपूर्णतरं <।> इति पूर्वकं पर्यवस्थानं तृष्णा पश्चिमकम् (१२ ३) उपादानं <।> तदुच्यते तृष्णाप्रत्ययमुपादानं <।>

अपि खलु न भगवांस्तथागतोऽर्हन् सम्यक्संबुद्धो न विद्याचरणसंपन्नो न सुगतो लोकविदनुत्तरः पुरुषदंयसारथि शास्ता देवमनुष्याणां बुद्धो भगवां मिथ्या दृष्टिपर्यवस्थानं (१२ ४) उत्पादयति <।> स तस्मात्पर्यवस्थानाद्विस्तरेण परिपूर्णात्परिपूर्णतरं <।> तदुच्यते तृष्णाप्रत्ययमुपादानं <।>

न स्वाख्यातो भगवतो धर्मो न सांदृष्टिको न निर्ज्वरः नाकालिकः नौपनायिको नैहिपश्यकः (१२ ५) न प्रत्यात्मवेदनीयो विज्ञैर्<।>
न सुप्रतिपन्नो भगवतः श्रावकसंघो न ऋजुप्रतिपन्नो न न्यायप्रतिपन्नो न सामीचीप्रतिपन्नो नानुधर्मचारी <।>

न दुःखं <।> न समुदयो <।> न निरोधो <।> न मार्गो <।>

न सर्वसंस्कारा (१२ ६) अनित्या <।> न सर्वधर्मा अनात्मानो <।> न शान्तं निर्वाणम् <।> इति मिथ्यादृष्टिपर्यवस्थानमुत्पादयति <।> स तस्मात्पर्यवस्थानादन्यत्पर्यवस्थानमुत्पादयति <।> विस्तरेण यावद्<।> इति पूर्वकं पर्यवस्थानं (१२ ७) तृष्णा पश्चिममुपादानं <।> तदुच्यते तृष्णाप्र<त्य>यमुपादानमिति <।>

अपि खलु शाश्वतो लोक इदमेव सत्यं मोहमन्यद्<।> इति दृष्टिपरामर्शपर्यवस्थानमुत्पादयति <।> स तस्मात्पर्यवस्थानादन्यत्पर्यवस्थानम् (१२ ८) उत्पादयति <।> विस्तरेण यावत्पश्चिमकमुपादानं <।> तदुच्यते तृष्णाप्रत्ययमुपादानं <।>

शाश्वतो लोको विस्तरेण यावच्चैव भवति तथागतः परं मरणादिति इदमेव सत्यं मोहमन्यद्<।> (१२ ९) इति दृष्टिपरामर्शपर्यवस्थानमुत्पादयति <।> स तस्मात्पर्यवस्थानादन्यत्पर्यवस्थानमुत्पादयति <।> विस्तरेण यावत्पश्चिमकमुपादानं <।> तदुच्यते तृष्णाप्रत्ययमुपादानं <।>

अपि खलु शीलं परामृशति (१२ १०) शीलेन शुच्यति मुच्यति निर्याति सुखदुःखं व्यतिक्रामति सुखदुःखव्यतिक्रमं चानुप्राप्नोति <।> शीलव्रतपरामर्शपर्यवस्थानमुत्पादयति <।> स तस्मात्पर्यवस्थानादन्यत्पर्यवस्थानमुत्पादयति (१३ १) <।> विस्तरेण यावत्पश्चिमकमुपादानं <।> तदुच्यते तृष्णाप्रत्ययमुपादानं <।>

व्रतं परामृशति यदुभयतः शीलव्रतं परामृशति <।> शीलव्रतेन शुच्यति मुच्यते निर्याति यावत्सुखदुःखं व्यतिक्रममनुप्राप्नोति (१३ २) <।> शीलव्रतपरामर्शपर्यवस्थानमुत्पादयति <।> स तस्मात्पर्यवस्थानादन्यत्पर्यवस्थानमुत्पादयति <।> विस्तरेण यावत्पश्चिमकमुपादानं <।> तदुच्यते तृष्णाप्रत्ययमुपादानं <।>

अपि खलु तथागतो भगवानर्हन् सम्यक्संबुद्धो (१३ ३) नेति विचिकित्सापर्यवस्थानमुत्पादयति <।> स तस्मात्पर्यवस्थानादन्यं पर्यवस्थानमुत्पादयति <।> विस्तरेण यावत्पश्चिमकमुपादानं <।> तदुच्यते तृष्णाप्रत्ययमुपादानं <।> विद्याचरणसंपन्नो न विद्याचरणसंपन्नः (१३ ४) <।> सुगतो लोकवित्* न सुगतो लोकवित्* <।> अनुत्तरो नानुत्तरः <।> पुरुषदम्यसारथिः न पुरुषदम्यसारथिः <।> शास्ता देवमनुष्याणां न शास्ता देवमनुष्याणां <।> बुद्धो भगवान्न बुद्धो भगवान् * <।>

(१३ ५) स्वाख्यातो भगवतो धर्मो न स्वाख्यातो भगवतो धर्मः <।> सांदृष्टिको न सांदृष्टिको <।> निर्ज्वरो न निर्ज्वरः <।> आकालिको नाकालिकः <।> औपनायिको नौपनायिकः <।> ऐहिदर्शिको नैहिदर्शिकः <।> प्रत्यात्मवेद्<अनी>यो (१३ ६) विज्ञैः न प्रत्यात्मवेदनीयो विज्ञैः <।>

सुप्रतिपन्नो भगवतः श्रावकसंघो न सुप्रतिपन्नो भगवतः श्रावकसंघः <।> ऋजुप्रतिपन्नो न ऋजुप्रतिपन्नो <।> न्यायप्रतिपन्नो न न्यायप्रतिपन्नो (१३ ७) <।> धर्मानुधर्मप्रतिपन्नो न धर्मानुधर्मप्रतिपन्नः <।> सामीचीप्रतिपन्नो न सामीचीप्रतिपन्नः <।> अनुधर्मचारी नानुधर्मचारी <।>

दुःखं न दुःखं <।> समुदयो न समुदयो <।> निरोधो न निरोधः <।> मार्गो न मार्गः <।> सर्वसंस्कारा (१३ ८) अनित्या न सर्वसंस्कारा अनित्याः <।> सर्वधर्मा अनात्मानः न सर्वधर्मा अनात्मानः <।> शान्तं निर्वाणं न शान्तं निर्वाणं <।> इति विचिकित्सापर्यवस्थानमुत्पादयति <।> विस्तरेण यावत्पश्चिमकमुपादानम्* <।> (१३ ९) तदुच्यते तृष्णाप्रत्ययमुपादानं <।>

अपि खलु सर्वाण्येव चत्वार्युपादानानि तृष्णासमुदयानि तृष्णाजातीयानि तृष्णाप्रभवानि <।> कतमानि चत्वारि <।> कामोपादानं दृष्ट्युपादानं शीलव्रतोपादानमात्मवादोपादानं (१३ १०) <।>

कामोपादानं कतमद्<।> आह । कामप्रतिसंयुक्तां दृष्टिं शीलव्रतं च स्थाप्य यानि <तद>न्यानि कामप्रतिसंयुक्तानि संयोजनबन्धनानुशयोपक्लेशपर्यवस्थानानि इदमुच्यते (१३ १) कामोपादानं <।>

दृष्ट्युपादानं कतमद्<।> आह । चतस्रो दृष्टयो दृष्ट्युपादानमित्युच्यते सत्कायदृष्टिरन्तग्राहदृष्टिर्मिथ्यादृष्टिर्दृष्टिपरामर्श इतीमाश्चतस्रो दृष्टयो <।> दृष्ट्युपादानमित्युच्यते <।>

शीलव्रतोपादानं कतमद्<।> यथा (१३ २) खल्विहैकत्यः शीलं परामृशति विस्तरेण यावत्* <।> उभयेन शीलव्रतेन शुच्यति मुच्यते निर्याति सुखदुःखं व्यतिक्रामति सुखदुःखव्यतिक्रममनुप्राप्नोति <।> इदमुच्यते शीलव्रतोपादानं <।>

आत्मव्रतोपादानम् (१३ ३) आत्मव्<आद्>ओपादानं कतमत्* <।> रूपारूप्यप्रतिसंयुक्ता<ं> दृष्टि<ं> शीलव्रतं च स्थाप्य तदन्यानि रूपारूप्यप्रतिसंयुक्तानि संयोजनबन्धनानुशयोपक्लेशपर्यवस्थानानीदमुच्यते आत्मवादोपादानं <।>

(१३ ४) अपि खल्वेवमुक्तं भगवता महानिदाने व्याकरणे आयुष्मत्यानन्दे <।>

अस्ति प्रत्ययमानन्दोपादानं विस्तरेण यावत्<।>

तृष्णा चेदानन्द नाभविष्यदपि नु कस्य चित्का चित्तृष्णाभविष्यन् <।> नो भदन्त <।> सर्वशो वा पुनरानन्द (१३ ५) तृष्णायामसत्यामपि नु उपादानं प्रज्ञापयेत <।> नो भदन्त <।> तस्मात्तर्ह्यानन्द एतन्निदानमेष हेतुरेष समुदय एष प्रत्ययः उपादानस्य यदुत तृष्णा तृष्णाप्रत्ययमुपादानं <।> इति (१३ ६) यदुक्तमिदं मे तत्प्रत्युक्तमिति ॥

११. (उपादानप्रत्ययो भवः)

भवः कतम <।> आह <।> उपादानान्येव प्रतीत्यानेकविधा भवप्रज्ञप्तिरुक्ता भगवता <।> एकविधा अस्ति भवप्रज्ञप्तिर्यत्र त्रैधातुकाः पंच स्कन्धा उक्ता भगवता <।> (१३ ७) अस्ति भवप्रज्ञप्तिर्यत्रायत्यां पुनर्भवाभिनिर्व<र्त>कं कर्मोक्तं भगवता <।> अस्ति भवप्रज्ञप्तिर्यत्रोपप<त्>त्यंगिका पंच स्कन्धा उक्ता भगवता <।>

कतमा भवप्रज्ञप्तिर्यत्र त्रैधातुकाः पंच स्कन्धा भवा उक्ता (१३ ८) भगवता <।> यदुक्तं <।> त्रयो भवाः कामभवो रूपभवः आरूप्यभवः <।> इयं भवप्रज्ञप्तिर्यत्र त्रैधातुकाः पंच स्कन्धा भव उक्ता भगवता <।>

कतमा भवप्रज्ञप्तिर्यत्रायत्यां पुनर्भवाभिनिर्वर्तकं कर्मोक्तं भगवता (१३ ९) <।> यदुक्तं <।> यदपि तदानन्द कर्मायत्यां पुनर्भवाय संवर्तते इदमत्र भवस्य <।> इयं भवप्रज्ञप्तिर्यत्रायत्यां पुनर्भवाभिनिर्वर्तकं कर्म भव उक्तं भगवता <।>

कतमा भवप्रज्ञप्तिर्यत्रोपप<त्>त्यांगिकाः (१३ १०) पंच स्कन्धा भव उक्ता भगवता <।> यदुक्तं <।> विज्ञानं फल्गुनाहारं यावदेवायत्यां पुनर्भवाभिनिर्वर्तये प्रादुर्भावाय <।> इयं भवप्रज्ञप्तिर्यत्रोपपत्<त्>यांगिकाः पंच स्कन्धा भव उक्तं भगवता <।>

