द्वैतकोशः

विकिस्रोतः तः
द्वैतकोशः
[[लेखकः :|]]

द्वैतकोशः
(द्वैतवेदान्तविभागः)
राष्ट्रियसंस्कृतविद्यापीठम्
(मानितविश्वविद्यालयः)
तिरुपतिः

अः
"अदोषत्वात्‌ गुणोद्रेकाद्‌ अइत्युक्तो हरिः स्वयम्‌।
अगम्यत्वाच्य बुध्यादेः .................।। इत्यादिबृहच्छतिः। इति [बृ. भा. पृ-304]
"उक्तमनुवदन्‌ अर्थान्तरमाह - अदोषत्वादिति।
अनेन अ इत्यस्याभावार्थकत्वमगीकृत्यार्थ उक्तः।
विरुद्धार्थत्वमंगीकृत्याह। गुणोद्रेकादिति। अभावार्थत्वमंगीकृत्यार्थांतरमाह।। अगम्यत्वाच्चेति।।"इति।।
                                                           [बृ.भा.भा. 357,358 पृ]
एवमेव तत्रैवान्यत्र "निर्दोषत्वाद अ इत्युक्तः ........।। इति च" [बृ.भा.पृ.351.]
"वेदोनेनैनयद्वेदितव्यमित्यत्रैनेत्येतत्‌ अ शब्दस्य
  तृतीयान्तमितिभावेनतदर्थमाह-निर्दोषत्वादिति।। इति [बृ.भा.भा. 645 पृ]
".............पूर्णत्वादेतिकीर्तितः।" शत्याद्यैतरेयसंहितायाम्‌ इति [ऐ.भा.पृ. 218]
"अकारः सर्ववागात्मा परब्रह्माभिधायकः" इति [सु.भा.पृ 23]
"न केवलमवश्यवक्तव्यार्थत्वात्‌ नापि स्वरूपाधिक्यात्‌ अथातश्शब्दयोः प्रथमप्रयोगः, कन्त्ववयवार्थतश्च। अतोऽपि प्रथमप्रयोग इति भावेन कथमिति तृतीयप्रश्नस्य प्रकारान्तरेणोत्तरमाह---अकारः 'इति। तयोरित्यनुवर्तते।
तथाच - अथातश्शब्दयोस्सम्बन्धो अकारो यतः सर्ववागात्मा 'तस्मात्सर्वगुणान्‌ विष्णोः अकारो वक्ति यत्प्रभोः' इत्यौतरयभाष्यदिशा सर्वासां वाचामर्थे यत्पूर्णत्वं तदभिधायकः, अतः परब्रह्माभिधायकः गुणपूर्णत्वधर्मिण एव परब्रह्मत्वात्‌, धर्मधर्मिणोरभेदाच्चेति भावः।।" इति।। I-अ[भास्य. दी. पृ 23]

अजः
"यज्ञेनाञ्चनहेतुत्वादजस्थो भगवानजः।।"इति।। [छा. भा. 386 पृ ]
"हिंकारादिनामकप्रद्युम्नादीनामजादिपश्वभेद उच्यत इति भ्रान्तिनिरासायाजादिशब्दनिरवचनपरं प्रमाणमेवोदाहरति।। यज्ञेनेति।। अजस्थो भगवानज इत्युक्तः। यज्ञेनयज्ञद्वारा सद्गति हेतुत्वादित्यर्थः। अजगतौ क्षेपणेचेति धातुः। गति पूजार्थस्यां चुधातो र्यकारलोपेऽजइति भवति। तथाच यजत्यनेनेति यज्ञेनांचन हेतुत्वादज इतिवार्थ इत्याहुः।" इति।। [ छा. भा. प. कौ. 93 पृ ]
( अञ्चनं सद्गतिः। अजति अनेनेति, अञ्जति अनेनेति, यजति अनेनेति वा अजः)
"अ इति विष्णुः। तज्जातत्वादजः। अ इति ब्रह्मइत्यादिश्रुतेः।
वासुदेवत्परो नैव ब्रह्मशब्दादितो भवेत्‌' इत्यादेश्च"। इति। [ छा. भा. 440 पृ ]
"किं चाजशब्दस्तावद्वरिंचवचीति प्रसिद्धम्‌। सोपि तस्य विष्णुजत्वमेवाभिधत्ते। नुत न जायत इत्यज इत्यनुत्पत्तिं। यो ब्राह्मणमिति श्रुति विरोधात्‌। ततश्तत्समाख्यानाच्चस्वयंभूशब्दउक्तार्थ एवेति भावेनाह।। अ इतीति।। अज इति विरिंच उच्यते। अशब्दस्य विष्णु वाचित्वे प्रमाणमाह।। अः इतीति।। नन्वत्रब्रह्माकारवाच्यं प्रतीयते न विष्णुरित्यतो ब्रह्मशब्दस्य विष्णुपरत्वे तस्यैवाकारवाच्यत्वप्राप्तिरिति भावेन ब्रह्मशब्दस्य तद्वाचित्वे स्मृतिमाह।। वासुदेवेति।।" ।। इति।। [ छा. भा. प. कौ. 377 पृ ]
( नात्र न जायत इति आजः इति व्युत्पत्तिः। तस्य विष्णुजत्वात्‌ )
अणवः
"पूर्वत्र प्राणानां संख्या विचारिता। अत्र तत्प्रमाणं चिन्त्यत इति संगतिः। प्राणाः किं अणवः उत व्याप्ता इति सन्देहे व्याप्ता इति प्राप्तम्‌। "दिवीव चक्षुराततमि"ति व्याप्तत्वश्रुतेः। व्याप्तत्वे दृष्टान्तत्वेन
चक्षुर्व्याप्तत्वोक्त्या दूरश्रवणदर्शनस्मरणादियुक्त्या चास्याः प्राबल्याच्च सुदृढस्यैव दृष्टान्तीकरणाच्च। "अणुभिः पश्यती" त्यणुत्व श्रुतिस्तु प्रबलव्याप्तत्वश्रुति बाधादमानमिति।। सिद्धान्तस्तु।। "तद्यथा ह्यणुनश्चक्षसः प्रकाशो व्यातत एवमेवास्य पुरुषस्य प्रकाशो व्याततः अमुह्येवैष पुरुषो भवति" इति श्रुत्या आत्माणुत्वादौ चक्षुषो दृष्टान्तत्वोक्त्या विशेषश्रुतित्वेन च बलवत्वात्‌ अणुत्वाद्युक्तेः। स्वरूपेण प्राणानामणुत्वेपि तेजासा व्याप्तत्वोक्त्या दूरश्रवणदर्शनाद्युपपत्तेः। सामान्यतो व्याप्तत्वश्रुतेरपि प्रकाशपरत्वव्याप्तिपरत्वोपपत्तेः। प्राणानां स्वरूपतो व्याप्तौ सर्वापरोक्षप्रसङ्गेन सुप्त्य भावापाताच्च अणवः प्राणा इति।" [ इति न्या. मु. 94,95 पृ ]
अणिमा
"अणिमा सूक्ष्मतो गम्यः".............।। इति।। [ छा. भा. 437 पृ ]
"सूक्ष्मतोगम्यः। सूक्ष्मज्ञानविषयः। अणीयसा सूक्ष्मेण ज्ञानेन मीयत इत्यणिमा।।" इति।। [छा.भा.प.कौ367पृ]
"................मानानामणकोऽणिमा।।"इति सामसंहितायाम्‌।। इति।। [ छा. भा. 445 पृ ]
"मानानां ज्ञानानां मानाभिमानि देवतानां वा अणकश्चेष्टक इत्यर्थः।।" इति।। [छा. भा. प. कौ. 400
अणुः
"अणुश्च विततश्चासौ यतोऽन्तर्बहिरेव च"।। [ बृ. भा. 344 पृ ]

अणुः प्राणः
"प्रागुक्तप्राणादिप्रेरकत्वाधिकसद्गणत्वाय प्राणस्य विभुत्वमप्यस्त्विति शङ्कनात्‌ सङ्गतिः। प्राणो व्याप्तोऽणुर्वेति सन्देहे व्याप्त इति प्राप्तम्‌। "प्राणाः एवाधस्तात्‌" इत्यादि व्याप्तत्वश्रुत्या "यतस्सर्वं जगद्वाप्य तिष्ठति" इत्यादि स्मृत्युक्त सर्वजगद्वापकत्वयुक्तियुक्त्या 'प्राणोऽवाणुरिति' अणुत्व श्रुतितः प्रबलया व्यापतत्वोक्तेः। न चैवं वैष्णवत्वेन सावकाशा। महान्‌ वै मुख्यप्राणः येन व्याप्तं चराचरम्‌' इत्यादि श्रुत्यन्तरे स्पष्टं मुख्यप्राणस्य व्याप्तत्वप्रतीतेश्चेति।। सिद्धान्तस्तु।। 'एष प्राणोऽणुर्महान्नाम' इत्यादि श्रुत्या देहान्तर्बहिर्वर्तमानप्राणवायुशब्दितभेदेन अणुत्वमहत्वयो र्व्यवस्थोक्तेः। अणुर्वै मुख्यप्राणः यदुत्क्रामति नाडीभिः' इति अणुत्वश्रुतिरपि नाडीसञ्चारित्वयुक्तियुक्तत्वेन बलवत्वादिति।।" [ इति न्या. मु. 98 पृ ]

अणुत्वम्‌
अणुत्वविषये सुधायामेवं प्रतिपादितम्‌। "कारणगतं परिमाणं कार्यगतस्य परिमाणस्यासमवायिकारणमित्येवं सामान्यतः सिद्धान्ते स्थितेऽपि, तत्र परिमाणविशेषे विशेषोऽन्यथाभावः कल्पितो वैशेषिकैः।
कथमित्यत आह द्य्वणुक इति।
                      द्य्वणुके परमाणौ च ह्नस्वत्वं परिमण्डलम्‌।।
                      न कारणं कार्यगुणे
चतुर्विधं परमाणम्‌। अमुत्वं महत्त्वं ह्नस्वत्वं दीर्घत्वं च। तत्राणुत्वं द्विविधं, नित्यमनित्यं च । नित्यं चतुर्विधपरमाणौ मनसि च। पारिमाण्डल्यमिति चोच्यते। अनितयंद्य्वणुक एव। महत्त्वमपि द्विविधं
नित्यानित्यभेदात्‌। नित्यमाकाशकालदिगात्मसु परम महात्त्वम्‌। अनित्यं त्र्यणुकादौ कार्यद्रव्ये। ह्नस्वत्वं द्य्वणुक एव दीर्घत्वं त्र्यणुकादिकार्य द्रव्य एव। केचित्परमाणावपि ह्नस्वत्वं गगनादावपि दीर्घत्वमभ्युपयन्ति। तत्र द्य्वणुके वर्तमानं ह्नस्वत्वम्‌। उपलक्षणमेतत्‌। अणुत्वं च कार्यगुणे द्य्वणुककार्यत्र्यणुकपरिमाणे। विषयसप्तमीयम्‌। त्र्यणुकमहद्दीर्घत्वयोरसमवायिकारणं न भवति। तथा परमाणौ वर्तमानं परिमण्डलं पारिमाण्डल्यं परमाणुकार्यद्य्वणुकगुणस्य ह्नस्वत्वस्याणुत्वस्य चासमवायिकारणं न भवति। त्र्यणुकादिगतं तु महत्त्वं दिर्घत्वं च चतुरणुकादिपरिमाणं प्रत्यसमवायिकारणं भवत्येवेति। प्रत्यसमवायिकारणं भवत्येनेति।।" इति।।[ सु. IV भागे पृ 3372 & 3373]
तथा तत्रैव सुधायां "कस्मादेवं कल्पितमित्यत आह वैरूपयमिति।
अनु0----- वैरूप्यं तत्र कारणम्‌।।
इत्याहुः
तत्र द्य्वणुकपरमाणुपरिमाणानां त्र्यणुकद्य्वणुकपरिमाणानि प्रति कारणात्वाभावे वैरूप्यं विजातीयत्वं कारणम्‌। सजातीययोरेव हि तन्तुपटपरिमाणयोः कार्यकारणभावो दृष्टः। तथा च प्रयोगः। द्य्वणुकत्र्यणुकपरिमाणे न कार्यकारणभाववती विजातीयपरिमाणत्वात्‌ व्यतिरेकेण तन्तुपटपरिमाणवत्‌। एवं परमाणुद्य्वणुकपरिमाणयोरपि द्रष्टव्यम्‌। परमाणोरणुत्वं द्य्वणुकाणुत्वस्य करणमस्त्विति चेन्न। तत्रापि नित्यपरिमाणत्वस्य परमाणुत्वस्य च वैरूप्यस्य सत्त्वात्‌। एवञ्चेद्‌द्य्वणुकत्र्यणुकपरिमाणानां किमसमवायिकारणमित्यत आह वैरूप्यमिति। अनेकत्वमित्यर्थः। ईश्वरबुद्धिमपेक्ष्योत्पन्ना परमाण्वोर्द्वित्वसंख्या द्य्वणुकेऽणुत्वं ह्नस्वत्वं च करोति। द्य्वणुकेषु चोत्पन्ना त्रित्वसंख्या त्र्यणुके महत्त्वं दीर्घत्वं च करोतीति।।"इति।। [ सु. IV भागे - पृ. 3374]
एवमेव तत्रैव सुधायां "ननु च त्र्यणुकादिपरमाणं चतुरणुक दिपरिमाणं च सजातीयमिति युक्तस्तत्र कार्यकरणभावः। द्य्वणुकत्र्यणुकपरमाणयोस्तु विझातीयत्वत्कथं तथात्पमित्यतो दृष्टान्तदार्ष्टान्तिकयोः सदृशमित्युक्तम्‌। यथा त्र्यणुकादिपरिमाणाच्चतुरणुकादौ सजातयं परिमाणमुत्पद्यते यथा द्य्वणुकपरमाणुपरिमाणादपि त्र्यणुदौ सजातीयपरिमाणोत्पादस्यैव सिसाधयिषितत्वान्न दोष इत्यर्थः।
ननु च त्र्यणुकादौ महत्त्वदीर्घत्वे द्य्वणुकादौ त्वणुत्वह्नस्वत्वे प्रमाणसिद्धे। तत्कथं साजात्यसाधने बाधो न भवेदित्यत उक्तं महत्त्वं चेति। क्लपनेवैषा वैशेषिकाणां न तु परिमाणावान्तरजातभेदे प्रमाणमस्ति। किन्नाम परिमाणमेकजातीयमेवोत्कर्षापकर्षवदिति भावः। अनेन वैरूपयस्यासिद्धिरुक्ता वेदितव्या।।" इति।। [सु.IV भागे - 3386 पृ ]
एवं "इदमिह वक्तव्यम्‌। द्य्वणुकादिपरिमाणेऽसमवायिकारमलक्षणमस्ति न वेति। आद्येऽसमवायिकारणलक्षणसद्भावेऽपि त्र्यणुकादिपरिमाणं द्य्वणुकादिपरिमाणजं न चेद्भवेत्तदा त्र्यणुकादिगतान्महत्त्वतो दीर्घत्वाच्च नो भवेदेव, चतुरणुकादिपरिमाणमिति शेषः। इदमुक्तं भवति। यदि समवायिकारणप्रत्यासन्नत्वादिसद्भावेऽप नासमवायिकारणत्वं स्यादिति। द्वितीये किं समवयिकारणप्रत्यासत्तिर्नास्ति उत सामर्थ्यावधारणम्‌। नाद्यः। द्य्वणुकादिपरिमाणस्य त्र्णुकादिपरिमाणसमवायिकरणसमवायिकारणे द्य्वणुकादौ समवेतत्वस्य प्रमितत्वात्। समवायिकारणसमवेतत्वाभावान्न चेत्‌ द्य्वणुकादिपरिमाणात्त्र्यणुकादिपरिमाणस्योत्पादस्तदा त्र्यणुकादिगतभ्यां महत्त्वदीर्घत्वाभ्यां चतुरणुकादिपरिमाणमप नो भवेत्‌ तस्यापि समवायिकारणसमवेतत्वाभावात्‌। न द्वितीयः। अनन्यथासिद्धनियतपूर्वभावित्वेन हि सामर्थ्यमवधारणीयम्‌। तच्चास्ति द्य्वणुकादिपरिमाणे। एवमपि न चेत्ततस्त्र्यणुकादिपरिमाणादिजन्म, तदोक्तप्रसङ्ग एव।
सदृशपरिमाणस्यैव कारणत्वावधारणाद्विसदृशमेतदकारणमवर्जनीयसन्नधीति चेत्‌। किमिदं विसदृशत्वम्‌। किं जतिभेदः उत वैलक्षण्यमात्रम्‌। नाद्यः। परमाणुद्य्वणुकादिपरिमाणानामनुमानेनैकजातीयत्वस्यापि साधितत्वात्‌। द्वितीये वैलक्षण्यमात्रेण न चेत्कारणत्वं तदा महत्त्वादेरपि न स्यात्‌। न हि त्र्यणुकचतुरणुकमहत्त्वे न विलक्षणे। सोत्कर्षत्वास्यानुभवसिद्धत्वात्‌।
अथ सङ्ख्यात एव जन्मसम्भवे परिमाणस्यापि कारणत्वं न कल्पनीयमिति चेत्‌। तथाऽप्युक्त एवातिप्रसङ्गः। चतुरणुकादिपरिमाणस्यापि सङ्ख्यात्‌ एव जननोपपत्तेः। यत्र तु नियमकविशेषस्तत्र परिमाणमप्याद्रियतामिति। यद्यपि परिणामवादिनां नायं पन्थाः। किन्तूपदानानि स्वगुणयुक्तानि तथाविधकार्यतमापद्यन्त इति। तथाऽपि परमतमाश्रित्य प(रेषामेवेदं)रस्येदं दूषणाभिधानमिति न काचित्क्षतिः।।"इति।। [ सू. IV भागे 3388 to 3390 पृ ]
एवं तत्रैवान्यत्र "किंच महत्वाणुत्वे परस्परविरुद्धे कथमेकैकत्राङ्गीकर्तुमुचिते। (तदाह) यथा आह सूत्रकारः 'दृष्टान्ताच्चे'ति। न च कालभेदेन विरोधपरिहारः, परिमाणस्य यावद्‌द्रव्यभावित्वादित्याशङ्क्य प्रत्यक्षत्वाप्रत्यक्षत्वप्रसङ्गयोस्तावदिष्टापादनत्वं वदन्व्याहतिं परिहरति प्रत्यक्षत्वेति।
अनु0------प्रत्यक्षत्वतदन्यत्वे पुरुषापेक्षयाऽखिले।।
परमाण्वादावखिलेऽपि द्रव्ये प्रत्यक्षत्वाप्रत्यक्षत्वे स्त एवेति नैतौ प्रसङ्गौ युक्तौ। न च व्याहतिः। पुरुषभेदापेक्षया व्यवस्थोपपत्तेरति। एवच्चोत्तरत्र स्फुटीभविष्यति।
सु0----इदानीमणुत्वमहत्त्वव्याघातं परिहरति अणुत्वं चेति।
अनु0-----अणुत्वं च महत्त्वं च यतो वस्तुव्यपेक्षया।।
अखिलेत्यनुवर्तते। अणुत्वं च महत्त्वं चाखिले वस्तुनि विद्येते। न तु विरुद्धे। कथम्‌। यतो वस्तुव्यपेक्षयाऽणुत्वं च महत्त्वं च तदेवोच्यत इति योजना।
एतदुक्तं भवति। स्यादयं परमाण्वादिष्वखिलद्रव्येष्वणुत्वमहत्त्वाङ्गीकारे विरोधो यदि रूपे नीलत्वपीतत्ववतपरमाणेऽणुत्वमहत्त्वादिजतियोगः स्यात्‌। न चैवम्‌। प्रमाणाभावात्‌। किन्तु यथा त्र्यणुकादिषु महत्त्वमेकजातीयमेव, उत्कर्षापकर्षवत्परेणाङ्गीकृतम्‌। यथा चाणुत्वं परमाणुद्य्वणुकयोः। एवं परिमाणमवान्तरजातिरहितमेव सर्वद्रव्येषूत्कर्षापकर्षवद्वर्तते। तथा चैकत्र द्रव्ये वर्तमानं परिमाणं द्रव्यान्तरवर्त्युत्कृष्टपरिमाणापेक्षयाऽणुत्वमित्युच्यते। तदेव द्रव्यान्तवर्तिनोऽपकृष्टपरिमाणस्यापेक्षया महत्त्वमित्युच्यते। एवञ्च कुतो विरोधः। यथा खल्वेकमेव द्रव्यं द्रव्यभेदापेक्षया सन्निकृष्टं विप्रकृष्टं चोच्यमानं न विरोधास्पदम्‌। अत एव प्रत्यक्षत्वाप्रत्यक्षत्वविरोधोऽप्यपास्तः। तयोर्महत्त्वादिमात्रनिमित्तत्वे हि स स्यात्‌। न चैवम्‌। किन्तु पुरुषाणामिन्द्रियपाटवापाटवनिमित्तत्वमेव। अन्यथा मन्दविलोचनेनापि त्र्यणुकमुपलभ्येत। तर्हि गगनादेरपि कदाचित्प्रत्यक्षत्वं स्यादिति चेन्न। उद्‌भूतरूपाभावात्‌। द्य्वणुकानुपलम्भो गुणविशेषविपर्ययाधीनः आलोकेन्द्रियसन्निकृष्टचाक्षुद्रव्यानुपलम्भत्वात्‌। पवनानुपलम्भवदित्यादिकं त्वपकृष्टमहत्त्वादिनैवान्यथासिद्धम्‌। तर्हि पर्वतादेरप्रत्यक्षता स्यात्‌ इति चेन्न। अपकर्षविशेषस्य विवक्षितत्वात्। नासौ व्यवस्थितोऽस्तीति चेत्‌। सत्यम्‌। अत एव पुरुषापेक्षयेत्युक्तमिति।।" इति।। [ सुधा. IV भागे - 3397 तः 3400 ]

अखण्डार्थः
सत्यजगत्कर्तृकत्वाद्यनन्तगुणविशिष्टे वेदान्ताः प्रमाणमिति यदुक्तं तदयुक्तम् । वेदान्तानामखण्डार्थनिष्ठत्वस्य प्रमितत्वादित्याशंङ्क्य निराकुर्वन्ति न्यायामृतकाराः । " नन्वेतदुयुक्तं द्विविधं हि वेदान्तवाक्यम् -- एकं पदार्थनिष्ठं यथा - "सत्यं ज्ञानम्" इत्यादि, तत्पदार्थपरम्, " योऽयं विज्ञानमय " इत्यादि त्वंपतार्थपरं च । अपरमैक्यरूपवाक्यार्थनिष्ठं यथा "तत्वमसीत्यादि । द्वयमप्यखण्डार्थनिष्ठम् । यद्यप्यखण्डार्थनिष्ठत्वं न तावन्निर्भेदार्थनिष्ठत्वं भेदाभावविशिष्टत्वरूपस्या तदुपलक्षितत्वरूपस्या वा निर्भेदत्वस्य शाब्दबोध्यत्वेऽभप्रेते निर्घटं भूतलमित्यादिवत् सखण्‍डार्थत्वापत्तेः स्वरूपसत्वमात्रेऽभिप्रेते च सखण्डार्थानां सगुणवाक्यानामपि वस्तुगत्या निर्भेदब्रह्मनिष्ठत्वेनाखण्डार्थत्वापातात् , प्रातिपदिकार्थमात्रपर्यवसायित्वम् । पयः पावकरूपानेकप्रातिपदिकार्थमात्रपर्यवसायिनि शीतोष्णस्पर्शवन्तौ पयःपावकावित्यादावतिव्याप्तेः। नाव्येकविशेष्यपरत्वं नीलमुत्पलमित्यादौ अतिव्याप्तेरिष्टापत्तेश्च ।

तथाप्यपर्याय शब्दाना संसर्गागोचर प्रमाजनकत्वं वा तेषामेकप्रातिपदिककार्थमात्रपर्यवसायित्वं वा अखण्‍डार्थ उक्तं हि --
     संसर्गासङ्गिसम्यग्धीहेतुता या गिरामयम् ।
उक्ताखण्डार्थता यद्वा तत्प्रतिपादिकार्यता ।। इति । तत्र पदार्थनिष्ठस्य वाक्यस्याखण्डार्थत्वे समादिवाक्यं अखण्डार्थनिष्ठं ब्रह्मप्रातिपतिकार्थमात्रनिष्ठं वा, लक्षणवाक्यत्वात् , तन्मात्र प्रनोत्तरत्वाद्वा, प्रकृष्टप्रकाशश्चन्द्र इति वाक्यवतित्यनुमानं मानम् । न च द्वितीयहेतोरसिद्धिः , ब्रह्मविताप्नोति परम् । इत्युक्त ब्रह्मप्रातिपदिकार्थमात्रे बुभुत्सितेऽस्य प्रवृत्तेः ।
नच हेतुद्वयेऽपि दृष्टान्तः साध्यविकलः प्रकृष्टादिवाक्यं चन्द्रप्रातिपदिकार्थमात्रनिष्ठम् , तन्मात्रप्रश्नोत्तरत्वात्
संमतवदिति तत्सिद्धेः। न हि कश्चन्द्र इति चन्द्रप्रातिपदिकार्थमात्रे पृष्टेऽन्यद्व्यक्तुमुचितम् । सास्नादिमत्वम् गौरित्याद्यपि सक्षणवाक्यम् पृष्टगवादिप्रातिपदिकार्थमात्रपरमिति न व्यभिचारः ।

 ऐक्यपरस्य वाक्यस्याखण्डार्थत्वे तु तत्वमसीत्यादिवाक्यं अखण्डार्थनिष्ठम् आत्मस्वरूपमात्रनिष्ठं वा अकार्यकारणद्रव्यमात्रनिष्ठत्वे सति समानाधिकरणत्वात्, तन्मात्रप्रश्नोत्तरत्वाद्वा सोऽयं देवदत्त इति वाक्यवत् । न चान्त्यहेतोरसिद्धिः, कोऽहमित्यात्मस्वरूपमात्रे बुभुत्सितेऽस्य प्रवृत्तेः । न च हेतुद्वयेऽपि दृष्चान्तः साध्यविकलः, कोऽयमिति देवदत्तस्वरूपमात्रे पृष्टेऽस्य प्रवृत्तेः । विपक्षे प्रश्नोत्तरवैयधिकरण्यप्रसङ्गो बाधक इति ।
अत्र ब्रूम - आद्यलक्षणे संसर्गशब्देन संसर्गमात्रोक्तौ " अप्राप्तयोः प्राप्तिः संयोग" इत्यादि संसर्गलक्षणवाक्ये अव्याप्तिः । पदस्मारितपदार्थसंसर्गेक्तौ तु विषं भुंक्ष्वेत्यादावतिव्याप्तिः, तस्य पदस्मारितपदार्धसंसर्गाप्रमापकत्वात् । न चेदमपि "द्विषयदन्नं न भोक्तव्यमि " ति शास्त्रमूलकत्वात् शास्त्रीयपतस्मारितपदार्थसंसर्गप्रमापकम् अस्य युक्तिमूलत्वेनाशास्त्रमूलत्वात् । प्रातिपिपादयिषितपदार्थ संसर्गेक्तौ च चन्द्रब्रह्मादिशब्दार्थानां प्रश्नहेतुसंशय धर्मित्वेन प्रागेव सामान्यतो ज्ञाततया स्वरूपेणाप्रतिपिपादयिषितत्वात् ।
.
संसर्गविशेषप्रतियोगित्वेन तु प्रतिपिपादयिषितत्वे विवक्षिते संसर्गाप्रमापकत्वासम्भवात् । किं च शीतोष्णस्पर्शवन्तौ पयः पावकावित्यादौ त्वद्रीत्या संसर्गाप्रतिपादकेऽनेकप्रतिपादकार्थमात्रपरेऽतिव्याप्तिः । न हि धर्मधर्मिभावासहमखण्डार्थत्वं धर्मिभेदसहम् ।
किं च यौगिकार्थोपगवादिप्रश्नोत्तरे श्यामो दिर्धो लोहिताक्ष औपगव इत्यादौ अनेकार्थात्मकवनसेनादि पश्नोत्तरे " एकदेशस्या वृक्षा वन " मित्यादौ च सखण्डार्थे लक्षणवाक्येऽतिव्याप्तिः । प्रकृष्टादिवाक्येऽपि संसृष्टार्थत्वस्य वक्ष्यमाणत्वेनासम्भश्च । अत एवान्त्यं लक्षणमप्ययुक्तम्, असम्भवात्, सखण्डार्थलक्षणवाक्येऽतिव्याप्तेश्च । किंच प्रवृत्तिनिमित्ताभेदश्चेभापर्मामत्वं तद्भेदस्त्विह नास्ति अनन्तत्वादिनां शुद्धादन्यत्रासम्भवात् अनन्तादिशब्दानां लक्षणयाऽखण्डार्थत्वे च शुद्धे तदसिद्धेः " ।। इति ।।
           ( न्या. द्वि. परि. 1.2.3. पृ )
 
अख्यातिः
द्वैतसिद्धान्ते स्वपक्षसाधनाय पूर्वपक्षमूद्य निरासः एवं क्रियते । तथापि -- "ननु तर्ह्यीदं रजतमित्यादिप्रत्ययस्य का गतिः । उच्यते । रजतमिदमिति द्वे ज्ञाने स्मृत्यनुभवरूपे । तत्रेदमिति पुरोवर्तिद्रव्यमात्रग्रहणाम् । तन्मात्रं च गृहीतं सदृशतया संस्कारोद्बोधक्रमेण रजस्मृतिं जनयति । सा च गृहीतग्रहणस्वभावाऽपि दोषवशात् गृहिततत्रांऽशप्रमोषेण गृहीतिसरूपावतिष्ठते । तथ च रजस्मृतेः
पुरोवर्तिग्रहणस्य च मिथः स्वरूपतो विषयतश्च भेदाग्रहणात्सन्निहितरजतज्ञानसारूप्येणेदं रजतमिति भिन्ने अपि ग्रहणस्मरणे अभेदव्यवहारं सामानाधिकरण्यव्यपदेशं च प्रवर्तयतः । कुत एतदिति चेन्न । अन्यथाऽनुपपत्तेरुक्तत्वात् । किञ्चेदमिति पुरोवर्ति नयनसंप्रयोगजं ज्ञानमनुभव इत्यविवादम् ।। रजतज्ञानं च न तावदिन्द्रियजम्। इन्द्रियस्य सन्निकृष्टाय एव ज्ञानजनसामर्थ्यत्। अन्यथा सर्वसार्वज्ञप्रसङ्गात् । न च विप्रकृष्टेन रजतेन सन्निकर्षोऽस्ति । तत्कार्यस्य साक्षात्कारस्य कदाप्यदर्शनात् । न च शुक्तिशकलसन्निकर्षादेवेन्द्रियं रजतज्ञानमुत्पादयतीति सांप्रतम् । अतिप्रसङ्गात् । न च दोषसदसद् भावाभ्यां व्यवस्था । दोषाणां विपरीत कार्यकारिताया निरस्तत्वात् । भस्मकदोषदूषितस्य जाठरजातवेदसो बहुतराऽऽहारपरिणतिहेतुतोपलभ्यत इति चेन्न । विप्रतिपत्तेः । दोषस्यैव आहाहविकारहेतुतोपपत्तेः । न च दहनकार्यं कथं दोषः कोरोतीति । वाच्यम् । कार्येऽपि वैजात्योपलम्भात् । जाठराग्निपरिणता हि रसाः शरीरोपचयहेतवो न भस्मकपरिणतास्तथा । तस्मान्नेदमिन्द्रियजम् । न च लिङ्गाद्यनुसन्धानविधुराणामपि जायमानमुमानाऽऽदिप्रभवमिति वक्तुं शक्यते । अतः प्रत्युत्पन्नकारणभावेऽप्युत्पद्यमानेनानेन परिशेषात्स्मरणेनैव भवितव्यम् ।।
किं चेदं स्मरणमनाकलितरजतस्यानुत्पद्यमानत्वात्संप्रतिपन्नस्मरणत्वात् । न चेदमस्मरणम् । पदात्पदार्थस्मृतौ हरिहरादिस्मृतौ च व्यभिचारात् किञ्चानुभूतं तावन्न समस्तं स्मर्यते । तत्तांऽशश्चातीतदेशकालसम्बन्धः स्मर्यमाणधर्मः । तथा च स्मरणं च भवतु । भवतु दोषवशात्प्रमुषिततत्तांऽशम्। न च विपक्षे बाधकं किंचिदित्यप्रयोजको हेतुः । न च नेयं स्मृतिरिन्द्रियजन्यत्वात् । तच्चेन्द्रियव्यापारान्वयतिरेकानुविधायित्वादिति वाच्यम् । स्मृतिबीजसंस्कारोदबोधहेतुपुरोवर्तिसाधारणाकारग्रहण एवन्द्रियव्यापारान्वयव्यतिरेकयोरुपलक्षणत्वात् । नन्वेवं सत्यनास्वादिततिक्तस्य शिशोस्तिक्तस्मरणानुपपत्तेः कथं तिक्तो गुह इति प्रत्यय इति चेन्न । जन्मान्तरानुभूतत्वात् । अदृष्टवशाच्च कस्यचिदेव स्मरणमुपपद्यते । अथवा नायं नियमो ग्रहणस्मरँ एवागृहीतविवेके व्यवहारादिप्रवर्तके इति किन्तु क्वचिद्ग्रहणे एव मिथोऽगृहीतभेदे । यथा पीतःशङ्खा इति। अत्र हि विनिर्यन्नयनराश्मिवर्तिनः पित्तद्रव्यस्य पीतत्वं दोषवशाद् द्रव्यरहितं गृह्यते । शछङ्खोऽपि गुणहीनः स्वरूपमात्रेण गृह्यते । तदनयोगुणगुणिनोरितरेतरापेक्षित-
संसर्गाग्रहात्सारुप्यात्पीतचिरबिल्वादिफलप्रत्ययाविशेषणाभेदव्यावहारः सामानाधिकरण्यव्यव्यपदेशश्च भवतः । यत्तु कज्जलकलिमाग्रहणं तत्तिर्यगवस्थानात् । अस्वच्छतया नयनराश्मिप्रतिबन्धकत्वातच्च । पित्तं तु आर्जवावस्थितं काचमिव स्वच्छं न प्रतिबन्धकमिति विशेषः । एवं तिक्तो गुड इति व्यावहारोऽपि । क्वचित्पुनः स्मरणे एवागृहीतविवेके । यथा स घटस्तत्रासादिति । अनयैव दिशाऽलातचक्रादिव्यवहाराः सर्वैऽपि निर्वाह्याः।
किञ्च विपर्ययमंगीकुर्वाणेनापि विवेकाग्रहो ग्राह्य एव । न हि विवेकग्रहे विपर्ययावकाशोऽस्ति । विरोधात् । अन्यथा विपर्ययनिवृत्यनुपपत्तेः । तथा च तत एव सर्वस्योपपत्तौ किं विपर्ययकल्पनया । न चान्यथाख्यातौ किमपि प्रामाण्यमस्ति । भेदाग्रहप्रसंजिता भेदव्यवहारबाधनेनैव नेदमिति विवेकज्ञानस्य बाधकत्वमप्युपपद्यते । तदुपपत्तौ चागृहितविवेकस्य ज्ञानद्वयस्य भ्रान्तित्वमपि लोकसिद्धं सिद्धम् । तथा च प्रयोगः। विगीतप्रत्ययो यथार्थः। प्रत्ययत्वात्सम्प्रतिपन्नवत्। नन्वत्र विगीतप्रत्ययो नाम किं पुरोवर्तिनिर्विकल्पकज्ञानमुत सदृशदर्शनोत्थं रजतस्मरणम्। किंवोभयमाहोस्विद्रजत- पुरोवत्यैकताज्ञानमाहोस्वित्प्रमुषितभेदं वेदनद्वयम् । तत्राद्यपक्षत्रये सिद्धसाधनता । चतुर्थे वाद्याश्रयसिद्धतेति चेत् । मैवम् । अस्ति तावत्पुरोवर्तिनिर्विकल्पकज्ञानम् । अस्ति च सदृशपुरोवर्तिदर्शनजनिता रजतस्मृतिः । तथाऽस्त्यैव च तत्समुत्थं सविकल्पकमिदमिति वेदानात्सविवादभेदाभेदं रजतवेदनम्। तत्र विप्रतिपन्नौ भेदाभेदौ विहायेदं रजतमित्यवगनमात्रमिदं रजतमित्यादिसामानाधिकरण्यव्यवहारकारणं पक्षत्वेन विवक्षितं चेत्को विरोधः। न हि विप्रातप्रभाकारेणैव पक्षीकारः क्वचित् । मा हि भून्नित्यानित्याग्निमदनाग्निमच्छब्दपर्वतपक्षीकारे प्रकृतदौषानुषङ्गाग्भङ्गोऽनुमानमुद्रायाः " ।।
                            ( इति सु. जि. 522 तः 531 पर्यन्तम् )
 
रजतमिदमिति द्वेज्ञाने स्मृत्यनुभवरूपे इत्यादि प्रक्रियादूषणं चैवं सुधायामस्ति । तथाहि -- "या चेयं प्रक्रिया रजतमिदमित्यादिनोक्ता सा ज्ञानद्वित्वे रजतज्ञानस्य च स्मृतित्वे प्रमाणाभावादनुपपन्ना । विशिष्टज्ञानबाधकानां परिहृतत्वात् । अनुमानानां चज दूष्यत्वात् । यस्तु रजतज्ञानस्य स्मृतित्वे परिशेषोपन्यासः सोऽपि प्रत्युप्तन्नकरणदुष्टेन्द्रियादिजन्यतोपपादनात्परिशेषानुपपत्तेरयुक्तः। अनाकलिकरजतस्यानुत्पद्यमानत्वं विवक्षितमिति चेन्न तथाऽपि रजतसंस्कारण्यवहारादौ व्यभिचारात् । ज्ञानत्वे सतीतिविशेषणाददोष इति चेन्न । रजतनिर्विकल्पकज्ञानवत एवोत्पद्यमाने रजतसविकल्पकानुभवे व्यभिचारतावदवस्थ्यात् । रजतसविकल्पकज्ञानवत एवोत्पद्यमानत्वं विवक्षितमिति चेन्न हानादिबुद्धिष्वनौकान्तिकताऽनिस्तारात् । संस्कारमात्रसहकृतमनोजन्यत्वोपाधिग्रस्तं चानुमानम् । न चानेनैव हेतुनाऽस्य पक्षे साधनम् व्यभिचारस्योक्तत्वात् ।
किञ्चेदं स्मरणत्वं साध्यं न तावत्सामान्यं गुणेषु प्राभाकरैरभ्युपगतम् । अननुभवत्वमिति चेत् । तदपि किमनुभवादन्यत्वमनुभवत्वानधिकरणत्वं वा । आद्येऽनुभवस्यापि तत्सम्भवेन सिद्धसाधनता स्यात् । द्वितीयेऽनुभवत्वं किमिति वाच्यम् । स्मृत्युन्यत्वमिति चेन्न, स्मृतावपि प्रसङ्गात् इतरेतराश्रयप्रसक्तेश्च । ज्ञानसंस्कारमात्रप्रभवत्वं स्मृतित्वमिति चेन्न । मानसप्रत्यक्षजास्मृतिरित्यस्माभिरङ्गीकृतत्वेन पक्षस्याप्रसिद्धविशेषणत्वात् दुष्टान्तस्य साध्यवैकल्याच्च । किंचेन्द्रियव्यापारान्वयव्यतिरेकानुविधायीदं रजतज्ञानं तत्कार्यमित्यवसीयते । तथा च बाधिताविषयत्वम् । अन्वयव्यतिरेकयोरन्यत्रोपयोगान्नैवमिति चेत् । तत्किमिस्य स्मृतित्वे सिध्येऽन्यत्रोपक्षयः कल्प्यते उतैवमेव । नाद्यः, तदभावात् अस्मादेवानुभानात्सिद्धावन्योन्याश्रयप्रसङ्गात् । न द्वितीयः । समीचीनरजतप्रत्ययेऽपि तथात्वप्रसंगात् । अन्यत्रोपक्षयः शङ्कित इति चेन्न तथाऽपि संधिग्धकालातीतताऽनिस्तारात् । समाचनिरजतानुभवेऽपि कथमन्यत्रोनुपक्षये । निश्चते भवता । अनुभवत्वनिश्चयादिति चेन्न इन्द्रियव्यापारस्यान्यत्रोपयोगशङ्कयाऽनुभवत्वस्यापि संधिग्धत्वात् । पुरोवर्ति व्यवहारसंवादादनुभवत्वनिश्चय इति चेन्न संवादानुभवस्यापि संधिग्धत्वात् । असति बाधके न वृथाऽन्यत्रोपक्षयः शङ्क्यत इति चेत् समं प्रकृतेऽपि । इति । एतेनाप्रत्युत्पन्नकारणप्रभवत्वं स्मृतावनेकान्तिकत्वं च । अनुभूतविषयत्वं स्मृतित्वमित्यपि चेन्न । द्वितायादिभ्रमे सिद्धसाधनत्वात् साध्याविशिष्टताप्रसंङ्गाच्च । तत्तांशोल्लेखित्वं स्मृतित्वमिति चेन्न अनुभवबाधितत्वात् ।।
एतेन ज्ञानसमितार्थगोचरत्वमित्यपि परास्तम् । अनेनैव प्रतिपक्षानुमानद्वयमपि समाहितं वेदितव्यम् । नेदं स्मृतिरिति व्यवहर्तव्यं तत्तोल्लेखादिस्मृतिचिन्हविकलत्वादिति प्रथमप्रयोगे विवक्षितत्वात् । अत एव तिक्तगुडादिप्रत्ययप्रक्रियाऽपि परास्ता" ।। इति ।।
                   ( इति सुधा. जि. 570 तः 576 पर्यन्तम् )
"यदपि विपर्याऽभ्युपगमे कल्पनागौरवमुक्तम् तत् विवेकाग्रहमात्रेण प्रवृत्यादेरुपपत्तौ तथाऽस्तु । न चैवमिति वक्ष्यामः । किंचैवमन्त्यतन्तुसंयोगपर्यन्तं कारणकलापमुपादाय पटोऽपि नाङ्गीकरणीयः तन्मात्रेण सर्वस्योपपत्तेः । पटोऽपि प्रमितो न हेतु शक्यये
। न च तेन विनैकत्वादिप्रत्ययोपपत्तिरिति चेत् विपर्ययऽप्येवमिति चेत् । अनुभव एवेति ब्रूमः ।। यता हि पुरोवर्तिनि रजते रजतमिदमिति विशिष्टविषयमेकमेव विज्ञानं स्वप्रकाशतया वा मानसप्रत्यक्षतया वा साक्षिणा वाऽवभासते तथेदमपीति कुतोऽस्य न विशिष्टविषयैकज्ञानत्वम् । न हि ततोऽस्य मात्रयाऽपि विशेषं पश्यामः । दर्शने वाऽस्मत्प्रवत्तिर्न स्यात् ।। केवलमेकं तादृग्विषयसद्भावाद्यभावार्थं तदभावादपरमयथार्थमविशिष्टविषयमनेकमपि तद्विशिष्टविषयैकत्वेन प्रतिभासत इति चेन्न । अन्यस्यापि विशिष्टविषयैकत्वे समाश्वासासम्भवप्रसङ्गात् विपर्ययाङ्गीकार प्रसक्तेश्च । नास्त्येव विशिष्टविषयैकत्वग्राहिप्रत्यय इति चेन्न अनुभवसिद्धज्ञानापलापे स्मृत्यनुभवस्वरूपापलापप्रसङ्गात् । किञ्च रजार्थिनः शुक्तिकायां प्रवृत्तिरन्यथाऽनुपपन्ना अन्यथाज्ञानमाक्षिपति । नन्वियं प्रवृत्तिः स्वरूपतो विषयतश्चागृहीतभेदाद्वेदनद्वयादुपपद्यत इति चेत् । कोऽयं भेदो नाम । किं स्वरूपम् उत पृथकत्वम् उतान्योन्याभावः अथाववैधर्म्यम् । न प्रथमः स्वप्रकासज्ञानज्ञेयप्रतिभासे
तदनवभासानुपपत्तेः । न द्वितीयः गुणे गुणानभ्युपगमात् । सर्वत्र भेदाग्रहसम्भवेनान्यार्थिनोऽन्यत्र प्रवृत्तिप्रसंगात् । तृतीये वक्तव्यम् । किमिदंरजचत्वयोरन्योन्याभावो नावभासते उतेदंरजतयोरिति । नाद्यः अपर्यायशब्दस्मारकयोर्जातिव्यक्त्योस्तदनवभासासम्भवात् ।। किञ्चान्योन्याभावो नामान्योन्यस्वरूपमेव परस्य । तच्चोपलब्धमिति कथं तदनुपलम्भः । अत एव न द्वितीयः । नापि चतुर्थः रजतासम्भाविनः पुरोवर्तिनीदन्त्वस्य पुरोवत्यसम्भविनश्च रजते रजतत्वस्य गृहीतत्वात् । इदं रजतत्वयोससंर्गाग्रहो विवक्षित इति चेन्न । असंसर्गो हि संसर्गस्याभावः । स चेदंरजतत्वयोः स्वरूपमेव परेषाम् इति कथं तदवभसे नावभासेत । विपर्यययाभ्युपगमवादिभिरपि भेदाग्रहोऽभ्युपगमनीय एव । तत्रापि समानो दोष इति चेन्न भेदस्य स्वरूपतावन्मात्रत्वानभ्युपगमात् ।।
अथ मन्यसे पुरोवर्तिनो यः शुक्तित्वादिधर्मो रजतव्यावर्तको यश्च रजते व्यवहितदेशत्वादिधर्मः पुरोवर्तिव्यावर्तकस्तयोरग्रहणं प्रवर्तकमिति । तदसत् । पुरोवर्तिनो हि शुक्तित्वाग्रहे न शुक्तिकार्थी तत्र प्रवर्तेत । रजतस्य चासन्निहितत्वादिधर्माग्रहे रजतार्थी न तत्र प्रवर्तताम् । रजतार्थिनः पुरोवर्तिनि प्रवृत्तिस्तुकुतः । कञ्च भेदाग्रहादन्यस्त्वभेदग्रहात् ; उत सर्वोऽपि भेदाग्रहादिति।। नाद्यः ।। अनियतकारणतापातात् । ननु च सर्वत्राभेदग्रह एव प्रवर्तकः । तत्सारूप्याद्भेदाग्रहोऽपि तथेष्यते । यथा हि । अस्ति तावत्प्रवर्तकत्वाभिमतप्रत्ययोप्यपेक्षितोपायपुरोवर्त्यवगमांशयोः स्वरूपतो विषयतश्च भेदविरहादेव भेदाग्रहःठ । तथाऽत्राप्यविवेचकं साधारणं रूपमवगम्यते । नावगम्यते च विवेजकोऽसाधारणधर्मो वेद्ययोर्वेदनयोश्च । ततश्चैकप्रवर्तकप्रत्ययसदृशवपुरूपजनयीदं वेदनद्वयं प्रवृत्तमिति । मैवम् । अनिहेतुकत्वानिस्तारात् । कॢञ्च प्रवर्तकसादृश्यात् प्रवृत्तिरित्यत्रैव कल्प्यते उत यद्यत्सदृशं तत्तत्कार्यकारीति सर्वत्र नियमः । नाद्यः । अदृष्टकल्पनाप्रसङ्गात् । प्रवृत्तिलोभादित्यमास्थीयत इति चेन्न तस्या विपर्ययाङ्गीकारादेव सुव्यवस्थितेः। न द्वितीयः कुशानुसदृशात् गुञ्जापुञ्जाच्छितनिवृत्तेरदर्शनात् । नन्विदं रजतमिति यथा रजतसाध्या बुद्धी रजतसादृशाच्छुक्तिशकलाद्भवति भवताम् । तया प्रवर्तकैकज्ञानसदृशाञ्ज्ञानद्वयात्पवृत्तिरपि कुतो न स्यात् । मैवम् । अर्थस्य साक्षाञ्ज्ञानकारणत्वानभ्युपगमात् । सादृश्यं तु काचादिवद्दोषतयोपयुज्यते ।अपि चेदं ज्ञानद्वयं प्रवर्तकसादृश्यमात्राद्यदि प्रवृत्तिमुपजनयेन्निवृत्तिमपि कुतो न जनयेत् । अस्ति हि तत्र निवर्तकभेदग्रहस्यारूप्यमभेदाग्रहणम् । ननु च यथा भेदाग्रहो भवतामभेदग्रहं जनयति तथा प्रवृत्तिमपि किं न जनयेदिति । मैवम् । ज्ञानजनने हि कारणानां स्वातन्त्र्यं न पुरुषस्य । तानि च यादृशसामग्रीमध्यपिततानि तादृशं ज्ञानमुपजनमिति । न तु पुरुषाकांक्षामपेक्षन्ते हेयोपेक्षणीयज्ञानजननात् । प्रवृत्तौ तु पुरुष एव स्वतन्त्रो न ज्ञानम् । स हि सत्यपि ज्ञानेऽपेक्षित एव प्रवर्तते। न तु ज्ञानं जातमित्येवोदासीनविपरीतयोरपि । तथा च भेदाग्रहदोषकलुषितानि नयनादीति विपर्ययं जनयति । न तु पुरुषः प्रवर्तकसादृश्यमात्रेण प्रवर्तितुमर्हति । तथात्वे वा निवर्तकसादृश्यात्प्रेक्षावन्निवर्ततेतापीत्युक्तम् । किञ्च ज्ञानमर्थे प्रवृत्तिं किं साक्षादुपजनयति उतेच्छाप्रयत्नद्वारेण । नाद्यः हेयोपेक्षणीययोरपि प्रवृत्तिप्रसङ्गात् । द्वितीयं कथमगृहीतभेदात् ज्ञानद्वयात्प्रवृत्तिः । पुरोवर्तिप्रवृत्तेर्हि साक्षात्कारणं प्रवयत्नः तस्य चेछ्छा, तस्याश्च समीहित साधनतानुमानम् । नच तत्सम्भवति । रजतत्वस्य पक्षधर्मतयाऽप्रतिपन्नत्वात् । अथ रजते प्रतिपन्नेन रजतत्वेन तत्समीहितसाधानताज्ञानमुपजातं भेदाग्रहसारूप्यात् पुरोवर्तिनीच्छामुपजनयतीति चेन्न । तथा सति भेदग्रसहसारूप्यादभेदग्रहदुपेक्षाया अप्यापातादिति ।
नन्वस्तु तर्हि द्वितीयः पक्षः । तथा हि । सत्यरजते तावदस्ति रजतव्यक्तिज्ञानं रजतत्वजातिबोधश्च । न चास्त्यसंसर्गज्ञानं । एतावतैव तत्र तदर्थिनां प्रवृत्तिः । न हि तयोस्तादात्म्यं पश्यन्ति । जातिव्यक्तोस्तादात्म्याभावात् । न च तत्र संसर्गग्रहः प्रवर्तकः समावायो हि तयोः संसर्गः । न चासौ प्रत्यक्षः । इन्द्रियसन्निकर्षाभावात् । नाप्यनुमानतस्तदा शक्यतेज्ञातुम् । लिङ्गाभावात् । अविसंवादिव्यवहारकत्वविशिष्टसाकांक्षरूपरूपिसहोपलम्भो हि तल्लिङ्गम् । न चाविसंवादित्वं प्राक् प्रवृत्ते। शक्याधिगमम्‌ । अस्ति चेदं सकलमपि प्रवर्तकं विभ्रमेऽपीति कुतो विपर्ययाभावे प्रवृत्यनुपपत्तिः । इदं रजतत्वाधारयोर्भेदाग्रहो वा सत्यरजते प्रवृत्तिहेतुः । अस्ति चासौ प्रकृतेऽपि। न च पुरोवर्तिनि रजतत्वाप्रतीताविच्छानुपपत्तिरिति वाच्यम् । रजतत्वेन सहागृहीतासंसर्गतया वा रजतादगृहीतभेदतया
वा समीहितसाधनतानुमानोपपत्तेरिति ।। एतदप्युक्तम् । असंसर्गाग्रहभेदाग्रहयोः निरस्तत्वात् । किंचैवं सति सविकल्पकप्रत्यक्षोच्छेदप्रसङ्गः । वस्तुमात्रग्रहस्यासंसर्गाग्रहस्य च निर्विकल्पकसाम्यात् । रूपरूपिभावः सविकल्पके चकास्ति । निर्विकल्पके तु वस्तुस्वरूपमात्रमिति भेद इति चेत् । कोऽयं रूपरूपिभावः ? धर्मधर्मिणोः परस्पराकांक्षाविषयत्वमितिचेत् । तत्किं तयोः स्वरूपमुतान्यत् । आद्ये तदपि निर्वकल्पके प्रकाशत एव । द्वितीयं किं तदैन्द्रियकमुतातीन्द्रियम् । प्रथमे कथमविकल्पके न प्रकाशेत । अथ तद्वस्तुदर्शनसापेक्षदर्शनं निर्विकल्पकेऽचकासदपि सविकल्पके भातीति चेत् । तर्हि न संसर्गातिरिक्तमस्तीति संसर्गहादेव सर्वत्र प्रवृत्यङ्गीकारे मध्यमवृद्धप्रवृत्तिरपि तथात्वेन बालस्य तदीयसंसर्गज्ञानानुमानोपायाभावात् पदानामन्वितार्थेषु व्युत्पत्यनुपपत्तौ शब्दप्रमाणोच्छेदप्रसङ्गः" ।।
                                          ( इति - सुधा - जि. 582 तः 595 पर्यन्तम् )


अतः
"अतशशब्दो हेत्वर्थः" इति [ ब्र. सू. भा. 17 पृ ]
"एवं तावद्‌ ब्रह्मजज्ञासाकर्तव्यात्वोपयुक्तं यक्तिजातमतः शब्दार्थत्वेन व्याख्यातम्‌। तेनाथशब्दार्थमेवातः शब्दार्थतया हेतत्वेन व्याख्यातवतां वृत्तिकारणामिव नास्माकं पुनरुक्तिदोष इत्युक्तं भवति। इति।" [सु.जि.996पृ]
"इतः परं स्वयं भगवतेति पर्यन्तं अतःशब्दस्योक्त हेतुपञ्चकपरामर्शित्वानुपपत्तिनिरासः क्रियते। युक्तिजातमिति। मोक्षजनकप्रसादहेतुज्ञानोत्पादकत्वबन्धसत्यत्ववेदादिशब्दगतसिद्धार्थपरत्व प्रमाण्यान्विताभिधायित्वरूपयक्तिजातमित्यर्थः।।" इति।। [ सु. जि. परि - 997 पृ ]
"एवं मीमांसाप्रयोजनसमर्थनार्थत्वेनातः शब्दं द्वेधा व्याख्याय विषय समर्थनपरतयाऽप व्याख्याति ।।कार्यत चेत्यादिना।। इति।। [ सु. जि. 777 पृ ]
एवमेव परिमले विस्तृतया अतश्शब्दव्याख्यानं दरीदृश्यते। "एवं मीमांसाप्रयोजनमित्यादि।। ब्रह्मजिज्ञासेत्यत्र जवान्यवषयसमर्पकब्रह्मशब्दादिनैव जीवान्यब्रह्मसिद्धौ तज्ज्ञानतत्प्रसादद्वारा मोक्षरूप फलसिद्धावपि तेषां मोक्षप्रसादज्ञानानां प्रत्येकं कर्मजन्यत्वशङ्कया जिज्ञासारूपमीमांसाप्रयोजन त्वाप्राप्तावन्यजन्यत्वशङ्काया 'दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तरापायादपवर्ग' इति न्यासूत्रदिशा प्रसादनैरपेक्ष्यशङ्कायाः, तथा मिथ्यभूतब्रन्धनिवृत्तरूपमोक्षस्य ज्ञानादेव सम्भवेन परसादानपेक्षणात्‌ प्रसादद्वारा मोक्षाफलकत्वमयुक्तमिति शङ्कायाश्च निरासेन, ज्ञानप्रसादद्वारा मोक्षरूपप्रयोजनसमर्थनार्थत्वे न जिज्ञासयैव ज्ञानं, ज्ञानादेव च प्रसादः, प्रसादादेव मोक्ष इत्येतदर्थकतया, तथा बन्धसत्यत्वार्थकतया च द्वेधा 'ज्ञानी प्रियतमोऽतो मे' इत्यादिना 'इत्युक्तेर्बन्धमिथ्यात्वम्‌' इत्यादिना च व्याख्यायेत्यर्थः। विषयेति। विषय समर्थ ने हेतुभूता या शब्दस्य सद्धार्थप्रमापकत्वरूपा युक्तिः तत्परतयेत्यर्थः। विषयसमर्थनं हि द्वेधा भवति। स्वप्रकाशप्रत्यगर्थाभिन्नत्वाद्ब्रह्मणो न विषयत्वमिति प्रमेये आरोपतान्यथाकारशङ्कानिरासेन, तथा ब्रह्मप्रमाणो आरोपतान्यथाकारशङ्कानिरासेन चेति। द्वितीयमपि त्रेदा शब्दस्यैवार्थसंस्पर्शशून्यत्वान्न प्रमाण्यं कुतस्तद्विशेषवेदस्येति शङ्कानिरासेन, वाक्यार्थबोधोपाय भावान्न वेदस्य प्रामाण्य मितिशङ्कानिरासेन, प्रामाण्येऽपि न सिद्धार्थे प्रामाण्यमिति कुतस्तेन विषयसिद्धिरिति शङ्कानिरासेन चेति। एवं चतुर्षु विषयसमर्थनप्रकारेश्वाद्यः 'ओतत्ववाची ह्योङ्कारः' इत्यादना ॐ कारब्रह्मशब्दयोजीवभेदकगुणपूर्तिवाचकत्वाव्याख्यानपरेण दर्शितः। द्वितीयस्तु 'प्रत्यक्षवच्य प्रमाण्यं स्वत एवागमस्य हि' इत्यत्र अतः शब्दस्य वेदादिशब्दप्रामाण्यार्थपरत्वव्याख्यानेन। तृतीयस्तु 'शक्तिश्चैवान्विते स्वार्थ' इत्यत्र शब्दस्यान्वितार्थशक्तत्वादित्येवं रूपार्थपरत्वव्याख्यानान्तरेण प्रदर्शयिष्यते। चतुर्थस्तु वेदादेः सिद्धार्थे ब्रह्मणि प्रामाण्यादित्येवं रूपार्थपरत्वव्याख्यानरूपेण कार्यता चे'त्यादिना प्रदर्शयिष्यत इति विषयसमर्थनपरतयेत्युक्तम्‌।। इति।। [ सु. जि. परि. 777 पृ ]
एवमेव श्रीमद्विजयीन्द्रतीर्थैरप "अतः शब्देन यमे वैष वृणुते तेन लभ्य इत्यादिश्रुतिप्रमाणकेन, यतो नारायणप्रसादमृते न मोक्षः, न च ज्ञानं विनात्यर्थप्रसादः इति भाष्योक्ताध्याहारेण वा जन्मादिसूत्रे अस्येति इदं शब्दपरामृष्टजगद्वत्‌, ब्रह्मजिज्ञासायाः ज्ञानजन्यप्रसदद्वारा मोक्षहेतुत्वस्य 'यस्य प्रसादात्परमार्तिरूपादस्मात्संसारान्मुच्यते नापरेणत्याद' श्रुतिषु प्रमितत्वेन वा मोक्षः भगवत्प्रसादादिति साध्यसधनभावविषयोपदेशकोपनिषदर्थग्रहणात्मकश्रवणरूपाधिकारिविशेषणोपस्थापकाथशब्दोपस्थापितत्वेन वा 'नारायणोऽसौ परमो विचिन्त्यो मुमुक्षुभिः कर्म पाशादमुष्मादित्याद्येतत्सूत्रव्याख्येय श्रुत्युपस्थापितत्वेन वा एतन्मीमांसाङ्गभूतब्रह्मतर्कोपस्थापितत्वेन वा ब्रह्मणो विचार साध्यज्ञानजन्यप्रसादद्वारा
मोक्षदत्वस्याव्यवहितोत्तरजन्मादिसूत्रे वक्ष्यमाणतया बुद्धिस्थत्वेन वा प्रकृतम्‌। मुमुक्षुरूपाधिकारानन्तरं ब्रह्मविचारः कर्तव्य इति अथशब्द ब्रह्मजिज्ञासाशब्दाभ्या मुक्तेः विचारविध्यधिकारिविशेषणेच्छाविषयत्वेन, अर्थाल्लब्धं वाधिकारिविशेषणं विचारा त्प्रागसिद्धं विचारो द्देश्य विचारप्रवृत्तहेतुभूतमोक्षादिलक्षण प्रयोजनवत्वं हेतुत्वेन परामृश्यते। एवञ्चानन्तर्यार्थाथशब्दोक्ताधिकारहेतुत्वस्यैव पुनः अतः शब्देनाभिधानात्पौनरूक्त्यमिति शङ्का नवाकाशः।।" इति।। इति. [न. मं. 8 पृ]
"अनुव्याख्याने तु
अतो यथार्थबन्धस्य विना विष्णुप्रसादतः।
अनिवृत्तेस्तदर्थं हि जिज्ञासाऽत्र विधीयते।।
       प्रत्यक्षवच्च प्रामाण्यं स्वत एवागमस्य हि।
       व्युत्पत्तिः प्रथमा तस्माद्वरतमानेऽगते ततः।।
इत्यादिना बन्धस्य मिथ्यत्वात्तन्निवृत्तेः प्रसादनैरपेक्ष्यान्न भगवत्प्रसादार्था जिज्ञासा मुमुक्षुणा कर्तव्येत्यादिशङ्कानिरासाय प्रयोजनसाधकं जगत्सत्यत्वादिकमप्यतश्शब्देनोक्तम्‌, विषयसिद्धिहेतुयुक्तिष्वपि 'स्वप्रकाशप्रत्यगर्थाभिन्नत्वान्न विषयत्वम्‌' इति प्रमेये आरोपिताकारशङ्कानिरासकृत्‌ या ब्रह्मपदसूचिता युक्तिः, तदतिरिक्ता 'शब्दस्य न प्रामाण्यं, प्रामाण्येऽपि सिद्धार्थे न प्रामाण्यम्‌' इत्यादिका प्रमाणे आरोपिताकारशङ्कानिरासकृद्युक्तिरपयश्शब्देनैव सूचिता, अपेक्षितार्थहेतुसूचकत्वादतश्शब्दस्य,
इत्युक्त्वा----
यतोऽनुभवतस्सर्वं सिद्धमेतदतोऽपि च।
इत्यादिना बुद्धौ विपरिवर्तमानं हि साक्षात्प्रकृतं, ग्रन्थोक्तत्वं तु तल्लिङ्गं, बन्धसत्यवादिकं चानुभवसिद्धत्वात्‌ प्रकृतमिति मतान्तरमुक्त्वा,
अतस्तदर्थं संक्षेपादत इत्यभ्यसूचयत्‌।
इत्यादिना मीमांसाङ्गभूतब्रह्मतर्काख्यतर्कशास्त्रे सूत्रकृत्कृते प्रकृतो जिज्ञासाकर्तव्यत्वोपयोगी युक्तिकलापोऽतश्शब्दर्थः, तर्कशास्त्रस्य मीमांसाङ्गत्वं च तन्निर्णीतस्वरूपसङ्ख्याबलाबलादिभिः प्रमाणैरिह प्रमेयशोधनादिति मतान्तरमुक्तम्‌। तदेवं स्वर्गादीसाधने ज्योतिष्टोमादौ यथा तत्कामस्त्रैत्रर्णीकोऽधिकारी, तथा विचारस्य सत्यपि विषये फले च मुमुक्षुस्त्रैवर्णीकोऽधिकारी, न तु शान्त्यादिकमपि तद्विशेषणमिति शङ्का, राजसूयादौ राजत्वादिरिव वचनाच्छान्त्यादिरपि तद्वशेषणमिति सूचयताऽथशब्देन परिहृता। विषयप्रयोजनयोरभावान्निरधिकारिकत्वमिति शङ्का तु तत्समर्पकाभ्यामतश्शब्दब्रह्मशब्दाभ्यां निराकृता। एवं---सत्यपि विषये जिज्ञासा न साक्षान्मोक्षहेतुः, नापि ज्ञानद्वारा, तस्य "कर्मणा ज्ञानमातनेति" इत्यादिश्रुत्या कर्मणाऽपि सिद्धेः, किञ्च---ज्ञानमपि न साक्षान्मोक्षहेतुः, नापि भगवत्प्रसादद्वारा, तस्य "तत्कर्म हरितोषं यत्‌" इत्यादिना कर्मणाऽपि सिद्धेः, ज्ञानेनाज्ञाननिवृत्तौ प्रसादस्यानपेक्षितत्वाच्चेति शङ्का अतशब्देन प्रसाददेर्मोक्षादिहेतुत्वं सूचयता परिहृता।।" इति ।। [ चन्द्रि - 168 to 175 पृ ]
एवमेव तत्रैव "भामत्यां तु ब्रह्मशब्देन तत्प्रमाणं वेद उपस्थापितः 'अतः' इति परामृश्यते। स च योग्यत्वात्‌ "तद्यथेह" इत्यादिः। तथा च ब्रह्मज्ञानकर्मणोः नित्यानित्यफलत्वप्रतिपादकादागमादिहामुत्र फलभोगविरागादि, ततश्च ब्रह्मजिज्ञासा। एवं च नातश्शब्देन जिज्ञासां प्रतिसाधनकलापस्य हेतुतोच्यते, येन पौनरुक्त्यम्‌। किन्तु तत्स्वरूपालाभपरिहारोऽभिधीयते इत्युक्तम्‌। तन्न, हेतोः विचारकर्तव्यत्वादिरूपसाध्यान्वयत्यागेन विरागादिसाधनान्वयायोगात्‌। अथशब्दार्थनन्तर्योपसर्जनस्य विरागस्यातश्शब्दोक्तहेत्वन्वयायोग्यत्वाच्च। अथशब्दोपस्थापितविरागेणैव स्वजनकस्य "तद्यथा" इत्यादेः वाक्यस्य साक्षादेवोपस्थापनसम्भवे ब्रह्मशब्देन परम्परयोपस्थापनोक्त्ययुक्तेश्च। विरागहेतुत्वेन त्वदभिप्रेतसत्यानुतविवेके "नेह नाना" इत्यादेरेव हेतुतया वक्तव्यत्वेन, "तद्यथा" इत्याद्युक्त्ययुक्तेश्च। विवरणे तु---अथशब्दगृहीताया एव साधनकलापस्य ब्रह्मविचार हेतुतायाः "अक्षय्यं ह वै चातुर्मास्ययाजिनः सुकृतम्‌" इत्यादिनाऽपवादशङ्कायां प्राप्तायां तन्निराकरणं पुनरथशब्दोक्तानधिकाभिधायिना अतश्शब्देन अपवादशङ्कानिरासे, अथशब्देनैव
तन्निरासप्रसङ्गात्‌। हेतुत्वसाधकहेतोः कथन एव ह्यपवादशङ्कानिरासः, न तूक्तस्यैव हेतुत्वस्य पदान्तरेण कथन इति दिक्‌।
केचित्तु---अथशब्दो जिज्ञासाविशेषणीभूतकालपरः। हि ब्रह्मविचारस्य कर्तव्यतामात्रं साध्यं, किन्तु धर्मजिज्ञासानन्तर्यविशिष्टम्‌। अतश्शब्दस्य तु तस्मिन्‌ विशिष्टे साध्ये कर्मणामल्पास्थिरफलत्वनिर्णयसहितो ब्रह्मज्ञानस्य अतन्तस्थिरफलताऽऽपातप्रतीतिरूपो विशिष्टो हेतुरर्थः। ततश्च सार्थकं पदद्वयमित्याहुः। तदपि न अथशब्दस्योक्तप्रतीत्यानन्तर्यार्थत्वे अकारणादानन्तर्योक्तेः वैयर्थ्येन, अथशब्देनैव तस्या हेतुत्वलाभादतश्शब्दवैयर्थ्यात्‌। अथशब्दस्यान्यानन्तर्यार्थत्वे तु नोक्तप्रतीतिहेतुत्ववाचकत्वमतश्शब्दस्य, प्रकृतस्य हेतुत्वार्थोऽतश्शब्द इत्यस्य त्वन्मतस्य भङ्गात्। किञ्चसिद्धे व्युत्पत्त्यभावात्‌ विचाराकर्तव्यत्वे त्वद्रीत्य पूर्वपक्षिते,
ब्रह्मविचारकर्तव्यतामात्रं सिद्धान्तयितव्यं, न तूक्तानन्तर्यविशिष्टम्‌। न हि सिद्धे व्युत्पत्त्‌यभावे अन्यदाऽपि विचारस्य कर्तव्यता सिद्ध्यति।।" इति [ चन्द्रि----177 to 181 पृ ]
एवं सुधायां "अतः शब्देन तु विषयप्रयोजन सिध्यंगभूतं न्यायकलापं सूत्रकारः स्वयमाचष्टे; इति कुतः पौनरुक्त्यम्‌।।" इति [ सु. जि. 997 पृ ]
एवं परिमलेऽपि "पिषय प्रयोजनेति ।। अतः पदस्य हि मोक्ष हेतु प्रसादजडनकज्ञान कारण त्वात्‌। बन्धस्य सत्यत्वात्‌। वेदस्य सिद्धार्थवस्तुपरत्वात्‌। वेदस्य प्रामाण्यात्‌ अन्वितभिधायकत्वाच्चेत्येवं युक्तिपंचकपरत्वेनातः शब्दः पञ्चधा व्याख्यातः। तत्राद्यद्वयं प्रयोजनसिध्यंगभूतमितिविषय प्रयोजन सिध्यङ्गभूतन्यायकलापमित्युक्तम्‌।"इति।। [ सु. जि. परि. 999 पृ ]


अतिथिपूजा
"तत्काले आगततिथयः पूजनीयाः। तत्र पैतृके प्रागुक्तस्मृत्युक्तक्रमेण पिण्डदानान्तं ब्राह्मणभोजनान्नं बलिं दत्वातिथिं पूजयेत्‌। श्रीमदाचार्याः---
भुक्तशेषं भगवतो भृत्यातिथिपुरस्सरः।
                               भुञ्जात हृद्गतं विष्मु स्सरंस्तद्गतमानसः।। इति।।
पाद्मसंहितायाम् -
'कुर्यात्‌ पञ्चमहायज्ञानपि गृह्योक्तवर्त्मना।
                              अतिथीनपि तत्काले यथाशक्ति समर्चयेत्‌'।। इति।
वासिष्ठे तु--
'तत्रागतेभ्यो विप्रेभ्यो दद्याच्छक्त्यनुसारतः।
                             चोरो वा यदि चण्डालो विप्रध्नः पितृघातकः।।
                             वैश्वदेवे तु सम्प्राप्तः सोऽतिथिः स्वर्गसङ्ग्रहः'।
पराशरः---
दुराध्वोपगतः श्रान्तो वैशवदेवे समागतः।
अतिथिं तं विजानीयान्नातिथिः पूर्वमागतः।।
अतिथिर्यस्य भग्नाशो गृहात्प्रतिनिवर्तते।
स तस्मै दुष्कृतं दत्वा पुण्यमादाय गच्छति।।
तस्मात्तत्रागतान्विप्रान्‌ पूजयेदविचारतः।
न पृच्छेद्गोत्रचरणे न स्वाध्यायं श्रुतं तथा।।
तत्र संस्थं हरिं ज्ञात्वा पूजयेदविचारतः। इति।।
यदीति सामान्यातिथिविषयम्‌। तत्रैव--
'विशिष्टा वैष्णवा विप्रागृहं प्रत्यगता यदि।
प्रत्युद्गम्य प्रणम्याशु पूजयेत्तान्विधानतः।।
पादप्रक्षालनं कुर्याच्छभे पात्रान्तरे द्विजः।
उपवेश्यासने रम्ये मधुपर्केण पूजयेत्‌।।
भोजयेदन्नपानाद्यैरतिथीञ्च्छ्रोत्रियान्‌ द्विजान्।
आसीमान्तमनुव्रज्य नमस्कृत्य विसर्जयेत्‌' इति।।
स्मृतिः---
'अध्वश्रान्तमविज्ञातमतिथिं क्षुतपिपासितम्‌।
यो न पूजयते शक्त्या तमाहुर्ब्रह्मघातकम्'।। इति।।
                           दैवं भूतं पैतृकं च मानुषं च विधानतः।
प्रीतये सर्वयज्ञस्य भोक्तुर्विष्णोर्यजेत्तथः।।
   चतुर्विधेभ्यो भूतेभ्यो बलिं पश्चाद्विनिक्षिपेत्‌।
द्वारि गोदोहनं मात्रं तिष्ठेदतिथिवाञ्छया।।
भोजयेच्चागतान्‌ विप्रान्‌ फलमूलाशनादिभिः।
महाभागवतान्‌ विप्रान्विशेषेणैव पूजयेत्‌।।
मधुपर्कप्रदानेन पाद्यार्ध्याचमनादिभिः।
गन्धैः पुष्पैश्च ताम्बूलैर्धूपदीपैर्निवेदनैः।।
ब्रह्मासने निवेश्यैव पूजयेच्छ्रद्धयान्वितः।
सकृत्सम्पूजितैर्विप्रैर्महाभागवतोमैः।।
षष्टिर्वर्षसहस्राणि हरिस्सम्पूजितो भवेत्‌।
मोहादनर्चयन्यस्तु महाभागवतोत्तमम्‌।।
कोटिजन्मार्जितात्‌ पुण्याद्‌भ्रश्यते नात्र संशयः।
गृहे तस्य न चाश्नाति शतवर्षाणि केशवः।।
मुखं हि सर्वदेवानां महाभागवतोत्तमः।
तस्मिन्‌ सम्पूजिते विप्रे पूजितं स्याज्जगत्रयम्‌।।
  अर्थपञ्चकतत्त्वज्ञ पञ्चसंस्कारसंस्कृतः।
नवभक्तिसमायुक्तो महाभागवतः स्मृतः।।
काले समागते तस्मिन्‌ पूजिते मधूसूदनः।
क्षणादेव प्रसन्नः स्यादीप्सितानि प्रयच्छति।।
महाभागवतानां च पिबेत्पादोदकं तु यः।
शिरसा धारयेद्भक्त्या सर्वपापैः प्रमुच्यते।।
यस्मिन्‌ कस्मिंश्च वसति महाभागवतोत्तमे।
अप्येकरात्रमथ वा तद्देशस्तीर्थसम्मितः।।
भोजयित्वा महाभागान् वैष्णवानतिथीनपि।
तो बालसुहृद्वृद्धान्‌ बान्धवांश्च समागतान्‌।।
भोजयित्वा यथाशक्त्या यथाकालं जितक्षुधः।
भिक्षां दद्यात्प्रयत्नेन यतीनां ब्रह्मचारिणाम्‌।।
शूद्रो वा प्रतिलोमो वा पथि श्रान्तः क्षुधातुरः।
भोजयेत्तं प्रयत्नेन गृहमभ्यागतो यदि।।
  पाषण्डाः पतिता वापि श्रुधार्ता गृहमागताः।
  नैव दद्यात्सुपक्वान्नमामं वापि प्रदापयेत्।।
स्वशक्त्या तर्पयित्वैव अतिथीनागतान्‌ गृही"।। इति।।
                                                              [ स्मु. मु. आ. प्र. 290,291 पृ ]


अतिद्युम्नः
"द्युम्नो द्युतिस्वरूपत्वाद् विष्णुरेव प्रकीर्तितः।
योऽतिक्रामति तस्याज्ञाम्‌ अतिद्युम्नः स कीर्तितः।।
मोक्षायोग्योऽपि यस्त्वेवमतिद्यम्नो भवेत्‌ पुमान्‌ लोकच्युतोऽसीत्येवं तं ब्रूयान्नाज्ञास्थितं क्वचित्‌। लोकच्युतो भवेत्येनमपि नैव वेदत्‌ क्वचित्‌। च्युतोऽसीति तु शिक्षार्थं ब्रूयान्नैवान्यथा क्वचित्‌।। ।। इति च ।।" इति [ ऐ. भा. 225 पृ ]


अतिमोक्षः
"मनुस्येभ्योऽधिकंसुखं देवेभ्यो यत्प्रयच्छति।
मुक्तावप्यतमोक्षः स तेन देवः प्रकीर्तितः।।
एता द्युपासना नित्यं नैव योग्याः नृणआं श्रुताः।
अतिमुक्तिप्रदा यस्मात् देवाद्यास्तासु योगिनः।।
इति परमश्रुतौ।। इति।। [ बृ. भा. 330 पृ ]
तत्रैव व्याख्याने "अनेनमुच्यतेनेनेति मुक्तिरित्यर्थ उक्तो भवति। साऽतिमुक्तिरित्यस्यापि अधिकः प्रकशइत्यादिना पूर्वोक्तं तात्पर्यं पदारूढं करोति। मनुष्येभ्य इति। अनेनातिशयेन मुच्यतेतेनेत्यतिमुक्तिरित्यर्थ उक्तो भवति। श्रुतौ यजमान इति प्रमाणे च यः स्मरोदिति सामान्यतएवोक्तत्वात्सर्वेषामप्युपासनायामधिकार इति न मन्तव्यमित्याह।। एताहीति।। कुत इत्यत स्तथात्वे इत्यतिमोक्षा इत्युपसंहारवाक्य विरोधः स्यादित्याह अतीति।। नृणां तदयोग्यत्वादिति भावः। तर्हि के तत्राधिकारिण इत्यत आह।। देवाद्या इति।। योगिनो योग्या इत्यर्थः।। तेषां तद्योव्यत्वादिति भावः।।" इति [ बृ. भा. भा. 330, 331 पृ ]