अपि (१४ १) खल्वेवमुक्तं भगवता निदानपर्याये व्याकरणे आयुष्मत्यानन्दे <।>

अस्ति प्रत्ययमानन्द भवो <।> विस्तरेण यावत्<।>

सर्वशो वा पुनरानन्द उपादाने असति अपि नु भवः प्रज्ञायेत <।> नो भदन्त <।> तस्मात्तर्ह्यानन्द एत<न्नि>दानं (१४ २) चैष हेतुरेष समुदय एष प्रत्ययो भवस्य यदुतोपादानं <।> उपादानप्रत्ययमानन्द भव <।> इति यदुक्तमिदं मे तत्प्रत्युक्तम् ॥


१२. (भवप्रत्यया जातिः)

भवप्रत्यया जातिः कतमा <।> आह <।> यथा खल्विहैकत्यो रागपर्यवस्थितो (१४ ३) द्वेषपर्यवस्थितो मोहपर्यवस्थितः कायेन दुश्चरितं चरति वाचा मनसा दुश्चरितं चरति <।> ये ते अकुशला कायसंस्कारा वाक्संस्कारा मनःसंस्कारा अयमुच्यते अकुशलः कर्मभवः <।> यदपि तद्धेतु (१४ ४) तत्प्रत्ययं कायस्य भेदान्नरकेषूपपद्यते <।> तत्र या जातिः संजातिरवक्रान्तिरभिनिर्वृत्तिः प्रादुर्भावः स्कन्धप्रतिलाभो धातुप्रतिलाभ आयतनप्रतिलाभो जीवितेन्द्रियस्य प्रादुर्भाव इतीयं जातिर्(१४ ५) इमं भवं प्रतीत्य तदुच्यते भवप्रत्यया जातिर्<।>

इति यथा नरकेष्वेवं तिर्यक्प्रेतेषु ।

यथा खल्विहैकत्यो मनुष्यसुखकानामवेक्षावान् भवति प्रतिबद्धचित्तः <।> तस्यैवं भवत्य्<।> अहो बताहं मनुष्यसुभगानां (१४ ६) सभागतायामुपपद्येयमिति <।> स तत्प्रार्थयमानस्तद्धेतोस्तत्संवर्तनीयं कायेन सुचरितं चरति वाचा मनसा सुचरितं चरति <।> ये ते कुशलाः कायसंस्कारा वाक्संस्कारा मनःसंस्कारा (१४ ७) अयमुच्यते कुशलः कर्मभवः <।> यदपि तद्धेतु तत्प्रत्ययं कायस्य भेदान्मनुष्यसुभगानां सभागतायामुपपद्यते <।> तत्र या जातिः संजातिर्विस्तरेण तदुच्यते भवप्रत्यया जाति <।>

यथा मनुष्यसुभगानां (१४ ८) एवं चातुर्महाराजिकानां त्रयस्त्रिंशानां यामानां तुषितानां निर्माणरतीनां परनिर्मितवशवर्तिनां <।>

यथा खल्विहैकत्यो ब्रह्मकायिकानां देवानामवेक्षावान् भवति प्रतिबद्धचित्तः तस्यैवं भवत्य्(१४ ९) <।> अहो बताहं ब्रह्मकायिकानां देवानां सभागतायामुपपद्येयमिति <।> स तत्प्रार्थयमानस्तद्धेतोस्तत्संवर्तनीयं विविक्तं कामैर्विविक्तं पापकैरकुशलैर्धर्मैः सवितर्कं सविचारं विवेकजं (१४ १०) प्रीतिसुखं प्रथमं ध्यानमुपसंपद्य विहरति <।> तथा समापन्नस्य यः कायसंवरो वाक्संवर आजीवपरिशुद्धि<र्> अयमुच्यते कुशलः कर्मभवः <।> यदपि तद्धेतु तत्प्रत्ययं कायस्य भेदाद्(१४ १) ब्रह्मकायिकानां देवानां सभागतायामुपपद्यते <।> तत्र जातिः संजातिर्विस्तरेण यावद्<।> इयं जातिरिमं भवं प्रतीत्य तदुच्यते भवप्रत्यया जातिरिति <।>

यथा ब्रह्मकायिकानामेवं ब्रह्मपुरोहितानां महाब्रह्मणां <।>

(१४ २) यथा खल्विहैकत्यः परीत्ताभानां देवानामवेक्षावान् भवति प्रतिबद्धचित्तः <।> तस्यैवं भवत्य्<।> अहो बताहं परीत्ताभानां देवानां सभागतायामुपपद्येयमिति <।> स तत्प्रार्थयमानो वितर्कविचाराणां व्युपशमाद्(१४ ३) अध्यात्मसंप्रसादाच्चेतस एकोतीभावादवितर्कमविचारं समाधिजं प्रीतिसुखं द्वितीयं ध्यानमुपसंपद्य विहरति <।> तथा समापन्नस्य यः कायसंवरो वाक्संवर आजीवपरिशुद्धिः अयमुच्यते (१४ ४) कुशलः कर्मभवः <।> यदपि तद्धेतु तत्प्रत्ययं कायस्य भेदात्परीत्ताभनां देवानां सभागतायामुपपद्यते <।> तत्र या जातिः संजातिर्विस्तरेण जीवितेन्द्रियस्य प्रादुर्भावः <।> इतीयं जातिरिमं भवम्* (१४ ५) प्रतीत्य तदुच्यते भवप्रत्यया जातिः <।>

यथा परीत्ताभानामेवमप्रमाणाभानामाभास्वराणां <।>

यथा खल्विहैकत्यः परीत्तशुभानां देवानामवेक्षावान् भवति प्रतिबद्धचित्तः <।> तस्यैवं भवत्य्<।> अहो बताहं (१४ ६) परीत्तशुभानां देवानां सभागतायामुपपद्येयं <।> स तत्प्रार्थयमानस्तद्धेतोस्तत्संवर्तनीयं प्रीतेर्विरागादुपेक्षको विहरति <।> स्मृतः संप्रजानन् सुखं च कायेन प्रतिसंवेदयते <।> यत्(१४ ७) तदार्या आचक्षते उपेक्षकः स्मृतिमां सुखविहारीति तृतीयं ध्यानमुपसंपद्य विहरति <।> तथा समापन्नस्य यः कायसंवरो वाक्संवरः आजीवपरिशुद्धिरयमुच्यते कुशलः कर्मभवः <।> (१४ ८) यदपि तद्धेतु तत्प्रत्ययं कायस्य भेदात्परीत्तशुभानां देवानां सभागतायामुपपद्यते <।> तत्र या जातिः संजातिर्विस्तरेण <।> इयमुच्यते भवप्रत्यया जातिरिति <।>

यथा परीत्तशुभानामेवम् (१४ ९) अप्रमाण्<अशु>भानां शुभकृत्स्नानां <।>
यथा खल्विहैकत्यः अनभ्रकाणां देवानामवेक्षावान् भवति प्रतिबद्धचित्तः <।> तस्यैवं भवत्य्<।> अहो बताहमनभ्रकाणां देवानां सभागतायामुपपद्येयमिति <।> स तत्प्रार्थयमानस्(१४ १०) तद्धेतोस्तत्संवर्तनीयं सुखस्य च प्रहाणा<द्> दुःखस्य च प्रहाणा<त्> पूर्वमेव च सौमनस्यदौर्मनस्ययोरस्तगमाददुःखासुखमुपेक्षास्मृतिपरिशुद्धं चतुर्थं ध्यानमुपसंपद्य विहरति <।> (१५ १) तथा समापन्नस्य यः कायसंवरो वाक्संवर आजीवपरिशुद्धिरयमुच्यते कुशलः कर्मभवः <।> यदपि तद्धेतु तत्प्रत्ययं कायस्य भेदादनभ्रकाणां देवानां सभागतायामुपपद्यते (१५ २) <।> तत्र या जातिः संजातिः विस्तरेण यावज्जीवितेन्द्रियस्य प्रादुर्भावः <।> इतीयं जातिरिमं भवं प्रतीत्य तदुच्यते भवप्रत्यया जातिः <।>

यथा अनभ्रकाणामेवं पुण्यप्रसवानाम् (१५ ३) असंज्ञिसत्व्<अ>संगृहीतानां च बृहत्फलानां <।>

यथा खल्विहैकत्यः असंज्ञिसत्वानां देवानामवेक्षावान् भवति प्रतिबद्धचित्तः <।> तस्यैवं भवत्य्<।> अहो बताहमसंज्ञिसत्वानां देवानां सभागतायाम् (१५ ४) उपपद्येयमिति <।> स तं प्रार्थयमानस्तद्धेतोस्तत्संवर्तनीयं संज्ञामौदारिकतो दुःखिलतः स्थूलभित्तिकतो मनसिकरोति आसंज्ञिकं च शान्ततः प्रणीततो निःसरणतः <।> तस्य संज्ञामौदारिकतो (१५ ५) दुःखिलतः स्थूलभित्तिकतो मनसिकुर्वतः आसंज्ञिकं च शान्ततः प्रणीततो निःसरणतः संज्ना अन्तर्धीयते आसंज्ञिकं च संस्थिहति । इति यत्र मम संज्ञा अन्तरायत्यासंज्ञिकं (१५ ६) च संस्थिहत्येतावदसंज्ञिसमापत्तिः समापन्न इति वक्तव्यं <।> तथा समापन्नस्य यः कायसंवरो वाक्संवरः आजीवपरिशुद्धिरयमुच्यते कुशलः कर्मभवः <।> यदपि तद्धेतु तत्प्रत्ययं (१५ ७) कायस्य भेदादसंज्ञिसत्वानां देवानां सभागतायामुपपद्यते <।> तत्र या जातिः संजातिर्विस्तरेण यावज्जीवितेन्द्रियस्य प्रादुर्भाव इति <।> इतीयं जातिरिमं भवं प्रतीत्य तदुच्यते (१५ ८) भवप्रत्यया जातिरिति <।>

यथा खल्विहैकत्यः आकाशानन्त्यायतनानां देवानामवेक्षावान् भवति प्रतिबद्धचित्तः <।> तस्यैवं भवत्य्<।> अहो बताहमाकाशानन्त्यायतनानां देवानां सभागतायामुपपद्येयम् (१५ ९) इति <।> स तत्प्रार्थयमानस्तद्धेतोस्तत्संवर्तनीयं सर्वशो रूपसंज्ञानां समतिक्रमात्प्रतिघसंज्ञानामस्तगमान्नानात्वसंज्ञानाममनसिकारादनन्तमाकाशमित्याकाशानन्त्यायत<न>म् (१५ १०) उपसंपद्य विहरति <।> तथा समापन्नस्य या चेतना संचेतनाभिसंचेतना चेतयितं चेतनागतं चित्ताभिसंस्कारो मनस्कर्म अयमुच्यते कुशलः कर्मभवः <।> यदपि तद्धेतु (१५ १) तत्प्रत्ययं कायस्य भेदादाकाशानन्त्यायतनानां देवानां सभागतायामुपपद्यते <।> तत्र या जातिः संजातिर्विस्तरेण याव<ज्> जीवितेन्द्रियप्रादुर्भाव <।> इतीयं जातिरिमं भवं प्रतीत्य तदुच्यते (१५ २) भवप्रत्यया जातिरिति <।>

यथा खल्विहैकत्यो विज्ञानानन्त्यायतनानां देवानामवेक्षावान् भवति प्रतिबद्धचित्तः <।> तस्यैवं भवत्य्<।> अहो बताहं विज्ञानानन्त्यायतनानां देवानां सभागतायामुपपद्येयं (१५ ३) इति <।> स तत्प्रार्थयमानस्तद्धेतोस्तत्संवर्तनीयं सर्वश आकाशानन्त्यायतनं समतिक्रम्यानन्तं विज्ञानमिति विज्ञानानन्त्यायतनमुपसंपद्य विहरति <।> तथा समापन्नस्य या चेतना यावच्चित्ताभिसंस्कारो (१५ ४) मनस्कर्मायमुच्यते कुशलः कर्मभवः <।> यदपि तद्धेतु तत्प्रत्ययं कायस्य भेदाद्विज्ञानानन्त्यायतनानां देवानां सभागतायामुपपद्यते <।> तत्र या जातिः संजातिः विस्तरेण (१५ ५) यावज्जीवितेन्द्रियस्य प्रादुर्भाव <।> इतीयं जातिरिमं भवं प्रतीत्य तदुच्यते भवप्रत्यया जातिरिति <।>

यथा खल्विहैकत्य आकिंचन्यायतनानां देवानामवेक्षावान् भवति प्रतिबद्धचित्तः (१५ ६) <।> तस्यैवं भवत्य्<।> अहो बताहमाकिंचन्यायतनानां देवानां सभागतायामुपपद्येयमिति <।> स तत्प्रार्थयमानस्तद्धेतोस्तत्संवर्तनीयं सर्वशो विज्ञानानन्त्यायतनं समतिक्रम्य नास्ति (१५ ७) किं चिदित्याकिंचन्यायतनमुपसंपद्य विहरति <।> तथा समापन्नस्य या चेतना संचेतना विस्तरेण यावच्चित्ताभिसंस्कारो मनस्कर्म अयमुच्यते कुशलः कर्मभवः <।> (१५ ८) यदपि तद्धेतु तत्प्रत्ययं कायस्य भेदादाकिंचन्यायतनानां देवानां सभागतायामुपपद्यते <।> तत्र या जातिः संजातिः विस्तरेण यावज्जीवितेन्द्रियस्य प्रादुर्भाव (१५ ९) <।> इतीयं जातिरिमं भवं प्रतीत्य तदुच्यते भवप्रत्यया जातिरिति <।>

यथा खल्विहैकत्यो नैवसंज्ञानासंज्ञायतनानां देवानामवेक्षावान् भवति प्रतिबद्धचित्तः <।> (१५ १०) तस्यैवं भवत्य्<।> अहो बताहं नैवसंज्ञानासंज्ञायतनानां देवानां सभागतायामुपपद्येयमिति <।> स तत्प्रार्थयमानस्तद्धेतोस्तत्संवर्तनीयमाकिंचन्यायतनं समतिक्रम्य (१६ १) नैवसंज्ञानासंज्ञायतनमुपसंपद्य विहरति <।> तथा समापन्नस्य या चेतना विस्तरेण याव<च्> चित्ताभिसंस्कारो मनस्कर्मायमुच्यते कुशलः कर्मभवः <।> यदपि तद्धेतु तत्प्रत्ययं नैवसंज्ञानासंज्ञायतनानां (१६ २) देवानां सभागतायामुपपद्यते <।> तत्र या जातिः संजातिरवक्रान्तिरभिनिर्वृत्तिः प्रादुर्भावः स्कन्धप्रतिलाभो धातुप्रतिलाभः आयतनप्रतिलाभः जीवितेन्द्रियस्य प्रादुर्भावः (१६ ३) <।> इतीयं जातिरिमं भवं प्रतीत्य तदुच्यते भवप्रत्यया जातिरिति <।>

अपि खल्वेवमुक्तं भगवता महानिदानपर्याये व्याकरणे आयुष्मत्यानन्दे <।>

अस्ति प्रत्ययमानन्द जातिर्<।> इति पृष्टैरस्तीति (१६ ४) वचनीयं <।> किंप्रत्यया जातिरिति <।> भवप्रत्यया इति वचनीयं <।> भवप्रत्यया आनन्द जातिर्<।> इति मे यदुक्तमिदं मे तत्प्रत्युक्तम् ।

भवश्चेदानन्द न स्यादपि नु मत्स्यानां मत्स्यत्वे पक्षिणानां वा पक्षित्वे (१६ ५) सरीसृपाणां सरीसृपत्वे चतुष्पदानां वा चतुष्पदत्वे नागानां वा नागत्वे यक्षाणां वा यक्षत्वे भूतानां वा भूतत्वे गन्धर्वाणां वा गन्धर्वत्वे देवानां वा देवत्वे मनुष्याणां वा मनुष्यत्वे (१६ ६) तेषां तेषामानन्द सत्वानां तस्मिन् तस्मिन् सत्वनिकाये अपि नु कस्य चित्क<श्> चिद्भवः स्यान् <।> नो भदन्त <।> सर्वशो वा पुनरानन्द भवे असत्यपि नु कस्य चित्क्<आ> चिज्जाति<ः> प्रज्ञायेत <।> नो भदन्त <।> (१६ ७) तस्मात्तर्ह्यानन्दैतन्निदानमेष समुदय एष हेतुरेष प्रत्ययो जात्या यदुत भवः <।> भवप्रत्यया आनन्द जातिर्<।> इति मे यदुक्तमिदं मे तत्प्रत्य्<उ>क्तम् ।


१३. (जातिप्रत्यया जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासाः)

जातिप्रत्ययं जरामरणमिति <।>

जरा कतमा <।> (१६ ८) आह <।> यत्तेषां तेषां सत्वानां तस्मिं तस्मिं सत्वनिकाये जातिः संजातिरवक्रान्तिरभिनिर्वृत्तिर्विस्तरेण जीवितेन्द्रियस्य प्रादुर्भावः इयमुच्यते जातिः <।>

अपि खल्वेवमुक्तं भगवता महानिदानपर्याये (१६ ९) व्याकरणे आयुष्मत्यानन्दे <।>

अस्ति प्रत्ययमानन्द जरामरणं <।> इति पृष्टैरस्तीति स्याद्वचनीयं <।> विस्तरेण यावज्<।>

जातिश्चेदानन्द न स्यादपि नु मत्स्यानां वा मत्स्यत्वे पक्षिनां वा (१६ १०) पक्षित्वे विस्तरेण याव<द्> देवानां देवत्वे तेषां तेषामानन्द सत्वानां तस्मिं तस्मिन् सत्वनिकाये अपि नु कस्य चित्क्<आ> चिज्जातिः स्यान् <।> नो भदन्त <।> सर्वशो वा पुनरानन्द जात्याम<सत्यां> (१६ १) अपि नु जरामरणं प्रज्नायेत <।> नो भदन्त <।> तस्मात्तर्ह्यानन्द तन्निदानमेष समुदय एष हेतुरेष प्रत्ययो जरामरणस्य यदुत जातिः <।> जातिप्रत्ययमानन्द जरामरणमिति मे यदुक्तम् (१६ २) एतत्प्रत्युक्तम् ॥

जरा कतमा <।> यत्तत्खालित्यं पालित्यं विस्तरेण यावत्संस्काराणां पुराणीभावो जर्जरीभाव इयमुच्यते जरा <।>
मरणं कतमद्<।> आह <।> यत्तेषां तेषां सत्वानां तस्मात्तस्मात्सत्वनिकायाच्(१६ ३) च्युतिश्च्यवनता भेदोऽन्तर्हाणिः संमोषः परिहाणिः आयुषो हानिरूष्मणो हानिः स्कन्धानां निक्षेपो जीवितेन्द्रियस्योपरोधो मरणं कालक्रिया इदमुच्यते मरणं <।>

शोकः कतम <।> आह (१६ ४) । यत्तन्मातृम<र>णेन पितृमरणेन भ्रातृमरणेन भगिनीमरणेन ज्ञातिक्षयाद्धनक्षयाद्भोगक्षयात्स्पृष्टस्य शारीरिकाभिर्वेदनाभिर्दुःखाबिस्तीव्राभिः खराभिः कटुकाभिरमनापाभिः (१६ ५) प्राणहारिणीभिर्यो दाघः संदाघः शोकः शोचना शोकायितत्वमयमुच्यते शोकः <।>

परिदेवः कतम <।> आह । तथा दह्यते तथा परिदह्यते । हा अंब हा तात हा भगिनि हा भ्रातः <।> तदुपादाय (१६ ६) यद्वाक्यं वचनं व्याहारो भाषा गीर्निरुक्तिर्वाक्पथो वाग्घोषो वाचा वाक्कर्म वाग्विज्ञप्तिरार्त्तिर्भाष्यं विप्रलापो लालप्यं लालप्यनता परिदेवः परिदेवनता अयमुच्यते (१६ ७) परिदेवः <।>

दुःखं कतमद्<।> आह । पंचविज्ञानसंप्रयुक्तमसातं वेदितं वेदनागतमिदमुच्यते दुःखं <।>

दौर्मनस्यं कतरद्<।> आह । मनोविज्ञानंसप्रयुक्तमसातं वेदितं वेदनागतमिदमुच्यते दौर्मनस्यं (१६ ८) <।>

उपायासः कतम <।> आह । यश्चेतस आयास उपायासः उपायासनता अयमुच्यते उपायासः ॥


१४. (दुःखस्कन्धस्याभिनिर्वृत्तिः)

अपि खल्वविद्यादुःखस्कन्धं प्रतीत्य संस्कारदुःखस्कन्धस्याभिनिर्वृत्तिर्भवति (१६ ९) प्रादुर्भावः <।> संस्कारदुःखस्कन्धं प्रतीत्य विज्ञानदुःखस्कन्धस्याभिनिर्वृत्तिर्भवति प्रादुर्भावः <।> विज्ञानदुःखस्कन्धं प्रतीत्य नामरूपदुःखस्कन्धस्याभिनिर्वृत्तिर्भवति प्रादुर्भावः <।> नामरूपदुःखस्कन्धं (१६ १०) प्रतीत्य षडायतनदुःखस्कन्धस्याभिनिर्वृत्तिर्भवति प्रादुर्भावः <।> षडायतनदुःखस्कन्धं प्रतीत्य स्पर्शदुःखस्कन्धस्याभिनिर्वृत्तिर्भवति प्रादुर्भावः <।> स्पर्शदुःखस्कन्धं (१७ १) प्रतीत्य वेदनादुःखस्कन्धस्याभिनिर्वृत्तिर्भवति प्रादुर्भावः <।> वेदनादुःखस्कन्धं प्रतीत्य तृष्णादुःखस्कन्धस्याभिनिर्वृत्तिर्भवति प्रादुर्भावः <।> तृष्णादुःखस्कन्धं प्रतीत्योपादानदुःखस्कन्धस्याभिनिर्वृत्तिर्(१७ २) भवति प्रादुर्भावः <।> उपादानदुःखस्कन्धं प्रतीत्य भवदुःखस्कन्धस्याभिनिर्वृत्तिर्भवति प्रादुर्भावः <।> भवदुःखस्कन्धं प्रतीत्य जातिदुःखस्कन्धस्याभिनिर्वित्तिर्भवति प्रादुर्भावः <।> जातिदुःखस्कन्धम्* (१७ ३) प्रतीत्य जरा<म>रणदुःखस्कन्धस्याभिनिर्वृत्तिर्भवति प्रादुर्भावः ॥ ॥


१५. (पञ्च भयानि वद्यानि वैराणि)

एवं मया श्रुतमेकस्मिन् समये भगवांश्छ्रावस्त्यां विहरति जेतवनेऽनाथपिण्डदस्यारामे <।> तत्र भगवान् भिक्षूनामन्त्रयते स्म । यस्य कस्य चिद्भिक्षवः (१७ ४) पंच भयानि वद्यानि वैराणि अशान्तानि भवन्ति स दृष्ट एव धर्मे विज्ञानां गर्ह्यो भवति पश्चाच्चानुताप्यः कायस्य च भेदात्परं मरणादपायदुर्गतिं विनिपातं नरकेषूपपद्यते <।>