अतिरिक्तद्वादशी
अतिरिक्तद्वादशी विषये एवं प्रतिपादितम्‌ "कृष्णामृतमहार्णवे -
कला वा घटिका वापि अपरे द्वादशी यदि।
                             द्वादश द्वादशीर्हन्ति पूर्वेद्युः पारणे कृते।।
                             द्वादश्यामतिरिक्तायां यो भुङ्क्ते पूर्ववासरे।
                             द्वादश द्वादशीर्हन्ति द्वादशीं न परित्यजेत्।।
                             तथा, 'अतिरिक्ता द्वादशी चेत्‌ स तां नोपोषयेद्‌ यदि।
                             द्वादशद्वादशीर्हन्ति द्वादशी चातिलङ्घिता।।
                             एकादशीमुपोष्याथ द्वादशीं समुपोषयेत्‌।
                             न तत्र विधिलोपः स्यादुभयोर्देवता हरिः।।'
                             तथा ब्रह्माण्डेएकलप्त्या च संयुक्ता यदि वृद्धिपरा तिथिः।
                             अथ त्वेकादशी नास्ति दशम्या चाप्यसंयुता।।
                             द्वादशी तु कला काष्ठा यदि स्यादपरेऽहनि।
                             द्वादश द्वादशीर्हन्ति पूर्वस्यां पारणं कृतम्‌।।
                             इत्यादिनाकरणे प्रत्यवायश्रवणात्‌।
तथा तत्करणे फलाधिक्यमुक्तं स्कान्दे -
उपोष्य द्वादशीं पुण्यां सर्वपापक्षयप्रदाम्‌।
                              न पश्यन्ति यमं क्वापि नरकाणि न यातनाम्‌। इत्यादि।
अतिरिक्तद्वादशीलक्षणं तत्रैवोक्तम्‌ -
दशमीवेधरहता परतो द्वादशी यदि।
                               अतिरिक्ता तु सा ज्ञेया सर्वपापप्रणाशिनी।।
                               एतदप्यधिकसिद्धान्तानुसारेण कार्यं, 'दशम्यादिदिनत्रयम्‌' इत्युक्तेः।
अतिरिक्तैकादश्यां द्वादशीगणनमप्यार्थभटेन गणनं कृत्वा तेनापि परदिने द्वादशी दृश्यते चेत्‌ परदिने साधनद्वादशीपारणं कार्यमित्यत्र -
'आर्यभटेन गणनं दशम्यादिदिनत्रये।
                                इतरत्र तु सौरेण निश्चितं ब्रह्मवित्तमैः।।' इति निर्णयामृते,
                                तथा, 'व्रतानामेव सर्वेषां सौरेणैव तु निर्णयः।
                                दशम्यादत्रयाणां तु ह्यार्येणैव विनिश्चयः।।' इति निर्णयसारे।
                               'ब्राह्मेण पितृकार्याणि देवकार्याणि सौरतः।
       द्वादश्यादिव्रतादीनि ह्यार्येणैवेति निश्चयः।।' इति च निर्णयसरे, इत्यादिवचनजातस्य सत्त्वात्।
अनेनास्मदीया रामचन्द्रश्रीपादसम्प्रदायस्थाः ----
'वृद्धौ प्रवृद्धसिद्धान्तमधिगम्य मुनीश्वराः !।
 दैवज्ञैर्निर्णयः कार्यो दशम्यादिदिनत्रये।।' इति वचनस्य दशम्यादिदिनत्रयात्मकव्रते दशम्यामेवाधिकसिद्धान्तेन गणनं, नातिरक्तद्वादशीविषय इत्यर्थमभिप्रेत्याधिकसिद्धान्तेन द्वादश्याः परदिने विद्यमानत्वेऽपि सूर्यसिद्धान्तेऽदर्शनादेक एवोपवास इति मन्यन्ते। तदयुक्तमिव। उक्तबहुवचनेषु दिनत्रयस्याप्यार्यभटेनैव गणनं कार्यमित्यभिधानात्‌ तद्धिरोधापत्तेरसम्प्रदायनवीन इत्यनादरणीय इति भाति। तत्र विचारः कर्तव्यः"।। इति।।
                                                       [ स्मृ. मु. का. नि. प्र. 99-100 पृ ]


अतिवादी
"सर्वस्मादतीतमुत्तमं वदतीत्यतिवादी। इति। [ छा. भा. 443 पृ ]
एवमेव "अतिवादीवाचल इत्यन्यथाप्रतीतिनिरासाय तव्द्याचष्टे। सर्वस्मादिति। सर्वस्मान्नामादेः अत्तमं प्राणं।" इति। [ छा. भा. प. कौ 443 पृ ]
एवं तत्रैवान्यत्र
"अतवादी प्राणवादी विष्णुवादी विशेषतः।
स सत्यो भगवान्‌ विष्णुः यन्निदोषो नियामकः
इति परमसारे" इति [ छा. भा. 444 पृ ]
तत्रैव व्याख्याने "उक्तमर्थं प्रमाणेन द्रढयन्‌ सत्याद्यात्मान्तप्रकरणानि तैनैव व्याचष्टे।। अति वादीति। श्रुतौ सत्यवादिनः श्रवणात्‌ कथं विष्णु वादीत्युक्तमित्यत आह - स इति। कुतस्तदित्यत आह यदिति। यद्यस्माभिर्दोषो नियामकस्तस्मात्सत्यः।

अतिष्ठाः
"अतीत्य जगद्‌ धर्मवर्जितत्वेन स्थितत्वादतिष्ठाः" इति [ बृ. भा. 268 पृ ] सत्रैवव्याख्याने "अतिष्ठाः सर्वेषां भूतानां मूर्धेत्यत्राप्ततीतेः सर्वेषां भूतानां मूर्धाशिर इत्यन्यथाप्रतीतेश्चातिष्ठामर्धशब्दार्थवाह। अतीत्येति। जगदन्तर्गतस्य कथं जगदतिक्रम इत्यत आह। जगद्धर्मवर्जितत्वेनेति।।"इति।। [बृ.भा.भा. 268 पृ]


अत्ता
अत्र पूर्ववैषम्येण पूर्वपक्षोत्थानात् प्रत्युदाहरणरूपा संगतिः । वाजसनेये तृतीयेध्याये "स यद्यदेवासृजत तत्तदत्तृमध्रीयत सर्वं वा अत्तीति तददितेरदितित्वमिति" श्रुतम् । अत्र सर्वं वा अत्तीत्यनेन लब्धोऽत्ता किमदिति दैवमाता अथ विष्णुरिति संदेहः । पूर्वपक्षः - अदितिरिवेति प्राप्तं तददितेरित्यादिश्रुतेः अदितित्वलिङ्गाच्च । आदित्यशब्दपर्यायसवितृश्रुतेरन्तर्नय विषयवाक्ये श्रुतायाः वैष्णवत्वसिद्ध्या आदित्यश्रुतेः पूर्वत्र विष्णुपरत्वेप्यत्र तदसिद्ध्या श्रुतेर्निरवकाशत्वात् । लिङ्गस्याप्यतृत्वरूपतयाऽनश्नन्निति श्रुत्या अनत्तृर्विष्णोरयोगादिति द्वयोर्निरवकाशत्वाद्वा श्रुतेरंतर्गतन्यायेन सावकाशत्वेऽपि निरवकाशलिंगानुगृहीतत्वाद्वेति ।। सिद्धान्तस्तु ।। सर्वं वा अत्तीत्युक्तसर्वात्तृत्वरूपसंहत्तृत्वस्य "यमप्येति भुवनं सांपराये" "स्रष्टा पाता तथैवात्तेत्यादि श्रुतिस्मृतिभिः विष्णवेकनिष्ठत्वात् तस्येवादितिपदप्रवृत्तिनिमित्ततयाऽदितित्वलिंगस्य अदिति श्रुतेश्च विष्णौ सावकाशत्वात् नैवेह किंचनाग्र आसीन्मृत्युनैवेदमावृतमासीदित्यनवकाशब्रह्मप्रकरणाच्च विष्णरेवातेति । अनशनश्रुतिगतिस्तु वक्ष्यते ।। फलं तु श्रुतिलिंगबलाददितेः संकुचितसर्वात्तृत्वे विष्णोस्ततदन्यकतिपयात्तृत्वास्यैव सिद्ध्यान्तिना लक्षणत्वेन वाच्यत्वादतिव्याप्तिरिति वा अदितिरेवासंकुचितसर्वात्तृत्वमिति वा जन्मादिसूत्राक्षेपस्तत्समाधिश्चेति।।
                                                   ( इति. न्या. मु. 22, 23 पृ. )


असत्प्रतीतिः
"असद्विलक्षणज्ञप्त्यै ज्ञातव्यमसदेव हि।
तस्मादसत्प्रतीतिश्च कथं केन निवार्यते।।
अन्यथात्वमसत्तस्माद्भ्रन्तावेव प्रतीयते।
सत्वस्यासत एवं हि स्वीकार्यौवप्रतीतता।।
तस्यानिर्वचनीयत्वे स्यादेव द्यृनवस्थितिः।" [ इति - अ.व्या. 5पृ ]
न्यायसुधायां च "असतोऽप्रतीतावसत्प्रतीतिश्च कथं तेन मायावादना निवार्यते। न हि यो यन्न जानाति स तत्सम्बंधितया किञ्चिभिषेधति। अयमत्र प्रयोगः। विमतोऽसत्प्रतीतिमान्‌ (यथा घटस्य) तत्सम्बन्धधर्मनिषेधकत्वात्। यो यत्संबन्धितया किंचिन्निषेधति स तत्प्रतीतिमान्‌ यथा घटस्य नास्ति शौक्ल्यमिति निषेधको घटप्रतीतिमानिति। असत्प्रतीतिश्च कथं तेन निवार्यत इति व्यतिरेकप्रदर्शनं चान्वयावधारणार्थम्‌। असत्प्रतीतिनिषेधसामर्थ्यात्तस्यासत्प्रतीत्यभावावधारणाद्वाधितविषयतेति चेत्‌। तर्हिमूकोऽहमिति वचननिषेधसामर्थ्यात्तस्य वचनाभावावधारणाद्वचनप्रतीतेरपि बधितत्त्वं स्यात्‌। स्वक्रियाविरोधात्प्रतिषेध एवायुक्त शति चेत्‌। समं प्रकृतेऽपि।
किञ्च नरशिरसि विषाणमस्तीति वाक्यं बोधकं न वा। आद्ये स बोधः सद्विषयोऽसद्विषयो वा। नाद्यः बाधाभावप्रसङ्गात्। द्वितीये कथमसतः प्रतीत्यभावः। अनिर्वचनीयार्थप्रतीतिरसाविति चेन्न। निराकृतत्वात्‌। अपि च, शशविषाणादिकमपि चेन्नासत्‌ तदा कुतो वैलक्षण्यं शुक्तिरजतादेराशास्यते। निरूपारण्यादिति चेत्‌। तर्हि वैलक्षण्यं नाम सोपाख्यत्वमेव। न च तत्र कश्चिद्विप्रतिपद्यते येनायं परसय प्रयासः सार्थकःस्यात्‌ कश्चिदाह नास्माद्वक्याभरशिरसि विषाणबोधो जायते। किन्नाम विकलपमात्रम्‌। यथोक्तम्‌। शब्दज्ञानानुपाती वस्तुशून्यो विकल्प इति। स प्रष्टव्यः कोऽयं विकल्पः ज्ञानमन्यद्वा द्वितीयो द्वितीयेऽन्तर्भवति। आद्ये वस्तुशून्य इति कोऽर्थः। किं किमप्यनुल्लिखन्‌ असदेवोल्लिखन्वा। आद्येऽनुभविरोधः। न हि विषयानुपरक्तो घटादिवदसावनुभूयते। यो
हि शशविषाणं नास्तीति न प्रतीतवान्‌ तस्य शशविषाणशब्दाज्जायमानं ज्ञानं न गोविषाणज्ञानाद्विशिस्यते। द्वितीये सिद्धं न स्समीहतम्‌। नापि द्वितीयः। अनुभवविरोधात्‌ विमतानि पदानि स्वर्थन्वयप्रतिपत्तजनकानि। आकांक्षासन्निधिमत्पदत्वात्‌। गामानयेत्यादिपदवदित्यनुमानविरोधाच्य। न च योग्यतावत्वमुपाधिः। प्रतिवादिप्रयुक्तपदेषु साध्याण्यापकत्वात्‌। तेषां च स्वार्थसंसर्गबोधकत्वे बधिरविवादवद्वादिवचनस्य निर्विषयत्वापत्तेः। अत एव योग्यताराहित्येन प्रतिपक्षोऽपि परास्तः। ननु कथमसतो भाति भासत इति कर्तृत्वं कर्मत्वं वा समस्तसामर्थ्यविरहितत्वादिति। अथ समस्तसामर्थ्यरहितत्वमपि कथम्‌। भाववदभावस्यापि सद्धर्मत्वदर्शनात्‌। बौद्धमेवाभावाश्रयत्वं न वस्तुकृतम्‌ अतो न विरोध इति चेत्‌। समं कर्तृत्व कर्मत्वयोरपि। अन्यथा जायते घट इत्यादि न स्यात्‌। सत्कार्यवादं त्वारम्भणाधिकरणे निराकरिष्यामः। अतोऽसतः प्रतीत्युपपत्तेः प्रततत्वान्नासच्छुक्तिरजतादिकमित्ययुक्तम्‌।।"इति।। [ सुधा-जि- 667to670. ]
एवमेव तत्रैव सुधायां "रजतादिकमनिर्वचनीयं प्रतिपद्यमानेनापीदंरजतयोस्तादात्म्यावभासोऽङ्गीक्रियत एव। यथोक्तम्‌। अध्यासो नामातस्मिंस्तदिति प्रत्यय इति। न चैवमन्यथाख्यातिप्रसङ्गः। अधिष्ठानस्य संसृष्टरूपेण मिथ्यात्वेऽपि स्वरूपेण सत्यत्वम्‌। अध्यस्तस्य संसृष्टरूपेण स्वरूपेण च मिथ्यात्वमिति मायावादिभिरङ्गीकृतत्वात्‌। तथा चोक्तम् सत्यानृते मिथुनीकृत्य लोकव्यवहार इति। अन्यथाख्यातिवादिभिरधिष्ठानारोप्ययोहभयोरपि संसृष्टरूपेणैवासत्वं सवरूपेण तु सत्वमेवेत्यङ्गीकृतम्‌। इदं रजतयोस्तादात्म्यानव भासे प्रवृत्याद्यसम्भवश्च। तत्र यदन्यथात्वं शुक्तिकेदमंशस्य रजतत्वसंसर्गो रजतस्येदन्ता संसर्गस्तत्रावदसदेव। प्रतीयते चपरोक्षतया सत्वेन च। अपरोक्षावभासस्यानुभवसिद्धत्वात्‌। सत्वेनाप्रतीतौ प्रवृत्यनुपपत्तेश्च। न हि प्रग्बाधात्सतयरजतेदन्तासंसर्गादयं संसर्गो मात्रयाऽपि विलक्षणोऽनुभूयते। तथा चासदपरोक्षतया सत्वेन च नावभासत इति व्याप्तेरन्यभात्वे भग्नत्वाभानेन हेतुनाऽसत्वाभावोऽनुमातुं शक्यत इति"।। इति [ सुधा - जि. 674,675 पृ ]
एवं तत्रैवान्यत्र "रजतमनिर्वचनीयं मन्यमानस्यापि मते तत्किमनिर्वचनीयतया प्रतीयते। उत्तासत्वेन। अथवा सत्वेन। न प्रथमद्वितीयौ। तथा प्रतीत्यनुपलम्भात्‌। तथाप्रतीतौ प्रवृत्यभावप्रसंगाच्च। न ह्यसत्प्रातभासिकं व कदचिदनेनार्थाक्रियासूपयुज्यमानं दृष्टम्‌। येनास्यासत्वादिकं प्रतीत्यापि प्रवर्तेत। तस्मात्सत्वेनैव प्रतीयत इत्येव स्वीकार्यम्‌। तथा चानुभवः सदिदं रजतमिति। प्रवृततिश्चैवमुपपद्यते। रजतप्रतीतिमात्रात्प्रवृत्तिरिति चेन्न। उक्तानुभवविरोधात्‌। विधिनिषेधाववधूय प्रवृत्ययोगाच्च। तथाच तत्सत्त्वं सदसदनिर्वचनीयं वा। नाद्यः अनिर्वचनीयताविरोधात्‌। नहि यस्य सत्वं सत्तदनिर्वाच्यमिति सम्भवति। द्वितीयस्तु स्यात्‌। ततश्च यथाऽसतो अन्यथात्वस्यापरोक्षतया सत्वेन च प्रतीतता स्वीकार्या। एवमसतससत्वस्यापि विशिष्ट प्रतीतत स्वीकार्यैव। तथा च
यदसत्तदपरोक्षतया सत्वेन च नावभासत इति व्याप्तेः सत्वे भग्नत्वात्‌। एतेन हेतुना नासत्वाभावो रजतस्यानुमातुं शक्यत इति"।। इति।। [ सुधा - जि -678पृ ]
एवमेव "संसर्गद्वयमनिर्वचनीयमितकोऽर्थः। किं व्यावहारिकमुत प्रातभासिकमिति। नाद्यः। अनङ्गीकारत्‌। तथात्वे वा रजतस्यापि व्यावहारिकत्वापातात्‌। द्वितीये प्रातिभासिकतयैव प्रतीयते। व्यावहरकतया वा। नाद्यः प्रवृत्यभावप्रसंगात्‌। न ह प्रातिभासिकमर्थक्रियासूपयुक्तं क्वचिदुपलब्धम्‌ यतस्तद्भावं प्रतत्याप प्रवर्तेत। द्वितीये तु किं व्यावहारिकता सती अथासती। नाद्यः प्रतिभासिकत्वानुपपत्तेः। द्वितीयेऽपरोक्षतया सत्वेन चासतोऽप प्रतीतिप्रसङ्गः। अथ सा व्यावहारिकताऽप्यनिर्वचनीयैवारोपितेत्युच्यते तदाऽनिर्वचनीयेति कोऽर्थ इत्यादेरावृत्यारोपपरम्परापर्यसानापत्तिः स्यात्‌। यत्रैवारोपपर्यवसानं तत्रैव प्रवृत्यभावो वाऽसतो विशिष्ट प्रतीतिर्वा प्रसज्येत।
न येयमपर्यवसिता परम्परा सिद्धविषया। येन बीजाङ्कुरपरम्परा वददूषणं स्यात्‌ न चेयं कस्याप्यपरतिपबन्धकत्वाददोष इति वाच्य्‌। पूर्वपूर्वारोपानुपपत्तावृत्तरोत्तरारोपानुपपत्तेः। प्रवृत्यनुपपतत्रेश्च। न च वाच्यं सर्वेऽप्यारोपा एककालमेव भवन्तीति। ज्ञानानां यौगपद्यायोगात्‌।। अधिष्ठानसिध्युत्तरकालीनत्वाच्चारोपस्य।। यथा विसर्पणविशिष्टः सर्पो रज्जा वारोप्यते एवमेक एवायं विशिष्टारोप इति चेन्न। अनन्तानिर्वाच्यविशेषणविशिष्टार्थगर्भस्यारोपस्याननुभवात्‌। विशेषणभेदेन
विशिष्टप्रत्ययभेदस्यावश्यकत्वाचच।। ननु च संसर्ग द्वयं न प्रातभासिकतया प्रतीयते, नापि व्यावहारिकतया, किन्तु स्वरूपेणैव; अतो नानवस्येति चेत्‌। व्यावहारिकत्वाप्रततविष्टाभ्युपायत्वानुमानाद्यनुपपत्तौ प्रवृत्यनुपपत्तेः। अन्यथा रजतावभासादेव प्रवृत्युपपत्तौ किं संसर्गग्रहणेनेति वदता जितं प्राभाकरेण।। तस्मादपरहार्यैवेयमनवस्या।। तदिदमुक्तं स्यादेवेति।। ननु भवत्पक्षेऽपि रजतस्य प्रतीयमानं सत्वं सदसद्वा। नाद्यः रजस्यापि सत्वापत्तेः द्वितीये कमसत्वेन प्रतीयते किंवा सत्वेन। नाद्यः प्रवृत्यभावापत्तेः द्वितीये तदप सदसद्वेत समाने दोषः। न समानः विधिप्रत्ययस्यैव सत्वविशिष्टविषयत्वाभ्युपगमात्‌। न च सत्वस्यापरं सत्वमस्माभिरभ्युपगम्यते। किन्तु रजतविधिप्रत्ययमात्रादेव प्रवृत्युपपत्तेः। न चैवं परस्याभ्युपगमः। सत्वेऽप्यवान्तरभेदाङ्गीकारेण तत्प्रतीतिमात्रस्य प्रवृत्यनुपयोगित्वादिति।
अपर आह। सदिदं रजतमिति प्रतीयमानं सत्वं नासत्‌। येनोक्तव्याप्तेभङ्गः स्यात्। किं नाम ब्रह्मणीव पारमार्थिकमम्बरादोरिव मायोपाधिकं व्यावहारकं शुक्तिरजतादवप्यवद्योपाधिकं प्रतिभासिकं सत्वमस्त्येवेति ।।तदसत्‌।। सत्त्रैविध्यस्यैव दूषितत्वात्‌। दूषणान्तरंचाह।। तस्येति।। तस्य सत्वस्यानिवचेनीयत्वे प्रातीकत्वे तथैव प्रतीतौ स्वरूपमात्र प्रतीतौ वा स्यादेवानवस्थितिः अव्यवस्थितिः। प्रवृत्तेरिति शेषः। व्यावहारिकत्वादयाकारेण प्रतीतौ पूर्ववदनवस्थितिः स्यादेवेति"। इति [सुधा - जि. 681to687]




अत्रयः
"स इदं सर्वं पाप्मनोऽत्रायत यदिदं किञ्च स यदिदं सर्वं पाप्मनोऽत्रायत यदीदं किञ्च तस्मादत्रयस्तस्मादत्रय इत्याचक्षत एतमेव सन्तम्‌।" इति। [ ऐ. भा. अ. 2 ब्रा - 1 - खं. 6 ]
एवमेव " द्यौरत्रिरिति सम्प्रोक्ता तत्स्थैर्हि हुतमुच्यते।" इति नारायणीये"। इति। [ बृ. भा. 285 पृ ]
तत्रैव व्याख्यने च - "वाक्‌शब्दार्थो द्यौरिति उमेत्यर्थः। हि यस्मात्तस्थैर्द्युस्थैर्हुतमनयाऽद्येते तस्मादित्यर्थः। अनेन वाचाह्यन्नमद्यत इत्येतव्द्याख्यातं भवति। अद भक्षण इत्यस्मात्कर्तरि औणादिके त्रि प्रत्यये अत्रिरिति रूपमिति भावः

असत्‌
असत्वविषये न्यायामृते एवमस्ति--"न च निरूपाख्यत्वमेव तेषामसत्वम्‌। निरुपाख्यपदेनैव ख्यायमानत्वत्‌। असतोऽप्रतीतावसद्वैलक्षण्यज्ञानस्यासत्प्ततीतिनिरासस्य, असत्पदप्रयोगस्य चायोगाच्च। नापयपरोक्षतोऽप्ततीयमानत्वमसत्वम्‌। नित्यातीन्दिरियेऽपि सावात्‌। नापि क्वचिदपुयपाधौ सत्वेनाप्ततीयमानत्वमसत्वम्‌। जगति शुक्तिरूप्यादौ चैवंविधासद्वैलक्षण्यस्य शून्यवादेऽपि सत्वात्‌। त्वयाप्यसच्चेन्न प्रतीयेतेति वदतोक्ताप्ततीति प्रति प्रयोजकस्यान्यस्यैवासत्वस्य वक्तवयत्वाच्च। ब्रह्मव्यंगीकृतं यत्‌ प्रतिपन्नोपाधौ त्रैकालिकनिषेधाप्रतियोगित्वात्मकाबाध्यत्वरूपं सत्वं तद्विरूद्धस्यैवासत्वरूपत्वाच्च। अन्यथा प्रतीत्यनुपाधिकासत्वाभावे ब्रह्मण्यपि सत्वेन प्रतीतरेव सत्वं स्यात्‌। येन पुंसा शशश्रृङ्गाभावो न निश्चितः तस्य गोश्रृंगमस्तीति वाक्यादिव शशश्रृङ्गमस्तीति वाक्यादपि ज्ञानोत्पत्तेश्च त्वन्मतेऽपि हि तत्राध्यस्तस्यस्तित्वस्यानिर्वाच्यत्वे ऽप्यधिष्ठानमसदेव। वक्ष्यते चैतदनिर्वाच्यत्वभंगे। 'तद्धैक
आहुरसदेवेदमग्र असीद्‌' इति श्रुत्याऽप्य सतस्सत्वेन प्रतीतेश्च।
नापि सनिर्वाच्याभ्यामन्यत्वमसत्वम्‌। अनिर्वाच्यत्वस्यासत्वनिरूप्यत्वेनान्योन्याश्रयात्‌।
लाघवेन सार्वत्रिकत्रैकालिकनिषेधप्रतियोगिरूपसदन्यत्वस्यैव तत्वाच्च। अनिर्वाच्यस्यापि स्वरूपेण त्रैकालिकनिषेधेऽसतोऽनिर्वाच्यदन्यत्वासिद्धेश्च। अर्थक्रियासामर्थ्याभावादिकमसत्वमित्यशक्यशङ्कम्‌। शुक्रिरूप्यादौ शुद्धब्रह्मि च सत्वात्‌। न च निःस्वरूपत्वमसत्वम्‌। मिथ्याभूतं तु सस्वरूपमिति वाच्यम्‌ मिथ्यभूतस्यापि स्वरूपेणैव त्रैकालिकनिषेध िति पक्षे निःस्वरूपत्वस्य दुर्वारत्वात्‌। न च मिथ्याभूतं स्वरूपं मिथ्यात्वादेव स्वरूपेण त्रैकालिकनिषेधसामानाधिकरण्याविरोधीति वाच्यम्‌। स्वदेशकालयोः तत्स्वरूप सहिष्णोस्तत्स्वरूपप्रतिषेधत्वस्य पारिभाषिकत्वापातात्‌। प्राग भावादिसमानकालीनत्वेनाप्यांवरोधापाताच्च। परोक्षप्ततीत्याद्यन्यभानुपपत्या एतादृशस्वरूपस्यापि सुवचत्वाच्च तस्मात्सर्वत्र त्रैकालिकनिषेध प्रतियोगित्वमेवात्यन्तासत्वम्‌। तत्र तदानीमसदितयनेन तत्र तदा निषेध प्रतियोगित्वस्येवात्यन्तासदित्यनेनापि सर्वत्र सदा निषेधप्रतियोत्वस्यैव प्रतीतेः।।" इति [ न्या-अ-67,68 I भागे़ ]
एवमेव असत्शब्दार्थविषये द्वैतद्युमणिटिप्पण्यामपि "न च भवन्मते असत्पदस्य सत्यभेदावच्छिन्नार्थकत्वे स भेदो धर्मिस्वरूपो न वा। नाद्यः। असद्धार्मिक भेदस्यासत्वापत्तेः। न द्वितीयः।
भावाभावस्वरूपत्वाभान्योन्याभावता पृथक्‌। इति सिद्धान्तभङ्गस्यप्रसङ्गता। असत्पदस्य सदवृत्तिधर्मावच्छिन्नलाक्षणिकत्वेन शशविषाणमसदति वाक्यप्रामाण्योपपादने कुतः प्रद्वेषः। असत्पदमुख्यार्थाभावप्रसङ्गश्चेति वाच्यम्‌। भावाभावस्वरूपत्वादित्यस्य योऽन्योन्याभावधर्मी तत्स्वरूपत्वादित्यर्थः। धर्मिता च संयोगसम्बन्धेन कुण्डबदरयोर्यादृशाधाराधेयभावः प्रत्याय्यते तद्विलक्षणः घटरूपादिनिष्ठाधाराधेयभावः। तादृश एव भेदघटयोराधाराधेयभावः प्रत्याय्यते। अतो भेदस्य घटादिधर्मतया घटस्वरूपेणैव सहभाननियमेन घट एवायमिति तभिष्ठतव्द्यक्रित्वादिवत्प्रतीयमानत्वाद्धर्मिस्वरूपत्वमभिहितम्‌। अत्यन्ताभावादेः केवल
तत्स्वरूपावगहिप्तत्ययान्तराभावाभञुल्लेख्यप्रतीतेश्तु प्रतियोग्यधिकरणप्रतीतिविलम्बितत्वेन वस्तुप्ततीतावेव प्रतीतत्वरूप तत्साधकाभावाद्विना प्रमाणमधिकरणस्याभावरूपत्वकल्पने नानाधिकरणेस्वभावत्वकल्पने गौरवम्‌। प्रागभावत्वध्वंसत्वादिविशिष्टरूपेण नानाधिकरणानामुत्पत्तिनाशकल्पने च गौरवान्तरम्‌। अत्यन्ताभावस्याप्यधिकरणोत्पत्तिनाशादिना रूपान्तरेणोत्पत्तिनाशकल्पने गौरव़ञ्येति संसर्गाभावस्य पृथक्त्वमाश्रितम्‌। उक्तयुक्त्यादिनां च 'वयावृत्तिश्च स्वरूपता' नान्योन्याभावता पृथक्‌' इत्यादीनां तत्र तत्राचायौदाहृतप्रमाणानामनुग्राहकत्वमित्युपपादितमधस्तात्‌।
तथा चासत एवाभावात्तद्धर्मिको घटादौ यादृशो भेदस्तादृशो नास्त्येव। अत एव घटादिनाशे रूपादिवतद्धर्मिकभेदो नश्यत्येव। परं तु नष्टघटप्ततियोगिक भेदसय विद्यमानघटात्मकस्य सत्वादेव न तस्य नष्टघटत्मकत्वापत्तिः। नष्टघटस्वरूपस्यैवाभावात्‌ न तस्याप्येतदात्मकत्वमिति सिद्धान्तः। इत्थं च असत्स्वरूपस्यैवाभावेन तद्धर्मिकभेदाभावे सति अलीकादिपदानि सदवृत्तिरूपसद्विलक्षणत्वावच्छिन्नबोधकानि। तादृश धर्मश्च त्रैकालिकनिषेधप्रतियोगित्वम्‌
यद्वा असत्पदं सद्भेदावच्छिन्नबोधकमेव भवतु। तादृशभेदस्तु पूर्वोक्तधर्मिरहित एव। किं त्वभावान्तरवत्तादृशप्रतियोगित्वरूपासत्ववच्य बौद्ध विशेषणत्वरूपसम्बन्द्यवानेव। भावा भावस्वरूपत्वादिति वाक्यं तु प्रागभावादिवद्भावभिन्न एव न भवत्य न्तं भेदः किन्तु धर्मिसत्वे तदात्मक इत्येतावन्मात्रपरम्‌। उक्तभेदस्य धर्मिणः। एवाभावात्किमात्मकत्वं स्यात्‌। तथात्वेऽपि भावाभावविलक्षणत्वाभावाद्यथाश्रुतं मूलं न विहध्यते। एवदेव परिभावमितुं धर्मिस्वरूपत्वादिति विहाय भावाभावस्वरूपत्वादित्य भिहितम्‌। कृचिद्बाधकसत्वे सङ्कोचस्य सर्वैरपि क्रिय माणत्वात्‌। अन्यथा सत्तादात्म्यशून्यत्वं असत्वमिति त्वदुक्तौ सत्तदात्म्ये अनवस्थाभयेन सत्तादात्म्यान्तरास्वी कारात्‌ तस्याश्च स्वस्मिन्नसत्वात्‌ असत्वपरिहाराय सत्तादात्म्यवत्सत्तात्म्यैतदन्यतरत्वाभाव इति सङ्कोचस्तवाभिमतो न स्यात्‌।। इति।। [ द्वै.द्यु. 326,327 पृ ]


असत्‌ (1)
"क्षणिकपरमाणुपुञ्जमते उक्तदोषो नास्माकमिति पूर्वाक्षेपेण प्रवृत्तेः संगतिः। विष्णोरुक्तं विश्वकर्तृत्वं युक्तं न वेति सन्देहः। न युक्तमिति प्राप्तम्‌। पारिमार्थिकात्‌ देशकालपरिच्छेदशून्यत्वादेव संगतिसम्बन्धेन विश्वोत्पत्युपपत्तौ ईशेन कृत्यभावात्‌। श्रुत्यादेरमानत्वेन तस्याः अप्रामाणिकत्वाच्चेत्येवं रूपेण शून्यावादिमतेन विरोधात्‌ इति।। सिद्धान्तस्तु।। सत्वादिसर्वधर्मशून्यस्य सत्वायोगेनासत्वादसतः कारणत्वस्याप्रामाणिकत्वात्‌। रवपुष्पादीनामपि सौरभ्यकार्यहेतुतापत्या अतिप्रसंगदृष्टत्वाच्छ शून्यमेव जगदाकारेण अभति न वस्तुतो जगदस्तीत्यस्यापि सदित्याबाधित प्रत्यक्षादिबाधेनायोगाच्च। तन्मतस्य दृष्टतया तद्वरोधाभावात्‌ युक्तं विष्णोर्विश्वकर्तृत्वमिति। एतेन
मायिमतविरोधोपि निरस्तो ध्येयः।।" [ इति न्या. मु. 72,73 पृ ]

असत्‌ (2)
"अत्रासम्भवजन्मनो नभः प्रभृते र्जनिरिव ईशस्यापि जनिरस्विति शङ्कनात्सङ्गतिः। सर्वकर्तृत्वेनोक्तो विष्णुः किं जनिमन्नवेति सन्देहः। जनिमानेवेति प्राप्तम्‌। "असतः सदजायत" इति सच्छब्दितेशस्य जन्मश्रुतेः। न च "न जायते म्रियते" इत्यनादित्व श्रुतिविरोध इति। अस्याः स्वरूपानादत्वपरत्वेन जनिश्रुतेश्च पराधीनविशेषावाप्तिपरत्वेन व्यवस्थोपपत्तेः। अन्यथा प्रागुक्तचित्प्रकृत्यादावपि समानत्वात्‌ देहानादित्वाविशेषादिति।। सिद्धान्तस्तु।। देहानादित्वादिना चित्प्रकृतिसमस्यापि ईशस्य स्वतन्त्रत्वादसतः कारणत्वानुपपत्तेश्च सदजायतेति श्रुतेः "ब्रह्म वा असत्‌ सद्वाव प्राणः" इति श्रुत्या वायोरीशजन्यत्वपरत्वात्‌ न पराधीनविशेषावाप्तिरूपोत्पततिमान्‌ विष्णुरिति। फले तु कृत्स्नजगत्कर्तृत्वाक्षेपसमाधी।।" [इति.न्या.मु.78 पृ]


अथ
"अथ शब्दो मङ्गलार्थोऽधिकारानन्तर्यार्थश्च।" इति [ सू. भा. 17 पृ ]
चन्द्रिकायामपि अथशब्दविषये "'आरभ्यते' इत्यनुक्त्वाऽप्यारब्धे इदमनेनारब्धमिति ज्ञातुं शक्यत्वादधिकार्याद्यसूचवनापाताच्च नारम्भार्थः। "अथ शब्दानुशासनम्‌" इत्यादौ तु व्याकरणे अङ्गान्तर व्यावृत्तस्याधिकारिविशेषणस्याभावेन तदानन्तर्यार्थत्वासम्भवात्‌, मङ्गलप्रयोजनकोऽथशब्दोऽगत्याऽऽरम्भार्थः। मङ्गलप्रत्यायकत्वं तु अथशब्दस्य, 'अथ' इत्यनेन मङ्गलस्याप्रतितेरधिकार्याद्यसूचनापातात्‌, "तस्मान्माङ्गलिकावृभौ" इति स्मृतावोङ्काराथशब्दयोः मङ्गलफलकत्वोक्तेश्चायुक्तम्‌। अन्येषां भाष्ये तु "मङ्गलस्य च वाक्यार्थे समन्वयाभावात्" इत्युक्तम्‌। तन्न, अपदार्थत्वहेतौ समन्वयाभावे, भामत्यां "पदार्थ एव हि वाक्यार्थे समन्वीयते। स च वाच्यो लक्ष्यो वा। न चेह मङ्गलमथशब्दस्य वाच्यं लक्ष्यं वा" इत्युक्तस्यापदार्थस्य हेतुत्वे अन्योन्याश्रयात्‌। नापि---'न तावज्जिज्ञासायां मङ्गलं कर्त्रादिभावेन वैयधिकरण्येनान्वेति, कर्त्रादिभावे मानाभावात्। कर्त्राद्यन्तरभावाच्च। नापि सामानाधिकरण्येन, जिज्ञासा मङ्गलमित्यर्थवादत्पप्रसङ्गत्‌' इति विवरणोक्ते हेतुः, 'सधूमो गिरिस्साग्निकः' इतिवत्‌ "ईक्षतेर्नाशब्दम्‌" इत्यत्र त्वत्पक्षे 'अशब्दम्‌' इतिवच्च मङ्गलत्वात्कर्तव्येति हेतुत्वेनान्वयोपपत्तेः। एतेन---ब्रह्मजिज्ञासाया मङ्गलत्वं प्रसिद्धतरत्वान्न वक्तव्यमिति निरस्तं, प्रसिद्धस्यैव हेतूकर्तव्यत्वात्‌।। यदपि "पूर्वप्रकृतापेक्षायाश्च फलत आनन्तर्याव्यतिरेकात्‌" इति परेषां भाष्यम्‌, तसय भामत्यनुसारेण, अथशब्दस्य पूर्वप्रकृतापेक्षार्थत्वाशङ्कानिरासायानन्तर्यार्थत्व इव पूर्वप्रकृतापेक्षार्थत्वेऽपि जिज्ञासाहेतुभूतस्य पूर्वप्रकृतस्य लाभात्‌ फलाभेदाद्व्यर्थ आनन्तर्यार्थत्वाग्रहोऽस्माकमिति यद्यर्थः, तर्हि भाष्ये "आनन्तर्यार्थः" इत्युक्त्ययुक्तिः। सूत्रे कल्पान्तरानुपन्यासेन पूर्वप्रकृतापेक्षार्थत्वमशक्यशङ्कं च। किंच--- 'किं नित्यश्शब्दः अथानित्यः' इत्यदिकल्पान्तरोपन्यासेऽपि, सामानाधिकरण्यार्थमनुषक्तस्य धर्मिणः 'अनित्यः' इत्यत्रापेक्षायामपि, न साऽथशब्दार्थः। अन्यथा 'उतानित्यः' इत्यादावुतादेरपि पूर्वप्रकृतापेक्षार्थत्वं स्यात्‌। नापि---प्रकृतादर्थादर्थान्तरपरत्वशङ्कानिरासाय, अर्थान्तरत्वं हि यतः कुतश्चित्प्रकृताच्चेत् व्यर्थम्‌, पुष्कलकारणाच्चेदानन्तर्याभिधानं विना कारणत्वासिद्धिः, आनन्तर्याभिधाने च प्रकृतादर्थादर्थान्तरत्वस्यान्तर्णीततया सिद्धिरिति विवरणोक्तोऽभिप्रायः, आनन्तर्यानभिधानेऽपि, वैयर्थ्यपरिहारार्थमेव प्रकृतस्य हेतुत्वसिद्धेः। अन्यथाऽऽनन्तर्यार्थत्वेऽपि तत्प्रतियोगिनो हेतुत्वासिद्धिः। ननु कारणादानन्तर्यं मुख्यं, अव्यवधेरव्यभिचाराच्चेति, तदेवाथशब्दवाच्यमिति चेन्न, अव्यवधेरकारणादानन्तर्येऽपि सम्भवात्‌। अव्यभिचारित्वं तु न मुख्यत्वे हेतुः, 'चैत्रो गतः अनन्तरमेव मैत्र आगतः' इत्यादावमुख्यत्वाभिमानाभावात्‌। अनन्यथासिद्धिनियतानन्तरभावित्वादिरूपे कार्यलक्षणादौ नियतपदानर्थक्यप्रसङ्गाच्च। कारणस्य प्रकृतत्वं मुख्यमित्यपि सुवचत्वाच्च। पूर्वप्रकृतादर्थादर्थान्तरत्वाभिधानेऽप्यानन्तर्यस्य अन्तर्णीततया सिद्धेश्च। तस्मादस्यैव आदिसूत्रत्वेन पूर्वप्रकृतार्थसाङ्कर्यशङ्कानुदयात्‌, "आनन्तर्येऽधिकारस्य" इति भाष्योदाहृतस्मृतविरोधादधिकार्याद्यसूचनप्रसङ्गाच्च, न प्रकृतादर्थादर्थान्तरत्वमथशब्दार्थः। एवमानन्तयार्थत्वे स्थिते, न तावत्‌ तदनन्तरयमध्ययनमात्रात्‌, "शान्तो दान्तः" इत्यादिश्रुतिविरोधात्‌। नापि कर्मविचारात्‌, तदनन्तरं ब्रह्मजिज्ञासेत्यत्र क्रमे श्रुत्यर्थपठनस्थानमुख्यप्रवृत्तिक्रमाणां तत्प्रमाणानामन्यतमस्याभावात्‌।
एवमेव "............अथेत्युक्तमनन्तरम्।
आनन्तर्यात्प्रकाशस्य सूर्याच्चन्द्रस्त्वथेरितः"।।
इति माहात्म्ये"। इति । [ छा. भा. 81 पृ ]
एवं व्याख्यानेपि "चन्द्रमा अथ कार इति वाक्यं व्याख्यातुं अथशब्दार्थमाह - ।। अथेति ।। अस्त्वानन्तर्यमर्थशब्दार्थः। प्रकृते
किमानन्तर्यं चन्द्रमसो विवक्षितमित्यतस्तद्दर्शयन्‌ वाक्यं व्याचष्टे।।आनन्तर्यादिति।। सूर्याचन्द्रमसोः स्वरूपेण समत्वात्‌ प्रकाशस्येत्युक्तम्। तथेरितः अथकारइतीरितः।।" इति।। [ छा. भा. प. कौ- 81-82 पृ ]


अथर्वाङ्गिरसः
"इतिहासपुराणानां सोमाद्या अभिमानिनः।
अथर्वाङ्गिरसां चैवाप्यथर्वाङ्गिरनामकाः।।
अधरं वर्तयेयुस्ते वृष्टिमङ्गरसास्तथा।
मनस्त्वात्‌ प्राणरूपत्वाद्‌ अर्थर्वाङ्गिरसस्ततः।।
इति साम संहितायाम्‌"।। इति।। [ छा. भा. 173 पृ ]
तत्रैव व्याख्याने "चतुर्थं वाक्यं व्याख्याति।। इतिहासपुराणानामिति।। अनेनाथर्वांगिरस इति पदं इतिहासपुराणोपलक्षकमिति सूचितं भवति। अथर्वांगिरसां च सोमाद्या एवेति सम्बन्धः। अभिमानिन इति हेतुगर्भं। यतोभिमानिनोतो अर्वांगिरोनामकः। अपीति। अपिशब्दः इतिहासपुराणनामकत्वसमुच्यमार्थः। योगेनापि अर्थर्वांगरो नामकत्वं तेषामाह-।। अधरमिति।। यस्ते धरं वृष्टिं वर्तयेयुस्ततोथर्वाणः। तथांगानांरसाः नियामका यतस्ततोंगिरसः। अथर्वाणश्चांगिरसश्चेत्यथर्वांगिरसोथर्वांगिरो नामका इत्यर्थः। धकारस्य थकारो निर्वयनत्वात्‌। अंगेत्यत्राकारस्येकारोतिशयार्थः। अंगरसत्वं तेषां कथंमित्यत उक्तं। मनस्त्वादिति।। सोमस्यमनस्त्वात्‌ मनोभिमानित्वात्‌। इतरेषां महतां प्राणरूपत्वात्‌ प्राणापानादिरूपत्वात्‌। इन्द्रियाभिमानित्वाद्वेत्यर्थः। अंगानां रसाः इति पूर्वेण सम्बन्धः।।" इति।। [ छा. भा. प. कौ 173 पृ ]
किंच "अथर्वाख्यं तथा पुच्छमधरं चांगिनारसः"।। इति [ तै. भा. पृ 428 ]
"अथर्वांगिरसस्थितत्वादथर्वाख्यं अथर्वांगि रसशब्दवाच्यमित्यर्थः।
ऋषिद्वयदृष्ट भागद्वयोपेतोऽथर्वणवेद एवार्थर्वांगिरसशब्देनोच्यत इति संप्रदाय विदः। अधरं चेत्यत्र च शब्दात् वर्तयतीत्यस्यांऽगिरस इत्यस्य च संग्रहः। तथा च धरं पातालादिस्थं प्राणिजातं वर्तयतीत्यथर्वाख्यमित्यर्थः। धकारस्य चकारो निर्वचनादित्यवगन्तव्यम्‌। अंगिनां प्रधानानां देवानां सकाशात्‌ रसः सारो वर इति हेतोरङ्गिरस इत्यर्थः।।" इति।। [ तै. श्री. भाष्यार्थः नि. पृ. 34 ]

अदत्कम्‌
"विष्ण्वाख्यं परमंब्रह्मश्वेतं श्वसनगं यतः।
अदात्कमद्यमानं कं स्वानन्दानुभवात्कम्‌।।" । इति। [छा. भा. 516 पृ ]
"श्वेतमित्यादिव्याचष्टे।। श्वेतमित्यादिना। अतः श्वेतमित्यर्थः। अदत्कमित्येतदनूद्य तेनाद्यमानं कं कीदृशमित्यदेक्षायां तद्दर्शयति। अदत्कमित्यादिना।।"इति।। [ छा. भा. प. कौ 516 पृ ]


अदम्मयः
"अतीतानागतं यस्मात्तद्वशेऽतो ह्यदोमयः।
प्राधान्येन च मयट्‌ प्रोक्तः स्वरूपे च यतो भवेत्‌।।
इदंरूपोऽप्यदोरूपस्ततो नित्यत्वतो हरिः।
अस्य तस्य प्रधानश्च नित्यपूर्णबलत्वतः।
इत्यादि च महासंहितायां" ।। इति।। [ बृ. भा. 596 पृ ]
एवमेव तत्रैव व्याख्याने "इदं मयादोमयशब्दाभ्यां कथमुक्तार्थलाभ इत्यतस्तदुपपादयंस्तस्यैव शब्दद्वयस्यार्थान्तरमाह। प्राधान्ये चेति। यतः प्राधान्ये ममट्‌प्रोक्तो भवेत्‌ तत अस्य वर्तमानस्य जगतः प्रधानो हरिरिदंमय शब्देनोच्यते तस्यातीतानागतस्य जगते विष्णुवशत्वं लभ्यत इति। भावः। यतः स्वरूपे मयट्‌ प्रोक्तो भवेत्‌ तत इदं रूपो वर्तमानकालावच्छिन्नो हरिरिदंमय शब्देनोच्यत। अदोरूपाअतीतानागत कालावच्छिन्नोहरिरदोमय शब्देनोच्यते। वर्तमानातीतानागतरूपत्वे हेतुमाह। नित्यत्वत इत।। अनादिनित्यत्वत
इत्यर्थः।।" इति।। [ बृ. भा. भा। 596 पृ ]

अदितिः
"यद्यत्ब्रह्मासृजत्‌ पूर्वं तत्तदत्त जनार्दनः।
अदितिर्नाम तेनासौ भगवान्‌ पुरुषोत्तमः।।
उपास्ते यः परं देवमेवमत्तीति सर्वदा।
स्वयोग्यतानुसारेण सर्वात्ताऽसौ भवत्युत।।
ब्रह्मरूद्रसुपर्णानां सर्वात्तृत्वं विशिषतः।
प्रायेणातृत्वमिद्रादेरन्येषां दर्शनादिकम्‌।।
बहुलस्येति योग्यत्वभेदादत्तृत्वमिष्यते।।।
                     इति मानसंहितायाम्‌।
"भोक्ताविष्णुरिति ध्यायेत्‌ सर्वात्तृत्वं हरेः स्मरेत्‌।
दैवतानां च सर्वेषां सर्वात्तिध्यानमिष्यते।।
इति प्रवृत्ते" ।। इति।। [ बृ. भा। 30 पृ ]
किंच "अदनाददितर्विष्णुर्यः प्राणसहितः स्थितः।
उत्तमो देवताभ्यश्च सोत्मानं विविधात्मना।।
मत्स्यकूर्मादिरूपेण गुहासंस्थमजीजनत्‌।
भूतैः सह महाविष्णुः परमात्मामुगे युगे।।"
                            इति च [ क. भा 110 पृ ]
एवमेव "विष्णुरेवादितिर्नाम स्वायत्ता
?B यतः प्रभुः इत्याद्यृग्वेदसंहितायम्‌" इति [ ऐ. भा 229 पृ ]


अदृश्यः


अदृष्टः
"अमुक्तस्य त्वदृश्यत्वात्‌ षोडशीं वा कलामृते।
तुरीयोऽदृष्ट इत्युक्तो ग्रहणादेरगोचरः।।
इति माहात्म्ये"।। इति [ मा. भा. 349 पृ ]


अद्वितीयम्‌ -- अद्वितीयः
"एकमेवाद्वतीयं स्वगतभेदवर्जितं समानवर्जितं च।
एकमेवाद्वितीयं तत्‌ समाथ्यधिवर्जनात्‌।।" इति प्रवृत्ते।

"भेदाभेदनिवृत्यर्थमेवशब्दोऽवधारकः।
समाधिकनिवृत्यर्थमद्वितीयपदं तथा।।
समे द्वितीयशब्दः स्यादद्वितीयोऽसमत्वतः।
साधिकः कुत एव स्यादित्याह परमा श्रुतिः।।
इति माहासंहितायाम्‌" ।।इति।। [ छा. भा. 338 पृ ]
व्याख्याने एवं दृश्यते "ऐक्यावधारणद्वैतपरतिषेधैस्त्रिभिः क्रमादिति। तदप्यसदिति भावेन स्वयं तावदनूद्य व्याचष्टे। एकमेवेति। एकमेवेत्यस्यार्थः स्वगतभेदवर्जितमिति। स्वावयवगुणकर्मादिभेदवर्जितमित्यर्थः। अद्वितीयमित्यस्य समानवर्जितमिति। स्वकृतं व्याख्यानं प्रमाणेन दृढयति। एकमेवेति। तुच्छाश्व तं ब्रह्म स्वगतानां भेदानामभावादेकमेवेत्युच्यते। समाभ्यधिकवर्जनादद्वितीयमित्युच्यत इति सम्बन्धः। अधिकवर्जनं कैमुत्यलब्धमिति स्फुटमनुपदमेव। एतदेव प्रमाणान्तरेण विशदयति। भेदाभेदेति। अभेदप्रतिपत्यर्थमेक शब्द इत्यादौ योज्यं। नारायणस्य स्वावयवादनेतिशेषः। एवशब्दस्यार्थान्तरत्वे भेदाभेदनिरासकत्वानुपपत्तेरवधारक इत्युक्तं। नन्वेकमभिन्नमित्येकशब्देनैव भेदनिरासे भेदा भेदस्यापि निवृत्तिलाभादवधारणं व्यर्थमित्यत आहभेदाभेदेपीति। अवयविनि घटादौ भेदाभेदे विद्यमानेप्येकशब्दः स्थितो यतः। तस्या भेदमात्र बोधकत्वेन भेदनिरासकत्वासंभवात्‌। अतस्तद्वदत्राप्येकमित्यनेन भेदाभेदप्रसक्तौ तन्नवृत्यर्थंमेकमेवेत्याहेत्यर्थः। नारायणमित्यनेन श्रुत्तौ सच्छब्दो नारायणपर इत्युक्तं भवति। समाधिकनिवृत्यर्थमद्वितीयपदमित्ययक्तं। अद्वितीयपदेन द्वितीयमात्र निषेधावतेरित्यतः तव्द्युत्पादयति। सम इति। तथाचोक्तं महाभाष्ये। अस्यगोर्द्वितीयेन भाव्यमित्युक्ते सदृशो गौरेवोपादीयते नाश्वो न गार्दभ इति। द्वितीयपदेन द्वितीयमात्रोक्तावद्वितीयशब्देनैव स्वेतरसर्वनिषेध सम्भवेन सजातीयनिषेधकैवशब्दादि वैयर्थ्यं। तदवैयर्थ्याय द्वितीयशब्दस्य विजातीय परत्वेन संकोचे चाग्रह इत्यनेनाऽविरोधाय समद्वितीय परत्वेनापि संकोचः स्यादिति भावः। अस्तु तर्हि समराहितत्यमेवाऽद्वितीयशब्दार्थो नाधिकराहित्य मित्यतः पदार्थस्तु स एव। अयं त्वार्थिकार्थ इति भावेनाह।। साधिक इति।। अत एवप्राक्‌ समानवर्जितमित्येवोक्तं।।" इति तथा तत्रैव "श्रुतिविरोधाच्च न त्वदुक्तोऽद्वितीयशब्दार्थः। किन्त्वस्मदुक्त एवेति भावेन श्रुतिवाक्ये पठत।। एक इति।। अद्वितीयपदस्यैव व्याख्यानमिदं। श्रुतिश्चेति च शब्दावयः।।" ।। इति च।। इति [ छा. भा. प. कौ. 37,38 पृ ]
एवमेव "अविरोधाद अद्वितीयः ......... ।।" इति [ बृ. भा. 541 पृ ]
तत्रैवव्याख्याने "ननु सलिलात्मप्रकृतेरेवसावात्कथमेकोऽद्वैतश्चेत्यतस्तत्पदद्वयं व्याचष्टे।। अविराधादिति।। विरोधिशन्यत्वादित्यर्थः। प्रकृतेश्च न विरोधः। नापिसाम्यमिति भावः।। इति।। [बृ.भा.भा.541पृ]


अद्वैतम्‌ -- अद्वैतः
अनन्यथा इतं अवगतमद्वैतम्‌। द्वैतं वस्तुस्वरूपापेक्षया द्विधा ह्यन्यथा ज्ञातमित्यर्थः।।
"अद्वैतं अनन्यथा ज्ञातम्‌। परब्रह्मादिवस्तु तत्‌।
द्वैतं द्विधा ज्ञातम्‌ अन्यथा ज्ञात मज्ञैः।
परमार्थतः परमेश्वरात्‌'।।
"परेण ब्रह्मणा यत्तु द्विधान ज्ञातमञ्जसा।
तदद्वैतं परं ब्रह्म तदेव ज्ञातमञ्जसा।
जीवेन द्वैरमुद्दिष्टं मिथ्याज्ञानं तदेव हि "इत्यादि ब्रह्मतर्के" इति [ मा. भा. 354 पृ ]
एवमेव व्याख्यनेऽपि "अद्वैतं योगिभिः द्वैतं द्वितीयप्रकारतया ज्ञातं नेति व्युत्पत्याऽद्वैतपदवाच्यमिदं देहाभिमानकारणीभूतं परं ब्रह्म द्वैतमधुना जीवैर्द्विप्रकारतया ज्ञातं वस्तुतत्वापेक्षया वैपरीत्येन ज्ञातमित्यर्थः। अत ईशनियतार्थभगवदपरोक्षज्ञानाभावान्न निवर्तत इति नञ आवृत्या योजना।।
यदा त्विदं भगवत्स्वरूपं जावीनां श्रवणमननादिना अद्वैत मनन्य था ज्ञातं भवति तदा भगवदिच्छया निवर्तेत, न संशय इति पदावृत्या योजना।" इति। [ मा. भा. प्रका. 357 पृ ]
एवमेवान्यत्र "अन्यथा प्रत्ययो द्वैतं शमयेत्‌ तं यतो हरिः।
अद्वैतस्तेन चोद्दिष्टस्तुरीयः पुरुषोत्तमः।। इति माहात्म्ये" इति [ मा. भा. 349 पृ ]
एवं "प्रपञ्चो यदि विद्येत निवर्तेत न संशयः।
मायामात्रमिदं द्वैतमद्वैतं परमार्थतः।।
इति माण्डुक्योपोषदि अद्वैतं परमार्थतः इत्युक्तत्वेन अद्वैतस्य पारमार्थिकत्वे स्पष्टा श्रुतिरेव मान मिति चेन्न तस्याःश्रुतेरममर्थः। तथाहि-ननु देहगेहादौ स्वस्वामिसम्बंधादिरूपबन्धष्य जीवस्वरूपस्येव स्वाभाविकत्वेन निवृत्ययोगात् 'विपर्यासे तयोः क्षीणे' इत्युक्तिः कथमित्यतो नायं स्वाभाविक इत्याह - प्रपञ्च इति।
प्रपञ्चो यदि विद्येत निवर्तेत न संशयः।
मायामात्रमिदं द्वैतमद्वैतं परमार्थतः।।
देहगेहादौ स्वस्वामिसम्बन्धादिरूपो बन्धः प्रपञ्चः स्वातन्त्र्येण नास्त्येव। यदि पराधीनेपि विद्येत विद्यत इत्यंगीक्रियेत तर्ह्यपि परमार्थतः परश्चासौ अर्थश्च परमार्थः, उत्तमोऽर्थो भगवान्, तस्मात्‌ परमार्थतः परमेश्वरप्रसादादिति यावत्‌, निवर्तेत निवर्तत एव न संशयः। अनादितोऽनुवृत्तस्य देहत्दौ स्वीयत्वज्ञानरूपभ्रमस्य कथं निवृत्तिरित्यत आह - मायेत्यादिना। अद्वैतं महद्विर्यथा वत्तया ज्ञातं ब्रह्मादि वस्तु जातमद्वैतम्‌। अज्ञैर्द्वतं द्वितीयेन प्रकरेण ज्ञातं तद्वैपरीत्येन ज्ञातम्‌। तच्च मिथ्याज्ञानं, तेषां मायामात्रं मायया भगवदिच्छया मात्रं निर्मितं जातमित्यर्थः। तथा च तादृशमिथ्याज्ञानस्यानादितोऽनुवृत्तस्यापीश्वरेच्छया जातत्वेनास्वाभाविकत्वात्‌ तत्प्रसादेन तन्निवृत्तिर्युक्तेति भावः।। इति।। [ मा. उ. खण्ड - 385 पृ ]


अधमाधिकारी
"इति जातिकृतो भेदस्तथाऽन्यो गुणपूवर्कः।।
                             भक्तिमान्परमे विष्णौ यस्त्वध्ययनवान्नरः।
                             अधमश्शमादिसंयुक्तो मध्यमस्समुदाहृतः।।
                             आब्रह्मस्तम्बपर्यन्तमसारं चाप्यनित्यकम्।
                             विज्ञाय जातवैराग्यो विष्णुपादैकसंश्रयः।।
                             स उत्तमोऽधिकारी स्यात्संन्यस्ताखिलकर्मवान्‌। इति।।
                                         "अध्ययनमात्रवतः" "नाविशेषात्‌" इति चोपरि।।
"शान्तो दान्त उपरतस्तितिक्षुः समाहितो भूत्वाऽत्मन्येवात्मानं पश्येत्‌"। "परीक्ष्य लोकान् कर्मचितान्‌ ब्राह्मणो निर्वेदमायात् नास्त्यकृतः कृतेन। तद्विज्ञानार्थं स गुरुमेवाभि गच्छेत्समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम्‌"। "यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनूं स्वाम्‌"।
यस्य देव परा भक्तिर्यथा देवे तथा गुरौ।
                            तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः।।
  इत्यादिश्रतिभ्यश्च। व्योमसंहितायां च---
अन्त्यज अपि ये भक्ता नामज्ञानाधिकारिणः।
स्त्रीशूद्रब्रह्मबन्धूनां तन्त्रज्ञानेऽधिकारिता।।
एकदेशे परोक्ते तु न तु ग्रन्थपुरस्सरे।
त्रैवर्णिकानां वेदोक्ते सम्यग्भक्तिमतां हरौ।।
आहुरप्युत्तस्त्रीणामधिकारं तु वैदिके।
            यथोर्वशी यमी चैव शच्याद्याश्च तथाऽपराः"।। इति।
                                                       [ सू. भा. 154 तः 157 पृ ]


अधिदैवम्‌
"देवतास्ताः स्वलोकस्थाः अधिदैवाभिधा मताः।" इति [ मृ. भा. 386 पृ ]

अधिपः
"...........आधिक्यात्‌ पालनत्तथा।"
अधिपश्चेति स प्रोक्तः...........।।" । इति। [ बृ. भा. 318 पृ ]

अधिपतिः
"सर्वस्य ब्रह्मरूद्रादेरन ईशान श्वएव च।
गुणाधिकः पालकश्चेत्यतोऽधिपतिरीरितः।।
इति च"।। इति ।। [ बृ. भा. 618 पृ ]
एवं व्याख्याने "ईशान पदान्तर्गतानशब्दार्थमाह।। ब्रह्मरूद्रादेरिति।। अनश्चेष्टक इत्यर्थः। अधीत्यस्यार्थो गुणाधिक इति। पतिरित्यस्य पालक इति।।" इति।। [ बृ. भा. भा. 618 पृ ]


अधिभूतम्‌
"अधिभूतं सर्वजीवाः अध्यात्मं तच्छरीरगाः।
देवतास्ता ..................।। इति च" इति। [बृ. भा. 386 पृ ]
एवं तत्रैव "भवनाधिकारेस्थितत्वादधिभूतम्‌" इति [ बृ. भा. 386 पृ ]
व्याख्यनेऽपि "तच्छरीरगाः तदिन्द्रियाद्यभिमानिन्यः।।"
"जीवेष्वधिभूतशब्दं व्युत्पद्यदर्शयति। भवनाधिकार इति। अधिभूतशब्दं सप्तम्यन्तमंगीकृत्योक्तं। भवनाधिकार इति। स्थितत्वादिति शेषोक्तिः। भूतं भवनमुत्पत्तिमाधिकृतय वर्तत इत्यधिभूतम्‌। तस्मिंस्थितत्वादित्यर्थः। यद्वा भवनाधिकारइति उत्पत्तिप्रतिपादग्रन्थविशेषसंज्ञा। तत्र स्थितत्वा तत्प्रतिपाद्यत्वादित्यर्थः। इति [ बृ. भा. भा. 386, 387 पृ ] एवं तत्रैव व्याख्याने "इत्यधिदैवं इत्यधिभूतं इत्यध्यात्ममित्युक्ताधिदैवादिशब्दानामर्थमाह - अधिभूतमिति। सर्वजीवाः मनुष्यादयः। इति [ बृ.भा.भा.386पृ]


अधिमात्रम्‌
"अधिका एव मात्रा अंशा यस्य तदधिमात्रम्‌।
अधिकत्वाच्च नित्यत्वादध्यक्षरमुदाहृतम्‌।
येंऽशास्तस्य तु सर्वेऽप पूर्णाः प्रत्येकशो विभोः।।
अतोऽधिमात्रमुद्दिष्टो मात्रा अंशा उदाहृताः।
इत्यादि ब्रह्मतर्के --" इति।। [ मा. भा. 359 पृ ]
व्याख्यानेऽपि "अधिकाः पूर्णाः मात्राः अंशाः यस्येति अधिमात्रमिति व्युत्पत्तिमभिप्रेत्याऽऽह---अंशाइति।" इति [ म. भा. प्र. 360 पृ ]

आधिमासकर्तव्याकर्तव्यानि
"तत्र कर्तव्यानाह बृहस्पतिः--- नित्यनैमित्तिके कुर्यात् प्रयतश्च मलिम्लुच इति। नित्यानि अग्निहोत्रादीनि। नैमित्तिकानि सोदकुम्भादीनि। तानि मलमासे कुर्यादित्यर्थः। नित्यनैमित्तिकानि कालादर्शे दर्शितानि---
द्वादशाहं सपिण्डान्तं कर्म ग्रहणजन्मनोः।
                              सीमन्ते पुंसवे श्राद्धं द्वावेतौ जातकर्म च।।
                              रोगशान्तिरलभ्ये च योगे श्राद्धव्रतानि च।
                              प्रायश्चित्तं निमित्तस्य वशात्‌ पूर्वे परत्र च ।। इति।।
सन्ध्यातिक्रमादिदोषप्रायश्चित्तं निमित्तस्य वशादित्यनेन यदा मासद्वये निमित्तमुत्पद्यते, तदोभयत्रैकस्मिन्नेव चेदेत्रैव कुर्यादित्यर्थः।
अब्दोदकुम्भमन्वादिमहालययुगादिषु।
                                श्राद्धं दर्शेऽप्यहरहः श्राद्धमूनादिमासिकम्‌।।
                                मलिम्लुचान्यमासेषु मृतानां श्राद्धमाब्दिकम्‌।
                                श्राद्धं च पूर्वदृष्टेषु तीर्थेषु च युगादिषु ।।
                                मन्वादिषु च यद्दानं दानं दैनन्दिनं च यत्‌।
                                तिलभूगोहिरण्यानां सन्ध्योपासनयोः क्रियाः।।
                                पर्वहोमश्चाग्रयणं स्वाग्नेरिष्टिश्च पर्वणि।
                                नित्याग्निहोत्रहोमश्च देवतातिथिपूजनम्‌।।
                                स्नानं च स्नानविधिनाप्यभक्ष्यापेयवर्जनम्‌।
                                तर्पणं च निमित्तस्य नित्यत्वादुभयत्र च"।। इति।

             "अनित्यमनिमित्तं च दानं च महदादिकम्‌।
                                 अग्र्याधानाध्वरापूर्वतर्थयात्रामरेक्षणम्‌।।
                                 देवारामतटाकादिप्रतिष्ठां मौञ्जिबन्धनम्‌।
                                 आश्रमस्वीकृतिं काम्यवृषोत्सर्गं च निष्क्रमम्‌।।
                                 राजभिषेकं प्रथमं चूडाकर्म व्रतानि च।
                                 अन्नप्राशनमारम्भं गृहाणां च प्रवेशनम्‌।।
                                 स्नानं विवाहं नामातिपन्नं देवमहोत्सवम्‌।
                                 व्रतारम्भं समाप्तिं च काम्यकरम च पाप्मनाम्‌।।
                                 प्रायश्चित्तं च सर्वस्य मलमासे विवर्जयेत्‌।। इति।।
एतेषामर्थ उच्यते--अनित्यपदेनाहरहर्विहितदनव्युदासः। अनिमित्तपदेनालभ्ययोगादितिथिविहितदानव्युदासः। स्वेच्छयोद्दिष्टार्थदानमित्यर्थः। स्मार्तमष्टकादि। काम्यं ज्योतिष्टोमादि। प्रायश्चित्तं तु त्रैवार्षिकषङ्वार्षिकादिसर्वप्रायश्चित्तम्‌"।। इति [ स्मृति. मु. का. नि. प्र. 41 पृ ]


अधियज्ञाः
"यज्ञाभिमानिनो देवाः अधियज्ञा इति स्मृताः" । इति । [ बृ. भा. 386 पृ ]
व्याख्यानेऽपि "अथाधियज्ञं यः सर्वेषु यज्ञेषु तिष्ठन्नित्येवं रूपेण पाठात्" इति [ बृ. भा. भा. 386 पृ ]

अधिलोकाः
"देवतास्ता स्वलोकस्थाः अधिदैवाभिधामताः।।"
लोकाभिमानिन्यस्ताः एवाधिलोका इतीरिताः।। । इति च। " इति [ बृ. भा. 386 पृ ]
व्याख्यानेऽपि "या इन्द्रियद्यभिमानिन्यः ता रूपान्तरेण स्वलोकस्थाः। अत्राधिलोकाधियज्ञेति मूलानुक्तं माध्यान्दिनशारवाभिप्रयेण। तत्राथाधिलोकं यः सर्वेषु लोकेषु तष्ठिन् सर्वेभ्यो लोकेभ्योंऽतरः।" इति। [बृ.भा.भा.386पृ]

अधिवेधनम्‌
आधवेधनविषये स्मृतिमुक्तावलीकाराः एवं वदन्ति-- "तत्र याज्ञवल्क्यः---
सुरापी व्याधिता धूर्ता वन्ध्यार्थध्न्यप्रियंवदा।
                             स्त्रीप्रसूश्चाधिवेत्तव्या पुरुषद्वेषिणी सदे'ति।।
अधिवेदनं भार्यान्तरपरिग्रहः। मनुः--
'मद्यपासाधुवृत्ता च प्रतिकूला च या भवेत्‌।
                              व्याधिता चाधिवेत्तव्या हिंस्रार्थध्नी च सर्वदा'।
अत्र सुरापीत्यनेन नाधिवेदनमात्रम्‌। अपि तु त्याग एव। 'तथा महति पातक" इति त्यागहेतुत्वेनाभिधानात्‌।। याज्ञवल्क्यः--
'हृताधिकारां मलिनां पिण्डमात्रोपजीविनीम्‌।
                             परिभूतामधश्शय्यां वासयेद्व्यभिचारिणीम्‌'।
अनेन जीवनमात्रार्थं न तथा सम्भोग इत्युक्तं भवति। अधिवेदनं त्रिविधम्‌। धर्मार्थं कामार्थमपत्यार्थम्‌। यदा पूर्वोढा धर्मविरोधिनी तदा तां विहायान्यामुद्वहेत्‌। तदुक्तं बाह्यपुराणे--
'धर्मविध्नकरीं भार्यामसतीं चातिकोपनाम्‌।
                              त्यजेद्धर्मस्य रक्षार्थं तथैवाप्रियवादिनीम्‌'।।
यदा पुत्रोत्पत्त्यादिनिमित्तेनोद्वहेत्‌ तदा पूर्वोढा साध्वी भर्तव्यैव। उक्तं च स्मृत्यन्तरे--
'एकामुद्वाह्य कामार्थमन्यां लब्धुं य इच्छति।
                              समर्थस्तोषयित्वार्थैः पूर्वोढामपरां वहे'दिति।।
मनुरपि--
'पितृभिर्भ्रातृभिश्चैव पतिभिर्देवरैस्तथा।
                                पूज्या भूषयितव्याश्च बहुकल्याणमीप्सुभिः।।
                                यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः।
                                यत्रैतास्तु न पूज्यन्ते सर्वास्तत्राफलाः क्रियाः।।
                                शोचन्ति जामयो यत्र विनश्यत्याशु तत्कुलम्‌।
                                न शोचन्ति तु यत्रैता वर्धते तद्धि सर्वदा।।
                                तस्मादेताः सदा पूज्या भूषणाच्छादनाशनैः।
                                भूतिकामैनरैर्नित्यं सत्कारेषूत्सवेषु च।।
                                सन्तुष्टो भार्यया भर्ता भर्त्रा भार्या तथैव च।
                                यस्मिन्नेव कुले नित्यं कल्याणं तत्र वै ध्रुव'मिति।।
अथ तृतीयमाह गर्गः--
 "गृही स्यादेकपत्नीकः स कामी चौद्वहेत्‌ पराम्‌।
                            तृतीयां नोद्वहेत्‌ कन्यां चतुर्थीमपि चोद्वहेत्‌।।
                            तृतीयामुद्वहेत्‌ कन्यां मोहादज्ञानतोऽपि यः।
                            धनधान्यायुषां हानी रोगी स्याद्यदि जीवति।।
                            तृतीयोद्वाहसिध्यर्थमर्कवृक्षं समुद्वहेत्‌।
                            ग्रामात्‌ प्राचीमुदीचीं वा गच्छेद्यत्रैव तिष्टति।।
                            यथार्हं शोभनं कृत्वा कृत्वा भूमिं च शोभिताम्।।
                            वस्त्रेण तन्तुनावेष्ट्य ब्राह्यणस्तं परिश्रयेत्‌।।
                            स्वशाखोक्तविधानेन होमान्तेऽग्निं स्य आत्मनि।
                            आरोप्यैव वरो धीरो ब्रह्मचर्यं चरेत्‌ त्र्यहम्‌।।
                            एकाहमपि वा कन्यामुद्वहेदविशङ्कित"।।इति।।
                                                            [ स्मृ. मु. षोड. क. प्र. 88 पृ ]




अधिकारः
सूत्रभाष्ये "अथ शब्दो मङ्गलार्थोऽधिकारानन्तर्यार्थश्च।" इति [ सू. भा. 17पृ ]
एवमेव तत्रैव "अधिकारश्चोक्तो भागवत तन्त्रे---
मन्दमध्योऽत्तमत्वेन त्रिविधा ह्यधिकारिणः।
तत्र मन्दा मनुष्येषु य उत्तमगुणा मताः।।
मध्यामा ऋषिगन्द्यर्वा देवास्तत्रोत्तमामताः।
इति जातिकृतो भेदस्तथाऽन्यो गुणपूर्वकः"।।
गुणकृतभेदस्तु तत्रैव -- यथा --
"भक्तिमान् परमे विष्णौ यस्त्वध्ययनवान्नरः।
अधमः शमादिसंयुक्तो मध्यमस्समुदाहृतः।।
आब्रह्मस्तम्भपर्यन्तमसारं चाप्यनित्यकम्‌।।
विज्ञाय जातवैराग्यो विष्णुपादैकसंश्रयः।
स उत्तमोधिकारी स्यात्संन्यस्तारिवलकर्मवान्‌ इति।।"
श्रुतिस्मृतयस्तु "अध्ययनमात्रवतः। 'नाविशेषात्‌।" इति चोपरि। ( ब्र. सू. 3-4-12-13 )
"शान्तो दान्त उपरतस्तितिक्षुः समाहि तो भूत्वा आत्मन्येवात्मानं पश्येत्‌" इति [ बृ. उ. 6-4-23 ]
"परीक्ष्य लोकान्‌ कर्मचितन्‌ बाह्मणो निर्वेदमायान्नास्त्यकृतः कृतेन। तद्विज्ञानार्थं स गुरुमेवाभिच्छेत्‌। समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम्‌" इति [ मु. उ. 1-2-12 ]
"यमेवैष वृणुते तेन लभ्यः तस्यैष आत्मा विवृणुते तनुं स्वाम्" इति [ कठोप - 2-23 ]
"यस्य देवे पराभक्तिर्यथा देवे तथा गुरौ।
तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः।। इति [श्वे. उ. 6-23] इत्यादि श्रुतिभ्यश्च"।।
"व्योमसंहितायां च"
"अन्त्यजा अपि ये भक्ता नामज्ञानाधिकारिणः।
स्त्रीशूदरब्रह्मबन्धूनां तन्त्रज्ञानेऽधिकारिता।
एकदेशेपरोक्ते तु न तु ग्रन्थपुरस्सरे।
त्रैवर्णिकानां वेदोक्ते सम्यग्भक्तिमतां हरौआहुरण्युत्तमास्त्रीणामधिकारं तु वैदिके।। यथोर्वशी यमी चैव शच्याद्याश्च तथापराः इति [ सू. भा. 24 तः 33 पृ ]