कतमानि पंच भयानि (१७ ५) वद्यानि वैराण्यशान्तानि भवन्ति <।>

यत्प्राणातिपातिकः प्राणातिपातप्रत्ययं वद्यं वैरं प्रसवति प्राणातिपातादप्रतिविरतस्य एवमस्येदं प्रथमं भयं वद्यं वैरमशान्तं भवति <।>

यद्(१७ ६) अदत्तादायिकः काममिथ्याचारिको मृषावादिकः

सुरामैरेयमद्यप्रमादस्थायिकः सुरामैरेयमद्यप्रमादस्थानभयं वद्यं वैरं प्रसवति सुरामैरेयमद्यप्रमादस्थानादप्रतिविरतस्य (१७ ७) एवमस्येदं पंचमं भयं वद्यं वैरमशान्तं भवति <।>

यस्य कस्य चिदिमानि पंच भयानि वद्यानि वैराण्यशान्तानि भवन्ति स दृष्ट एव धर्मे विज्ञानां गर्ह्यो भवति पश्चाच्चानुताप्यः <।> (१७ ८) कायस्य भेदात्परं मरणादपायदुर्गतिं विनिपातं नरकेषूपपद्यते ।

यस्य तु कस्य चित्पंच भयानि वद्यानि वैराणि शान्तानि भवन्ति स दृष्ट एव धर्मे विज्ञानां प्रशस्यो भवति पश्चाच्च नानुताप्यः (१७ ९) कायस्य च भेदात्सुगतौ स्वर्गलोके देवेषूपपद्यते <।>

कतमानि पंच भयानि वद्यानि वैराणि शान्तानि भवन्ति <।>

यत्* प्राणातिपातिकः प्राणातिपातप्रत्ययं भयं वद्यं वैरं प्रसवति प्राणातिपातात्(१७ १०) प्रतिविरतस्य एवमस्येदं प्रथमं वद्यं वैरं शान्तं भवति <।>
यददत्तादायिकः काममिथ्याचारिको मृषावादिकः

सुरामैरेयमद्यप्रमादस्थायिकः सुरामैरेयमद्यप्रमादस्थानप्रत्ययं (१७ १) भयं वद्यं वैरं प्रसवति सुरामैरेयमद्यप्रमादस्थानात्प्रतिविरतस्य एवमस्येदं पंचमं भयं वद्यं वैरं शान्तं भवति <।>

यस्य कस्य चिदिमानि पंच भयानि वद्यानि वैराणि शान्तानि भवन्ति स दृष्ट एव धर्मे (१७ २) विज्ञानां प्रशस्यो भवति पश्चाच्च नानुताप्यः कायस्य च भेदात्सुगतौ स्वर्गलोके देवेषूपपद्यते <।> इदमवोचद्भगवान् <।> इदमुक्त्वा सुगतो ह्यथापरमेतदुवाच शास्ता ॥

यः प्राणमतिपातयति मृषावादं (१७ ३) च भाषते ।
लोके अदत्तमादत्ते परदारं च गच्छति <।>
सुरामैरेयपानं च यो नरो ह्यधिगृध्यति <।>
सक्तः पंचसु धर्मेषु दुःशील इति कथ्यते ।
कायस्य भेदा<द्> दुष्प्रज्ञो नरकेषूपपद्यते <॥>
यस्तु प्राणं नातिपातयति (१७ ४) मृषावादं न भाषते <।>
लोके अदत्तं नादत्ते परदारं न गच्छति <।>
सुरामैरेयपानं च यो नरो नाधिगृध्यति ।
मुक्तः पंचसु धर्मेषु शीलवानिति कथ्यते <।>
कायस्य भेदात्सुगतो स्वर्गलोके देवेषूपपद्यते <।>

इदम् (१७ ५) अवोचत्* ॥


१६. (उपासकः)

कियता उपासको भवति <।> यतश्च गृही अवदातवसनः पुरुषः पुरुषेन्द्रियेण समन्वागतः बुद्धं शरणं गच्छति धर्मं संघं शरणं गच्छति चित्तमुत्पादयति वाचं च भाषते उपासकं (१७ ६) मां धारयेति <।> इयता उपासको भवति <।>

कियता उपासकः शिक्षास्वेकदेशकारी भवति <।> यतश्चोपासकः बुद्धं शरणं गतो भवति धर्मं संघं शरणं गतो भवति प्राणातिपातात्(१७ ७) प्रतिविरतः अदत्तादानात्काममिथ्याचारान्मृषावादादप्रतिविरतः इयता उपासकः शिक्षास्वेकदेशकारी भवति <।>

कियता उपासकः शिक्षासु (१७ ८) प्रदेशकारी भवति <।> यतश्चोपासकः बुद्धं शरणं गतो भवति धर्मं संघं शरणं गतो भवति प्राणातिपाताददत्तादानात्प्रतिविरतः काममिथ्याचारान्मृषावादात्सुरामैरेयमद्यप्रमादस्थानाद्(१७ ९) अप्रतिविरतः इयता उपासकः शिक्षासु प्रदेशकारी भवति <।>

कियता उपासकः शिक्षासु यद्भूयस्कारी भवति <।> यतश्चोपासकः बुद्धं शरणं गतो भवति धर्मं संघं शरणं (१७ १०) गतो भवति प्राणातिपाताददत्तादानात्काममिथ्याचारात्प्रतिविरतः मृषावादात्सुरामैरेयमद्यप्रमादस्थानादप्रतिविरतः इयता उपासकः शिक्षासु यद्भूयस्कारि भवति <।>

(१८ १) कियता उपासकः शिक्षास्वपरिपूर्णकारी भवति <।> यतश्चोपासकः बुद्धं शरणं गतो भवति धर्मं संघं शरणं गतो भवति प्राणातिपाताददत्तादानात्काममिथ्याचारान्मृषावादात्प्रतिविरतः सुरामैरेयमद्यप्रमादस्थानाद्(१८ २) अप्रतिविरतः इयता उपासकः शिक्षास्वपरिपूर्णकारी भवति <।>

कियता उपासकः शिक्षासु परिपूर्णकारी भवति <।> यतश्चोपासकः बुद्धं शरणं गतो भवति धर्मं संघं शरणं गतो भवति प्राणातिपातात्(१८ ३) प्रतिविरतः अदत्तादानात्काममिथ्याचारान्मृषावादात्सुरामैरेयमद्यप्रमादस्थानात्प्रतिविरतः इयता उपासकः शिक्षासु परिपूर्णकारी भवति ॥

पंचभिर्धर्मैः समन्वागतः उपासकः (१८ ४) आत्महिताय प्रतिपन्नो भवति न परहिताय <।> कतमैः पंचभिः <।> आत्मना प्राणातिपातात्प्रतिविरतो भवति <।> नो तु परान् प्राणातिपातविरतौ समादापयति <।>

आत्मना अदत्ता<दा>नात्३२६ (१८ ५) काममिथ्याचारान्मृषावादात्सुरामैरेयमद्यप्रमादस्थानात्प्रतिविरतो भवति <।> नो तु परान् सुरामैरेयमद्यप्रमादस्थानविरतौ समादापयति <।> एभिः पंचभिः (१८ ६) धर्मैः समन्वागत उपासक आत्महिताय प्रतिपन्नो भवति परहिताय ॥

दशभिर्धर्मैः समन्वागत उपासकः आत्महिताय प्रतिपन्नो भवति परहिताय च <।> आत्मना प्राणातिपातात्प्रतिविरतो (१८ ७) भवति परांश्च प्राणातिपातविरतौ समादापयति <।> आत्मना अदत्तादानात्काममिथ्याचारान्मृषावादात्सुरामैरेयमद्यप्रमादस्थानात्प्रतिविरतो भवति परांश्च सुरामैरेयमद्यप्रमादस्थानविरतौ (१८ ८) समादापयति <।> एभिर्दशभिर्धर्मैस्समन्वागतः उपासकः आत्महिताय प्रतिपन्नो भवति परहिताय च ॥

पंचदशभिर्धर्मैस्समन्वागत उपासकः अत्माहिताय प्रतिपन्नो भवति परहिताय च (१८ ९) बहुजनहिताय बहुजनसुखाय च <।> आत्मना प्राणातिपातात्प्रतिविरतो भवति परानपि प्राणातिपातविरतौ समादापयति प्राणातिपातविरतं च दृष्ट्वा सुमनोज्ञो भवति <।>

आत्मना (१८ १०) अदत्तादानात्काममिथ्याचारान्मृषावादात्सुरामैरेयमद्यप्रमादस्थानविरतौ समादापयति सुरामैरेयमद्यप्रमादस्थानविरतं च दृष्ट्वा सुमनोज्ञो भवत्य्<।> एभिः पंचदशभिर्धर्मै<ः> (१८ १) समन्वागतः उपासकः आत्महिताय प्रतिपन्नो भवति परहिताय बहुजनहिताय बहुजनसुखाय च ॥

अष्टाभिर्धर्मैस्समन्वागत उपासकः आत्महिताय प्रतिपन्नो भवति न परहिताय <।> आत्मना (१८ २) श्रद्धासंपन्नो भवति नो तु परां च्छ्रद्धासंपदि समादापयति <।> आत्मा<ना> शीलसंपन्नस्त्यागसंपन्नः <।> अभीक्ष्णमारामं गन्ता भवति भिक्षूणां दर्शनाय । अवहितश्रोत्रो धर्मं शृणोति <।> श्रुतानां धर्माणां धारणजातीयो भवति (१८ ३) <।> धृतानां धर्माणामर्थोपपरीक्षी भवति <।> आत्मना उपपरीक्षितानां धर्माणामर्थमाज्ञाय धर्ममाज्ञाय धर्मानुधर्मप्रतिपन्नो भवति सामीचीप्रतिपन्नोऽनुधर्म नो तु परान् धर्मचारी नो तु परान् धर्मानुधर्मप्रतिपत्तौ (१८ ४) समादापयति <।> एभिरष्टाभिर्धर्मैः समन्वागतः उपासकः आत्महिताय प्रतिपन्नो भवति न परहिताय ।

षोडशभिर्धर्मैः समन्वागत उपासकः आत्महिताय प्रतिपन्नो भवति (१८ ५) परहिताय च । आत्मना श्रद्धासंपन्नो भवति परानपि श्रद्धासंपदि समादापयति <।> आत्मना शीलसंपन्नस्त्यागसंपन्नो भवत्य्<।> आत्मना अभीक्ष्णमारामं गन्ता भवति भिक्षूणां दर्शनाय <।> अवहितश्रोत्रो (१८ ६) धर्मं शृणोति <।> श्रुतानां धर्माणां धारणजातीयो भवति <।> धृतानां धर्माणामुपपरीक्ष्<अ>णजातीयो भवति <।> आत्मना उपपरीक्षितानां धर्माणामर्थमाज्ञाय धर्ममाज्ञाय धर्मानुधर्मप्रतिपन्नो (१८ ७) भवति । सामीचीप्रतिपन्नोऽनुधर्मचारी परांश्च धर्मानुधर्मप्रतिपत्तौ समादापयति <।> एभिः षोडशभिर्धर्मैः समन्वागत उपासक आत्महिताय (१८ ८) प्रतिपन्नो भवति परहिताय च ।