अधिकारिविशेषणम्‌
अत्रधिकारोऽपि 'भक्तिमान्‌ परमे विष्णौ' इत्यादिभाष्यकारोक्त एव नान्य इति समर्थयितुं परोक्तमनुद्य दूषयति---- "नापि परेषां भाष्योक्तात्‌ 'नित्यानित्यवसतुविवेकः इहामुत्रार्थभोगविरागः शमदमादिसम्पत्तिः मुमुक्षुत्वं च' इति साधनचतुष्टयसम्पद्रूपादधिकारात्‌। तथाहि----नित्यानित्यवस्तुविवेको नाम किं ब्रह्मैव नित्यमन्यदनित्यमिति विवेकः, किं वा आत्मानात्‌मसमुदाये नित्यत्वानित्यत्वे स्तः, तौ च धर्मौ, तयोश्च धर्मिभ्यां भवितव्यमिति निश्चयः, यद्वा अनित्यस्य संसारस्य किञ्चिदधिष्ठानमस्तीति निश्चयो न तु ब्रह्मेति। नाद्यः, ज्ञातव्यस्य प्रागेव ज्ञाततया विचारवैफल्यात्‌। न च सगुणनिर्गुणविवेकाखण्डसमन्वयाद्यर्थं शास्त्रमिति युक्तम्‌, भामत्यां नित्यानित्यशब्दयोः सत्यानृतपरत्वेनोक्ततया, ब्रह्मैव सत्यमन्यदनृतमिति विवेकस्य प्रागेव सिद्धौ, तदर्थस्य सगुणनिर्गुणविवेकादेरप्यनपेक्षितत्वात्‌। न हि श्रुतितात्पर्यधीः स्वरूपेणापेक्षिता, किन्तु ज्ञेयनिश्चायकतया न चोक्तादन्यत्‌ मुमुक्षुज्ञेयमस्ति। जीवब्रह्मभेदस्यापि ब्रह्मातिरिक्ततया तन्मिथ्यात्वस्य, तदभेदस्यापि ब्रह्ममात्रतया तत्सत्यत्वस्यापि तेनैव निश्चितत्वाच्च। न द्वितीयः, तन्मात्रेणानात्मप्रहाणेन आत्मविचारे प्रवृत्त्ययोगात्‌। ऐहिकामुष्मिकभोगे विरागायोगाच्च। नान्त्यः, ब्रह्मशब्दार्थत्वादेः प्रकारस्याज्ञानेऽपि, वस्तुतो ब्रह्मणः अनात्माधिष्ठानस्य शास्त्रवेद्यस्य ज्ञातत्वेन शास्त्रवैयर्थ्यात्‌। न च विवरणरीत्या नित्यानित्यशब्दौ ध्वंसप्रतियोग्यप्रतियोगिपरौ, ततश्च ब्रह्मज्ञानफलं स्थायि, कर्मादिफलं त्वस्थायीति विवेको नित्यानित्यविवेक इति युक्तम्‌, प्रतिपन्नोपाधावत्यन्ताभावप्रतियोगित्वरूपबाध्यत्ववतोऽनात्मनः ध्वंसप्रतियोगित्वायोगात। पारमार्थिकत्वाकारेणात्यन्ताभावः, स्वरूपेण तु ध्वंस इति चेन्न, पारमार्थिकत्वस्याबाध्यत्वरूपत्वेनान्योन्याश्रयात्‌। तथाऽत्यन्ताभावप्रतियोगित्वस्य निराकारे ब्रह्मण्यपि सम्भवाच्च। अतात्त्विके रूप्यादावनित्यत्वाव्यवहाराच्च। "गौरनाद्यन्तवती" "एषोऽश्वत्थस्सनातनः इत्यादिश्रुत्यनुसाराय, मोक्षेऽपि अतात्त्विकी अनुवृत्तिः निवृत्तिस्तु तात्त्विकी, मुक्तेर्बन्धाद्वैषम्यं तु तात्त्विकनिवृत्तिमत्तामात्रेणेत्यपयापाताच्च। किञ्च---विवेको भेदस्य तद्व्याप्तस्य वा ज्ञानं, तस्य च भ्रमत्वे ब्रह्मविचारो न नित्यफलकस्स्यात्‌। प्रमात्वे तु भेदस्सत्यः स्यात्‌। तस्मात्‌ परमते न नित्यानित्यवस्तुविवेको युक्तः। नापीहामुत्रार्थभोगविरागः, विवरणे---विषयैरपि नित्यमात्मस्वरूपसुखमेवाभिव्यज्यते, न तु जन्यं सुखमस्ति इत्युक्तत्वेन वैषयिकसुखेऽपि विरागायोगात्। मोक्षे रागवतः तत्त्वतस्ततो भेदहीने भोगे विरागायोगाच्च। तत्त्वतसतद्भेदहीनत्वेऽपि तदभेदहीनत्वमात्रेण विराग इति चेन्न, उभयाभावस्य व्याहतत्वात्‌। दृश्यते चापारमार्थिकस्यापि रूप्यस्य नेदं रूप्यमिति शुक्तिधर्मिकलौकिकपारमार्थिकभेदप्रतियोगित्वम्‌। 'शमदमादिसम्पत्तिः' इत्यत्र च आदिशब्दो न युक्तः, तेन तितिक्षादेरेव ग्रहणं न तु विवेकादेरिति नियमहेतोः तितिक्षाद्यनुगतस्य विवेकादिव्यावृत्तम्य च उपसङ्ग्राहकधर्मस्याभावात्‌। मुमुक्षा च न परपक्षे युक्ता, मोक्षस्य नित्यसिद्धात्ममात्रत्वेन तत्रेच्छाऽयोगात्‌। वृत्त्युपलक्षितस्याप्यात्मनो वृत्तेः पश्चादिव पूर्वमपि सत्त्वाच्च। किञ्च----किमहं मुक्तस्स्यामितीच्छा मुमुक्षा, चिन्मात्रं मुक्तं स्यादिति वा।
नाद्यः, त्वन्मतेऽहमर्थस्य मुक्त्यनन्वयात्‌। नान्त्यः, जातेष्ट्यधिकारिणः पितुः पुत्रस्य स्वार्थत्वात्‌ पुत्रः पूतादिः स्यादितीच्छावत्‌ प्रकृते चिन्मात्रस्येच्छाश्रयाहमर्थार्थत्वाभावेन तादृशेच्छाया अदर्शनेन, विपरीतेच्छाया एव च दर्शनेन, ज्ञानस्यानिष्टफलत्वापातात्। किञ्च---किं भामतीरीत्या साधनचतुष्टये पूर्वपूर्वस्य उत्तरोत्तरहेतुत्त्वेन
मुमुक्षैवाधिकारिविशेषणमन्यत्तद्धेतुभूतं, किं वा विवरणैकदेशोक्तरीत्या मुमुक्षावद्विवेकादिरप्यधिकारिविशेषणम्‌। आद्ये मुमुक्षानन्तर्यमेव अथशब्दार्थस्स्यात्, न चतुष्टयानन्तर्यम्‌। अन्यथा विवेकहेत्वानन्तर्यमपि तदर्थः स्यात्। अन्त्येऽपि तत्किं सामर्थ्यादेरिवान्वयव्यतरेकाभ्यां गम्यं, किं वा गृहदाहादेरव शास्त्रत्‌। नाद्यः, शमाद्यभावेऽपि मुमुक्षामात्रेण विचारदर्शनात्‌। ननु स विचारः, शूद्रयागवन्न फलपर्यन्तः, तत्पर्यन्तस्तु शमाद्यभावे नास्तीति चेन्न, तथाऽपि विरागशमादिमुमुत्रासु सतीषु, विवेकाभावेन फलपर्यन्तं विचाराभावादर्शनात्‌। नान्त्यः, श्रुत्याद्यवगतशेषत्वस्यापि मन्त्रस्य वस्तुसामर्थ्यापरपर्यायलिङ्गेनानुष्ठेयप्रकाशनद्वारैव शेषत्ववत्‌, आरुण्यादेरेकहायन्यादिद्रव्यावच्छेदद्वारैव क्रयशेषत्ववच्च, विवेकादेरपि वैरग्यादिद्वारैव विचारहेतुत्वस्य न्याय्यत्वात्‌, "परीक्ष्य लोकान्‌" इति श्रुतिसिद्धत्वाच्च, मुमुक्षावदधिकारिविशेषणत्वायोगात्‌। न हि यागेस्वर्गकामनावत्तद्धेतुभूतमप्यधिकारिविशेषणम्‌। अस्माकं तु मते यथाशास्त्रं विवेकादेरधिकारिविशेषणवैराग्यादिहेतुत्वं, शमादेस्त्वधिकारिविशेषणत्वमिति, विशेषणानां चतुष्कमिति परोक्तं न युक्तम्‌"।। इति।। [ चन्द्रि -- 128 तः 141
"केचित्तु --- नित्यानित्यवस्तुविवेकादीनि न ब्रह्ममीमांसाधिकारिविशेषणानि, तेषां तत्साध्यत्वेन अन्योन्याश्रयात्‌। न च ब्रह्मज्ञानफलमेव नित्यमन्यदनित्यमिति विवेको वैशेषिकादिशास्त्रन्तरात्‌, प्रथममेव अध्ययनविधिवश्यतया पुरुषस्य शास्त्रान्तरानवकाशात्‌। तत्रोक्तनित्यानित्यविवेकस्य वेदान्तविरुद्धत्वाच्च। नापि इतिहासपुरणादिना विचारात्प्राक्‌ तु निदिध्यासनाङ्गानि, "तस्मादेवंविच्छान्तो दान्त उपरतस्तितिक्षुस्समाहितो भूत्वाऽऽत्मन्येवात्मानं पश्येत्‌" इति श्रुतौ एवंविच्छब्देन शास्त्रजन्यज्ञानमनूद्य 'पश्येत्‌' इति निदिध्यासनाङ्गतया तेषां विधानात्। न तु विछाराङ्गानि, इहैव विचारशास्त्रे "शमदमाद्युपेतस्स्यात्‌" इत्यत्र तद्विधानादित्याहुः। तन्न,
यत्त्वादौ श्रद्धया सिद्धं पुनर्न्यायेन साधितम्‌। इति न्यायेन---
अनित्यत्वात्‌ सदुःखत्वान्न धर्माद्याः परं सुखम्‌।
                         मोक्ष एव परानन्दः--- इत्यादीतिहासादिना वा, "नास्त्यकृतः कृतेन" इत्यादश्रुतित आपाततो वा, श्रुतिमूलहितैषिपित्रादिवाक्येन वा, श्रवणेन वा, मननात्मकवचारात्प्रागपि श्रद्धामात्रेण नित्यानित्यविवेकसिद्धेः। अन्यथात्वन्मतेऽपि अपशूद्रमधिकारे ज्ञाते अशूद्रस्यैतच्छास्त्रविचारे प्रवृत्तिः, प्रवृत्तौ चैतच्छास्त्रेणापशूद्रमधिकार इत्यन्योन्याश्रयस्स्यात्‌। तथा--- अध्ययनविधावपि अधीते स्वाध्याये "अष्टवर्षं ब्राह्मणमुपनयीत" इत्यादिवाक्येन अष्टवर्षत्वादेरधिकारिविशेषणत्वज्ञापनम्‌, तज्ज्ञाने च अध्ययने प्रवृत्तिरिति अन्योन्याश्रयस्स्यात्‌। तथा---ब्रह्मज्ञानस्य अनन्तस्थिरफलत्वनिश्चये तदर्थिनो ब्रह्मविचारे निश्शङ्कप्रवृत्तिः, विचारेण च तन्निश्चय इत्यन्योन्याश्रयस्स्यात्‌। फलज्ञानं सम्भावनात्मकं चेत्‌, विवेकोऽपि तथाऽस्तु। यद्यपि त्वनमते पूर्ववृत्तेन कर्मविचारेण कर्मणामल्पास्थिरफलत्वं निश्चितम्‌, तथाऽपि न तन्निश्चय एव नित्यफलार्थिनो ब्रह्मविचारे प्रवृत्तिहेतुः, भिन्विषयत्वात्‌। अतिप्रसङ्गाच्च। नापि--कर्मणामल्पास्थिरफलत्वनिश्चयसहितो ब्रह्मज्ञानस्यापाततोऽनन्तस्थिरफलत्वसन्देहस्तद्धेतुः, अन्यस्यानुपायत्वनिश्चयेन ततो निवृत्तिमात्रसिद्धावपि, तस्योपायत्वानिश्चये तदुपेयार्थिनः निदिध्यासनाङ्गत्वेऽपि "प्रशान्तचित्ताय शमान्विताय प्रोवाच तां तत्त्वतो ब्रह्मविद्याम्‌" इत्यादिवाक्यावगतं श्रवणाङ्गत्वं च न विरुद्धम्। किञ्च----"परीक्ष्य लोकान्‌ कर्मचितान्‌ ब्राह्मणो निर्वेदमायान्नस्त्यकृतः कृतेन। तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत्‌" इत्यादौ विवेकादीनां श्रवणाङ्गोपसत्तेः पूर्वभावश्रुतेः कथं श्रवणानन्तरभावित्वम्‌। न च नित्यानित्यववेकमात्रं विचारफलं, ये तद्वैयर्थं स्यात्‌"।। इति।। [चन्द्रि. 142 तः 146पृ ]


अध्ययननियमः
अध्ययनेऽपि नियमोऽस्ति।" मुनिभिनियमा ह्यत्र वेदस्याध्ययने स्मृताः। मनुः--
'ॐङ्कारपूर्विकास्तिस्रो महाव्याहृतयोऽव्ययाः।
                            त्रिपदा चैव सावित्री विज्ञेयं ब्रह्मणो मुखम्‌।।
ॐ भूर्भुवः सुवरिति व्याहृतयो गायत्री च वेदस्य मुखमारम्भ इत्यर्थः।। प्रणवोच्चारणं कार्यं प्राणायामत्रयोपरि। मनुः--
"प्राक्वूलान्‌ पर्युपासीन पवित्रैश्चैव पावितः।
                              प्राणायामैस्त्रिभिः पूतस्तत ॐकारमर्हती"ति।।
प्रक्वूलान्‌ प्रागग्नान्‌ दर्भानित्यर्थः। प्राणायामः प्राणनिरोधः। निरुच्छवासेनावस्थानमिति यावत्‌।। प्राणायामस्वरूपं हि गौतमेन प्रचोदितम्‌। 'प्राणायामास्त्रयः पञ्चदशमात्रा' इति।। लघ्वक्षरोच्चारणकालो मात्रशब्दार्थः। पञ्चदशमात्रा इत्यनेन सव्याहृतिकां सप्रणवामित्यस्य प्रतिषेधः सूच्यते।
वेदारम्भे तु कर्तव्यस्त्वोङ्कारो नियतो द्विजैः।
                            इति सम्प्राह भगवानापस्तम्बो महामुनिः।।
ॐकारः स्वर्गद्वारं तस्माद्ब्रह्माध्येष्यमाण एतदादि प्रतिपद्येताविकथां चान्यमकृत्वैवं लौकिक्या वाचा व्यावर्तत' इति।। ब्रह्मेति वेद उच्यते। ओङ्कारस्य पुरुषार्थसाधकत्वात्तत्पूर्वकमध्ययनं कार्यम्‌। मध्ये लौकिककथाप्रसक्तौ तां परिहृत्य पुनरोङ्कारपूर्वकमध्येतव्यामिति भावः।।
अधीत्याप प्रकुर्वीत प्रणवोच्चारणं बुधः।
तदाह मनुः--
"ब्रह्मणः प्रणवं कुर्यादादवन्ते च सर्वदा।
                               स्रवत्यनोङ्कृतं पूर्वं परस्ताच्च विशीर्यत" इति।।
                               ब्रह्मारम्भेऽवसाने च पादौ ग्राह्यौ गुरोः सदा।
अत्राङ्गिराः---
'प्राप्ते वेदानुवचने विसर्गे चान्वहं गुरोः।
                               उपसङ्ग्रहणं कुर्याद्विप्रोष्य त्वागते सती'ति।।
                               अध्येतुं दिग्विशेषस्य नियमं प्राह गौतमः।
                               'प्राङ्गुखो दक्षिणतः शिष्य उदङ्गुखो वे'ति।।
                               आचम्य वेदोऽध्येतव्यः कृत्वा ब्रह्माञ्जलिं तथा।
संवर्तः -
"ततोऽधीयीत वेदं तु वीक्षमाणो गुरोर्मुखम्‌।
                              हस्तौ तु सयुजौ कार्यौ जानुभ्यामुपरिस्थिता"विति।।
                              वेदो गरुमुखादेव ह्यध्येतव्यो न पुस्तकात्।
नारदः -
'पुस्तकप्रत्ययाधीतं नाधीतं गुरुसन्निधौ।
         भ्राजते न सभामध्ये जारगर्भ इव स्त्रिय' इति।।
                                गुरेस्तु सन्निधानेऽपि तस्यानुज्ञानं विना यदि।
                                अधीयीत द्विजो वेदं दोषस्तस्य महान् भवेत्‌।।
अत्र लघुव्यासः---
'ऋचमर्धर्चमथ वा पादं पादार्धमेव वा।
                                गृह्णाति योऽननुज्ञातः पतत्यस्मादधो द्विज' इति।।
आपस्तम्बोऽपि--
'गुरुसन्निधौ चाधीष्व भो इत्युक्त्वाधीयीते'ति।।
अध्ययनसमये श्रोत्रियागमे विशेषमाहापस्तम्बः - 'श्रोत्रियाभ्यागमेऽधिजिगांसमानोऽधिजिगांसमानोऽधीयमानो वानुज्ञाप्याधीयीते'ति।। अधिजिगांसमानोऽध्येतुकाम इत्यर्थः। शूद्रस्य सन्निधाने तु नाध्येतव्यं कदाचन। लघुव्यासः--
'अनध्यायेष्वधीतं यद्यच्च शूद्रस्य सन्निधौ।
                              प्रतिग्रहनिमित्तं यन्नरकाय तदुच्यत' इति।।
                              न निशान्ते परिश्रान्तो ब्रह्माधीत्य पुनः स्वपेत्‌।
अत्र गौतमः--
'नापररात्रमधीत्य पुनः परिसंविशेत्‌'।
                                स्वरादिव्यत्यये दोषं नारदो मुनिरब्रवीत्‌।
                                'हस्तहीनस्तु योऽदीते स्वरवरर्णविवर्जितः।
                                ऋग्यजुस्सामभिर्दग्धो वियोनिमधिगच्छति।।
                                हस्तेनाधीयमानस्तु स्वरवर्णान्‌ प्रयोजयेत्।
                                ऋग्यजुस्सामभिः पूतो ब्रह्मलोकं स गच्छती'ति।।
                                गर्भादिसंस्कृतस्यैव भवेदध्ययने फलम्‌।
अत्र लघुव्यासः---
'संस्कारवद्भिः कर्तव्यं वेदस्याध्ययनं द्विजैः।
                             शुद्धस्य फलवत्तत्‌ स्यादन्यथा निष्फलं भवे'दिति।।
                             गुरुशुश्रूषया विद्या लब्धव्येत्यब्रवीन्मनुः।
                             'यथा खनन्‌ खनित्रेण नरो वार्यधिगच्छति।
                               तथा गुरुगतां विद्यां शुश्रुषुरधिगच्छती'ति।।
अनियमाध्ययनमाह लघुव्यासः--
'ऋक्पादमप्यधीयीत मार्गेणोक्तेन धर्मवित्‌।
                               न त्वेव चतुरो वेदानन्यायेन कदाचन।।
                               वेदविप्लावनात्तेन वरं मौनं समाश्रितम्‌।
                               वेदविप्लावनाद्विप्रो नरकं यात्यधोमुख'मिति।।
                               वेदविप्लावको भृतकाध्यापकादिः।
    याज्ञवल्क्योऽध्याप्यानाह--
'कृतज्ञोऽद्रोहिमेधावी शुचिः क्ल्पोऽनसयकः।
                             अध्याप्यो धर्मतः साधुःशक्ताप्तौ ज्ञानवित्तद' इति।।
वित्तदो गुर्वर्थप्रदाता। इमे धर्मतः धर्मानतिरेकेण अध्याप्याः। अत्र गुरोरर्थप्रदानं दक्षिणारूपत्वेन न वेतनादिरूपतया। अतो न दोषः। तदाह आपस्तम्बः--- 'कृत्वा विद्यां यावतीं शक्नुयाद्वेददक्षिणामाहरेद्धर्मतो
यथाशक्त्ये'ति।। गुरोः सकाशाद्विद्यां लब्ध्वा धर्मतः सम्पादितां न्यायार्जितां दद्यादित्यर्थः। गुरोरापदि सूद्रादेरपि प्रतिगृह्य दक्षिणा देयेत्याह स एव - 'विषमगते त्वाचार्य उग्रतः शूद्रतो वाहरे'दिति।। यदा त्वाचार्यो विषमगत आपद्गतस्तदा उग्रतः शूद्रतो वा प्रतिगृह्य दक्षिणामाहरेत्‌। वैश्यच्छूद्रायां जात उग्रः"।। इति।। [ स्मृ. मु. षोड. क. प्र. 59 तः 61 पृ ]

अध्ययनम्‌
उपनीतेः साङ्गं वेदाध्ययनं कार्यंमित्यत्रापि एवं प्रतिपादितम्‌। "उपर्नातै साङ्गो वेदोऽध्येयो यथाविधि। तत्र मनुः--
'तपोविशेषैर्विविधैर्व्रतैश्च विधिचोदितैः।
                                वेदः कृत्स्नोऽधिगन्तव्यः सरहस्यो द्विजन्मना'।
रहस्यमुपनिषत्‌। तथा च श्रुतिः--- "स्वाध्यायोऽध्येतव्य" इति। स्वकुलपरम्परागता शाखाध्येतव्येति।।
अत एव वसिष्ठः -
'पारम्पर्यागतो येषां वेदः सपरिबृंहणः।
                               तच्छाखाकर्म कुर्वीत तच्छाखाध्ययनं तथा।
                               ये स्वशाखां परत्यज्य शाखान्तरमधीयते।
                               शाखान्तरास्तु विज्ञेयाः सर्वकर्मबहष्कृताः।।
                               एकवेदैकशाखानां मध्ये योऽयं समाश्रयेत्‌।
                               स्वशाखां सम्परित्यज्य शाखादण्डः स उच्यते।।
                               यः स्वशाखां परित्यज्य पारक्यामधिगच्छति।
                               स शूद्रवद्वहिष्कार्यः सर्वकर्म साधुभिः।।
                               अधीत्य शाखामात्मीयां परशाखां ततः पठे'दिति।।
                               अन्यांश्च नियमानाह वसिष्ठो महतां वरः।
                                           'यच्छाखी यैस्तु संस्कारैः संस्कृतो ब्राह्मणो भवेत्‌।
                               यच्छाखाध्ययनं कुर्यान्न तेन पतितो भवे'दिति।।
                               परित्यज्य स्वशाखीयं कर्म पारक्यमिच्छति।
                               शाखादण्डः स विज्ञेयः सर्वलोकविगर्हितः।।
अत्रापि वसिष्ठः--
'न क्वचित्‌ परशाखोक्तं बुधः कर्म समाचरेत्‌।
                             आचरेद्यः परस्योक्तं शाखादण्डः प्रकर्तित' इति।।
 स्वशाखीयापरत्यागेन शाखान्तरोक्तकर्मानुष्ठानं न विरुद्धमित्याह कात्यायनः--- "यन्नाम्नातं स्वशाखायां पारक्यमविरोधि यत्‌। विद्धद्भिस्तदनुष्ठेयमग्निहोत्रादिकर्मवदिति"।। इति।। [ स्मृ. मु. षोड. क. प्र. 51 पृ ]


अध्यर्द्धः
"................अध्यर्द्धो वायुरुच्यते।
अध्यर्द्धा हि गुणा नित्यं नायोरध्यर्द्ध एव तत्‌।।
नचैकत्वं भवेद्‌ वायोः तद्विशिष्टो यतो हरिः।
नच द्वितीयता तस्मिन्‌ प्रीतिरभ्यधिका हरेः।।
तेनाध्यर्द्ध गुणो यस्मात्‌ सर्वस्मात्‌ देवतागणात्‌।
न चाशक्यं न चाप्राप्यमतोऽध्यर्द्ध इतीरितः।" । इति । [ बृ. भा. 431 पृ ]
एवं व्याख्यानेऽपि "कतमोऽध्यर्ध इति प्रश्नोत्तरं योयं पर्वत इति वाक्यं भूतवायुपरत्वप्रतीति निरासाय व्याचष्टे। अध्यर्ध इति। कुतो वायुरध्यर्द्ध इति आशंकानिरासकतया यदस्मिन्निदं सर्वं अध्यर्द्धो त्‌ तेनाध्यार्द्ध इति वाक्यं व्याचष्टे। अध्यर्द्धा इति। हि यस्माद्वायोः गुणाः नित्यमध्यर्द्धाः आधिक्येन ऋद्धाः तत्रस्मादेव वायुरध्यर्द्ध इत्यर्थः। वायोरध्यर्द्धगुणत्वमेव कुत इत्याशंकानिरासकतया यदयमेक इवैवपवतेऽथेति वाक्यं प्रवृत्तमिति भावेन एकः पवतेद्वितीयः पवत इत्यनुक्त्वा एकएवेति किमर्थमुक्तमित्यतस्तदभिप्रायमाहनचेति। हरिः यतः तद्विशिष्टः तेनवायुनाविशिष्टः विशेषतस्तत्र सन्निहित इति यावत्‌। अतो वायोरेक त्वेकेवलत्वं न भवेत्‌। यद्वा एकत्वं मुख्यत्वं तद्विशिष्टस्तदपेक्षयोत्तमः। यतश्च तस्मिन्वायौ सर्वस्माद्देवतागणात्‌ हरेरभ्यधिकाप्तीतिरतोद्वितीयत्वं न
भवेत्‌। यस्य यस्मिन्नधिकाप्तीतिः स एव स इत्युच्यते। नतु ततो द्वितीय इति लोके दर्शनात्‌। अत एकश्वेत्युच्यत इति भावः। इदानीं यदयमेक इवैव पवत इति वाक्यार्थस्याध्यर्थगुणत्वे हेतुत्वं दर्शयति। तेनेति। उक्तप्रकारेण एक इवेत्युच्यमानत्वेनेत्यर्थः। विष्णोरव नैतस्याध्यर्धगुणत्वमित्याह।। सर्वस्मादिति। यस्मादध्यर्द्धगुणः अतोध्यर्द्ध इतीरित इति यदस्मिभिदं सर्वमिति वाक्यार्थोपसंहारः। यदस्मिन्नितिवाक्य स्यप्रकारांतरेण तात्पर्यमाह - ।। नचेति।। नियमनादावित्यर्थः। यस्मादित्यनुवर्तते। अनेन यस्मात्‌ इदं सर्वं जगत्‌। अस्मिन्‌ वायौ। अध्यर्द्ध्नोत्‌ नियम्यत्वादिना स्थापितमभवत्‌। तेन अध्यर्द्ध इतीरित इति व्याख्यातं भवति।।" इति [ बृ. भा. भा. 431,432 पृ ]

अध्यात्मम्‌
"अधिभूतं सर्वजीवाः अध्यात्मं तच्छरीरगाः।
देवतास्ताः ...................।। इति च" इति [ बृ. भा. 386 पृ ]

अध्यापननियमः
अध्यापनेऽपि बहुनियामा वर्तन्ते तदुक्तं "अध्यपने च नियमा बहुधा परिकीर्तिताः यमः--
"सततं प्रातरुत्थाय दन्तधावनपूर्वकम्‌।
                                स्नात्वा हूत्वाथ शिष्येभ्यः कुर्यादध्यापनं नर" इति।।
आपस्तम्बोऽपि - 'शयानश्चाध्यापनं वर्जयेन्न च तस्याग्रशय्यायामध्यापयेद्यस्यां शयीते'ति।। मनुरपि - 'अध्येष्यमाणस्तु
गुरुर्नित्यकालमतन्द्रितः।
                               अधीष्व भो इति ब्रूयाद्विरामोऽस्त्विति चारमेत्‌'।
आरमेत्‌ अध्यापनान्निवर्तेतेत्यर्थः।
 यस्त्वध्ययनकाले तु मनोऽन्यत्र विवेशयेत्‌।
स शिष्यः शिक्षणीयः स्याद्भर्त्स्ननान्न तु ताडनात्‌।। अत्र गौतमः--

'शिष्यशिष्टिरवधेने'ति। शिष्टिः शासनम्‌। अवधेन ताडनमकृत्वेत्यर्थः। शिष्यग्रहणमपत्यभार्यादेरप्यपलक्षणम्‌। अत एव मनुः--
"भार्या पुत्रश्च दासश्च शिष्यो (प्रोष्यो) भ्राता च सोदरः।
                        प्राप्तापराधास्ताड्याः स्यू रज्वा वेणुद?Rळेन वे"ति।।
एतच्च निर्भर्त्स्ननादिना शाशितुमशक्तौ वेदितव्यम्‌। अत एव गौतमः--
'अशक्तौ रज्जुवेणुद?Rळाभ्यां तनुभ्या'मिति। तच्च शिरसि न कार्यमित्याह मनुः--
'पष्ठतस्तु शरीरस्य नोत्तामाङ्गे कदाचने'ति।
                            विद्यां विद्यार्थिने यस्तु न प्रयच्छत्यनादरात्‌।
                            तस्य दोषं तु सम्प्राह वसिष्ठो मुनिसत्तमः।।
'यो हि विद्यामधीत्यार्थिने न सम्प्रदद्यात्‌ स कर्महास्या'दिति। यमोऽपि -
'संवत्सरोषिते शिष्ये गुरुर्ज्ञानं न निर्दिशेत्‌।
                              हरते दुष्कृतं तस्य शिष्यस्य च सतो गुरु'रिति।।
एतच्चाध्ययनं कार्यं ब्राह्मणादेव सर्वदा। तथा च मनुः--
'अधीयीरंस्त्रयो वर्णाः स्वकर्मस्था द्विजादयः।
                             प्रब्रूयाद्‌बाह्मणस्तेषां नेतराविति निश्चय' इति।।
एतदनापद्विषयम्‌। आपदि क्षत्रियादेरप्यध्ययनात्। तदाह स एव- 'अब्राह्मणादध्ययनमापत्काले विधीयते। अनुव्रज्या च शुश्रूषा यावदध्ययनं गुरो'रिति।। अत्रानुगमनमात्रमेव शुश्रूषा गुरोः। सापि यावदध्ययनं तावदेव कार्येत्यर्थः।। विद्यादनस्य फलमाह बृहस्पतिः--
'सहस्रसम्मिता धेनुरनङ्वान्‌ दशधेनुवत्।
                               दशानडुत्समं यानं दशयानसमो हयः।।
                               दशवाजिसमा कन्या भूमिदानं च तत्समम्‌।
                               भूमिदानसमं नास्ति विद्यादानं ततोऽधिक'मिति"।। इति।।
                                                         [ स्मृ. मु. षोड. क. प्र 61,62 पृ ]



अध्याहारः
"मन्त्रसामसंस्कारोहः' इत्यादौ मीमांसकव्यवहारे उह्यत इति व्युत्पत्या यथा प्रयोग विकारपर ऊहशब्दः न तथा प्रकृते, 'ऊहवितर्के' इत्यस्माद्धातोर्भावे घञि लघूपधत्वाभावेन गुणाभावे चोह इति सिद्धेरध्याहारपर इत्यर्थः। वार्तिक कृत्सम्मतिमाह - अत एवेति। यदत्रोक्तं साकांत्वाभावादध्याहारे न मानमिति, तत्राहतत्र चेति। अध्याहारे चेत्यर्थः। ओङ्करानुच्चारणे निन्दाश्रवणात्तदन्यथाऽनुपपत्य तदुच्चारणविधेरुन्नयनादाकांक्षाया अभावेऽपि विधिबलादध्याहार इति भावः"।। इति।। [ चन्द्रि प्र. 97 पृ ]

अध्यक्षरम्‌
'अधिकं सर्वत अविनाशी चेत्यध्यक्षरम्‌'।
अधिकत्वाच्य नित्यत्वाध्यक्षरमुदाहृतम्‌।"
इत्यादि ब्रह्मतर्के"। इति। [ मा. भा. 359 पृ ]

अनधिकार्यत्वम्‌
"अत्र परेषां भाष्यं "ब्रह्मजिज्ञासाया अनधिकार्यत्वात्‌" इति, तन्न, इच्छाया आरभ्यत्वासम्भवेऽपि, विवरणरीत्या जिज्ञासाशब्दस्य वचारलक्षकत्वेन तस्यारभ्यत्वसम्भवात्। नन्वानन्तर्याभिधानमुखेन शास्त्रीयस्याधिकारिणः न्यायतस्समर्पणाभावे विचारो निरधिकारिकोऽननुष्ठेयः स्यादित्यधिकारि तद्विशेषणप्रयोजनलाभायानन्तर्यार्थतेति चेत्‌, न तावद्विचारविधौ त्वत्पक्षे मुमुक्षुरधिकारी मोक्षश्च फलमिति युक्तम्‌, विचारो मोक्षमाधनतया न प्राप्त इति तद्विधेरपूर्वविधित्वापातात्‌। मुमुक्षोरपि ज्ञानकामनां विना विचारेऽप्रवृत्तेः। त्वन्मते च वक्ष्यमाणरीत्या ज्ञानकामनाऽनुपपत्तेश्च। नापिविचारविधौ ज्ञानकामोऽधिकारी, ज्ञानं च फलमिति युक्तम्‌, अध्ययनविधेः ज्ञानकामाधिकारं निषेधता त्वया, अज्ञाते ज्ञाने कामनायोगात् ज्ञानज्ञाने च तदवच्छेदकविषयस्यापि ज्ञातत्वात्‌ पुनस्तज्ज्ञाने कामनाऽयोगादिति युक्त्या ज्ञानकामनानिषेधात्‌। ननु परोक्षज्ञाने कामनाऽयोगेऽपि, परोक्षण प्रतिबद्धापरोक्षेण वा ज्ञानेन ज्ञातब्रह्मावच्छिन्नेऽपरोक्षज्ञाने अप्रतिबद्धापरोक्षज्ञाने वा कामना श्रवणरूपविचारविध्यधिकारिविशेषणमिति चेन्न, इच्छाया अपरोक्षत्वात्‌ तदवच्छेदकज्ञानावच्छेदकविषयस्याप्यपरोक्षत्वादिच्छासमानकालवर्त्यपरोक्षज्ञानस्यापि विचारसाध्यातवानुपपत्तेः। अन्यानवच्छेदेन अपरोक्षज्ञानस्य विचारसाध्यत्वे च, तादृशपरोक्षज्ञाने कामना, तस्य विचारसाध्यत्वं चास्तु। किंच--श्रवणसाध्यस्य परोक्षज्ञानस्य, प्रतिबद्धापरोक्षज्ञानस्य वा तस्मात्प्रागसत्त्वेन तदधीनायाः अपरोक्षज्ञानादौ कामनायाः श्रवणविध्यधिकारिविशेषणत्वायोगः। न च कामनाहेतुपरोक्षज्ञानादिकं श्रवणात्प्रागापातप्रतीतिदशायामेव सिद्धमिति वाच्यम्‌, तस्यां दशायां निश्चयरूपस्य तस्याभावात्‌। न हि वेदान्तवेद्यं सर्वं परोक्षज्ञानादिना निश्चित्यापरोक्षाद्यर्थं मीमांसायां प्रवर्तन्ते। सन्देहरूपस्य च तस्य तस्यां दशायां भावेऽपि सन्देहेन ज्ञातब्रह्मावच्छिन्नपरोक्षनिश्चय एव कामनोपपत्तिः, निश्चिते निश्चयकामनाया अदर्शनेन तस्यां निश्चयविषयविषयकसन्देहस्यैव हेतुत्वात्‌। किञ्च---त्वत्पक्षे धर्मविचारस्योततरक्रतुविधिप्रयुक्तत्वेऽपि, तज्ज्ञानकानाहीनस्य तद्विचारे अप्रवृत्तेः, धर्मादौ चापरोक्षज्ञानकामनाऽनुपपत्तेः परोक्षज्ञाने च त्वया कामनाऽनङ्गीकारात्‌ धर्मादिविचारे न प्रवृत्तिः स्यात्‌। किञ्च--सन्दिग्धस्थाण्वादिविशेषापरोक्षज्ञानकामना तद्विशेषपरोक्षधीपूर्विका स्यात्‌। तस्मात्सामान्यतो ज्ञाते विशेषज्ञानकामनायाः दर्शनात्तां प्रति तदेव हेतुः। अवच्छिन्नज्ञाने अवच्छेदकज्ञानस्य हेतुताऽपि हि दर्शनादेवेति, तदुल्लङ्घने साऽपि न स्यात्‌। तस्मात्परोक्षज्ञाने कामानां निषेधतः परस्य मते, ज्ञाने मोक्षे वा विचारप्रवृत्तिपर्यन्तं कामनाऽयोगात्‌, तत्कामस्याधिकारिणः तस्य फलस्य च सूचनं नानान्तर्यार्थेनाप्यथशब्देन। भामतीरीत्या जिज्ञासाशब्दस्येच्छावाचकत्वेऽप्यार्थिकार्थेन विचारेणाध्याहृतस्य कर्तव्यपदस्येव श्रतस्याधिकारार्थाथ शब्दस्याप्यन्वयोऽस्तु। यथोक्तं कल्पतरौ----"आर्थिके चास्मिन्नर्थे कर्तव्यपदाध्याहारः" इति। न चार्थिकेनार्थेन अध्याहृतस्यैवान्वयो न तु श्रुतस्येत्यत्र नियामकमस्ति। "सौर्यं चरुं निर्वपेद्ब्रह्मवर्चसकामः" इत्यादौ द्रव्यदेवतासंबन्धाक्षिप्तेन यागेन, 'यदाग्नेयोऽष्टाकपालो भवति' इत्यादौ भवनाक्षिप्तभावनया च विधिप्रत्ययान्वयदर्शनाच्च। तस्मादधिकारार्थ एवाथशब्दोऽस्त्विति"।। इति ।। [चन्द्रि-111-तः 118 पृ]


अनध्यायः
अनध्यायाश्च बहु श्रुताः तदुक्तं "तत्र मनुः-- 'विद्युत्स्तनितवर्षेषु महोल्कानां च सम्प्लवे। आकालिकमनध्यायमेतेषु मनुरब्रवीत्‌'। स्तनितं मेघगर्जनम्‌। एतेष्वन्यतमनिमित्ते सति परेद्युस्तावत्कालपर्यन्तमनध्याय इत्यर्थः। यतः स एवाह -'एतांस्त्वभ्युदितान्‌ विद्याद्विना(द्यदा) प्रादुष्कृताग्निषु। तदा विद्यादनध्यायमनृतौ चाभ्रदर्शन' इति।। प्रादुष्करणमग्निप्रणयनम्‌। तेनात्र सन्ध्याकाल उपलक्ष्यते। अनृतौ वर्षाभ्योऽन्यत्र। तत्रापि सन्ध्यायामेव वेदितव्यम्‌। आपस्तम्बोऽपि - 'एकेन द्वाभ्यां वैतेषामकाल'मिति। वर्षर्तौ विशेषमाह स एव - 'सन्धावनुस्तनिते रात्रिं स्वप्यपर्यन्तां विद्युत्युपव्युषसि यावता वा कृष्णां रोहिणी'मिति शम्या प्रासाद्विजानीयादेतस्मिन्‌ काले विद्योतमाने सप्रदोषमहरनध्यायेदह्रेऽपररात्रे स्तनयित्नुनोर्ध्वमर्धरात्रादित्येक' इति।। अस्यार्थः, सन्धौ सन्ध्यायाम्‌। अनुस्तनिते मेघगर्जिते सति सर्वां रात्रिं नाधीयीत। सन्धौ विद्युति सत्यां स्वप्नपर्यन्तां रात्रिं नाधीयीत। स्वप्ने पर्यन्तरात्रिः प्रहरावशिष्टा। स्वप्नपर्यन्तमित्यपपपाठः। उपव्युषसि विद्युति सत्यां अपरेद्युः सप्रदोषमहरनध्यायः। प्रदोषादूर्ध्वमध्ययनमित्यर्थः। यावता कालेन शम्या प्रासादर्वागवस्थितां गां कृष्णामिति वा रोहिणीं गौरवर्णामिति वा विजानीयादेतस्मिन्‌ काले उपव्युषसि वेत्यन्वयः। अर्धरात्रादूर्ध्वं स्तनयित्नुना निमित्तेन सप्रदोषमहरनध्याय इत्येके मन्यन्त इति।। स्मृत्यर्थसारे तु - 'अर्धरात्रादूर्ध्वमर्धरात्रे च गजनि सति आकालिकोऽनध्यायः। प्रातः सन्ध्यागर्जने त्वहोरात्र'मिति विशेषः प्रतिपादितः। हारीतोऽपि - "सायंसन्ध्यायां स्तनितेनाधीयीरन्‌ प्रातः सन्ध्यायां त्वहोरात्र"मिति।। यदा तु वर्षास्वेव विद्युत्स्तनितं तदा सज्योतिरनध्यायः। तथा च मनुः--
'प्रादुष्कृतेष्वग्निषु तु विद्युत्स्तनितनिस्वने।
                              सज्योतिः स्यादनध्यायः शेषे रात्रौ यथा दिवे'ति।।
शेषे वृष्टौ। वर्षासु त्रयाणां सन्निपाते तत्कालमनध्यायः।। स्मृतिरत्नावल्याम्‌ -
'विद्युद्गर्जितवृष्टीनां सन्निपातो यदा भवेत्‌।
                             कालवृष्टौ च तत्कालमकाले च त्रिरात्रकम्‌।।
                             अतिवर्षे त्रिरात्रं स्यादल्पवर्षे तु वासर'मिति।।
अकालशबदार्थमाह गर्गः-- 'अनुराधर्क्षमारभ्य षोडशर्क्षेषु भास्करः। यावत्‌ प्रवर्तयेत्तावदकालं मुनयो विदु'रिति भूमिचलनावस्थानोल्कापातोपल पांसुवर्षाद्युत्पाताद्यद्भुतेषु आकालिकोऽनध्यायः। तत्रापस्तम्बः-- 'भूमिचलनेऽवस्थान उल्कायामग्न्युत्पाते च सर्वासां विद्यानां सार्वकालिकमकालिकमनध्यायः। सार्वकालिकं ऋतौ वापतौ वा कालिकमनध्यायः'। मनुरपि -
'चोरैरुपप्लुते ग्रामे सङ्ग्रामे चाग्निकारिते।
                              आकालिकमनध्यायं विद्यात्‌ सर्वाद्भुतेषु चे'ति।।
वसिष्ठोऽपि - 'उपलरुधिरपांसुवर्षेष्वाकालिक'मिति।।
"नारद -
"अयने विषुवे चैव शयने बोधने हरेः।
                                अनध्यायं प्रकुर्वीत मन्वादिषु युगादिषु।।
                                महाभरण्यां श्रवणद्वादश्यामष्टकासु च।
                                नभस्ये कृष्णपक्षे च द्वितीयायां तथैव च।
आषाढे फाल्गुने चैव द्वितीयाकार्तिकेऽपि कृष्णपक्षे च द्वितीयायां तथैव च।
आषाढे फाल्गुने चैव द्वितीयाकार्तिकेऽपि वा।।
                           मार्गशीर्षे तथा पौषे माघमासे तथैव च।
                           तिस्राष्टकाः समाख्याताः कृष्णपक्षेषु सूरिभिः।।
                           इषे ज्येष्ठे च दशमीं द्वितीयां च यथाक्रमम्‌।
                           माघशुक्लचतुर्थीं च द्वादशीं केचिदूचिरे।।
                           मेधाकामस्त्रयोदश्यां सप्तम्यां च विशेतः।
                           चतुर्थ्यां च प्रदोषेषु न स्मरेन्न च कीर्तयेत्‌।।
                           न विवादे नकलहे न सेनायां च सङ्गरे।
                           रुधिरे च स्रुता गात्राच्छस्त्रेण च परिक्षते।।
                           श्लेष्मातकस्य शाल्मल्याः कोविदारकपित्थयोः।
                           छायायां च मधूकस्य भूक्तमात्रे च सन्ध्ययोः।।
भूक्तमात्रे यावदार्द्रपाणिरित्यर्थः।
अन्तर्गतशवे ग्रामे समवाये जनस्य च।।
                              अन्तर्गतदिवाकीर्तौ रथ्यायां च चतुष्पथे।
                              जलमध्ये तथोद्याने देवलस्य च सन्निधौ।।
                              तात्कालिकमनध्यायं ग्रामान्ते गोव्रजेऽपि वा।
श्मशानसमीपे विशेषमाहापस्तम्बः-- "श्मशाने सर्वतः शम्याप्रासाद्ग्रामेणाध्यवसिते क्षेत्रे नानध्यायो ज्ञायमाने तु तस्मिन्नेव देशे नाधीयीत श्मशानवच्छूद्रपतितौ समानागार इत्येक इति"।। इति च ।
"अमावास्यां गुरुं हन्ति शिष्यं हन्ति चतुर्दशी।
                            ब्रह्माष्टकापौर्णमास्यौ तस्मात्ताः परिवर्जयेत्‌'।
 प्रतिपच्च वर्ज्येत्याह जाबालिः--
'नाधीयीत नरो नित्यमादावन्ते च पक्षयो'रिति।।
पक्षादः प्रतिपत्‌ पक्षान्तं चतुर्दशीत्यर्थः। एतेष्वहोरात्रमनध्ययनमिति वेदितव्यम्‌।। अनध्यायदिनात्‌ पूर्वं शर्वरी च तथा स्मृता। तथा हारीतः--
'श्वोऽनध्यायेऽद्य शर्वर्यां नाधीयीत कदाचन'
                              अनध्यायविशेषं तु वसिष्ठो मुनिरब्रवीत्‌।
                             'फलान्यापस्तिलान्‌ भक्ष्यमथान्यच्छ्रद्धिकं भवेत्‌।
                              प्रतिगृह्याप्यनध्यायः पाण्यास्या ब्राह्मणाः स्मृता' इति।।
 अपिशब्दमहिम्ना भुक्त्वा चेत्यर्थौ ज्ञायते। पक्षद्वयेऽपि अहोरात्रमनध्यायः"।। इति च।
एवमेव तत्रैव "आपस्तम्बस्तूपाकर्मणि विशेषमाह - 'श्रावण्यां पौर्णमास्यामध्यायमुपकृत्य मासं प्रदोषे नाधीयीते'ति।। प्रदोषे प्रथमरात्रिभागे नाधीयीत अत उर्ध्वमध्ययने न दोष इति भावः। सप्तमीत्रयोदशीचतुर्थीनां प्रदोषेषु नित्यमनध्यायमाह वृद्धगर्गः---
'रात्रौ यामद्वयादर्वाक्‌ सप्तमी स्यात्‌ त्रयोदशी।
                            प्रदेषः स तु विज्ञेयः सर्वविद्याविगर्हितः।।
                            रात्रौ च नवनाडीषु चतुर्थी यदि दृश्यते।
                            प्रदोषः स तु विज्ञेयो वेदाध्ययनगर्हितः' इति।।
 षष्ठीद्वादश्यो रात्रौ सप्तमी त्रयोदशी च यामद्वयादर्वागेकघटिकया न्यूना चेत्‌ प्रदोष इत्याह प्रजापतिः-- "षष्ठी च द्वादशी चैव अर्धरात्रोननाडिका।
                              प्रदोषो न त्वधीयीत तृतीया नवनाडिके"।। इति।।
तत्रैव "त्रयोदशीविशेषे तु वर्जनीयविशेषं कर्तव्यं चाह स एव--
'त्रयोदशी यदा रात्रो यामस्तत्र निशामुखे।
                              प्रदोष इति विज्ञेयो ज्ञानार्थी मौनमाचरेत्‌'।
                              भोजनं मैथुनं यानमभ्यङ्गं हरिदर्शनम्‌।
                              अन्यानि शुभकार्याणि प्रदोषे नैव कारये'दिति।।
वृद्धमनुरपि -
'सा रात्रिः सर्वकर्मध्नी शङ्कराराधनं विने'ति।
मौनस्य कालप्रमाणं निरूपितं स्कान्दे- 'सितसन्ध्यस्त्रयोदश्यां न स्मरेच्च मनोहितम्‌। अह्नोऽष्टमांशसंयुक्तं रात्र्यर्धं मौनमाचरेत्‌'।। मुहूर्तत्रयं प्रदोष इति स्कान्दे निरूपितम्‌ - "त्रिमुहूर्तं प्रदोषः स्याद्रवावस्तं गते सति'। त्रयोदश्याश्चतुरो मुहूर्तानिति श्लोकः प्रदोषः प्रथमो याम इत्यस्मिन्नर्थे सम्मतित्वेन चन्द्रिकायामुक्तः। अपरार्के तु त्रयोदशीपदस्वारस्यादेतन्मुहूर्तचतुष्टयं त्रयोदशीविषयमिति द्रष्टव्यमित्युक्तम्‌"।। इति।
"अनध्ययनकालं हि गौतमो मुनिरब्रवीत्‌।। 'श्वगोमायुमार्जालनकुलमण्डूकमूषकाणां त्र्यहमनध्यायो विप्रवासश्चे" इति।।
"मार्जारमात्रगमने विशेषं प्राह चोशनाः। 'मार्जारान्तरा गमने तु घृतं प्राश्य त्र्यहमुपवास' इति।। आपस्तम्बः चण्डालादिव्यवाये विशेषमाह - 'चण्डालश्वपाकशशकस्य षण्मासान्‌' हस्तिव्याघ्रयोस्तु संवत्सरं वेदितव्यम्‌। तदाह स एव - 'यदि हस्तिव्याघ्रौ संवत्सर'मिति। पश्वादीनां व्यवाये तु द्विनिशं मनुरब्रवीत्‌। 'पशुमण्डूकमार्जारश्वसर्पनकुलाखुभिः। अन्तरागमने विद्यादनध्यायमहर्निशम्‌'। छदेने विशेषमाहापस्तम्बः-- 'छर्दयित्वा तु स्वप्नान्तं सर्पिर्वा प्राश्नोते'ति।। स्वप्नान्तमुदयपर्यन्तमित्यर्थः। शौनकस्त्वनध्याये अपवादमाह--- 'नित्ये जपे च कामे च कृतौ पारायणे तथा।
                             नानध्यायस्तु वेदानां ग्रहणे ग्रहयोः स्मृत'मिति।।
एवमुक्तानध्यायाध्ययने दोषमाह लिखितः--
'छिद्राण्यहानि विप्राणां येऽनध्यायाः प्रकीर्तिताः।
                            छिद्रेभ्यः स्रवति ब्रह्म ब्राह्मणेन यदर्जितमिति"।। इति।।
                                               [ स्मृ. मु. षोड. क. प्र. 62 तः 66 पृ ]


अनन्तः
?R नाशरहितः। न विद्यत अन्तो नाशः यस्य सः अनन्तः परमात्मा। तदुक्तम् -
?R "?Rतस्मात्स भगवान् विष्णुर्ज्ञेयः सर्वोत्तमोत्तमः।
?R सदा सर्वगुणैः पूर्णो योऽनन्तः पुरुषोत्तमः।।"?R इति (आ.उ.भा.पृ.300)
?R "?Rअनित्यत्वं देहहानिः दुःखप्राप्तिरपूर्णता।
?R नाशः चतुर्विधः प्रोक्तः तदभावो हरेस्सदा।।
?R तदन्येषां तु सर्वेषां नाशाः केचिद् भवन्ति हि।"?R इति (महावराहे-गीता-ता-पृ.23)
?R "?Rअविनाशि तु तद्विद्धि येन सर्वमिदं ततम्।
?R विनाशमव्ययस्यास्य न कश्चित् कर्तुमर्हति।।"?R इति (भ.गी. अ-2,श्लो.17)
?R "?Rसत्यं ज्ञानमनन्तं ब्रह्म" ?Rइति (तै. उ. 2-1)
?R अपरिच्छिन्नोऽपि अनन्तशब्दस्यार्थः। तदुक्तं
"?Rअनन्तत्वं च देशकालगुणापरिच्छिन्नत्वम्"?R (तै.उ.खं-राघ. पृ.479)
?R "?Rसर्वव्यापी तु भगवान् अनन्त इति कीर्तितः"?R ( बृ.भा. पृ.325) "?Rदेशतः कालतः गुणतः अन्तराहित्यं सर्वशक्त्यादिगुणैरनन्तत्वे पर्यवस्यति। अतो गुणत्वाद्यमनन्तमाहुरिति स्मृतिरपि अनुकूलैवासीदिति ज्ञेयम्।"?R इति।। (तै. उ.भा.प्र. पृ.42)
?R अनन्तशब्दस्य विश्वेदेवार्थकत्वमपि श्रूयते। तदुक्तम् -
"?Rमनसो देवता ब्रह्मा सर्वदेवेषु संस्थितः ।
?R देवब्रह्ममनस्वेकं यो विष्णुं सर्वदा स्मरेत्।।
?R अनन्तनामकं तेन तल्लोकं नित्यमश्नुते।
?R निश्चयेन विमोक्ष्यत्वात् विश्वेदेवाह्यनन्तकाः।
?R अनन्तनामकं विष्णुं उपास्याप्यनन्तकाः।।"?R इति। (परमश्रुतौ बृ.भा. पृ.300)
अनन्तरः
"अपूर्वः कारणाभावान्नाशाभावादनन्तरः। इति आत्मसंहिताया" इति [ मा. भा. 365 पृ ]

अनन्तलोकः
"लोको विष्णोरनन्तस्य तज्ज्ञानान्नित्य आपयते। प्रतिष्ठा सर्वलोकस्य सविष्णुः सर्वहृद्गतः। इति च गतिसारे" इति [ क. भा. 88 पृ ]


अनन्दम्‌
"नित्यदुःखस्वरूपत्वादनन्दं तत्तमो मतम्‌।
बोधके विद्यमानेऽपि ये विदुर्न परं हरिम्‌।
तेऽपि यान्ति तमो धोरं नित्योद्रिक्तासुखात्मकम्‌ इत्यादि च" इति [ बृ. भा. 611 पृ ]
व्याख्याने "अनंदा इत्युक्तानंदशब्दार्थमाह नित्येति। नंदः सुखं। नञो विरुद्धार्थत्वेन अनन्दइति तद्विरुद्धं दुःखमुच्यते। मुख्ये सति अमुख्य ग्रहणायोगात्‌ नित्यदुःखस्वरूपत्वादित्युक्तम्‌। इदानीं अनन्दानामतेलोका इति मन्त्रं व्याचष्टे।। बोधक इति।" इति [ बृ. भा. भा. 611 पृ ]


अनन्यः
"अन्यो भगवान्‌ अन्योऽहमिति अजनन्ननन्यः तेन प्रोक्ते गतर्ज्ञानं नास्ति।
"प्रोक्ताऽन्येनैव सुज्ञानाय प्रेष्ठ" इति वाक्यशेषात्‌।
"जीवानां चैव विष्णोश्च यो न वेत्ति भिदांपुमान्‌ तदनुवृताश्च ये केचित्‌ तेषां ज्ञानं न जायते। इति ब्रह्मवैवरते" इति [ क. भा. 95 पृ ]
तत्रैव व्याख्याने "अन्यो न भवतीत्यनन्यः स्वयं, स्वेनैव प्रोक्त इत्यर्थस्य च वक्तृश्रोत्रोर्भेदावश्यं भावेनाप्रस्तुतप्रसङ्गत्वापातात्‌ अन्यो भगवानन्योऽहमित्यजानन्ननन्य इति भावेनोक्तं भाष्ये - अन्यो भगवानिति।।"
इति।। [ क. भा. प्रका. 95 पृ ]
अभिन्नार्थोऽपि अनन्यशब्दस्यार्थः वर्तते।
तथाहि "अनन्योऽप्यन्यशब्देन तथैको बहुरुपवान्‌ प्रोच्यते भगवान्विष्णुरैश्वर्यात्‌ पुरुषोत्तमः।। इति" [सू.भा.106 पृ ]
तत्रेव व्याख्याने "तथाच पुरुषोत्तमःभगवान्‌ विष्णुः' अनन्योऽपि' अभिन्नोऽपि, अन्यो भिन्न इति शब्देन प्रोच्यते।" इति [ भा. दी. 106 पृ ]
अनन्याधिपतिः
"अत्र प्रागुक्तहेत्वतिदेशादनन्तरसंगतिः। प्रकृतो मुक्तः किं क्लृत्पपतिभ्योऽन्यपतिनियतः अथ क्लृत्पपतिनियत एवेति चिन्ता। तदर्थं मुक्तावनपेक्षितमपि भवत्युत नेति। लोके राजगृहप्रविष्टस्य अनपेक्षित स्वावरप्रतिहारादिनियतत्वमिव मुक्तस्यापि परगृहगतत्वात्‌ स्वावरनियतत्वं स्यादन्यथा लोकविरोधादिति प्राप्ते सिद्धान्तः। लोके सत्यसंकल्पत्वाभावेन अनपेक्षितस्वावरनियतत्वसम्भवेपि मुक्तस्य सत्य संकल्पत्वादेव नानपेक्षितप्राप्तिर्युक्तेति क्लृप्तपतिनिमता एव मुक्ताः नहिं मुक्तानामवरनिमतत्वमपेक्षितम्‌। तथा च स्मृतिः"परमोधिपतिस्तेषां "इत्यादिकेति। फलं तु मुक्तस्य संसारसमानधर्मवत्वतदभावौ" इत्यादिकेति। फलं तु मुक्तस्य संसारसमानधर्मवत्वतदभावौ।" इति [न्या.मु. 226पृ]

अनर्पितनिषेधः
"पाद्मसंहितायाम्‌----
अदत्वा विष्णवे किञ्चिन्नैव भुञ्जीत किञ्चने'ति।।
मनुः----
अनर्पयित्वा गोविन्दे यो भुङ्क्ते धर्मवर्जितः।
श्वानविष्ठासमं चान्नं नीरं च सुरया समम्‌।। इति।।
हारीते--
'विष्णोरनर्पितं यत्तु देवानामर्पितं च यत्‌।
मद्यमांससमं प्रोक्तं न भुञ्जीयात्कथञ्चन'।। इति।।
पाद्मे--
'इतरेषां तु देवानां निर्माल्यं गर्हितं भवेत्‌।
सकृदेव हि योऽश्नाति ब्राह्मणो ज्ञानदुर्बलः।।
निर्माल्यं शङ्करादीनां स चण्डालो भवेद्घ्रुवम्‌'। इति।।
वासिष्ठसंहितायाम्‌--
'निर्माल्यमितरेषां तु भुक्त्वा चान्द्रायणं चरे'दति।।
अनर्पितं हरेर्यत्तु भोक्तव्यं नेतरैः क्वचित्‌।
अन्नाद्यं व्यञ्जनं तोयमपूपाद्यं फलादिकम्‌।।
अनर्पितं हरेर्यत्तु भुङ्क्ते तच्च सुरासमम्‌। इति।।
हारीते--
'अन्यच्च फलमूलाद्यं भक्ष्यं पानादिकं च यत्।
स्रक्चन्दनादि ताम्बूलं यो भुङ्क्ते हर्यनर्पितम्‌।
कल्पकोटिसहस्राणि कल्पकोटिशतानि च।
  निमज्य रनके घोरे रेतोविण्मूत्रभुग्भवेत्‌'।। इति।।
                              भुक्त्वान्यदेवनैवेद्यं द्विजश्चान्द्रायणं चरेदिति।।

आत्रेये--
'ताम्बूलं गन्धपुष्पाद्यमपः क्षीरं घृतं मधु।
फलानि भक्ष्यभोज्यानि वस्त्राद्याभरणानि च ।।
विष्णोरनर्पितं मोहाद्यो भुङ्क्ते पापकृत्तमः।
कल्पकोटिसहस्राणि कल्पकोटिशतानि च।।
कृमिराशिमये घोरे नरके पूयशोणिते।
निमज्य पितृभिस्सार्धं पश्चात्कल्पशतत्रयम्‌।।
कृमिर्भूत्वा च विष्ठायां ततश्चण्डालतां व्रजेत्‌।
तस्मादनर्पितं विष्णोर्न सेवेत कदाचन।।
परमापद्गतो वापि महोत्सवयुतोऽपि वा।
अनर्पितं हरेर्यत्तु भुक्तं तच्च सुरासम'मिति।।
सङ्ग्रहे--
'निर्माल्यं धूपशेषं तु यदन्नाद्यं दिवौकसाम्‌।
उपभुज्य नरो यादि ब्रह्महत्यां न संशयः'।। इति।।
वासिष्ठसंहितायाम्--
'भगवद्भुक्तमन्नाद्यमज्ञानाद्योऽवमन्यते।
स योनिं सौकरीं प्राप्य जायते श्वशरीरभाक्‌'।।
पाद्मे--
'अवैष्णवान्नं यत्यन्नं पतितान्नं तथैव च।
अनर्पितं तथा विष्णोः श्वमांससदृशं भवेत्‌।।
यक्षराक्षसभूतान्नं सुरामांसं च गृञ्जनम्‌।
योऽश्नाति निरयं घोरं पूयशोणितभोजनम्‌।।
शूद्रस्पृष्टं च दृष्टं च तद्धृतं च निमन्त्रितम्‌।
तत्प्रेरितं च पक्वं च शूद्रान्नं षड्विधं स्मृतम्‌।।
यत्यन्नं यतिपात्रस्थं यतिना प्रेरितं तथा।
    अन्नत्रयं न भुञ्जीत भुक्त्वा चान्द्रायणं चरे'दति।।
अथ देवस्य समर्पितान्नेनैव भोजनं विष्णुतीर्थीये---
'ततो देवस्य दत्वा तत्सर्वं देवाभ्यनुज्ञया।
भुञ्जीत तत्प्रसादान्नं यावता कर्म लुप्यते।। इति ।।
पाद्मे -
'तस्माद्विष्णोः प्रसादान्नं सेवित्वा मोक्षभाग्भवेत्‌"। इति।।
हारीते--
'नारायणः परं ब्रह्म विप्राणां देवता सदा।
तस्योपभुक्तशेषं तु पावनं मुनिसत्तमाः'।। इति।।
वासिष्ठसंहितायाम्‌--
'विष्णोर्निवेदितं शुद्धं मुनिभिर्भोज्यमुच्यत' इति।।
पाद्मसंहितायाम्‌--
'नैवेद्यभोजनं श्रेयः सर्वेषां च यथार्थव'दिति।।
सङ्ग्रहे--
'ब्रह्मचारिगृहस्थैश्च वानप्रस्थैश्च भिक्षुभिः।
विष्णोर्निवेद्य(नैवेद्यं) भोक्तव्यं नात्र कार्या विचारणा'।। इति।।
एतदर्थे इतिहासः विष्णुतीर्थीये---
'विष्णोरदत्वा भोक्तुर्हि दोषमाह जनार्दनः।
क्रोडरूपो निषादस्य सुतायाः श्वशुरस्य च।।
संवादमुक्त्वा लोकेऽस्मिन्‌ सतां पापापनुत्तये।
राज्ञा कृता ब्रह्महत्या बह्मपार(परब्रह्म) स्तवेन तु।।
स्तुते हरौ निर्गतास्य क्षणाद्देहान्महात्मनः।
स्तोत्रस्य तस्य माहात्म्यात्त्थाराज्ञावरेण च।।
                            व्याधत्वेऽपि सुधर्मज्ञो बभूव च तथाकरोत्‌।
           सोऽमावास्यातिथौ पुत्र्याः श्वशुरस्य गृहं प्रति।।
  गत्वा तमब्रवीद्धिंसा त्वया न क्रियते किल।
जीवानां तन्मयेदानीं चागतं हिंसया विना।।
                            भोक्तुमुक्त्वेत्यथापृच्छदस्ति हिंसां विना परम्‌।
                            यात्किञ्चिदिति तेनोक्तो व्रीहींस्तस्य त्वदर्शयत्‌।।
व्रीहीस्थजीवहिंसायाः प्राप्यत्वात्तेन धिक्कृते।
पुनरन्यान्‌ स्तुवन्‌ यान्वै दृष्ट्वा तांस्तु ततोऽधिकम्‌।।
  धिक्कृत्यायात्सतु व्याधः तत्पुत्र्याः श्वशुरोऽपि च।
अन्वेव गत्वा तत्सर्वमश्रृणोत्‌ परमं शुभम्‌।।
        इदं सर्वं हरेर्ब्रह्मा पूजार्थमसृजत्प्रभुः।
                            सृष्ट्वा सर्वं हरेः ब्रह्मा पूजां च चक्लृपे स्वयम्‌।।
                            तथैव चक्लृपेऽन्येषां ततस्तेषां च भोजनम्‌।
                            तद्दातव्यं हरेस्सम्यगथानर्थमवाप्नुयात्‌।।
                            अहमेकं मृगं हत्वा अर्पयामि हरेः प्रभोः।
                            ततोऽतिथिः स्वकयैश्च भोक्ष्यामीति तदीरितम्‌।।
                            श्रुत्वा कृत्वा तथैवापि विष्णुलोकमवाप्तवान्‌। इत्यादि च।
                            तथान्यत्र स्मृतावपि हि विद्यते'।। इति ।।
प्राणाद्याहुतिरपि तत्रैव--
                'भगवान्‌। प्राणानां जुहुयादन्नं मन्निवेदितमुत्तमम्‌।।
तृप्यन्ति सर्वदा प्राणा मन्निवेदितभक्षणे।
ममापि हृदयस्थस्य पितृणां च द्विजन्मनाम्‌।।
सदा प्रीतिप्रदं पुण्यं मन्निवेदितभोजनम्‌।
तथैव भारते चोक्तं देवदेवेन विष्णुना।।
ये तु वेदविदः शान्ताः सप्तचित्रशिख्डिनः।
पावनं भगवद्भुक्तं भुञ्जते चाग्रभोजनम्‌'।। इति ।।
श्रुतावपि--
 'तस्मात्सर्वे देवा विष्णुनाशितमश्नन्ति। विष्णुना घ्रातं जिघ्रन्ति। विष्णुना ज्ञातं विजानते। तस्माद्विद्वांसो विष्णुनोपहृतं भुञ्जीयुः। अब्रवीदेवमेवापि महोपनिषदादरात्‌'। इति।।
तदन्नभोजनफलमुक्तं विष्णुतीर्थीये--
  'भुक्त्वा केशवनैवेद्यं भवेत्कोट्यैन्दवं फल'मिति।।

विष्णुतत्वे--
'अग्निष्टोमसहस्रस्य वाजपेयशतस्य च।
  यत्पुण्यं तद्भवेद्देवि ! विष्णुनैवेद्यभक्षणात्‌।।
नैवेद्यमन्नं तुलसीविमिश्रितं विशेषतः पादजलेन सिक्तम्‌।
योश्नाति नित्यं प्रयतो मुरारेः प्राप्नोति यज्ञायुतकोटिपुण्य'मिति"।। इति
                        [ स्मृ. मु. आ. प्र. 298 तः 301 पृ ]


अनादिनिधनः
आदिश्च निधनं च आधिनिधने, जन्ममरणे। न विद्येते आधिनिधने यस्य सः अनादिनिधनः। तथाच जननमरण रहित इत्यर्थः। तदुक्तं---
"स्वदेह योगविगमनाम जन्ममृती पुरा।
इस्येते ह्येव जीवस्यामुक्तेर्नतु हरेः क्वचित्‌"।। [ गी- ता- 2-12 ]
मुक्तात्मनां नारायण एव आधर इत्यत निधनः इति भगवान्‌ कथ्यते। तदुक्तं----
निधायन्ते यतोऽरिवलाः मुक्ता नारायणे देवे तेनासौ निधनाभिधः।" इति [ ऐ. उ. भा. 2-2-4-2 ]
रामकृष्णाद्यवताराणां बीजभूतः भगवान्‌ अनन्तपद्मनाभः तदुक्तं एतन्नानावताराणां निधानं बीजमव्यम्‌।
                                                              [ भाग - 1-3-5 ]
किंच महाभारतेऽपि----
"अनदिनिधनं ये त्वामनुध्यायन्ति वै नराः।
तांस्त्वंपासीत्ययं वादः स गतो व्यर्थतां कथं"।। [ म. भार. सभा. 71/24 ]
भागवतेऽपि---
"मन्ये त्वां कालमीशानमनादिनिधनं परं" इति [ भाग - 1-8-28 ]


अनकाममारः
"स एव रमते मायां स्थितात्मस्त्रीतनौ हरिः।
प्राणस्योत्पत्तिकामः सन्‌ अनेच्छामारनामकः।।
इति अर्धनारीनारायणतन्त्रे।
नायोरुत्पत्तिकामो मायां रमायां रमते इति अनकाममारः।" इति। [ ऐ. भा. पृ 207 ]


अनार्तः
"आर्तिर्दुःखं समुद्दिष्टमनार्तो विष्णुरच्युतः।" इति [ बृ. भा. 358 पृ ]
"प्रकृतस्त्वतिसमीपयदनार्ताऽप पृथङ न त।
उच्यते न स्त्रियो यद्वत्‌ त्रयस्त्रिंशत्सुभेदिताः।।" इति च [ बृ भा. 359 पृ ]
तत्रैव व्याख्याने "आर्तमित्येतद्दःखिन इति व्याख्यतं। तत्र प्रमाणमाह। आरतरिति। एतेनातोस्मादत्मनोन्यदार्तं विनाशि रज्जुसर्पादवत मिथ्याभूतमिति परव्याख्यानं प्रमाणविरुद्धमित्युक्तं भवति। विष्णोरप्यार्तिमत्वेतोन्यदर्तमिति कथमुच्यत इत्यत आह।। अनार्त इति।। " इति [ बृ. भा. भा. 358 पृ ]
एवं "विष्णुरिव सापि प्रतियोगित्वेन कुतो नोच्यत इत्यत आह।। प्रकृतरिति। प्रकृतलक्ष्मीः।। अतिसमिप्यत्‌ तत्पत्नीत्वेनेत्यर्थ। तत्रदृष्टान्तमाह। न स्त्रिय इति। अष्टौ वसव एकादशरूद्रा द्वादश आदित्या इन्द्रः प्रजापतरिति त्रयस्त्रिंशत्सु देवेषु निरूप्यमाणेषु तस्त्रियो न भेदिताः पृथक्‌ नोक्ता इत्यर्थः।।" इति [बृ.भा.भा.359पृ]


अनावृत्तिः
"पूर्वत्र मुक्तानन्दस्य वृध्यादिनेत्युक्तम्। अभ तु तदनुभवस्यान्तो नास्तीत्युथ्यत इति संगातिः। प्रकृतो मुक्तः किं जन्ममृत्यादिप्राप्तिरूप पुनरावृत्तिमानुत नेति चिन्ता। तदर्थं मुक्तस्य समश्तकालवासित्वं पुनरावृत्तावबाधकमिति। तदर्थं समस्तस्यापि कालस्य समाप्तिरस्त्युत नेति। ।।पूर्वरावृत्तिः।। मुक्तस्य समस्तकालवासित्वेपि समस्तस्यापि कालस्य कदाचित्समाप्तिसम्भवात्। न च कालष्यानंत्यात्‌ समाप्तेरसम्भवः। भारतयुद्धे 'चतुर्दशीं पंचदशीं भूतपूर्वां षोडशीं इमां तु नाभि जानामि अमावास्यां त्रयोदशीं' इति त्रयोदश्याः असंभावितपंचदशीत्वदर्शनादिति।। सिद्धान्तस्तु।। कालस्य समस्तस्यापि समाप्तेः व्याहतत्वेन अनन्त कालावसायित्वात्‌ स्वर्गिणो मन्वन्तराद्यवसायितया पुनरावृत्तावपि न मुक्तस्य पुनरावृत्तिः "न च पुनरावर्तते" श्रुतौ सर्वकामाप्तेः श्रवणेन श्रुतावपुनरावृत्तेः कामितत्वाच्च न पुनरावृत्तिरिति नित्य निर्दुःखानन्दानुभववंत एव मुक्ता इति। फलं तुमुक्तेः पूमर्थत्वाक्षेपसमाधी।। इति।। [न्या-मु. 230 पृ.]

अनाकाशमयः
"श्रोत्राद्या नास्य चाऽकाशोमनस्तत्वंनतन्मनः" इति [ बृ. भा. 595 पृ ]
व्याख्यानेऽपि "अस्य श्रोत्राद्याः श्रोत्रचक्षुः प्राणाः श्रोत्राद्याः प्रसद्धश्रोत्रादतत्वात्मकाः न भवंति। अस्याकाश आकाशतत्वात्मको न भवतीति योज्यम्‌" इति [ बृ. भा. भा. 594 पृ ]

अनित्यद्रव्याणि
तदुक्तं सुधायां "द्रण्याणि पृथिव्यप्तेजोवारवाकाशकालदिगात्ममनांसि। तत्र परमाणुरूपाणि पृथिव्यादीनि चत्वारि, गगनादीनि पञ्च नित्यानि। व्द्यणुकादिरूपाणि पृथिव्यादीनि चत्वार्यनित्यानि।।"इति।। [ सु. IV भागे पृ 3367 ]

अनित्यम्‌
"आख्यं विष्ण्वाख्यं नित्यं शेवधिरिति जानामि" इति [ क. भा. 97 ]
व्याख्याने "आख्यं विष्णवाख्यमित्यत्र 'अकारो विष्णुवाचक' इति वचनात् अ इत्यख्या यस्य तमाख्यमिति व्युत्पत्तिमभिप्रेत्योक्तं विष्ण्वाख्यमिति। तथा च अं च तत्‌ नित्यं चेति विग्रहः।" इति [क.भा.प्रका.97पृ]

अनित्यगुणाः
उक्तं च सुधायां "गुणाश्चानित्यद्रव्यगता अनित्या एव। पार्थिवपरमाणावैकत्वैकपृथक्त्वपरिमाणगुरुत्वानि नित्यानि। रूपरसगन्धस्पर्शानेकत्वानेकपृथक्त्वसंयोगविभागपरत्वापरत्वसंस्कारा अनित्याः। (आप्ये च) पाथसींये च रूपरसस्पर्शैकत्वैकपृथक्त्वपरिमाणगुरुत्वद्रवत्वस्नेहा नित्याः। अनेकत्वानेकपृथक्त्वसंयोगविभागपरत्वापरत्वसंस्कारा अनित्याः। तैजसे च रूपस्पर्शैकत्वैकपृथक्त्वपरिमाणानि नित्यानि। अनेकत्वानेकपृथक्त्वसंयोगविभागपरत्वापरत्वद्रवत्वसंस्कारा अनित्याः। वायवीये च स्पर्शैकत्वैकपृथक्त्वपरिमाणानि नित्यानि। अनेकत्वानेकपृथक्त्वसंयोगविभागपरत्वापरत्वसंस्कारा अनित्याः। आकाशे चैकत्वैकपृथक्त्वपरिमाणानि नित्यानि। अनेकत्वानेकपृथक्त्वसंयोगविभागशब्दा अनित्याः। काले दिशि चैकत्वैकपृथक्त्वपरमाणानि नित्यानि। अनेकत्वानेकपृथक्त्वसंयोगविभागा बुद्य्धादयश्च नव अनित्या। ईश्वरात्मनि विशेषोऽभिहितः। मनसि चैकत्वैकपृथक्त्वपरिमाणानि नित्यानि। अनेकत्वानेकपृथकत्वसंयोगविभागपरत्वापरत्वसंस्कारा अनित्याः। इति विवेकः।।" इति।। [ सु. IV भागे पृ. 3367 & 3368 ]

अनिरुक्तं -- अनिरुक्तः
"ततो नियमकश्चेति आनन्त्यादवच्यतः। अनिरुकतम्‌" ।इति।। [ तै. भा। 436 पृ ]
अन्यत्रापि "अनिरुक्तस्त्ववाच्यत्वात्‌ परमः पुरुषो हरिः 'इति माहात्म्ये" इति। [छा. भा. 83 पृ ]
एवं व्याख्यानेऽपि "नारायणेऽनिरुक्तशब्दं निर्वक्ति। अनिरुक्त इति। अवाच्यत्वात्‌ साकल्येन वक्तुमशकयत्वात्‌।" इति [ छा. भा. प. कौ. 83 पृ ]


अनिलम्‌
"अदोषत्वाद इत्युक्तो वायुस्तभिलयो यतः। अनिलं तत एवासौ .........।।" इति [ बृ. भा. 693 पृ ]
तत्रैव व्याख्याने "ननु तर्हि वायुरनिल मिति पुनहक्तिरित्यत आह।। अदोषत्वादिति।। अ इत्युक्तः हरिरिति वर्तते यतो वायुस्तन्निलयः स हरिरेव निलं निलय आश्रयो यस्यासौ तन्निलयः तत एवानिलमिति कीर्त्यत इत्यर्थः। अमृतंचेति कीर्त्यते अतिरहितविज्ञानादिति शेषः।।" इति।। [ बृ.भा.भा. 693-694 पृ ]
एवमेव "किमु परः? अः ब्रह्मैव निलयनं यस्य वायोः सोऽनिलम्‌" इति [ ई.भा. 48 पृ ]
तत्रैव व्याख्याने "वायुरनिलमिति पुनरुक्तिःस्यादत्यत आह।। यस्मिन्निति।। यस्मिन्‌ वायौ अयं परमेश्वरः सोऽपि वायरपि अमृतः किमु परोऽमृत इति वक्तव्यमिति शेषः। नन्वस्मिन्‌ वाक्ये वायुरमृतमित्येवोच्यते। नतु यस्मिन्‌ वायावयं स्थित इति। त्तकुतः कैमुत्यं लभ्यते? न हि वायोरमृतत्वमात्रेणश्वरामृतत्वसिद्धिरिति चेन्मैवम्‌। अस्यार्थस्यानिलपदेनोक्तत्वात्‌। तत्कथमित्यतस्तात्परयतो व्याख्यातं तदिदानीं निर्वक्तिः।। अः ब्रह्मैव।। निलं निलयनमाश्रयः। यथाश्रुतस्यानुवादोऽयमित्यतोऽनिलमित्युक्तम्‌। अनेन पुनरुक्तिरप परहृता भवति।
ननु यस्मिन्नयं स्थित इत्यनेन वायुरीश्वराश्रय इत्युक्तम्‌। अनेन निर्वचनेनेश्वरो वायोराश्रय इति लक्ष्यते। तत्कथमनिलपदार्थोऽसाविति चेन्मैवम्‌। यस्मिन्नयं स्थितः इत्यनेनापि यस्मिन्‌ वायावयं परमेश्वरो नियामकत्वे स्थित इति वायोरीश्वरश्रितत्वस्यैव कथितत्वात्‌। अथवा यास्मेन्परमेश्वरोऽयं वायुः स्थितः, यदधीनो वर्तत इति यावत्‌, स वायुरप यद अमृत तदा किमु वक्तव्यं स परोऽमृत इति व्याख्येयम्‌।।" इति। [ई.भा टीका.48-49पृ]

अनीशा
"नास्तीशोऽस्या यतोऽन्यो हि ततोऽनीशा हरेर्मतिः तया मुह्यति जीवस्तमन्यं ज्ञात्वा विमुच्यते। जीवादन्यो स्वतन्त्रो यो यतोऽतः पुरुषोत्तमः।। इति ब्रह्मसारे।। "इति ।। [ आथ. भा. 288 पृ ]
तत्रेव व्याख्याने "अनिशया न विद्यतेऽन्य ईशो यस्याः साऽनिशा स्वतन्त्रभगवदिच्छा। तया मुह्यमानः शोचति। पराधीन जडाविद्याकाम कर्मादभ्योऽपि स्वतन्त्रभगवदिच्छैवमोहेऽसाधारणहेतुरिति सूचनाय श्रुतिरनीषयेत्येवाऽऽह।।" इति।। [ आर्थ. भा. प्रका. 288 पृ ]