चतुर्विंशत्या धर्मैस्समन्वागत उपासकः आत्महिताय प्रतिपन्नो भवति परहिताय बहुजनहिताय बहुजनसुखाय च <।> आत्मना श्रद्धासंपन्नो भवति परान् (१८ ९) अपि श्रद्धासंपदि समादापयति श्रद्धासंपन्नं च दृष्ट्वा सुमनो<ज्ञो> भवति <।> आत्मना शीलसंपन्नः त्यागसंपन्नः <।> अभीक्ष्णमारामं गन्ता भवति भिक्षूणां दर्शनाय <।> अवहितश्रोत्रो धर्मं शृणोति <।> श्रुतानां (१८ १०) धर्माणां धारणजातीयो भवति <।> धृतानां धर्माणामर्थोपपरिक्षी भवति <।> आत्मना उपपरिक्षितानां धर्माणामर्थमाज्ञाय धर्ममाज्ञाय धर्मानुधर्मप्रतिपन्नो भवति सामीचीप्रतिपन्नोऽनुधर्मचार्(१९ १) <।> परानपि धर्मानुधर्मप्रतिपत्तौ समादापयति <। धर्मा>नुधर्मप्रतिपन्नं च दृष्ट्वा सुमनोज्ञो भवति <।> एभिश्चतुर्विंशत्या धर्मैः समन्वागत उपासकः आत्महिताय प्रतिपन्नो भवति परहिताय बहुजनहिताय बहुजनसु<खा>य (१९ २) च ॥

दशभिर्धर्मैस्समन्वागत उपासकः कायस्य भेदात्परं मरणादपायदुर्गतिविनिपातं नरकेषूपपद्यते <।> आत्मना प्राणातिपातिको भवति <।> अदत्तादायिकः काममिथ्याचारिको मृषावादिकः पिशुनवादिकः (१९ ३) परुषवादिकः संभिन्नप्रलापिकोऽभिध्यालुर्व्यापन्नचित्तो मिथ्यादृष्टिकश्च भवति <।> एभिर्दशभिर्धर्मैः समन्वागत उपासकः कायस्य भेदाद्यावन्नरकेषूपपद्यते <।>

विंशत्या धर्मैः समन्वागत उपासकः कायस्य भेदाद्यावन् (१९ ४) नरकेषूपपद्यते <।> आत्मना प्राणातिपातिको भवति परानपि प्राणातिपाते समादापयति <।> आत्मना अदत्तादायिको यावन्मिथ्यादृष्टिकः <।> परानपि मिथ्यादृष्टौ समादापयत्य्<।> एभिर्विंशत्या धर्मैः समन्वागत (१९ ५) उपासकः कायस्य भेदाद्यावन्नरकेषूपपद्यते ।

त्रिंशता धर्मैः समन्वागतः उपासकः कायस्य भेदाद्यावन्नरकेषूपपद्यते <।> आत्मना प्राणातिपातिको भवति <।> परानपि प्राणातिपाते समादापयति (१९ ६) प्राणातिपातिकं च दृष्ट्वा सुमनोज्ञो भवति <।> आत्मना अदत्तादायिको यावन्मिथ्यादृष्टिकं च दृष्ट्वा सुमनोज्ञो भवति <।> एभिस्त्रिंशता धर्मैः समन्वागतः उपासको यावत्कायस्य भेदान् (१९ ७) नरकेषूपपद्यते ।

चत्वारिंशता धर्मैस्समन्वागत उपासकः कायस्य भेदाद्यावन्नरकेषूपपद्यते <।> आत्मना प्राणातिपातिको भवति <।> परानपि प्राणातिपाते समादापयति प्राणातिपातिकं च (१९ ८) दृष्ट्वा सुमनोज्ञो भवति प्राणातिपातस्य च वर्णं भाषते <।> आत्मना अदत्ता<दा>यिको यावन्मिथ्यादृष्टेश्च वर्णं भाषते <।> एभिश्चत्वारिंशता धर्मैस्समन्वागत उपासकः कायस्य भेदाद्यावन्नरकेषूपपद्यते ॥

(१९ ९) दशभिर्धर्मैः समन्वागत उपासकः कायस्य भेदात्सुगतौ स्वर्गलोके देवेषूपपद्यते <।> आत्मना प्राणातिपातात्प्रतिविरतो भवति <।> आत्मना अदत्तादा<नात्> काममिथ्याचारान्मृषावादात्पैशुन्यात्पारुष्यात्(१९ १०) संभिन्नप्रलापादनभिध्यालुरव्यापन्नचित्तः सम्यग्दृष्टिको भवति <।> एभिर्दशभिर्धर्मैः समन्वागत उपासकः कायस्य भेदात्सुगतौ स्वर्गलोके दे<वे>षूपपद्यते ॥

विंशत्या धर्मैस्समन्वागत उपासक<ः> (१९ १) कायस्य भेदाद्यावद्देवेषूपपद्यते <।> आत्म<ना प्राणाति>पृष्ठआतात्प्रतिविरतो भवति <।> परानपि प्राणातिपातविरतौ समादापयति <।> आत्मना अदत्तादानाद्यावत्सम्यग्दृष्टि<को> भवति <।> परानपि सम्यग्दृष्टौ समादापयति <।> एभिर्(१९ २) विंशत्या धर्मैः समन्वागत उपासको यावद्देवेषूपपद्यते ॥

त्रिंशता धर्मैस्समन्वागत उपासकः कायस्य भेदाद्यावद्देवेषूपपद्यते <।> आत्मना प्राणातिपात्<आत्प्र>तिविरतो भवति <।> परानपि प्राणातिपातविरतौ (१९ ३) समादापयति <।> प्राणातिपातविरतं च दृष्ट्वा सुमनोज्ञो भवति <।> आत्मना अदत्तादानाद्यावत्सम्यग्दृष्टिकं च दृष्ट्वा सुमनोज्ञो भवत्य्<।> एभिस्त्रिंशता धर्मैः समन्वा<गत> उपासकः कायस्य भेदाद्यावद्देवेषूपपद्यते ॥

(१९ ४) चत्वारिंशता धर्मैस्समन्वागत उपासकः कायस्य भेदात्सुगतौ स्वर्गलोके देवेषूपपद्यते <।> आत्मना प्राणातिपातात्प्रतिविरतो भवति <।> परानपि प्रा<णा>तिपातविरतौ समादापयति <।> प्राणातिपातविरतं (१९ ५) च दृष्ट्वा सुमनोज्ञो भवति प्राणातिपातविरतेश्च वर्णं भाषते <।> आत्मना अदत्तादानात्काममिथ्याचारान्मृषावादात्* पैशुन्यात्पारुष्यात्संभिन्नप्रलापात्प्रतिविरतो भवत्य्<।> अनभिध्यालुरव्यापन्नचित्तः (१९ ६) सम्यग्दृष्टिको भवति <।> परानपि सम्यग्दृष्टौ समादापयति <।> सम्यग्दृष्टिकं च दृष्ट्वा सुमनोज्ञो भवति सम्यग्दृष्टेश्च वर्णं भाषते । एभिश्चत्वारिंशता धर्मैः समन्वागत उपासकः कायस्य (१९ ७) भेदात्सुगतौ स्वर्गलोके देवेषूपपद्यते ।


१७. (पञ्चोपासकस्य शिक्षापदानि)

पंचोपासकस्य शिक्षापदानि <।> यावज्जीवं प्राणातिपाताद्विरतिरुपासकस्य शिक्षापदं <।> यावज्जीवमदत्तादानात्काममिथ्याचारान्मृषावादात्(१९ ८) सुरामैरेयमद्यप्रमादस्थानाद्वैरमणिरुपासकस्य शिक्षापदम् ॥ ॥

यावज्जीवं प्राणातिपाताद्विरतिरुपासकस्य शिक्षापदमिति <।> तत्र कतरः प्राणातिपातः <।> कतरः प्राणी <।> कतमा प्राणातिपाताद्वैरमणिः (१९ ९) <।> यदुच्यते प्राणातिपाताद्वैरमणिरुपासकस्य शिक्षापदमित्याह ।

एवं ह्युक्तं भगवता <।>
प्राणातिपाती खल्विहैको भवति रौद्रो रुधिरपाणिः हतप्रहतनिविष्टः अलज्जी अदयावान् सर्वसत्वप्राणिभूतेष्व्(१९ १०) अन्ततः कुन्तपिपीलकमपि प्राणातिपातादप्रतिविरतो भवति <।> अयमुच्यते प्राणातिपातिकः <।
>
प्राणी कतमः <।> यस्मिन् प्राणिनि प्राणिसंज्ञी जीवे जीवसंज्ञी सत्वे सत्वसंज्ञी पोषे पोषसंज्ञी (२० १) पुद्गले पुद्गलसंज्ञी अयमुच्यते प्राणी ॥

प्राणातिपातः कतमः <।> आह <।> यस्मिन् प्राणिनि प्राणिसंज्ञिनः सत्वे सत्वसंज्ञिनः पोषे पोषसंज्ञिनः पुद्गले पुद्गलसंज्ञिनः यत्पराक्रममागम्य यत्पापचित्तमकुशलचित्तं (२० २) वधकचित्तं हननचित्तं मारणचित्तं च प्रत्युपस्थितं भवति <।> तत्र यत्कर्मागम्य यत्प्रयोगमागम्य यामूहामागम्य यदुपक्रममागम्य प्राणिनो हनन<ं> मारणं संचिन्त्य जीविताद्व्यपरोपणमिति । (२० ३) यत्तत्कर्म योऽसौ प्रयोगः या सा ऊहा यदुपक्रमं यत्तत्प्राणिनो हननं मारणं संचिन्त्य जीविताद्व्यपरोपणमयमुच्यते प्राणातिपातः ॥

प्राणातिपाती खल्विहैको भवतीति आत्मा प्राणातिपाताद्(२० ४) अनारतो भवतीत्यप्रतिविरतस्ततत्रस्थस्तेन समन्वागतस्<।> तेनाह <।> प्राणातिपाती खल्विहैको भवति <।>

रौद्र इति <।> रौद्रता कतमा <।> आह <।> यत्तदाचीर्णदण्डताचीर्णशस्त्रताचीर्णप्रहरणता इयमुच्यते रौद्रता <।> (२० ५) तेनाह <।> रौद्रता इति <।>

रुधिरपाणिरिति रुधिरपाणय उच्यन्ते औरभ्रिकाः कौक्कुटिकसौकरिकमात्सिकमृगलुब्धकाश्चौराः वध्यघातका गोघातका नागमण्डलिकाः शशवागुरिका बन्धनपालकाः (२० ६) सूचकाः कारणकारका इम उच्यन्ते रुधिरपाणयः <।> केनैत उच्यन्ते रुधिरपाणयः <।> आह । किं चापि ये सुस्नाता भवन्ति सुविलिप्ताः कल्पितकेशनखावदातवस्त्रप्रावृताः (२० ७) आमुक्तमाल्याभरणा अथ च पुनस्ते रुधिरपाणय एवोच्यन्ते । किं कारणम् <।> आह <।> यस्मात्ते अनारता अविरता अप्रतिविरतास्तस्य रुधिरस्योत्थापनाय जननाय संजननाय समुत्पादाय (२० ८) प्राविष्करणाय <।> तेन कारणेन रुधिरपाणय उच्यन्ते ॥