अनुगतजातिः
अनुगतजात्यनङ्गीकारेऽपि सर्वव्यवहारसमर्थनम उपपद्यते । तथाह्युक्तम् - "सर्वगोव्यक्तिसह्ग्राहकस्य शक्यतावच्छेदकस्यैकस्य गोत्वस्याभावेन शक्तिग्रहकाले सर्वगोव्यक्तुपस्थिति असम्भवात् कथं गोशब्दस्य सर्वगोव्यक्त्युपचसंहारेण शक्तिग्रहः । तदग्रहे च कथं गोशब्दादपूर्वव्यक्तिधीः ।एवं धूमाग्निसंग्राहकयोर्व्याप्यत्वव्यापकतावच्छेदकयोर्धूमत्वाग्नित्वयोः कार्यत्वकारणत्वावच्छेदकयोरनुगतयो- र्घटत्वदण्डत्वयोश्चाभावे कथं सर्वोपसंहारेण व्याप्तेः कार्यकारणभावस्य च ग्रहः । कथं च कारणाकारणविभागः । व्यक्त्यपेक्षया नियतत्वस्य रासभेऽपि सत्वाज्जात्यपेक्षया नियमस्य त्वन्मते दण्डादावप्यभावात् ।।
किं च क्रियावत्वं न द्रव्यलक्षणम् व्याप्तेः, न सत्वाश्रयत्वं अतिव्याप्तेरित्यादिव्यवस्था न स्यात् । तत्तव्द्यक्तिमात्रविश्रान्तद्रव्यत्वावच्छिन्नस्यैव लक्ष्यत्वात्तत्र च तत्तव्द्यक्ति निष्ठायाः क्रियायां सत्वेनलक्ष्यासंग्रहरूपाया अव्याप्तेर्द्रव्यादिव्यक्तिषु प्रत्येकं विश्रान्तायाः सत्तायाः गुणकर्माद्यवृत्तित्वेन लक्ष्यातिरिक्त संग्रहरूपाया अतिव्याप्तेश्चाभावात् ।। तस्‌मादनुगतजात्यनङ्गीकारे सर्वव्यवहारविलोपः स्यादिति ।। उच्यते--- अनुगतजातेरभावे किं शक्यव्याप्त्यादिरूपसर्वव्यक्त्युपस्थितिरेव न सम्भवतीत्युच्यते, किं वा तत्संभवेऽपि क्रो़डीकारकस्यैकस्य शक्तिव्याप्त्यादिग्रहो न सम्भवतीति ।। नाद्यः । त्वन्मते सामान्यप्रत्यसत्तिभूतेन शक्यत्वप्याप्यत्वावच्छेदकेनैकेन गोत्वेनेव मन्मतेव्युपदेश व्यवहारभूयोदर्शनादिना शक्तिव्याप्त्यादिग्रहकाले उपस्थितगवादिव्यक्तिविशेषधर्मिकेणातीतानागतगवादिसकलव्यक्तिप्रतियोगिकेनैकेन सादृश्येनातीतानागतसकलशक्यव्याप्त्यादिव्यक्तीनामुपस्थिति सम्भवात् ।।
इयांस्तु भेदः । त्वन्मते जातिरतीताद्याश्रिता, मन्मते तु सादृश्यं ध्वंसादिवत्प्रतियोगित्वेन तत्तस्तम्बद्धमिति । मुक्तंच तदनाश्रितत्वेऽपि संस्करवत्प्रत्यासत्तित्वेन तदुपस्थापकत्वम् । प्रत्युत त्वन्मत एवातीतादेरसत्वाज्जात्याश्रयात्वमयुक्तम् ।।
ननु त्वन्मते सादृश्येनातीतादेः प्रतियोगित्वरूपसम्बन्धो नानेति चेत्किं तावता । न ह्येकस्मिन्ज्ञाने एत एव सम्बन्धो हेतुरिति
नियमः । समूहालम्बनज्ञाने रूपी घट इत्यादौ च तदभावात् । घटरूपतरूपत्वैः सह सन्निकर्षाणां भेदात् । किं च समवायाभेदवादिनः तवापि मते गोत्वादिसमवायस्यावादावपि
सत्वादाधाराधेयत्वमात्रस्य सर्वाधारे कालादावपि सत्वात्स्वरूपसम्बन्धरूपविशेषणता विशेष एव गौरित्यादिधीनियामक इति वाच्यम् । स च तत्तद्व्यक्तिरूपोनन्त एवेति समम् । स च सम्बन्धः स्वरूपसन्नेव प्रत्यासत्ति र्न तु ज्ञात इत्यात्माश्रयपरिहारोप्यावयोः समानः ।।
ननु पुरोवर्तिगोव्यक्त्यौ मन्मते गोत्वमिव त्वन्मते तस्याः स्वगतसादृश्यप्रतियोगित्वं नेति कथं तस्मादुपस्थितिरिति चेन्न । तस्याः प्रत्यभिज्ञायामिदमंशस्येवेन्द्रियसंयोगादिनैनोपस्थितेः ।।
अपि च -- त्रिविक्रम एकेन पादेनोर्ध्वलोकमन्येनाधारलोकमिव सादृश्यं प्रतियोगित्वरूप- सम्बन्धेनातीताधिकं धर्मित्वरूपसम्बन्धेन पुरोवर्तिनमपि स्पृशति । न चैवं वैरूप्यम् । उभयानुगतस्य निरूपकत्वस्यैकरूपत्वात्‌ ।।
अपि च सादृश्याञ्जनादिवत्सहकारित्वमात्रेण प्रत्यासत्तिशब्दः । अत एव पद्धतावतीतादिज्ञानं भूयोदर्शनादि सहकारि सामर्थ्येनेत्युक्तम् । न हि न्यायमतेऽप्यनुगतजातौ संस्कारे व्यवसाये योगजधर्मे भ्रान्तिहेतौ दोषे च मुख्यं प्रत्यासत्तित्वमस्ति। न वा योगजधर्मादेरतीतादिना सम्बन्धोऽस्ति । पद्धतावपि भूयोदर्शनादि जनितसंस्कारसहिचमिन्द्रियं स्वसन्निकृष्टव्यक्तिनिष्ठसादृश्यप्रतियोग्यतीतादिग्राहकमित्येव विवक्षितत्वान्नानुव्याख्यानोक्तसादृश्यत्यागः । अन्यथा विसदृशस्यापि ग्रहणापातात् । सादृश्यमुपधानमिति स्ववचनविरोधाच्च ।।
ननु तथापि गवयोपि गोसादृश्यप्रतियोगीति तस्याप्युपस्थितिः स्यादिति चेत्तवाप्युपमितौ गोसदृशपश्वन्तरस्य गवयशब्दवाच्यताधीः स्यात् । अयं गौरित्युपदेशे च गोगतद्रव्यत्वादिजात्यन्तरस्य धीः स्यात् ।।
यदि च तत्रावापोद्वापाभ्यामन्तरङ्गस्य सादृश्यस्य गोत्वादिजातेश्च ग्रहस्तर्हिहापि गवयादिव्यावृत्तमन्तरङ्गं सास्नादिमत्वगोत्वादिप्रयुक्तसादृश्यं प्रत्यासत्तिः । तस्माज्जातिवत्सादृश्यस्यापि पुरोवर्तिपिण्डनिष्ठस्येन्द्रियसन्निकृष्टस्योक्तसम्बन्धेनातीताद्युपस्थापकत्वं युक्तमेव।। एतदेवाभिप्रेत्योक्तं सुधायां सादृश्यस्य व्यावृत्तत्वेऽपि प्रतियोगिनिरूप्यत्वेनानुगतफलसाधकत्वानुभावादिति ।। अनुगतफलं सर्वव्यक्त्यपास्थितिः ।। नापिशक्तिव्याप्यादिग्रहे न सम्भवतीति द्वितीयः । त्वन्मत एकजात्येव मन्मतेप्युक्तरीत्या सर्वव्यक्तिसम्बन्धिनैकेन सादृश्येन क्रोडीकृतासु व्यक्तिषु शक्तिव्याप्यादिग्रचचहसम्भवात् ।।
इयांस्तु विशेषः । त्वन्मते गोत्वं ज्ञानं सत्प्रत्यासत्तिः, मन्मते तु सादृश्यमज्ञानमेव प्रत्यासत्तिः । एवं त्वन्मते गोत्वं शक्तिग्रहे विशेषणत्वाच्छाब्दज्ञाने विषयत्वेन प्रविशति । मन्मते तु सादृश्यं प्रत्यासत्तिमात्रत्वान्न तत्र प्रविशतीति गोशब्दाद्गोसदृश इति धीर्न भवतीति । गुण एव चाज्ञानकरणे प्रत्यासत्तेरज्ञाताया एव प्रत्यासत्तित्वं स्वसाध्यज्ञाने विषयत्वेनानुप्रवेशश्च । प्रत्यासत्तौ संयोगादौ तथा दर्शनात् ।। न चैवं सादृश्येन मुण्‍डितव्यक्तीनानेवोपस्थापनाच्छक्तिग्रहकाले गोत्वप्रकारकोपस्थितिनेति शाब्दबोधोऽपि गोत्वप्रकारको न स्यादिति शक्यम् । त्वन्मते तादृश्या अपि प्रत्यासत्तेः स्वप्रकारकधीजनकत्वस्वभावस्येव मन्मतेऽपि सादृश्यरूप्रत्यसत्तेः स्वप्रयोजकगोत्वादिप्रकारकधीजनकत्वस्वभावस्य फलबलेन कल्पनात् ।। यद्वा तावेव ममापि पुरोवर्तिगोवर्तिगोत्वं ज्ञानमेव प्रत्यासत्तिः । किंतु तु नानेति स्वनिष्ठसादृश्यप्रतियोगिगोत्वान्तरविशिष्टोपस्थापकमिति भेदः ।। एतदेवाभिप्रेत्योक्तं सुधायाम् -- "तैस्तैव्यावृत्तेर्द्रव्यगुणकर्मसामान्यैनिमित्तैर्निरिति । अनेन प्रवृत्तिनिमित्तानां द्रव्यगुणादीनामननुगमेऽपि दण्डिशुक्लादिशब्दानामिव गोत्वादिजातेरननुगमेऽपि गवादिशब्दानां व्युत्पत्तिरस्तु ।। नच तत्रापि दण्‍डत्वादिकमनुगतमिति वाच्यम् । तथापि निमित्तदण्‍डादेरननुगमात् । न हि पितुः पाण्डित्वेन पुत्रः पण्‍डचो भवतीति सूचितम् ।।
नन्वेवं सादृश्यस्यैकत्वेऽपि तस्य शक्तिग्रहे विषयत्वेनाननुप्रवेशादनुप्रविष्टानां च गोत्वादीनां व्यक्तिवदनेकत्वेनैकस्य शक्तिग्रहविषयता नियामकस्याभावादनियमः स्यादिति चेन्न । शक्तिग्रहस्य विषयानियमो हि न तावतश्वादेरपि शक्यत्वम् । अनेकैरपि शक्तिग्रहे प्रकारभूतैरन्योन्यं सदृशैर्गोत्वैस्तन्निवारणात् । न ह्यनेकनियतमनियतं भवति ।।
नापि समूहादिशब्देष्विव गवामेव समुदायत्वेन शक्यत्वम् । प्रत्येकमानयनादिव्यवहारदर्शनेन तत्तन्निष्ठगोत्वावच्छेदेन प्रत्येकं शक्तिग्रहात् ।। नापि गाष्वेन केषां चित्यागेन शक्यत्वम् । शक्तिग्रहकाले उपस्थितसर्वमध्ये केषां चित्यागे हेत्वभावात् ।। नापि गोष्वेव केषां चित्यागेनानभिमतगवान्तरस्यापि शक्यत्वम्। सर्वगोव्यक्तिषु शक्तिग्रहेऽनाभिमतव्यक्तेरेवाभावात् । शाब्दबोधेऽनभिमतव्यक्तिविषयत्वस्य तु प्रकारणादेरसत्वे इष्टत्वात् तत्सत्वे तेनैव नियमात् ।
            ( इति . त. ता. द्वि. परि. 259 तः 274. )
अनुगतजातौ बाधकमपि वर्तते । तथाहि "किं च स्थूलमुत्पन्नं, स्थूलं नष्टं. नीलमुत्पन्नं नीलं नष्टमितिवत् घट उत्पन्नो घटोनष्ट इत्यनुभवात्प्रत्यक्षादेव जात्युत्पत्तिविनाशौ ।। न च विशिष्टोत्पत्यादिविषयेयं धीर्विशेष्यव्यक्तिमात्रोत्पत्यादिनाऽपि युक्तेति वाच्यम् ।
वैपरीत्यस्यापि सुवचत्वात्। स्थूलमूत्पन्नमित्यादि बुद्धेरपि तथात्वापाताच्च ।।
किं च यथा द्रव्ये सत्येव पाकेन नीलरक्त रूपयोर्नाशोत्पादौ तौ दृश्येते । न च पुरुषे नष्टेपि दण्डवव्द्यक्तौ नष्टायामापि तत्रैव प्रवेशे जातिरनुभूयते । मेनोत्पत्यादिधीर्विशेष्योत्पत्यादिमात्रविषया स्यात्। व्यक्तन्तरेऽनुभवस्तु परिमाणादावप्यस्ति । व्यञ्जकव्यक्तेरभावात्तत्र जातेरननुभवकल्पनं तु परिमाणादवपि समम्। न चाद्यापि जातेर्नित्यत्वं सिद्धम्। येन परिमाणादितो वैषम्यं स्यात् । तदेवेदं गोत्वमिति प्रत्यभिज्ञाया अभावात् । अयं गौरयमपि च गौरिति धीस्त्वयं स्थूलोऽयमपि च स्थील इति धीवत्सादृश्यविशषया ।।
किं च तत्समवेतस्य तदुत्पत्तेः पूर्वं तन्नाशान्तरं चासत्वनियमात्कथं घटत्वादेरनादित्वं नित्यत्वं च । अपि च जातेद्वित्वादिवव्द्यासज्यवृत्तित्वं तद्वदेव यावत्स्वाश्रयप्रतीतिं विनाऽप्रतीतिः स्यात् । अग्निमात्रोद्देशेन द्रव्यत्यादेऽग्नीषोमीयशास्त्रार्थ इवैकगौव्यक्तिदाने गां तद्यादित्यादिशास्त्रार्थोऽननुष्ठितश्च स्यात्। देवतात्ववद्गोत्वस्यापि व्यासज्यवृत्तित्वात् । प्रत्येकं परिसमाप्तत्वे च प्रतिव्यक्तिवृत्तितातिरेकेण प्रत्येक परिसमाप्तेरभावादस्मन्मतापत्तिः ।।
अपि च माहापतकादिना ब्राह्मणत्वादिजातिनाशेन शूद्रवादिजात्युत्पत्तिर्विश्वामित्रशङ्कादीनां वरशापादिना क्षत्रियत्वादिजातिनाशेन ब्राह्मणत्वादिजात्युपत्पत्तिश्चागमसिद्धा । स्पर्शवेध्यादि सम्बन्धेनामसोप्ययस्त्वादिनाशेन काञ्चनत्वादिजात्युप्तत्तिश्च प्रत्यक्षसिद्धेति कथं जातेर्नित्यत्वनियम ।।
किंच "भिन्नश्च भिन्नधर्माश्च पदार्था निखिला अपि इत्यादि श्रुतिसिद्धः प्रतिव्यक्ति धर्मभेदः । न चासति बाधकं आगमस्य गौणार्थत्वम् अयः पिण्डमेव स्वर्णं जातमिति प्रत्यभिज्ञानभ्रान्तित्वत्वं च मुक्तम् ।।
किंच धर्मधर्मिणोरभेदस्यान्यत्र समर्थितत्वात् कथं व्यक्त्यभिन्नथा जातेरनुगतिः ।। एतेन लाघवाज्जातिरेकैवेति निरस्तम् । उक्तं चानुव्याख्याने -- "नरत्वादिमप्येवं तत्तद्धर्मतमेमते" इति । तस्माद्रूपादिवज्जातिर्नानैव सामान्यं तु समानानां भावः सामान्यमिति व्यत्पत्या सादृश्यमेव । तच्चोक्तरीत्याऽनुगतम् । तस्माज्जातिविशिष्टव्यक्तिनाशादेर्घटो नष्ट इत्यादिप्रत्यक्षेण जातिनाशादेस्समवायिनाशप्रत्येकपरिसमाप्त्यादियुक्त्या व्यक्तौ सत्यामेव ताम्रत्वायस्त्वादिनाशादेः प्रत्यक्षेण ब्रह्मणत्वादिजातिनाशादेरागमेन प्रतिव्यक्तिधर्मभेदस्य चोक्तश्रुत्या सिद्धत्वान्न जातेऽरनुगमः । तदेवं जात्यभावेऽप्यन्विते शिक्तिग्रहे युक्तः ।। एवं लिङ्गादिरप्यन्वितेष्टसाधनत्वरूपविधौ शक्तं इतीष्टसाधनत्वज्ञानमेव प्रवर्कम् ।।
                                         ( इति त ता. द्वि. परि. 295 तः 303 पर्यन्तम् )


अनुत्तमः
अविद्यमानः उत्तमो यस्मात्सः अनुत्तमः। तदुक्तं---
लक्ष्मीकान्त समन्ततोविकलयन्नैवेशितुस्ते समं पश्याम्युत्तवस्तु दुरतरतोऽपास्तं रसो योऽष्टमः"।।
                                                             [ नखस्तुतिः ]
भगवद्गीतायामपि----
"मत्तः परतरं नान्यत्‌ किंचिदास्ति धनंजय" [ भा. गी. 7/8 ]
एवमेव "सत्यं सत्यं पुनः सत्यं उद्धृत्य भुजमुच्यते।
वेदशास्त्रात्‌ परं नास्ति न दैवं केशवात्परं।। [ म. भार . ता. नि. 2/71 ]
अनः = उत्तमः जीवेषु अधिकः येन सः अनुत्तम प्राण इत्यर्थः। प्राणस्य जीवोन्नमत्वं च भगवद्दत्तमेव।।

अनुबन्धादिः
'दर्शनाच्येति' पूर्वत्र दर्शनास्य मुक्तिहेतुतया पूर्वनये निर्णीतत्वेन प्रकृतत्वात्‌ तस्य भक्त्यादिसाध्यत्वमत्रोस्यत इति संगतिः। प्रकृतं दर्शनं किं भक्त्यादिना वना प्रदानोपेतश्रवणादिमात्रात्‌ भवति उत नेति चिन्ता। तदर्थं दर्शनहेतोपसनं भक्त्यादिना विजापि भवदपि फलपर्यवसायि उत नेति ।।पूर्वपक्षास्तु।। भकत्यादिना विना प्रदानयुक्तश्रवणादिमात्रादेव दर्शनं भविष्यति। 'सम्यग्लक्षणसम्पन्नः इत्यादि स्मृत्या गुहप्रसादसाध्यस्य कस्याप्यभावत्‌। न चोपासनमेव भक्त्यादिहीनस्य नेति युक्तम्‌। द्वेषेणापि तत्संभवात्‌। न च द्वेषयुतोपासनं न फलपर्यवसायीति युक्तम्‌। 'द्वेषाच्यैघादयो नृपा' इति सप्तमस्कन्धे द्वेषेणध्यायतामप मुक्तस्मणादिति।। सिद्धान्तस्तु।। दर्शनं न भक्त्यादिहीनात्प्रदानयुतोपासनाद्भवति। किन्त भक्त्याद्युपेतादेव। भक्त्यादिना विना भगवतोपयुपासनाय पुमर्थाहेतुत्वस्य
प्रत्युतानर्थहेतुत्वेन 'द्वेषाद्यन्मुक्तिकथनं श्रुतिवक्यविशेधि तत्‌' इत्युपक्रम्यानुव्याख्यानोक्तानेकमान सिद्धत्वेन फलपरयवसायि उपासनसय तु गुरुप्रसादसय च भक्त्यादिनैव सिद्धेरित्यस्य 'तथाप्यनादिसंसिद्ध भक्त्यादिगुणपूगतः। लभेद्गुरुप्रसादमि'त्याद (नारायणतन्त्र) सिद्धत्वात्‌। 'द्वेषाच्यैधादय' इत्यदेस्तु स्वाभाविकभक्तविषयतयोपपत्तेरिति। फलं तु भक्त्यर्थकपूर्वपादीयमाहात्म्योक्तिसाफलय समर्थनम्‌।। [इति न्या. मु. 171,172 पृ]


अनुगमनम्
अनुमनविषयेऽपि अनेक प्रमाणान्याह - "अङ्गिराः--
साध्वीनामेव नारीणामग्निप्रपतनादृते।
                               नान्यो धर्मो हि विज्ञेयो मृते भर्तरि कर्हिचित्‌'।
उपमन्युः--
'उनपत्या तु या नारी ब्राह्मणी यदि वेतरा।
                              तस्या नान्या गतिः प्रोक्ता सहानुगमनादृते'।
हारितः--
'मातृकं पैतृकं चैव यत्र कन्या प्रदीयते।
                               कुलत्रयं पुनात्येषा भर्तीरं यानुगच्छति।।
                               तिस्रः कोट्योऽर्धकोट्यश्च यावन्त्यङ्गरुहाणि च।
                               तावदब्दसहस्राणि स्वर्गलोके महीयत' इति।।
अङ्गिरा अपि -
'ब्रह्मध्नो वा कृतध्नो वा मातृध्नो वा भवेत्‌ पतिः।
                           पुनात्यविधवा नारी तमादाय मृता तु ये'ति।।
अनुगमने विशेष उक्तः संग्रहे--
 "धर्मोऽयं सर्वनारीणां पत्युश्चित्यधिरोहणम्‌।
                              अन्यत्र गर्भिणीबालापत्युक्ताभ्य एव चे"ति।।
यत्तु पैठीनसिवचनम्‌--
'मृतानुगमनं नास्ति ब्राह्मण्या ब्रह्मशासनात्‌।
                             इतरेषां तु वर्णानां स्त्रीधर्मो यः परः स्मृत' इति।।
विराट्‌--
'अनुवर्तेत जीवन्तं नान्वियान्मृतकं पतिम्‌।
                              जीवा भर्तृर्हितं कुर्यान्मरणादात्मघातकीति'।
अङ्गिराः--
'या स्त्री ब्राह्यणजातीया मृता पतिमनुव्रजेत्‌।
                            सा स्वर्गमात्मघातेन नात्मानं नापि तं नये'दिति।
व्याघ्रपादः--
'न म्रियेत समं भर्त्रा ब्राह्यणी शोकमोहिता।
                              प्रव्रज्यागतिमाप्नोति मरणादात्मघातिनी'ति।
                              इत्यादीनि वचनानि पृथक्‌ चित्यधिरोहणविषयाणि।।
तथोशनाः--
'पृथक्‌ चितिं समारुह्य न विप्रा गन्तुमर्हति।
                             अन्यासां चैव नारीणां स्त्रीधर्मोऽयं परः स्मृतः इति।।
                             तथा च ब्राह्मण्याः सहगमनं युक्तमेव।
यदुक्तमपरार्के--
'दयितं वान्यदेशस्थं मृतं श्रुत्वा पतिब्रता।
                              समारोहति दीप्ताग्नौ तस्याः शक्तिं निबोधत।।
                              यदि प्रविष्टो नरकं बद्धः पाशैः सुदारुणैः।
                              सम्प्राप्तो यातनास्थानं गृहीतो यमकिङ्करैः।।
                              विष्ठितो विवशे दीनो वेष्ट्यमानः स्वकर्मभिः।
                              व्यालग्राही यथा सर्पं बिलाद्गृह्णात्यशङ्कितः।।
                              सा तं भर्तारमादाय दिवं याति सती च या।
                              सा भर्तृपरमा स्वर्गे स्तूयमानाप्सरोगणैः।।
                              क्रीडते पर्तिना सार्धं यावदिन्द्राश्चतुर्दशे'ति।
                              एतत्पृथक्चितमरणं ब्राह्मणीव्यतिरिक्तविषयम्‌"।।
 [ स्मृ. मु. षोड. क. प्र. 89,90 पृ ]


अनुमरणे भर्तृसापिण्ड्यम्‌
अनुमरणे भर्त्रा सह सपिण्डीकरणं कार्यमित्याह---
अत्रिः---- 'दह्यमानं च भर्तारं दृष्ट्वा नारी पतिव्रता।
                अनुगछेतयोः श्राद्धं पृथगे कादशेऽहनि।।
                षोडशान्तं पृथक्कृत्वा सपिण्डं द्वादशेऽहनि।
                प्रेतत्वात्तु विमुक्तेन सह मातुः सपिण्डनम्‌'।।
एकादशेऽहनि जायापत्योः पृथग्वृषोत्सर्गं कृत्वा पृथक्‌ पाकेन पितुः सपिण्डीकरणं निर्वर्त्य, प्रेतत्वात्तु विमुक्तेन पितृत्वं प्राप्तेन पित्रा सह पश्चात्पाकेन मातुः सपिण्डीकरणं कुर्यादित्यर्थः। अनुमरणे भर्तृसापिण्ड्यं नित्यं। अनपत्यायाः स्त्रियो भर्तृसापिण्डयमेव। पुत्रवत्यास्तु भर्तृसापिण्ड्यं श्वश्र्‌वादसापण्ड्यं च कार्यम्‌ तदुक्तं
स्मृतिसंग्रहे---- "अपुत्रायाः स्त्रियः पिण्डं भर्त्रैकेन नियोजयेत्‌। पुत्रवत्याः स्त्रियः पिण्डं
श्वश्वादिषु नियोजये'दिति।।
वसिष्ठः---"पत्युश्चित्यां समारुह्य या नारी ज्वलनं गता। तस्याः पिण्डं तु तत्पुत्रः श्वश्र्वादिषु नियोजयेत्‌। स्त्रीपिण्डं भर्तृपिण्डेन संयोज्य विधिवत्पुनः। त्रेदा विभज्य तत्पिण्डं क्षिपेन्मात्रादिषु त्रिषु" इति।। अपुत्रविषये विशेषमाह
वसिष्ठः--- 'अनुयाते तु पतिना सपिण्डीकरणं सह। अन्तर्धा पुतृणां मध्ये भर्तृश्वशुरयोरपि'।। विष्णुः विशेषमाह--'या समारोपणं चित्यां भर्तारमनुगच्छति। द्वादशेऽहनि सम्प्राप्ते पृथक्पिण्डेन योजयेत्।। भर्तृः पित्रादिभिः कुर्याद्भर्त्रा पत्न्यास्तथैव च। सापत्या वानपत्या वा न भेद इति गोबिल' इति।। यपो विशेषमाह--'पत्या चैकेन कर्तव्यं सपिण्डीकरणं स्त्रियंः। सा मृतापि हि तेनैक्यं गता भर्त्रा पतिव्रते'ति। अत्र 'पत्या चैकेन' इति वचनेन 'पत्येति'पदं पित्रादिवर्गोपलक्षणामित्युक्तं स्मृतिसङ्ग्रहे।।
गालवोऽपि---'एकचित्यां समारूढैः दम्पती निधनं गतौ। एकोद्दिष्टं षोडशं च भर्तुरेकादशेऽहनि।। द्वादशेऽहनि सम्प्राप्ते पिण्डमेकं द्वयोः क्षिपेत्‌। पितामहादिपिण्डेषु तं पिण्डं विनियोजये'दिति।। अत्रैवं सपिण्डीकरणे दम्पत्योरेकं पिण्डं क्षिप्त्वा तं पिण्डं विनियोजये'दति।। अत्रैवं सपिण्डीकरणे द्म्पत्योरेकं पिण्डं क्षिप्त्वा तं पिण्डं त्रेधा विभज्य पितामहादिपिण्डेषु पूर्ववत्‌ संयोजयेत्‌। त्र पक्षान्तरमुक्तं
स्मृत्यन्तरे-- 'स्त्रीपिण्डं भर्तृपिण्डेन संयोज्य विधिवत्पुनः। द्वेधा विभज्य तं पिण्डं पुनस्त्रेधा विभज्य च।। षष्ठंशं परिक्लृप्तेषु तत्तद्वर्गेषु योजये'दिति।। व्युत्‌क्रमेण मृतानां पुनः सपिण्डीकरणमाह
कात्यायनः--- 'व्युत्‌क्रमेण मृतानां तु सापिण्ड्यमवशिष्यते। (गतिरत्र विशिष्यते)। अन्तर्गते मृते पश्चात्पुः कुर्यात्सपिण्डन'मिति।।
दक्षोऽपि---'पितामहादिजीवन्तमतिक्रम्य यदा सुतः। अतिक्रम्य द्वयोर्वापि सपिण्डीकरणं चरेत्‌।। उभयोः काल आपन्ने पुनः कुर्यात्सपिण्डन'मिति"।। इति।। [ स्मृ. मु. श्रा. प्र. 57 तः 59 पृ ]

अनुमानम्‌
?R निर्दोषोपपत्तिरनुमानम्। अत्रोपपत्तिशब्दस्य व्याप्यम्, युक्तिः, लिङ्गमिति पर्यायत्वमिति ज्ञेयम्। तदुक्तम् - "?Rउपपत्तिर्व्याप्यं युक्तिर्लिङ्गमिति पर्यायः।"?R इति (प्र.पद्ध. पृ.157)
"?Rलिङ्गं हेतुः इति (मि.अ.खं. पृ. 451)"
"?Rअनुमा युक्तिरेवोक्ता"?R (अनु. श्लो. 464, पृ. 83)
"?Rअनुमा निर्दोषयुक्तिरनुमा"?R ( स.मू.बृ.भा.269)
"?Rएतावत्येव वक्तव्ये युक्तिर्लिङ्गमित्युक्तिस्तु निर्दोषयुक्तिरनुमेति बृहद्भाष्येऽनुमा युक्तिरेवोक्तेत्यनुव्याख्याने लिङ्गं हेतुरिति मिथ्यात्वानुमानखण्डने च भगवत्पादोक्तेस्तत्तदविरोधायेति ज्ञेयम्। इति पदस्य प्रत्येकमन्वयः। तेन पर्यायमित्येकवचनं साधु।"?R इति। (प्र.पद्ध.राघ.पृ.159)
?R सुधा विरोधोऽपि नास्ति। तदुक्तम् - "?Rननु युक्तेः पर्यायत्वे अत्रानुमेति लक्ष्यं.युक्तिरिति लक्षणमिति सुधोक्तिविरोध इति चेन्न। व्यवहारस्य साध्यत्वेन न दोषः।"?R तदुक्तं - "?Rअत्रापि व्यवहार एव साध्यो नत्वनुमात्वं युक्तित्वं वा येनोक्तदोषस्स्यात् इति भाव"?R इति। (सु. 3 भागे पृ.2639)
?R "?Rउपपत्तिस्थाऽनुमा।
?R अनुमैत्वभावाख्यो ह्यर्थापत्त्युपमे तथा।
?R उपपत्तिभेद यत्तेऽपि .......।।"?R इति। (ब्रह्मतर्के बृ.भा. पृ.311)
?R एवमेव उपपत्तिरिति लिङ्गमुच्यते। साहचर्यबलेनार्भगमकं लिङ्गम्। निर्दोषग्रहणमनुमानाऽभासव्युदासार्थम्। व्याप्त्याद्यनुमानलक्षणरहितोऽनुमानवदवभासमानोऽनुमानाभासः। उपपत्तिग्रहणं प्रत्यक्षाऽदिव्यावृत्त्यर्थम्। उपपत्तिश्च यथार्थतो ज्ञातैवार्थं बोधयति। अन्यथाऽतिप्रसंगात्। इति। (प्र.ल.टी. पृ.34)
?R अनुमानविभागस्तु एवं दरीदवृश्यते। "?Rत्रिविधमनुमानम्। ?Rकार्यानुमानं कारणानुमानमकार्यकारणानुमानं चेति। तत्राद्यं यथा। धूमोऽग्नेः। द्वितीयं यथा। विशिष्टमेघोन्नतिर्वृष्टेः। इयांस्तु विशेषः। कार्यं कारणमात्रमनुमापयति। कारणं तु समग्रमेवकार्यमिति। तृतीयं यथा। रसो रूपस्येति। पुनर्द्विविधम्। दृष्टं, सामान्यतो दृष्टं चेति। तत्र प्रत्यक्षयोग्यार्थानुमापकं दृष्टम्। यथा धूमोऽग्नेः। प्रत्यक्षायोग्यार्थानुमापकं सामान्यतो दृष्टम्। यथा रूपादिज्ञानं चक्षुरादेः। यथा भूतयोर्व्याप्तिग्रहणं तथा भूतयोरेव लिङ्गलिङ्गिभावे दृष्टम्। यथा धूमाग्न्योः। व्याप्यव्यापकयोरन्यादृशत्वेऽपि तत्सामान्याकारानुगमेन यज्ञादेः स्वर्गादिफलानुमानम्। प्रेक्षावत्प्रवृत्तित्वफलवत्वसामान्यानुगमात्।"?R इति। (प्र.पद्ध. पृ.199)
?R "?Rपुनर्द्विविधम् साधनानुमानं दूषणानुमानं चेति। तत्राद्यं यथा। धूमप्रमित्याऽग्निप्रमितिसाधनम्। दूषणानुमानमपि द्वेधा। दुष्टिप्रमितिसाधनं तर्कश्चेति। तत्राद्यं यथा। नेदं स्वसाध्यसाधनसमर्थम्। प्रमाणबाधितत्वादित्यादि। कस्यचिद्धिर्मस्याङ्गीकारे अर्थान्तरस्यापादनं तर्कः।"?R इति। (प्र.पद्ध. पृ.203)



?R एवमेव परमतनिराकरणसन्दर्भे "?Rतदिदमसत् । ?Rव्यतिरेकव्याप्तेः प्रकृतसाध्यसिद्धावनुपयोगात्। न हि भावेन भावसाधनेऽभावस्याभावेन व्याप्तिरूपयुज्यते। व्याप्तिपक्षधर्मतयोर्वैय्यधिकरण्यं चैवं सति स्यात्। कथं तर्हि केवलव्यतिरेकिणः शास्त्रे संव्यहारः। इत्थम्। तत्रापि यत्प्राणादिमत्तत्सात्मकमित्येव व्याप्तिः। किन्तु व्याप्तिग्रहणस्थानस्यैव विप्रतिपत्तिविषयत्वप्राप्त्या सा दर्शयितुमशक्याऽभूत्। ततोऽनुमानेन तां साधयितुं व्यतिरेकव्याप्तिरुपन्यस्यते। प्राणादिमत्वादितिप्रयुक्ते कथमस्य व्याप्तिरित्याकाङ्क्षायां प्राणादिमत्वं सात्मकत्वेन व्याप्तम्। तदभावव्यापकाभावप्रतियोगित्वात्। यद्यदभावव्यापकाभावप्रतियोगि तत्तेन व्याप्तम्। यथा धूमवत्वमग्निमत्वेनेत्यस्यार्थस्य विवक्षितत्वात्। अन्वयव्यतिरेकिणि तु व्यतिरेकव्याप्तिरनुपयुक्तैव। विवक्षितव्याप्तेः प्रत्यक्षादिनैव सिद्धत्वात्। व्यभिचाराभावदर्शनमुखेन कथंचिदुपयुज्यते वेति।"?R इति (प्र.पद्ध. पृ.226)
?R एवमेव "?Rपुनरनुमानं द्विविधम्। स्वार्थं परार्थं चेति। तत्र परोपदेशमनपेक्ष्य यत्स्वयमेव व्याप्तिज्ञानतत्स्मरणसहितं लिङ्गज्ञानमुत्पद्यते तत्स्वार्थानुमानम्। यत्तु परोपदेशापेक्षमुत्पद्यते तत्परार्थानुमानम्। तज्जनकत्वात् परोपदेशोऽपि परार्थानुमितिं क्वचिदुपचर्यते।"?R इति (प्र.पद्ध. पृ.230)


अनुलोमजनः
अनुलोमजनविषये एवमस्ति "तत्रानुलोमजानाह देवलः---
'ब्राह्मण्यां ब्राह्मणाज्जातः संस्कृतो ब्राह्मणो भवेत्‌।
                          एवं क्षत्रियविट्‌शूद्रा ज्ञेयाः शूद्राः स्वयोनिजाः।।
                          ब्राह्मणात्‌ क्षत्रियायां स्याज्जातो मूर्धावसिक्तकः।
                          वैश्यायां ब्राह्मणाज्जातो ह्यम्बष्ठ इति कीर्तितः।।
                          शूद्रायां तु निषादः स्याज्जातः पारशवोऽपि वा।
                          ब्राह्मणात्‌ क्षत्रकन्यायां सवर्ण इति वा श्रुतः।।
                          ब्राह्मणाद्वैश्यकन्यायां दुष्यन्त इति वोच्यते।
                          क्षत्रियाद्वैश्य कन्यायां माहिष्योऽम्बष्ठ इत्यपि।।
                          क्षत्रियाच्छूद्रकन्यायां जातः स्यादुग्रनामकः।
                          वैश्यतः शूद्रकन्यायां जातोऽप्युग्र इतीर्यते।।
                          ब्राह्मण्यां ब्राह्मणाच्चौर्याज्जातो नक्षत्रजीवकः।
                          वैश्यायां ब्राह्मणाच्चौर्याज्जातः शूलिक उच्यते।।
                          शूद्रायां चौर्यतो विप्रान्निषादोजात उच्यते।
                          नृपायां क्षत्रियाज्जातश्चौर्याद्भोज इति स्मृतः।।
                          वैश्यायां वैश्यतश्चौर्यान्मणिकारश्च जायते।
                          शूद्रायां शूद्रतश्चौर्याज्जातो माणवको भवेत्‌'।
                          अत्र केचिदृषिभेदेन सञ्ज्ञाभेदा इति विरोधपरिहारः।।
विष्णुर्विशेषमाह - "समानवर्णासु पुत्राः समानवर्णा एव भवन्ति। अनुलोमजास्तु मातृसवर्णा" इति।। शङ्खोऽपि-- 'क्षत्रियायां ब्राह्मणेनोत्पन्नः क्षत्रिय एव भवति। क्षत्रियाद्वैश्यायां वैश्य एव भवति। वैश्येन शूद्रायां शूद्र एव भवती'ति।। अनयोर्वचनयोरन्यथा तात्पर्यं वर्णितं माधवीये - 'मूर्धावसिक्तत्वादीनि जात्यन्तराण्येव न मातृजातिगानि। सजातीयत्वप्रतिपादकमिदं वचनद्वयं मातृजात्युचितधर्मप्राप्त्यर्थकम्‌। अन्यथा बीजोत्कर्षवैयर्थ्यापत्तेः। क्षेत्रापकर्ष उत्कृष्टजातिनिवारकः। एवं बीजोत्कर्षो निकृष्टजातिं कुतो न निवारयतीति"।। इति
                                                 [ स्मृ. मु. षोड. क. प्र. 92,93 पृ ]


अनुषङ्गोवाक्यसमाप्तिः
"अनुषङ्गोवाक्यसमाप्तिः सर्वेषु तुल्ययोगित्वात्‌" इति सप्तदशेऽधिकरणे "या ते अग्नेऽयाशया तनूर्वर्षिष्ठा गह्वरेष्ठोग्रं वचो अपावधीं त्वेषं वचो अपावधीँस्वाहा। या ते अग्ने रजाशया या ते अग्ने हराशया" इति ज्योतिष्टोमे श्रुतं मन्त्रत्रयमुदाहृत्य, तत्रोत्तरयोः लौकिकः शेषोऽध्याहार्यः किं वा पूर्वमन्त्रान्तरपठितः "तनूर्वर्षिष्ठा" इत्यादिरनुषञ्जनीय इति संशये, समाम्नायेन पूर्वत्रैव निबद्धस्य शेषस्यान्यत्र नयनायोगात्‌, सकृदाम्नातस्य सर्वार्थत्वानुपपत्तेः, आनन्तर्यदेशविशेषाभ्यां विशेषग्रहणेन पूर्वशेषत्वावसायादनुषङ्गयोगे लौकिकस्य क्वाप्यनिबद्धत्वेन सर्वार्थत्वादध्याहार इति प्राप्ते, सर्वानन्तर्येण सकृत्पठितुमशक्यो बुद्धिविपरिवृत्तिमात्रेण साकाङ्क्षैः सर्वैस्सम्बन्धिसिद्धेः पुनःपुनरनाम्नातोऽयं शेषस्सर्वार्थेनैवाम्नात इत्यवगमादनुषङ्गो न लौलिकस्याध्याहार इति सिद्धान्तितम्‌। अत्र यथा "अच्छिद्रेण पवित्रेण" इत्यादेः पूर्वत्रानुषक्तसय "चित्पतिस्त्वा पुनातु" इति पवनक्रियायां पवित्ररूपकरणसमर्पकतया, "तनूर्वर्षिष्ठा" इत्यादिसूत्रेष्वोङ्कारस्यान्वयो वाच्य इत्यर्थः।

अनुकृतिः
"पूर्वत्र एष आत्मेत्येतच्छब्दस्यज्योतिःशब्दितब्रह्मपरामर्शितत्वेपि विधेयात्मापेक्षया पुंस्त्वं युक्तम्‌। इह तु तदेतदिति शब्दयोर्द्वयोः प्राक्तनेशपरत्वे क्लीबात्वमयुक्तमिति पूर्ववैषम्येण शङ्कनात्सगतिः काठके "तदेतदिति मन्यन्तेऽनिर्देश्यं परमं सुखं कथं नु तद्विजानीयां किमु भाति न भाति वा" इति (का. 2-2-12,14) श्रुतं ज्ञानार्थं प्रार्थितत्वरूपं आनुकूल्येन गृहमाणत्वं किं ज्ञानिसुखस्य उत विष्णोरिति सन्देहः। पूर्वपक्षस्तु।। "तद्विजानीया"मिति तच्छब्दस्य पूर्वोर्धोक्तसुखपरामर्शात्‌ तस्य च "तमात्मस्थं येऽनुपश्यन्ति धीरास्तेषां सुखं
शाखतं नेतरेषां" इति पूर्वत्र प्रकृतसन्निहितज्ञानिसुखपरामर्शितदेतच्छब्दबलेन प्रतयभिज्ञाज्ञापकसुखपदेन च ज्ञानिसुखत्वात्‌ "एको
वशी" (का-2-2-12) त्यादिना ईशस्य प्रकृतत्वेऽपि व्यवधानात्‌ द्वयोर्नपुंसकत्वायोगाच्च ज्ञानिसुखस्यैवेति।। सिद्धान्तस्तु।।" न तत्रसूर्यो भाती" ति "तमेव भान्तमनुभाति सर्वं" इति "तस्य भासा सर्वमिदं विभाती"ति (का-2-2-15) श्रुतानां सूर्याद्यप्रकाशत्व सूर्यादि प्रकाशनहेतुत्व सर्वजगत्प्रकाशकत्वानां लिंगानां "न तद्भसयते सूर्यः" (भ-गी-15-6)
"अहं तत्तेजो रश्मीत्‌" "यदादित्यगतं तेजः" (भ-गी-15-12) इत्यादि वचनैः ईशैकनिष्ठत्वात्‌। तत्रेत्यादेः सभिहित "तद्विजानीया" मित्येतत्परामर्शितत्वस्वारस्यात्‌ "तदेत" दित्यत्र ईशपरामर्शित्वेपि "यदनिर्देश्यं परमं सुखं कथन्नु तद्विजानीयां" इत्यानुकूलयेन गृह्णन्ति विज्ञानार्थं प्रार्थयन्त इति यावत्‌ तदनिर्देश्यं सुखं एतत्‌ प्रस्तुतात्मरूपं इति योजनायां तदेतच्छब्दयोरपि क्लीबतोपपत्तेः। चेतनश्चेतनानामिति ईशस्यापि सन्निधानेन प्रकृतत्वाधीशस्यैवेति।। फलं तु अनिर्देश्य मित्यादिनोक्तादृश्यत्वमुखेन अदृश्यत्वनयाक्षेपस्तत्समाधिश्च।। [ इति. न्या. मु. 36,37 पृ ]
अनेजत्‌
"अनेजन्निर्भयत्वात्रदेकं प्राधान्यतस्तथा" इति। [ ई. भा. 16 पृ ]
तत्रैव व्याख्याने "एवं निवृत्तकर्मणा विशुद्धाशयस्यैहिकामस्मिकाशेषवषयेभ्यो व्यावत्तस्येश्वरतत्त्वबुभुत्सावतः कोऽसावात्मा यद्वि परीतोपासनमसुर्यलोकप्रप्तिसाधनं स्यादित्यपेक्षायां परमात्मत्वोपदेशः क्रियतेअनेजदित्यादिना।। तत्राऽद्यं मन्त्रमन्यथा प्रतीति निरासाय स्मृत्यैव व्याचष्टे - अनेजदिति।। तत्‌ परमात्मस्वरूपं निर्भयत्वादेवा नेजात्‌ अकम्पमानम्‌। न तु निष्क्रियत्वात्‌"। इति [ई.भा.टी.16-17पृ]

अनेकांशत्वम्‌
सिद्धान्ते परमाणोरनेकाशंत्वामंगीक्रियते। सुधायां चेवमुक्तम्‌।
"अस्ति तावत् परमाणोः परमाण्वन्वन्तरसंयोगः। अनयथा द्य्वणुकाद्यारंभानुपपत्तेः। न चैकेनैवेति नियमः। कारणाकारणसंयोगजसंयोगप्रक्रियायामेकैकस्य परमाणोः सजातीयविजातीयपरमाणुद्वयेन युगपत्संयोगस्योररीकृतत्वात्‌। पायाणादिमध्यवर्तिनः परमाणोः परितोऽवस्थितैः परमाणुभिः संयोगाभावद्यनुपपत्तेश्च। न च मूर्तानां युगपदेकदेशावस्थानं संभवति। प्रदेशवर्तिनश्च संयोगाः। साक्षिसिद्धत्वात्। घटादौ तर्द्द नेन च परमाणौ(णावप्य) तदनुमानाचच्। तथा च यद परमाणुरनेकांशो न स्यात्‌, तदा युगपदनेकैर्न संयुज्यतेति।
ननु संयोगस्य प्रदेशवृत्तित्वं नाम स्वात्यन्ताभावसमानदेशत्वमेव। न तु घटसंयोगो घटावयवे र्व्तत इति। तत्कथं भागाभावे संयोगानुपपत्तिरिति। मैवम्। प्रत्यक्षादिसिद्धस्य अवयववृत्तित्वस्य परित्यागेनाप्रामाणिकव्यहताङ्गीकारस्यानुचितत्वात्‌। व्याहताङ्गीककारस्यानुचितत्वात्।।" इति।। [ सु. IV भागे 3459 पृ ]



अन्तरः
"अत्र चक्षुरंतरस्थस्याभयस्यान्यत्वे प्राचीनोप्यभयत्वेक्तोन्यं स्यादिति पूर्वोक्ताक्षेपात्संगतिः। छान्दोग्ये चुतुर्थेऽध्याये "य एषोन्तराक्षिणि पुरुषो दृश्यते एष आत्मेति होवाच एतदमृतमभयमेतद्ब्रह्मेति" श्रुतोक्ष्यन्तरस्थ आत्मा किमग्निस्थ विष्णुरिति संदेहः । अग्निरिति पूर्वपक्षः । य एष आदित्ये पुरुषः सोहमास्मि स एवाहमास्मि इति गार्हपत्याखाग्निना स्वात्मनः आदित्यस्थत्वोक्तेरादित्याश्चक्षुत्वेत्यादिश्रुत्या अक्ष्यादित्यमोरेकदैवत्यत्वात् अथहाग्नयः सूदिर इत्यग्निश्रुतिबाहुल्याच्च । न च " स यश्चायं पुरुषे यश्चासावादित्ये स एक" इत्यादि समाख्याबलादग्निप्रयुक्तोऽहं शब्दः तत्स्थविष्णुपर इति वाच्यम् । सोहमस्मि स
एवाहमस्मीत्यभ्यासेन समाख्याबाधात् । अपहते पापकृत्यां उपवलयन्तं भुंजाम इत्याद्यर्थवादबलेनात्येलौकिकविष्णुग्रहणे अपूर्वत्वमित्यस्यापि बाधादिति ।। सिद्धान्तस्तु ।। अतदमृतमित्यादिनोक्तामृतत्वादेः परिमियंते विद्युत् वृष्टिश्चन्द्रमा आदित्योऽग्निः, भयादग्निस्तपतीत्यादिना मृत्यादिमत्यग्नावयोगात् । ब्रह्मात्मशब्दयोर्विष्णोरन्यत्रानवकाशात् तद्यदस्मिन् सपिर्वोदकं वा सिंचति वात्मनी एव गच्छदीत्युक्ताक्षणोऽसंगत्वापादकत्वसंयद्वामत्वादिलिंगात् कं ब्रह्म खं ब्रह्मेत्युक्तब्रह्मप्रकरणात् स एनान् ब्रह्मगमयति इत्युपसंहारे श्रुतौतद्विधानां ब्रह्मगत्याख्यलिंगश्रवणेन प्रकरणविच्छेदायोगादग्निप्रयुक्ताहंशब्दस्य च
पादान्त्य प्राणान्यायेन अन्तरर्यामिपरत्वेन अभ्यासार्थवादयोरपि तन्निष्ठत्वात् अग्नेरपि जीवत्वेन प्रेरकजीवानान्तरापेक्षायामन्वस्थापत्तेश्च स्वतन्त्रो विष्णिरेवाक्षिस्थ इति । फले तु अयमक्षिस्थो विष्णोरन्यश्चेत् । तस्यैवादित्यस्थत्वात् यश्चासावादित्य इत्युक्तेऽपि स
एवेत्यानन्दमयोप्यन्य इति तदाक्षेपसमाधी ।।
                                                         ( इति न्या. मु. 24, 25 पृ )
एवमेव "अन्तस्थो देवतानां च न विदुर्यं च देवताः।
                प्रविष्टत्वाद्‌ देवतास्थः सोऽन्तरः स्ववशत्वतः।।
बाह्यापेक्षां विना यस्तु रमते सोऽन्तरः स्मृतः।
अतिप्रियत्वाच्च हरेरन्तरत्वमुदाहृदतम्‌।।
                                                        इति ब्रह्मतर्के" इति।। [ बृ. भा. 385 पृ ]
तत्रैव व्याख्याने "न केवलं तद्वशत्वगुणयोगेन पृथिव्याददेवतानां विष्णुशरीरत्वं किं तु तत्प्रविष्टत्वलक्षणगुणयोगेनापीतिभावेनाह।। अन्तस्थ इति।। योदेवानामन्तस्थश्च नन्वेवं पृथिव्यादिदेवताऽविदितत्वादिकंप्रकृतेस्तत्रजीवस्यवोपपद्यत इति भावेन यं पृथिवी न वेद यमापो न विदुरित्यादि वाक्यं तावद्‌ व्याचष्टे।। न विदुरिति।। यः पृथिव्यां तिष्ठन्‌ योप्सु तिष्ठन्नित्यादेरर्थमाह।। प्रविष्टत्वादिति।। यः पृथिवीमन्तरो यमयति इत्याद्यन्तरशब्दं व्याचष्टे।। सोन्त र इति। अन्तरशब्देन स्ववशत्वं कथं लब्धमित्यत अन्तरशब्दार्थमाह।। बाह्मेति।। अन्तरेवरमत इत्यन्तरः। अन्तरेवेत्यस्यार्थः बाह्यापेक्षं विनेति।। स्वभिन्नापेक्षां विनेत्यर्थः। तस्यैव अर्थान्तरमाह।। अतिप्रियत्वाच्चेति।। अन्तः स्थित्वा रमयतीति अन्तर इति भावः।" इति।। [बृ. भा. भा. 385 पृ ]

अन्तरिक्षम्‌

"ईक्षणादन्तरिक्षं च.........।।। इति [ तै. भा. 405 पृ ]
एवं "प्रलयेऽपि भगवदन्तरेव रता अक्षितावस्थितेति श्रीरन्तरिक्षम्‌।" इति।। [ बृ. भा. 289 पृ ]
तत्रैव व्याख्याने "नन्वेवं वायुरन्तरिक्षंचामूर्तमिति अन्तरिक्षशब्दोक्ताकाशस्य कथमित्येतत्‌ विशेषणमित्यतो अत्रान्तरिक्षशब्देन रमैवोच्यत इति भावेन तं शब्दं तत्र निर्वक्ति। प्रलयेपीति। न केवलमिदानीं भगवतारता। किन्तु प्रलयेपि भगवद्वन्तरेव प्रलयेपत्येतदक्षितेत्यत्रापि संबध्यते। अन्तशब्दोपपदाद्रमतेर्डिप्रत्ययेक्षिनिवासगत्योरत्यस्माड्डप्रत्ययेचान्तरिक्षमिति रूपसिद्धिरिति भावः।। अन्तशब्दोपपदात्‌ रमतेर्डप्रत्यये प्रत्ययाकारलोपे अन्तर्‌ न विद्यतेक्षं क्षयो यस्य तत्‌ अक्षं। तृतीयोतशये इत्यकारस्येकारे इक्षं अन्तर च इक्षंचेति अन्तरिक्षमिति वा बोध्यम्‌।। इति।। [ बृ.भा.भा. 289-290 पृ ]
एवमेव ".................त्वन्तरक्षं हरः स्मृतः।
स्वान्तर्गतं यतः सर्वविच्छया क्षपयेदसौ।।
इति समसंहितायां" इति [ बृ. भा. 387 पृ ]
व्याख्याने "हरे अन्तरिक्षशब्दं निर्वक्ति।। स्वान्तर्गतमिति। क्लृप्तेत शेष। अन्तरित्यस्यार्थः स्वान्तर्गतमिति। इहस्यस्यार्थः इच्छयेति। क्ष इत्यस्यार्थः क्षपयेदिति।।" इति।। [ बृ. भा. भा. 387 पृ ]
एवं तत्रैव बृहद्भाष्ये ".............सूत्रात्मा वायुरुच्यते।
श्रद्धा नामैव तत्पत्नी सर्वसयान्तर्निरीक्षणात्‌ अन्तरिक्षमितिप्रोक्ता..........।।" इति।। [ बृ.भा. 426 पृ ]
"अन्तरेवेक्षणाच्चैव सोऽन्तरिक्षोऽन्तरिक्षगः। इत्याद्यृग्वेदसंहितायाम्‌" इति [ ऐ. भा. 229 पृ ]
एवमेव तत्रैव "...........सोऽन्तरिक्षाभिधोऽत्रगः अन्तरिक्षो यतो.........।।" इति।। [ऐ.भा. 166 पृ ]
एवं "अन्तरिक्षेऽन्तरिक्षाख्यो यतः साध्वन्तरीक्षते।" इति [ छा.भा. 235 पृ ]
(अन्तः ईक्षते इति अन्तरिक्षम्‌)
...............अन्तरीक्षणयोगतः।
अभावाद् व्यवद्यानस्य त्वन्तरिक्षमितीर्यते।। इति।। [ छा. भा. 88 पृ ]
तत्रैवण्याख्याने "अन्तरीक्षणयोगत अन्तरिक्षमितीर्यत इति सम्बन्धः। अन्तरीक्षणं किं परोक्षेण नेत्युक्तम्‌। अभावाद्‌ व्यवधानस्येति।" इति [ छा. भा. प कौ. 88 पृ ]
एवं तत्रैव "सोऽन्तरिक्षमिति प्रोक्तः स्वान्तः सम्यग हरिक्षणात्‌।
अन्तरिक्षस्थितश्चासौ..............।। इति सासंहितायाम्‌" इत [ छां भा. 169 पृ ]
एवमन्यत्रापि "सब्रावाण्यन्तरिक्षगः।। इति [ क. भा. 119 पृ ]


अन्तर्यामी
"स्यूतं जगदिदं यस्मिन्‌ सूत्रं वायुरसौ स्मृतः। तच्चापि यमयेद्‌ यस्माद्‌ अन्तर्यामी हरिः स्मृतः।।
स्वतन्त्रः सन्‌ नियन्ताऽसावन्तर्यामी ततः स्मृतः देवतानां स्वभावोऽपि स्वरूपमपि सर्वदा। तदधीनं ततो यस्मि वासुदेवः प्रकीर्तितः। स्वभावसत्तादातृत्वं यन्तृत्वमिति कथ्यते।। इति ब्रह्मातके"।। इति।। [ बृ.भा.386पृ]
तत्रैवव्याख्यानेऽपि - इदानीमन्तरयामन्तर्यामिशब्दार्थस्य विष्णावेव सम्भवात्‌ प्रकृत्यादावसंभवाच्च विष्णुरेवान्तर्यमीति भावेनान्तर्यामिशब्दार्थमाह - स्वतन्त्र इति। ततः तस्मादिति तच्छब्दश्रवणात्‌ यत्‌ यस्मिन्नित्यपि ग्राह्यं। अन्तरेवयामीत्यन्तर्यामी। तत्रांतरेवेत्यस्य तात्पर्यं स्वतन्त्र इति। यामीत्यस्यार्थो नियन्तेति ननु यामित्यस्य कथं नियन्तेति व्याख्यानं तयोरेकार्थत्वाप्ततीतेरित्यतस्तयोरेकार्थत्वसिध्यर्थं तदुभयशब्दार्थवाह।। देवतातानामिति। स्वभावो धर्मः। यत इति श्रवणादत इति ग्राह्यम्‌।" इति। [ बृ. भा. भा. 386 पृ ]

अन्तःस्थः
"अदृश्येऽनात्म्य इति श्रुतस्यानन्दमयधर्मस्यादृश्यत्वस्य अन्तस्थे श्रवणात्तस्य चाविष्णुत्वात्सोऽपि न विष्णुरिति मनसा चरन्तम् । सहैव सन्तं न विजानन्ति देवा तैत्तिरीये अदृश्यत्वादिगुणयुक्तोऽन्तस्थः श्रुतः । देवा अपि न जानन्ति किमन्वय इति कैमुत्यलब्धत्वाददृश्यत्वस्य सोऽन्तस्थः किं विष्णुरन्त इन्द्रादिरन्य इति
सन्देहः । इन्द्रादिरिति पूर्वः पक्षः । इन्द्रो राजा ब्रह्मेन्द्रमग्निमित्यादि इन्द्रश्रुतेः । सप्तियुञ्जन्ति रथमेकचक्रमिति सूर्यलिङ्गात् अपां नेतारमिति परुमलिङ्गा त्वष्टारं रूपाणि विकुर्वन्तमिति त्वष्टृश्रुतेः । अदृश्यत्वादि विष्णुलिङ्गानां निरूढेन्द्रादिश्रुतिलिङ्गेभ्यो दुर्बलत्वात् । विष्णुलिङ्गानां बहुत्वेपि श्रुतेः स्वभावप्रयुक्त प्राबन्यस्य बलवत्वा "त्तयोः स्वभावो बलवा" नित्युक्तेः निरवकाशत्वेन लिङ्गानामपि बलीयस्त्वे तदुत्तरश्रुतिलिङ्गोभयानुरोधेन इन्द्रादेर्विष्णैक्यमस्तु । तावतापि विष्णुलिङ्गानामनुपहितरूपाभिप्रायेणोपपत्या कल्पितभेद इन्द्रादिरेवान्तस्थ इति । सिद्धान्तस्तु ।। अन्तः समुद्रे मनसा चरन्तं यस्याण्डकोशं शुष्ममाहुः ब्रह्मान्वविन्ददृशहोतारमर्ण इति श्रुतसमुद्रस्थत्वब्रह्माण्डवीर्यत्वादि लिङ्गानां भाष्योक्तश्रुत्यादिनाऽनवकाशत्वात् इन्द्रस्यात्मा वायोरात्मानं अन्तरादित्य इत्यादिना अस्मिन्नेव प्रकरणे अन्तस्थस्येन्द्रादिभिर्भेदव्यापदेशेनैक्यायोगाच्च इन्द्रादिशब्दानामैश्वर्यादिप्रवृत्तिनिमित्तस्य विष्णावपि सत्वादन्यगतस्य तदधीनत्वेन तदधीनत्वन्यायाच्च । महायोगेन इन्द्रं मित्रं वरुणमग्निमाहुरित्यादिश्रुत्या विद्वद्ररूड्या च सप्ताश्वत्वाद्यन्यलिङ्गानां च शास्त्रदृश्टेतिन्यायेन विष्णावपि वृत्तिसम्भवेनान्तस्थो विष्णुरिति । फले तु पूर्वाक्षेपसमाधी ।।"
                                                   (इति न्या.मु.13,14 पृष्टयोः )
अनङ्गत्रयोदशी
अनङ्गत्रयोदशीविषये एवमुक्तम्‌। "अनङ्गत्रयोदशी तु पूर्वविद्धा ग्राह्येत्याह संवर्तः----
कृष्णाष्टमी फलाषष्ठी सावित्री वटपैतृकी।
         अनङ्गत्रयोदशी रम्भा उपोष्याः पूर्वसंयुताः।। इति।
                             मार्गशीर्षशुद्धत्रयोदशी अनङ्गत्रयोदशी।
'मार्गशीर्षेऽमले पक्ष' इत्युपक्रम्य व्रतं विधाय, 'अनङ्गेन कृता ह्येषा तेनानङ्गत्रयोदशी' त्युपसंहारस्य भविष्यत्पुराणे दर्शितत्वात्‌। यद्यप्यमले पक्ष इति शुक्लपक्ष एव व्रतं विहितम्‌। तथाच 'त्रयोदशी प्रकर्तव्या द्वादशीसहिता नृपे'त्यानेन सामान्यशास्त्रेणैवानङ्गत्रयोदश्याः पूर्वविद्धाया ग्राह्यत्वं प्राप्तं, तथापि तदेवानेन विशेषशास्त्रेण स्पष्टीक्रियत इत्युक्तं माधवाचार्यैः"।। इति [ स्मृ. मु. का. नि. प्र. 116 पृ ]


अन्नत्यागः
"दत्वान्नं पृथिवीपात्रमिति पात्राभिमन्त्रणम्‌। कृत्वेदं विष्णुरित्यन्ने द्विजाङ्गुष्ठं निवेदयेत्‌'।। तत्र विशेषः--'सदर्भो दर्भसंछन्नं
स्पृशेत्साङ्गुष्ठपाणिना'। द्विजाङ्गुष्ठग्रहणं कर्तव्यमित्याह यमः--- 'अङ्गुष्ठमात्रो भगवान्विष्णुः पर्यटते महीम्। राक्षसानां वधार्थाय कोऽन्यस्तान्प्रहरिष्यति।। तस्माच्छ्रद्धेषु सर्वेषु अङ्गुष्ठग्रहणं स्मृत'मिति।। तथा 'अमन्त्रेष्वाज्यमानीय हुतशेषं हवींषि च। दत्वोपस्पर्शयेत्तानि द्विजो मन्त्रान्स्वयं वदेत्‌।। विष्णो हव्यं च कव्यं च ब्रूयाद्रक्षेति च क्रमात्‌'। तत्र मन्त्राः--- 'पृथिवी त इदं विष्णुरित्येद्वैश्वदेविकं। पृथिवी त अतोदेवा इत्येतावितरत्र तु'।। अथानन्तरकृत्यम्‌ 'पात्रालम्भं ततः कृत्वा इदं वोऽन्नमितीरयेत्‌। ध्यायेदावाहनीयार्थें ब्राह्मणान्देवताः पितृन्‌।। अन्नमप्यमृतत्वेन हरिं च श्राद्धरक्षकम्‌। विश्वेदेवेभ्यः स्वाहेति प्राङ्मुखेभ्योऽन्नमर्पयेत्‌'।। अत्र पितृविषये विशेषः-- 'सम्बन्धनामगोत्रेण पितृभ्यस्तु स्वधा नमः। उदङ्मुखेभ्यो विप्रेभ्यो दद्यादुदकपूर्वक'मिति।। तत्र विशेषः-- 'हस्तेन मुक्तमन्नाद्यमिदमन्नं निवेदयेत्‌। हस्तेनोदकयुक्तेन स्वसत्ताविनिवर्तनम्‌'।। पितृणां तु विशेषमाह स एव--- 'गोत्रसम्बन्धानामाद्यैः स्वसत्ताविनिर्वतन'मिति।। तथा 'गोत्रसम्बन्धनामानि इदमन्नं ततः स्वधा। पितृक्रमादुदीर्येति स्वसत्तां विनिवर्तये'दिति।। अयमर्थः, विश्वेभ्यो देवेभ्य इति देवतोद्देश शब्दोच्चारणानन्तरं इदमन्नमित्युच्चारयेत्‌। ततः स्वाहेति मन्त्रमुच्चारयेत्‌।। ततो न ममेति स्वसत्तापरित्यागं कुर्यात्‌। ततः पित्रादिकरमात्‌ सम्बन्धगोत्रनामोच्चारणपूर्वकं देवतोद्देशं कृत्वा इदमन्नमिति द्रव्यं विनिर्देश्य स्वधेति कव्यदानप्रकाशनमन्त्रमुच्चार्य न ममेति स्वत्वपरित्यागं कुर्यात्‌। तत्र विशेषः-- 'अन्नं च त्यक्तकाले वा करे विप्रस्य दक्षिणे। विसृजेदुदकं दर्भांस्तिलांश्च पितृकर्मणी'ति।। अपसव्येन पित्रर्थे देवार्थे सव्यतस्त्यजेत्‌। तत्र वैश्वदैविकब्राह्मणानेकत्वे तत्तद्भाजने परिविष्टमन्नं त्यजेत्‌। पैतृकब्राह्मणानेकत्वे च तत्तद्भाजने परिशिष्टमन्नमेव पृथक्पृथक्‌ त्यजेत्‌। यदा पित्रादीनां सर्वेषामेक एव ब्राह्मणस्तत्र कात्यायनः--'पित्रादीनां तु सर्वेषामेक एव द्विजो भवेत्‌।। अन्नं विभज्य पात्रस्थं मनसा तु परित्यजेत्‌।। पिण्डदानं ततः कुर्यादर्ध्यमाच्छादनादिक'मिति।। यदा तत्राप्यशक्त्या सर्वत्रैक एव ब्राह्मणः। तत्र दैवे विशेषः---'एकं चेद्भोजयेच्छ्राद्धे दैवं तत्र कथं भवेत्‌। अन्नं प्त्रे समुद्धृत्य सर्वमन्नं विनिक्षिपेत्‌।। देवतायतने दत्वा ततः श्राद्धं प्रकल्पयेत्‌। प्रास्येदन्नं तदग्नौ च दद्याद्वा ब्रह्मचरिण' इति।। सर्वात्मना द्विजाभावे तत्र विशेषः--'भोक्त्रभावे तु पित्रादेः पित्रावाहनमन्त्रतः। पात्रेऽन्नादीन्समर्प्याथ जलेष्वेवमथार्पयेत्‌'।। अन्नत्यागात्पूर्वं तत्स्पर्शने दोषः-- 'अदत्तमन्नं विप्रस्तु पाणिना स्पृशते यदि। त्रयस्ते नरकं यान्ति दाता भोक्ता तथा पिता'।। उद्देशानन्तरं तत्पात्रग्रहणं कर्तव्यम्‌। 'यावदन्नमनुद्दिष्टं तावत्पात्रं न धारयेत्‌।। उद्दिष्टं न त्यजेत्पात्रं राक्षसं हविरुच्यत'इति।। पात्रग्रहणेऽङ्गुलिभेदः। 'अङ्गुष्टं तर्जनी चैव मध्यमा च तृतीयका। तिस्रो ह्यङ्गुलयश्चैव प्रशस्ताः पात्रधारणे'।। उन्नत्यागानन्तरं ये चेह पितर इति देवताभ्यश्चेति सप्तव्याधा इति अमूर्तानामिति चतुर्भिश्च चतुर्भिश्चेति ब्रह्मार्पणमिति च जपेत्‌। ततः देशकालादिन्यूनातिरिक्तमच्छद्रमस्त्विति भवन्तो ब्रुवन्त्विति प्रार्थने अच्छिद्रमस्त्विति ब्राह्मण ब्रूयुः। अच्छिद्रभाषणं चापोशनात्पूर्वमेव न तु तदानीम्‌। 'आपोशनकराग्राणामच्छिद्रस्य तु भाषणात्‌। निराशाः पितरो यान्ति देवैः सह न संशयः'।। अथ तिथिवारानुक्त्वाऽक्षय्यां तृप्तिं संप्रार्थ्य एकोविष्णुरित्यभिधाय अनेन श्राद्धकर्मणा पित्रन्तर्यामी श्रीलक्ष्मीजनार्दनः प्रीयतामिति स्वकृतं विष्णवेऽर्पयेत्‌।। तत्र प्रमाणम्‌, यत्करोषि यदश्नासि। तपस्विनो दानपरा इति च भागवतादौ। अथ ब्राह्मणानां तीर्थप्रसादादिकं दातव्यमित्यत्र, 'तीर्थप्रसादौ दातव्यौ पितृणां च विशेषतः। अन्यथा व्यर्थमेव स्यान्मोघमन्नमिति श्रुते' रिति।। तथा हारीतः--'हर्यर्पितं च यच्चान्नं तीर्थ वा पितृकर्मणि। दद्यत्पितृणां तच्छ्राद्धं गयाश्राद्धायुतं भवेत्‌।। तथान्यत्र--'तीर्थं वा तुलसीपत्रं यो दद्यात्पितृदेवताः। आकल्पकोटिपितरः परितृष्यन्त्यसंशयम्‌।। तथान्यत्र---'हर्यर्पितं च यच्चान्नं यच्च पादोदकं हरेः। तुलसीं वा पितृणां च दत्वा श्राद्धायुतं लभे'दिति।। तददाने दोषः--'न ददाति हि यो विप्रः पितृणां श्राद्धकर्मणि। त्वद्भुक्तमन्नं तीर्थं च तत्सर्वं निष्फलं भवेत्‌'।। तद्धारणे फलं नारदीये---'यदैव पतितं मूर्ध्नि विष्णुपदोदकं नृणाम्‌। तदैव पितरस्तेषां नृत्यन्ति प्रपितामहाः'।। तथा प्राशनफलम्‌। 'असता
कत्थनं हिंसामभक्ष्याणां च भक्षणम्‌।। सालग्रामजलं पीतं सर्वं दहति तत्क्षणादित्यादि"।। [ स्मृ. मु. श्रा. प्र. 107 तः 109 पृ ]


अन्नप्राशनम्‌
अन्नप्राशनविषये एवं स्मृतिमुक्तावल्यां प्रतपादितम्‌" अथ काला निरूप्यन्ते अन्नप्राशनकर्मणः।
षष्ठे वाप्यष्टमे मासि पूर्णे संवत्सरेऽपि वा।।
                            यथाशास्त्रं च कर्तव्यमन्नप्राशनकर्म हि।
अत्र यमः--
'ततोऽन्नप्राशनं कार्यं षष्ठे मासि यथाविधि।
                             अष्टमे वाथ कर्तव्यं यदिष्टं मङ्गलं कुल' इति।।
शङ्खः -
'संवत्सरात्‌ प्रक् संवत्सर इत्येक' इति।।
गर्गो विशेषमवददन्नप्राशनकर्मणि---
 "अन्नस्य प्राशनं कार्यं जातेषु दशनेषु च"ति।
अत्रापि यथास्वगृह्यं व्यवस्था। प्राशनस्य प्रकारं च मार्कण्डेयोऽब्रवीन्मुनिः---
देवतापुरतस्तस्य धात्र्युत्सङ्गतस्य च।
                               अलंकृतस्य दातव्यमन्नं पात्रेऽथ काञ्चने।।
                               मध्वाज्यकनकोपेतं प्राशयेत्पायसं तु तत्‌।
                               कृताशनमथोत्सङ्गाद्धात्री बालं समुत्सृजेत्' इति।।
                               नक्षत्राण्याह गर्गस्तु प्रशस्तान्यन्नभोजने।
                               'दशमस्था ग्रहास्सर्वे नेष्टाश्चन्द्रो विशेषतः।
                               बालान्नभोजने नेष्टः शुभयुक्तोऽपि वृश्चिकः।।
                               मीनमेषौ शुभयुतौ शस्तावन्ये बलाधिकाः।
                               प्रशस्ततिथितारादिगुणमत्रैव शोधयेत्‌' इति।।
अन्नप्राशनानन्तरं बालस्य जीविकापरीक्षामाह मार्कण्डेयः---
'तस्याग्रतोऽथ विन्यस्य शिल्पभाण्डानि सर्वशः।
                           शस्त्राणि चैव वस्त्रणि ततः पश्येत्तु लक्षणम्‌।।
                           प्रथमं यत्‌ स्पृशेद्बालस्ततो भाण्डं स्वयं तथा।
                           जीविका तसय बालस्य तेनाव तु भविष्यती"।। इति ।।
                                                    [ स्मृ. मु. षोड. क. प्र. 15 पृ ]


अन्नमयः
"प्रचुरं मम इत्युक्तं प्रचुरात्ता यतो हरिः।
प्रचुरैः सेव्यते नित्यमतोऽन्नमय ईरितः।।" ।। इति ।। [ तै. भा. 425 पृ ]
तत्र व्याख्याने "येऽन्नमयं ब्रह्मोपासते ते सर्वमन्नमयनामानं भगवन्तं प्राप्नुवन्ति। मुक्तावपेक्षितसकलान्नं प्राप्नवन्तीति ध्वनिः। अन्नमय इत्यादावुच्यमानमन्नं न प्राकृतान्नं येनाब्रह्मविद्यात्वं स्यात्‌, किन्तु सर्वोपजीव्यः सकलसंहर्ता भगवाने नान्नशेब्देनच्यत इति स्वाभिप्रायं श्रुतिः स्वयमेवोद्धाटयति अद्यतेऽत्ति चेति।।" इति।। [तै.भा.प्रका. 426 पृ ] प्रचुरं प्राचुर्यम्‌। तादात्म्यार्थे विकारार्थे प्रायुर्यार्थे मयट त्रिधा।' इति वचनात्‌। अन्नमयो यज्ञ इत्यादौ मयटः प्रचुर्ये प्रयोगदर्शनाच्चेति भावः। यर्थोक्तम्‌ 'विकारशब्दाभेति चेन्न प्राचुर्यात्‌' इति
ननुकथमत्रान्नमयशब्दोऽन्नप्राचुर्यार्थः।
अन्नप्राचुर्यकथनस्यालपत्वादित्यत आह।
प्रचुरात्तेति। इदमुपलक्षणम्‌। प्रचुराद्य इत्यपि ग्राह्यम्‌। तथा च प्रचुरात्ता पूर्णाता।
प्रधानेत्तेति यावत्‌। एवं प्रचुराद्यः प्रचुरोपजीव्यश्चेत्यन्नमय इत्यर्थः।
प्रचुरैरिति।। हरिरिति वर्तते। अन्नशब्दवाथ्यो हरिर्यतो मयैः प्रचुरैः बहुभिः सेव्यत अतो मेयसेव्यान्न इति भाष्ये मध्यपपदलोपेन मय मशब्दस्य परनिपातेर्नचान्नमय इतीरित इतयर्थः। इति। [ तै. श्री. भाष्यार्थः 32 पृ ]

अन्नम्‌
".................तस्मादन्नदेवोऽनिरुद्धकः।
अन्ननामानुनादित्वात्‌ ............।।"इति।।
तत्रैव व्याख्याने "अन्नंवाव बलाद्भूय इत्येतव्द्याधष्टे।। तस्मादिति।। अन्नदेव इत्यन्नशब्देपपत्तिः। अनुनादित्वात्‌ युद्धदौ शतृभीषकशब्दवत्वादित्यर्थः।" इति। [ छा. भा. प. कौ. 419 पृ ]
एवमेव "अन्नं त्रानरसान्नं च ब्राह्ममन्नमिति द्विधा।
ज्ञानानां ज्ञानबलतः श्रष्टं ज्ञानार्तिर्हि तत्‌।।
यद्‌ बाह्यं तु बलं तस्मात्‌ बाह्यमन्नंविशिष्यते।।" इति [ छा. भा. 431]
तत्र व्याख्याने "बाह्यं बलप्रत्येवान्नस्य कारणत्वेन भूयस्त्वसम्भवेपि ज्ञानफलं प्रत्यनुपपत्तेरित्यत अभमिति।।" इति [ छा. भा. प. कौ 431पृ ]
"अन्नमतऽत्वतो नित्यं .........।। तत्वसंहितायांम्‌" इति [ छा. भा. 277 पृ ]
एव "अत्ता रूद्रस्तद्विरोधाद दक्षः स्यादन्ननामकः इति ब्रह्मतर्के" इति [ छा. भा. 67पृ ]
व्याख्याने च " दक्ष अद्यत इत्यन्ननामकः स्यात्‌ को दक्षात्तेत्यत उक्तं अत्तारूद्र इति। तथापि दक्षस्य तदद्यत्वं कुत इत्यत उक्तं विरोधादिति। रूद्रविरोधादित्यर्थः।।" इति।। [ छा. भा. प. कौ. 67 पृ ]
एवं "अन्ने स्थित्वा तृप्तिदत्वं तस्याद्यत्वमपीष्यते।" इति [ ऐ. भा. 191 पृ ]
एवमन्यत्र ".............श्रद्धा च मारुत।
द्वौ देवाविति सम्प्रोक्तावन्नंश्रद्धाप्रकीर्तिता अतितत्वात्‌ देवताभ्यो नेतृत्वाच्यान्नमुच्यते। श्रद्धेति वायो पत्नी सा...........।।" इति ।। [ बृ. भा. 430 पृ ]
तत्रैव व्याख्याने "कतमौ द्वौ देवाविति प्रश्नोत्तररूपं अन्नं च प्राणश्चेति वाक्यं व्याचष्टे। श्रद्धाचेति।। किं कस्य व्याख्यानमित्यताह।। अन्नमिति।। इति शब्दोऽध्याहार्यः प्राण इति मारुतः प्रकीर्तित इति परिशेषसिद्धत्वात्‌ स्पुटत्वाच्चानुक्तिः। श्रद्धायामन्नशब्दं निर्वक्ति। अतीतत्वादिति। सा वायोः पत्नी श्रद्धा देवताभ्यः शेषदिभ्यः अतीतत्वात्‌ उत्तमत्वात्‌ अत् नेतृत्वात्‌ नं इत्यन्नमित्युच्यत इत्यर्थः।।" इति।। [छा. भा. प. कौ 430 पृ ]
"सोऽन्नं सर्वोपजीव्यतः।। इति व्याहृति तत्वे" इति [ तै. भा. 405 पृ ]
तत्रैवव्याख्याने "महःशब्दवाच्यो वासुदेवोऽन्नगतत्वात्‌ 'अद्यतेऽत्ति च' इति श्रुतेस्सर्वोपजीव्यत्वाच्चान्ननामेत्यर्थः। एवं ध्यायन्‌ चिरजीवो यथेष्टान्नवान्‌ लोकोपजीव्यश्च भवतीति भावः।।" [तै.भा. प्रका. 408 पृ]
"अन्नस्य सारभूतोऽयं शरीरस्य च केशवः।
अन्ननामा चान्नसंस्थः शरीरेषु संस्थितः।
अतृत्वात्‌ सर्वलोकानामन्नमित्युच्यते हरिः।।
उपजीव्यश्च भूतानामिति चान्नं जनार्दनः।।" इति [ तै. भा. 423 पृ ]
तत्रैव व्याख्याने "सारतया मुख्यतया यदन्नमन्नशब्दप्रवृत्तिनिमित्तं 'अद्यतेऽत्ति च भूतानि' इति श्रुत्या स्वयमेव वक्ष्यमाणं दद्भूतातृत्त्वं तन्मस्तत्प्रचुरः। अनाद्यनन्तकालेस्वपि नियमेन स्वतन्त्रतया सकलभूतसंहर्तेत्यर्थः। भोग्यत्वरूपासरार्थत्यजनाय श्रुतिः स्वाभिमतमन्नं रसशब्देन विशिनष्टि। पुरुषशब्दस्य साभिमतदेहपरत्वं त्याजयितुं स वा इति प्रागुक्तात्मानं परामृशति। अतो देह हाष अन्नरसमय इति परव्याख्यानं गम्भीरश्रुतेर्हदयानभिज्ञताप्रयुक्तम्‌ नहि श्रुत्युक्तं भूतात्तृत्वं यया कयाचन विधया आकाशाद्वायुरित्यादिना अत्रैव भूतजन्यतयोक्तदेहे सम्भवति।" ।। इति।। [ तै. भ. प्रका. 424]
तत्रैव "स एवान्नात्‌ पुनर्जातः इत्यत्र सः भूत स्रष्टा परमात्मा अन्नाज्जायमाने शरीरे पुनर्जातोऽभिव्यक्तः। अन्नस्य सारभूतः श्रेष्ठः। शरीरस्य सारभूतः अन्तर्नियन्तृत्वाच्छ्रेष्ठः। तस्मिंच्छरीरे स्थितोऽनिरुद्धाख्यो भगवानत्तृत्वादुपजीव्यत्वाच्चान्ननाम। उपलक्षणमेतत्‌। तच्चाततृत्वं सर्वेभ्योऽपि प्राचार्युणास्तीति कृत्वा देहान्तःस्थित भगवद्रूपमन्न मयशब्देनाप्युच्यते। अन्यथाऽन्नमयप्रपञ्चत्वासम्भवादिति ज्ञेयम्‌।। उक्तरीत्याऽन्नान्तर्यामी यो भगवान् सोऽप्यन्नमय प्रकरणेऽन्नशब्दार्थतयोक्तात्तृत्वव्युत्पत्त्यैवान्ननामा। नत्वन्नवत्। तर्ह्यत्तृत्वेनेति प्रसङ्गदुक्तम्‌। अन्नादन्नमयात्‌ प्राचुर्यस्यापि भगवद्रूपत्वेन पार्थवयाभावसूचनाय श्लेके अन्नादित्येवोक्तम्‌। अन्यथा श्लेकश्लेकिनोः वैयधिकख्यं स्यात्‌।।" इति। [ तै. भा. प्रका. 425 पृ ]

अन्यदेवतापूजानिषेधः
अन्यदेवतापूजाकरणे निन्दाऽपि श्रूयते "हारीते -----
भगवन्तमनुद्दिश्य यः कर्म कुरुते नरः।
स पाषण्डीति विज्ञेयः सर्वलोकेषु गर्हितः।।
             अश्वमेधशतैरिष्ट्वा वाजपेयशतैरपि।
      न प्राप्नुवन्ति सुगतिं नारायणपराङ्मुखाः'।।
अन्यत्र हारीते ब्रह्मा-- यो हि विष्णुं परित्यज्य सर्वदेवेश्वरं हरिम्‌।
              इतरानर्चयेन्मोहात्सलोकात्पतितः स्मृतः।।
                         यः कर्म कुरुते विप्रो विना विष्णवर्चनं क्वचित्‌।
                         ब्राह्मण्याद्भृश्यते सद्यश्चाण्डालत्वं स गच्छति।। इति ।।
पाद्मे भृगुः--
ब्रह्मण्यश्च शरण्यश्च त्वमेव पुरुषोत्तम!।
                              ते पाषण्डित्वमापन्नाः सर्वलोकविगर्हिताः।।
                              विप्राणां वेदविदुषां त्वमेवेज्यो जनार्दन !।
                              नान्यः कश्चित्सुराणां च पूजनीयः कदाचन।।
                              अशुद्धा ब्रह्मरुद्राद्या रजस्तमविमिश्रिताः।
                              त्वं सत्वशुद्धगुणवान्‌ पूजनीयोऽग्रजन्मभिः।।
                              तस्मात्त्वमेव विप्राणां पूज्यो नान्यस्तु कश्चन।
                              मोहाद्यः पूजयेदन्यान्‌ स पाषण्डी भविष्यतीति।।
अन्यदेवताशब्देन क्षुद्रदेवता गीतायाम्‌--
"यजन्ते सात्विका देवान्यक्षरक्षांसि राजसाः।
                             प्रेतान्‌ भूतगणांश्चान्ये यजन्ते तामसा जनाः।।
                             अशास्त्रविहितं घोरं तपन्ते ये तपो जनाः।
                             डम्भाहङ्कारसंयुक्ताः कामरागबलान्विताः।।
                             कर्षयन्तः शरीरस्थं भूतग्राममचेतसम्‌।
                             मां चैवान्तः शरीरस्थं तान्विद्ध्यासुरनिश्चितान्‌"।। इति।।
                                                                [ स्मृ. मु. आ. प्र. 210,211 पृ ]
अन्यदेवतोपासनम्‌
"पूर्वत्र प्रकृतेन्द्रादिदवतानां तद्योग्यतानुर्युपासनमत्रोच्यत ति संगतिः। अत्र प्रकृत भगवदुपासनं केवलं कार्यमुत ब्रह्माङ्गदेवतापासनयुक्तमिति चिन्ता। तदर्थं 'तमेवेकं जानथ' 'पूजयेन्नान्यदेवता' इत्यादौ अन्योपास्ति निषेधः किं सर्वात्मना उत प्राधान्येनेत्यत्र ज्ञापकं नास्त्युतास्तीति तथान्य देवतोपासनोपि किमेकत्र प्रतीताः गुणाः सर्वेषां धयेयाः उत तत्तद्योग्या एवेति।। पूर्वपक्षस्तु।। 'तमेवेकं जानथेत्यादिश्रुतिस्मृतिषु अन्यदेवतोपासन पूजादेः निषिद्धत्वास्वातंत्र्येणैव पूजादेर्निषेध इत्यत्र ज्ञापकाभावात्‌ केवलमेव भगवदुपासनं कार्यं। देवतोपास्तेः करणेपि एकत्रप्रतीतगुणयुक्तत्वेनैव सर्वदेवतोपास्तिः कार्या। देवत्वादेः सर्वत्रो पास्यत्वदर्शनाद्वाधकाभावाच्चेति ।।सिद्धान्तस्तु।। देवानां वेदेषु प्रतिपादनस्य 'आध्यायनाय प्रयोजनाभावादि'ति न्यायेनोपासनार्थत्वेन तदुपासनाभावे वेदेषु तदुक्तेवैयरथ्यैन तदुक्त्यन्यथानुपपत्तिरूपसाधक सद्भावात्‌ तत एव 'तमेवे'त्यादेः प्राधान्येनोपस्ति निषेधपरत्वावश्यं भावेन तद्विरोधाभावादन्यदेवतोपास्तियुक्तत्वेनैव भगवदुपासनं कार्यम्। अन्यदेवतोपासनेपि 'समत्वाद्वोत्रमत्वाद्वा' इत्यादि स्मृत्या देवनां नीचोय्यभावापन्नतया उत्तमगुणा नाधमेषु ध्येयाः। किन्तु तत्तद्योग्या एव। यथा भगवद्वचकवाक्यानां न सर्वैषां सर्वत्रान्वयः किन्तु योग्यानामेव तद्वत्‌ अधमगुणास्तुत्रमेषु ध्येयाः। यथाऽधमदेवताप्रतिपादकमन्त्राणामुत्तमप्ततिपादकत्वेन ध्यानं तद्वत। तथोपासनमपि फलविशेषार्थं उत्तमाधिकारिभिरेवल कार्यं न सर्वैः। "उपासनांगदेवाना'मित्यादिस्मृतरिति। फलं तु देवताप्रतिपादकवेदभागप्तार्थक्यसमर्थनम्‌"।। [इति - न्या.मु. 176,177 पृ]


अन्यपात्रनिषेधः
"मृत्पात्रगतमर्ध्यं तु मृत्तिकगन्धमेव च। घृतधूपं च यो दद्यान्निराशाः पितरो गता'इति।। अर्ध्यपवित्रकं प्रति पात्रं भेदे न कार्यम्‌। 'द्वे द्वे शलाके देवानां पात्रे कृत्वा पयः क्षिपेत्‌। पवित्र इति मन्त्रेण द्वे पवित्रे च कारयेत्‌।। अन्तर्दर्भे कुशच्छन्ने कुशे प्रादेशसम्मिते'। अत्र क्वचित्‌ स्मृत्यादौ-'आवाहनान्तरमर्ध्यपात्रसादनादिकं श्रूयते 'विश्वेदेवान्यवै" पुष्पैरभ्यर्च्यासनपूर्वकम्‌। पूरयेत्पात्रयुग्मं तु स्थाप्य
दर्भपवित्रक' इत्यादिः।।
श्रुतिसारसमुच्चये---'शन्नोदेवीत्यपः क्षिप्त्वा यवोसीति यवांस्तथा। गन्धपुष्पादिकं क्षिप्त्वा स्वाहार्ध्यमिति वाच्य च।। आवाहयेदनुज्ञातो विश्वेदेवास इत्यृचा। अर्ध्यं अशेषमादाय दक्षिणेन तु पाणिना।। सव्यहसतगृहीतेन निनयेद्देवतीर्थतः। या दिव्या इति मन्त्रेण हस्तेष्वर्ध्यं विनिक्षिपे'दित्यादिस्मृतिवाक्यानुसारादर्ध्य-पात्रसादनानन्तरमावाहनं श्रूयते। अत्र शिष्टाचारेण व्यवस्था द्रष्टव्या। अथावाहनप्रकारेणावाह्यार्ध्यं दद्यात्‌"।। इति ।।
                                               [ स्मृ. मु. श्रा. प्र. 91,92 पृ ]


अन्यशब्दः
"स्वरूपभेदे स्वातन्त्र्ये विरोधे च विलक्षणे।
अन्यशब्दचतुर्स्वेषु प्रयोक्तण्यो मनीषिभिः।।
'अनन्याः सर्व एवैते यौधाः कुंतीसुतादपि।।
इति प्रयोगाच्च" इति [ बृ. भा. 538 पृ ]
तत्रैव व्याख्याने "अन्यशब्दस्य स्वातन्त्र्यार्थत्वेपि तदाह-।।स्वरूपेति।। अन्य शब्दस्य स्वातन्त्र्यार्थत्वे वैदिकप्रयोगमप्याह - अनन्याइति। योधा अपि कुंतीसुतादनन्याः तमपेक्ष्य स्वतन्त्रा नेत्यर्थः।। इति।। [ बृ. भा. भा. 538 पृ ]


अन्योन्याभावः
?R ?Rभेदः। स च धर्मिस्वरूपः। न तु अतिरिक्ताभावः। तदुक्तं
"?Rअन्यान्याभावो हि भेद एव स च स्वरूपमेवेत्यन्यत्रोपपादितम्। कार्यकारणयोः संसर्गस्यान्यत्रनिराकृतत्वेन प्रागभावप्ध्वंसाभावयोः संसर्गाभावत्वानुपपत्तेश्चेति।"?R (इति त.सं.टी. पृ.46)
"?Rभावाभावस्वरूपत्वान्नान्योन्याभावता पृथक्"?R (तत्त्व. वि. पृ. 65)
"?Rतादात्म्यप्रतियोगिकाऽभावोऽपन्योन्याभावः। भेद इति यावत्। स च यदधिकरणस्तत्स्वरूपमेव। न तु प्रागभावादिवत्पृथक्प्रमेयमिति नाभावत्रित्वभंगः। धर्मिस्वरूपत्वादिति वक्तव्ये यद्भाभावाभावस्वरूपत्वादित्युक्तं तत्प्रपंचनार्थम्। अथवा यद्यन्योन्याभावो न घटादिभ्यः पृथक् तर्हि तेषामभावत्वं स्यात्। स्यादेवैतत्। सर्वभावानां स्वेन रूपेण भावत्वं रूपान्तरेणाभावत्वमिति भावाभावस्वरूपत्वादित्युक्तम्। नन्वन्योन्याभाव इति वक्तव्ये किं भावप्रत्ययेन। मैवम्। नायं भावशब्दोभावसाधनः किन्तु कर्तृशादन्ः। भावश्चात्र प्रकृत इति तल्प्रत्ययोपपत्तिः।"?R इति। (तत्त्व. वि.टी. पृ. 65)
?R एवमेव "?Rयदि न स्वरूपं भेदस्तदा पदार्थे दृष्टे प्रायः सर्वतो वैलक्षण्यं तस्य न ज्ञायेत। अज्ञाते च वैलक्षण्ये आत्मनि घट इत्यपि संशयः स्यात्। न हि कश्चित्तथा संशयं करोति। ज्ञात्वैव प्रायः सर्वतो वैलक्षण्यं कस्मिंश्चिदेव सदृशे संशयं करोति। न ह्यात्मन्यहं देवदत्तो न वेति कस्यचित् संशयो भवति"?R। इति। (वि.त.नि. पृ.483)
"?Rअस्ति तावद्भेदः। तस्य च द्वयैव गतिः - धर्मिस्वरूपत्वं वा ततो भिन्नत्वं वेति। तत्रभेदपक्षस्य सर्वत्र संशयागदिप्रसङ्गे नानुपपन्नत्वात् परिशेषात्स्वरूपत्वमेव सिध्यति। न च वाच्यं धर्मिप्रतीतावप्रतीतोऽपि भेदः पश्चात् प्रत्येष्यते। स च प्रक्तमपि संशयादिकं निरोत्स्यतीति। पश्चाद्धि भेदोऽस्यास्मादिति प्रत्येतव्यः। न च प्राग्भेदानवगतावखण्डे वस्तुनि अस्यास्मादिति विभागेनानुवादो घटते। अतो धर्मिप्रतीतावेव भेदो न प्रतीयते चेत् न प्रतीयतैव कदाऽपीति संशयादिप्रसंगो दुर्वार एव। अथाऽपातजायां निर्विकल्पिकायां संविदि भेदस्य भेदिनोश्च युगपदङ्गुलित्रयवदवभासात् न संशयाद्यवकाश इति चेन्न। तस्य भेदस्य एतदीयतयाऽनवगदस्य एतद्विषयसंशयादिप्रतिबन्धकत्वानुपपत्तेः। अन्यथा सर्वत्र संशयाद्यनुदयप्रसंगादिति। ननु यदि भेदो धर्मिस्वरूपं स्यात् तर्हि तत्प्रतीतावेव प्रतीयेत। न चैवम्। तथासति संशयाद्यभावप्रसंगात्। अस्ति च संशयादिकं प्रमाणसिद्धमिति न धर्मिप्रतीतौ भेदप्रतीतिः। तत्कथं तत्स्वरूपत्वमित्यत आह - ज्ञात्वैवेति। एक एव खलु एकस्य वस्तुनः भेदोऽनेकत्वे प्रमाणाभावात्। स च वस्तुप्रतीतौ प्रतीयत एव किन्तु तस्य घटप्रतियोगिकत्वं पटप्रतियोगिकत्वमित्यादयोऽनन्ता धर्माः। तत्र भेदनिष्ठो यत्प्रतियोगिकत्वरूपो धर्मः सादृश्यादिवशात् न प्रतीयते तत्र संशयादिकमुत्पद्यते, न तु तत्रापि भेदस्याप्रतीतिः। अतः संशयादेरन्यथोपपत्तेर्न तदर्थं धर्मिप्रतीतौ भेदाप्रतीतिरंगीकार्या, यथा भादस्यास्वरूपत्वं भवेदिति संशयादिस्थलेऽपि सर्वतो भेदः प्रतीयत इत्युक्तम्। तत्कुत इति चेन्न। भेदस्य सर्वथाऽप्रतीतावात्मनि प्रतीयमानः अहं किं देवदत्तोऽथ वा घट इत्यादि संशयो घट एवेति। विपर्ययो वा स्यात्।"?R इति ।?R (वि.त.नि.टी. पृ. 484)


?R एवमेव तत्रैव "?Rननु सर्वमिति सामान्यतो यत्सर्वविषयकं ज्ञानं तत्साक्षिरूपम्। तस्मिन् सर्वदा सत्येव पटादिज्ञानानि मनोवृत्तिरूपाणि जायन्ते। तत्कथमेतावाक्षेपपरिहारौ। सत्यम्। तथापि विशेषतो व्यावृत्तिप्रतीतौ घटपटज्ञानोत्पत्तियौगपद्यं प्रसज्यत एव। तत्र धर्मिणः प्रतियोगिनां च पुरोऽवस्थितत्वे युगपदिन्द्रियसन्निकर्षे च सति समुदायावलम्बनैकज्ञानोत्पत्तिरुक्ता। धर्मिप्रतियोगिनोरन्यतरस्यैव सन्निधाने तु संस्कारसहकृतेन्द्रियसन्निकर्षेणैकज्ञानोत्पत्तिरित्यादि बोद्धव्यम्। ननु भेदस्य पटस्वरूपत्वे पट एवास्ति न भेद इति वा भेद एवास्ति न पट इति वा पटभेदशब्दौ पर्यायविति वा आपद्येत। मैवम्। विद्यमानयोरेव पटभेदयोः सविशेषाभेदस्वीकारात्। तत्राभेदेनान्योन्याश्रयादिपरिहारो भविष्यति। विशेषेण चान्यतरमात्रावशेषादिकं न भविष्यति"?R। इति। (वि.त.नि.टी. पृ.499)
"?Rसार्वकालिकोऽन्योन्याभावः। पदार्थस्वरूपमेव। नित्यात्मको नित्यः। अनित्यात्मकोऽनित्यः। भावाभावासत्प्रतियोगिकश्च"?R। इति। (म.सि.सा. पृ.3)
?R एवमेव "?Rइयंचात्र दर्शनस्थितिः। न भेदो युगधर्मः। किन्तु एकस्य धर्मोऽपरेण निरूप्यः। इमौ भिन्नावित्यत्रापि स्तम्भात्कुम्भस्य भेदः, कुम्भात्स्तम्भस्य भेद इत्येवार्थः. अनयोर्भेद इति तूभयधर्मिकं भेदद्वयमेव। एकवचनं तु अनयोः स्वरूपम् - इतिवत्। स च भेदो धर्मिणस्स्वरूपमेव। अन्यथा स्वरूपं प्रतीयमानं सर्वात्मना प्रतीयेत। तथा चात्मन्यपि घटोऽहमिति प्रतीतिप्रसङ्गः। न हि दृष्टपदार्थस्य पुरुषस्य वस्त्वन्तरात्तस्य भेदे संशय क्वचिद् दृष्टः। न च सर्वतो व्यावृत्त्यनुभवे सार्वज्ञ्यापत्तिदोषः, सामान्यतः सर्वस्य साक्षिसिद्धत्वाङ्गीकाराच्च। अन्यथा सार्वत्रिकव्याप्तिपरिज्ञानासम्भवेन सर्वानुमातर्कोच्छेदप्रसंगः। न च विशेषज्ञानापेक्षा, भेदस्वरूपमात्रप्रतीतेस्तदनपेक्षणात्। न च संशयाभावप्रसङ्गः, कुतश्चिद् व्यावृत्तस्य वस्तुनः प्रतीतावपि व्यावृत्तिविशेषाग्रहणवशादेव संशयोत्पत्तेः। अन्यथा सर्वकोट्यवलम्बी संशयः स्यात्"?R। इति। (वा.ली. पृ. 112 -114)
?R एवमेव तैत्तिरीयभाष्ये "?Rन च भेददर्शनमसुकरम्। स्वरूपत्वाद् भेदस्य। सर्वव्यावृत्तं हि सर्वस्य स्वरूपं सर्वैरनुभूयते। अन्यथाऽहं वा दृष्टोऽन्यो वा दृष्ट इत्यपि संशयः स्यात्। न च पश्चाद् भेदो ज्ञायत इत्यत्र किञ्चिन्मानम्। न हि दृष्टवस्तुनः पुरुषस्य तस्य वस्त्वन्तराद् भेदे संशयः क्वचिद् दृष्टः। न च सर्वतो व्यावृत्त्यनुभवे सर्वज्ञताऽपेक्षितेति दोषः।
?R सामान्यतः सर्वस्य सर्वैरपि ज्ञातत्वात्। यावत्तु सर्वतो भेदो विशेषतो न ज्ञायते तावत् स्वरूपमेव विशेषतो न ज्ञातम्। न हि ज्ञाताद् वस्तुनोऽव्यावृत्तिः केनचिच्छंक्यते। यदा तु संशीयते तदाऽपि कुतश्चिद् संशयः। अतो व्यावृत्तिरेव स्वरूपम्। अस्य भेद इति विशेष्यत्वमस्य स्वरूपमितिवत्। यथाऽस्तीति वर्तमानः कालो वस्तुना सहैवानुभूयते, एवमन्यस्माद् व्यावृत्तमित्यत्रान्यदपि सामान्यतः सहैवानुभूयते। नह्यस्तीति वर्तमानकालापेक्षयाऽनुभूयत इत्येतावता विद्यमानता नाम वस्तुनोऽन्या। सदित्यपि शत्रन्तत्वात् कालसम्बन्ध्येवानुभूयते तिष्ठन्नितिवत्। एवमन्यस्माद् व्यावृत्तमित्यन्येन सह प्रतीयमानमपि न स्वरूपादन्यत्। अस्माद् व्यावृत्तिरन्यस्य स्वरूपमन्यस्माद् व्यावृत्तिरस्य स्वरूपमिति नैकस्वरूपता। ज्ञानानन्दादिवत् स्वरूपत्वेऽपि व्यवहारविशेषो भवति। न च स्वरूपत्वेन भेदस्याभावो भवति। ज्ञानानन्दादिवदेव। अन्यप्रतियोगिकत्वात् भेदस्य न स्वस्मादपि भवति।
?R भेदस्तु सर्ववस्तूनां स्वरूपं नैजमव्यम्।
?R नष्टानामपि वस्तूनां भेदो नैव विनश्यति।।
?R अवस्तुनोऽपि रूपं स्वं भेद एव नचान्यथा।
?R विशेषरूपनाशेन भेदमात्रावसायिता।।
?R नाश इत्युच्यते सद्भिर्भेदो नहि विनश्यति।
?R इत्याहुः केचिदज्ञानात् तत्राऽहुः सूक्ष्मदर्शिनः।।
?R सत्यं भेदस्तु वस्तूनां स्वरूपं नात्र संशयः।
?R तस्माद् वस्तु विनाशे तु तद्भेदो नास्ति कुत्रचित्।।
?R अविनष्टस्य तस्मात्तु भेदोऽस्त्येव स्वरूपतः।
?R एवं भावादभावस्य न भेदो भावरूपवान्।।


?R अभावाद् भावरूपस्य स्वरूपं भाव इत्यते।
?R नष्टभेदोऽप्यभावात्मा विद्यते च विनाशतः।।
?R स्वरूपत्वात्तु भेदस्य भेदे शंका न कस्यचित्।
?R सर्वं सामान्यतो यस्मात् सर्वैरप्यनुभूयते।।
?R तस्माद् व्यावृत्तता सर्वैः सर्वस्मादनुभूयते।
?R प्रतियोगिता त्वभावस्याप्यस्त्यभावतया स्फुटम्।।
?R नह्यभावोऽप्यधर्मा स्यान्न तु स्याद् भावधर्मयुक्।
?R अभावस्यास्तिता नाम स्यादेवाभावरूपिणी।।
?R अभावताऽपि सैव स्यान्न तु स्याद् भावरूपिणी।
?R अतः सः सर्वव्यावृत्तस्वरूपो भगवान् परः।।
?R येन ज्ञातः स तु ज्ञानी मुच्यते नात्र संशयः?R।। इति तत्त्वनिर्णये"?R । इति (तै.भा. पृ.446, 447)
?R एवमेव "?Rभेदो नाम वस्तुस्वरूपमेव स तद्दर्शनेनैवदृश्यः। न चोपाधेः स्वरूपदर्शने उपयोगोऽस्ति। तत्कथमुच्यते उपाधिर्भेदस्य ज्ञापक इति तत्राह - मूढबुद्धिव्यपेक्षया इति। अस्ति भेदस्य वस्तुस्वरूपत्वं तथापि तद्विशेष इति प्रतिपादितमन्यत्र। ततो वस्तुप्रतीतावपि भेदाप्रतीतिरभेदप्रतीतिश्च युज्यते। तदा भेदज्ञापने अस्त्येवोपाधेरुपयोग इति।"?R इति। (उ.खं.टी. पृ.331)
?R एवमेवाऽन्यत्र "?Rननु घटात् पटस्य भेद इति धर्मिप्रतियोगित्वं प्रतीत्य हि भेदः प्रत्येतव्यः, भिन्नतया प्रतिपन्नयोरेव हि धर्मिप्रतियोगिभाव इत्यन्योन्याश्रयदोषो दुष्परिहरः स्यात्, मैवम्। वैलक्षण्यं हि भेदः। यथा सास्नादिमत्वं गोर्भेदः। एवं सर्वत्र लक्षणं भेदः। तच्च निरपेक्षमेव गृह्यते। आकार विशेषो हि तत्। क्वचिदसाधारणधर्मः। तत्तच्छब्दस्यैव सापेक्षता। नत्वर्थप्रतीतेः। यथा प्रभाभावस्तम इत्यत्र। अतः क्वान्योन्याश्रयता??R अथवा, इदमिदं नेति तादात्म्यप्रतियोगिकाभाव एव। स च वस्तुस्वरूपमेवेति मीमांसकैरप्यङ्गीकृतः। स एव भेदोऽभिहितोऽतो नास्ति प्रतीतिद्वयमिति।
?R भेदो धर्मिस्वरूपत्वात् तद्ग्रहेणैव गृह्यते।
?R तत् प्रतीतिद्वयाभावान्नान्योन्याश्रयता भवेत्।।
?R (विद्यमानस्य भेदस्य सम्यग् ज्ञातस्य वस्तुतः।
?R युक्तं च प्रतियोगित्वं तस्मान्नान्योन्यसंश्रयः।।)
?Rन भेदो युगधर्मः। किन्त्वेकस्य धर्मोऽपरेण निरूप्यः। स च भेदो धर्मिणः स्वरूपमेव। तद्ग्रहेणैव गृह्यते। ततश्च धर्मिप्रतीतिरेव भेदप्रतीतिरिति प्रतीतिद्वयाभावान्नान्योन्याश्रता। तथाऽपि प्रतिपन्नभेदस्यैव प्रतियोगित्वात्, घटात् पटस्य भेदसिद्धौ पटाद् घटस्य भेदसिद्धिरित्यन्योन्याश्रयतेति चेत् न। विद्यमानभेदस्य वस्तुतः प्रतीतिमात्रेण प्रतियोगित्वोपपत्तेः। स्यादेतत्, यदि भेदस्य धर्मिस्वरूपत्वं युज्यते।
?R न च तद्युक्तमिति चित्सुखेनोक्तम् -
?R "?Rसापेक्षत्वात् सावधेश्च तत्त्वेऽद्वैतप्रसङ्गतः।
?R एकाभावादसन्देहान्न रूपं वस्तुनो भिदा।।"
?Rअयं भावः - भेदपटौ नाभिन्नौ, ?Rसापेक्षनिरपेक्षप्रतीतिकत्वेन विरुद्धधर्माधिकरणत्वात्, सम्मतवत्। किञ्च प्रतियोगिघटितस्य भेदस्य धर्मिस्वरूपत्वे प्रतियोगिनोऽपि धर्मिस्वरूपतापत्या सर्वाद्वैतप्रसङ्गात्। यन्निरूपितस्य यद्भवति तन्निरूपकस्यापि भवतीति व्याप्तेः। अपि च न भेदो वस्तुस्वरूपम्। तथात्वे क्वाप्येकं वस्तु न स्यात्। एकाभावादनेकमपि न स्यात्। किञ्च न भेदो वस्तुस्वरूपम्, तत्प्रतीतावपि कदाचिदप्रतीयमानत्वात्। यो यत्प्रतीतावपि कदाचिन्नप्रतीयते नासौ तत्स्वरूपम्। यथा घटप्रतीतावप्रतीयमानः पटो न घटस्वरूपम्। नचासिद्धो हेतुः। संशयविपर्ययोस्तथा दर्शनात्। अपि च भेदो धर्मिस्वरूपम्। घटस्य भेद इति तत्सम्बन्धितया प्रतीयमानत्वात्। यो यत्सम्बन्धितया प्रतीयते नासौ तत्स्वरूपम्। यथा कम्बलो


?Rब्राह्मणस्येति। भेदस्य पटस्वरूपत्वे पटभेदशब्दयोः पर्यायतापत्तिः स्यात्‌। तस्मान्न स्वरूपं वस्तुनो भिदे'?Rति। अत्रोच्यते। यदुक्तम्‌ - '?Rसापेक्षत्वान्नरूपं वस्तुनो भिदेति तदसत्‌। अनैकान्त्यात्‌। एकस्यैवाग्नेः सापेक्षनिरपेक्षप्रतीतिकत्वात्‌। ऐक्यस्य च ब्रह्मस्वरूपत्वे जीवब्रह्मणोरैक्यमिति सापेक्षतया प्रतीतेः। यदुक्तम्‌ - '?Rसर्वाद्वैतपरसंगतः न रूपं वस्तुनो भिदा'?R इति। तदप्यसत्‌ यन्निरूपितस्य यद्भवत तन्निरूपकस्यापि भवतीति व्यादयभावात्‌। यत्र चित्रगुर्देवदत्त आनीयते न तत्र चित्रा गावोप्यानीयन्ते। यदप्युक्तम - विदारणात्मनो भेदस्य वस्तुस्वरूपत्वे क्वाप्येकं वस्तु न स्यात्‌ः '?Rएकाभावादनेकमपि न स्यात्‌'?R इति। एतदपि मन्दम्‌। नहि भेदो विदारकः। किन्तु विदारणम्‌। न च तत्र व्याप्तिः। नहि द्वैधी भावस्य स्वस्यैव द्वैधीभावो दृष्टः। विदारकत्वेऽपि प्रतियोगिनो धर्मिणं विदारयेत्‌;?R नतु स्वत एव स्वस्य। किञ्य न भेदो विदारणात्मा, किन्त्वन्योन्याभाव एव।
?Rयदप्युक्तम्‌ - '?Rन भेदो धर्मिस्वरूपम्‌, तत्प्रतीतावपि कदाचिदप्रतीयमानत्वात्‌'?R इति, अयमप्यनैकान्तिको हेतुः। चैतन्ये प्रतीयमानेऽप्यैक्यस्याऽनन्दादेश्चाप्रतयमानत्वात्‌। अन्यथोपदेशानर्थस्यप्रसंगात्‌। विप्रतपत्यभावप्रसक्तेश्च। यदप्युक्तं - भेदो न धर्मिस्वरूपं, तत्सम्बन्धितया प्रतयमानत्वत्‌ इति। तदप्यसत्‌। '?Rब्रह्मण आनन्दः'?R '?Rराहोः शिरः'?R '?Rजीवब्रह्मणोरैक्यम्‌'?R '?Rघटस्य स्वरूपम्‌'?R - इत्यादावनैकान्तिकत्वात्‌। सविशेषाभेदाङ्गीकाराच्च नास्माकं काचिदनुपपत्तिरिति।
?R किञ्चात्र कथमापादनम्‌??R यदि भेदो दृश्येत तदाऽन्योन्याश्रयः स्यादिति चेत्‌ न ; ?Rभेददर्शनस्य सम्मतत्वेन विपर्ययापर्यवसानात्‌। यदि भेदः प्रामाणिकः स्यात्तदाऽन्योन्याश्रयः स्यादिति चेत्‌, न ; ?Rव्याप्त्यभावात्‌। किञ्चान्योन्याश्रय दुष्टस्य व्यावहारिकत्वमप कुतः??R नहि मृदवास्तवीत्येतावता यस्य घटस्य कारणं तत एवोत्पन्नेति परस्याप मनोगतम्‌। भेदप्रततिरसती, अन्योन्याश्रयग्रस्तत्वादिति चेत्‌, न ; ?Rअपसिद्धान्तात्‌। अन्योयाश्रय परिहृत्वादसिद्धेश्च। किञ्च घटपटादेरभेदो न कयाचित्‌ श्रुत्या कथ्यत इत्यप्रामाणिकत्वात् प्रमाणवरूद्धत्वात्‌ दुर्बलत्वाच्च जडाद्वैतमतं दुर्मतमेव। तस्माद भेदप्रतीतिः प्रत्यक्षेणाप्युपपन्नतरा। धर्मिग्राहकतयोपजव्येन प्रत्यक्षेण विरोधे श्रुतिरप्यपसरति;?R यथा - "?Rयजमानः प्रस्तरः" ?Rइति श्रुतिः;?R तत्र का कथा शुष्कततर्कस्येत्यलं विस्तरेण"?R। ( इति - वाद - र- 80 to 83 ?Rपृ )
एवमेव सुधायामप भेदविषये, --------
"यथा घटकलशकुम्भव्यवहाराणां पर्यायत्वात्‌ एकेनैव निमित्तेनोपपत्तौ घटत्वाद्यनेकनिमित्तकल्पने कलपनागौरवम्‌ यथा च घटाटिव्यवहारान्‌ पर्यायेणैन कुर्वाणैः तन्निमित्तमेकतयैव दृष्टमिति, तत्त्रित्वाङ्गीकारे दृष्टहानिरदृष्टकल्पना च भवति। तथा पृथगादिव्यावहाराणामपि पर्यायत्वात्‌ एकेनैव स्वरूपभेदेनोपपत्तौ, निमित्तत्रयकल्पने कल्पनागौरवम्‌। नियमेनासहप्रयोक्तृभिः पृथक्त्वादीनामैक्यं दृष्टमिति, तत्परत्यागेन त्रित्वकल्पनायां दृष्टहानिरदृष्टकल्पना च स्यादिति। अविनाभावित्वात्‌ न सहप्रयोग इति चेत्‌ मा भूद्धात्पृथगित्युक्त्वा घटो न भवतीति प्रयोगः। घटो न भवतीत्युक्त्वा घटात्पृथगिति कस्मान्न भवेत्। पृथक्त्वे सति अन्योन्याभावादिकं नियतं न त्वन्योन्याभावे पृथक्त्वमिति परेणैव व्युत्पादितत्वात्‌। न चायमस्ति नियमोऽविनाभूतं सह नोच्यत इति पृथिव्यप्तेजोवायुमनसां क्रियावत्वमूर्तत्वपरत्वापरत्ववेगवत्वदीनीति तदीय ग्रन्थ एव व्यवहारदर्शनात्‌।" इति (न्या. सु. II भागे. 1701, 1702 पृ )
?R "?Rयत्तावदुक्तं निरूपकभेदाद्भेद इति, तदसत्‌। अवधिप्रतियोगिनोरेव भेदस्य निरूपयितुमशकक्यत्वात्‌। पृथक्त्वनिरूपकत्वमवधित्वम्‌, अभावनिरूपकत्वं प्रतियोगित्वमिति चेन्न। पृथक्त्वान्योन्याभावबेदस्याद्याप्यसिद्धत्वेन इतरेतराश्रयत्वात्‌। पञ्चमीप्रयोगाप्रयोगाभ्यां भेदश्चानुपपन्नः। अन्य शब्दोपपदे पञ्चमीविधानात्‌। कथं तर्हि भिन्नादियोगे पञ्चमीति चेत्‌। विलक्षणो यज्ञदत्तो देवदत्तादित्यत्र कथम्‌। न हि वैलक्षण्यं पृथक्त्वम्‌। गुणादिष्वपसद्भाभावात्‌। अथ कथञ्चिदपादानत्वं तत्र व्युत्पादयिस्यत इति चेत्‌। भिन्न इत्यादावपि किं न व्युत्पाद्यते। तथा सत्यन्य इत्यत्रापि साम्यात्सूत्रवैयर्थ्यमापद्यत इति चेन्न। प्रपञ्चार्थत्वेनोपपत्तेः। विलक्षणयोगे पञ्चमी वक्तव्येति चेत्‌। विशिष्टव्यावृत्तादियोगेऽपि कथम्‌। न विशिष्टादिकं पृथक्त्वमिति च स्वयमेव व्युत्पादितम्‌। सर्वत्रोपसङ्ख्याने भिन्नादिष्वपि तथा भविष्यति। किमन्ये त्यत्रार्थग्रहणव्याख्यानेन। '?Rपृथग्विनानानाभिस्तृतीयाऽन्यतरस्यामि'?Rति विकल्पविधानसामर्थ्यादिदमाश्रीयत इति चेन्न। अप्राप्तेऽपि विकल्पविधानस्य बहुलमुपलम्भात्‌।



?R अस्तु वाऽन्येत्यर्थग्रहणम्‌। तथाऽपि पृथक्त्ववाचिपदयोगे पञ्चमी विधानस्य व्याखक्यानात्‌। घटः पटो न भवतीत्यत्र तु, वाक्यप्रतपाद्यं पृथक्त्वमिति पञ्चमी न भविष्यति। प्रतियोगिनिरूप्यत्वानिरूप्यत्वाभ्यां तु विवेकः स्वरूपभेदवादिना वक्तुमशसक्य इति वक्ष्यामः। विधिरूपत्वं चोक्तन्यायपराहतम्‌। अत एव पृथक्त्वान्योन्याभावविवेचकत्वमपि निरस्तम्। किं चानश्व इति किमन्योन्याभावो नञर्थः। किंवा पृथक्त्वम्‌। आद्ये कथमश्वादन्य इति विग्रह वाक्ये पञ्चमी। न च तत्र पृथक्त्वमन्यशब्दार्थ इति युक्तम्‌। समासावग्रहवाक्ययोः समानार्थत्वात्‌। द्वितीये पृथक्त्वस्यापि निषेधतेत्यलं पल्लवेन।"?R इति (न्या. सु. II ?Rभागे 1708 ?Rत?Rः 1716 ?Rपर्यन्तम्‌)
?R ?Rएवं भदोज्जीवनव्याख्यानेऽपि "?Rभेदस्तावद्धर्मिस्वरूपस्तद्धर्मश्च भवति। अभेदेऽपि धर्मधर्मिभावो विशेषप्रभावात्‌। अत एव भिन्नमिति प्रतीतौ प्रकारत्वमपि। घटभेदप्रतीत्योर्वैलक्षण्यमपि विशेषादेव। न च विशेषस्य तटस्थस्य प्रतीतिवैचित्र्यनियामकत्वे विषयवैयर्थ्यात्‌ विज्ञानवादप्रसङ्गः। विषयविद्यया तथात्वे चानुभवविरोध इति वाच्यम्‌। घटत्वभेदत्वरूपप्रकारवैचित्र्यादेव प्रतीतिवैचित्र्यम्‌। प्रकारयोस्तु विशेषकृतं वैचित्र्यमित्यत्र दोषाभावात्‌। अत एव ग्राहकसामग्रीवैचित्र्यमप्युपपद्यते। ग्राह्यवैचित्र्यस्योपपादितत्वात्‌। एतन घटप्रतीतौ भेदसन्देहानुपपत्तिरित्यपि निरस्तम्‌। घटत्वेन तत्प्रतीतावपि भेदत्वेन तदप्रतीतेः। घटत्वभेदत्वयोरभेदेऽपि विशेषसद्भावादेव तदुपपत्तेः। भेदस्य सप्रतीयोगिकत्वमपि विशेषवलादेव। न यैवं घटो न सप्रतयोगिक इति व्यवहारानुपपत्तिः, सप्रतियोगिकभेदाभिन्नत्वादिति वाच्यम्‌। तदभिन्नत्वेऽपि तद्विशेषस्यैव तदव्यवहारविषयत्वात्‌। अभेदे भेदकार्यनिर्वाहको विशेषः। रूपादेर्धर्मिस्वरूपत्वं त्विस्यत एव। न चैवं रूपप्रतीतौ रसादिप्रतीति प्रसंगः।
?Rरसत्वादिना तदप्रतीतेविसेषत एवोपपत्तेः। भेदाभेदयोरभेदश्चेष्टएव। परापेक्षया भेदस्य स्वापेक्षयाऽभेदत्वे बाधकाभावात्‌। न चैवं घटे स्वापेक्षयेव परापेक्षयाऽपि अभेदव्यवहारप्रसंगः। स्वरूपे विशेषाभावादिति वाच्यम्‌। विशेषाभावे स्वापेक्षयेत्यस्यैवानुपपत्तेः। तद्भावे तु तत एव स्वाभेदोन पराभेदः। अत एव न भेदाभेदप्रतीत्योरविशेषः। न वा तत्पदयोः पर्यायत्वम्‌। प्रतिपाद्यवैचित्र्यस्योक्तत्वात्‌। एतेन कारणत्वादिकमपि व्याख्यातम्‌।
?R यच्चोक्तं भावोऽभावो वेति, + ?Rतत्र बूमो यो भेदो यत्र प्रतीयते स तत्स्वरूप इति। न चैवं घटात्यन्ताभावे प्रतीयमानघटभेदस्य घटात्यन्ताभावरूपतया तस्य च घटेऽपि सत्वात्‌ घटभेदप्रतीति प्रसङ्ग इति वाच्यम्‌। घटे घटभेदत्वेन तदसत्वात्‌। न च स्वरूपप्रतियोगिप्रतियोगितावच्छेदाविशेषे भेदत्वात्यन्ताभावत्वयोरप्यविशेष इति वाच्यम्‌। घटनिषेधोऽत्यन्ताभावो घटतादाम्त्यनिषेधोऽन्योन्याभाव ति विशेषात्‌। घटो न भवति इति साक्षादघटस्य प्रतियोगीत्वं भासत इति चेत्‌ घटोऽपि प्रतियोग्येव। तादात्म्यं भेदप्रतयोगितावच्छेदकमित्यप्याहुः।
?R एतेन संयोगेन संयोग्यत्यन्ताभावस्य संयोगरूपसंयोगितादात्म्यावाच्छिन्न प्रतियोगिताकतया तद्भेदत्वापत्तिरिति निरस्तम्‌। संयोगस्य संयोग्यत्यन्ताभावाप्रतियोगित्वात्‌। तदवच्छेदकत्वेऽपि संयोगत्वेनैव। न तु तादात्म्यत्वेनेति विशेषात्‌। वस्तुतोऽन्योन्यात्यन्ताभावयोः सदसत्प्रतियोगिकत्वाभ्यामस्ति महान्‌ विशेषः। एतेन नास्ति, न भवतीति प्रतीत्योरविशेषप्रसंगोऽपि निस्तः। यदपि मूले वृक्षः कपिसंयोगी नेति प्रतीतेर्मूलावच्छिन्नवृक्षे कपि संयोगि भेदः सिद्धेदिति तदिष्टमेव विशिष्टभेदवादिनाम्‌। न चैवं प्रत्यभिज्ञाविरोधः। शारवामूलाघवच्छिन्नयोरभेदस्यापि सत्वात्‌। न च भेदाभेदयोर्विरोधः। विशेषबलादविरोधोपपत्तेः। न चैवं विशेष एवास्तु, किं भेदेनेति वाच्यम्। भेदस्य प्रमितत्वात्‌।
?R यत्वभावत्वावच्छेदेन प्रतियोगिविरोधावधारणात्‌ घटवति घटभेदानुपपत्तिरिति। तदसत्‌। घटवति घटप्रागभावादेरनुपपत्तेः। प्रागभावादेः प्रतियोगिदेशवृत्तित्वस्य प्रमितत्वात्‌। प्रतियोगिकालावृत्तित्वरूपो विरोधस्तत्रावधार्यत इति चेत्तर्हि भेदस्य प्रतियोगिदेशकालवृत्तित्वस्य प्रमितत्वात्‌ प्रतियोगिवस्त्ववृत्तित्वरूपो विरोधोऽत्रावधार्यताम्‌। प्रतियोगिनैकदैकत्रानवस्थानरूपविरोधः प्रागभावाद्यनुगत इति चेत्‌ स्वभावेनैकदैकत्रानवस्थानरूपविरोधो भेदाद्यनुगत इत्यस्तु। वस्तुतः प्रतियोगितावच्छेदकसम्बन्धेन प्रतियोगिविरोधः सर्वाभावसाधारणः भेदस्यापि तादात्म्येन प्रतियोगिविरुद्धत्वात्‌।
?R यदपि भेदस्याभेदाभावत्वान्न घटादेस्तत्प्रतियोगित्वमिति, तदपि न। प्रागभावादेरिव भेदस्य स्याभावाभावत्वेऽपि घटादि प्रतयोगिकत्वाविरोधात्‌। अभेदस्य घटादिस्वरूपत्वेऽपि न दोषः। अभेदत्वेनाभेदस्य प्रतियोगिन्येव सत्वात्‌। घटत्वघटाभेदत्वयोर्विशेषसद्भावादेव घटत्वेन घटवति घटाभेदत्वेन तदसत्वसम्भवात्‌। यदपि भेदाभेदयोः परस्परज्ञाना


?Rधीनज्ञानत्वादन्योन्याश्रय इति। तत्तुच्छम्‌। घटाभेदज्ञानहेतोर्घटभेदज्ञानस्य घटत्वेन घटज्ञानमात्राधीनत्वात्‌। अत एव
?Rभेदप्रत्यक्षमप्युपपद्यते। यदपि घटपटभेदयोरन्योन्यज्ञानाधीनज्ञानत्वादन्योन्याश्रय इति। तदपि न साधु। घटपटभेदयोरन्योन्यसंशयस्य ग्राह्यसंशयवदनन्योन्यज्ञानाप्रतबन्धकत्वेनान्योन्यज्ञानाधनिज्ञानत्वासिद्धेः। अन्यथा ग्राह्यसंशयस्यापि प्रतिबन्धकत्वप्रसङ्गेन वस्तुमात्रस्यैव स्वज्ञानाधीनज्ञानत्वापत्या ज्ञानमात्रापलापापत्तेः। विपक्षे बाधकाभावेन यत्संशयेत्यादि नियमस्याप्रयोजकत्वाच्च। यदपि प्रतियोगित्वांशे सन्निकर्षाभावात्‌ प्रतियोगिविशेषित भेदप्रत्यक्षानुपपत्तिरिति। तदतिमन्दम्‌। निर्विकल्पकोपस्थितेरेव सन्निकर्षत्व सम्भवात्‌। तस्याश्च भेदज्ञानानपेक्षत्वेनान्योन्याश्रयानवकाशात्‌। प्रतियोगित्वस्य प्रतयोगिस्वरूपत्वेन तदुपस्थितेस्तत्सन्निकर्षत्वसम्भवाच्च।।" ?Rइति (?Rभेदो. का. टि. 94 ?Rतः 97 ?Rपृ )


अन्विताभिधानम्‌
योग्येतरान्विते स्वार्थे पदानां शक्तिरिति द्वैतसिद्धान्तः । न्यायसुधायामवं प्रतिपादितम् --
"वृद्धव्यवहारादिना हि शब्दशक्त्वधाररणम् । न च पादर्थस्वरूपमात्रे व्यवहारादिकं युज्यते, किन्तु पदार्थान्तरान्विते । अतो व्यवहारादिना शब्दशक्तिमवधारयताऽर्थान्तरान्वित एव स्वार्थोऽनुभूयत इत्यंगीकरणीयम् । यद्यप्येकस्मिन् प्रयोगे गौरानमनान्वितः प्रतीयतेऽपरस्मिन्बन्धनान्वितोऽन्यस्मिंश्च दर्शनान्वित इति पदार्थान्तरतदन्वयव्यभिचारः, तथाप्यव्यभिचारिणि योग्येतरान्विते स्वार्थे शक्तिग्रहणमुपपद्यत एव । न हि विशेषणां व्यभिचारेण त्यागे सामान्यस्याप्यभिचाररिणो निर्निचबन्धनस्त्यागौ युज्यते । यत एवं व्युत्पत्ति समयेऽन्वित एव स्वार्थे शब्दानां शक्तिरनुभूयतेऽतो अन्वितस्वार्थाभिधायित्वं शब्दानामभ्युपेयम् । शक्तिग्रहणानुरोधित्वात् अभिधानस्य ।। यदा च पदैरेवान्वितस्वार्थप्रतिपादनं तदा वाक्यार्थ एवाबुद्ध इति कथं तद्बोधस्य निर्निबन्धनता । गुणप्रधानभावेनान्योन्यान्विताः पदार्था वा तदन्वयो वा वाक्यार्थ इति प्रामाणिकैरंगीकृतत्वादिति ।। अत्र पदानामित्यनभिदाय शप्दानामिति वदता प्रकृतिप्रत्ययोरप्यन्विताभिधानसामर्थ्यं सूचितम् ।
 पु - 48.
केचिदाहुरेकमेव पदमन्विताभीधायीतराणि तु पदानि तत्प्रतियोगिसन्निधानमात्र एव व्याप्रियन्ते । तच्च प्रथमं वा प्रधानं वेति । तन्निरासार्थं शब्दानामिति बहुवचनम् ।। तथाहि ।। यदेकत्र प्रयोगे प्रथमं तदेवान्यत्रप्रथममन्यत्र
तु प्रथममिति न पदानां प्राथम्यनियमोऽस्ति । तथा च प्रथमं पदमिति वदता सर्वाण्यप्यन्विताभिधामीत्यङ्गीकृतानीति किमत्र वक्तव्यम् । प्रधानत्वमपि पदस्य किमुच्यते । यदर्थप्रतिपादनपराणीतरपदानि तत्प्रधानमिति चेत्, तर्हि वाक्यभेदेन प्राधान्यस्याव्यवस्थितत्वात्सर्वपदानामन्विताभिधानसामर्थ्यमेवायातम् । आख्यातपजदं प्रधानमिति चेन्न, दध्ना जुहोतीत्यादिगुणविधानेष्वनुपपत्तेः । आख्यातपदरहितेष्वन्वयप्रत्ययदर्शनाच्च । नहि परिणतिसुरसं पनसफलमित्यादावन्वयो न प्रतीयत इति युक्तम् । अनुभवविरोधात् । न च तत्राध्याहारः । स हि लोकप्रतीत्यनुरोधाद्वाऽऽश्रयणीयः समायानुरोधाद्वा । नाद्यः। लोकप्रतीतेः पर्यवसितत्वात् । न द्वितीयः । तस्यैव निर्मूलत्वात् । समयान्तरानुरोधेन तत्परित्यागस्यापि संभवात् । येतु विशेषान्वय एव शक्तिः पदानामित्यास्थिषत, तन्मतनिरासायान्वित इति सामान्येनोक्तम् । उपपत्तिं तु वक्ष्याम इति ।
 पु - 49.
ननु यदि गामानयेत्यादि वाक्ये गामिति पदेनैवानयनान्वितः स्वार्थोऽभिहितस्तदाऽऽनयेति पदं व्यर्थमुक्तार्थत्वात् । आनयेति पदेनानयत्यर्थेऽभिहिते तेनानयेति पदस्य न वैयर्थ्यमिति चेत् । तर्ह्यानयेति पदं केवलं स्वार्थमात्रमाचक्षाणमनन्विताभिधायि प्राप्तम् । यथा चेदमनन्विताभिधायि तथा पदान्तरमपि स्यादिति दत्तजलाञ्जलिराभिधानवादः । अथानमेति पदेनापि गोपदेनाभिहितेनार्थेनान्वितः स्वार्थोऽभिधीयते तदा यावत्पूर्वं पदं स्वार्थं, नाभिधत्ते तावत्तदुत्तरपदस्य पूर्वपदार्थान्वितस्वार्थाभिधानं नास्ति । यावच्चोत्तरपदं स्वार्थं नाभिधत्ते तावत्पूर्वपदस्योत्तरपदार्थान्वितस्वार्थप्रतिपादनं न संभवतीत्यन्योन्याश्रययत्वम् । न च वाच्यं परस्परनिरपेक्षाणि पदानि प्रथमं पदार्थानन्वितानभिधाय पश्चादन्योन्यान्वितां तानेवाभितधतीति क्वेतरेतराश्रयत्वमिति । द्विरभिधानकल्पनाया अप्रामाणिकत्वात् ।
          पु - 50.
अचेतनेषु विरम्य व्यापारानुपपत्तेश्च । किञ्च पदानामन्वितेष्वर्थेषु शक्तिगृहीता चेत्तथाविधानेव प्रथममभिदध्युः । न चेत्पश्चादपि कथमभिदध्युरिति ।।
अत्र विशेषान्विताभिधानवादिनः परिहारमाहुः । प्रथमं पदानि साहचर्यवशादान्वितस्वार्थान्स्मरयन्तिः । पश्चादितरेतरस्मारितेनार्थेनान्वितस्वार्थानभिदधतीति न पदान्तरवैयर्थ्यंम् । नापि इतरेतराश्रयत्वमिति । एतदप्यसारम् । सर्वदैव हि पदान्यन्वितेनैव स्वार्थेन गृहीतसाहचर्याणि न केवलेन । तानि कथं केवलं पदार्थमात्रं स्मारयितुमीशते । यथाऽनुभवं हि स्मरणेनोत्पत्तव्यम् । नतु परीक्षकप्रयोजनमनुसृत्य । न हि पदं पदार्थमात्रप्रतिपत्तये प्रत्यु (ञ्ज) ज्यते । किन्तु व्यवहाराय । नचान्वित एवेत्यन्विततानमेव पदार्थानां पदेभ्यः स्मरणं स्यात् । तथाच गां पश्चेति प्रयोगे गोपदेन पूर्वानुभूतानयनान्वितस्यार्थस्य स्मरितत्वात् पश्चेति पदमनाकांक्षितार्थसङ्गतं स्यात् । एवं प्रासादं पश्येत्यत्र प्रासादान्वितस्वार्थाभिधायकत्वात्पश्येति पदस्य न गोपदं तेन संबध्येत ।
          पु - 51.
तथा च वाक्यार्थः क्वापि परिनिष्ठितो न सिध्येत् । न च वक्तव्यमव्यभिचाराद्गोपदं स्वार्थमात्रं स्मरयति नार्थान्तराणि । तेषां व्यभिचारित्वादिति । पट्भ्यासादरप्रत्ययैराहितस्य संस्कारस्य प्रबोधवतः स्मरणहेतुत्वात् । तत्प्रबोधस्य न व्यभिचारिण्यर्थान्तरे प्रणिधान साहचर्मादिजन्मनोऽविशेषात् । न हि स्मिरणमनुमानमिवसाहचर्य नियममपेक्ष्योत्पद्यते । धूमदर्शनादग्निवद्रसवत्पाकादिप्रदेशस्य स्मरणदर्शनात्।
एतेनैतदपि निरस्तम् । यथा पदानां स्वार्थेष्वभ्यासातिशयो न तथाऽर्थान्तरेषु । तेषां व्यभिचारित्वात् तथाच स्वरूपमात्रेणैव पदेभ्यः स्माहिताः पदार्थाः आकांक्षादिमन्तः पदैरान्विता अभिधीयन्ते इति न परस्पराश्रयत्वम् । नापि पदानतरानाकांक्षेति । स्मरणस्यानुभवद्वारनियमानपेक्षत्वात् । अन्यथा धूमदर्शनान्महानसादिस्मरणानुपपत्तिप्रसङ्गः । न हि यावान्धूमस्याग्नावभ्यासानिसानिस्तावन्महानसे । तस्मादपिहार्यमितराश्रयत्वमिति।
  पु - 52.
वयं तु ब्रूमः । स्यादिदं विशेषान्वितत्वाभिधानवादिनां दूषणम् । सामान्यान्विताभिधाने तु नायं दोषः । प्रत्येकं हि पदान्याकांक्षितसन्निहितयोग्येतरान्वितस्वार्थाभिधानसमर्थानि न पदान्तरमपेक्षन्त इति नेतरेतराश्रयत्वम् । विशेषान्वयप्रतिपत्यर्थं च पदान्तरसमभिव्याहारोपयोगः । अत एव सामान्यान्विताभिधनवादे वाक्यार्थविशेषाप्ततिलभ्य इति निरस्तम् । पदान्तरसमभिव्याहाराद्विशेषप्रतिपत्युपपत्तेः । येऽपि विशेषान्विताभिधानमाचक्षते तैरपि प्रतियोगिनां तदन्वयानां चाऽऽनन्त्यात्संगतिग्रहण
एव पुरुषायुषपर्यवसानभयात् सामान्योपाद्यौ शक्तिग्रहणमङ्गीकरणीयम् ।।
नन्वेवं तर्हि किमनया सामान्यान्विताभिधानशक्त्याऽपि । पदानि स्वार्थमात्रे शक्तिमन्ति पदान्तरसमभिव्याहारवशाद्विशेषान्वितमेव बोधयन्तीत्यङ्गीकारोपपत्तिरिति चेन्न । सङ्गतिग्रहणसमये सामान्यान्विताभिधानशक्तेर्गृहीतत्वात् ।
    
पदान्तरसमभिव्याहारो हि सामान्यस्य विशेषपर्यवसान एव हेतु र्न पुनरविद्यमानशक्त्याधान इति ।।
ननु तथाप्यन्विताभिधाने समभिव्याहृतपदानां पुनरुक्तिदोष इति चेन्न, अन्वयभेदात् । आनयानान्वितो गौर्गवान्वितमानयनमित्यनयोर्हि स्फुटो भेदः ।।
आर्थिकी तु पुनरुक्तिरदूषणम् । यश्चार्थादर्थो न स चोदनार्थ इति न्यायात् । विशेषप्रतिपत्यङ्गतयोपयोदाच्चेति " ।
                                 ( सुधा -जि. 961 तः 970 पर्यन्तम् )
अन्विताभिधानयुक्तयः
अन्विताभिधाने न केवलं पूर्वोक्तं षट्कम् । अपितु युक्त्यनुष्टयमपि अस्तीति प्रतिपाद्यते । तथाहि --
"अस्त्येव अन्वये श्क्तिः, किं तु सा स्वरूपसत्येव हेतुः, न तु ज्ञाता । पदार्थे शक्तिज्ञानादेवान्वयबोधोपपत्तेः । न च वैपरीत्यं शङ्क्यम् । अन्वयस्य पदार्थनिरूप्यत्वेन नाग-हितविशेषणन्यायेन तत्रैव शक्तिग्रहस्य हेतुत्वात् । व्यवहारेण लिङ्गेनान्विते शक्तिग्रहेऽपि गौरवान्यलभ्यत्वाभ्यामन्वयांशमपहाय पदार्थमात्रविषयत्वेनैव शक्तिग्रहस्य शाब्दबोधहेतुत्वकल्पनात् ।। न चैवं पदार्थे ज्ञाता शक्तिरूपयोगिन्यन्वयेत्वज्ञातेति शक्तिद्वित्वे गौरवमिति वाच्यम्। गुरुमते जातिविशिष्टव्यक्तिविषयायाः शक्तेरेकत्वेऽपि जात्यंशमात्रे ज्ञानतोपयोगित्ववदिहाप्यन्वितविषयायाः शक्तेरकत्वेऽपि पदार्थांशमात्रे ज्ञानोपयोगित्वस्योपपत्तेः । अत एव कुब्जशक्तिवाद इति ।। उच्यते । अस्मिन्नपि पक्षेऽन्विते प्राथमिकी व्युत्पत्तिरित्यादि सिध्दान्तसाधकं युक्तिषट्कं सुस्थिरमेव ।। नचान्वये शक्तेः सत्वमात्रेण तस्य शाब्दत्वं तस्याः प्रत्यासत्तित्वं च युक्तमिति वाच्यम् । शक्ति भ्रमेणाऽपि शाब्दयोर्भ्रमयोर्दर्शनेन शक्तिज्ञानस्यैव शाब्दत्वे तन्त्रत्वात् । प्रत्यसत्तित्वाच्च ।।
किं च धूमोस्तीति वाक्ये धूमशब्दस्य वह्नौ लक्षणारूपवृत्तिज्ञाने सत्येव शाब्दधीरन्यथानुमितिरित्यन्वयांशे वृत्यज्ञाने कथमन्वस्य शाब्दत्वम् ।।
अपि च परोक्षज्ञाने फलीभूतज्ञानविषयस्य सम्बन्धस्य जनकीभूतज्ञानविषयत्वनियमेन
शाब्दफलीभूतज्ञानविषयस्यान्वयस्य तज्जनकशक्तिज्ञानविषयत्वमावश्यकम् । भवति हि पक्षतादितरसाधारण्येन प्रवृत्तस्य वह्निधूमसामानाधिकरण्यविशेषरूपव्याप्तिज्ञानस्य पर्वतवह्निसम्बन्धोऽपि सामान्येन विषयः ।।
किं च यद्यन्वयांशे शक्तिज्ञानं न हेतुस्तर्हि घटमानयतीत्यादिपदजातादिव, घटः कर्मत्वमानयनं कृतिरित्यादिपदजातादपि कथं नान्वधीः । पदस्य पदार्थे शक्तेस्तत्स्मृतेस्तत्साध्याया अनन्वितपदार्थस्मृतेः पदार्थेषि योग्यतादेश्च सत्वात् ।। न च तत्राकांक्षा नास्तीति वाच्यम् । अन्वयविशेषाकांक्षादावहेतुभूतं सामान्यज्ञानं प्रत्यन्वयसामान्यशक्त्यज्ञानस्यैव तन्त्रत्वात् ।। नच तादृश पदजातं शिलासकलमङ्कुरइव क्रियाकारकभावेनान्वयबोधे स्वरूपयोग्यं, तेन कदाप्यन्वयबोधादर्शनादिति वाच्यम् । एवं हि घटः कर्मत्वमित्यादिवाक्यं श्रुतवतोऽभिज्ञास्य नाम विभक्तिधात्वाख्यात् स्मरणादुत्पन्नान्वयबोधस्य प्रयोज्यवृद्धस्य व्यवहारं पश्यतो बालस्य घटः कर्मत्वमित्यादावेन प्युत्पन्नस्य ततोऽन्वयबोधो न स्यात् ।। नच शक्तिभ्रमरूपसहकारिवशादन्वयधीः । स्वरूपायोग्यस्य सहकारिशतसमवधानेऽपि कार्याजनकत्वात् । तस्मात्स्वरूपयोग्यमेव तत् बालं प्रत्यन्वयांशे शक्तिज्ञानरूपसहकारिसहितत्वादन्वयबोधकम् । अन्यं तु प्रति तद्रहितत्वान्नेत्यन्वयांशे शक्तिज्ञानसहकारिता सिध्दा ।।
किं च पदार्थांशे शक्तिज्ञानमपि पदार्थस्मृतिद्वारा शक्तिधीहेतुरिति ते मतम् । न च तत्स्मृतौ शक्तिरूपसम्बन्धस्य शक्तित्वेन ज्ञानमपेक्षितं, तदभावेऽपि हस्तिसम्बन्धिदर्शनजन्यं हस्तिपकस्मरणं प्रति सम्बन्धांशे ज्ञान्स्य सम्बन्धत्वप्रकारस्यैव हेतुत्वदर्शनात् । किंतु सम्बन्धत्वेनैव ज्ञानमपेक्षितम् । एवं चाकाशमस्तीतिवाक्यादाकाशशब्दसमवायित्वेनाकाशस्मृतिमत आकाशशब्दे व्युत्पत्तिहीनस्यापि पुंस आकाशास्तित्वबोधः स्यात् । न चात्र नामाविभक्त्याख्यातयुक्ते स्वरूपायोग्यत्वं शङ्कार्थम् ।।
अथ सम्बन्धत्वप्रकारकज्ञानेनैवाकाशस्य स्मरणे सिध्देऽनुभवार्थं शिक्तित्वेन ज्ञानमपेक्ष्यत इति चेत्तर्ह्यन्वयानुभवार्थं तत्रैवं शक्तिज्ञानमपेक्षेतिमदिष्टासिद्धिः ।। एवं चान्विताभिधाने न केवलं पूर्वोक्तं षट्कम् । किं तु वृत्तिज्ञानने सत्येव शाब्दधीः, परोक्षज्ञाने फलीभूतज्ञानविषयस्य सम्बन्दस्य जनकीभूतज्ञानविषयत्वनियमो घटः कर्मत्वमित्यादावन्वयाप्रतीतिः, पदार्थस्मृतेरन्यथाऽपि सिध्याऽन्वयानुभवार्थं तत्राव शक्तिज्ञानापेक्षेति युक्त्यनुष्टयमपि ।।
                ( इति. त.ता.द्वि.परि. 186 तः 193. पर्यन्तम् )

अन्विताभिधानसाधनम्‌
अन्वये शक्तिरस्ति इति द्वैतसिद्धान्तेप्रमेयविशेषो वर्तते । तदयुक्तम् --
"ननु कथमन्विते शक्तिः । पौनरुक्त्यादिदोषात् । पदार्थेषु शक्तेरेव पदैः पदार्थस्मृत्यवान्तरण्यापारैराकांक्षादिसरकारिवशादन्वयविशेषवदन्वयसामान्यस्यापि लाभेन तत्र शक्तिकल्पनायोगाच्च । अत एव न प्रमाणान्तरतापत्तिः । शब्दस्यैवान्वये प्रमाणत्वात् । एतेन तदन्वयबोधजनकं तत्राशक्तं चेति व्याहतमित निरस्तम् ।
        
न ह्यत्राशक्तशब्देनाजनकत्वं विवक्षितम् । किंत्वभिधानरूपवृत्तिराहित्यमात्रमिति चेत् ।।
उच्यते । न तावदन्वये शक्तिरेव नास्तीति युक्तम् । प्राथमिकव्युत्पत्तिहेतुनान्वितविषयकेण व्यवहारेण सामान्यतो योग्येतरान्वित एव शक्तिग्रहात् । अनन्तरभाविनश्च व्याकरणोपमानकोषाप्रवाक्यवाक्यशेषविवरणप्रसिद्धपदसमभिव्यवहाररूपव्यत्पत्तिहेतवस्तदनुसारितया क्लृप्तेन्वित एव शक्तिग्राहकाः । अन्यथा कल्पने गौरवात् । तदुक्तं भगवत्पादैः --
             शक्तिश्चैवान्विते स्वार्थे शब्दानामनुभूयते ।
             अतोऽन्विताभिधायित्वं गौरवं कल्पनेन्यथे ।। ति ।
किंचेश्वरसङ्गेतरूपायां स्वाभाविकसम्बन्धरूपाया वा शक्तेरभावे वृत्यन्तराविषयस्यान्वयस्य शाब्दधीविषयत्वं न स्यात् ।।
किं च शब्द्स्यापि करणत्वेन चक्षुरादेरिव विषयप्रत्यासनस्यैन्नस्यैव क्रियाजनकत्वेन पदार्थेनेवान्वयेनापि शक्तिरूपप्रत्यासत्तिरङ्गीकार्या । अन्यथाकल्पने गौरवात् ।। न च चक्षिषो रुपेण संयुक्तसमवाय इव शब्दस्यान्वयेन शक्यपदार्थसम्बन्ध एव प्रत्यासत्तरिति वाच्यम् । साक्षात्सम्बन्धसंभवेऽपि परम्परया सम्बन्धाश्रयणे गौरवात् । अन्यथा चक्षुःसंयुक्तकपालसमवेते घटे संयोगः प्रत्यासत्तिर्न स्यात् ।।
किंचैवं शक्यघटसम्बन्धिगुरुत्वादेरपि घटपदात्प्रतीतिप्रसङ्गः । न च गुरुत्वादिकं प्रत्यक्षस्यैव शब्दस्याप्ययोग्यत्वम् । नच शक्यसंम्बन्ध्यन्वयत्वं प्रत्यासत्तिः । अन्ययत्वविशेषणस्यान्वयाशक्यत्वनिश्चयोत्तरकालं कल्प्यत्वेन तत्कल्पने गौरवात् । शक्यसम्बन्धेन च प्रतीतावन्वयस्य लाक्षणिकत्वप्रसङ्गच्च।
व्यक्तेरपि शक्यजातिसंबन्धेनैव प्रतीत्युपपत्या जातिविशिष्टव्यक्तावपिशक्यसिद्धिप्रसंगाच्च ।।
एतेन प्रथमं गृहीताऽप्यन्वये शक्तिः कर्मान्विते शक्तिरिव पश्चाद्वाधकात्यज्‌यताम् । बाधकं चात्रान्यलभ्यत्वमेवेति निरस्तम् । अन्यलभ्यत्वेऽन्वयस्य शाब्दत्वं न स्यादित्युक्तत्वात् ।।
न वृत्यविषयस्याप्यन्वयस्याकांक्षादिसहकारिवशाच्छब्दसन्यधीविषयत्वेन शाब्दत्वमिति वाच्यम्‌। इन्द्रियसन्निकृष्टस्यापि वह्नेर्धूमज्ञानादिसरकारिवशादिन्द्रियजन्यधीविषयत्वेनैन्द्रियकत्वापातात् । तत्रेन्द्रियसन्निकर्ष एवैन्द्रियकत्वमर्यादाहेतुरित्यसन्निकृष्टो वह्निनैन्द्रियक इति चेत्तर्हि शब्दवृत्तिरेव शाब्दत्वमर्यादाहेतुरितिवृत्यविषयोन्वयो न शाब्द इति समम् ।। अन्यथा कल्पने गौरवात् ।।
किं चैवं जातावेव शक्तिः व्यक्तेस्ताकांक्षादिवशाध्दीरिति स्यात् ।।
किं च घचमित्यनेन क्रियासामान्यान्वितस्वार्थानभिधाने सामान्यज्ञानसाध्या क्रियाविशेषजिज्ञाना न स्यात् ।
न च जम्बरादौ रूपविशेषाक्षिप्ते रससामान्य रसविशेषस्येव घटनिष्ठकर्मत्वाक्षित्वे क्रियासामान्ये तद्विशेषस्य जिज्ञासामुक्तेति वाच्यम् । व्यभिचारादर्शनसहचारदर्शनादिरूपभिन्नसामग्रीवद्याया व्याप्तेर्घटमिति पदोच्चरणकाले उपस्थिति नियमाभावेनाक्षेपासम्भवात् ।।अननुभूतस्याप्युस्थितिनिमस्य कल्पने गौरवात् ।।
किं च त्वयाऽपि घटमिति द्वितीयाविभक्त्यर्थकर्मत्वान्वितस्यैव प्रातिपदिकार्यसच्य क्रियान्वये प्रतियोगिता खण्‍डवाक्यार्थभूतस्यान्वितस्य च महावाक्यार्थभूतान्वय प्रतियोगिता वाच्या । वृत्यविषयश्च नान्वयप्रतियोगी कर्मत्वान्विते प्रातिपदिकार्ये खण्डवाक्यार्थरूपेऽन्विते च न लक्षणेत्यन्विते शक्तिः क्लृप्तेत्यन्यत्रान्विते शक्तिसिद्धिः । अन्यथा कल्पने गौरवात् ।।
न च खण्डवाक्यार्थस्य न महावाक्यार्थेऽन्वयः किन्तु महावाक्यस्थसर्वपदगौचरसमूहालम्बनस्मृतिरूपं करणं शुद्धतावत्पदार्थगोचरसमूहालम्बनस्मृतिरूपावान्तरव्यापारसहितमेकदैव महावाक्यस्थान् सर्वान् पदार्थानन्विततया बोधयतीति वाच्यम् । अननुभवविरुद्धस्यास्य प्रकारस्य कल्पने गौरवात् । तथात्वे हि दिनेदिने श्रुतेन शास्त्ररूपमाहावाक्यैकदेशरूपखण्‍डवाक्येन तत्तदर्थबौधोदयो न स्यात् । कुलकादावित्युवाचेत्यादौ खण्डवाक्यार्थकर्मक्रियाऽन्वयबौधश्च न स्यात् । प्रतिज्ञानवाक्येन विशिष्टस्वार्थाबोधने कुत इत्याकांक्षाऽनुयेन हेतुवाक्यान्वयश्च न स्यात् । तस्मादन्विते प्रथमिकीव्युत्पत्तिः, अन्वयस्यानभिधाने तस्य शाब्दत्वानुपपत्तिः, अन्वयां शक्त्यभावेऽन्वयस्य शब्देन सहप्रत्यासत्यनुपपत्तिः, व्यक्तिप्रतिबन्दी, अन्वयसामान्ये श्क्त्यभावे विशेषे जिज्ञासाऽनुपपत्तिः, अन्यत्रान्विते शक्तेः क्लृप्तत्वमिति युक्तिषट्केनान्विताभिधानं सिद्धम् ।।
             ( इति. त . ता. द्वि. परि. 159 तः 170. )
     
अपशूद्रः
अत्र पूर्वसिद्धान्तन्यायेन पूर्वपक्षप्रवृत्तेः आपवादिकी सङ्गतिः।। शूद्रादेः ब्रह्मविद्यायामधिकारः अस्ति उत नेति सन्देहः। विशिष्टबुध्यादमत्वात्‌ देवादिवत्‌ शूद्रस्यापि अस्ति वेदविद्यायामाधिकार इति पूर्वपक्षः। न च "उपनीयीत तमध्यापयीत" इत्युपनीतस्यैव अध्ययनविधानात्‌ सूद्रस्य च अनुपनीततया अध्ययनहीन त्वात्‌ तद्वतएव 'अध्ययनमात्रवतः' इति तृतीये अधिकारत्वोक्तेः उक्तं न युक्तमिति वाच्यम्‌। वैदिकं संवर्गवद्या श्रोतारं पौत्रायणं प्रति "आह हारे त्वा शद्रे" ति वर्णावरे रूढ शूद्रपदेन रैक्वस्य सम्बोधनेन विदुरादेः वेदार्थावधारणादिरूपेण च लिङ्गेन, शूद्रेपि उपनयनाध्ययनयोर्वा, अनुपनीतस्यैवाध्ययनमिति वा, अनधीयानस्य लिखितनिरीक्षणादिनैव वा, अर्थज्ञानस्य कल्पनादिति।। सिद्धान्तस्तु।। "अयमश्वतरीरथः" इति वाक्यशेषोक्तरथवत्त्वस्य "यत्र वेदो रथस्तत्र न वेदो यत्र नो रथः" इति स्मृत्या रथस्य वेदव्याप्तत्वेन शूद्रे तदभावेन अभावात्‌ क्षत्रिये तस्य स्वभाविकत्वाचच। तेन पौत्रायणस्य क्षत्रियत्वावगमेन बाधकेन शूद्रशब्दस्य रूढार्थस्य त्याज्यतया हंसकृतानादरेण जातशोकेन मुनिं प्रति आद्रवणस्य वक्यशेषे श्रवणेन शूचा द्रवणरूपयोगेन उपपत्या शूद्राधिकारासाधकत्वात्‌ नास्ति शूद्रस्याधिकारः। अध्ययनस्य उपनयनसापेक्षत्वात्‌ शूद्रस्य च "नाग्निर्न यज्ञो न व्रतानि च शूद्रसय" इति श्रुत्या उपनयन संस्काराभावाच्च। "तदब्राह्मणो विवक्तुमर्हति" इति सत्यकामस्य अशूद्रत्वं निर्धार्येव तदुपनयने गौतमस्य प्रवृत्तत्वेन तद्रूपाल्लिङ्गात्‌। "श्रवणे त्रपु जतुभ्यां श्रोत्रपरिपूरणं अध्ययने जिह्वाच्छेदः अर्थावधारणेहृदयविदारणम्‌" इति शूद्रस्य वेदश्रवणादेर्निषिद्धतया विशिष्ट बुध्यादिमत्वे सति अनिषिद्धत्वरूपस्य आधिकारप्रयोजकस्याभावात्‌। लिखितनिरीक्षणेनापि अर्थावधारणायोगात्‌। विदुरादेर्जन्मान्तरोत्पन्नज्ञानत्वेन इतरशूद्रवैलक्षण्याच्च नास्ति शूद्रे वेदविद्याधिकार इति।। फलं तु शूद्रस्य देवादिवत्‌ विशिष्टबुध्यादन्यायेन अधिकारे सति तन्निषेधकश्रुत्यादिविरोधप्राप्त्या मनुस्याधिकारित्वं शास्त्रस्य सामान्यतः उक्तं तत्‌ प्रमाणविरुद्धमिति पूर्वपक्षे सिद्धान्ते सामान्येक्तेः शूद्रेतरविषयत्वान्न विरोधः।।" [न्या. मु. 40,41 पृ ]



अपात्रनिर्णयः
श्राद्धे भोजनं कस्य कार्यं मिति विचारः "तत्र भारते श्री भगवान्‌---
"भ्रातृन्वा भोजयेत्छ्राद्धे पुत्रं वापि बहुश्रतम्‌।
आत्मानं वा नियुञ्जीत न विप्रं वेदवर्जितम्‌'।। तथा
स्मृतिसंग्रहे--- "अनग्निको ह्यवेदश्च अंगहीनस्तथैव च।
                    पुष्पाक्षो दुर्बलश्चैतान्विप्रान्‌ श्राद्धे विवर्जयेत्‌"।। तथा-- 'रोगी हीनातिरिक्तांगः काणः पौनर्भवस्तथा। अवकीर्णी कुण्डगोलौ कुनखी श्यावदन्तकः।। भृतकाध्यापकः क्लीबः कन्यादूष्यभिशस्तकः। मित्रध्रुक्पिशुनः सोमविक्रयी परिवेदकः।। मातापितृगुरुत्यागी कुनखी वृषलात्मजः। परपूर्वापतिः स्तेनः करमदुष्टश्च निन्दितः'।। तथा-- 'हीनाधिकांगः कुनखी कुब्जः पंगुश्च कुष्ठवान्‌।। मूको मूर्खः पामरोगी काणोऽन्धो बधिरस्तथा।। एतांश्च ब्राह्मणान्सम्यग्विचार्य परिवर्जये'दिति"।। इति।।
                                                    [ स्मु. मु. श्रा. प्र. 70,71 पृ ]
किंच तत्रैवान्यत्र पात्राणि कर्तृनियश्चोक्तः---
"ब्रह्मचारि यतिं चैव वानप्रस्थं च भिक्षुकम्‌। देवपूजाविहीनं च पञ्चयज्ञविवर्जितम्।। औपासनविहीनं च
श्राद्धे तु न निमन्त्रयेत्‌"।। यतिविषये पूर्वमेवोक्तम्‌। तथा--- 'भ्रातद्वयं पितापुत्रं गोत्रिणं शून्यशाखिनम्‌। वर्गत्रये न कुर्वीत दैवेत्यन्यान्नियोजये'दिति।। पात्राणि कर्तृनियमश्च। 'पर्णराजतताम्राणि पात्राणि स्युश्शमीमया"।।इति।। [ स्मृ. मु. श्रा. प्र. 85 पृ ]

अपूपः
"............अन्योऽपि यस्मिन्नाप्यमुपस्थितम्‌।
सोऽपूप आप्यो भगवान्‌ मध्वाज्यादिप्रसिद्धगम्‌।। इति सामसंहितायां" इति [छा.भा. 170 पृ ]
तत्रैव व्याख्याने "माहतस्य प्रसिद्धापूपसाम्ये यन्मध्वाश्रयत्वं निमित्तमुक्तं तदप्यपूपशब्दनिर्वचनलब्धमेवेत्याह।।यस्मिन्निति।।
अपूपशब्दार्थआप्यमिति। अनेन अप्‌ आप्यं उप उपस्थितं यस्मिन्नसावपूपइति निर्वचनं कृतं भवति। नन्वेतावतापि मधुभूतविष्णुस्थानत्वं कथं लब्धमित्यताह।।आप्य इति।। मुक्तैः प्राप्यत्वदिति भावः। साम्यमुपपादयितुं प्रसिद्धमध्वपूपेप्येतदेव निर्वचनमित्यभिप्तेत्य तत्र विवक्षितमाप्यमाह।। मध्व जायादीति।। आज्यादिमधु प्रसद्धगं। प्रसिद्धमध्वपूपगमित्यर्थः। आप्यशब्दो लिंगव्यत्ययेननुवर्तते। अब्विकारत्वादिति भावः। तस्य प्रांचोरश्मय इत्यादि वाक्यं प्रसिद्धमधुवच्च स इति व्याख्यानपक्षे स्पष्टं। तथाहि। अस्यादि त्यस्य ये प्रांचोरश्मयः प्राच्यांदशी गतारश्मयस्ता एवास्य मध्वपूपस्य प्राचो मधुनाड्यः प्राचीदिग्गतमध्वाधारच्छिद्राणीवेत्यर्थः।।" इति [ छा. भा. प. कौ. 170 पृ ]

अपृथिवीमयः
"अप्राकृतस्वरूपत्वादनेतन्मय एव च।
अपार्थिवो हरेर्गन्धो ....................।।
इत्यादि महासंहितायाम्‌"।। इति।। [ बृ.भा. 594 पृ ]
तत्रैवव्याख्याने "अतेजोमय अकाममयः अक्रोधमयः अधर्ममय इति शब्द चतुष्टयस्य विरोध परहारायार्थमाह।। अप्राकृतेति।। प्रकृतजेतः स्वरूपत्वाद्यभावादेवातेजोमय इत्याद्युक्त इत्यर्थः। यद्वा अतेजोमय इत्यादिवदवज्ञानमय इत्याद्यपि ग्राह्यमिति भावेन तस्यार्थमाह।। अप्राकृतेति।। प्राकृतविज्ञानादिस्वरूपत्वाभावादेवाविज्ञानमय इत्याद्युक्त इत्यर्थः। अविज्ञानमयइत्यादीनामतेजोमय इत्यन्तानां शब्दानामर्थां तरं क्रमाविवक्षयाह।। अपार्थिव इत्यादिना।। हरे र्गंर्धापार्थिवोयतोऽतो तो पृथिवीमयइत्युच्यइत्यादिव्याख्येयम्‌।।" इति [ बृ. भा. भा. 594 पृ ]