हतप्रहतनिविष्टा इति स्यात्प्राणी प्रहतो न हतः <।> स्याद्धतो न प्रहतः <।> स्याद्धतश्च प्रहतश्च <।> प्रहतस्तावन्न हतः <।> यथा तावत्प्राणी आकोटितो भवति (२० ९) पाणिना वा लोष्टेन वा दण्डेन वा शस्त्रेण वा अन्यतमान्यतमेन वा विविधेन प्रहरणेन <।> न तु सर्वेण सर्वं जीविताद्व्यपरोपितो भवति <।> एवं प्राणी हतो भवति न हतश्च <।> यथा तावत्प्राणी (२० १०) आकोटितो भवति पाणिना वा लोष्टेन वा दण्डेन वा शस्त्रेण वा अन्यतमान्यतमेन वा विविधेन प्रहरणेन सर्वेण वा सर्वं प्राणी जीविताद्व्यपरोपितो भवति <।> एवं हतश्च भवति प्रहतश्च <।> (२० १) अपि हतप्रहतनिविष्टश्च भवति सन्निविष्टश्चानिविष्टश्च <।> तेनाह <।> हतप्रहतनिविष्ट इति ॥

अलज्जी अदयावान् सर्वसत्वप्राणिभूतेष्विति <।> तत्र कतमे प्राणाः <।> कतमे भूताः <।> यदुच्यते अलज्जी अदयावान् सर्वसत्वप्राणिभूतेष्व्(२० २) इत्य्<।> आह <।> पृथग्जनाः प्राणाः भगवतः श्रावका भूताः <।> अपि खलु ये सत्वाः सरागाः सद्वेषा<ः> समोहा इम उच्यन्ते भूताः <।> अपि खलु ये सत्वा विगतरागा विगतद्वेषा विग<त>मोहा इम उच्यन्ते भूताः <।> अपि खलु ये सत्वाः (२० ३) सतृष्णा सोपादाना इम उच्यन्ते प्राणाः <।> ये सत्वा निस्तृष्णा निरुपादाना इम उच्यन्ते भूताः <।> अपि खलु ये सत्वा आनिरुद्धा<ः> प्रतिविरुद्धा इम उच्यन्ते प्राणाः <।> ये सत्वा अनानिरुद्धाः अप्रतिविरुद्धा इम उच्यन्ते भूता <।> अपि खलु (२० ४) ये सत्वा अविदुषोऽविद्यागता इम उच्यन्ते प्राणाः <।> ये सत्वा विदुषो विद्यागता इम उच्यन्ते भूताः <।> अपि खलु ये सत्वाः कामेभ्योऽवीतरागाः इम उच्यन्ते प्राणाः <।> ये सत्वाः कामेभ्यो वीतरागा इम उच्यन्ते भूताः <।> (२० ५) अपि खलु ये सत्वाः कामेभ्यो वीतरागा न तु भगवतः श्रावका इम उच्यन्ते प्राणाः <।> ये सत्वा कामेभ्यो वीतरागास्ते भगवतः श्रावका इम उच्यन्ते भूताः <।> अस्मिंस्त्वर्थे पृथग्जनाः प्राणाः भगवतः (२० ६) श्रावका भूताः <।> किं कारणं भवनमुच्यते निर्वाणं <।> तत्तैः प्राप्तं प्रतिलब्धमधिगतं स्पृष्टं साक्षात्कृतं <।> यथा चाह <।>

समन्तानुसारी लोकं दिशः सर्वमीरितः <।>
इच्छेद्भवनमात्मानं नाधिगच्छेदनिश्रितं (२० ७) ॥

तदस्मिन्नर्थे पृथग्जनाः प्राणाः भगवतः श्रावका भूताः तदेषां प्राणभूतानामदयाय प्रतिपन्नो भवत्यननुदयाया नानुकंपाय ॥

शोकाष्टहारकाः कुन्ता उच्यन्ते (२० ८) पिपीलकाः <।> पिपीलका एव <।> अस्मात्प्राणातिपातादुपासकः प्रतिसंख्यायारतो भवत्युपद्रुतरतः प्रतिविरतः संवृतश्च <।> यत्र या अक्रिया अकरणमनभिध्याचारोऽनध्यापत्तिरनध्यापदनं (२० ९) वेला सेतुः वैरमणी स्थितिरनतिक्रमोऽव्यतिक्रमोऽव्यतिक्रमणता <।> तेनाह <।> यावज्जीवं प्राणातिपाताद्वैरमणीरुपासकस्य शिक्षापदमिति ॥ * ॥

यावज्जीवमदत्तादानाद्वैरमणीरुपासकस्य (२० १०) शिक्षापदमिति <।> अदत्तादानं कतमत्<।>

एवं ह्युक्तं भगवता <।>

अदत्तादायी खल्विहैको भवति <।> स ग्रामगतमरण्यगतं वा परेषामदत्तं स्तेयसंख्यातमादत्ते <।> इदमुच्यते <अदत्तादानं> <।>

ध्स्क्म् २१ १. अदत्तादानं <।> यावज्जीवमदत्तादानाद्वैरमणिरुपासकस्य शिक्षापदमिति तत्र कतरददत्तं कतरददत्तादानं कतमा अदत्तादानाद्वैरमणिः या उच्यते यावज्जीवमदत्ता<दा>नाद्वैरमणिरुपासकस्य शिक्षापदमिति अदत्तं .. ॥।
ध्स्क्म् २१ २. -ते अदत्तं <।> अदत्तादानं कतमत्* आह परपरिगृहीते परिष्कारे परपरिगृहीतसंज्ञिनो यत्पापचित्तं चाकुशलचित्तं च हरणचित्तं चापहरणचित्तं चोद्ग्रहणचित्तं च ग्रहणचित्तं चादानचित्तमासादीयनचित्तं च प्रत्युपस्थितं भवति तत्र यत्. ॥।
ध्स्क्म् २१ ३. -पहारमागम्य परपरिगृहीते परिष्कारे परपरिगृहीतसंज्ञिनः यद्ग्रहणमुद्ग्रहणमादीयनासादीयना हरणापहरणा संचिन्त्य स्थानात्स्थानसंक्रामणमिति यत्तत्कर्म यत्प्रयोगं या सा ऊहा यदुपक्रमं यत्पराक्रमं यत्तद्वा .. ॥।
ध्स्क्म् २१ ४. यत्तत्परपरिगृहीते परिष्कारे परपरिगृहीतसंज्ञिनो ग्रहणमुद्ग्रहणमादीयनासादीयना संचिन्त्य स्थानात्स्थानसंक्रमणमिदमुच्यते अदत्तादानं <।> अदत्तादायी भवतीत्यस्माददत्तादानादनारतो भवत्यविरतोऽप्रतिविरतः तत्रस्थ- ॥।
ध्स्क्म् २१ ५. -तं वेत्यन्तरगतः प्राकारस्य <।> अरण्यगतं वेति बहिः प्रकारस्य <।> अ<द>त्तमिति परपरिगृ<ही>तं स्तेनमादत्ते ति परपरिगृहीतमदत्तमादत्ते अत्यन्तममुक्तमनिःसृष्टमप्रतिनिःसृष्टमपि खलु स्तेयमुच्यते परचित्तोऽपहारकः तेन .. ॥।
ध्स्क्म् २१ ६. -सृष्टमप्रतिनिःसृष्टमपि खलु यत्परपरिगृहीतं परिष्कारमदत्तमपि तत्* स्तैन्यमपि तत्* संख्यातमपि तत्* तदुच्यते अदत्तस्तैन्यं संख्यातमादत्ते ॥ अदत्तादानात्प्रतिविरतो भवतीत्यस्माददत्तादानादुपासकस्<य> + + + य्. ॥।
ध्स्क्म् २१ ७. -संख्यातः संवृतः तत्र या अक्रिया अकरणमनध्याचारोऽनध्यापत्तिरनध्यापदनम्* वेला सेतुर्वैरमणी स्थितिरनतिक्रमोऽव्यतिक्रमोऽव्यतिक्रमणता तदुच्यते यावज्जीवमदत्तादानाद्वैरमणिरुपासकस्य ॥।
ध्स्क्म् २१ ८. -मिथ्याचाराद्वैरमणिरुपासकस्य शिक्षापदमिति काममिथ्याचारः कतमः <।> एवं ह्युक्तं भगवता काममिथ्याचारी खल्विहैको भवति स यास्ता भवन्ति परस्त्रियः परभार्यास्तद्यथा मातृरक्षिता वा पितृ<राक्षिता वा> ॥।
ध्स्क्म् २१ ९. श्वश्रूरक्षिता वा श्<व्>अशुररक्षिता वा ज्ञातिरक्षिता वा जातिरक्षिता वा गोत्ररक्षिता वा सदण्डाः । सावरणाः <सदण्डावरणा> अन्ततो मालागुणपरिक्षिप्ता । अपि तद्रूपासु सहसा बलेनानुप्रस्कन्द्य कामेषु चारित्रमापद्यत्ययमुच्य<ते> ॥।
ध्स्क्म् २१ १०. खल्विहैको भवतीत्यस्मात्काममिथ्याचारादनारतो भवत्यनुपरतोऽविरतोऽप्रतिविरतः तदुच्यते काममिथ्या<चा>री खलु भवतीति ॥ यास्ता भवन्ति परस्त्रियो परभार्या इति सप्त पुरुषस्य भार्याः <।> कतमा सप्त तद्यथा ॥।
ध्स्क्म् २१ ११. पटवासिनी समजीविका तत्क्षणिका च <।> उदकदत्ता कतमा या स्त्री कुमारिका वा पुरुषस्य मातापितृभ्यामुदकेनानुप्रदत्ता भवति इयं ते भार्या भविष्यति प्रजापती इयमुच्यते उदकदत्ता ॥ धनक्रीता क<तमा> ॥।
ध्स्क्म् २१ १२. -नक्रीता भवति इयं मे भार्या भविष्यति प्रजापती सा तस्य भार्या भवति प्रजापती इयमुच्यते धनक्रीता । ध्वजाहृता यथा तावच्चौराः परराष्ट्रं परविषयं गत्वा स्वं शिरोध्वजं कृत्वा स्त्रियं कुमारिकां वाहरन्ति ॥।
ध्स्क्म् २१ १३. -मि ध्वजाहृता यथा तावद्राजा अजितं जयं जितमध्यावसन् यथा गृहीतिकामुत्सृजति । तत्र पुरुषो राज्ञः शिरोध्वजं कृत्वा स्त्रियं कुमारिकां वाहरति इयं मे भार्या भविष्यति प्रजापती स तस्य भा<र्या> ॥।
ध्स्क्म् २१ १. <च्छ>न्दवासिनी कतमा या स्त्री स्वया श्रद्धया स्वेन प्रेम्णा स्वेन प्रसादेन पुरुषमुपसंक्रम्यैवमाह । आर्यपुत्रो मे स्वामी भवत्यहमार्यपुत्रस्य भार्या भविष्यामि । प्रजापती इयमुच्यते च्छन्दवासिनी <।> प<टवासिनी> ॥।
ध्स्क्म् २१ २. -पसंक्रम्यैवमाह आर्यपुत्रो मे भक्ताच्छादनमनुप्रयच्छत्वहमार्यपुत्रस्य भार्या भविष्यामि प्रजापती इयमुच्यते पटवासिनी <।> समजीविका कतमा । या स्त्री पुरुषमुपसंक्रम्यैव<माह> ॥।
ध्स्क्म् २१ ३. धनं तदेकध्ये सन्निचयं गच्छतु ये चास्माकं क्रीडतां रमता<ं> परिचारयतां पुत्रा भविष्यन्ति पौत्रा वा तेऽस्माकं मृतानां कालगतानां श्राद्धमनुप्रदास्यन्ति सा तस्य भार्या भवति प्रजापती ॥।
ध्स्क्म् २१ ४. .. .. .इकी ॥ मातृरक्षितेति यस्या स्त्रियाः कुमारिकाया वा पिता स्वामी वा उन्मत्तो भवति क्षिप्तचित्तः परराष्ट्रं परविषयं वा निष्पलानो भवति सा मातुरन्तिके प्रतिवसति स मा<तृ> ॥।
ध्स्क्म् २१ ५. <गो>पृष्ठैता सुगोपिता मात्रपरे अप्रतिसंविदितं कामेषु चारित्रमापत्स्य<न्>त इति इयमुच्यते मातृरक्षिता <।> यथा मातृरक्षिता एवं पितृरक्षिता ॥ भ्रातृरक्षिता कतमा । यस्य स्त्रि<याः> ॥।
ध्स्क्म् २१ ६. <माता>पृष्ठैतरौ स्वामी वा मृतो भवति कालगतः उन्मत्तो वा भवति क्षिप्तचित्तः परराष्ट्रं परविषयं निष्पलानो भवति सा भ्रातुरन्तिके प्रतिवसति सा भ्रात्रा रक्षिता ॥।
ध्स्क्म् २१ ७. <सुगो>पृष्ठैता मात्रपरे अप्रतिसंविदितं कामेषु चारित्रमापत्स्यन्त इति इयमुच्यते भ्रातृरक्षिता <।> यथा भ्रातृरक्षिता एवं भगिनीरक्षिता ॥ श्वश्रूरक्षिता कतमा + + ॥।
ध्स्क्म् २१ ८. प्.आ मातापितरौ स्वामी वा मृतो भवति कालगत उन्मत्तो वा भवति क्षिप्तचित्तः परराष्ट्रं परविषयं वा निष्पलानो भवति सा श्वश्र्वा अन्तिके प्रतिवसति वसव- ॥।
ध्स्क्म् २१ ९. त्रस्य सा श्वश्र्वा रक्षिता भवति सुरक्षिता गोपिता सुगोपिता मात्रपरे अप्रतिसंविदितं कामेषु चारित्रमापत्स्यन्त इति इयमुच्यते श्वश्रूरक्षिता ॥ यथा श्<वश्रूरक्षिता> ॥।
ध्स्क्म् २१ १०. <ज्ञातिर>क्षिता कतमा । ज्ञातय उच्यन्ते यावदा सप्तमं मातामहं पितामहं युगमुपादाय यस्या स्त्रियः कुमारिकाया वा पूर्व<व>त्* ॥ जातिरक्षिता कतमा । जात<य उच्यन्ते> ॥।