अपौरुषेयत्वम्‌
(1) वेदापौरुषेयत्वं द्वैतसिद्धान्ते एवं दरीदृश्यते । तथाहि " चोपौरुषेयं वाक्यमेव नास्तीति वाच्यम् । तदभावे सर्वसमयाभिमतधर्माद्यसिद्धेः" । " न च पौरुषेयेण वाक्येन तत्सिद्धिः । अज्ञानविप्रलम्भयोः प्राप्तेः । न च तदर्थत्वेन सर्वज्ञः कल्प्येत । अन्यत्राऽदृष्टस्य सर्वज्ञत्वस्य कल्पनं तस्य तत्कृतत्वल्पनं चेति कल्पनागौरवप्राप्तेः " ।। ( इति - वि. त. नि. 93 तथा 109 पृ )
(2 ) वेदापौरुषेयत्वे अनुकूलतर्कोऽपि वर्तते । तथाहि "यदि वेदः पौरुषेयः स्यत्तर्हि " यस्ता हरिणा दृष्टाः श्रुता एवाखिलैर्जनैः । श्रुतयो दृष्टश्चेति तेनोच्चन्ते पुरातनैः"। इत्यादि स्मृतिषु ईश्वरेणापि दृष्टत्वस्यैवोक्तिर्न स्यात् । वेदाध्येतृणां तत्र कर्तृविशेषस्मृतिश्च स्यात् । मुक्तकश्लोकादौ तन्नियमाभावेऽपि अनेककर्तृकावच्छिन्नाध्ययनधारणादिमित्युरितरप्रतिबन्धात्मके भारतादौ तन्नियमात् ।। एतेन कर्तृस्मरणस्याविध्यर्थत्वत्वादिति निरस्तम् । वेदे प्रतिकल्पमनियतान्यनेकानुपूर्व्याणि तेषां यथा वदध्ययनानि चाभ्युदयकारणानि, अन्यथाध्ययनानि च वाग्वज्रतयानर्थकारणानि, अभ्युदयादिति च विजातीयकारणजन्यत्वात्तार्णाद्यग्निवद्विजातीयानीति कल्प्यत्वात्कल्पनागौरवं च स्यात् । अन्यथेश्वर एकस्मिन्नेव कल्प एकस्मा एकयानुपूर्व्या विशिष्ट वेदमुपादिशक्यान्यस्मा अन्यथानुपूर्व्याविशिष्टमुदिशतीति स्यात् । एककल्पीयायाः पूर्वस्या आनुपूर्व्या अपि स्मरणान्न तत्याग इति चेत्तत्किमीश्वरः कल्पान्तरीयां पूर्वामानुपूर्वीं व्यस्मार्षीत् ।। धर्मादिसिद्धिश्च न स्यात् । प्रकरान्तरेण तदसिद्धेरुक्तत्वात् । वेदस्य पौरुषेयत्वे ईश्वरस्य बुद्धजिनादिना वेदस्य च बुध्याद्यागमादिना तुल्यताया अपरिहार्थत्वेन वेदप्रामाण्यं च न स्यात् ।
नच बौद्धागमाद्वेदे माहजनपरिग्रहो विशेषः । महत्वस्य पूज्यत्वरूपत्वे वेदपरिगृहीतृणां पूज्यत्वस्याद्याप्यसिद्धेः । संख्याधिक्यरूपत्वे सन्दिग्धासिद्धेः । तुरुष्कागमादौ व्यभिचाराच्च ।
सप्तघटिकाभ्यन्तरभोजनादिरूपजीविकादिहेतुदर्शनशून्यत्वरूपत्वे वैदिकेष्वपि केषुचिज्जीविकादिहेतोर्दर्शनात् । बौद्धादिष्वपि केषुचित्तददर्शनाच्च ।। नापि सर्वसम्मतवेद्यशास्त्रपरिगृहीतार्थकत्वं महाजनपरिगृहीतत्वम्, वैद्यशास्त्रे रोगशान्त्यर्थं वैदिककर्मविशेषविधानादिति वाच्यम् । बौद्धानुसारिवैद्यशास्त्रे तच्छान्त्यर्थं बौद्धागमोक्तकर्मणोपिविधानात् ।। नापि सर्वसम्मतव्याकरणपिरपालिननीयत्वम् । जैनव्याकरणपिरपालनीयत्वस्य जैनागमेपि सत्वात्। न च सर्वदर्शनानुमतार्थकत्वम् वेदोक्तसत्यभाषणादाना धर्मत्वस्यापि सर्वैः स्वीकारात् । सांख्यैर्वैदिकहिंसाया अर्थमत्वस्वीकाराच्च ।. न च मन्त्रायुर्वेदादौ संवादित्वम् । एकदेशसंवादित्वस्य बौद्धोक्ताग्निस्तम्भादिकर्मस्वपि दर्शनात् । विसंवादाभावास्य च वेदेप्यभावात् ।।
तस्मादपौरुषेयवेदपिरग्रहादेव वैदिकानां पूज्यत्वम् । न तु तत्परिग्रहाद्वेदस्य प्रामाण्यम् । एतदप्युक्तं "गौरवदोषेणेति ।"
बुध्दद्यागमतुल्यत्वेन विपरीतलक्षणया लाघवदोषेणेत्यर्थः । तस्मात्पौरुषेयत्वे वेदस्य बौध्दागमतौल्यमेवेति सुस्थ एवानुकूलतर्कः । किञ्च "वाचा विरूपनित्यया । श्रुतिर्वावनित्या । अनित्या वा व
स्मृतयो याश्चान्या वाचः" इत्यादिश्रुत्या --
               " अनादिनिधना नितया वागुत्सृष्टा स्वयंभुवा "।
                नित्या वेदाः समस्ताश्च शाश्वता विष्णुबुध्दिगा" इत्यादि स्मृत्या च विरोधः ।।
न चेदं वाक्यं श्रुतीनां बहुकालीनत्वादुपचरितार्थम् । वावेत्यवधारणात् । तादृशीनामपि स्मृतीनामनित्यत्वोक्तेश्च । स्मृतौ वाक्यशेषे --
                " सर्गे सर्गेऽमुनैवेत उद्गीर्यन्ते तथैव च ।
                  तत्क्रमणैव तैवर्णैः तैः स्वरैरेव नान्यथा "
इति क्रमाश्च व्यत्यासोक्तेश्च ।।
              तदुत्पत्ति वचाश्चैव भवेव्द्यक्तिमपेक्ष्य तु"
इति वेदौत्पत्तिवाक्यगतिकीर्तनाच्च ।
                "विज्ञेयं परमं ब्रह्म ज्ञापिका परमाश्रुतिः ।
                 अनादिनित्या सा तच्च विना तां न स गम्यते "।
इति श्रुत्यन्तरस्थाऽनादिनित्यशब्दयोर्ब्रह्मणि मुख्यवृत्तिः वेदे त्वमुख्येति वृत्तिद्वयापाताच्च ।।
                  "यावद्ब्रह्मविष्ठितं तावती वाक् "
इति श्रुत्यन्तरे ब्रह्मतुल्यत्वेन सर्वदेशकालप्याप्ततयावस्थित्युक्तेश्च । एतदप्युक्तं "गौरवदोषेण" इति । श्रुत्यादिविध्दक्रमवैजात्यरूपगौरवेणेत्यर्थः " ।।
                   ( इति - त. ता. प्र. परि. 252. तः 260. )
एवमेव तत्रैव " नापि वैदिकमहंपदं स्वतन्त्रवक्तृपरं अहंपदत्वात् संमतवदित्यनेन पौरुषेयत्वसिद्धिरिति वाच्यम् । तथात्वे त्वन्मतेपि वेदे "शरीरं मे विचर्षणम् । जिह्वा मे मधुमत्तमा " इत्यादौ स्वन्त्रवक्तृरीश्वरस्यैव, भारतादौच
"किं राज्येन गौविन्द शिष्यस्तेहं शाधि मां त्वां प्रपन्नम्" ।। इत्यादौ व्यासस्यैव, लोके च "वाच्यस्त्वया मद्वचनात्स राजा" इत्यादौ कालिदासादेरेवाहं शब्दार्थत्वापातात् ।।
"ननु शरीरं मे" इत्यादावीश्वसादेरेव स्वतन्त्रवक्तृत्वेपि मन्त्रलिङ्गप्रकरणादिना यजमानाद्याभिप्रायानुप्रवेशाङ्गीकाराद्यजमानार्जुनसीतादिरेवाहं शब्दार्थ इति चेत्तर्हि वैदापौरुषेयत्वेपि "शरीरं मे" इत्यादि प्रार्थनादिमन्त्रेषु मन्त्रलिङ्गादिना यजमानेश्वराद्यभिप्रायानुप्रवेशस्य मयापि स्वीकृतत्वात् तत्र यजमान एवाहंशब्दार्थः "मामुपास्व" इत्यादौ त्वीश्वर इत्यस्तु ।।
किञ्च मन्मते ईश्वरस्यान्योच्चारणानपेक्षमेवोच्यतारियितृत्वेन स्वतन्त्रवक्तृत्वमस्ति।। एतेन वैदिकेन स्यामाभूमेत्याद्युत्तमपुरुषेन पौरुषेयत्वसिद्धिः। तदभिधेयायाः सङ्ख्यायाः स्वन्त्रवक्तृन्यादिति निरस्तम् । तस्याः "गृभ्णामि ते सौभगत्वाय हस्तं" इत्यादौ परतन्त्रवक्तृन्वयस्यापि दर्शनात् । प्रत्युत तत्पक्ष एव " वयं स्याम पतयो रयीणां" "भूयिष्ठां ते नम उक्तिं विधेम" इत्यदौ बहुवचनादिकमयुक्तम् । स्वतन्त्रवक्तृरीश्वरस्यैकत्वात् ।।
एतेन वैदिकेन युष्मच्छब्देन पौरुषेयत्वसिद्धिः । तस्य स्वतन्त्रवक्तृसंबोध्यवाचकत्वमिति निरस्तम् । "त्वां प्रपन्नं " वाच्यस्त्वया इत्यादौ परतन्त्रवक्तृसंवेद्येपि तत्प्रयोगात् । एतेनैव वैदिकाभ्यां यत्तच्छब्दाभ्यां पौरुषेयत्वसिद्धिः। तयोर्यथाक्रमं स्वतन्त्रवक्तृनिष्ठबुद्धिविषये तादृशपरामस्शो पहिते च शक्तत्वादिति निरस्तम् । "योस्मान्द्वेष्टि" "स राजा" इत्यादौ चास्वतन्त्रवक्तृबुद्धिविषयादावपि प्रयोगदर्शनात् अन्यथा वैदिकानां किमहोबतधिगादिशब्दानामपि स्वतन्त्रवक्तृनिष्ठसंशयसुखदुःखोपहितार्थत्वाद्वेदस्य नित्यसंशयाद्याधारकृतत्वमपि स्यात् । तत्र संशयादिकमाहार्यं चेदिहापि स्वातन्त्र्यमाहार्यमस्तु । एतदप्युक्तं "गौरवदोषेण " इति । एतेनैव काठकं कालापकं इत्यादि समाख्ययेश्वरसिद्धिः । ईश्वरस्यैव कगादिकायपरिग्रहेण तत्तच्छास्वानिर्मातृत्वात् । अध्ययनमात्रस्य साधारण्यादिति निरस्तम् । कठादित्र्यषि धृतत्वमेत्रेण काठकादिसंज्ञोपपत्तेः ।। नापि वेदस्तात्पर्यपूर्वकः प्रमाणशब्दत्वात् भारतवत् । न चाप्रयोजकता। तात्पर्यज्ञानस्य शाब्दज्ञानानियामकत्वे हि नानार्थे श्लिष्टे च विनिगमकाभावेनार्थावशेषधीर्न स्यात् । यष्टीः प्रवेशयेत्यादावन्वयानुपपत्यभावेन लक्षणा च न स्यादित्युक्तानुकूलतर्कसद्भावात् । तात्पर्यस्य चाथप्रत्ययनेच्छयोच्यरितत्वरूपत्वात्पौरुषेयत्वसिद्धिः ।
तस्माच्छृतिकुमार्यास्तात्पर्यरूपो गर्भ एव पुंयोगे लिङ्गमति वाच्यम् । तत्प्रमिति शेषत्वरूपस्य तात्पर्यस्येच्छाघटितत्वाभावात्।
तद्घटितत्वेपि मन्मते सजातीयोच्चारणानपेक्षस्येश्वरस्यार्थ- प्रत्यायनेच्छयोच्चारणेप सर्वदाप्येकप्रकारानुपूर्वीकत्वरूपापौरुषेयत्वाहानेश्च । अन्यथा त्वन्मतेप्यद्युनिकेनार्थज्ञानवताध्यापकेन तदिच्छयोच्चरितस्य वेदस्याधुनिककृतत्वं स्यात् । यादृच्छिकसंवादिशुकादिवाक्ये इच्छारूपतात्पर्याभावेपि शाब्दप्रमादर्शनेन हेतोरप्रयोजकत्वाच्च ।। नच तत्रापीश्वरेच्छा कल्प्या । अबाधितार्थत्वेन तत्कल्पनस्य शाब्दबोधानन्तरभावित्वेन तत्राहेतुत्वात् । ईश्वराभावं निश्चितवतोपि मीमांसकस्य शुकादिवाक्येन शाब्दप्रमादर्शनाच्च । नानार्थादावपि मन्मते नेच्छारूपं तात्पर्यं नियामकम् । किन्तु तत्प्रमिति विशेषत्वरूपम् । त्वन्मतेप्यावश्यकं प्रकरणादिकमेवार्थविशेषज्ञापकमस्तु । ज्ञापके च धूमालोकादाविवाननुगमो न दोषाय ।। यद्वा त्वन्मते काशीमरणश्चवणादिजन्यतत्वज्ञानेष्विव प्रकरणादिजन्यशाब्दबोधेष्वपि वैजात्यं कल्प्यताम् । एतेन वैदिकानि निन्दावाक्यानि हानाभिप्रायपूर्वकाणि मिन्दावाक्यत्वात् लौकिकनिन्दावाक्यवत् । एवं स्तुतिवाक्यमपि पक्षीकृत्य प्रयोक्तृव्यमिति निरस्तम् । अपौरुषेयत्वेपि मन्मते ईश्वराभिप्रायपूर्वकत्वस्य मीमांसकमतेप्यनादौ संसारेऽर्थाभिज्ञाध्यापकाभिप्रायपूर्वकत्वस्य सत्वेन सिद्धसाधनात् । स्वतन्त्रेति विशेषणे च गौरवात् । शुकादिवाक्यवत् । अभिप्रायपूर्वकत्वाभावेपि गुणदोष बोधकत्वेनैव निन्दादिवाक्यतोपपत्तेश्च ।। एतदप्युक्तं "गौरवदोषेण" इति । तस्मात्पौरुषेयत्वे नानुमानं मानम्।।
नापि "छन्दांसि जज्ञिरे" इत्यादि श्रुत्यादिकं । तस्य -
"तदुत्पत्तिवचश्चैव भवेद्व्यक्तिमपेक्ष्य तु"
                               अवान्तराभिमानानां देवानां वा व्यपेक्षया ।
                               नानित्यत्वात्कुकस्तेषामनित्यत्वं स्थिरात्मनां ।।
इत्यादिस्मृत्यैवाभिव्यक्तिपरत्वेन संप्रदायप्रवर्तकपरत्वेन च व्याख्यातत्वात् । तेनेश्वराधीनोत्पत्तिकत्वस्यैवोक्त्या मानान्तरेणार्थमुपलभ्यरचितत्वरूपस्यप्रणीतत्वस्यासिद्धेश्च । न ह्युक्तरीत्या क्रमविशेषघटितो वेद इदानीमप्यस्मदाद्यधीनोत्पत्तिक इति वयमपि वेदप्रणेतारः।।
ननु यथा वेदानादित्वश्रुति र्न वेदस्यरूपानादित्वपरा । बाधात् । किन्त्वानुपूर्व्यनन्यथात्वपरा । तन्मात्रेणैव शब्देऽनुत्पत्तिव्यवहारात् । तथा तदुत्पत्तिश्रुतिरपि तदन्यथात्वपरेति चेन्मैवम् । "तत्क्रमेणैव" इत्यादि स्मृत्याऽनुत्पत्तिश्रुतेः क्रमान्यथात्वपरत्वे स्थिते उत्पत्तिश्रुतेस्तदविरोधाय क्रमोत्पत्तिपरत्वस्यैवोचितत्वात् । अन्यथा "ऋग्वेद एवाग्नेरजायत यजुर्वेदो वायोः सामवेद आदित्यात् " इति श्रुत्याऽसर्वज्ञस्याग्नेयादेरपि वेदप्रणेतृत्वं स्यात् । न चैकस्मिन्वाक्यऽनेकेषां स्वतन्त्रप्रणेतृत्वं युक्तम् । युक्तं तु सम्प्रदायप्रवर्तकत्वम् ।। एतदप्युक्तं "गौरवदोषेण" इति ।। यद्यप्यृष्यादयोपि कोषुचित्पुरुषेषु अर्चिरविवरतस्य वेदैकदेशस्य सम्प्रदायप्रवर्तकाः । तथापि नेश्वरवत्सर्वपुरुषेष्वपि प्रलये चिरतरविरतस्य कृत्स्नस्य वेदस्य प्रवर्तका इति न तेषु वेदहेतुत्वव्यावहारः। ईश्वरोपि ह्युमन्मते -- "योब्रह्णां विदधाति पूर्वं यो वेदांश्च प्रहिणोति तस्मै" ।। इत्यादिश्रुत्या वेदसम्प्रदायप्रवर्तकत्वन्महोपाध्याय एव । तस्माद्देवानां पौरुषेयत्वरूपं सादित्वमयुक्तम् ।। अनित्यत्वं त्वत्यन्तायुक्तम् । तथाहि । क्रमविशेषविशिष्टा वर्णा एव वेदाः । क्रमस्य बुद्धिनिमित्तक एव । न तु स्वत इत्युक्तम् । ततश्च सर्वेषां सर्वथा वर्णविषयविवक्षितक्रमोपाधिभूतबुध्युपरम एव वेदे विनाशो वक्तव्यः । न तु घटादीनामिवपरः। न चेश्वरस्य तथाविधबुध्युपरमो युज्यते । तस्य सर्वदा सर्वज्ञत्वात् । पुराणादीनामप्यन्यथारचनमेवानित्यत्वमिति विधिप्रत्ययस्य लोकवद्वेदेप्याप्ताभिप्रायवाचकत्वात् । वैदिकविधिप्रत्यतेनैव वेदस्य पौरुषेयत्वमिति तु विधिवादे निरसिष्यते " ।।
                                             ( इति. त. ता. प्र. परि. 270. तः 285. पर्यन्तम् )
अप्ययः
"अप्ययो नाम अविज्ञयत्वेन प्रवेशः।
अविज्ञातं प्रविष्टं यदपीतमिति कीर्त्यते।।
यथा नद्यः समुद्रे तु यथा विष्णुं लये प्रजाः।।
इति शब्दनिर्णये" इति।। [ छा. भा. 378 पृ ]
तत्रैव व्याख्याने "किंच किमपीतशब्दस्याखण्डवृत्तिमाश्रित्यैवयार्थत्वमुच्यते उतावयववृत्तिं। नाद्यः। अपीत इत्यस्य भवतेश्चाकर्मकत्वेन श्रुतद्वितीयायोगात्‌। अश्रुततृतीयाकल्पनाप्रसंगाच्च। द्वितीयेतु नैक्यमस्माल्लभ्यत इत्याशयवाजाह।। अप्यय इति।। यद्यप्यत्रापीतिर्नामेति वक्तव्यम्‌। तथाप्यप्यय इति तत्समानार्थकशब्दनिर्वचनं
तन्येषामदर्शनं अप्ययोयं समुद्दिष्टो न स्वरूपैकता क्वचिदिति श्रुति सूचनार्थं। अदर्शनं अदर्शनविशिष्टा प्राप्तिरिति श्रौत पदार्थः।। अविज्ञेयत्वेन प्राप्तिरिति शेषः। अपिरपिधाने वर्तते। अयपयगतौ। भावेक्विप्‌। ततश्चाविज्ञयत्वेन तिरोधानेनगतिः प्राप्तिः अप्ययशब्दार्थः।
प्रवेशस्त्वर्थलब्घः। अपिहितस्य प्राप्तः प्रवेशे सति संभवतीति। प्रलयेप्ययशब्दस्यैतदेवनिर्वचनम्‌। प्रध्वंसस्तु प्रमाणान्तरगम्यः। एवं च तमाप्नातीति प्रागुदाहृतवचनेऽविज्ञेयत्वेनेति पूरणीयमिति न दोषइति भावः। अनेनापीत इत्यस्याविज्ञेयत्वेनप्राप्तः प्रविष्ट इत्यर्थ उक्तो भवति। इणो गत्यर्थत्वात्‌ निष्ठाप्रत्ययस्य कर्त्रर्थत्वात्‌। अत्रस्मृतिं चाह।। अविज्ञातमिति।। क्रिया विशेषणमेतत्‌। प्राप्तमिति शेषः। प्रविष्ट मित्यर्थलबधं। समुद्रे समुद्रमपीता इत्युच्यन्ते। ताः समुद्रमेवापियंतीत्यादौ एतेन समुद्रमपियंतीत्यस्य समुद्रातमनैकतां गच्छन्तीति व्याख्यानं प्रमाणविरुद्धमिति सूचितं। प्रजा अपीता इत्युच्यन्ते।।" इति।। [ छा. भा. प. कौ. 377-378 पृ ]


अप्रमेयः
......................भगवान्‌ हरिः।
परिमाण विहीनत्वादप्रमेय इतीरितः।
इत्यादिवचनात्‌" इति।। [ बृ. भा. 614 पृ ]
तत्रैव व्याख्याने "एतदप्रमेयमित्युक्ताप्रमेय शब्दार्थमाह - परिमाणेति। परिमिति विहीनत्वादित्यर्थः। अत्राप्रमेयत्वं सर्वात्मना प्रमित्यविषयत्वमुच्यत इति व्याख्यानं प्रमाणविरोधेन पराचष्टे। इत्यदि वचनादिति। अवाच्यत्वामनोविषयत्वयोर्ग्रहणं प्रसंगात्‌ परमतप्रतिक्षेपार्थं। इत्यादीत्यादिपदेनाप्रसिद्धेरवाच्य तदित्यादिवचनपरिग्रहः।" इति।। [ बृ. भा. भा. 61d4 पृ ]

अप्रवर्ती
"स एव पूर्णो भगवान्‌ अप्रवर्तस्तथाऽखिलैः।
अन्यैः प्रवर्त्यते योऽसौ स प्रवर्तीत गीयते।।
अप्रवर्त्यो हरिर्नित्यः स्वतन्त्रत्वात्‌ सदैव च।
अस्य प्रवृत्तिर्नास्तीति सोऽप्रवर्तीति कीर्तितः।। इति च सत्तत्वे" इति।। [छा.भा. 213 पृ ]
तत्रैव व्याख्याने "स एवेति। यः प्राक्‌ षड्‌ विधत्वादिना निरूपितः पूर्णः देशतः कालतः गुणतश्च यद्वा स एव यो जीवस्वरूपहृदयगः इत्यर्थः। अत एव यो वै सोन्तर्हृदय आकाशस्तदेतत्पूर्णमित्यव्यवहितरूपस्यैव पूर्णत्वादिकथनमुपपद्यते। पूर्वण्याख्याने तु इदमुपलक्षणत्वेनोक्तमिति ज्ञातव्यम्‌। अन्यकर्तृ क प्रवृत्तिविषयत्वाभावः कथमप्रवृत्तिशब्दार्थ इत्यतस्तं दर्शयितुं तावत्‌ प्रवृत्तशब्दार्थमाह अन्यैरिति।। कर्मणि प्रत्यय इति भावः। इदानीमप्रवृततिशब्दार्थं सहेतुकमाहअप्रवर्त्य इति। ततश्चाप्रवृत्तीतिशेषः। हरिश्च सदाऽप्रवृत्य एव नित्यस्वतन्त्रत्वात्‌। ततश्चाप्रवृत्ति इति गीयत इति योजना। प्रवर्तयतीति प्रवृत्तिः प्रवर्तकः। न विधते प्रवृत्तिः प्रवृत्तको यस्य सो अप्रवृत्तिरिति कर्तर्येव प्रत्ययमभिप्रेत्य प्रकरान्तरेणाप्रवृत्ति शब्दार्थमाह।। अस्येति।।" इति। [छा. भा. प. कौ. 213 पृ ]

अप्सुमान्‌
अप्सु पंचविधोपासी यो तारायणवान्‌ भवेत्‌। नचास्य स्मृतिरप्सु स्यादप्सुषद्‌ भगवान्‌ हरिः। इति च। अप्सुस्थित नारयणवान्‌ मुक्तो भवतीत्यर्थः। आपः सूते इति अप्सूः भगवान्‌। दीर्धलोपेन अप्सुमानिति वा" इति।। [ छा. भा. 91 पृ ]
एवमेव व्याख्याने तत्रैव "अयमपिखण्डो भगवत्पर इति ज्ञापनाय नहाप्सप्तैत्यप्सुमान्भवतीति फलवाक्यं प्रमाणेनैव वाचष्टे।। अप्सिति।। पंचविधस्य भगवतः उपासास्यास्तीति तथोक्तः। अप्सुमानित्यस्यार्थो नारायणवानिति। नहाप्सुप्रैतेत्यस्यार्थो नचेत। तत्र हेतुरप्सुषदिति। यद्वाऽप्सुमानित्येतन्नारायणवानिति व्याख्यातम्‌।
तत्कथं शब्दतोलब्धमित्यत आह।। अप्सुषदिति।। यतो भगवान्‌ हरिरप्सुपदतोप्सुमानितव्याख्यानमुपपन्नमित्यर्थः। नन्वेवमप्सुषद्वानितिस्यान्नत्वप्सुमानितीत्यतो मध्यमपदलोपि समासोयमित्याह अप्सुस्थितनारयणवानिति।। नन्वन्तर्यमितया नारायणवतवं सर्वसाधारणमिति कथमिदमुपासनफलमित्यतस्तदर्थमाह। मुक्त इति। नन्वप्सुमानित्यत्रप्स्वित्यस्य सप्तम्यंतत्वात्कथं समासः। समासे तु अम्मानित्येव प्रयोगापत्तेरितिचेत्‌। न। सप्तम्या अलुक्‌त्वांगीकारात्‌। अथवानाप्स्वित्ये तत्‌ सप्तम्यन्तम्‌। येनालुकत्वं मध्यमपदलोपोवाश्रयणीयः। किन्तुयोगेन भगवद्वाचकमिति पक्षान्तरमाह।।अप इति।।" ।। इति।। [ छा. भा. प. कौ. 90-91 पृ ]

अब्दपूर्तिः
अब्दपूतिर्विषयेऽपि एवमस्ति---
"तत्रापि पुरणम्‌ - 'सर्वैः स्वजन्मदिवसेस्नातैर्मङ्गलवादिभिः।
                      गुरुदेवाग्निविप्राश्च पूजनीयाः प्रयत्नतः।।
                      स्वनक्षत्रे च पितरं मातरं बान्धवानपि।
                      पूजयेदिति शेषः।
                      प्रतिसंवत्सरं सम्यक्कर्तव्यश्च महोत्सवः।।
                      आबध्य कटिसूत्रं च वासः सन्नह्य नूतनम्‌।
                      दधिमध्वाज्यसम्मिश्रैर्दूर्वाग्रैस्त्र्यम्बकं यजेत्‌।।
                      आयुष्यहोमं कुर्वीत ग्रहानपि यजेज्जपेत्‌"।। इति।।
                                                [ स्मृ. मु. षोड. क. प्र. 15,16 पृ ]


अब्देवोत्पत्तिः

अभावः
?R ?Rप्रथमप्रतीतौ नास्तीति उपलभ्यते सोऽभावः। तदुक्तं -
"?Rयश्च प्रथमोपलब्धौ नास्तीति प्रतीयते सोऽभाव इति (त.सं.टी. पृ. 26)
?R "?Rतथापि प्रथमं वुद्धेर्यो निषेधस्य गोचरः।
?R सोऽभावो विधिबुद्धेस्तु गोचरः प्रथमं परः।।"
?R इति (अनु-2.2.श्लो.688) अस्वतन्त्रतत्त्वं द्विविधम्। भावोऽभावश्चेति। तदुक्तं -
?R "?Rभावाभावौ द्विधेतरत्"?R इति (त.सं. पृ.24) अभावस्त्रिविधः। प्रागभावः, प्रध्वंसाभावः, सदाभावश्चेति। तदुक्तं - "?Rप्राक्प्रध्वंससदात्वेन त्रिविधोऽभाव इष्यते"?R इति
?R "?Rपूर्वापरसदात्वेन त्रिविधोऽभाव इष्यते।"?R इति। (त.वि. पृ.64)
?R अन्योन्याभावस्तु पृथक् नास्ति। तदुक्तं -
"?Rभावाभावस्वरूपत्वात् नान्योन्याभावता पृथक्"?R इति (त.वि. पृ.65) अन्योन्याभावस्य तत्तद्धर्मिस्वरूपत्वमुक्तं द्वैतसिद्धान्ते। अभाव एव नास्तीति प्राभाकराः वदन्ति। तदसदित्युक्तं - "?Rनास्तीति प्रतीतेः दुरपह्निवत्वात्। घटो नास्तीति प्रतीतिः भूतलमात्रविषया इति चेत्। मात्रेति किं भूतलमेवोच्यते उतातिरिक्तं किंचित्। आद्ये घटवत्यपि प्रसङ्गः। अतिरिक्तोऽपि घटश्चेदुक्तो दोषः। भावान्तरञ्चेत् रूपवति घटे गन्धो नास्तीति प्रतीतिप्रसंगः। ननु घटभावो घटाभाववतिभूतले संबध्यते उत घटवति। नाद्यः। आत्माश्रयादिदोषप्रसंगात्। न द्वितीयः। विरोधात्। अतो वक्तव्यं भूतलमात्र इति। तदेवास्तु नास्तीति प्रतीतिविषय इति चेत्। प्रश्न एवायं विविच्यताम्। यदि अभावसम्बन्धात् प्राक् कीदृशं भूतलमिति यदि वा सम्बन्धसमये कीदृशमिति यद्वा यदि अभावात् इदं विविच्येत तदा कीदृशं नाम स्यादिति। तृतीये यदि विवेको वस्तुकृतः तदा अभावस्य नष्टत्वात् घटवदिति। यदि बुद्धिकृतः तदा बुध्यैव घटप्रसक्तिमदिति। अन्यथैवं भावप्रतिक्षेपोऽपि स्यादित्यास्तां विस्तरः"?R इति (त.सं. पृ. 34, 35)
?R अथ प्रागभावादीनां लक्षणमेवमुक्तं - "?Rउत्तरैकावधिः अभावः प्रागभावः। प्रतियोग्युत्पत्तेः प्रागेव अभावः अस्ति उत्पन्ने तु तस्मिन् नास्तीति कृत्वा। पूर्वैकावधिः अभावः प्रध्वंसाभावः। प्रतियोगिप्रध्वंसानन्तरमेव न तु प्रागस्तीति। इति। (त.सं. पृ.37) निरवधिकोऽभावः सदाभावः। सदाभावोऽस्तीतिकृत्वा।"?R इति । (त.सं. पृ.42)

अभितापनम्‌
"अकाराद्याः क्रमेणैव भूरादेः साररूपिणः।
अस्मादयं सार इति ज्ञानमेवाभितापनम्‌।।" ।। इति।। [ छा. भा. 154 पृ ]
तत्राव "व्याहृतित्रयस्य वेदत्रयसारत्ववत्‌ अत्रापि वक्तव्यत्वादत्यत आह।। अकाराद्या इति।। प्रजापतिर्लोकानभ्य तपदित्यादौ त्रयी विद्या संप्रास्रवदित्यादौ चोक्ताभितापनसंप्रास्रवणे तपः प्रस्रवणे एवेत्यन्यथाप्रतीतिनिरासाय तयोर्विवक्षितमथं प्रमार्णनाह - ।। अस्मादयमिति।। तदुष्टिः सारत्वदृष्टिः। सारत्वज्ञानमेव संप्रस्राव शब्दस्याप्यर्थइति भावः। ब्रह्मणः परमस्येत्युक्त्या श्रौतप्रजापति शब्दो
व्याख्यातः तेन प्रजापतिर्विराट्‌कस्यपोवेति व्याख्यानं निरस्तम्‌।।" इति।। [ छा. भा. प. कौ. 154 ]


अभिमानी
"पूर्वत्र विसंवादाख्ययुक्तिमात्रविरोधो निरस्तः। अत्र श्रुतेः प्रतीतार्थप्रच्युतिकारत्वेन दृढ्युक्ति विरोधो निरस्यत इति सङ्गतिः। "मृदब्रवीदापोऽबुवन्‌ तत्तेज ऐक्षते" इत्यादि श्रुतिः प्रमाणमुत नेति सन्देहः। आदिकालीनपृथिव्यादिवक्तृत्वाद्यभिधात्रीश्रुतिर्न मानमिति। पूर्वपक्षः।। मृन्न वक्ति जडत्वान्मृत्वाद्वा सम्मतवदितियुक्ति विरुद्धार्थकत्वाज्जडस्य कर्मेन्द्रियहीनस्य कर्तृत्वेक्षितृत्वादेरयोगात्‌ इदानीन्तन मृदादिकारणत्वेन अनुमितस्य वा परसिद्धमात्रस्य वा मृदादेः पक्षीकारेण युक्तेः धर्मिग्राहकमानबधस्याप्यभावादेव
वेदैकदेशस्य अमानत्वात्‌ तत्सामान्यादितरेषु तथात्वमिति जैमिनीयन्यायेन कृत्स्न वेदस्यापि अमानत्वामिति।।सिद्धान्तस्तु।। प्रागुक्तदिशा नित्य त्वेन अनाशङ्कितदोषस्य वेदस्य अप्रामाण्यायोगात्‌ जडस्य वक्तृत्वाद्ययोगाच्च वेदप्रामाण्यवक्तृत्वाद्यभिधायकत्वयोर्द्वयोः यावताविनानुपपत्तिः तावता कल्प्यत्वात्‌ तदुभयान्यथानुपपत्या "पृथिव्याद्यभिमानिन्यो देवताः प्रथितौजसः" इत्यादि वचनेन महतां प्रत्यक्षेण च अभिमानिचेतनस्य वक्तृत्वाद्युपयोगिविग्रहादिमत्वस्य अस्मदाद्युनुपलब्धिबाधनिरासाय अन्तर्धानशक्तमत्वस्य इत्येवमादेः सिद्धत्वात्‌ मृदादस्थ मृत्वादिप्रवृत्तिनिमित्तस्य अभिमान्यधीनतया तदधीनत्वन्यायेन तच्छब्दानां तदभिमानिदेवतास्वेव मुख्यत्वाच्च मृदादिशाब्दित देववक्तृत्वाद्यङ्गीकारे युक्तिविरोधाभावात्‌ प्रमाणमेव वेद इति।। [ इति. न्या. मु. 57,58 पृ ]


अभिवादनम्‌
अभिवादनं, कदा, कथं कमुद्दिश्य च कर्तव्यमित्यस्मिन्विषये सप्रमाणमेवं स्मृतिमुक्तावल्यांमस्ति। तथाहि--
"एवं सम्यग्विधानेन गायत्र्या जपमेव च।
                               समाप्योत्थायार्कमुखो देवीं विप्रोऽभिवादयेत्‌।।
                               जपित्वा त्रिर्नियम्यासून्‌ गायत्रीमभिवाद्य च।
                               कृत्वा तुरीयोपस्थानं तामुद्वास्योपतिष्ठते।।
                               मित्रस्येत्यादिऋग्भागौः स्वस्वशाखानुसारतः।
                               ततः प्राच्याददिग्भागान्‌ तत्र संस्थान्‌ सुरानपि।।
                               अभिवाद्य नमस्कुर्याच्चतुःसन्ध्यादिदेवताः।
                               सन्ध्यापुरस्तात्सावित्री गायत्री च सरस्वती।।
                               एताः सन्ध्यादयः प्रोक्ताश्चतस्रो देवताः क्रमात्‌।
                               कर्णयुग्मं स्वहस्ताभ्यां स्पृष्ट्वा जानुद्वयादिकम्‌।।
                               घरणाङ्गुष्ठपर्यन्तं सम्मृज्य तु शनैः शनैः।
                               स्वगोत्रनाम शर्माऽहर्भोःपदेरभिवादयत्‌।।
                               अभिवादनमन्त्रेण लोकसाक्षिणमीश्वरम्‌।
                               इति मन्त्रैर्नमस्कृत्य तथा देवानृषीनपि।।
                               पितृन्‌ गुर्वादिकांश्चैव कामोकार्षादिकानपि।
                               उत्तमे शिखरे जातेदेवीमुद्वासयेदिति।।
                               ततो नारायणं देवं नयेत्संस्तुतिमन्त्रकैः।
                               नमो ब्रह्मण्यदेवेति नमोऽस्त्वित्यादिभिः सदा।।
                               ततो नमेद्वैष्णवादीन्‌ पितरावग्रजान्‌ गुरून्‌।
                               त्रिवर्षपूर्वाञ्छिष्टांश्च पार्श्वस्थानभिवादयेत्‌।।
                               समाप्य यस्य स्मृत्येति सन्ध्याकर्मद्विराचमेत्‌'। इति।।
स्मृत्यन्तरे गायत्रीजपानन्तरं गायत्रीवन्दनमुक्तं भारद्वाजेन--
'एवं सम्यग्विधानेन जपं सर्वं समाप्य च।
                              समाहितोऽथ सद्भक्त्या देवीं विप्रोऽभिवादयेत्‌।।
                              कर्णयुग्मं स्वहस्ताभ्यां स्पृष्ट्वा जानुद्वयादिकम्‌।
                              चरणाङ्गुष्ठयुग्मान्तं सम्मृज्य तु शनैः शनैः।।
                              दक्षश्रोत्रसमं बाहुं दक्षिणं तु प्रसार्य च।
                              बाहूपर शिरोनम्रमुक्तं तदभिवादनम्‌।।
                              स्वर्गोत्रनाम शर्माऽहंभोःपदैरभिवादयेत्‌।
                              इत्येतद्भाषणं यत्तन्मन्त्रं स्यादभिवादने।।
                              मन्त्रेणानेन गायत्रीं यथावदभिवाद्य च।
                              उत्तमेत्यादिमनुना देवीमुद्वासयेत्ततः।।
                              अनुवाकस्य तस्यैव वामदेवह्वयो मुनिः।
                              छन्दोऽनुष्टुप्‌ च सावित्री देवतोद्वासने विधिः।।
                              इत्युक्त्वाऽनेन गायत्रीमनुवाक्येन वै द्विजः।
                              उद्वास्याथ नमस्कुर्याच्चतुःसन्ध्यादिदेवताः।।
                              सन्ध्या पुरस्ताद्‌ गायत्री सावित्री च सरस्वती।
                              एताः सन्ध्यादयः प्रोक्ताश्चतस्रो देवताः क्रमात्‌।
                              स्वस्वनामचतुर्थ्यन्तं प्रणवादिनमोऽन्तकम्‌।
                              मन्त्रमासामिह प्रोक्तं प्रणमेत्स्वस्वमन्त्रतः।।
                              केचिद्धि मुनयः प्राहुः प्रतिमन्त्रं प्रदक्षिणम्‌।
                              कुर्वन्‌ प्रणामं कुर्वतित्येताभ्यो भक्तितो द्विजः।।
                              मित्रस्येत्यादिभिऋग्भिः विस्पष्टोदितमण्डलम्‌।
                              आदित्यं तिसृभिर्देवमुपतिष्ठेत वै द्विजः।।
                              आसामृषिर्विश्वामित्रो देवता वै दिवाकरः।
                              ( भूरिगायत्र्यमादिस्तु त्रिष्टुभाविह पश्चिमौ ) ?।।
                              इत्येवमुक्त्वोपस्थाय ततस्तमभिवादयेत्‌।
                              अभिवादनमन्त्रेण सद्भक्त्या लोकसाक्षिणम्‌।।
                              स्वगोत्रनामशर्माऽहं भोःपदैरभिवादयेत्‌।
                              इत्येवं भाषणं यत्तन्मन्त्रमर्काभिवादने।।
                              सर्वाभ्यो देवताभ्यश्चेत्येतत्प्रणवसम्पुटम्‌।
                              उक्त्वा नमो नम इति प्रणमेत्सर्वदेवताः।।
                              कामोऽकार्षीन्मन्युरकार्षीदित्येतत्पूर्वमन्त्रवत्‌।
                              उक्त्वा प्रदक्षिणेनैव नमस्कुर्यात्‌ त्रयीतनुम्‌।।
                              प्राची च दक्षिणा चैव प्रतीची चोत्तरोर्ध्वका।
                              अधरा अन्तरिक्षं च ह्योताः सप्तोदिता दिशः।।
                              सन्ध्यादीनां यथा प्रोक्तं मन्त्रमासां तथैव हि।
                              ज्ञात्वा यथाक्रमेणैताः प्रणमेत्स्वस्वमन्त्रतः।।
                              एवं सन्ध्यामुपास्याथ पितरावग्रजान्‌ गुरून्‌।
                              त्रिवर्षपूर्वाच्छिष्टांश्च पार्श्वस्थानभिवादयेत्‌।।
                              एवं सन्ध्यां समाप्याथ दृग्भ्यां यं यं प्रपश्यति।
                              यं यं स्पृशति हस्ताभ्यां स स सर्वः शुचिर्भवेत्‌'।। इति।।
उपस्थाने विशेषश्च सङ्ग्रहे प्रतिपादितः---
लाजहोमे च सीमन्ते देवतावाहने वरे।
                               अर्ध्ये तिष्ठेदुपस्थाने षडेते भृगुचोदिताः'।। इति।।
सौरमन्त्राः तत्तच्छाखोक्ताः। 'उपस्थानं स्वकैर्मन्त्रैरादित्यस्य तु कारये'दिति वसिष्ठस्मरणात्‌।। जपेत्युपस्थाने च।
  स्मृतिसारे विशेष उक्तः--
'सावित्र्यादिक्रियाः सर्वा आदित्याभिमुखश्चेरत्‌।
                            देवालयसमीपे तु देवताभिमुखः चरेत्‌।।
                            जपस्थानान्न निर्गच्छेद्देवतासन्निधौ क्वचित्‌।
                            प्रदक्षिणनमस्कारान्‌ न कुर्याद्देवतालये"।। इति।।
                                                         [ स्मृ. मु. आ. प्र. 101,102,103. पृ ]


अभिश्रवणम्‌
"स्वाध्यायान्‌ पितृदेवत्यान्‌ श्रावयेद्वैष्णवानपि। राक्षोध्नानग्निदेव त्यान्श्नावयेत्‌ मधुत्रयम्‌'।। तथा जमद्ग्निः-- 'भुञ्जानाननु विप्रेण पुण्यसूक्तमनुस्मरेत्‌। तदभिश्रवणं नाम रक्षोध्नं पितृतृप्तिदम्‌।। जपेच्च पौरुषं सूक्तं नाचिकेतत्रयं तथा। त्रिमधु त्रिसुपर्णांश्च पावमानीं यजूंषि च। अन्यानि पुण्यसूक्तानि जपेत्पुण्यकथास्तथे'ति।। तच्च सव्येनैव। 'अपसव्येन कर्तव्यं सर्वं श्राद्धं यथाविधि।। सूक्तस्तोत्रजपं मुक्त्वा विप्राणां च विसर्जन'मिति।। अभिश्रवणाभावे दोषः--'यः श्राद्धं कुरुते मूढो ह्यभिश्रवणवर्जितम्‌। तदन्नं मांसतुल्यं स्यात्तद्रसः सुरया सम' इति।। तदपवादः--'प्रीतिश्राद्धे गयश्राद्धे अभुक्ते अनुमासिके। सपिण्डीकरणश्राद्धे न जपेत्पितृसूक्तकमिति"।। इति।। [ स्मृ. मु. श्रा. प्र. 112,113 पृ ]


अभिहितान्वयः
पदं पदार्थस्मृतिमात्रोपक्षीणं नन्वितबोधकं स्मृतिपदार्थ एव तु तद्बोधक इति चेन्न । तथाहि । "एवं शब्दस्य स्मारकमात्रत्वात्पदार्थस्यैवान्वयप्रमाकरणत्वमिति वाच्यम् । न च तद्युक्तम् ।। प्रसिद्धं शब्दं त्यक्त्वाऽप्रसिद्धस्य पदार्थप्रमाणान्तरस्य कल्पनेऽनुव्याख्यानोक्तगौरवात् । तस्यातीतानातादिरूपत्वेन फलभूतमन्वयानुभवं व्यापाराभिमतां पदार्थस्मृतिं च प्रति कारणत्वस्यैवासम्भवेन तद्विशेषस्य करणत्वस्य दूरापास्तत्वाच्च । न च पदजन्या पदार्थस्मृतिरेव करणं प्रसिद्धत्यागादि दोषप्रसङ्गात् । नियापारत्वाच्च ।करणस्य च सव्यापारत्वनियमात् । न च शक्तिस्मृतिरोवावान्तरव्यापारः । तस्याः पदार्थस्मृत्यजन्यत्वात् । व्यत्पत्तिकाले शब्दस्यैव कारणत्वग्रहणाच्च । शब्देनायमर्थो ज्ञान इत्यनुभवे बादकाभावाच्च । कारणत्वसम्बन्धेनाकाशपदजनिताकाशस्मृतितः आकाशान्वयबोधप्रसंगाच्च । घटः कर्मत्वमानयनं कृतिरित्यादिपदजनितपदार्थस्मृतितोप्यन्वयबोधप्रसंगाच्च ।। नच पदविशेषजनिता पदार्थस्मृतिरन्वयबोधाङ्गम् । तथात्वे प्रथमोपास्थितपदविशेषस्यैव हेतुत्वावश्यंभावात् ।। नच पदं विनाऽपि पदार्थज्ञानमात्रात् काव्यादिमूलान्वयबोधदर्शनाद्देशादिश्रवणानन्तरं श्वेताश्वो धावतीति धीदर्शनाच्च, पदार्थज्ञानमेव कारणमिति वाच्ययम् । योगजचसाक्षात्कारे योगजधर्मसहकृतस्य मनस इव काव्यादिमूलसंसर्गानुभवे उत्प्रेक्षासहकृतस्य तत्तदर्थस्मृतिव्यापारकत्वस्य मनस एव कारणत्वात् ।। अन्यथा गौरवात् ।। अत एव नोत्प्रेक्षादेर्मानान्तरत्वापत्तिः । तस्यालोकवन्मनः सहकारित्वात् । श्वेतोधावतीति धीस्तु, तवार्थपत्या, मम तु अयं कालागरुवह्निमान् नीलधूमवत्वादितिवदयं श्वेतो धावदश्वो हेषासुरनिष्पेषवत्वादित्युनुमानेन ।
अन्यथाऽनुमानमात्रोच्छेदः स्यात् ।। वस्ततस्तु मन्मते वाक्यस्थपदज्ञानान्वयानुभवयोर्मध्ये पदार्थस्मृतिरेव नास्ति । कदापि स्मरामीत्यनुव्यवसायाभावात् ।। कल्पने च गौरवात् । अवाक्यस्य पदं तावत्स्मारकमेवेतितेत्किं तावता । न ह्यसहायस्य सत्कार्यं तदेव ससहायस्यापि । तथात्वे हीन्द्रियसहितसंस्कारजन्या प्रत्यभिज्ञाऽपि स्मृतिः स्यात् । इन्द्रियलिङ्गाभ्यां सन्निकर्षव्याप्त्योरिव शब्देनापि शक्तेरनुभवरूपे स्वफले जनयितव्य एव स्वविषयेण सह सम्बन्धत्वेनानपेक्षितत्वाच्च ।। अन्यथा व्याप्तिरपि वह्नेः स्मारिका स्यात् । व्युत्पत्तिकालेऽनुभवहेतुत्वेन गृहीतया शक्येदानीमप्यनुभवस्यैव जनयितव्यत्वाच्च । हस्तिना हस्तिपकस्मृतेरिव पदेन पदार्थस्मृतेरपि व्युत्पत्तिकाले सहानुभूतत्वरूपसम्बन्धादेव सम्भवेन स्मरणार्थं शक्तेरनपेक्षितत्वाच्च । सम्बन्धज्ञानस्य सम्बन्धिज्ञानपूर्वकत्वनियतिस्तु प्रत्यक्ष एव । न तु शब्दे। संयोगोस्तीतित्यादि शब्दात्संयोगिज्ञानं विनाऽपि संयोगानुभवात् ।। न चैवं
पदार्थस्मृतिरूपावान्तरव्यापाराभावाच्छब्दस्य कथं प्रमाकरणत्वमिति वाच्यम् । शक्तिस्मृतिरेव व्यापारत्वात् । स्वीकृताहि त्वयाऽपि शब्दज्ञानार्थस्मृत्योर्मध्ये शक्तिस्मृतिः ।। उक्तं हि सुधायां ।। पदनिचयश्रवणवाक्यार्थबोधावान्तरा पादर्थस्मृतीनामेवानभ्युपगमादिति ।। तस्मादनन्यलभ्यत्वासिद्धं शब्दस्यान्विताभिधायित्वम् तस्मात् पदार्थस्मृतेः कारणत्वे प्रसिद्धत्यागः, अप्रसिद्धस्वीकारः, अवान्तरव्यापाराभावः, प्राथमिकप्युत्पत्तिविरोधः, अनुभवविरोधः, कारणत्वेनसम्बन्धेनाकाशस्मृतितोप्यन्वयधीप्रसङ्गः, घटः कर्मत्वमित्यादिपदजनितस्मृतितोप्यन्वयमधीप्रसङ्गः, पदार्थस्मृतौ प्रमाणाभावश्चेति, दोषाष्टकम् ।।
            ( इति. त.ता. द्वि. परि. 206 तः 215. पर्यन्तम् )


अभुक्तभोगरहितः
"एवं त्रिभिर्नयैर्मुक्तौ ब्रह्म प्राप्य भोगान्‌ भुङ्ऋ इति सिद्धे सति स भोगः किंरूपः इति विशेषचिन्तनात्संगतिः। मुक्तेषु सायुज्यभाजां भोगः किं भगवदभुक्तस्याय भगवदभुक्तशेषस्येति चिन्ता। तदर्थं भुक्तशेषभोगे मुक्तेः परमपुमर्थत्वं हीयत उत नेति।। पूर्वपक्षसतु।। मुक्तेः परमपुमर्थत्वन भगवदभुक्तस्याप भोग्यस्य सौलथ्यात्‌ भगवदभुक्तानेव भुङ्क्ते। भमवद्भुक्तशेषनियमे च केषांचित्संजातभोगेच्छानां भोगा भावप्रसंगेन मुक्तेः पुमर्थत्वहानिः। ईश्वरस्य नित्यपूर्णानन्दत्वेन कदाचिदभोगस्य संभवादीति।। सिद्धान्तस्तु।। मुक्तेः पुमर्थत्वेन भगवदभुक्तभोगानां सुलभत्वेपि 'यानेवाहं श्रुर्णोमी'ति श्रुत्तौ भगवता भुज्यमानभोगभोक्तृत्वश्रवणान्मुक्तानां भगवद्भुज्यमानबोग्यभोत्कतकृत्वेमेवोपेतम्‌। न थैवं भगवदभूक्ताशेषभोक्तृत्वस्य यानेवेति श्रुतौत्पतीतेः भगवत्साम्यपत्तिः शंक्यां। 'मुक्तःप्राप्य परं विष्णुं' इति विशेषस्मुत्या 'तानेवे' ति सामान्यश्रुतेः संकोयात्‌। न चोक्तरीत्या कदाचिद्भोगाभावप्रसक्तया मुक्तेरपुमर्थत्वं शंक्यम्‌। 'पूर्णानन्दः पूर्णभुक्‌ पूरणकर्ते'तिश्रुतौ पूर्णानन्दत्वेपि पूर्णभोगश्रवणेन तस्याभोगाप्रसक्तेरिति। फलं तु 'अते' त्यादौ उक्तस्य हरेः सर्वभोक्तृत्वस्याक्षेपः तत्समाधिश्च।" इति [न्या. मु0 224,225पृ]

अभ्युक्षणविधिः
अभ्युक्षणविषयेऽपि "तत्र शाकटायनः---
ततः सूर्यमुपस्थाय सम्यगाचम्य च स्वयम्‌।
अभ्युक्षणं समादाय संयतात्मा गृहं व्रजेत्‌।। इति।। अभ्युक्षणम्‌। प्रोक्षणार्थं जलम्‌।। प्रोक्षणरहिते गृहे किञ्चिदपि कर्म न कर्तव्यमित्याह
वृद्धमनः--- ततस्सम्यग्‌द्विराचम्य ह्यभ्युक्षणमथाचरेत्‌।
                 न विनाऽभ्युक्षणं जातु विधिज्ञः किञ्चिदाचरेत्‌।। इति।।
सङ्ग्रहे च --"एव सूर्यमुपस्थाय जप्यमन्त्रान्यथाविधि।
                   जपित्वा तु ततो गत्वा स्वगृहं नियतः शुचिः।।
अभ्युक्षणं समादाय स्वगृहं प्रोक्षयेत्ततः।
                   प्रोक्षणार्थं जलं यत्तदभ्युक्षणमितीर्यते।
                   तैनैव प्रोक्षयेत्‌ सर्वं गृहोपकरणादिकम्‌।
                   अप्रोक्षिते गृहे किञ्चिन्न कर्मादिकमाचरेत्‌।।
                   त्रिसन्ध्यं वाग्यतो वारि गुप्तं त्वाहृत्य शोधयेत्‌।
                   शैवालतृमपर्णाद्यैरसंस्काराम्बुभाजनैः।।
                   सिकतावस्त्रलेपैश्च न कुर्यात्प्रोक्षणं बुधः।
                   नाहरेदेकवस्त्रस्तु नावृतो न च कन्याका।।
                   न पाणिना न वस्त्रेण तोयमभ्युक्षणाय वै।
                   सङ्गृह्याभ्युक्षणं यायात्सोपानट्को गृहं प्रति।।
                   ते तु मुक्त्वा गृहं प्राप्य ह्याचामेदन्यवारिणा।
                   वैश्वानरेण मन्त्रेण प्रोक्षयेद्गृहमन्त्रतः।।
                   गङ्गा तोयसमं तोयं वदन्ति ब्रह्मवादिनः।
                   अभ्युक्षयेत्‌ प्रयत्नेन रात्रौ पर्युषितं गृहम्‌।।
                   मध्याह्ने सर्वसन्ध्यायां न चैवाभ्युक्षिते जपेत्‌।
                   तेन द्रव्याण्यशेषाणि प्रोक्ष्याचम्य पुनर्गृही।।
                   ततः कर्माणि कुर्वीत सत्क्रियाश्च द्विजोत्तम्‌"।। इति।।
                                                           [ स्मृ. मु. आ. प्र.य 109 पृ ]



अभ्रम्‌
"अभ्रमब्भरणाद्विष्णुः.................।।
इति सामसंहितायाम्‌" इति।। [ छा. भा. 303 पृ ]
एवमेव तत्रैवान्यत्र
"अभ्रमा भगवान्‌ विष्णुर्व्याप्तत्वात्‌ परमेश्वरः।
तेनैव भ्रियमाणत्वात्‌ ब्रह्मभ्रमिति कीर्तितः।।
इति सामसंहितायाम्‌" इति।। [ छा. भा. 490 पृ ]
तत्रैव व्याख्याने "अशरीरो वायुरिति वाक्यं स्पष्टमित्यव्याख्याय अभ्रं विद्युत्स्तनयित्नुरशरीराव्येतानीति वाक्यं व्याख्यातुं प्रसिद्धाभ्रादिभ्रमवारणायाभ्रादि शब्दार्थानाह। अभ्रामेत्यादिना। यद्यपि श्रुतिभिः स्तनितत्वात्तुस्तनयित्नुर्हरिस्मृतः। अभ्रं भूताभिभरणाच्छ्रीर्वायुर्भरतः स्मृतः। विद्युत्तु भारतीप्राक्ता एव एवाशरीरिण इत्यन्यत्रउक्तं। तथापि व्यात्यासेनापि नाम स्यादेते षां महतां सदेति तत्रैवोक्तत्वान्नविरोधः।" । इति। [छा.भा.प.कौ 490 पृ]

अमरप्रभुः
अमराणां देवतानां प्रभुः स्वामीत्यर्थः। तदुक्तं----
".......अजेन सहैव तेऽथ। दासत्वमापुरत एव महत्सुराणां दासत्वतः स महिदासः इति प्रसिद्धः"।।इति।। [ ऐ. उ. भा. 1-1-1 ]
एवं मरणरहितत्वात्‌ अमराः मुक्ताः, तेषां प्रभुः स्वामिति अमरप्रभुः भगवानेव। तदुक्तं----
"न म्रियन्ते इति अमराः मुक्ताः तेषां प्रभुः।।" इति।। [ वि. स. स्त्रो विध्या. ए. ]
एवमेवामरप्रभुशब्दस्य "पूर्णत्वात्‌ अः। ज्ञानरूपत्वात्‌ मः। रतिरूपत्वात्‌ रः।। प्रकृष्टत्वात्‌प्रः। 'अकयप्रविसम्भूमसखहा विष्णुवाचकाः। एकाक्षराः.........। इति शब्दनिर्णये"।। इति।। [ बृ. उ. भा. 5-7-1 ]

असमवायिकारणम्‌
असमवायिकारणलक्षणमनूदितं सुधायां यथा--- "असमवायिकारणप्रत्यासन्नमवधृतसामर्थ्यमसमवायिकारणम्‌। समवयिकारणतत्समवायिकारणयोरन्यतरसमवेतत्वं समवयिकारणप्रत्यासन्नत्वम्‌। सामर्थ्यावधारणं चानन्यथासिद्धनियतपूर्वभावित्वेन भवति। तच्चासमवायिकारणं द्रव्यं समवायिकारणमितिवन्नैकोक्त्य। वक्तुं शक्यम्‌। प्रतिकार्यं पृथकत्वात्‌। अतस्तद्विवेकेन दर्शयितुं तज्ज्ञानस्य कार्यज्ञानसापेक्षत्वात्कार्याकार्यविभागं तावदाह सामान्येति।
अनु0------सामान्यन्त्यविशेषौ च समवायश्च तत्त्रयम्‌।।
                  नित्यं क्रिया अनित्याश्च गुणद्रव्ये द्विरूपके।।
कार्यत्वानित्यवयोः समनियमान्नित्यानित्यविभागोक्त्या कार्याकार्यविभाग एव सिध्यति।।"इति।। [सु.IVभागे पृ 3358]
असमवायिकारणलक्षणमयुक्तमिति प्रदर्शितं सुधायां यथा---"तत्र समवायकारणं समवायाप्रामाणिकत्वस्य वक्ष्यमाणत्वादयुक्तम्‌। अत एवासमवयिकारणमपि। तदधीननिरूपणत्वाच्च तल्लक्षणस्य। समवायिनिमित्तयोरतिव्याप्तेश्च। तथा हि। तन्तुपटयोः उत्पन्नस्य द्वित्वस्य पटः समवयिकारणम्‌। स च
द्वित्वसमवायकारणे तन्तौ समवेतत्वात्‌ समवायिकारणप्रत्यासन्नः। समवायिकरणतयाऽवघृतसामर्थ्यश्च। शरीरात्मनोरुत्पन्नस्य
द्वित्वस्यापेक्षाबुद्धिर्निमित्तम्‌। सा च द्वित्वसमवायिकारणात्मसमवेतत्वान्निमित्तत्वाच्चोक्तलक्षणसम्पन्ना। समवायिकारणप्रत्यामन्नतया सामर्थ्यावधारणमभि(हि)मतम्‌। न च तथा प्रकृत इति चेत्‌। तथाऽपि व्याप्यबुद्धेर्व्यापकबुद्धिं प्रति विषयबुद्धेर्धर्माधर्मयोश्च सुखदुःखे प्रत्यसमवयिकारणत्वापत्तेः। न ह्यन्यगतं व्याप्यबुद्ध्याद्यन्यगतस्य व्यापकबुद्ध्यादेर्निमित्त भवति। आत्मनि प्रदेशभेदान्नेति चेन्न। आद्यादिशब्दानां द्वितीयादिशब्दासमवायिकारणत्वाभावापत्तेः। एकाकाशगतत्वेन तत्संभवे प्रकृतेऽप समानम्‌।।"इति।। [सु. IV भागे-3492 पृ ]

असार्वात्रिकाधिकारः
"पूर्वत्र ज्ञानात्सर्वपुमर्थाप्तौ न ज्ञानिनां सर्वेषां अधिकारः किंतु उत्तमानां तत्रापि अप्ततिबद्धानामित्युक्तम्‌। इह ज्ञाने सर्वेषामधिकारोनेत्युच्यते इति संगतिः। सर्वपुमर्थहेतुत्वेन पूर्वत्र प्रकृते ज्ञाने सर्वेषामधिकारोऽस्त्युत नेति चिन्ता। तदर्थं पुरुषविभागो नांगीकार्योऽथांगीकारार्ह इति। तदर्थमर्थित्वादिकमेवाधिकारे तन्त्रमुतान्यदपीति। तदर्थमर्थित्वाद्यधिकारप्रयोजकं नास्त्युता स्तीति ।।पूर्वपक्षस्तु।। 'अर्थी समर्थो विद्वानधिक्रियते' इति न्ययसिद्धफलापेक्षित्वाद्यन्यस्य अधिकार प्रयोजकस्याभावात्‌ तस्य च निर्दुःखसुखरूपमोक्षेऽर्थित्वस्य श्रवणादिसमर्थस्य तदुपयुक्तवैदुष्यस्य च संभवेन सर्वेषु भावात्‌ सर्वेषामर्थित्वरूपप्रयोजकसाम्येपि केषांचिदेवाधिकारो नान्येषामिति पुरुषविभागंगीकारस्य निबीर्जतया अनुचिततया
केषांथिदभावेऽन्येषामप्यभावापातेन ज्ञानसय निरधिकारिकत्वप्रसंगात्‌ अस्ति ज्ञाने सर्वेषामधिकार इति।। सिद्धान्तस्तु।। 'पठेद्वेदानथार्भानधीयीताथ विचार्य ब्रह्म विन्देत्‌' अवैरुणवस्य वेदेपि ह्यधिकारो न विद्यते' इत्यादिश्रुतिस्मृतिसिद्धस्य सांगसफलयथाशक्तिकृत्स्नाध्ययनवत्वरूपप्रयोजकान्तरस्याप सत्वेन अर्थित्वादमात्रस्यातंत्रता। 'न च मोक्षो हि देवाना'मिति स्मृत्युक्तदिशा सर्वेषां देवत्वसाम्येपिपरापर ब्रह्मद्वयाधिकशतस्यैव सोमाधिकारो नान्येषामिति विभागवत्‌ अर्थित्वादौ समानेप्युक्तरूप प्रयोजकवतामेवाधिकारो नान्येषामिति पुरुषविबागस्य युक्तत्वात्‌ न सर्वेषां ज्ञानाधिकार इति। फलं तु कर्मापेक्षया ज्ञानेऽतिशयसमर्थनम्‌।।" इति [न्या-मु0 184, 185 पृ]

अमूर्तौ
"मूताद्विरूद्धरूपत्वात्‌ श्रीवायुश्चाप्यमूर्तकौ।
सर्वज्ञौ च ततो चैव नियतौ हरिणैव तौ।।
तयोः सारस्तु भगवान्‌ हरिर्नारायणः परः।
इति नारायणश्रुतौ।।" इति।। [ बृ. भा. 293 पृ ]
तत्रैव व्याख्याने "अथामूर्तं वायुरंतरिक्षं चेति वाक्यं अमूर्तपदार्थं वदन्‌ व्याचष्टे।। मूर्तादिति।। एतत्‌ त्यमिति त्यशब्दार्थमाह।। सर्वज्ञै वेति।। यदित्यस्यार्थमाह।। नियताविति।। हरिव्यतिरिक्तपुरुषानियम्यावित्यर्थः। एतस्यामूर्तस्येत्यादि पुरुष इत्यन्तं वाक्यं अधिदैवा ध्यात्मप्रकरणगतं व्याचष्टे।। तयोरिति।। श्रीवाय्वोः हरिरेवेति सम्बन्धः। चशब्दौ परस्परसमुच्यये।।" इति।। [ बृ. भा. भा. 293 पृ ]


अमृतः
"यस्मिन्‌ प्राणे स्थितः सोऽप्यमृतः। 'अतिरोहितविज्ञानाद्‌ वायुरप्यमृतः स्मृतः। मुख्यामृतः स्वयंरामः परमात्मा सनातनः।" इति सामसंहितायाम्‌।" इति [ ई. भा. 48 पृ ]
एवमेव अमृतः कदापि न मृतः।
"अन्येषाममृतत्वात्तु भवेद विष्णोः प्रसादतः।
नित्यामृतः स भगवान्‌ श्रीश्चनान्यः कथंचन।।
इति नारदीये" इति।। [ बृ. भा. 608 पृ ]
"न मरिष्यतीह्यमरो न मृतो यत्ततोऽमृतः।" । इति । [ बृ. भा. 620 पृ ]
"अमृतो नायुरूद्दिष्टो नित्यज्ञानात्मकत्वतः" इति [ बृ. भा. 265 पृ ]
"रुद्रे वेदेषु च प्राणः प्रविष्टाच्ष्ठादितः सदा।
सत्य उच्यते नित्यं स्वरूपेणामृतः स्मृतः।।" इति [ बृ. भा. 266 पृ ]
तत्रैव व्याख्याने "ननु वायोरेव सर्वाच्छादकत्वात्‌ कथं ताभ्यामयं प्राणः छन्न इत्युक्तमित्यतस्तव्द्याचष्टे।। रूद्र इति।। यतः सत्ये रूद्रे सत्येषु वेदेषु तदभिमानिभारत्यां च सदाप्रविष्टः प्राणः तस्मात्सत्येनाच्छादित इत्युच्यत इत्यर्थः। ननु नित्यज्ञानात्मकत्वं सर्वसाधारणमिति कथं वायोरमृतत्वे तन्निमित्तमित्यतआह। नित्यमिति। यतः स्वरूपेणाविर्भूतस्वरूपज्ञानेन नित्यं स्थितोऽतो वायुरमृत इति सबन्धः आविर्भूतज्ञानतिरोभावो नास्तीति भावः। यथोक्तं अतिरोहितविज्ञानाद्वायुरप्यमृतः स्मृतइति।" इति [ बृ. भा. भा. 266 पृ ]

अमृतम्‌
"अदोषत्वाद इत्युक्तो वायुस्तन्निलयो यतः।
अनिलं तत एवासौ अमृतं चेति कीर्त्यते।।
तदाश्रयोऽपि ह्यमृतः किमु साक्षात्‌ स्वयं हरिः।" ।। इति।। [ बृ. भा. 693 पृ ]
तत्रैव व्याख्याने "ननु तर्हि वायुरनिलमिति पुरुक्तिरित्यत आह - अदोषत्वादिति। अ इत्युक्तः हरिरिति वर्तते यतो वायुस्तन्निलयः स हरिरेव निलं निलय आश्रयो यस्यासौ तन्निलयः तत एवानिलमिति कीर्त्यत इत्यर्थः। अमृतं चेति कीर्त्यते अतिरोहित विज्ञानादिति शेषः। ननु विष्णुप्रार्थनाप्रकरणे वायोरनिलत्वामृतत्वोक्तिरसंगतेत्यत आहतदाश्रय इति। स हरराश्रयो यस्यासौ तदाश्रयः। तथा कैमुत्येनेश्वरामृतत्वं साधयितुं वायोरमृतत्वमत्रोच्यते। वायोरमृतत्वमात्रेण कथमीश्वरामृतत्वं कौमृत्यलभ्यमित्यतो निलयपदेन वायोरीश्वराश्रितत्वमुच्यत इति नासंगतिरिति भावः।" इति।। [ बृ. भा. भा. 693-694 पृ ]
"अमृतं वायुरुद्दिष्टः...................।। इति च।। [ बृ. भा. 433 पृ ]
व्याख्यानेच "ननु यद्येवं शारीरादि शब्दै र्मन्वाद्याविवक्षिताः तर्हि अमृतस्त्री सत्यदिक्‌मृत्युअसु प्रजापतीनां तत्रद्देवतात्वं कथमुच्यते प्रसिद्धानां तेषां मन्वाद्युत्तमत्वस्य देवतात्वस्य चाभावादित्यतः अमृतादिशब्दाभिधेयानाह।। अमृतमित्यादिना।।" इति।। [ बृ. भा. भा। 433 पृ ]
किंच "...................विष्णुरुक्तः स देवता।
ब्रह्मपूर्णगुणत्वाच्च नित्यत्वादमृतं तया।। इत।। ऐ तरेय संहितायं [ ऐ. भा. 188 पृ ]
एवं तत्रैव ".............अमंकरोति यच्छस्त्रंमृंसवामिन पुनः पुनः।
संकषणोऽमतं तस्मात्............ ।। इति चातुरात्म्ये।। इति [ ऐ. भा. 188 पृ ]

अमृतानामभृतः
".......वेदानां सारभूतोसौ वेदानां नित्यताप्रदः।
अतोऽमृतनामृतो रसानां रस एव च।।
इति महासंहतायाम्।।" इति।। [ छा. भा. 176 पृ ]
तत्रैव व्याख्याने "एवं पंचात्मकोसौ हरिः वेदानां सारभूतः उत्तमवाच्यो यतोऽत एव रसानां रसतम
इत्युच्यते। वेदानां नित्यताप्रदश्च यतो अत एवामृतानाममृतश्चेत्युच्यत इति योजना।।" इति।। [ छां. भा. प. कौ. 176 पृ ]

अमेयात्मा
"अप्रसिद्धेरवाच्यं तद्‌ वाच्यं सर्वागमोक्तितः।
अतर्क्यं तर्क्यमज्ञेयं ज्ञेयमवं परं स्मृतम्‌।।" गारुड. ( ब्र. सू. भा. 1-1-5 )
" मातुं परच्छेत्तुं अशक्यः अमेयः। अमेयः आत्मा देहः यस्य स अमेयात्मा।
आत्मेते परमात्मेति......देहश्च स्वयमित्यपि कुत्रचित्‌" इति [ भागं ता. नि. 11/22-23 ]
एवं परमात्मन आदयन्तमपि न दृश्यते-----
"नान्तं न मध्यं न पुनस्तवाऽदिपं पश्यामि विश्वेश्वरविश्वरूप।" इति [ भ. गी. 11/16 ]

अयननिर्णयः
"यात्यनेन ऋतुत्रयेण सूर्यो दक्षिणादिदिशमिति ऋतुत्रयमयनम्‌।। तथाच श्रुतिः--- 'तस्मादादित्यः षाण्मासो दक्षिणेनैति षड्डत्तरेणैती'ति। इदं तु सौरमेव। सूर्यमुपजीव्य प्रवृत्तत्वात्‌। ऋतुनिर्णयः। अत्रोत्तरायणे कर्तव्यं दक्षिणायने निषिद्धं च ज्योतिःशास्त्रे
प्रतिपादितम् -- गृहप्रवेशस्त्रिदशप्रतिष्ठा विवाहचौल (मौञ्जी) व्रतबन्धपूर्वम्‌। सौम्यायने कर्म शुभप्रदं स्याद्यद्गर्हितं तत्खलु दक्षिणायने।। इति। दक्षिणायेन अग्रदेवताप्रतिष्ठादिकं कर्तवयमित्युक्तं वैखानससंहितायाम्‌ ---
मातृभैरववाराहनारसिंहत्रिविक्रमाः।
महिषासुरसंहर्त्री स्थाप्या वै दक्षिणायने"।। इति ।।
                                                                [ स्मृति. मु का.नि.प्र. 26 पृ ]

अयाचितम्‌
"तृतीयादिपञ्चदिनसाध्ये रथसप्तमीव्रते पञ्चम्यामयाचितमुक्तम्‌। तत्र याचितभोजनस्याभावोऽयाचितमिति प्रतिषेधो वा, याचितादन्यदयाचितमिति पर्युदासो वेत्यर्थद्वयमयाचितशब्दस्य द्रष्टव्यम्‌। तत्र अयाचितम्‌। प्रतिषेधार्थकत्वमाह गौतमः---
अथापरं त्र्यहं न कञ्चन याचेतेति।
पर्युदासपक्षं बृहस्पतिराह -- त्र्यहं प्रातस्त्र्यहं सायं त्र्यहमद्यादयाचितमिति। एतस्य चायाचितव्रतस्यैकभुक्तवत् प्रतिपदोक्तकालविधिर्नास्ति, प्रतिषेधपक्षे उपवासवदहोरात्रविषयत्वात्‌, पर्युदासपक्षे पराधीनत्वात्‌, तस्य न कालविशेषो विधातुं शक्यत इति द्रष्टव्यम्‌। पर्युदासपक्षे ग्राससङ्खया चतुर्विंशतिमते दर्शिता --
अयचितेषु द्वौ चाष्टौ प्राजापत्यो विधिः स्मृत इति"।। इति [ स्मृ. मु. का. नि. प्र. 52 पृ ]


अयुतसिद्धौ
"अयुतसिद्धयोः सम्बन्धः समवायः। अवश्यमाश्रयाश्रयिभावेनावास्थितावयुतसिद्धौ।" इति।। [सु. IV भागे
पृ 3359 ]
तथा वाक्यार्थचान्द्रिकायामपि "अयुतसिद्धयोरिति। संयोगेऽतिव्यप्तिवारणायायुतसिद्धयोरित्युक्तम्‌। अयुतसिद्धयोर्घटकपालयोः सम्बन्धि यज्ज्ञानं तदप्ययुतसिद्धयोर्भवतीत्यतस्तत्रातिप्रसङ्गवारणाय सम्बन्धपदम्‌। घटकपालयोर्ज्ञानं च यद्यप्ययुतसिद्धयोर्भवति तथाऽपि न सम्बन्ध इति न तत्र प्रसङ्ग। अयुतसिद्धत्वं च परस्परापेक्षं विवक्षितम्‌। अतो न संयोगेऽतिव्याप्तिः। घटपटयोर्यत्किञ्चिदपेक्षयाऽयुतसिद्धत्वेऽप घटापेक्षया पटस्य पटापेक्षया च घटस्योक्तरूपायुतसिद्धत्वाभावादिति ध्येयम्‌।। अवश्यमाश्रयेति। कुण्डचदरनिरासायावश्यमित्युक्तं नियमेनेत्यर्थः। नन्वेवमवयव्यादीनामनित्यतया स्थित्यवश्यम्भावाभावेन ययोर्मध्ये एकस्यापरस्मिन्स्थितिरेवेति नियमाभावादव्याप्तिः. न चाविनश्यदिति विशेषणात्सर्वस मञ्जस्यम्‌। तदर्थो हि विनश्यतारहितत्वम्‌। तत्वं च यत्किञ्चिद्विनश्यताग्हितत्वं वा सकलविनश्यतारहितत्वं वा। नाद्यः। उक्तदोषानिवृत्तेः। न द्वितीयः। आत्मात्मत्वादिरूपयोर्नित्ययोरयुतसिद्धयोर्विनाशाप्रसिद्ध्या तत्राव्याप्तेः। न तृतीयः। असम्भवादिति चेन्न। ययोर्भावयोर्विद्यमानयोर्मध्ये एकस्यापरस्मिन्स्थितिरेव तत्त्वमयुतसिद्धत्वम्‌। यावेकस्मिन्कालेऽसम्बद्धौ न स्तः तत्त्वं वा तदिति तात्पर्यात्‌। आश्रयाश्रयिभावश्चात्र जगदाधारतानियामकसम्बन्धसंयोगातरिक्तसम्बन्धेन विवक्षितः अतो न सर्वभावपदार्थकालयोः कपालावयवघटयेश्च अतिव्याप्तिरिति ध्येयम्‌।।"इति।। [ सु. IV भागे. वा. च. पृ 3361 & 3362 ]
न्यायमते अयुतसिद्धयोः पदार्थयोः भेदोऽङ्गीक्रियते। द्वैतिनां मते तु अभेद अङ्गीक्रियते इति विशेष वर्तते। लक्षणं तु एकमेवेति।।

अरणी
"सर्वज्ञो भगवान्‌ विष्णुररण्योर्गुरुशिष्ययोः।
सुभृतः स्तूयते नित्यं जानाद्भिः पुरुषोत्तमः।।
इति च।। अर्यत रण आभ्यामित्यरणी।।" इति [ क. भा. 112 पृ ]
तत्र प्रकाशिकायां "तर्हि सवैरपि किमिति न दृश्यत इत्यत आह---अख्यारिति।। गर्भिणीभिः सुभृतो गर्भ इव। ऋ गताविति धातोः अर्यत इति कर्मव्युत्पत्या अख्योरिति शब्दनिष्पत्तिः भवति। तथा च णं सुखरूपं परं ब्रह्म अर्यते ज्ञायते आभ्यामित्यरणो हरितत्त्वज्ञानिनौ गुरुशिष्यौ।। तयोर्निहिते इत्यर्थः। औपनिषदः पुरुषः उपनिषदभ्यासवतामेव ज्ञेयो न सर्वस्य। यथा गर्भिणीनिहितो गर्भः तद्वदिति भावः। दिवे दिवे दिने दिने
जागृवद्भिः ज्ञानिभिः ईड्यः स्तुत्य इत्यर्थः"।। इति।। [ क. भा. प्र. 113 पृ ]

अरुणोदयस्वरूपम्‌
स्मृतिमुक्तावल्यां अरुणोदयविषये एवमस्ति "कृष्णामृतेचतस्रो घटिकाः प्रातररुणोदय उच्यते। यतीनां स्नानकालोऽयं गङ्गाम्भस्सदृशं जलम्‌।। तथा प्रमाणसङ्ग्रहे -
चतस्रो घटिकाः प्रातररुणोदय उच्यते।
                               षट्‌पञ्चाशदनाक्रान्ताश्चतस्रो घटिकास्तु याः।।
                               अरुणोदयमित्याहुस्तत्र वेधाश्चातुर्विधाः।
                               वेधातिवेधौ विज्ञेयौ महावेधस्तृतीयकः।।
                               चतुर्थश्च तथा प्रोक्तो योगः सूर्योद यः स्मृतः।
                               सप्तपञ्चाशद्‌ घटिका दशमी दृश्यते यदा।।
                               वेधासंज्ञा तु वै प्रोक्ता राक्षसानां फलप्रदा।। इत्यादि।
तथा सकान्दनारदीययोरपि -
उदयात्‌ प्राक् चतस्रस्तु नाडिका अरुणोदय इति।।
ब्रह्मवैवर्तेऽपि प्रश्नप्रतिवचनाभ्यामुक्तम्‌ -
कीदृशस्तु भवेद्‌ वेधो वेधो विप्रेन्द्र ! कीदृशः।
                            योगवेधौ ममाचक्ष्व याभ्यां दुष्टमुपोषणम्‌।।
                            चतस्रो घटिकाः प्रातररुणोदयनिश्चयः।
                            चतुष्टयविभागोऽत्र वेधादीनां किलोदितः।।
                            अरुणोदयवेधः स्यात्‌ सार्धं तु घटिकात्रयम्‌।
                            अतिवेधो द्विघटिका प्रभासन्दर्शनाद्‌ रवेः। इति।
              ब्राह्मपुराणेऽपि वेधश्चैवातिवेधश्च महावेधस्तथैव च।
                            योगवेधश्च चत्वार उपवाससय दूषकाः।।
                            प्रभासन्दर्शनात्‌ पूर्वं सार्धं तु घटिकात्रयम्‌।
                            एकादश्यान्वितं प्राक्तु घटिकार्धेऽरुणोदये।।
                            दशमी दृश्यते वेधो न वेधस्तु न दृस्यते।। इत्यादि।
तादृशारुणोदयवेलायां दशमी कलामात्रापि एकादश्यां दृश्यते चेत्‌ तदा त्याज्यैवेत्यत्र -
अरुणोदयवेलायां दशमीकलयापि वा।
                               विद्धां परित्यजेन्नित्यं शुद्धामुपवसेद्‌ गृही।। इत्यादि।
तथा स्कान्दे विशेषोऽभिहितः----
अरुणोदयतः पूर्वं कलावेधविदूषिता।
                                कलेति घटिका प्रोक्ता महावृद्धौ महीपते !।
                                तदर्धार्धा तदा ज्ञेया क्षयवृद्धौ महाक्षये।
                                व्यवधानाव्यवधानाभ्यां वृद्धिर्वेध इतीरितः।।
                                अरुणोदयतः पूर्वं व्यवधानमितीरितम्‌।
                                महाक्षये क्षये चैव सम्प्राप्ते वा दिनक्षये।।
                                महावृद्धौ च वृद्धौ च द्वादश्यामुपवासनम्‌।
                                वेधा वै विविधा प्रोक्ता पुण्यमूलनिकृन्तनी।।
                                व्यवधानान्तरे प्राहुरन्यथा किं वदाम्यहम्।। इत्यादि।
तथाच एकादश्यामरुणोदयतः पूर्वं षट्‌पञ्चाशद्धटिकायां यदा दशमीसंबन्ध एकादश्यां प्रतीयते, सैकादशी विद्धैकादशीति नोपोष्येति तात्पर्यार्थः"।। इति।। [ स्मृ. मु. का. नि. प्र. 77 पृ ]


अरूपः
पूर्वत्रोभयलिङ्गमिति लिङ्गपदेन प्रकृत भगवद्रूपाणामत्र अप्राकृतत्वसाधनात्संगतिः। यदर्थं पूर्वत्र महिमोक्तः सा भक्तिः विष्णौ न युक्ता अथ युक्तेति चिन्ता। तदर्थं तत्र माहात्म्यं न युक्तमुत युक्तमिति। तदर्थं रूपवत्वारूपवत्वयोर्दोषोस्त्युत नेति। तथा रूपित्वारूपित्वश्रुत्योः किमेकविषयकत्वमुत भिन्नविषयकत्वमिति।।पूर्वपक्षस्तु।। भक्तिर्हऐ न युक्ता तस्य रूपित्वेऽरूपित्वेवा अंगीकृते दोषापातेन माहात्म्यायोगात्‌। रूपित्वे चैत्रवदनित्यत्व प्रसंगात्‌। "नात्माश्रुते"रित्यत्रोक्त नित्यदेहत्वस्यापि इहाक्षेपात्‌।
'अरूपमव्ययं' इत्यादिश्रुत्यप्रामाण्यापाताच्च। अरूपित्वे च सौंदर्यसुलक्षणत्वाद्ययोगात्‌। रूग्मवर्णमादित्यवर्णमित्यादिश्रुत्यप्रामाण्यप्रसंगाच्च। न च रूप्यरूपित्वश्रुत्योरप्राकृतप्राकृतविषयत्वोनाविरो धान्न कोऽपि दोष इति युक्तं कलपकाभावादिति।। सिद्धान्तस्तु।। 'ऐकात्म्यप्रतययसारंआन्दमात्रमजरं' 'आनन्दरूपममृतं इत्यादिभाष्योक्त श्रुतिस्मृतिबलेन ज्ञानानन्दाद्यात्मकदिव्यरूपश्रवणेन रूपक्षुतेस्तदविषयत्वस्य च 'भौतकानीहरूपाणि भूतोभ्योऽसौ परो यतः। अरूपवानत" इत्यादिस्मृत्या प्रकृत्याद्यतीतत्वहेतुना प्राकृतरूपहीने गृहान्तश्चक्षुषप्रकाशे सत्यपि बाह्य प्रकाशाभावनेन प्रकाशो नेत्युक्तिवत्‌ अरूपश्रुतेः अप्राकृतविग्रहति हरौ प्राकृतरूपाभावविषयतयो पपत्तेः। अप्राकृतदिव्यविग्रहस्य च अनित्यत्वाद्यना पादकत्वात् सौन्दर्यादिसम्भवाच्च माहात्म्यवत्वात्‌ युक्ता तत्र भक्तिरिति। फलेतु भक्त्याक्षेपसमाधी।" [इति. न्या. मु. 128,129पृ]

अर्कः

अर्थापत्तिः
?R ?Rअनुपपद्यमानदर्शनादुपपादके बुद्धिरर्थापत्तिः। तदुक्तं -
"?Rअनुपपद्यमानार्थदर्शनात्तदुपपादकेबुद्धिरर्थापत्तिः"?R इति (प्र.पद्ध. पृ.434)
?R "?Rअनुपपद्यमानदर्शनादुपपादके बुद्धिरर्थापत्तिः"?R इति। (न्या.सु. 5 भागे पृ.4408)
"?Rअनुपद्यमानप्रमितिरर्थापत्तिः"?R इति (प्र.ल.टी. 44)
?R "?Rअर्थतः प्राप्तिरेवार्थापत्तिरित्यभिधीयते"?R इति। (ब्रह्मतर्के - वि.न. पृ.402)
"?Rअर्थतोऽनुपपद्यमानस्यार्थस्यदर्शनात् प्राप्तिः, तदुपपादकार्थान्तरप्रमितिरर्थापत्तिरित्यभिधीयते प्रामाणिकैः"?R इति। (वि.नि.टी. पृ.402)


?R येन विना यन्नोपपद्यते तदुपपादकम्। अन्यदुपपाद्यम्। तत्रानुपपद्यमानार्थदर्शनं करणम्। उपपादकविषयबुद्धिः फलम्। फलप्राधान्यविवक्षया बुद्धिरर्थापत्तिरित्युक्तम्। अयमर्थापत्तिः प्रमाणत्रित्वापेक्षयाऽतिरिक्त एव। उदा - जीवं चैत्रो गृहे नास्तीति ज्ञाने सति बहिर्भावज्ञानमिति। तन्न। अर्थापत्तेरनुमान अन्तर्भावात्। तथाहि - जीवंश्चैत्रः, बहिरस्ति, जीवनवत्वे सति गृहेऽसत्त्वात्। यथाऽहमिति। तदुक्तं -
"?Rअर्थापत्त्यपमे अनुमान विशेषः"?R इति (प्र.ल. पृ.44)
"?Rअर्थापत्त्युपमाऽभावा अनुमानान्तर्गता"?R इति (अनु.3-2.1-1)
"?Rएतेष्वेवार्थापत्त्यादीनामन्तर्भावः इति"?R (प्र.पद्ध. पृ.434)
"?Rअर्थापत्तिश्चोपमा च ह्यनुमा भेद एवतु"?R इति (वि.नि.पृ.406)
"?Rअतोऽविनाभावबलेनार्थप्रतीतिहेतुत्वादर्थापत्तिरनुमानमेव"?R इति (न्या.सु.5 भागे पृ.4408)


अर्ध्यदानम्‌
"स्वधार्यं तु निवेद्यैव हस्ते कूर्चं विनिक्षिपेत्‌। ब्राह्मणस्येति शेषः। 'या दिव्याप इति ह्युक्त्वा पितृपात्रजलं क्षिपेत्‌। पितामह इदंत इत्यर्ध्यं दद्यात्पितामहे।। प्रपितामहस्य पात्रस्थं दद्यात्तु प्रपितामहे'। अर्ध्यपात्रे पुनरुदकप्रक्षेपे दोषः--'आपोशनं पूरयित्वा पूरयित्वा तिलोदकम्‌। पुनः पूरयते तोयं श्वानमूत्रसमं भवे'दिति।। अथार्ध्यनन्तरं पितामहः--'दत्वार्ध्यं संस्रवांस्तेषां पितृपात्रे निघाय च।।
दक्षिणाग्रेषु दर्भेषु भूमावेव त्वधोमुखम्‌। पितृभ्यः स्थानमसीति पवित्राण्युपरि क्षिपेत्‌।। गन्धादिभिस्तथाभ्यर्च्य तिलैः पुष्पादिभिस्तथे'ति।। प्रचेता अपि--'प्रथमे पतृपात्रे तु सर्वान्संगृह्य संस्रवान्‌। पितृभ्यः स्थानमसीति कुर्याद्भूमावधोमुख'मिति।। तत्र विशेषः--'नोद्धरेत्प्रथमं प्त्रं पितृणामर्ध्यपात्रकम्‌। आवृतास्तत्र तिष्ठन्ति पितरः शौनकोऽब्रवीत्‌' ।। पुनरपि विशेषः--'उत्तानं विवृतं वापि पितृपात्रं यदा भवेत्‌। अभोज्यं तद्भवेदन्नं कृतं पितृगणैर्गतैः।। व्यासोऽपि--'पृष्ठमुद्धृत्य तत्पात्रं न्युब्जमुत्कुटितं तथा। पात्रं दृष्ट्वा व्रजन्त्याशु पितरः प्रशपन्ति च।।
तत्रापवादः--- 'न्युब्जीकृतं तु यत्पात्रमुत्तानं तु यदा भवेत्‌। किंचिद्दद्याद्‌द्विजाग्रेभ्यः पितृशापनिवृत्तय' इति।। तत्र पनर्विशेषः---'पितृपात्रेऽभिषिच्यार्ध्यशेषं पात्रद्वयस्थितम्‌। अनक्ति पुत्रकामस्तु मुखमेकीकृतैर्जलैः।। पितृभ्य स्थानमसीत्यर्ध्यपात्रं करोत्यध' इति।। कालादर्शे श्रद्धभोजनसमयेऽर्ध्यादिहीने सति सर्वप्रायश्चित्तं कृत्वा तत्तन्मन्त्रेण पुनरप्यर्ध्यादिकं गृह्णीयात्‌। ग्राह्येषु कर्मस्वपराध दृष्टाविति वचनाच्छ्रौते स्कन्ने प्रायश्चित्तं कृत्वाज्याहुतिग्रहणवदित्युक्तम्‌"।। इति।। [ स्मृ. मु. श्रा. प्र. 96,97 पृ ]


अर्ध्यपात्रम्‌
"सौवर्णराजतौदुम्बरखङ्गमणिमयानां पात्राणामन्यतमेषु यानि वा विद्यन्ते पत्रपुटेषु वेति। राजतं पात्रं पित्र्ये विनियुज्यते। न दैवे। तत्र पर्णपात्रे
विशेषः--- 'श्राद्धेष्वन्येषु कार्येषु ह्यर्ध्यपात्रं द्विपर्णकम्‌। पर्णैकमर्ध्यपात्रं तु एकोद्दिष्टे तु कारये"दति।।
                                                     [ स्मृ. मु. श्रा. प्र. 91 पृ ]


अर्ध्यप्रदानम्
अर्ध्यप्रदानं कथं करणीयं, नियमश्च कः इत्यादिविषये सप्रमाणमेव मस्ति "तत्र वसिष्ठः----
उत्थायार्कं प्रतिप्रोक्षेद्गायत्र्या त्र्यञ्जलीन्‌ द्विजः।
                         आदित्यमण्डलान्तस्थं ध्यात्वा विष्णु सनातनम्‌। इति।।
तच्चार्ध्यप्रदाने प्रकारमञ्जलसङ्ख्यां चाह व्यासः---
कराभ्यां तोयमादाय गायत्र्या चाभिमन्त्रितम्‌।
                            आदित्याभिमुखस्तिष्ठन्‌ त्रिरूर्ध्वमथ चोत्क्षिपेत्‌।।
यमोऽपि -
त्रिसन्ध्यासु च गायत्र्या पूरितं चाञ्जलित्रयम्‌।
                            अप्सु क्षिपेदर्कमुखो मध्याह्ने चोत्तरामुखः।। इति।।
'मध्याह्ने हंसमन्त्रतः' इति यमः। सायङ्काले विशेषमाह शङ्खः--
सूर्यायैव तु गायत्र्या त्रिसन्धास्वञ्जलिं क्षिपेत्‌।
                           प्रातर्मध्याह्नयोस्तिष्ठन्‌ सायमासीन एव च'।। इति।।
सायमासीन इति पक्षे स्थल एवार्ध्यप्रदानम्‌। अन्यथा दोष इत्याह स एव--
उपविश्य तु सायाह्ने जले त्वर्ध्यं न निक्षिपेत्।
                            निक्षिपेद्यदि मूढात्मा रौरवं नरकं व्रजेत्‌।। इति।।
कालातिक्रमेऽर्ध्यचतुटयटयं देयमित्याह स एव--
चतुरर्ध्यं तु गायत्र्या शिरोव्याहृतिसम्पुटम्‌।
                             अर्ध्यप्रदानमात्रेण कालतीतं न दोषभाक्‌।।
तत्रैव विशेषः सङ्ग्रहेऽभिहितः---
"गोशृङ्गमात्रमुद्धृत्य रविं वीक्ष्य जलाञ्जलिम्‌।
                            द्वौ पादौ च समौ कृत्वा पार्ष्णिमुद्धृत्य निक्षिपेत्‌।।
                            मुक्तहस्तेन दातव्यं मुद्रां तत्र न कारयेत्‌।
                            तर्जन्यङ्गुष्ठयोगेन राक्षसी मुद्रिका स्मृता।।
                            राक्षसीमुद्रिकाख्येन तत्तोयं रुधिरं स्मृतम्‌"।।
तच्चार्ध्यमुदके देयमित्याह स एव--
जलेष्वर्ध्यं प्रदातव्यं जलाभावे शुचिस्थलम्‌।
                             सम्प्रोक्ष्य वारिणा सम्यक्‌ ततोऽर्ध्याणि प्रदापयेत्‌।। इति।।
केवलं भूमौ दाने दोष उक्तो ब्रह्माण्डे--
"यो ददाति रवेर्ध्यं धरित्र्यामप्यनापदि।
                                तदर्ध्यं रुधिरं भूयात्तं च भूमिः शपिष्यति"।। इति।।
                                वज्रीभूतं रवेरर्ध्यं ब्राह्मणैरभिमन्त्रितम्।
                                तस्मादापदि विप्रेन्द्र ! सिक्त्वापस्तत्स्थले तृणैः।।
                                अन्तरीकृत्य तत्स्थानादग्निर्मूर्धेत्र्यृचं जपेत्‌'।।
दक्षोऽपि--
जले त्वर्ध्यं प्रदातव्यं जलाभावे शुचिस्थले,।
                             सम्प्रोभ्य वारिणा सम्यक्ततोऽर्ध्याणि प्रदापयेत्।। इति।।
यमो विशेषमाह--
अपोऽञ्जलिगृहीतास्तु सूर्याभिमुखमुत्सृजेत्‌।
                             तेजोऽसीति जपेन्मन्त्रं मूर्ध्नि बद्धाञ्जलिस्ततः।।
संवर्तः--
यः सन्ध्यां कालतः प्राप्तमालस्यादतिवर्तते।
                             सूर्यहत्यामवाप्नोति उलूकत्वमवाप्नुयात्"।। इति।।
                                                            [ स्मृ. मु. आ - प्र. 78,79 पृ ]


अर्ध्यप्रकारः
"पवित्रान्तर्हिते पात्रे शन्नोदेवीत्यपो नयेत्‌।
पूरितं पात्रयुग्मं वा सकृदेवाभिमन्त्रयेत्‌।।
स्वाहेति चैव देवानां पूरितं स्थापयेत्ततः।
दत्वा हस्ते पवित्रं तु हस्ते पवित्रं तु हस्तेष्वर्ध्यं विनिक्षिपेत्‌।।
विप्रहस्ते जलं दत्वा दत्वा चैव पवित्रकम्।
प्रागग्रमुदगग्रं वा या दिव्या इति मन्त्रतः।।
तत्ततपात्रस्थमुदकं तस्मै तस्मै प्रदापयेत्‌।
पनरेवोदकं दत्वा गन्धपुष्पाणि दापयेत्‌।। दत्वोदकं गन्धमाल्यं धूपदानं सदीपकम्‌। इदं वो गन्धपुष्पादि अयं दीपोऽर्पयेदिति।। सदशं शुक्लमहतं दद्यादाच्छादनं सुतः। माल्यं वाप्युत्तरीयं वा उपवीतमथापि वे'ति।। अर्ध्यादिदाने विशेषः--- 'आसनेष्वासनं ब्रूयादर्ध्येष्वर्ध्यं द्विजो वदेत्‌। सुगन्धश्च सुपुष्पाणि सुमाल्यं च सुधूपकम्‌।। सुज्योतिश्च सुदीपश्च स्वाच्छादनमितिक्रमात्‌। संपूर्णमर्चनं कृत्वा अस्तु ब्रूयुः पुनर्द्विजा' इति।। तथासनान्तरमर्ध्यपात्राण्यासाद्य पात्राणि संपूज्य विश्वेदेवानावाह्य यथाविधि अर्ध्यं विप्रहस्ते दत्वा गन्धपुष्पादि दत्वा 'युवासु वासा' इति वस्त्रादिकमाच्छादनं दत्वा विश्वेदेवतापूजां समाप्य अथ पितृतदन्तर्यामिणामर्चनं करिष्य इति संकल्प्य पितृणामासनादिकं दत्वा पूर्ववदेवार्ध्यपात्राण्यासाद्य पात्राणि संपूज्य पितृनावाह्य गन्धपुष्पवस्त्रादिभिः संपूजयेत्‌"।। इति ।। [ स्मृ. मु. श्रा. प्र. 92,93 पृ ]

अर्ध्याद्युपचारः
प्रागर्चितार्ध्यपात्रस्थोदमुद्धरण्या गृहीत्वा सावित्र्या मूलेन च 'देवस्यार्ध्यं समर्पयामी'ति कस्मिंश्चित्पात्रे दद्यात्‌। तां
प्रोक्षणीयोदकेन प्रक्षाल्य देवाय पुष्पं समर्पयेत्‌। एवं क्रमेण 'आपः पुनन्त्वि'ति पाद्यम्‌। "शं नो देवी"त्याचमनं समर्पयेत्‌। 'अर्ध्यं शिरसि दद्या'दिति केचित्‌। तत्प्रतिमाप्रतिष्ठाकाल एव। 'अर्ध्यं हस्ते दद्या'दिति हारितवचनात्‌। यदा यदा पाद्याद्युपचारस्तदा तदा उद्धरण्या दत्वा तां प्रक्षालयेत्‌ पात्राणामभावे प्रागर्चितशङ्खोदकेन अर्ध्यादिं दत्वा तत्प्रक्षाल्य पूर्ववदर्चयेत्"।। इति।।
                                                                                         [ स्मृ. मु. आ. प्र. 244 पृ ]



अर्चिरादिः
"पूर्वत्र यद्गति स्मरणमावश्यकमित्युक्तं सागतिः किं अर्चिर्वायूभयप्राथमिका अर्चिः प्राथमिका वेति चिन्ता। तदर्थं श्रुतिद्वयं निरवकाशमुत सावकाशमिति। तदर्थमुभयप्रायम्यं गतेरविरुद्धमुत विरुद्धमिति। तदर्थं सा किं द्विरूपा उत्तैकरूपेति गतेरधिकारिभेदेनाक्षिप्तयार्द्वयोरपि प्राथम्यविरोधेन निरवकाशो त सवकाशेति। 'ते अर्यिषमभिसंभवंति' 'स वायु मागच्छती'ति श्रुतिद्वयेन अर्थिर्वायूभयप्राथमिका गतिरिति प्राप्ते सिद्धान्तः।। 'द्वावेव मार्गो प्राथितावर्थिरादिविपश्चिताम्‌। धूमादिः कर्मिणामि'ति स्मुतवेकएव मार्गः। स चार्थिरादिक एव न तु वाखादिक इति प्रथित पदेन प्रसिद्धत्वोक्त्या 'तेऽर्थिषमिति'श्रुतेः प्राबल्यात्तदनुरोधेन अर्थिर्नामिकदेवताप्राथमिक एकैव ब्रह्मगतिर्नानेका। स वायुमागच्छतीतिश्रुतिस्तु प्रबलश्रुत्यव्युरोधेन अर्थिरनन्तरपराप्त्यर्थमयोपपन्ना शिष्टं टीकायाम्‌। फलं तु अधिकारिभेदेन मार्गद्वयस्य व्यवस्थित त्वेपि अहमत्राधिकारीत्यनिर्णयाद्गतिस्मृत्यनुपपत्तिस्तत्पमाधिश्चेति।।" इति।। [न्या.मु. 216 पृ]


अवयवः
?R प्रतिज्ञाद्यन्यतमत्वं अवयवत्वम्। प्रतिज्ञा - हेतूदाहरणोपनयनिगमनानि पञ्चावयवा इति नैयायिकाः। प्रतिज्ञाहेतूदाहरणानि अथवा उदाहरणोपनयनिगमनानि वा त्रय एवावयवा इति भाट्टाः। उदाहरणोपनयौ द्वौवेति बौद्धाः। जिज्ञासासंशयशक्यप्राप्तिप्रयोजनसंशयनिरासप्रतिज्ञाहेतूदाहरणोपनयनिगमनानि दशावयवा इति जरन्नैयायिकाः वदन्ति। तन्न। जिज्ञासादीनां आद्यानां पञ्चानां अशब्दात्मकत्वेन वाक्यावयवत्वाभावात्। तदुक्तं -
?R "?Rआद्यपञ्चकस्य अशब्दात्मकतया वाक्यावयवत्वाभावात्"?R इति (त.ता.तृतीयपरि. पृ.197)
?R ?Rकिं च अवयवनियमो नास्त्येव। तदुक्तं-
"?Rव्याप्तिद्वैविध्यनिराकरणेनोदाहरणोपनयद्वैविध्यस्यापि निराकृतत्वात्। नियमानुपपत्तेश्च। न हीदं वाक्यमागमतया व्याप्त्यादि बोधकम्। येनाकांक्षाद्यनुसारेण पञ्चावयवादिनियमः स्यात्। परस्य परस्मिन्नाप्त्यनिश्चयात्। निश्चये वा प्रतिज्ञामात्रेण पूर्तेर्हेत्वभिधानवैय्यर्थ्यात्। किन्तु गृहीतव्याप्त्यादे पुरुषस्य तत्स्मारकत्वादिनाऽगृहीतव्याप्त्यादेस्तु तज्जिज्ञासाजनकत्वेनोपयुज्यते। व्याप्तिस्मरणादिकं चैतैश्चतुर्भिरपि प्रकारैरनुभूयते। तत्किमनेन नियमेन।"?R इति। (प्र.पद्ध. पृ.234)
?R किं चान्येऽपि प्रकाराः सम्भावनार्हाः भविष्यन्ति च। तदुक्तं -


"?Rसम्भवन्ति चान्येऽपि प्रकाराः। पर्वतोऽग्निमान्धूमवत्वान्महानसवत् इति वा। धूमवान्पर्वतोऽग्निमानिति हेतुगर्भंपक्षवचनं वा। विवादेनैवप्रतिज्ञासिद्धौ कुतः पर्वतोऽग्निमानिति प्रश्ने धूमवत्वादिति हेतुमात्रं वा। पर्वतस्याग्निमत्वे किं प्रमाणमिति पृष्टे धूमवत्वमिति लिङ्गोक्तिमात्रं वा। धूमवन्महानसवत्पर्वतोऽग्निमानिति सप्रतिज्ञं हेतुगर्भं दृष्टान्तवचनं वा । अग्निव्याप्यो धूमोऽत्र पर्वतेऽस्तीत्युपनयो वा। व्याप्त्यादिमद्धूमवत्वात्पर्वतोऽग्निमानिति निगमनं वेति।"?R इति। (प्र.पद्ध. पृ.237)
?R अवयवशब्दस्य अन्वयप्रतियोगिसमर्पकत्वमप्यर्थः। तच्च ओंकारस्यास्ति। प्रथमसूत्रावयवभूतः ओंकारः। तदुक्तम् - "?Rओंकारार्थस्य प्रथमसूत्रवाक्यार्थे समन्वयेनावयवत्वनिश्चयाच्च। असंहिततया निर्देशस्तु उत्तरसूत्रेषु अनुगतिसूचनार्थः" ?Rइति। "?Rएवं सूत्राभिप्रेतं सिद्धान्तं समर्थ्येदानीं सूत्रावयवभूतान्योंकारादीनि पञ्चपदानि व्याचकीर्षुः, ?Rओंकारं तावदव्याकर्तुं तस्यादित्वे सम्मतिं वदन्" ?Rइति (च.प्र. पृ.90)
अवर्जनीयसन्निधिः
अन्यथासिद्धामित्यर्थः। तदुक्तं "अवर्जनीयेति। तथा चाकाशादीनां घटाद्युत्पत्ताविवावश्यकल्प्यमाननियतपूर्ववर्ति द्वित्वादिसंख्ययैव व्द्यणुकादौ परिमाणोत्पत्तौ सम्भवत्यां सत्यां तत्सहभूतमेतत्परमाण्वादिपरिमाणमन्यथासिद्धत्वादकारणमित्यर्थः।।" इति - [ सु. IV भागे श्री.टि.पृ. 3390 ]


अविद्या
?R भावरूपमज्ञानम्‌। तदुक्तं "?Rकिंच न वयं भावरूपाज्ञानस्य परिपंथिनः। किं नाम परपक्षे तन्नसम्भवतीति ब्रूमः।" ?Rइति (?Rन्या. सु. I?R भागे 747 ?Rपृ )
?R हृदयग्रन्थिरपि अविद्याशब्दार्थः। तदुक्तं----"?Rहृदयग्रन्थिरविद्या।" ?Rइति (?Rन्या. सु. V ?Rभागे 4985 ?Rपृ )
?R एवमेव ' ?Rभिद्यते हृदयग्रन्थिश्चिद्यन्ते सर्वसंशयाः।
?R क्षीयते चास्य कर्माणि तस्मिन्‌ दृष्टे परावरे'?R।।
?R इति। (?Rआथ. उ. 284 ?Rपृ )?R
?R प्रकाशिकायां च "?Rहृदयग्रन्थिपदेन '?Rग्रन्थि बन्धन'?R इति धातोः चक्षुः प्रवृत्तिप्रतिबन्धकपटलवदनादिकालमारभ्य परमात्मदर्शने जीवस्य स्वरूपदर्शने च प्रतिबन्धकीभूतदर्शनकरणजीवमनोमालिन्यकर्त्री माय गृह्यते।" ?Rइति। (?Rआथ. उ. भा. टी. 285 ?Rपृ )
?R मिथ्याज्ञाननिन्दनमप्यवद्याशब्दार्थः। तदुक्तं - "?Rअविद्ययामिथ्याज्ञाननिन्दया चेति यावत्‌।"?R इति। (?Rई. उ. खं 32 ?Rपृ)?R "?Rतेन विद्यापदं ईखरयाथात्म्यस्याविद्यापदं चान्यथाज्ञाननिन्द्यत्वस्योपलक्षणमित्युक्तं भवति।"?R इति। ( ?Rई.उ.भा.टी. 33 ?Rपृ )
?R एवमेव "?Rअविद्यया मृत्युं तीर्त्वा विद्ययाऽमृतमश्तुते।"?R इति ( ?Rई. उ. 32 ?Rपृ ) ?Rमध्वसिद्धान्तसारे च "?Rततोऽविद्योत्पन्ना। स च पाञ्चपर्वणी। पाञ्चपर्वणी तु मोहो महामोहस्तामिस्रमन्धतामिस्रं तमश्चेति। पुनर्जीवाच्छादिका परमाच्छादिका शैवला माया चेति चतुर्विधा। सर्वाप्यविद्या जीवाश्रिता। प्रातिस्विकी च। इति (?Rम. सि. सा. 9 ?Rपृ )
?Rपरमात्मविषयकज्ञानमप्यविद्याशब्दार्थः। तदुक्तं--'?Rअ इत्यादिश्यते विष्णुरविद्या तन्नीरीक्षणम्‌। तेन स्वप्नानयं पश्येज्जीवो जागरितं तथा।।"?R इति। (?Rमहासंहितायां बृ. भा. 332 ?Rपृ )
?R अथ परोक्तज्ञानस्य लक्षण प्रमाण निराकरणम्‌ "?Rअवश्यं तावदज्ञानमनादि भावरूपं विज्ञानविलाप्यमभ्युपगन्तव्यम्‌, प्रत्यक्षानुमानागमार्थापत्तिसिद्धत्वात्‌।। प्रत्यक्षं तावदहमज्ञो मामन्यं च न जानामीत्यपरोक्षावभासदर्शनात्‌। ननु ज्ञानाभावविषयोऽयमवभासः। न। अपरोक्षावभासत्वात्‌। अहं सुखीतिवत्‌। अभावस्य षष्ठपरमाणगम्यत्वात्‌। प्रत्यक्षाभाववादिनोऽपि नात्मनि ज्ञानाभावावगमः सम्भवति। मयि ज्ञानं नास्तीति प्रतिपत्तावात्मनि धर्मिणि प्रतियोगिनि चार्थेऽवगते तत्र ज्ञानसद्भावाज्ज्ञानाभाव प्रत्ययायोगात्‌। अनवगतेऽपि धर्म्यादौ सुतरामभावानवगमात्। षष्ठप्रमाणगोचरे फललिङ्गाभावानुमेयेऽपि ज्ञानाभावे आत्मादाववगतेऽनवगते आत्मनि ज्ञानाभावप्रतिपत्ययोगात्‌। इह च त्वदुक्तमर्थं सङ्खयां वा शास्त्रार्थं वा न जानामिति विषयव्यावृत्तमज्ञानमनुभूय तच्छ्रवणादौ प्रवर्तते।
?R भावरूपाज्ञानप्रत्यक्षवादे तु सत्यप्याश्रय प्रतयोगिज्ञाने ज्ञानाभावस्यैव भावान्तरस्यापि नानुपपत्तिर्नियन्तुं शक्यते। न चाश्रयप्रतयोगिज्ञानभूतमपि साक्षिचैतन्यं भावान्तरस्याज्ञानस्य निवर्तकम्‌। तस्याज्ञानविषयप्रतिभासत्वात्‌। न हि स्वज्ञानेन स्वयं निवर्तते। नन्वज्ञानस्य व्यावृत्तको विषयः कथं साक्षिचैतन्येनावभास्यते, प्रमाणायत्त्त्वाद्विषयसिद्धेरिति। उच्यते। सर्वं वस्तु ज्ञाततयाऽज्ञाततया वा सक्षिचैतन्यस्य विषय एव। तत्र ज्ञाततया विषयः प्रमाणव्यवधानमपे क्षते। अन्यस्तु सामान्याकारेण विशेषाकारेण वाऽज्ञानव्यावर्तकतया सदा साक्षादवभास्यत इत्युपपत्तिसहितमज्ञानप्रत्यक्षं भावरूपमेवात्मन्यज्ञानं गमयतीतिसिद्धम्‌।


?R किञ्च न किञ्चिदवेदिषमिति परामर्शसिद्धसौषुप्तिकानुभवोऽप्यत्र प्रमाणम्‌। न च ज्ञानाभावविषयोऽयमनुभवः,
?Rअभावप्रतीतेर्धर्मिप्रतियोगिबोधपराधीनतया तदभावे तस्यानुभवितुमयोग्यत्वस्योक्तत्वात्‌। न च नायं सुषुप्तिकालीनानुभव परामर्शः, किन्तु तदुत्थितस्येदानीमेव सौषुप्तिकज्ञाना भावानुमानमिति वाच्यम्‌, तदनुमापकलिङ्गासिद्धेः। न च सामग्र्यभावो लिङ्गम्‌, तस्याप्यसिद्धेः। न च ज्ञानाभावेन तदनुमानम्‌, अन्योन्याश्रयतापत्तेः। न च स्मरणाभावो ज्ञानाभावे लिङ्गम्‌, व्यभिचारात्‌।
?R तदेवं प्रतयक्षसिद्धेऽज्ञानेऽनुमानमपि। विवादगोचरापन्नं प्रमाणज्ञानं स्वप्रागभावव्यतिरिक्तस्वविषयावरण स्वनिवर्त्यस्वदेशगतवस्त्वन्तरपूर्वकम्‌ अप्रकाशितार्थ प्रकाशकत्वात्‌ अन्धकारे प्रथमोत्पन्नप्रदीप प्रभावदिति। ततश्च ज्ञानेन समानाश्रयविषयं भावरूपमज्ञानं सिद्धम्‌। अपि च न तावदज्ञानं ज्ञानाभावः अभावमानागम्यत्वात्‌ संप्रतिपन्नवत्‌। अभावो ह्यभावस्य प्रत्यक्षस्य वा विषयः
?Rपरेणेष्यते। अज्ञानं च न मानगम्यम्‌ माननिवर्त्यत्वात्‌ संप्रतिपन्नवत्‌।। किञ्चं।। विगीतं देवदत्तानिष्ठप्रमाणज्ञानं देवदत्तनिष्ठप्रमाप्रागभावातिरिक्तानादेर्निवर्तकम्‌ प्रमाणज्ञानत्वात् मज्ञदत्तगतप्रमाणज्ञानवत्‌।
?R तम आसीत्‌ मायां तु प्रकृतिं विद्यादित्याद्यागमोऽत्र प्रमाणम्‌।
?R त्वदुक्तमर्थं न जानामिति व्यवहारान्यथानुपपत्तिरपि भावरूपाज्ञानसद्भावे मानम्‌। न च प्रमाणतो न जानामीत्येवं परतया व्यवहारोपपत्तिः। त्वदुक्ते अर्थे प्रमाणज्ञानं मम नास्तीत्यस्य विशिष्टविषयज्ञानस्य प्रमाणत्वात्‌। तद्विशेषणतयाऽर्थस्यापि प्रमाणेनाधिगमात्स्ववचनव्याद्यातापत्तेः। एतदतिरिक्तप्रमाण ज्ञानं मम त्वदुक्तेऽर्थे नास्तीति च वदतो वचनव्याद्यतदोष एव। अस्यापि ज्ञानस्य पूर्ववदेव प्रमाणत्वात्‌। न च प्रमाणेन सामान्यतोऽर्थस्याधिगमे।ञपि विशेषानधिगमाददोषः। विशेषस्याप्यधिगमानधिगमयोः पूर्वोक्तदोषानतिवृत्तेः। ननु भावरूप्यमप्यूतानं ज्ञाननिररस्यमभ्युपगम्यते भवद्भिः। तत्कथं ज्ञायमानेऽर्थे न जानामीति व्यवहारः। मैवम्‌। अस्मन्मतेऽज्ञा साक्षिवेद्यतया प्रमाणाबोध्यत्वात्‌। प्रमाणज्ञानोदयात्प्राक् चाज्ञानविशेषितोऽर्थः साक्षिसिद्धोऽज्ञात इत्यनुवादगोचरो भवति। भवति च प्रश्नार्हः।। किञ्च विशुद्धब्रह्मात्मनि शुक्तिकायां चाहङ्का?Rररजताद्यध्यासस्यार्थज्ञानात्मकस्य मिथ्याभूतस्य मिथ्याभूतमेव किंचिदुपादानमन्वेषणीयम्‌। सत्योपादानकत्वे कार्यकारणस्वभावतयाऽध्यासस्यापि सत्यत्वप्रसङ्गात्‌। तस्यापि मिथ्योपादानस्य सादित्वे तथाविधोपादानान्तरकल्पनाप्रसंगादनाद्येव तन्मिथ्योपादानमिति कल्पनीयमिति मिथ्याध्यास एव तथावधाज्ञानोपादानकारणमन्तरेणानुपपद्यमानस्तत्कल्पयतीति।। किञ्च ज्ञानाद्बन्धनिवृत्तिश्रवणाद्यन्यथाऽनुपपत्तिरपि बन्धोपादानाज्ञाने प्रमाणम्‌।
?R तदेवं प्रत्यक्षादि प्रमाणतः सिद्धमज्ञानं न तावदात्मनि सम्भवति। प्रमाणप्रयोजनयोरभावात्‌। अतः परिशेषादात्मन्येवाज्ञानमंगीकरणीयम्‌। तत्कथमुच्यतेऽज्ञाना भावत इति। अत्रोच्यते।। यत्तावद्भावरूपाज्ञानसिद्धौ प्रत्यक्षमुपन्यस्तम्‌ तस्य ज्ञानाभावविषयत्वे को दोषः। अभावस्य षष्ठप्रमाणविषयत्वान्नेति चेन्न प्रत्यक्षत्वस्याङ्गीकर्तुमुचितत्वात्‌। धर्मिप्रतियोगिज्ञानभावाभावयोरनुपपत्तिरिति चेन्न तथा सति ज्ञानाभावस्य तव सर्वथाऽप्यप्रतीतिप्रसङ्गात्‌। ततश्च तन्निरासप्रयासानुपपत्तिः।
?R मम साक्षिणा ज्ञानाभावप्रतीतिरिति चेत्‌। तर्हीयमेव सा भवतु। सौषुप्तिकज्ञानाभावानुमानेऽपि काऽनुपपत्तिः। पक्षाप्रतीतेर्नेति चेन्न। तस्याप्यनुमानोपपत्तेः। न च ज्ञानाभावानुमाने लिङ्गाभावः अवस्थाविशेषत्वस्यैव लिङ्गत्वसम्भवात्‌। अनुमानं त्वसम्बद्धमेव।। प्रकाशकत्वस्य ज्ञाने प्रदीपप्रभायां चैकस्याभावेनासिद्धादिप्रसङ्गात्‌। शब्दसाम्यमात्रेणानुमाने तु गोत्वेन वागादीनामपि श्रुङ्गित्वादिप्रसङ्गः। तमोविरोधित्वमेकमुभयत्रास्तीति चेन्न। तमोऽप्यविद्यान्धकारो वा। नाद्यः। दृष्टान्तस्य साधनविकलत्वात्‌। न द्वितीयः। असिद्धेः। अभावमानागम्यत्वं त्वसिद्धमेव। अज्ञानं न मानगम्यं माननिवर्त्यत्वादिति चेन्न। तता सत तत्र प्रमाणोपन्यासवैयर्थ्यापातात्‌। तदभावो व्यावर्त्यत इति चेन्न। अबावव्यावर्तनं भावसाधनमित्येकार्थकत्वात्‌। तृतीयानुमानं तु घटादेरपि तत्साधनसौलभ्येन परास्तम्‌।
?R त्वदुक्तमर्थं न जानमीति व्यवहारस्तु ज्ञानाभावविषयोऽपि भविष्यति। अध्यासकार्यानुपपत्तिस्तु नास्त्येव, ज्ञानस्यान्तः करणोपादानतोपपत्तेः। सत्यो पादनत्वे सत्यताप्रसङ्गस्त्विष्ट एव। न हि रजवज्ज्ञानस्यापि बाधोऽस्ति। तथात्वे यथार्थ्यमपि स्यादिति चेन्न स्वरूपसतोऽपि विषयासत्वेनायथार्थत्वोपपत्तेः। नहि स्वरूपसतो विषयसत्तयापि भाव्यमिति नियामकमस्ति, साक्षिचैतन्ये व्यभिचारात्‌। अर्थस्तु रजतादिरसत्कारणमेव नापेक्षते।। ज्ञानाद्बन्धनिवृत्तिसत्वसिद्धैवेत्युक्तम्‌।। अतो नोक्त प्रमाणैर्भावरूपाज्ञानसिद्धिः।
?R किञ्च न वयं भावरूपाज्ञानस्य परिपंथिनः;?R किं नाम परपक्षे तन्न सम्भवतीति ब्रूमः। नन्वङ्गीकृतं चेदज्ञानं तर्हि
?Rभवतोऽप्युक्तानुपपत्या शास्त्रवैयर्थ्यमापन्नमित्यत आह - ।। स्वभावेति।
?R "?Rस्वभावाज्ञानवादस्य निर्देषत्वान्न तद्भवेत्‌"?R स्वश्चासौ भावश्चेति स्वभावो जीवस्तदाश्रीतं तदावरणं चाज्ञानमिति वादः स्वभावाज्ञानवादः। तस्य निर्दोषत्वाज्जडब्रह्माज्ञानवादोक्तदोषाबावान्न तच्छास्त्रवैयर्थ्यमस्मन्मते भवेत्‌। तथा स्वयमेव भवत्यस्तीति स्वभावो नाज्ञानकल्पित इति यावत्‌। तदज्ञानानवादस्योक्तेतरे तराश्रयदोषविकलत्वान्न तद्भवेत्‌। तथा स्वः स्वतन्त्रो भावः परमात्मा स्वस्य भावो धर्मः पारतन्त्र्यादिर्वा स्वभावस्तद्विषयमज्ञानं जीवस्येति वादः स्वभावाज्ञानवादस्तस्य स्वप्रकाशे स्वविषयाज्ञानासम्भवदोष विद्युरत्वान्न तद्भवेत्‌।। तथा स्वभावेन स्वतन्त्रेण परमेश्वरेणाज्ञानं जीवस्येति वादस्य स्वप्रकाशस्वरूपाभिन्न धर्मविषयमप्यज्ञानं जीवे न युक्तमिति दोषहीनत्वात्‌ न तद्भवेत्‌।
?R एतदुक्तं भवति। नास्मन्मतेऽज्ञानाङ्गीकारे दोषोऽस्ति;?R येन शास्त्रस्य विषयप्रयोजनभुन्यता स्यात्। जीवाश्रीतं जीवावरणं चाज्ञानमित्यङ्गीकारात्‌। तस्य च स्वत एव ब्रह्मणो भिन्नत्वात्‌। ज्ञानस्वभावत्वाच्च। तस्य स्वप्रकाशस्यापि परमेश्वरेच्छया परमेश्वरे स्वधर्मेषु चाज्ञानं सम्भवत्येव। यद्यपि धर्माः स्वप्रकाशचैतन्यान्न भिद्यन्ते तथाऽपि सविशेषत्वाङ्गीकादज्ञानविषयतोपपत्तिः। अज्ञानमपि सत्यमेव नाज्ञानकल्पितम्‌। तथाविधस्यापि निवृत्तिं वक्ष्यामः। तथाऽपि परमेश्वराचिन्त्यादभुतशक्त्युपबृंहिताविद्यावशान्न तथा संसारे प्रकाशयतीति। स्यादेतत्‌। अस्ति तावदविद्या। सा च दुर्घटघटनास्वभावा। यथोक्तम्‌ '?Rदुर्घटत्वमविद्यायाभूषणं न तु दूषणम्‌ कथंचिद्‌ घटमानत्वेऽविद्यात्वं दुर्घटं भवेत।।'?R इति। तथाचानुपपत्तिः कथं तत्स्वरूपापलापाय प्रभवतीति।। अत्र वक्तव्यम्‌।। किमविद्या दुर्घटसुघटघटना स्वबावा वोत दुर्घटैकस्वभावा वा।। नाद्यः। सुघटांशेऽविघात्वाभावप्रसंगात्‌। द्वितीये दोषमाह।। अविद्येति।।
?R '?Rअविद्यादुर्घटत्वं चेत्स्यादात्माऽपि हि तादृशः'?R अविद्याया दुर्घटत्वं चेत्स्वभाव इति शेषः। हि शब्दः तस्मादित्यर्थे। तादृशोऽविद्यासदृशः। मिथ्येति यावत्‌।। अयमर्थः। यद्यविद्या दुर्घटैकस्वभावा स्यात्तदा साधिष्टाना ससाक्षिका च न स्यात्‌। तथात्वे सुघटत्वप्रसंगेनाविद्यात्वाभावप्रसंगात्‌। ततश्चात्माभावेन शून्यवादापत्तिरिति।। नन्वीखरशक्तिरपि कथम्‌। यावत्प्रमाणसिद्धं तावतः सुघटस्य दुर्घटस्य वा घटनायां पटुरिति ब्रूमः। न चैवं त्वया वक्तुं शक्यत इत्युक्तम्‌। सर्वस्यापि सुघटस्यापन्हवोऽनेनातिप्रसङ्गेनोपलक्षितो बोद्धव्यः।।" ?Rइति।। [?R सुधा. जि. 706 ?Rतः 752 ?Rपर्यन्तम्‌ ।?R ?R ?R


अविभागः (1)
इदं परमाणुलभणम्‌। उक्तं च सुधायां -- "ननु परमाणुः सावयव इति स्वव्याघातस्य मुख्यमुदाहरणम्‌। यो ह सर्वतः अपकृष्टो यतः परमाणुर्नास्ति तं परमाणुमाचक्षते। तस्य सावयवत्वेऽवयविनोऽवयवानामपकृष्टपरिमाणत्वावश्यभ्भावात्कथं न व्याहतिरत्यत आह अविभाग इति। [1.अपकृष्टपरिमाणं]
अनु0----- अविभागः पराणुता।।
स्यादयं विरोधो यदीदं परमाणुपदपरवृत्तनिमित्तं स्यात्‌। न चैवम्‌। सावयवतया साक्षिसिद्धे तदसंभवात्‌। किन्तु अविभागः पराणुता परमाणुशब्दप्रवृत्तिनिमित्तम्‌। तथा च कुतो व्यघात इति।
नन्वविभाग इति कथमिदं विज्ञायते। सर्वथा विभागलक्षमगुणाभाव इति चेन्न। गुणादेरपि परमाणुत्वप्रसङ्गात्। द्रव्यत्वे सतीति विशेषणाददोष इति चेन्न। असंभवात्‌। यत्किञ्चिद्वभागाभावाभिग्राये मेरुमन्दरयोरप्यणुत्वप्रसङ्गात्‌। अवयवविभागाभावोऽभिमत इति चेन्न। गगनादेरपि परमाणुत्वापत्तेः। अवयवनाशादेव नष्टस्यावयविनोऽपि तदापत्तेः इति। मैवम्‌। यस्य विभिन्नावयवेषु सत्स्वपि तेषां विभागो न
कदाऽपि भवितुमर्हति स परमाणुरिति व्याख्यानात्‌। एतेनावयवपरंपरावि(श्रान्त्यमा)श्रमाभावेऽनवस्थेत्यपि परास्तम्‌। मूलक्षयाभावस्य सूचितत्वात्‌।।" इति।। [ सु. IV भागो 3464 पृ ]


अविभागः (2)
अव्ययः
कोपिविकारो नास्तीत्यर्थः भगवतः
तदुक्तं "न व्येति विकुरूते इति अव्ययः"
                  (वि. स. स्त्रो.विध्या) इति
अतएव स स्वाभाविकः निर्विकारी - तदुक्तं - "स न साधुना कर्मणा भूयान्‌ नो एवासाधुना कनीयान्‌"इति [ बृ. उ-6-4-22 ]
"न कर्मणा' इति तु कर्मणाऽपि न किमु स्वयमिति" इति [ गी. भा. 11-32 ]
एवमेव कर्मणा न वृद्धिहास इति विषये "तदेतदृचाभ्युक्तम्‌। एव नित्योमहिमा ब्रह्मणस्य न कर्मणा वर्धते नो कनीयान्‌"।। इति।। [ बृ. भा. 6-4-23 ]
परमात्मा तावत्‌ स्वरूपदेहवानिति, देहप्रयुक्तः यःकोऽपि विकारो नास्ति। तदुक्तं---
"आनन्दश्मश्रुरानन्दकेश आपादनखात्‌ सर्व एवानन्दः स एष विष्णुरजोऽमृतोऽचलो ब्रह्म.......।।इति।
                                                   [ भा. ता. नि. 10-75-49 ]
शरीरप्रयुक्तजन्मादि विकारोऽपि नेति। तदुक्तं--
"जन्माद्याः षडिमे भावाः दृष्टाः देहस्य नात्मनः" इति।। [ भाग. 7-7-18 ]
"षड्विकाशः शरीरस्य न विष्णोस्तद्गतस्य तु" इति [ भाग. ता. नि. ]
लोभादिप्रयुक्त विकारोऽपिनेत्याह--
"कुतो नु तद्धेतव ईश मन्युलोभादयो येऽबुधलिंगभावाः" इति [ भाग-10-25-5 ]
तस्य यः कोऽपि विकारो नास्ति। तदुक्तं---
"यावद्विकारं तु विभागो लोकवत्‌" इति [ ब्र. सू. 2-3-7 ]
किंच अपूर्णशाक्तिः यत्र वर्तते तत्र विकारो दृश्यते। यत्रतु परिपूर्णशक्तिः यत्र वर्तते तत्र नास्ति विकारः। तदुक्तं
"यो विभागी विकारः स सोऽविकारः परो हरिः।
.......विभागो ह्यल्पशक्तित्वं नहि तत्‌ परमात्मनः।। बृहत्संहिता
भगवद्गीतायामपि अव्ययशब्दविषये
"यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः।" [ भ. गी- 15/17 ]
सूर्यस्य ज्ञानदातृत्वादप भगवानव्ययशब्दवाच्यः----
"अवेः सूर्यसय अयः ज्ञानं यस्मात्सः अव्ययः।। किंच जगद्रक्षणाय अवतारं प्राप्नोति भगवानिति अव्ययशब्दवाच्यः। "आण्यं रक्ष्यं ( अवरक्षणे ) जगद्‌रक्षणाय याति प्राप्नोति इत्यव्ययः"।। इति।।
                                                                           [ वि. सू. स्त्रो. विध्या. ए ]
भगवद्विराधिनां तद्योग्यगतिं ददातीति भगवानव्ययः तदुक्तं---
"वेः परमात्मनः विरोधिनः अवयः असुरभावोपेताः। तेषां अयः आसुरज्ञानं तद्योग्या गतिश्च यस्मात्सः अव्ययः"।। [ भाग. 6-4-32 ]


अव्यक्तम्‌
"पूर्वत्र जन्मादिसूत्रोक्तसृष्ट्याद्यष्टके पालकत्वं प्रसाध्य अत्र स्वूतानत्वमिह साध्यत इति संगतिः। अत्राथपदोक्तभगवद्भक्तिः न कर्योत कार्योति चिन्ता। तदर्थं किमफलोत फलवतीति। स किं ईशस्य व्यक्तत्वेऽव्यक्तत्वे चोभयथापि परम पुमर्थहेत्वीशापरोक्षहेतुरुत अवयक्तत्वेपि ईश्वरप्रसादद्वारा तद्धेतुरिति।।पूर्वपक्षस्तु।। हरेः स्तग्भादिपत्प्रत्यक्षयोग्यत्वे स्तंभादिपरत्यक्षस्येव भक्तिं विनापि प्रतयक्षत्वसम्भवात्‌ अव्यक्तैकस्वभावावे धर्मादिरिव भक्त्यादिसाधनेनापि प्रत्यक्षत्वासम्भवात्‌ अन्यथा तादृशस्यापि प्रत्यक्षत्वे समाराधनेनापि यक्षसाक्षात्कारवदीश्वरसाक्षात्कारसंभवात्‌ अग्नयादिभूतानां स्थूल सूक्ष्मविशेषेण प्रत्यक्षाप्रत्यक्षत्ववनमूलरूपेण अव्यक्तस्यापि गृहीत रूपेण प्रायक्षत्व सम्भवात्‌ न भक्तिः अपरोक्षहेतुरिति व्यर्थासती
न कार्येति।। सिद्धान्तस्तु।।" अरूपमक्षरं ब्रह्म सदाऽव्यक्त"मिति श्रुत्या अव्यक्तैकस्वभावसयापि "आत्मा व अरे द्रष्टव्यः श्रोतव्यः" इत्यादि श्रुतिबलेन भक्तिपूर्वकश्रवणाद्यभ्यासात्प्रसन्नेन अचिन्त्यशक्तिकेश्वरेणैव तदापरोक्ष्यस्य "नित्याण्यक्तोपि भगवनीक्षते मिजशक्ततः" इति श्रुत्युक्ते न मोक्षस्य ज्ञानजप्रसादसाध्यत्वलिगेन अव्यक्तत्वप्रत्यक्षात्वश्रुतिद्वयान्यथानुपपत्या च सिद्धत्वात्। "न तमराधयित्वापि कश्चिद्द्यक्तीकरिष्यती'ति समृतसिद्धमहत्प्रत्यक्षात्‌ अव्यक्तत्वलिंगेन सूक्ष्मत्वानुमानात्‌ भक्तिहीनाराधनेन "नासौ सूक्ष्मो न स्थाले" इत्यादि श्रुत्यादितो गृहीतरूपेण च ईशप्रत्यक्षत्वस्य अभावावगमात् भक्तिरेव श्रवणआदिभुक्ताभगवदपरोक्षहेतुरति अर्थावती भक्तिरवश्यं कार्येति।।" [इति न्या.मु.133, 135पृ]

अशरीरम्‌
संकलपादेवेत्यत्रोक्तसंकल्पमात्राधीनभोगाक्षेपेणात्र शंकनात्संगतिः। 'अत एवे'त्यस्य प्रागुक्तहेत्वतिदेशकतया प्रासंगिकत्वेनाव्यवधायकत्वात्‌ प्रकृतो मुक्तानां भोगः न युज्यते उत युज्यते इति चिन्ता। तदर्थं देहभावाभावयोः भोग उपपांदयितुमशक्य उत शक्य इति। तथा मुक्तानां देहभावाभावौ विलोधादयुक्तावुत्त युक्ताविति ।। पूर्वपक्षसतु।। मुक्तानां देहस्य भावे दुःखादिप्रसंगेन निर्दुःखभोगोऽनुपपादनः। अभावे च भोगासम्भवः। न च ब्राह्मणेत्यत्रोक्तदिशा ब्राह्यदेहेन भोगो युक्त इति वाच्यम्‌। सायुज्यभाजां तत्सम्भवेपि अन्येषां तदभावात्‌। न च चिच्छरीरेण तेषां भोगोपपतत्तिः। सुपयादौ सतोपि तस्य भोगायतनत्वादर्शनात्‌। अतो देहभावेनाभावेन वा भोगस्य दुरुपपादनतवान्न मुज्यते भोगः। विरोधादयुक्तौ च देहभावाभावपक्षाविति। "सिद्धान्तस्तु।। युज्यते मुक्तानां भोगः। पक्ष द्वयेपि भोगस्य सूपपादनत्वात्‌। बाह्यदेहभावे तस्य जडत्वेपि भुद्धसत्वात्मकतेजोरुपतया दुःखाद्यनापादकत्वेन तत्र सुखानुभवमात्रस्योपपत्तेः पदीपो यथा तैलद्येव भुंक्ते न तु तद्गतकाष्ण्यादि तद्वत्‌। 'तीर्णोहि तदा सर्वान्‌ शोकानि'ति श्रुतेः। देहाभावपक्षेपि यथा स्वप्नावस्थायां बाह्यदेहाभिमानाभावेपि भोगः तथा मुक्तौ बाह्यदेहाभावेपि थिच्चरीरेण भोगोपपत्तेः अनभिमानस्याभावसाम्यात्‌। सूत्प्रौ मनसः उपरतत्वादभोगः देहभावाभावपक्षौ च 'चिता वाचितवे'ति 'अशरीरो वाव तदा भवति 'इति च श्रुतिसिद्धत्वात्‌। द्वादशाहस्य यचजमानेच्छया एकानेककर्तृकत्वाभ्यां अहीनत्वसत्रत्ववत्‌ मुक्तानां स्वेच्छया तेजोरुपबाह्यदेहभावा भावयोरविरो घाचय युक्तविति। तथा च स्मृतिः 'स्वच्छया वा शरीराणि तेजोरूपाणि कानियित्‌ । स्वीकृत्य जागरितवद्भुक्त्वा त्यागः कदाचनेति। फलं तु निदुःखभोगाभावान्मुक्तेः पुमर्थत्वाक्षेपस्तत्समाधिष्येति।" [न्या.मु. 227, 228पृ]

अष्टगन्धाः
गन्धविषयेऽपि प्रमाणमस्ति---
"चन्दनं कुङ्कुमं कोष्ठं कर्पूरं ग्रन्थिरोचनम्‌।
                         सुरागरुसमायुक्तं गन्धाष्टकमुदाहृतम्'।। इति।।
                       गन्धं पेषयित्वा शङ्खपात्रे निक्षिपेत्‌।
तत्र स्मुतिः---
"विलेपयति गोविन्दं शङ्खे कृत्वा तु चन्दनम्‌।
                            परमात्मा परां प्रीतिं करोति शतवार्षिकीम्‌"।। इति ।।
ततस्तुलस्यादीन्‌ संशोध्य सौवर्णादियागोपकरणपात्राणि भस्माना कांस्यां आम्रेण ताम्रमितरेषां तत्तच्छुद्धिसाधनैर्द्रव्यैः सम्यक्प्रक्षाल्य अग्र्योदकादिसर्वसम्भारान्‌ सम्मार्जनादियुक्तयागमण्टपे देवस्य दक्षिणे भागे स्थापयेत्‌। शिष्यादिना वा कारयेत्"।। इति।।
                                                         [स्मृ. मु. आ. प्र. 219 पृ ]


अष्टमहामन्त्राः
संध्योपास्यनन्तरं अष्टमहामंत्राणां जपादिकं कदा? च करणीय मित्यस्मिन्विषये सप्रमाणं "अष्टमहामन्त्राः संग्रहे--
"प्रातःसन्ध्यामुपास्यैवमासने सुसमाहितः।
                               तत अष्टाक्षरं मन्त्रं गायत्र्यास्त्रिगुणं जपेत्‌।।
                               गायत्र्या द्विगुणं वासुदेवमन्त्रं जपेद्बुधः।
                               वासुदेवादिकानष्टमहामन्त्रान्‌ जपेत्ततः"।। इति।।
अष्टमहामन्त्राश्च'तारोऽष्टवर्णो द्विष़क्षरोऽन्यः षडक्षरो व्याहृतयः क्रमेण। पञ्चाशद्वर्णाः सवितुश्च पत्नी पुंसूक्तमित्येव हि मूलमन्त्राः।।
एते ह्यष्टमहामन्त्रा ज्ञानमोक्षफलप्रदाः।
                               अन्ये च कामदा मन्त्राः कृष्णमन्त्रादिकास्तथा।।
                              न्यासध्यानसमायुक्ताः सऋषिच्छन्ददेवताः।
                              विष्णुध्यानसमायुक्ता जप्यास्ताः सर्वसिद्धये।।
                              एतेषां मन्त्ररत्नानां श्रुतिस्मृत्यादिकेष्वपि।
                              महिमा वर्णितः सम्यक्‌ पुराणेष्वपि सर्वशः।।
                              तस्मात्सर्वप्रत्यत्नेन नित्यं जप्यादिमान्‌ मनून।
                              अष्टोत्तरसहस्रं तु ह्यष्टोत्तरशतं तु वा"।। इति ।।
                                                                [ स्मृ. मु. आ. प्र. 109 पृ ]
अष्टमीनिर्णयः
अष्टमी निर्णयविषये स्मृतिमुक्तावल्यां "तत्र 'वसुरन्ध्रयो'रिति युग्मादिवाक्यात्‌ परविद्धैव ग्राह्या। तत्र परविद्धाग्राह्यत्वं शुक्लाष्टम्यभिप्रायेण। अत एवोक्तं निगमे --
शुक्लपक्षेऽष्टमी चैव शुक्लपक्षे चतुर्दशी।
                              पूर्वविद्धा न कर्तव्या कर्तव्या परसंयुता।।
                              उपवासादिकार्येषु एष धर्मः सनातनः।। इति।।
एवञ्च पक्षद्वयसाधारण्येन प्रवृत्तानि पूर्वविद्धानिषेधपराणि 'नाष्टमी सप्तमीयुक्ता सप्तमी नाष्टमीयुता। नवम्या सह कार्या स्यादष्टमी नात्र संशयः।।' इति पद्मपुराणवचनादीनि, तथोक्ततिथिप्रशंसपराणि 'अष्टमी नवमीमिश्रा कर्तव्या भूतिमिच्छते'ति स्कान्दवचनादीनि च निगमवक्यानुरोधेन शुक्लपक्षविषयतया योजनीयानि। कृष्णपक्षाष्टमी तु पूर्वविद्धा व्रतसामान्ये ग्राह्येत्युक्तं निगमे--
कृष्णपक्षेऽष्टमी चैव कृष्णपक्षे चतुर्दशी।
                               पूर्वविद्धा तु कर्तव्या परविद्धा न कस्यचित्‌।। इति।
अत्र व्रतविशेषानुपादानेन शुक्लकृष्णाष्टमीव्यवस्था व्रतसामान्यविषयेति द्रष्टव्या। अष्टमीव्रतानि च वराहपुरणादौ --
मासि भाद्रपदे या तु कृष्णपक्षे नरेश्वर !।
                             अष्टम्यामुपवासेन पुत्रप्राप्तिव्रतं महत्‌।। इत्यादिना दर्शितानि।
व्रतविशेषे त्वष्टमीनिर्णयश्च द्विविधः, व्रतविशेषोपजीवनेन नक्षत्रादियोगविशेषोपजीवनेन चेति। तत्र दूर्वाष्टमी व्रतविशेषोपजीवनेन प्रवृत्ता। दूर्वाष्टमीव्रतं च भविष्यत्पुराणे दर्शितम्‌ --
ब्रह्मन्‌। भाद्रपदे मासे शुक्लाष्टम्यामुपोषितः।
                            महेशं पूजयेद्यस्तु दूर्वया सहितं मुने !।। इति।
योगोपजीवनेन प्रवृत्तस्तु ज्येष्ठाष्टमीजयन्त्यादिः। ज्येष्ठाष्टमीव्रतं तु पद्मपुराणे दर्शितम्‌ --
सम्प्राप्ते भाद्रमासे तु अष्टमी या सिता भवेत्‌।
                            विधिना पुजयेञ्ज्येष्ठामलक्ष्मी-विनिवृत्तये।।
तत्र ज्येष्ठर्क्षयोगस्य फलविशेषप्रदत्वमुक्तं नागरखण्डे --
ज्येष्ठर्क्षयोगे या शुक्ला महिता कीर्तिताष्टमी।
                            भाद्रे ज्येष्ठां बहुविधैरर्चयेद्राज्यसिद्धये।। इतिछ।
तत्र दूर्वाष्टमी शुक्ला पूर्वविद्धा ग्राह्येत्युक्तं नारदेन --
धन्या कृष्णाष्टमी दूर्वा सावित्री वटपैतृकी।
                             अनङ्गत्रयोदशीरम्भा कर्तव्या सम्मुखा तिथिः।। इति।
ज्येष्ठाष्टमी ज्येष्ठानक्षत्रयोगे पूर्वापि ग्राह्या परा वा ग्राह्येत्युक्तं देवीपुराणे --
पूर्वेद्युर्वा परेद्युर्वा ज्येष्ठायोगो न चेत्तदा।
                               परे सावर्तिनी ग्राह्या तिथिवत्स्यात्परा शुभा।। इति।
मध्याह्नादूर्ध्वं तद्योगे परदिनग्राह्यत्वं स्कान्दे दर्शितम्‌ --
यस्मिन्‌ दिने भवेज्ज्येष्ठा मध्याह्नादूर्ध्वमप्यणु।
                           तस्मिन्नह्नि भवेत्‌ पूज्या नो चेत्तत्पूर्ववासरे।। इति।
भानुवासरे ज्येष्ठर्क्षयोगे तदेव दिनं ग्राह्यमित्युक्तं स्कान्दपुराणे --
तत्राष्टम्यां यदा वारो भानोर्ज्येष्ठर्क्षमेव च।
                             नीलज्येष्ठेति सा प्रोक्ता दुर्लभा बहुकालिकी"।। इति।
                                                       [ स्मृ. मु. का. नि. प्र. 57-58 पृ ]

अष्टाक्षरपूजा
"तन्त्रसारे - 'अष्टाक्षरेण सम्पूज्य ततः तिथिवारानुक्त्वा श्रीविष्णुप्रेरणया श्रीविष्णुप्रीत्यर्थं श्रीमध्वाचार्याणां हृत्कमलमध्यनिवासिनं अनन्तकल्याणगुणपरिपूर्णं क्षीराब्धिशायि श्रीलक्ष्मीनारायणमुद्दिश्य यथाशक्ति श्रीमत्तन्त्रसारोक्तविधिना ॐ श्रीभगवतो बलेन ॐ श्रीवासुदेवस्य पूजात्मकं कर्म करिष्ये। इति सङ्कलप्य कुर्यात्‌।।
पाद्मे - "त्रिकालमर्चयेद्विष्णुं भक्त्या वै पुरुषोत्तमम्‌।
नैमित्तेके विशेषेण पूजयेद्विधिना तथा"।। इति।।
                                                          [ स्मृ. मु. आ. प्र. 232 पृ ]


अष्टाक्षरादिजपन्यासक्रमः
गायत्रीजपोपस्थानानन्तरं अष्टाक्षरादिजगन्यासादिकं कर्तव्यमित्यस्मिन्विषये सप्रमाणं च निरूपणंम्‌ "तदुक्तं संग्रहे--
प्रातस्सन्ध्यामुपास्यैवमासने सुसमाहितः।
                              तत अष्टाक्षरं मन्त्रं गायत्र्यास्त्रिगुणं जपेत्'।।इति।।
तत्रादौ अष्टाक्षरादिमन्त्रस्य सृष्ट्यादिन्यासः कपिञ्जलसंहितायामिक्तः--
'अङ्गन्यासं समारभ्य करन्यासान्तमेव हि।
                             सृष्टिन्यासं स्थितिन्यासं संहितान्यासमेव च।।
                             द्वादशाष्टाभरादीनां न्यासमन्त्रानुदीरयेत्‌।
                             शिखामध्ये तथाक्ष्णोश्च आस्ये च हृदि चोदरे।।
                             गुह्ये जानौ च पादे च स्थानमष्टाक्षरेण तु।
                             मूर्ध्नि पूर्वे तथा याम्ये पश्चिमे चोत्तरे तथा।।
                             अन्ये च पूर्ववत्कुर्याद्‌द्विषट्‌ करणमुच्यते।
                             शीर्षतः पादपर्यन्त सृष्टिन्यासं द्विजोत्तमः।।
                             संहारं तु तथा विद्धि विपरीतमुदाहृतम्‌।
                             पादादिहृदयान्तस्तु स्थितिरेवं प्रकीर्तितः।
                             पाणिन्यासं ततो वक्ष्ये तर्जन्यादि यथाक्रमम्‌।
                             नामं तु सुष्टिसंज्ञं तु संहारं विपरीतकम्‌।।
                             तर्जन्यादिकनीयान्तं स्थितिरेवं प्रचक्षते।
                             मध्यमादिषु सर्वासु बीजस्थानमिहोच्यते।।
                             अष्टाक्षरसमुद्दिष्टं कुर्यात्प्रणवसम्पुटम्‌।
                             सव्यहस्ततलादीनि ह्यपसव्यतलान्तकम्‌।।
                             द्वादशाक्षरबीजानां सृष्टिन्यासः स उच्यते।
                             पूर्ववत्‌ स्थितिसंहारन्यासयोगः प्रकीर्तितः।।
                             वासुदेवेन कवचं योगपीठं प्रकल्पयेत्‌"।। इति।।
                                                                                             [ स्मृ. मु. आ. प्र. 104 पृ ]

अहः
सर्वलोकान्‌ प्रकाशयतीत्यर्थः। अहशब्दवाच्यः नारायणः--- तदुक्तं---
"असावहरितिप्रोक्तः सर्वलोकप्रकाशनात्‌" [ बृ. उ. भा. 7-7-1 ]
"तमसा अहनीयत्वादहः............।।" इति प्रमाणेन
अज्ञानावृतो न भवति भगवानित्यर्थः [ छा. उ. भा. 5-2-6 ]
एवमेव 'अहार्यत्वादहर्नामा.......।।"इति [ ऐ. भा. 2-8-2-2 ]
एत्यनेन केनाऽपि नियन्त्रितुमशक्य इति भावः।।
किंच अहः = व्यापकः। अहव्याप्तौ इति धातोः, सर्वत्र भगवतः व्यापकत्वमस्तीत्यर्थोपि।
एवं प्रकाशरूपत्वादङः भगवानेव। तदुक्तं
ज्ञानरूपत्वात्‌ बलरूपत्वाद्वा अहः।
अहर्दिनं प्रकाशश्च क्वचित्‌ ज्ञानं बलस्तथा।। इति [ बृ. उ. भा. 5-4 ]
एवमेव 'अहीनत्वादहः' भगवानेव
एवं 'कस्यापेक्षया नीचत्वाभावादहः'
एवमेव 'सज्जनान्‌ न हन्तीति
व्युत्पया अहश्शब्दवाच्यः भगवानेव।
एवं 'ज्ञानिनः न जहतिति' इति व्युत्पत्या अहः भगवान्‌।


अहिकुण्डलम्‌
"पूर्वत्र हरेरण्यक्तत्वे प्रत्यक्षत्वे च मानाभावेन अव्यक्तस्यापि व्यक्तत्वोक्तिवदिहापि गुणात्मत्वेपि गुणित्वे चोभयत्र मानाभावात्‌ गुणात्मनाप गुणित्वमिति कथनात्संगतिः। अथ पदोक्ता हरिभक्ति र्न कार्येत कार्येति चिन्ता। तदर्थः तस्य गुणत्वं नास्त्युतास्तीति। तदर्थं गुणात्मनो हरेः गुणित्वं संभावनाप्रमाणाभ्यां हीनं युक्ति विरुद्धं चाथ विपरीतमिति।। पूर्वपक्षस्तु।। तदात्मके तद्वत्वस्यक्वापयदर्शनात्‌ गुणरूपस्य हरेः गुणवत्वमसम्भवितं अत एव प्रमाणशून्यं च। हरिर्न गुणवान्‌ गुणात्मकत्वात्‌ मथा न स्वः स्ववान्‌ यो यद्वान् स तदात्मको न यथा दण्डवन् चैत्रः इति वा इत्यादि युक्तिविरुद्धं च। न च गुणात्मकत्वामसिद्धे समवायाभ्युपगमाच्चेत्यत्र समवायापाकरणेन 'एकमेवाद्वितीयमि'ति गुणगुण्यादि भेदनिषेधेन त त्सिद्धेः। अतो गुणित्वाभावात् न हरौ भक्तिः कार्येति ।।सिध्दान्तस्तु।। कुण्डलात्मकस्याप्यहेः विशेषबलात्‌ कुण्डलित्ववत्‌ प्रकशात्मकस्यापि आदित्यस्य प्राकाशित्ववात्‌ कालस्य पूर्वेणाभेदेपि पूर्वः कालः इति विशेषणविशेषभाववचय गुणात्मनोपि हरेः गुणित्वं प्रतिनिधिविशेषबलाभासंभावितम्‌। 'आनन्दं ब्रह्मणो विद्वान्‌' 'अथैषः परमः आनन्दः' इति गुणत्वगुणित्वोभयव्यपदेशरूपप्रमणाच्च 'शास्त्रयोनि' नयन्यायेन युक्त्यगम्यतय 'श्रुते'सत्वित्यत्रोक्तन्यायेन युक्त्यविरुध्दं चेति हरौ भक्तिः कार्येति।। [इति न्या. मु. 134,135 पृ]

अहतवस्त्रम्‌
वर्णव्यावस्थया वासोनियमोस्ति "वासांस्यपि तथा तेषां गौतमो मुनिरब्रवीत्‌। 'वासांसि शाणक्षौमचीरकुतपाससर्वेषां कार्पासं वाविकृत'मिति।। शाणं शणविकारः। चीरं दर्भादिनिष्पन्नम्‌। कुतपः पार्वतयाजरोमनिर्मितकम्बलः। अविकृतं छागम्‌। एतेषां सर्वेषामविशेषेण वासांसि भवन्तीत्यर्थः।। वर्णव्यवस्थया वासोनियमं त्वब्रवीन्मनुः--
'वर्णानामानुपूर्व्येण शाणक्षौमाविकानि चे'ति।।
                            विप्रादीनां च वासांसि वसिष्ठस्त्वन्यथाब्रवीत्‌।
'शुक्लमहतं वासो ब्राह्मणस्य, कार्पासं माञ्चिष्ठं क्षौमं क्षत्रियस्य, पीतं कौशेयं वैश्यस्ये'ति।।
 वाससो लक्षणं प्राह प्रचेतास्त्वहतस्य हि।
                              'ईषद्धौतं नवं श्वेतं सदशं यन्न धारितम्‌।
                              अहतं तद्विजानीयात्‌ सर्वकर्मसु पावन'मिति।।
                              काषायवस्त्रमिच्छन्ति ब्राह्मणस्य हि केचन।
तदाहापस्तम्बः---
'ब्राह्मणस्य काषायं वस्त्रमेक उपदिशान्ति माञ्जिष्ठं राजन्यस्य हारिद्रं वैश्यस्ये'ति।।
काषायद्रव्यविषये विशेषं प्राह गौतमः--- 'वार्क्ष ब्राह्मणस्ये'ति। वृक्षकषायनिर्मितं वार्क्षम्‌।
पैठीनसिस्तु सर्वेषां काषायं वस्त्रमब्रवीत्‌।
                             'कमण्डलुर्यज्ञोपवीतं काषायं वस्त्रं च सान'मिति"।। इति।।
                                                  [ स्मृ. मु. षोड. क. प्र. 39 पृ ]


असंहिततया निर्देशः

अकामः
"अ इत्युक्तः परोविष्णुस्तत्कामोऽकाम ईरितः।" इत्यादि च' [ बृ. भा. पृ. 343 ़

अकामयमानः
"तथाऽकामयमानः स योग्यकामस्य चापि तु।
कादाचित्कसमुद्भतेभगवत्कामनां विना।।
इत्यादि च।। इति [ बृ. भा. पृ. 343 ]
"तथाशब्दः उपमार्थः। अकामयमानश्चेति च शब्दान्वयः। राहित्यादित्यननुवर्तते। मुक्तिस्यायोग्यकामो नास्त्येव। योग्यकामस्यापि सर्वस्य सर्वदा न समुद्भूतिः। किन्तु कस्यचत्कदाचिदेव। तथाच योग्यकामस्यापि कादाचित्कसमुद्भूतेरपि
भगवत्कामनां वना राहित्यात्सोकामयमानइतीरित इत्यर्थः।।" इति [ बृ. भा. भा. 602,603 पृ ]

अकामहतः
"अदुःखत्वं च तस्यैव कमैरहतता तथा।
यः कामितं न प्राप्नेति स कामहत उच्यते।।
काम्याप्राप्तेश्च पापाच्च पापात्‌ कामहंतः स्मृतः।
उभयस्याप्यभावे मुकतोऽकामहते मतः। इति च" ।।इति ।। [ बृ. भा. 336 पृ ]
एवमेव व्याख्याने च "कामैरहतता तस्यैवेति सम्बन्धः। तत्कुत इत्यतः कामहतशब्दार्थं तावदाह।। य इति।। उक्तमनुवदभिमित्तांतरमाह। काम्याप्राप्तेरिति।। पापात्कामाच्च निषिद्धकामाच्चेत्यर्थः। किं तत इत्यत आहउभयस्येति। एतेन ये केचिदेकवाक्यतां अंगीकृत्यापि प्रकृतामुक्ताजानदेवविषयमेव यश्चश्रोत्रिय इत्यादि वचनमिति व्याचक्षते तेपिनिरस्ता भवन्ति।" इति।। [ बृ. भा. भा. 549,550 पृ ]
किंच तैत्तिरीयभाष्येऽपि
"यस्य श्रुतिफलं पूर्णं स श्रोत्रिय उदाहृतः।
स हि मुक्तोऽकामहतः स हि कामै र्न हन्यते।।
यस्यकामास्तु सत्याः स्युः सहिकामै र्न हन्यते।
न ह्यकामः कृचित्‌ कश्चिद्‌ दृश्यते श्रूयतेऽपि वा।।
इति ब्रह्माण्डे।।" इति [ तै. भा. पृ. 536. पृ ]
अकामहतत्वं कस्येति बृहद्भाष्येऽपि. --
"अकामहतत्वं च मुख्यं मुक्तस्यैव।"
"प्राप्तश्रुतिफलत्वात्तु श्रोत्रयाः प्राप्तमोक्षिणः।
"त एव चाप्त्कामत्वात्‌ तथाऽकामहताः श्रुताः।।
                                  इति भारते
"बृह्मणोऽपि ह्यमुक्तस्य नाकामहतता परा।
यतस्तस्यापि कामस्य क्षणव्यवहतिर्भवेत्‌।। इति च
कामहततता कामनोपद्रवः" इति [ बृ. भा. 265 पृ ]
"अन्येतु न श्रोत्रियस्य चाकामहतस्येतिमुक्त संग्रहार्थं। किं नाम प्रकृत ब्रह्मादविषयमेव। न च तत्रासंभवः। श्रोत्रियंश्छंदोधीत इति स्मरणात्‌ श्रोत्रियशब्दस्यच्छंदोधिगतिनिमित्तत्वात्‌। ब्रह्मादीनां च सर्वज्ञकल्पत्वात्‌। विषयवैराग्योपेत त्वेनाकामहताश्च भवन्तीति व्याचक्षते। तन्निरासायप्राप्तश्रुतिफलत्वादिति मुख्यमिति चोक्तं। श्रोत्रियाकामहतशब्दावृक्तार्थावेव किं न स्याता मित्यत आह - प्राप्तेति।........।। "संसारिषुमुख्य कामहतत्वं ( नास्तीति) नास्तीत्यत्र प्रमाणं पठति ब्रह्मणोऽपीति। परामुख्या। अपि शब्देनान्येषां नास्तीति किमु वक्तव्यमितयाह। ननु केयं कामहतता यदभावो मुक्तेष्वेवमुख्यो न ब्रह्मणोपीत्याह। कामेति। उपद्रवो दुःखं।। इति।। [ बृ. भा. भा. 117 पृ ]


अकायम्‌
"..........अकायं लिङ्गवर्जनात्‌"। इति वाराहे।। इति [ ई. भा. 510 पृ ]
टीकायां "यद्यप कायशब्दः स्थूलसूक्ष्मशरीरसाधारणः। तथाऽप्यस्नाविरमिति स्थूलशरीराभावस्य पृथगुक्तेः 'अकायं लिङ्गवर्जनात्‌' इत्युक्तम्‌। स्नावोपलक्षितधातुमयं स्नाविरं स्थूल शरीरमेव हि प्रसिद्धम्‌। यतो हि ब्रह्म शुद्धं तस्मादपापविद्धम्‌। ततश्च पापमूलश्थूलसूक्ष्म शरीरविधुरम्‌। तथा च देहनिमित्तशोकादि शून्यम्‌। एवम्भूतं च ज्ञानी पर्यगात्‌।" इति [ ई. भा. टी. 26 पृ ]

अकारः
"अ इत्यनेनाभिदानेनाऽक्रियत इत्यकरः। तत्र पूर्वोकतो वैश्वानरोऽकारः"इति। [ म. भा. 518 पृ ]
"'आप्तेरादिमत्वाद्वा' इत्यत्र आप्लु व्याप्ताविति धातोरौणादिके प्रत्यये कृते टिलोपे च सति अन्तर्णीतणिजर्थतायां च विषयानापयति जीवस्येति अः अशब्दवाच्यः।" इति [ मां. भा. प्रका. 358 पृ ]
किंच ऐतरेयभाष्येऽपि
"अकारः प्रथमं नाम विष्णोः सर्वगुणान्‌ ब्रुवन्‌।
सर्वदोषविरुद्धत्वाद गुणानामन्यतामपि।।
विष्णोर्वदत जीवेभ्यो जडेभ्यश्चैव सर्वदा।
अभावं चैव दोषाणां सर्वेषां केशवे वदेत्‌।।
सम्यग्वक्तृत्वतस्तस्माद्‌ अकोरोऽमुख्य नाम हि।
तदर्थान्‌ एकदेशेन शब्दाः सर्वेऽपि चोचिरे।।
व्याख्याव्याख्येयरूपत्वं विकारत्वमिहोदितम्‌।
विकारत्वं च नान्यत स्यान्नित्या वेदा यतोऽखिलाः।।
वाचकेषु तथा विष्णोः सहस्रबृहतीमयम्‌।
उक्थमुत्रममुद्दिष्टं व्याख्याऽकारस्य सापरा।।
अन्येऽपि शब्दाः सर्वेऽपि ह्यकारार्थाऽभिधायिनः।। इति [ ऐ. भा. 199 पृ ]
  तत्रैवान्यत्र---
"अन्यता च निषेधश्च विरुद्धत्वमिति त्रयः।
अकारार्था ह्यभावस्तु निषेधैकस्वरूपकः।।
एकदेशस्वरूपत्वात्‌ नाकारेणैव भाष्यते।
किन्त्वभाव इति त्वेव तेनाकारोदितो हरेः"।। इति ।। [ ऐ. भा. 206 पृ ]
'अ इत्याक्रियते यस्माद वासुदेवो ह्यकारकः।। इति ।। [ ऐ. भा. 233 पृ ]


अजिनम्‌
अजिनासन विषयेऽपि--
"गोतमस्त्वजिनान्याह विप्रादीनां क्रमेण तु।
'कृष्णरुरुबस्ताजिनानी'ति। कृष्णमृगः। रुरुर्गौरमृगः। बस्तश्छागः। एतेषामजिनानि चर्माणि ब्राह्मणक्षत्रियविशां क्रमेण भवन्ति।। पारसकरस्तु विशेषमाह-- 'सर्वेषां गव्य'मिति।
यमोऽपि "कृष्णाजिनं ब्राह्मणस्य रौरवं क्षत्रियस्य तु। बस्ताजिनं तु वैश्यस्य सर्वैषां रौरवाजिन'मिति।। 'एतान्युत्तरीयाणी'ति। शङ्खस्मरणात्‌।। पौरस्करस्तु - "ऐणेयमजिनमुत्तरीयं ब्राह्मणस्य रौरवं राजन्यस्याजिनं गव्यं वा वैश्यस्य सर्वेषां वा गव्य"मिति।। एणः कृष्णमृगः"।। इति।। [ स्मृ. मु. षोड.क. प्र. 38 पृ ]