ध्स्क्म् २२ १. <वै>श्याः शूद्राः यस्या स्त्रियाः कुमारिकाया वा पूर्ववत्* ॥ गोत्ररक्षिता कतमा । गोत्रा उच्यन्ते कौत्सा वात्साश्शाण्डिल्या भारद्वाजा उपपंचकाः यस्या स्त्रियाः कुमारिकाया वा मा<ता> ॥।
ध्स्क्म् २२ २. <का>लगतः उन्मत्तः क्षिप्तचित्तः वेदनाभितुन्नो वा परराष्ट्रं परविषयं वा निष्पलानो भवति सा गोत्राणामन्तिके प्रतिवसति गोत्रै रक्षिता भवति सुरक्षिता गोपिता ॥।
ध्स्क्म् २२ ३. <अप्रतिसंविदि>तं कामे<षु> चारित्रमापत्स्यन्त इति इयमुच्यते गोत्ररक्षिता ॥ सदण्डा इति या सा भवति गूढिका न एवं यथा वेशी नाप्येवं यथा कुलस्त्री सचेदेनं राजा जानीयात्तां + ॥।
ध्स्क्म् २२ ४. -ध्नीयाद्वा प्रवासयेद्वा हिरण्यदण्डं वानुप्रदापयेदियमुच्यते सदण्डाः <।> सावरणा इति यथा तावदार्येण वा आर्यपुत्रेण वा आवृता भवत्यपि खलु या एताः प + + ॥।
ध्स्क्म् २२ ५. -वरणाः सदण्डावरणाः किं कारणमतोनिदानं हि पुरुषोऽधिगच्छति वधं वा बन्धनं वा ज्यानिं वा ग्रहणं वा ॥ अन्ततो मालागुणपरिक्षिप्ता अपीति यथा ताव- ॥।
ध्स्क्म् २२ ६. <क>ण्ठेगुणेन वा चन्दनचूर्णेन वा विलेपनपुटेन वा अन्यतमान्यतमेन वा केनचित्प्रतिगृहीता भवति इयमुच्यते मालागुणपरिक्षिप्ता ॥ अपि खलु सर्व्. + ॥।
ध्स्क्म् २२ ७. -रिणी भिक्षुणिका चरिका परिव्राजिका व्रतपदधर्मजीविनी यथा तावत्पुरुषः स्वां प्रजापतीमनुजानीते गच्छ भद्रे चर ब्रह्मचरंस्(सिच्) तस्या तेन व्रतसमादा .. ॥।
ध्स्क्म् २२ ८. -य संस्पर्शं समापद्यते द्वयद्वयसमापत्तिं वापद्यते काममिथ्याचारां स्वं वा पुनर्पारमनङ्गे विज्ञपयन्नापद्यते काममिथ्याचारं <।> अस्मात्काममिथ्याचारा ॥।
ध्स्क्म् २२ ९. भवत्युपरतो विरतः संवृतः तत्र या अक्रिया अकरणमनाचारोऽनध्यापत्तिरनध्यापदनं वेला सेतुर्वैरमणी स्थितिरनतिक्रमोऽव्यतिक्रमणता तद्य ॥।
ध्स्क्म् २२ १०. -मिथ्याचाराद्वैरमणिः शिक्षापदमिति ॥ ऋ ॥ यावज्जीवं मृषावादाद्वैरमणिरुपासकस्य शिक्षापदमिति मृषावादः कतमः एवं ह्युक्तं भगवता ॥।
ध्स्क्म् २२ १. स सभागतो वा पर्षन्मध्यगतो वा राजकुलमध्यगतो वा युक्तकुलमध्यगतो वा ज्ञातिकुलमध्यगतो वा साक्षीपृष्टः सन् हं भोः पुरुष यज्जानीषे तद्वद यन्न जानीषे तन्मा वो<चः> ॥।
ध्स्क्म् २२ २. तन्मा वोचः सोऽजानक एव संजानामीत्याह । अपश्यक एव संपश्यामीत्याह । जानन्नेन सन्न जानामीत्याह पश्यन्नेव सन्* न पश्यामीत्याह इत्यात्महेतो परहेतो आमिषकिंचि<त्क> ॥।
ध्स्क्म् २२ ३. <मृषावा>दादप्रतिविरतो भवतीत्यस्मान्मृषावादादनारतो भवत्यनुपरतः अविरतोऽप्रतिविरतः तत्रस्थस्तेन समन्वागतः तेनाह मृषावादी खलु भवतीति <।> सभागतो वेति ॥।
ध्स्क्म् २२ ४. -भा राष्ट्रसभा च । तत्रासौ गतश्च भवति समागतश्च । समवहितः संमुखीभूतः तेनाह सभागत इति ॥ पर्षद्गतो वेति चतस्रः पर्षदः तद्यथा क्षत्रियपर्षद्ब्राह्मण ॥।
ध्स्क्म् २२ ५. -र्षत्तत्रासौ गतश्च भवति समागतश्च समवहितः संमुखीभूतः तेनाह पर्षद्गत इति ॥ राजकुलमध्यगतो वेति आह राजामात्यपरिषत्सन्निषण्णा भवति ॥।
ध्स्क्म् २२ ६. -ति समागतश्च समवहितः संमुखीभूतः तेनाह राजकुलमध्यगत इति ॥ युक्तकुलमध्यगतो वेति युक्तपर्षत्सन्निषण्णा भवति सन्निपतिता तत्रासौ ॥।
ध्स्क्म् २२ ७. -हितः संमुखीभूतः तेनाह युक्तकुलमध्यगत इति ॥ ज्ञातिकुलमध्यगतो वेति आह ज्ञातयः सन्निषण्णा भवन्ति सन्निपतिता तत्रासौ गतश्च भ<वति> ॥।
ध्स्क्म् २२ ८. संमुखीभूतः तेनाह ज्ञातिकुलमध्यगत इति ॥ साक्षीपृष्टः सन्निति साक्षी अधीष्टः सन्नासादितो वा निपातितः <।> हं भो पुरुष इति उपैहि उपगच्छ यत्ने .. ॥।
ध्स्क्म् २२ ९. -य प्रज्ञपय प्रस्थापय प्रकाशय यत्ने न दृष्टं न श्रुतं न मतं न विज्ञातं तं मा वक्ष्व मा देशय मा प्रज्ञपय मा प्रस्थापय मा प्रकाशय <।> सोऽजानन्नेव संजा + ॥।
ध्स्क्म् २२ १०. -मीत्याह । श्रोत्रविज्ञानानुभूतं श्रोत्रविज्ञानप्रतिविज्ञप्तं स विनिधाय संज्ञां विनिधाय क्षान्तिं रुचिं मतिं प्रेक्षां दृष्टिं न मे श्रुतमित्याह । एवमजानन्नेव सञ्जानामीत्या<ह> ॥।

१८. (मैत्री चेतःसमधिः)
(२६ १) + + + + + + पयिकं प्रतिरूपं प्रदक्षिणं नि + + + ंग संभारं <।> एतच्चित्तमेषा तावन्मैत्री चेतःसमाधिरिति वक्तव्या <।> तथा समापन्नस्य यच्चित्तं मनोविज्ञानमिदमुच्यते मैत्रीसहगत<ं चित्तम् । या चेतना संचेत>ना (२६ २) अभिसंचेतना चेतितं चेतनागतं चित्ताभिसंस्कारा मनस्कर्म इदमुच्यते मैत्रीसहभुवं कर्म <।> यश्चेतसोऽधिमोक्षोऽधिमुक्तिरधिमुच्यनतायमुच्यते मैत्रीसहभुवोऽधिमोक्षः <।> यद<पि तथा समापन्नस्य> (२६ ३) वेदना वा संज्ञा वा च्छन्दो वा स्नेहो वा मनसिकारो वा स्मृतिर्वा समाधिर्वा प्रज्ञा वा इतीमेऽपि धर्मा मैत्रीसहभुवः <।> तत्सर्व इमे धर्मा मैत्री चेतःसमाधिरिति वक्तव्याः <।>

मैत्री खलु भवे<च्चेतःसमाधिर्द्विविधः> (२६ ४) परीत्तश्चाप्रमाणश्च ।

कतरः प्रयोगः परीत्तस्य मैत्रस्य चेतःसमाधेः <।> कथं प्रयुक्तश्च पुनः परीत्तं मैत्रं चेतःसमाधिं संापद्यते । आह ।

यथा खल्विहैकत्यस्य ये सत्वा भवन्तीष्टा<ः कान्ता> + + + + <म>नआपास्(२६ ५) तद्यथा माता वा पिता वा भ्राता वा भगिनी वा अन्यतमान्यतमो वा मित्रज्ञातिसालोहितो वा <।> एभिः परीत्तैः सत्वैः परीत्तं मैत्रीसहभुवं चित्तमास्थापयत्युप<स्थापयति दमयति> (२६ ६) शमयतु व्युपशमयति एकोतीकुरुते समादधाति <।> तस्यैभिः परीत्तैः सत्वैः परीत्तं मैत्रीसहभुवं चित्तमास्थापयतः संस्थापयत उपस्थापयतो दमयतः <शमयतो व्युपशम>यतः (२६ ७) एकोतीकुर्वतः समादधतः तच्चित्तं विक्षिप्यति विसरति विधावति नैकोतीभवति न एकाग्रा स्मृतिः संतिष्ठते <।> परीत्तं सुखित्<आ> बत सत्वा इति यदस्य तच्चित्तं विक्षिप्यति <विसरति विधावति> (२६ ८) न एकोतीभवति न एकाग्रा स्मृतिः संतिष्ठते <।> परीत्तं सुखित्<आ> बत सत्वा इति न एकाग्रता परीत्तं मैत्रं चेतःसमाधिः समापन्न <।> इति वक्तव्यं <।>

स तच्चित्तं विक्षिप्यन्तं विसरन्तं <विधावन्तं तस्मिन्नेवोप>संहरति (२६ ९) <।> तदेव निमित्तं मनसिकुरुते <।> परीत्तं सुखिता बत सत्वा इति एवं मनसिकुर्वतो यद्वीर्यं यो व्यायामो निष्क्रमः पराक्रमः स्थाम आरंभ उत्साह उत्सूधिरप्रतिश्रब्धि + + + + + + + + + (२६ १०) तद्यः अयं प्रयोगः परीत्तस्य मैत्रस्य चेतःसमाधेः एवं प्रयुक्तश्च पुनः परीत्तं मैत्रं चेतःसमाधिं समापद्यते <।>

स तमुत्पन्नं मार्गमासेवयति भावय<ति बहुलीकुरुते तस्य इमं मार्ग>म् (२६ १) आसेवयतो भावयतो बहुलीकुर्वतः तच्चित्तमास्थिहति संस्थिहति उपस्थिहति एकोतीभवति समावर्ते <।> यतश्च तच्चित्तं स्थितं च भवति संस्थितं चोपस्थितं चाद्वयं चा<परिहीणं च परीत्तं सुखिता बत सत्वा इति> (२६ २) एतावत्परीत्तं मैत्रं चेतःसमाधिं समापन्न <।> इति वक्तव्यं <।> तथा समापन्नस्य यच्चित्तं मनोविज्ञानमिदमुच्यते परीत्तं मैत्रीसहभुवं <।> चित्ते या चेतना विस्तरेण यावद्<।>

इमेऽपि धर्मा <परीत्तमैत्रीसहभुवः> (२६ ३) ते सर्व इमे धर्माः परीत्तं मैत्रं चेतःसमाधिरिति वक्तव्याः <।>

कतरः प्रयोगोऽप्रमाणस्य मैत्रस्य चेतःसमाधेः <।> कथं प्रयुक्तश्च पुनरप्रमाणं मैत्रं चेतःसमाधिं समापद्यते <। यदेवाभ्यस्ते परीत्ते> (२६ ४) मैत्रे चेतःसमाधौ तं चित्तं दमयित्वा कारयित्वास्वेदयित्वा परिस्वेदयित्वा ऋजुकृत्वा मृदु कर्मणीयमार्ज्जवमाश्रवं विधेयं <।>

ततः पश्चादप्रमाणं सुखित्<आ> बत सत्वा इति <शनैः स्फरति पूर्वां द>क्षिणां (२६ ५) पश्चिमामुत्तरां दिशं तस्याप्रमाणं सुखिता बत सत्वा <।> इति स्फरतः पूर्वां दिशं दक्षिणां पश्चिमामुत्तरां दिशं तच्चित्तं विक्षिप्यति विसरति विधावति न एको<तीभ्हवति न एकाग्रा> (२६ ६) स्मृतिः संतिष्ठते <।> अप्रमाणं सुखिता बत सत्वा इति यतोऽस्य तच्चित्तं विक्षिप्यति विस्तरेण यावत्* <।> तावताप्रमाणं मैत्री चेतःसमाधिः समापन्न इति वक्त<व्यम् । स तच्चित्तं विक्षिप्य>न्तं (२६ ७) विसरन्तं विधावन्तं तस्मिन्नेवोपसंहरति <।> तदेव मनसिकुरुते <।> अप्रमाणं सुखिता बत सत्वा इति एवं मनसिकुर्वतो यद्वीर्यं विस्तरेण यावद्<।> अयं प्रयो<गोऽप्रमाणे मैत्रे चेतः>समाधौ (२६ ८) <।> एवं प्रयुक्तश्च पुनरप्रमाणं मैत्रं चेतःसमाधिः समापन्न <।> इति वक्तव्यं <।> तथा समापन्नस्य यच्चित्तं मनोविज्ञानमिदमुच्यते अप्रमाणं मैत्रीसहभुवं चि<त्तम् । या चेतना विस्त>रेण (२६ ९) यावद्<।>

इमेऽपि धर्मा अप्रमाणमैत्रीसहभुवः <।> तत्सर्व इमे धर्माः अप्रमाणं मैत्री चेतःसमाधिरिति वक्तव्या ॥


१९. (करुणा चेतःसमाधिः)

करुणा कतमा <।> आह । दुःखिता बत सत्वा इति + + + + + + + + (२६ १०) यच्चैवेमे प्रविवेकजा अध्यात्मसमुत्थिताःि प्रतिसंख्याय समुत्पन्नाः कुशला रूपप्रतिसंयुक्ता अर्त्तिअर्त्तीयना दुःखदुःखायना करुणाकरुणायना + + + + + + + +

ध्स्क्म् २७ १. -णासंप्रयुक्ता च या वेदना संज्ञा संस्कारा विज्ञानं ततः समुत्थितं कायकर्म वाक्कर्म तत्समुत्थिताश्चित्तविप्रयुक्ताः संस्कारा इयमुच्यते करुणा ॥।
ध्स्क्म् २७ २. -श्चाप्रमाणश्च <।> कतमः प्रयोगः परीत्तस्य करुणाचेतःसमाधेः कथं प्रयुक्तश्च पुनः परीत्तं करुणं चेतःसमाधिं समापद्यते आह यथा खल्विहैकत्य्. ॥।
ध्स्क्म् २७ ३. तद्यथा माता वा पिता वा भ्राता वा भगिनी वा अन्यतमान्यतमो मित्रज्ञातिसालोहितो वा स एभिः परीत्तैः परीत्तं करुणासहगतं चित्तमास्थापयति संस्थापय<ति> ॥।
ध्स्क्म् २७ ४. -ति व्युपशमयति एकोतीकुरुते समाधत्ते परीत्तं दुःखिता बत सत्वा इति तस्यैभिः परीत्तैः परीत्तं करुणासहगतं चित्तमुपस्थापयतः दमयतः शमयतो ॥।
ध्स्क्म् २७ ५. -तः तच्चित्तं विक्षिप्यते विस्तरेण यथा मैत्रायामुक्तम् ॥ मुदिता कतमा । आह मोदन्तां बत सत्वा इति एवं मनसिकुर्वतः यान्नैष्क्रम्यप्रविवेक .. ॥।
ध्स्क्म् २७ ६. कुशला रूपप्रतिसंयुक्ताः चेतस आमोदना प्रमोदनाभिप्रमोदना । मुदिता मोदना आत्तमनस्कता सुमनस्कता सौमनस्यमारब्धि .. ॥।
ध्स्क्म् २७ ७. -मौद्बिल्यायितत्वं प्रीतिः प्रीत्यायितत्वमुच्यते मुदिता <।> अपि खलु मुदिता मुदितासंप्रयुक्ता च या वेदना संज्ञा संस्कारा विज्ञानं ततः स<मुत्थितं> ॥।
ध्स्क्म् २७ ८. -त्तविप्रयुक्ताः संस्कारा इयमुच्यते मुदिता <।> मुदिता खलु चेतःसमाधिः द्विविधः परीत्तश्चाप्रमाणश्च <।> कतरः प्रयोगः परीत्तस्य मुदितस्य चेतःस<माधेः> ॥।
ध्स्क्म् २७ ९. -समाधिं समापद्यते आह यथा खल्विहैकत्यस्य ये सत्वा भवन्ति इष्टाः कान्ताः प्रिया मनआपास्तद्यथा माता वा पिता वा भ्राता वा भगिनी वा अन्यत<मान्यतमो> ॥।
ध्स्क्म् २७ १०. एभिः परीत्तैः सत्वैः परीत्तं मुदितासहभुवं चित्तमास्थापयति संस्थापयत्युपस्थापयति दमयति शमयति व्युपशमयति एकोतीकरोति समा ॥।
ध्स्क्म् २७ १. तस्यैभिः परीत्तैः सत्वैः परीत्तं मुदितासहगतं चित्तमास्थापयतः संस्थापयतः <उपस्थापयतः> दमयतः शमयतो व्युपशमयतः एकोतीकुर्वतः समादधतः तच्चित्तं विक्षिप्य<ति> ॥।
ध्स्क्म् २७ २. -तमा आह सत्वा इत्येवं मनसिकुर्वतः यन्नैष्क्रम्यप्रविवेकध्यानसमुत्थिता प्रतिसंख्याय समुत्पन्ना कुशला रूपप्रतिसंयुक्ता चित्तसमता चित्तप्रसन्नता चेतसोऽनाभो ॥।
ध्स्क्म् २७ ३. -लूपेक्षासंप्रयुक्ता च या वेदना संज्ञा संस्कारा विज्ञानं ततः समुत्थितं कायकर्म वाक्कर्म ततः समुत्थिताश्चित्तविप्रयुक्ताः संस्कारा इयमुच्यते उपेक्षा <।> कतरः प्रयो<गः> ॥।
ध्स्क्म् २७ ४. -श्च पुनरुपेक्षां समाधिं समापद्यते आह । यथा खल्विहैकत्यस्य सत्वा भवन्तीष्टाः कान्ताः प्रिया मनआपास्तद्यथा माता वा पिता वा भ्राता वा भगिनी वा अन्यतमान्यत<मो> ॥।
ध्स्क्म् २७ ५. -स्यैवं भवति इयं माता वा पिता वा भ्राता वा भगिनी वा अन्यतमान्यतमो वा मित्रज्ञातिसालोहितो वा काममन्यत्र सत्वः सत्व इत्यधिमुक्तो भवति तद्यथा ॥।
ध्स्क्म् २७ ६. -त्स तत्र पश्येत्* सालान् वा तालान् वा नक्तमालान् वा अश्वत्थोदुंबरन्यग्रोधान् वा तस्य नैवं भवति इमेऽत्र साला वा ताला वा नक्तमाला वा अश्वत्थोदुं<बर> ॥।
ध्स्क्म् २७ ७. -मुक्तो भवति । एवमेवैहैकत्यस्य ये सत्वा भवन्ति इष्टाः कान्ता विस्तरेण यावज्ज्ञातिसालोहितः तस्य नैवं भवतीयं मम माता वा पिता वा भ्रात वा ॥।
ध्स्क्म् २७ ८. -तिसालोहितो वा काममन्यत्र सत्वः सत्व इत्यधिमुक्तो भवति अयं प्रयोगः उपेक्षस्य चेतःसमाधेरेवं प्रयुक्तश्च पुनरुपेक्षः चेतःसमाधिः संपद्यते ॥।
ध्स्क्म् २७ ९. -श्चाप्रमाणश्च <।> कतरः प्रयोगः परीत्तस्योपेक्षस्य चेतःसमाधेः कथं प्रयुक्तश्च पुनः परीत्तमुपेक्षाचेतःसमाधिं समापद्यते आह । यथा खल्विहैकत्य<स्य> ॥।
ध्स्क्म् २७ १०. विस्तरेण यावज्ज्ञातिसालोहितं स एभिः परीत्तैः सत्वैः परीत्तमुपेक्षासहगतं चित्तमास्थापयति संस्थापयत्युपस्थापयति दमयति शम<यति> ॥।

"https://sa.wikisource.org/w/index.php?title=धर्मस्कन्धः&oldid=368425" इत्यस्माद् प्रतिप्राप्तम्