अचेतनोपसर्जनसांरव्यम्‌
"अत्र जीवस्यैवांगित्वापगमेन अङ्गत्वानुपपत्तिः दोषो नेति शङ्कनात्संगतिः। विष्णोः कर्तृत्वं युक्तं न वेति सन्देहः। न युक्तमिति पूर्वपक्षः।। प्रागुक्तदिशा अश्मानयनादौ देहोपसर्जनजीवकर्तृत्वदृष्ट्या तद्दृष्टान्तेन विमता प्रधानप्रवृत्तिः अचेतनोपसर्जनजीवाधीना प्रवृत्तित्वात्‌ अश्मानयनादिप्रवृत्तिवत्‌ इत्यनुमानेन पुरुषप्रधानस्यैव प्रधानस्य स्वतः प्रवृत्तौ ईशेन कृत्याभावात्‌ दूरे कर्तृत्वम्। प्रागुक्तश्रुतेश्च युक्तिविरोधेन अवज्ञानादितिपृरूषप्रधानकसांख्यमतविरोधादिति।। सिद्धान्तस्तु।। एवं पूर्वमतादन्यथानुमानेपि जीवस्य देहं विनापि प्रवृत्तौशक्तत्वे देहवैयर्थ्यादशक्तत्वे देहसम्बन्धार्थप्रवृत्तावप केवलस्य शक्त्यभावेन अंगित्वानुपपत्तेः। प्रकृति सम्बन्धस्य तत्र शक्तत्वोक्तौ प्रकृतिसम्बन्धप्रवृत्तावपि एवमेवमित्यनवस्थानात्‌। अनादित्वेन तत्परिहारे मुक्तप्रवृत्तेः सर्वथायोगेन स्वतन्त्रेणेशेनैव देहसम्बन्धे घटनीये अश्मानयनादिप्रवृत्तावपि तथेति दृष्टान्तस्य साध्यहीनत्वेन अनुमानस्य दुष्टतया उक्तार्थस्य साधकाभावेन अप्रामाणिकत्वात्‌ स्वतन्त्रेशांगीकारेण च सर्वसामञ्जस्यात्‌ युक्तं विष्णोः कर्तृत्वमिति।। इतरेत्यत्र
श्रुतियुक्तिप्राप्तस्य अत्र तु समयप्राप्तस्य जीवकर्तृत्वस्य निरास इति भेदः।।" [ इति. न्या. मु. 68,69 पृ ]


अस्तिसंचयनकालः
"अस्तिसंचयनं कुर्याच्चतुर्थे दिवसे यदि।
वारनक्षत्रदोषाणामनवेक्ष्याह गौतमः।।
प्रशस्ततिथिवाराणां नक्षत्राणामसम्भवे।
अस्थिसञ्जयनं कार्यं विप्रवाक्यानुशासनात्‌।।
यस्मिन्‌ कस्मिन्‌ दिने वापि नैवाशौचं विलङ्घयेत्‌।
आशौचादूर्ध्वभावी चेत्‌ पुनर्दहनमाचरेत्‌।।
कुशैः पलाशपर्णैर्वा यद्वा वापि च कीकसैः।
नष्टेऽस्थिनि पुनर्दह्यादस्थिसञ्जयनं विना।।
देशक्षोभे महापत्तौ यदि वास्थि विनश्यति।
कुशपर्ममयं दग्ध्वा त्रिरात्रं शौचमाचरेत्‌" इति।।
स्मृत्यन्तरे--- "प्रथमेऽह्नि तृतीयऽह्नि पञ्चमे सप्तमे तथा।
                   चतुर्थे सञ्जयः कार्यः सर्वैस्तद्गोत्रजैः सहे"ति।।
स्मृतिसारसमुच्चये---- "द्वितीये च तृतीये च पञ्चमे च तथैव चे"ति।।
आग्नेयपुराणे--- 'चतुर्थे पञ्चमे' चैव सप्तमे नवमे तथा।
                     अस्थिसञ्जयनं कार्यं वर्णानामानुपूर्वश" इति।।
अस्थिप्रतिकृतिदाहे विशेषमाह गौतमः---
"चतुर्थेऽहनि विप्राणाम--स्थिसञ्जयनं भवेत्‌।
अस्थ्नां प्रतिकृतेर्दाहे सद्यः सञ्चय इष्यते।।
यदा पलाशपर्णाद्यैः कृत्वा प्रतिकृतिं दहेत्‌।
भस्मास्थिवत्सञ्चिनुयात्सद्यो मन्त्रं जपेत्तदे"ति।।
अस्थिसञ्जयने वर्ज्यानाह व्यासः--
"नन्दायां भृगुवारे च चतुर्दश्यां त्रिजन्मनि।
नास्थिसञ्चयनं कुर्यात्सन्तानक्षयकारकम्‌।।
फल्गनीद्वयमाषाढाद्वयं प्रोष्ठपदद्वयं।
एभ्यस्त्वन्यत्र नक्षत्रेष्वस्थिसञ्चयनं भवेत्‌।।
कृत्तिकापुष्यहस्तेषु त्रिपदर्क्षेषु वर्जयेत्‌।
      प्रदातृजन्मनक्षत्रे न कुर्यादस्थिसञ्चयम्‌।।
 तथा स्मृत्यन्तरे -- "भृग्वर्ककुजवारेषु न कुर्यादस्थिसञ्चय"मिति।। यत्तु, "दशाहमध्यदिवसे कुजभार्गववारयोः। अस्थिसञ्चयनं कर्म कर्तव्यं मनुरब्रवीत्‌" इति।। तदुक्ततिथिषु निर्दिष्टवारालाभे वारत्रयाधिकारविषयमित्यवगन्तव्यम्‌। चतुर्थदिवसे तु वारादिदोषो नास्तीत्युक्तमेव"।। इति।। [ स्मृ. मु. श्रा. प्र. 45,46 पृ ]


अङ्गदेवतोपासनम्‌
पूर्वत्र काम्योपास्तेरधिकरिसंभवेन कार्यत्वेपीहांगदेवतोपासतेस्तदभावेनाकार्यत्वमिति शंकनात्संगतिः। अत्र भगवदंगाश्रितत्वेन ब्रह्मादिदेवतविषयकमुपासनं न कार्यमुत कार्यमिति चिन्ता। तदर्थं श्रुत्तौ देवता नामंगश्रितत्वकथनं तथोपासनविधानं गुणसाधारणश्रवणं च तथोपासनकार्यत्वापादनक्षमं न भवत्युत भवतीति। तदर्थं तत्किमुपासनं निराधिकारिकमुत साधिकारिकमिति। तदर्थमधिकारिकलपकं नास्त्युतास्तीति ।।पूर्वपक्षस्तु।। तथोपासनं न कार्यं हेत्वभावात्‌। नच 'ब्रह्मा शिरसि ललाटे रुद्रः' इत्यदि श्रुतौ देवाना मंगाश्रितत्वेनोक्तेः
'आध्यायनाय प्रयोजनाभावादिति' न्यायेनोपासनार्थत्वात्तदुक्त्यन्यथानुपपत्तिः। 'यस्मिन्यस्मि न्यो हि चांगे निविष्टः परस्य चिन्त्यः स तथा तथैवे' ति श्रुतौ विधानं 'साधारण्यात्सर्वगुणः परस्य समाहार्यास्तत्वदृशो मुमुक्षो'रिति ज्ञानानन्दादिगुणतौलयैनसूर्याद्याश्रय थक्षुस्त्वादशगुणानामुपास्यत्वश्रवणं च तथोपासनाकार्यत्वे हेतुरिति वाच्यम्‌। तथोपासनस्य सर्वाधिकारिकत्वे आनन्दादय इत्युक्त्यतुर्गुणोपस्ति नियमभंगात्‌ नहि ब्रह्माश्रीतशिरस्कत्वादिकं भुमत्वमिवा नन्दादिविशेषणं येन प्रागुक्तनिमतिव्याधातं स्यात्‌। नच देवाधिकारिकं तदुपासनं कलपकाभावात्‌। नहि राजा राजसूयेन यजेतेत्यादौ राजादिपदमिव ब्रह्मा शिरसीत्यादौ देवा एते उपास्तीरभिति वाक्यमस्ति। तादृश विशेषविध्यभावेपि अधिकारिविशेषकल्पने 'योदनाद्यविशेषादिति' सर्ववेदान्तनयोक्तन्यायविरोधः। अतः तथोपासनस्य निरधिकारिकत्वात्‌ श्रुतौ तदुक्त्यादिकं स्वयं व्यर्थं सत्‌ न तथोपासनकार्यतायादनक्षममीति, ।।सिद्धान्तस्तु।। कार्यमेव तथोपाप्तनम्‌। न च हेत्वभावः श्रुतौ तदुक्त्यन्यथानुपपत्यादेरनुष्ठापकत्वात्‌। न च निरधिकारिकत्वदोषः। अंगैः पराद्ये हि देवा विसृष्टा' इति श्रुतौ ब्रह्माश्रितशिरस्कत्वरूद्राश्रितललाटत्व सूर्याश्रितचक्षुष्ट्वादिगुणोपासनस्य परमस्थानप्राप्तिरूपफलश्रवणात्‌। तस्य च देवप्रप्यत्वेन फलपर्यालोचनया मधुविद्यायामिव देवानामेवाधिकारित्वक्लपनोपपत्तेरिति। फलं तु तद्विद्यासार्थक्यसमर्थनम्‌।।" इति [न्या0 मु0 180,181 पृ]

अग्निः
"ऋग्भिः षड्भिरवायुरेव पवमानादिनामकः।
स्तूयते सोडङ्गनेतृत्वादग्निरित्यभिधीयते।।"इति।। [ ऐ. भा. 236 पृ ]
"चतुर्मूर्तिः स भगवान्‌ अग्निरित्यभिधीयते।
अग्र्यत्वात्‌ सर्वभूतानाम्‌....................।।
इत्याद्यृग्वेद संहतायाम्‌."।। इति ।। [ ऐ. भा. 230 पृ ]
"सक्रतुर्ज्ञानरूपत्वादाग्निरङ्ग प्रणेतृतः। इत ब्रह्माण्डे [ ई. भा. 512 पृ ]
"क्रतुर्मतिमनीषेत्यभिधानात्‌ स क्रतुर्ज्ञानरूपत्वादित्युक्तम्।" इति।। [ ई. भा. टी. 42 पृ ]
"अग्र्यत्वादग्निनामाऽसौ नाचकेतग्निगो हरिः। इति चगतिसारे।। इति ।। [ क. भा. 476 पृ ]
'अग्निरग्नौ स्थितत्वाच्य...........।। इति व्याहृतितत्वे।।'इति।। [ तै. भा. 524 पृ ]
एवमेव छान्दोग्यभाष्येऽपि-----
"अतो यत्‌ लोहितं रूपं श्रियस्तत्‌ रूपसम्भक्यम्‌।
यत्‌ शुक्लं वायुजं विद्यात्‌कृष्णं चैव शिवोद्भवम्‌।।
तस्मादग्नेर्यदत्तृत्वमग्निनामप्रवर्तकम््।
लक्ष्म्याददेवतानां तन्नैवाग्नेरग्निता तत।। इति सामसंहितायाम्‌।। इति।। [ छा. भा. 410 पृ ]
"इदानीं यदग्नेरोहितं रूपमित्यादिव्याचष्टे। अत इति। लक्ष्म्यादानामग्न्यादिषुप्रविष्टत्वादित्यर्थः। अग्निसोमसूयादिष्वित्येतदनुवर्तते। वायुजं वायुरूपजं शिवोद्भवं शिवरूपोद्भवं। श्रौतसामानाधिकरण्य व्यपदेशस्तु ब्राह्मणोस्य मुखमासीदित्यादि वज्जन्यजनकभाववाभिप्रयणेतिभावः। अपागादर्ग्नरग्नित्वमित्यसंगतं किमुच्यत इत्यतो मध्ये वक्तव्यमाह। तस्मादिति। श्रीवायुशिवरूपजन्यरूपत्वेन तदधीनत्वादग्नेरग्निनामप्रवर्तकं यदत्तृत्वं तल्लक्ष्म्यादिदेवतानामेवमुख्यमित्यर्थः। अतोग्निनामतासामेवमुख्यमिति भावः। इदानीं अपागादग्रेरग्नित्वमित्येतव्द्याचष्टे।। नैवेति।। ततोग्निनामप्रवृत्तकस्यात्तृत्वस्य तदविष्टलक्ष्म्यादष्वेवमुख्यत्वादग्रेरग्निताऽचृत्वलक्षणामुख्यानैवेत्यर्थ। ततो लक्ष्म्यादेरित्यवधिनिरूपणं वा। अतोग्निनाम नाग्नौ मुख्यमिति भावः।।" इति।। [ छां. भा. प. कौ. 334, 335 पृ ]
एवमेव "सोऽग्निनामा परो वह्नौ अत्ति सर्वं यतोहुतम्‌"।।इति।। [ छां. भा. 410 पृ ]
"पृथुत्वात्पृथिवीविष्णुरग्निश्चाप्यङ्गनेतृतः' तत्त्वसंहितायां'।। इति।। [ छां भा. 418 पृ ]
"पृथुत्वादिति। विस्तीर्णत्वात्‌। विष्णुरितिसर्वत्रनुवर्तते।
चापिशब्दापितरेतरसमुच्यये। अंगंशरीरमप्रधानं जगद्वा।" इति। [ छां. भां. प. कौ 277 ]
"नारायणादयः पञ्य क्रमात्पञ्याग्नयः स्मृताः।
अदनादङ्गनेतृत्वाभितरामचलत्वतः।।' इति सामसंहितायाम्‌।" इति। [ छां भा. 424 पृ ]
"असौवावलोको गौतमाग्निरित्यादिता स्वर्गादेशग्नित्वकल्पनोच्यतइत्यसत्‌। तथा सत्यब्रह्मविद्यात्वप्रसंगात्‌। तथाकल्पनायाः
मिथ्याज्ञानत्वेनानर्थहेतुत्वाच्य। तद्यइत्थं विदुरित्यादिना पञ्चाग्निविद्यावेतॄणामर्चिरादिमार्गापुनरावृत्तिफलकथनविरोधाच्येति भावेन तां विद्यां भगवत्परतयौ प्रमाणैब्व्याचष्टे। नारायणादय इत्यादिना। द्युपर्जन्य धारापुंस्त्रीरूपाः पञ्यग्नयः क्रमान्नारायणादय एव स्मृता इत्यर्थः। तर्हि नारायणादिषु अग्निशब्दः कथं। तस्यान्यत्ररूडत्वादितियेत्‌ स्वर्गादविपि कथं होमाधिकरणत्वगुणयोगेनेतियेत्‌ गौण्यपेक्षया योगस्य प्रबलत्वादति भावेनाग्निशब्दस्य नारायणादिषु योगं दर्शयति। अदनादिति। पूर्वेणान्वयः। अदनादत्तृत्वात्‌। अत्तेः कर्तरििप्रत्ययोदस्यगः। स्वतो न गच्छति न प्रवर्तेते। यद्वेश्वं तस्य प्रवर्तकत्वादित्यर्थः। अगशब्दोपपदाभयतेः कर्तरि हिप्रत्ययः। उपपदाकारलोपश्च। निरएं न गच्छति न चलतीति चाग्निरित्यर्थः। न ञुपपाद्गमेः कतरिडेनीत्युपसर्गः। अकारलोपश्चेति भावः। अनेन असौवावलोकोगौतमाग्निः पर्जन्योवाव गौतमाग्निरित्यादिवाकयपञ्चकं व्याख्यातं।।" इति।। [छा.भा.प.कौ302पृ]
( अत्तीति, अङ्गंनयति, न गच्छतीति अगः। तं नयतीति )
"अग्नित्वमदनाच्यैव" ।। इति ।। [ छां. भा. 385 ]
"सूर्ये ततत्वात्‌ सूर्यात्मा ब्रह्मासौ परकीर्तितः।
अग्नौ स्थितो यतः सोऽर्कस्तस्मादग्निरूदीर्यते।।
इति महासांहितायाम्‌"। इति ।। [ बृ. भा. 250 पृ ]
"ननु संवत्सर आत्मेति सूर्यस्य संवत्सररूपत्वोक्तेः कथं सूर्ये स्थित इत्युक्तमित्यत आह।। सूर्ये इति।। ततत्वात्‌ व्याप्तत्वादित्यर्थः। अश्वमेधनाम्नो ब्रह्मणोमहिमोक्तः अयमग्निरित्यादिना। तत्राभेदप्रतीतिं निवारयन्‌ व्याचष्टे।। अग्नावति।। अर्कः अर्कस्थो ब्रह्मा।। इति।। [ बृ. भा. भा. 35 पृ ]
"ततः स चिन्तयामास स्यादग्निरिति वेदराट्‌।
तच्चिन्तनात्‌ समुत्पन्नो वायुरग्र्यभिधानवान्‌।।
अग्रजत्वादग्रणीत्वाद् वायोरग्नित्वमिष्यते।।
इति प्रवृत्ते - [बृ. भा. 247 पृ]
"श्रुतौ तसय तप्तस्येत्यनुवादान्यथानुपपत्या तसयामश्राम्यदत्यनंतरं अध्याहर्त्यमाह।। तत इति।। वाय्वादिदेवतोत्पादकत्वे हेतुर्देवराहिति। तस्य श्रान्तस्य तप्तस्य तेजोरसो निरवर्तताग्निः इति वाक्यार्थमाह ।।तच्चिन्तनादिति।। नन्वग्निः स्यादितिचिंतनाद्वायुः
कथमुत्पन्न इत्यत आह।। अग्निति।। कथं वायुरग्निशब्दाभिधेय इत्यत आह अग्रजत्वादिति।। इति।।
[बृ. भा. भा. 21 पृ]
"वायुरग्निरिति प्रोक्तो ह्यग्रणीत्वादथाङ्गिनाम्‌।
नेतृत्वाददनाद्वाऽपि तस्य स्रष्टा जनार्दनः।।
स वायुः................।
अग्निस्थेन तु रूपेण हूयते सर्वयष्ट्रभिः।। इति प्रभंजने।।" ।।इति।। [ बृ. भा. 247 पृ ]
"सत्रेधात्मानं व्यकुरुतेत्यस्य सजातः प्रजपतिः त्रेधा त्रिप्रकारात्मानं स्वयमेव कार्यकरणसंधातं व्यकुरुत व्यभजत्‌ इत्यादिपरव्याख्यानमप्रामाणिकं प्रमाणवरुद्धं चेति भावेन खण्डं प्रमाणेन व्याचष्टे। वायुरित्यादिना। सत्रेधेत्युक्तत्वादग्निं तृतीयमित्यपि ग्राह्यमिति सूचयन्‌ अग्निशब्दं तावत्‌ प्रकारान्तरेण वायौ निर्वक्ति।।वायुरिति।। सत्रेधात्मानमित्युक्तरूपाणां मूलानुक्तव्यापारानाह। स वायुरिति।।" इति।। [बृ.भा.भा.23पृ]
"..............तथाऽग्न्यादिरदनात्‌ परमो भवेत्‌" इति प्रवृत्ते। इति [ बृ. भा. 366 पृ ]
"अग्निमण्डलगो नित्यमग्निनामाऽग्रणीत्वतः।
गायत्र्यास्तु परिज्ञानं ज्ञाते मुखगते हरौ।। इति गायत्रीसंहितायाम।।" इति [ बृ. भा. 359 पृ ]
"तर्ह्यग्निर्मुखमितिकथमुच्यत इत्यत आह। अग्निमण्डलग इति। गायत्रीप्रतिपद्य भगवत्परिज्ञानेनैव फललाभोपपत्तौ किं मुखस्थविष्णुज्ञानेनेत्यत आहगायत्र्या इति। " इति।। [ बृ. भा. भा. 683 पृ ]
"सोऽग्निरङ्गप्रणेतृत्वाद्‌ ........................।।" [ बृ. भा. 360 पृ ]
"अग्नेनयेत्यग्निशब्दव्याचष्टे -- सोग्निरिति। अंगंशरीरमप्रधानं जगद्वा नयतीत्यग्निरित्यर्थः।" इति। [बृ.भा.भा. 694 पृ ]
"अग्रं विष्णुं नयेद्यस्मात्‌ सुपर्णोऽग्निरूदहृतः।" इति [ बृ. भा। 314 पृ ]
"ननु षण्णामेते परिवारा इत्युक्तमसत्‌। तेच षट्‌वसुषूक्ता अग्नियदय एव कतमेषहितिप्रव्नोत्रे कथ्यन्ते। एतेषामेव शब्दनां तत्र श्रवणात्‌। तेषां प्रसिद्धानां न त्रयास्त्रिंशत्स्वाधिक्यं। अग्न्यादीनां चन्द्राद्युत्तमत्वाभावादित्यतः प्रथमवाक्यगताग्न्याद शब्दाभिधेयान्‌ तेषु
तभिर्वचनपूर्वकमाहअग्र्यमित्यादिना।। अग्रशब्दे कर्मण्युपपदे नयतेः कर्मणि टिप्रत्ययः उपपदरशब्दलोपश्च।" इति। इति [ बृ. भा. भा. 425, 426पृ]
"अग्निनामातु भगवानौदार्याग्रौ प्रतिष्ठितः।
........................................स प्रभुः।।
वैश्वानर इति प्रोक्तः सोऽग्निरङ्गप्रणेतृतः।।
इति तन्त्रमालायाम्‌।। इति।। [ बृ. भा। 354 पृ ]
"अग्निवैर्वैश्वानर इति वैश्वानरशब्दस्य प्रसिद्धाग्नि शब्दसामानाधिकरण्येन ब्रह्मणमग्निपरमितिप्रतिति निरासाय प्रमाणेन व्याचष्टे।। अग्निनामात्विति।। कुत इत्यत आह -- अग्नौ प्रतिष्ठित इति।।" इति [बृ.भा.भा.663 पृ]
"....................रमा।
सैवाग्निस्थाऽदनान्नित्यमग्निरित्येव गीयते।। इति च। इति [ बृ. भा. 317 पृ ]
"अग्निर्लोकः हृदयंलोकः श्रोत्रंलोकः चक्षुर्लोकः इत्यत्राग्न्यादिशब्दानां प्रसिद्धार्थत्वे अग्न्यादीनां मन्वादिज्ञानहेतुत्वासंभवात्रदभिधेयमाह।। सैवेति।।" इति [ बृ. भा. भा. 433,434 पृ ]

अग्निकार्यम्‌
अग्निकार्यक्रमप्रकारः एवमस्ति "अग्निकार्यक्रम प्रकारस्तु मुनिभिः परिकीर्तितः। संवर्तः--- 'अग्निकार्यं च कुर्वीत मेधावी तदनन्तर'मिति।। सन्ध्योपासनानन्तरमित्यर्थः।
कालद्वयेऽपि कर्तव्यमग्निकार्यं प्रयत्नतः।
तथा च याज्ञवल्क्यः---
'अग्निकार्यं ततः कुर्यात्‌ सन्ध्ययोरुभयोरपी'ति।।
                           अग्निकार्यं प्रकृर्वीत सायमेवेति केचन।
तदाह आपस्तम्बः---
'सायम्प्रातर्यथोपदेशं सायमेवाग्निपूजेत्येक' इति।।
लौगाक्षिश्च -
'सायमेवाग्निमिन्धीतेत्येक' इति।।
                                 मनुः समवदत्तत्र समिधाहरणक्रमम।
                                 'दूरादाहृत्य समिधः सन्निदध्याद्विहायसि।
                                 सायं प्रातश्च जुहुयात्ताभिरग्निमतन्द्रित' इति।।
                                 विहायसि मञ्चकादौ स्थापयेन्न तु भूमावित्यर्थः।
समिधाहरणे विशेषमाह बैजावापः--
"पुरास्तमयात्‌ प्रागुदीचीं दिशं गत्वाऽहिंसन्नरण्यात्‌ समिध आहरेत्‌ शुष्का ब्रह्मवर्चसकाम आर्द्रो अन्नाद्यकाम उभयीरुभयकामः" इति।। समिधाहरणं नैव कार्यमस्तमिते रवौ।
आपस्तम्बः---'नास्तमिते समिद्धारो गच्छे'दिति। समिधाहरणनियमो वायुपुराणे दर्शितः ---
'पलाश्यः समिधः कार्या खादिर्यस्तदलाभतः।
                             शमीरोहितकाश्वत्थास्तदलाभेऽर्कवेतसौ'।
समिधालक्षणं सम्यङ्मुनिः कात्यायनोऽबवीत्।
'नाङ्गष्ठादधिका कार्या समित्‌ स्थूलतया क्वचित्‌।
                          न वियुक्ता त्वचा चैव न सकीटा न पाटिता।।
                          प्रादेशान्नाधिकान्यूना तथा न स्याद्विशाखिका।
                          नासपर्वा न निर्वीर्या होमेषु च विजानता।।
                          विशीर्णा विदला ह्रस्वा वक्रा ससुषिरा कृशा।
                          दीर्घा स्थूला घुणैर्दष्टा कर्मसिद्धिविनाशिके'ति।।
आपस्तम्बोऽब्रवीत्‌ त्याज्यमेवमप्रोक्षितेन्धनम्‌। नाप्रोक्षितं इन्धनमग्नावादध्या'दिति।।
अग्निकार्यपरित्यागे हारीतो दोषमब्रवीत्‌।
                                          'पुरा जग्राह वै मुत्युर्हिंसयन्‌ ब्रह्मचारिणम्‌।
                              अग्निस्तं मोचयामास तस्मात्‌ परिचरेद्धि तम्‌।।
ब्रह्मचारी यतदा त्वग्नावादध्यात्‌ समिधो न हि गुह्णीयात्तं तदा मुत्युरादध्यात्‌ समिधस्तत"।। इति।।
                                                       [ स्मृ. मु. षोड. क. प्र. 45,46 पृ ]


अग्न्यादिगतिः
"प्रागुक्तहेतोरसिद्धिर्निरस्यतेऽत्रेति संगतिः। अथादिपदोक्तं साधनं नानुष्ठेयमुता नुष्ठेयमिति चिन्ता। तदर्थं प्रकृताः प्राणाः किं जीवेन सहन गच्छन्त्युत गच्छन्तीति। तदर्थं प्राणानां अग्न्यादिगति श्रुतिः किं सर्वात्मना प्राणगतगपरा अथ भागशः तद्गतपरेति। तदर्थं भागपरत्वे क्लपकं नास्ति बाधकं यास्ति उत विपरीतमिति।। पूर्वपक्षस्तु।। "यत्रासय पुरुषस्य मृतस्याग्निं वागप्येति वातं प्राणश्चक्षुरादित्यमि'त्यादिना वागादिप्राणानामगन्याद्यधिदैवं प्रत गतिश्रवणेन जीवेन सहगत्यभावात्‌। भागशो जीवेन सह गच्छन्तीति भागान्तरेणाधिदैवमित्यस्य च कलपकाभावेन प्रतिमरणमेव भागापगमे कालतः सर्वापगमापातेन च प्राणानामधिदैवगतौ भूतानामपि तैस्सह तत्र गतौ जीवेन सह गत्यभावेन जीवेन सह गतौ तत्र गत्यभाव इति सर्वथापि भूतानां प्राणविनाभावाभावापातेन चायोगात्‌। न प्राणाः जावेन सह गन्तार इति नानुष्ठेयं साधनमिति ।। सिध्यान्तस्तु।। "पुरुषस्य मृतौ ब्रह्मभि" ति स्मृतौ प्राणानां भागश एव उभयत्र गत्युक्त्या अग्न्यादि गतिश्रुतेस्तत्परत्वात्‌। तत्रैव स्मृतौ मृतौ वियुक्तभागानामपि जीवस्य देहान्तरप्राप्तौ पुनः प्रवेशस्योकत्या कालतः सर्वापगमाभावात्‌। जीवस्य मृतिकाले प्राणानां भागशः उभयत्र गमनस्य "मृतिकाले जहात्येन"मिति स्मृतिसिद्धत्वेन भूतानां प्राणविनाभावाभावात्‌। प्राणा भूतानि च जीवेन सह गच्छन्त्येवेत्यनुष्ठेयं साधनमिति।।" [इति न्या.मु.104,105पृ]


अङ्गम्‌
"...............सोडङ्गमन्तिगतत्वतः"।। इति।। [ छा. भा. 391 पृ ]
"एतद्यज्ञायज्ञीयमंगेषु प्रोतमित्युक्तागशब्दं निर्वक्ति।। सोडङ्गमिति।। अंतिकगतत्वत इत्यर्थः।।" इति। [छा. भा. प. कौ. 118 पृ ]

अक्रतुः
"एवं विष्णौ क्रतुर्यस्य सोऽक्रतुः। तन्निश्चयः। [ क. भा. 480 पृ ]

अग्राह्यः
गृहीत्तुं ज्ञातुं योग्यः ग्राह्यः। साक्ल्येन ग्राह्ये न भवतीति अग्राह्यः परमात्मा इत्यर्थः। तदुक्तं---
"अगग्यं सर्वदेवैश्च परिपूर्णत्वहेतुतः।
.........यं सम्यङ्‌ नैव जानाति कश्चिन्निरवशेषतः"।। इति।। [ त. उ. भा. 1-2 ]
एवमेव "यतो वायो निवर्तन्ते अप्राप्यमनसासह" [ तै-उ 2-18 ]
एवं "यदि मन्यसे सुवेदेति दहरमेवापि नूनं त्वं वेत्थ ब्रह्मणो रूपम्‌"।। इति।। [ त. उ. 3-1]
एवमेव "सम्यग ज्ञातुमशक्यत्वादगम्यं तत्‌ सुरैरपि" इति।। [ ई. उ. भा.-1-4 ]
एवं भागवततात्पर्येऽपि---
"अनाद्यनन्तं परं ब्रह्म न देवा ऋषयो विदुः।
एकस्तद्वेद भगवान्‌ प्रभुर्नारायणो विराट्‌"।। इति।। [ भा. ता. नि. 4-22-64 ]
भगवद्गीतायामपि---
"नहि ते भगवन्‌ व्यक्तिं विदु र्देवाः न दानवाः।
स्वयमेवात्मनाऽत्मानं वेत्थं त्वं पुरुषोचम्‌"।। [ भा. गी. 10/14 ]
सूत्रभाष्येपि---
"नावेदविन्मनुते तं बृहन्तं, औपनिषदः पुरुषः" इति [ ब्र. सू. भा. 1-1-3 ]


अग्रोदकहरणम्‌

अक्रोधमयः
"क्रोधः क्षमात्मको यस्य चिदानन्दात्मकस्तथा।
अन्यक्रोधसमः क्रोधः तस्यविष्णोःकथं भवेत्‌।
इत्यादि महासंहितायाम्‌' ।। इति।। [ बृ. भा. 342 पृ ]
"असर्वमयइत्युक्तौ हेत्वंतरमाह - चिदानन्देति। तस्य गुणाः सर्वदा चिदानन्दात्मकाः न केवलमेतावत्‌ किन्तु सर्वगुणात्मकाश्च यतो त एषां भगवद्गणानां सर्व वैलक्षम्यमसर्वमय इत्यनेन प्रकीर्तितमित्यर्थः। ननु भगवतः क्रोधरूप गुणः प्रज्वलनात्मको चिदानन्दात्मकश्चांगिकार्यः। तथाच कथमेवमुक्तमित्यत आह - क्रोध इति। कुत इत्यत आह। अन्येति। जिवक्रोधसदृश इत्यर्थः। एवं क्रोधस्येतरवैलक्षण्यमुपपाद्येतरषामपि गुणा नां तदुपपादयति। एवमिति। सर्वेभ्योऽन्यगुणेभ्यः" इति। [ बृ. भा. भा. 595 पृ ]


अक्षम्‌
"अदुष्टमिन्द्रियं त्वक्षमुपपत्तिस्तथाऽनुमा। इति ब्रहमतर्के।" इति [ बृ. भा. पृ. 311 पृ ]
"प्रकृताक्षानुमानयोर्लक्षणमाह।। अदृष्टमिति।। येनोपहतमिन्द्रियदिकं ज्ञानं न जनयति विपरीतज्ञानं चोत्पदयति तद्रहितमदुष्टं। इन्द्रियमिति ज्ञानेन्द्रियमेव गृह्यते प्रमाण प्रकरणत्वात्‌। तुशब्दो विशेषार्थः। सेतिकर्तव्यताकं कारकं करणं। करणविशेषश्चात्रप्रत्यक्षादिकमेवेति। यद्यपि प्रत्यक्षस्यैव लक्षणं वक्तव्यं तथापि अत्र करणधर्मिणः प्राधान्यात्प्रत्यक्षधर्म्यक्षमेव निरूपितं। पूर्वंतु व्यापारप्राधान्यविवक्षया निर्देषेन्द्रियसंयोग इत्युक्तं।।" इति।। [ बृ. भा. भा. 402 पृ ]


अक्षरः
"पूर्वत्रैकप्रकरणस्थयोः सर्वगतत्वोत्क्रमणयोः विरोधनिरासोऽत्रत्वेकवाक्यस्थयोः अणुत्व महत्वयोर्विरोधो निरस्यत इति संगतिः। काण्वशारवायां पञ्चमेऽध्यायेऽष्टमब्राह्मणे "एतद्वै तदक्षरं गार्गि ब्राह्मणा अभिवदन्त्यस्थूलमनण्व?Rह्रस्वमित्यादिना ?R(बृ-5-8-8?R) श्रुतमक्षरं किं चित्प्रकृतरूत विष्णुरिति सन्देहः। अक्षरशब्दस्य येत्वक्षर मनिर्देश्यमित्यादौ (भ. गी. 12-3) श्रीतत्त्वे प्रयोगादविनाशिरूपनिमित्तसत्वात् अहं सोममाहनसं विभर्मीति श्रुत्यन्तरे श्रीतत्वधर्मतया श्रुतस्यचन्द्राद्याधारत्वस्येह सूर्यचन्द्रमसौ विधृतौ तिष्ठत इति श्रवणाददृष्टं द्रष्ट्रश्रुतमित्यादिनोक्तादृश्यत्वादेश्च ये त्वक्षरमित्यादि स्मृत्या श्रीतत्वेपि सम्भवान्न तदश्नाति किञ्चनेत्युक्तानशनस्य "अत्ते" त्यत्रातृत्वेनोक्तविष्णावयोगात्‌। किञ्चनेत्युक्त्या गुहानयोक्तन्यायेन अशुभानशनपरत्वस्याप्ययोगात्‌। श्रीतत्वे च स्वतन्त्राशनाभावादिनोपपत्तेः। चित्प्रकृतिरेवेदं अक्षरमिति पूर्वपक्षः ।। सिद्धान्तस्तु।। यद्भतं च भवच्च भविष्यच्चेत्याचक्षते आकाश एव तदोतमिति आकाशाख्यप्रकृतेः सर्वाधारत्वमुक्त्वा एतस्मिन्खल्वक्षरे गार्गि काश ओतश्च प्रोतश्चेति तदाधारत्वस्यैतस्य वा अक्षरस्य प्रशासने गार्गीत्यादिनोक्तस्यासङ्कुचितविषयत्वानन्यायत्तत्वरूपप्रकर्षयुक्तसर्वशासनलिंगस्यास्थूलमनण्वित्यादिनोक्तस्या-
न्यानपेक्षप्राकृतस्थाल्याद्यभावस्य स्थौल्यादिविरुद्धाणुत्वमहत्वादे र्वा लिंगस्य एको दाधार भुवनानि सप्तार्धगर्भा भुवनस्य रेतो विष्णोस्तिष्ठन्ति प्रदिशेति अस्थूलोऽनणुरमध्यमो मध्यमो व्यापकोऽव्यापक इत्यादिश्रुत्या विष्वेकनिष्ठत्वात्‌ "अनित्यत्वे देहहानि"रित्यादिश्रुत्या चतुर्विधनाशहीने विष्णावेवाक्षरपदप्रवृत्तिनिमित्तपौष्कल्यात्तस्मादक्षरं तस्मादक्षरमितिप्रयोगाच्चाक्षरं विष्णुरेव अनशनश्रुतिस्तु जीवस्वभाव भूतोपजीवनार्थाशननिषेधपरा अणुत्वमहत्वादिकं चाचिन्त्यशक्तियुक्तत्वाद्युक्तमिति सर्वाधारत्वे सत्यन्येकाश्रितत्व लिंगेनाकाशोत्र श्रीतत्वमिति ध्येयम्‌। फले त्वदृश्यत्वादियुतस्याक्षरस्य विष्ण्वन्यत्वे प्राचीनं तादृशाक्षरमपि तथेत्यदृस्यत्वनयाक्षेपसमाधी।। [ इति - न्या.मु. 31,32 पृ ]
किंच "अक्षयाद्‌ रतिरूपत्वादक्षेषु रमणादपि।
अक्षरं भगवान्‌ विष्णोरोमित्युच्यत्वहेतुतः।। [ छा. भा - 21 पृ ]
तन्नैवव्याख्याने "आमित्येतदक्षरमुद्गीत इतिवाक्यं प्रणवपरमितिप्रतीतिनिरासाय व्याचक्षाणः तावदक्षरशब्दार्थमाहअक्षयादिति।। अक्षेत्यस्यार्थोऽक्षयादिति। एतेन नञुपपदत्क्षैक्षय इत्यस्माद्धातोरातोऽनुपसर्गेक इति कप्रत्यय इत्युक्तं भवति। र इत्यस्थार्थो रति रूपत्वादिति। रमुक्रीडायामित्यस्माङ्डः। अक्षश्चासौरश्चेत्यक्षरः। तस्यैवार्थान्तरमाह ।।अक्षेष्विति।। इन्द्रियेष्वित्यर्थः।"?B इति।। [छां.भा.प.कौ 21पृ]


अक्षरम्‌
"अक्षयाद्रतिरूपत्वादक्षेषु रमणादपि।
अक्षरं भगवान्‌ विष्णुरोमित्यु च त्वहेतुतः।। इति [ छा. भा. 374 पृ ]
"ओमित्येतदक्षरमुद्गीथ इति वाक्यं प्रणवपरमिति प्रतीतिनिरासाय व्याचक्षाणस्तावदक्षरशब्दार्थमाह। अक्षयादिति। अक्षेत्यस्यार्थोक्षयादिति। एतेननञुपपदात्क्षैक्षय इत्यस्माद्धातोरातोनुपसर्गेक इति कप्रत्यय इत्युक्तं भवति। र इत्यस्यार्थोरतिरूपत्वादिति। रमुक्रीडायामित्यस्माडडः. अक्षश्चासौ रश्चेति अक्षरः। तस्यैवार्थान्तरमाह अक्षेष्विति। इन्द्रियेष्वित्यर्थः।।" इति। [ छा. भा। प. कौ - 21 पृ ]
किंचार्थर्वणभाष्येऽपि.
"अपरं त्वक्षरं यासा प्रकृतिर्जडरूपिका।
अक्षरं त्वक्षरं यासा प्रकृतिर्जडरूपिका।
वासुदेवः परानन्दः इति त्रिविधमक्षरम्‌। इति च। इति [ आ. भा. 494 पृ ]
"'अपरं त्वक्षरं या सा' इति वदता उपनिषदि अपरतोऽक्षराज्जडपरकृतेः, परतोऽक्षराच्चितः प्रकृतेश्च परः अक्षरः परमात्मेति योजना सूचिता। इति। [ आ. भा. प्र. 278 पृ ]
ऐतरेयभास्येऽपि-
"अधिकं क्षरतीत्यक्षरम्‌। क्षरणं नाम सन्ततदानम्‌।
'क्षरं विनाशसन्ततदानयोः' इति धातोः।। इति।। [ ऐ. भा. 180 पृ ]
एवमेवाक्षरशब्दविषये मण्डूकभाष्येऽपि
"आमित्युक्तं तु यद्‌ ब्रह्म तदक्षरमुदाहृतम्‌।
ओतमत्र जगद्यस्मादों तस्माद्‌ भगवान्‌ हरिः।।
तदिदं गुणपूर्तैव सर्वमित्येव शब्दितम्‌।
भाविभूतभवत्कालेष्वेकरूपतया हरिः।
सर्वदा नित्य इत्येषा व्याख्योङ्कारस्य कीर्तित। इति। [ म. भा. 513 पृ ]
"'एतदक्षरम्‌' इत्यत्र न क्षरतीत्यक्षरमिति व्युत्पत्या अक्षरं नाशरहितमित्यर्थः। इदंच 'अक्षरं ब्रह्म परमं कूटस्थमचलं ध्रुवम्‌' इत्यदौ केवलमक्षरशब्देनापि ब्रह्मकीर्त्यते। तद्वर्णात्मकत्वात्‌ नाक्षरपदवाच्यं, किन्तु आमित्येतद्‌ शब्द्यते तर्थोक्तव्युत्पत्या अक्षरपदवाच्यत्वेनैवेति प्रदर्शनाय ओंकारेण सह संग्रहः। अत एव 'भूतं भवद्‌ भविष्यद' इति वक्ष्यमाणनित्यत्वस्य न गतार्थता।।
इदं सर्वमिति श्रुतिवाक्यस्यायमर्थः-- इदमेतदुपनिषत्प्रतपाद्यं सर्वं सर्वगुणपूर्णत्वात्‌ सर्वशब्दवाच्यं ब्रह्मेत्यर्थः। ओमिति पदवाच्यं वद्वस्तु, अक्षरपदवाच्यं वदसतु एतदिदं एतदुपनिषदा प्रतिपाद्यं सर्वं सर्वपदोक्तं ब्रह्म, नतु जीवदिरिति योजना। सृगताविति धातोः सर्वै गुणाः सरन्ति गच्छन्ति सवदा तिष्ठन्त्यत्रेति सर्वपदं सर्वगुणपूर्णत्ववाचकमिति। लोकेऽपि हि सर्वै पदार्थाः अर्थतया यत्पदे तिष्ठन्तीत्येतदेव खलु सर्वपदप्रवृत्तिनिमित्तम्‌। इयांस्तु विशेषः। लोके सर्वपद प्रयोक्तुः सारासाराजडाजडपदार्थानां विवक्षितत्वात्त एव योग्यतया सम्बध्यन्ते। ब्रह्मण्युपनिषदा प्रयुज्यमानसर्वशब्दस्य ब्रह्मनिष्ठा अपरिमितकल्याणगुणा एव योग्यतया सम्बध्यन्त इति। सस्मान्नापूर्वमिदं प्रमेयम्‌। अवप्रवेशन इति धातोः सर्वे शोभना गुणाः यस्मिन्‌ ब्रह्मणि ओताः प्रविष्टाः सर्वदा ब्रह्मण्येव तिष्ठन्ति, न ततोऽन्यत्र गच्छन्तीत्यर्थः, इति स विष्णुरोमित्युच्यते। अन्यथा ओङ्कर सर्वशब्दयोरैकार्थ्यं न स्यात्‌। यथाश्रुतार्थस्तु आमित्येतदक्षरस्यसकलजगदात्मकत्वं सर्वजनानुभवविख्द्धत्वान्नाङ्गीकर्तुमुचितम्‌। जीवसय
ओंकारशब्दाभिधेयत्वाङ्गीकारेऽप्युक्तदोषानिस्ताराद्व्यर्थः परस्याऽऽयासः। एकैक जीवस्यापि सकलजडाजऽप्रपञ्यात्मकत्वस्य स्वमतेऽप्यभावादनुपपन्न एवेति ज्ञेयम्‌।।इति।। [ मं. भा. प्रका. 337,338 पृ ]


अक्षरग्रहणम्‌
 अक्षराभ्यासः कदा इत्यस्मिन्विषये प्रमाणं--
"अक्षरग्रहणं प्राप्ते पञ्चमे वत्सरे भवेत्‌।
अत्र मार्कण्डेयः--
'प्राप्ते तु पञ्चमे वर्षे त्वप्रसुप्ते जनार्दने।
                              षष्ठीं प्रतिपदं चैव वर्जयित्वा तथाष्टमीम्‌।।
                              रिक्तां पञ्चदशीं चैव सौरिभौमदिने तथा।
                              एवं सुनिश्चिते काले विद्यारम्भं तु कारयेत्‌।।
                              पूजयित्वा हरि लक्ष्मीं दुर्गां चैव विशेषतः।
                              उत्तरायणगे सूर्ये कुम्भमासं विवर्जयेत्‌।।
                              हस्तरेवति चित्रार्द्रा स्वाति मैत्रपुनर्वसू।
                              श्रवणं च प्रशस्तं स्यादक्षरग्रह्णे शिशोः।।
                              बवादीनि सुसौम्यानि करणानि विशेषतः।
                              शूलवज्रव्यतीपातव्याघातपरिघानि च।।
                              गण्डानि गण्डविष्कम्भवैधृतीश्च विवर्जयेत्‌।
                              शकुनादीनि विष्टिं च वर्जयेत्‌ सर्वदा द्विजः।।
                              गुरुसौम्येन्दुशुक्रार्कवारवर्गोदयाः शुभाः।
                              स्थिराः श्रेष्ठश्चरा निन्द्या मध्यमाश्चोभये स्मृताः।।
                              त्रिषडायगताः पापाः शुभाः केन्द्रत्रिकोणगाः।
                              सरस्वतीं गणेशं च सूत्रकारं गुरुं तथा।।
                              पूजयित्वा यथान्यायं पात्रस्थे तण्डुले लिखेत्‌।
                              प्राङ्गुखोगुरुरासीनो वारुणाभिमुखं शिशुम्‌।।
                              अङ्गुष्ठानामिकाभ्यां तु चतुर्थ्यन्तेष्टदेवताम्‌।
                              ॐङ्कारादिनमःशब्दानुच्चर्यैवाक्षराणि च।।
                              ततः प्रभृत्यनध्यायान्‌ वर्जनीयांस्तु वर्जयेत्‌।
                              अष्टमीद्वितयं चैव पक्षान्ते च दिनत्रयम्‌।।
                              चतुर्दश्यष्टमीपर्वदिनानि प्रतिपद्दिनम्‌'।। इति ।।
                                                       [ स्मृ. मु. षोड. क. प्र. 17,18 पृ ]


अक्षान्याप्रामाण्यवादः -- अदृष्टाभाववादः
"अत्र प्राक्‌ श्रुत्यनुमानाभ्यां केवलस्य ईशगुणकस्य वा जडस्य कर्तृत्वनिरासो युक्तः। तयोः अमानत्वाद्देहस्यैव कर्तृत्वोपपत्तेरशो न कर्तेत्याक्षेपात्सङ्गतिः। विष्णो र्जगत्कर्तृत्वं युक्तं न वेति सन्देहः। न युक्तमिति पूर्वःपक्षः। विनापीशं पूर्वपूर्वस्मादुत्तरोत्तरोत्पादसम्भवात्‌ क्वचित्स्वभावादेव मदिरोत्पत्तिवत्‌ कार्योत्पत्युपपत्तेः। प्रत्यक्षे तर प्रामाण्या भावेन प्रागुक्तश्रुत्यनुमानविरोधाभावत्‌ धर्माधर्माद्यदृष्टवस्तुनः अनभ्युपगमेव श्रुत्याद्याप्रामाण्ये धर्माद्यभावः स्यात्‌ इत्यस्येष्टत्वात् कुतः ईशः कुतस्तरां तत्कर्तृत्वं कुतस्तमांच स्वातन्त्रयमिति चार्वाकमतविरोधादिति।। सिद्धान्तस्तु।। अक्षान्याप्रामाण्येनादृष्टवस्त्वभावे चार्वाकशास्त्रस्य अदृष्टविषयस्य अदष्टस्य चप्राप्तेः दृष्टस्य च "अप्राप्ते शास्त्रमर्थवत्‌" इति न्यायेन विषयत्वायोगात्‌ धर्माद्यभावस्य च अक्षायोग्यात्वात्‌ धर्मादिकं नास्ति प्रत्यक्षेणा नुपलम्भात्‌
इत्यनुमानस्य त्वया प्रामाण्यानभ्युपगमाच्च। धर्माधर्माद्यभावबोधनोपायाभावेन तस्यापि विषयत्वायोगात्‌ धर्मस्वर्गापवर्गादेः प्रयोजनस्याभावात्‌ दृष्टस्य धनादेः वार्ताद्युपायान्तरसाध्यत्वाद्धर्माद्यभावज्ञाने परधनवनिताद्यर्थं परस्परहिंसादिना अपकारस्यैव प्राप्त्या धर्माद्यभावबोधनद्वारा लोकोपकारः फलमित्यस्याप्यभावात्‌ विषयप्रयोजनयोरभावेन तन्मतस्य दृष्टत्वात्‌
तयोरभावेपि शास्त्रत्वमस्त्वित्यस्य च व्याहतत्वेन तदीयदुर्मतस्य अकिंचित्करत्वात्‌ युक्तं विष्णोः कर्तृत्वमिति।।" [ इति न्या. मु. 67 पृ ]
अक्षितिः
"प्राणिनां कर्मभिश्चैव स्वेच्छयाच पुनः पुनः।
सप्तान्नं सृजसे यस्मादन्नानामक्षयस्ततः।।
तस्मादक्षितनामाऽसौ भगवान पुरुषोत्तमः।
य एवमक्षितिं वेद भगवन्तं सनातनम्‌।
अप्रयत्नेन भोगाः स्युरयथेष्टास्तस्य सर्वदा।।
इति नारायणीये"।। इति।। [ बृ. भा. 282 पृ ]
"कस्मैदेवाय हविषाविधेमेत्यत्र हिरव्यगर्भवाचक क शब्दस्य सर्वनामसंज्ञावदत्रापि द्रष्टव्यं। तथाच भगवानेवाद्यमानान्नाक्षय हेतुरिति मंत्रार्थ इति भावः। ननु तहि पुरुषो वाऽक्षितिरति कथं व्याख्यानं तत्र पुरुषस्यानाशप्रतीतेरत्यतः पुरुषोवाऽक्षितिः सहीदमन्नं पुनः पनः र्जनयति इति वाक्यद्वयमुपपाद्योपपादक भाव प्रतीत्यर्थं व्यत्यासेन व्याचष्टे।। प्राणिनामिति। सहीदमन्नं धिया जनयते कर्मभिरित्युक्तंवाक्यानुसारेण प्राणिनां कर्मभिः स्वेच्छयाचेत्युक्तं। तस्मादन्नाक्षयहेतुत्वादेव। यो वै तामक्षितिं वेद सोन्नमत्ति प्रतीकेनेति मंत्रं व्याचष्टे।। य एवमिति। एवमन्नाक्षयहेतुत्वेन। प्रतीकेनेत्यस्य मुखेनेत्यर्थ उक्तो ब्राह्मणे तस्याभिप्रायमाह अप्रयत्ननेति"।।इति।। [ बृ. भा. भा. 238 पृ ]


अङ्गारः
"अङ्गत्वेनार्यते यस्मादङ्गारस्तेन कीर्तितः" इति प्रवृत्ते।। इति।। [ बृ. भा. 366 पृ ]
"अङ्गित्वेनाङ्गरूपेण यत एको व्यवस्थितः।
इत्यादि त्रेविध्ये।" [ बृ. भा. 367 पृ ]
"ननु स्वस्याङ्गित्वातकथमंगत्वमित्यत आह।। अङ्गित्वेति।। प्राचीनवचनमप्येवमेवव्याख्येयम्‌"।।इति।। [ बृ. भा. भा. 708 पृ ]
"...........सोऽङ्गरो़डङ्गरतेरपि। इति सामसंहितायाम्‌"।। इति।। [ छा. भा. 425 पृ ] (अङ्गेषु रमणात्‌)



अङ्गारकधारणम्‌
अङ्गारधारणविषये प्रमाणम्‌ "अथ ललाटोर्ध्वपुण्ड्रमध्येऽङ्गारधारणं कार्यम्‌। तदुक्तं सङ्कग्रहे-- "विष्णोरङ्गारशेषेण ऊर्ध्वपुण्ड्रान्तरे तु यः।
करोति तीर्थतो भक्त्या स याति हरिमन्दिरम्‌।। विष्णोरङ्गारशेषेणेत्यादि"।
 'विष्णुदेवस्य होमस्य विष्णोरङ्गारमेव च।
                              ऊर्ध्वपुण्ड्रान्तरे कृत्वा उर्ध्वं विष्णुपदं व्रजेत्‌।।
                              शान्ताङ्गारं ललाटाग्रे धारयेद्विष्णुतत्परः"।। इति
                                                                [ स्मु. मु. आ. प्र. 67 पृ ]
अङ्गावतारन्यायः
"जिज्ञासाऽन्विततया प्रथमं प्रतीततस्यैतत्वस्य तत्रासम्भवेन, 'सप्तदशारत्निर्वाजपेयस्य यूपः' इत्यादाविव अङ्गावतारन्यायेन तदुपसर्जनब्रह्मान्वय सम्भवाच्च"।। इति [ चन्द्रि. 102,103 पृ ]
एवमेव प्रकाशेऽप "तृतीये 'आनर्थक्यात्तदङ्गेषु' इत्याद्यपादीयाष्टमाधिकरणे "सप्तदशारत्निर्वाजपेयस्य यूपः" इत्यत्रारत्निसाप्तदश्यं किमूर्ध्वपात्रद्वारा वाजपेयाङ्गं उत यूपद्वारा पशुयागाङ्गमिति संशये, अव्यवधानात् प्रधानत्वात्‌ प्रकरणानुग्रहाच्च वाजपेयस्याङ्गम्‌, परिमाणसय साक्षात्कर्मण्यनन्वयेऽपि तत्साधनीभूतोर्ध्धपात्रद्वारा तन्नर्वाहः, यूपशब्दोऽपि सादृश्यादूर्ध्वपात्रमात्रपर इति प्रप्ते, 'देवदत्तस्य नप्ता' इतिवत्परम्परासम्बन्धेऽपि षष्ठ्यपपत्त्या वाजपेयशब्देन पशुयागलक्षणानाश्रयणेऽपि "वाजयेयस्य यूपः" इति व्यपदेशसम्भवात्‌, *श्रुतिसम्भवे यूपशब्दे ऊर्ध्वपात्रमात्रलक्षणाया अन्याय्यत्वाच्च, 'श्रत्यनुग्रहायाव्यवहितसम्बन्धदित्रयमनादृत्य, यूपद्वारा पश्वङ्गत्वमेवाङ्गीकर्तुं युक्तमिति सिद्धान्तितम्‌। अत्र यथा अरत्निसाप्तदश्यसय प्रधानभूतवाजपेयाङ्गत्वेन प्रतीयमानस्यापि तत्रान्वयासम्भवात्तदुपसर्जनीभूते पशुयागे अन्वयः, एवमोतत्वस्यापि जिज्ञासाविशेषणतया प्रतीतस्यापि तत्रान्वयायोगेन तदुपसर्जनब्रह्मान्वय इत्यर्थः। नन्वयं न्यायोऽङ्गाङ्गिभावविषयतया द्वितीये रेवत्यधिकरणेऽभिहित इति चेत्‌, अत्रापि विशेषणस्य विशेष्यभूतजिज्ञासाङ्गतया तदङ्गभूतब्रह्मण्यन्वयादङ्गत्वस्य तदुपकारकत्वरूपत्वादिति भावः"।। इति ।। [ चन्द्रि. प्र. 103 पृ ]

अङ्कुरार्पणम्‌
चौलोपनयानादिषु अङ्कुरार्पणंकर्तव्यमित्यस्मिन्‌ विषयेऽपि----
"अथाङ्कुरार्पणं कार्यं चौलोपनयनादिषु।
                               गर्भाधानं पुंसवनं सीमन्तो जातकर्म च।।
                               नामकर्मान्नप्राशौ च परित्यज्यैव कारयेत्‌।
अत्र गर्गः--
'गर्भाधानं पुंसवनं सीमन्तौ नामकर्म च।
                               हित्वान्यत्र विधातव्यं मङ्गलाङ्कुरवापनम्‌।।
                               प्रदोषकाले कुर्वीत पूर्वरात्रवधापि वा।
                               वास्तुकर्मणि चौले च स्याद्दिवैवाङ्कुरार्पणम्‌।।
                               अतिपातेषु कार्येषु सद्य एवाङ्कुरार्पणम्‌'।
रात्रौ कर्तव्यत्वे हेतुमाह स एव --
"बीजानामधिपः सोमस्तस्माद्रात्रौ तु कारयेत्‌।
                             पालिकासु शरावेषु कर्तव्यं करकेषु वा।।
                             अङ्करार्पणकर्मैतन्मङ्गल्यं वृद्धिकारणम्‌।
                             पात्रप्रभेदान्‌ गर्गस्तु मुनिः सम्प्राह धर्मवित्‌।।
                             सौवर्णं राजतं वापि ताम्रं मृण्मयमेव वा" इति।।
                             पात्रेषु मृत्स्न्नां निक्षिप्य ब्रह्येन्द्रादिकदेवताः।
                             सम्पूज्य तत्र विधिवत्‌ बीजावापं तु कारयेदिति"।। इति।।
                                                       [ स्मृ. मु. षोड. क. प्र. 18,19 पृ ]














अनुव्यवसायः
अनुव्यवसायस्य वैशीष्ट्यविषयकत्वसाधनमेवं प्रतिपादितम्‌- "ननु वैशिष्ट्यविषयकव्यवहारादिलिङ्गकानुमित्या व्यवसायप्रामाण्यानुमित्या वा तत्सिद्धिः। न त्वनुव्यवसायेन। इदं रजतत्वेन जानामीति हि तदाकारो नत्विदं रजतमिति। तृतीयार्थश्च न वैशिष्ट्यम्‌। व्यवसायेऽपि तदर्थोल्लेखापत्तेः। किं तु व्यवसायगतं रजतत्वप्रकारकत्वम्‌। तस्माद्वैशिष्ट्यं नानुव्यषवसायविषय इति चेन्मैवम्‌। वैशिष्ट्यविषयकत्वस्याऽनुमेयत्वेऽनुमितितः प्राक्तत्रकदाचित्संशयाद्यापातात्‌। भासमानवैशिष्ट्यप्रतियोगित्वादन्यस्य प्रकारत्वस्याऽभावेनेदं रजतत्वेन जानामीत्याकारेणैवानुव्यवसाये धर्मधर्म्यंशविषयकत्वस्येव वैशिष्ट्यविषयकत्वस्याऽपि भानेनुभवसिद्धे तत्त्यागेनान्यतस्तत्सिद्धिकल्पने धर्मधर्म्यंशाविषयकत्वस्याप्यन्यतः सिद्धिकल्पनापाताच्च। न च व्यवसायस्य वैशिष्ट्यविषयकत्वमगृह्णन्‌ धर्म्यंशादिविषयकत्वमात्रं गृह्णन्नन्योऽनुब्यवसायोऽनुभूयते।
न च व्यावर्तकत्वं वा तज्ज्ञानजनकज्ञानविषयत्वं वा विशेष्याऽनिष्ठो रजतत्वादिनिष्ठो ज्ञानेन सह स्वरूपसंबन्धविशेषो वा प्रकारत्वमिति वाच्यम्‌। बहिरर्थानां तेषां वैशिष्ट्यवद्व्यवसायविषयत्वाभावेनानुव्यवसाये भानाऽयोगात्‌। क्लृप्तस्य भासमानवैशिष्ट्यप्रतियोगित्वस्य त्यागेन स्वरूपसम्बन्ध विशेषकल्पनाऽयोगाच्च। इदं रजतत्वविशिष्टतया जानामीत्यनुव्यवसायाच्च। व्यवसायस्य त्वदुक्तरजतत्वप्रकारकत्वेनैवेदं रजतमित्याकारस्येदं रजतमित्यभिलपनं रजतार्थि प्रवृत्तिं च प्रति हेतुत्वस्य च सम्भवे तस्य वेशिष्ट्यविषयकत्वाभाऽवापाताच्च।
अनुव्यवसाय एव तृतीयार्थोल्लेखस्तु तत्र वैशिष्ट्यभानेऽप्यधिकस्य रजतत्वे व्यवसायं प्रति प्रकारत्त्वस्यापि भानात्‌। अत एवानुव्यवसायस्येदं रजतमित्याकारत्वाऽभावोऽपि। वैशिष्ट्यस्य स्वातन्त्र्येणाऽभानात्‌।।" इति
[ त. ता. प्र. परि. 65 तः 68 पृ ]

अनुव्यवसाये तद्वद्विशेष्यकत्वभानं
अनुव्यवसायसप्रामाण्यान्तर्गतं व्यवसायनिष्ठं तद्वद्विशेष्यकत्वंविषयकत्वसाधनम्‌- "नन्वनुव्यवसाये वैशिष्ट्यस्य व्यवसायगतस्य रजतत्वबद्बिषयकत्वस्य च भानेऽपि प्रामाण्यान्तर्गतं व्यवसायनिष्ठं रजतत्ववद्विशेष्यकत्वं न भासते। न च रजतत्ववद्विषयकत्वे सति रजतत्पप्रकारकत्वमेव प्रामाण्यम्‌। मन्मते भ्रमसाधारण्यादिति चेन्न। रजतत्वे तृतीयार्थोल्लेखबलेन प्रकारकत्वस्येव रजतेऽपि द्वितीयार्थोल्लेखबलेन विशेष्यकत्वस्यानुव्यवसायेन गृहीततया समानसंनित्संवेद्यतया च व्यवसाये तद्विशेष्यकत्वस्याऽप ग्रहणात्‌। अस्ति हि दोषशङ्काद्यवतारदशायामिदं रजत्वेन जानामीत्यनुव्यवसायेऽपि तदनवतारदशायां रजतं रजतत्वेन जानामीत्यनुव्यवसायः। तस्मान्नाद्यः। द्वितीये सिद्धं प्रामाण्यस्य स्वतस्त्वम्‌। वैशिष्ट्यरूपस्य तद्वत्वस्याप्यनुव्यवसायेन ग्रहणात्‌।

अनुव्यवसायः
अर्थसत्वविषयकत्वसाधनम्‌ अनुव्यवसायस्यास्ति- "नन्वेवमप्यनुव्यवसायस्य श्रुतसाक्षिवाक्यवदन्यविषयतया वैशिष्ट्यग्राहकत्वेऽपि तत्संशयघिरोधित्वरूपं सत्तानिश्चयरूपत्वं नास्तीति न तद्धटितप्रामाण्ये निश्चग्राहकत्वेऽपि तत्संशयघिरोधित्वरूपं सत्तानिश्चयरूपत्वं नास्तीति न तद्धटितप्रामाण्ये निश्चयरूपता। न ह्यन्यविषयतयाप्यर्थग्राहकेणाऽर्थसत्वसिद्धिः। गेहे घटज्ञानमित्यादिवाक्यजन्यज्ञानेनाऽपि घटसत्वसिध्यापातादिति चेन्न। यत्र ज्ञानस्यान्यद्वारेणाऽर्थविक्यता तत्र द्वारिणा द्वारं सत्वेनार्थविषयकमिति ग्रहणे द्वारिणोऽपि सत्वेनार्थविषयतेति दृष्टानुसारेण कल्पनेऽतिप्रसङ्गात्‌। न हि द्वारमिच्छादिकं सत्वेनार्थविषयतया द्वारिणा ज्ञानेन गृहीतम्‌। दोषशङ्कादिनाऽनास्कन्दितो व्यवसायस्त्वनुव्यवसायेन तथा गृहीतः। गेहे घटज्ञानं साक्षिणा श्रुतवाक्यं च यदि सत्वेनार्थविषयतया द्वारिणा ज्ञानेन गृहीतं तदा तनाऽपि घटसत्वं सिध्यत्येव। यदि च सव्यवधानत्बमात्रेण सत्वाऽनिश्चायकत्वं तर्हि गेहे मम घटप्रमेत्याप्तवाक्यजन्यज्ञानेनापि घटसत्वं न सिध्येत्‌।
ननु तत्रार्थतथात्वघटितं प्रमात्वं गृह्णज्ज्ञानं घटसत्वं स्वातन्त्र्येणापि गृह्णातीति चेन्न। मम मतेऽनुव्यवसायस्यापि प्रामाण्यग्राहकत्वेनात्राऽपि स्वातन्त्र्यस्य सुवचत्वात्‌। अर्थसत्वनिश्चयत्वमात्रेण तद्धटितप्रामाण्यनिश्चयत्वोपपत्तौ स्वातन्त्र्यस्याऽनपेक्षितत्वाच्च। स्वतन्त्रादप्यनाशङ्कितदोषान्यद्वारा ग्राहकस्य
"ऋषिभिर्बहुधा गीतं छन्दोभिर्विविधैः पृथक्‌। तदेतदृचाभ्युक्तम्‌"।
इत्यादिवत्संबादेनाधिक्याच्च। एवं सत्यनुव्यवसायस्य धर्म्यंशेऽपि प्रामाऽण्यनिश्चयरूपत्वाऽभावापातेन तत्राऽपि कदाचित्संदेहापाताच्च।।" इति [ त. ता. प्र. परि 70 तः 74 पृ ]
अर्थनिश्चयः
अर्थनिश्चयस्य प्रवर्तकत्वसण्डनप्रकाराः। "ननु तत्राप्यर्थनिश्चय एव हेतुः। समानविषयत्वात्‌। आवश्यकत्वाच्च। न तु प्रामाण्यनिश्चय इति चेन्न। पीतः शङ्ख इत्यादावाकारान्तरार्थोल्लेखाभावेन शङ्खः पीतत्वेनैव भातीत्यनुभवेन चैकाकारनियते संशयान्यज्ञानरूपे निश्चये सत्यपि पीतार्थिनोऽप्रवृत्तिदर्शनात्‌।
न चाप्रामाण्याज्ञान रूपसहकारिविरहादहप्रवृत्तिरितं वाच्यम्‌। एवं तर्हयप्रामाण्यस्याप्यनुमेयत्वेन तदननुमितिदशायां पीतार्थिनः प्रवृत्तिः स्यात्‌।
किञ्चाप्रामाण्याज्ञानात्प्रवृत्तौ प्रामाण्याज्ञानान्निवृत्तिः स्यात्‌। किञ्च तदभाववति तत्प्रकारकत्वरूपाप्रामाण्यशङ्काद्यभावोऽनेकाभावघटितत्वाद्गुरुः। प्रामाण्यनिश्चयस्तु न तथेति लघुः। एवमप्रामाण्यशङ्काद्यभाववत्तद्वतितत्प्रकारकज्ञानत्वरूपप्रामाण्यात्यन्ताभावशङ्काद्यभावः एवं तद्व्याप्यदोषजन्यत्वादिशङ्काद्यभावोपि हेतुरित्यभावा अनेके। प्रामाण्यनिश्चयस्त्वेकः। अभावानां प्रामाण्यनिश्चयविरोध्यभावत्वेनैकत्वे त्वातश्यकत्वाल्लाघवाच्च प्रामाण्यनिश्चय एव सहकारी।
न चाप्रामाण्याज्ञानमप्यावश्यकम्‌। प्रामाण्यनिश्चयस्याप्रमात्वेन ज्ञातस्याप्रवर्तकत्वादिति वाच्यम्‌। मन्मते तस्यापि निश्चिंतप्रामाण्यकस्यैव प्रवर्तकत्वात्‌।
न चाप्रामाण्यशङ्काभावः क्लृप्तः प्रामाण्यनिश्चयस्तु कल्प्य इति वाच्यम्‌। गृहीतप्रामाण्यज्ञानसमानविषयकज्ञानान्तरे निष्कम्पप्रवृत्तिजनकज्ञानत्वमात्रेण सामग्रीसत्वेन तत्क्लृप्तेरुक्तत्वात्‌। फलमुखगौरवस्य चादौषत्वात्‌। अन्यथानुमितौ व्याप्तिज्ञानं न हेतुः। किं तु सहचारदर्शनवतो व्यभिचाराज्ञानम्‌। एवं पक्षे लिङ्गज्ञानं न हेतुः। किं तु पक्षज्ञानवतः पक्षे लिङ्गज्ञानं न हेतुः। किं तु पक्षज्ञानवतः पक्षे लिङ्गासंसर्गाग्रहः। एवं प्रवृत्तौ विशिष्टज्ञानं न हेतुः। किं तु भेदाग्रहः। एव मर्थेन्द्रियादिसबन्धेऽर्थाभावाज्ञानं प्रवर्तकम्‌ न त्वर्थनिश्चयः। इत्याद्यतिप्रसङ्गः।
एतेन उक्तरूपोर्थनिश्चय एव प्रवृत्तिहेतुः। अप्रमात्वेनाज्ञातत्वादिकं दण्डगतदार्ढ्यवत्कारणतावच्छेदकम्‌। तदभावात्पीतः शङ्ख इति ज्ञानान्न प्रवृत्तिरिति निरस्तम्‌। लाघवेन प्रमात्वेन ज्ञातत्वस्यैव तदवच्छेदकत्वौचित्यात्‌। अन्यथा अनुमित्यादौ सहचारादिज्ञानमेव हेतुः व्यभिचरितत्वादिनाऽज्ञातत्वं कारणतावच्छेदकमिति स्यात्‌।
एतेनैवार्थनिश्चय एव प्रवर्तक। पीतः शङ्ख इत्यादौ त्वप्रामाण्यज्ञानं प्रवृत्तिप्रतिबन्धकमिति निरस्तम्‌। निर्विषयस्य जातिविशेषेणैव प्रतिबन्धकसय मण्यादेस्त्वन्मते स्वाभावरूपकारणविघटन रूपतया प्रतिबन्धकत्वेपि मन्मते शक्तिविघटक त्वेन प्रतिबन्धकत्वेपि यथा जातिविशेषरहितस्य व्यभिचारादिज्ञानस्य मतद्वयेप्यनुमित्यादिजनकीभूतव्याप्त्यादिज्ञानविघटकत्वेनैव तत्प्रतिबन्धकता तथैवाप्रामाण्यज्ञानस्यापि प्रवृत्तिहेतुभूतज्ञानविघटकत्वेनैव प्रतिबन्धकतेति वक्तव्ये अर्थनिश्च यस्य पीतः शङ्ख इत्यादौ सत्वेन तद्विघटनासं भवात्तेन विघटनीयस्य प्रामाण्यज्ञानस्य हेतुत्वसिद्धेः। ज्ञानं हि ज्ञानान्तरस्य विषयद्वारैव विरोधीति स्वविषयविरुद्धविषयकमेव ज्ञानं विधटयति। अन्यथा व्यभिचारादिज्ञानमपि स्वाभावरूपहेतुविघटनतया अनुमित्यादिप्रतिबन्धकं वा सहचारादिज्ञानगतशक्तिविघटकत्वेन प्रतिबन्धकं वा स्यात्‌। न तु व्याप्त्यादिज्ञानविघटकम्‌। बाधादिस्तु ग्राह्याभावविषयकत्वेन साक्षार्द्विरोधित्वात्स्वत एवानुमितिप्रतिबन्धकः। ज्ञाननिष्ठाप्रामाण्यविषयकज्ञानं तु घटविषयकप्रवृत्तेर्न साक्षाद्विरोधि।
किञ्चोक्तप्रकारेणाप्रामाण्यज्ञानवत्प्रामाण्यात्यन्ताभावादिज्ञानानामपि प्रतिबन्धकत्वादभावकूटस्य कारणता कल्प्येत्यतिगौरवम्‌। ततो वरमेकः प्रामाण्यनिश्चयो हेतुरप्रामाण्यादिज्ञानं तु तद्विघटकमिति। मण्यादौ तु त्वन्मते तद्विघटनीयस्यैकस्याभावादभावकूटस्य हेतुतास्तु
एतेनैव उपाधिज्ञानस्याधेयव्यभिचारज्ञानरूपानुमितिप्रतिबन्धकान्तरसम्पादनेनानुमितिप्रतिबन्धकत्वमिवाप्रामाण्यसन्देहस्यापि मानसार्थसंदेहरूपप्रवृत्तिप्रतिबन्धकान्तरसंपादनेन प्रवृत्तिप्रतिबन्धकत्वम्‌। उक्तं हि--"अप्रामाण्यसंशयेनार्थनिश्चयं परिभूयार्थसंशय" इतीति निरस्तम्‌। मानसार्थसंदेहस्थापि पीतः शङ्ख इत्यादावुक्तरीत्यार्थनिश्चयसद्भावेन तद्विघटकत्वायोगेन सदर्थत्वरूपप्रामाण्यनिश्चयविघटनेनैव प्रतिबन्धकत्वस्यैवो चितत्वात्‌। तस्मादसंसर्गग्रहव्यभिचारज्ञानादेः प्रवृत्त्यनुमित्यादिप्रतिबन्धकत्वान्यथानुपपत्त्यैव तद्बिघटनीयस्य संसर्गाग्रहव्याप्तिज्ञानादेः प्रवृत्त्यनुमित्यादिहेतुतुत्ववदप्रामाण्यज्ञानस्य प्रवृत्तिप्रतिबन्धकत्वान्यथानुपपत्त्यैव तद्विघटनीयस्य प्रामाण्यज्ञानस्य तद्धेतुत्वसिद्धिः।।" इति।।
[ त. ता. प्र. परि. 92 तः 99 पृ ]



अनित्यप्रमामात्रानुगतगुणः
अनित्याप्रमामात्रे अनुगतगुणो नास्तीति निरूपणम्‌-- "अथ मतं ग्राह्यप्रमा वा विशेष्यनिष्ठनिशेषणज्ञानं वा अविद्यमानासंसर्गाग्रहो वा गुणः। प्रमामात्रेऽनुगतो हेतुः। न चात्र प्रमाणाभावः। आद्येपक्षे विशिष्टज्ञानत्वेन विशेषणज्ञानजन्यां धारावाहिकोत्तरप्रमां प्रति विशेष्यमपि विषयीकुर्वन्त्याः पूर्वस्या ग्राह्यप्रमायाः कारणत्वे क्लृप्तेप्रमान्तरं प्रत्यपीश्वरनिष्ठाया ग्राह्यप्रमाया गुणत्वेक्लपनात्‌। द्वितीयेपि विशिष्टज्ञानरूपं सामान्यं प्रति विशेषणज्ञानस्य विशेषणज्ञानत्वरूपेण सामान्येन कारणत्वे "यत्सामान्ययो कार्यकारणभावो बाधकाभावे सति तद्विशेषयोरपि सः" इति न्यायेन विशिष्टप्रमां प्रति विशेष्यनिष्ठविशेषणज्ञानत्वेन कारणत्वकल्पनात्‌। तृतीयेपि संसर्गग्रहसामान्यं प्रत्यसंसर्गाग्रहमात्रस्य कारणत्वेन तद्विशेषस्याविद्यमानासंसर्गाग्रहस्य संसर्गप्रमां प्रति कारणत्वकल्पनात्‌ इति।। मैवं---
आद्यपक्षे धारावाहिकपूर्वप्रमायां ग्राह्यप्रमात्वे सत्यपि तस्या विशेषणज्ञानत्वेनैव कारणतया ग्राह्यप्रमात्वेन तदभावात्‌।।
तत्र तस्याः समानाधिकारणाया एव कारणत्वक्लृप्त्या प्रमान्तरेपि समानाधिकरणाया एव कारणत्वक्लृप्त्या प्रमात्वेपि समानाधिकरणाया एव तत्कल्पनाप्रसङ्गाच्च।।
ईश्वरज्ञानस्य भ्रमं प्रतीवोपादानसाक्षात्कारतयैव कारणत्वस्य क्लृप्तत्त्वेन ग्र ह्यप्रमात्वेन कारणत्वकल्पनस्य प्रामाण्यपरतस्त्वनिश्चयाधीनत्वेनान्योन्याश्रयाच्च।।
लिङ्गाभासविप्रलम्भकवाक्यजन्ययोर्यादृच्छिकसंवादेन प्रमयोस्त्वदुक्तव्यधिकरणगुणजन्यत्ववस्समानाधिकरणदोषजन्यत्वस्यापि सत्वेनाप्रामाण्यस्याप्यापाताच्च।।
धारावाहिके भ्रमे पूर्वस्य भ्रमस्योत्तरभ्रमं प्रति त्वदुक्तरीत्या ग्राह्यभ्रमत्वेन कारणत्वे क्लृप्ते भ्रमान्तरेपि ग्राह्यभ्रमः कारणत्वेन कल्यः। स एव च भ्रममात्रेऽडनुगतो दोषः। एवं च संवादिशुकादिवाक्यमूलत्वेन नित्यप्रमावद्विसंवादिशुकादिवाक्यमूलत्वेन नित्यभ्रमोऽपि सिद्ध्येदित्यतिप्रसङ्गाच्च।।
आद्यद्वितीययोर्विशिष्टज्ञानं प्रति विशेषणज्ञानकारणत्वस्यैव मां प्रत्यसिद्धेश्च। वक्ष्यते चैतन्निर्विकल्पकभङ्गे।। द्वितीयतृतीययोर्निर्विकल्पकरूपप्रमाऽनानुगमाच्च।।
ननु निर्विकल्पकेप्यविद्यमानस्यासंसर्गस्याग्रहोस्त्येवेति चेन्न। असंसर्गाग्रहस्यासंसर्गग्रहरूपो यः संसर्गग्रहप्रतिबन्धकस्तदभावतया संसर्गग्रह एव हेतुत्वात्‌।।
न च निर्विकल्पकं प्रमाऽप्रभाबहिर्भूतम्‌। तथापि निर्विकल्पकस्य गुणाजन्यत्वेप्यप्रमावैजात्यवत्प्रमाया अप तदुपपत्तेः। तृतीयेऽविद्यामानासंसर्गशब्देनोक्तस्य विद्यमानसंसर्गस्य योऽयमग्रहस्तस्य धारावाहिकद्वितीयादिप्रमाणानुगमाच्च। अविद्यमानासंसर्गस्य संसर्गरूपतया तदग्रहस्यासंसर्गाग्रहविशेषत्वाभावाच्च।।
किञ्चानित्यप्रमामात्रानुगतगुणाङ्गीकारे प्रमारूपानुमित्यादौ प्रमात्वस्यानित्यप्रमामात्रानुगतगुणेन अनुमितित्वशाब्दत्वादेश्च लिङ्गपरामर्शशब्दकारणकत्वादिनैवोपपत्त्या यथायथं लिङ्गपरामर्शादिप्रतिनियतगुणोक्तिव्यर्था।।
किञ्च परतस्त्ववादिना हि विषयसत्वनैरपेक्ष्येण स्वत एवाप्रमाव्यावृत्तं ज्ञानसाधारणकारणादिकं किंचित्कारणं प्रमायां साधनीयम्‌। न तु ज्ञानसाधारणारणस्यैव विषयसत्वविशेषणेनाप्रमाव्यावृत्तिः साधनीया। स्वतस्त्ववादिनापि प्रमायां ज्ञानसाधारणकारणस्य विषयसत्वस्य स्वीकृतत्वेन सिद्धसाधनात्‌।।
अत एव सुधायां "ज्ञानजनेकमात्राधीनजन्मत्वं स्वतस्त्वं" इति मात्रशब्देन जनकान्तरमेव निषिद्धम्‌। न तु विषयसत्वम्‌। तस्यातीतादिविषयकानुमित्यादिसाधारणत्वेन प्रामाण्यशरीरान्तर्गतत्वेन च तदजनकत्वात्‌।।
एतेन यादृच्छिकसंवादेन प्रमायां लिङ्गाभासेन शब्दाभासेन च जन्यायामनुमितौ शाब्दप्रतीतौ च प्रक्षस्य वस्तुतः साध्यवत्वं योग्यता च गुण इति निरस्तम्‌। स्पष्टयिष्यते चैतत्‌।।
तच्चानेन साधितम्‌। विशेषणज्ञानस्यासंसर्गाग्रहस्य च भ्रमसाधारण्यात्‌। विशेष्यनिष्ठशब्देनाविद्यमानशब्देन च विषयसत्वस्यैवोक्तेः। अन्यथा भ्रमेपि विशेष्यनिष्ठविशेषणज्ञानं विद्यमानसंसर्गाग्रहश्च प्रमाव्यावृत्तत्वाद्दोष इति तञ्जन्यत्वेनैव परतस्त्वं स्यात्‌।।
तस्माद्भ्रमे स्वत एव प्रमाव्यावृत्तिं पित्तादिकमिव प्रमायामपि स्वत एव भ्रमव्यावृत्तं भूयोऽवयवेन्द्रियसन्निकर्षादिकमधिकं वाच्यमिति किमनेन।।
एतेन अनित्यप्रमात्वं अप्रमाकारणतावच्छेदकरूपानवच्छिन्नकारणनाप्रतियोगिककार्यतावच्छेदकम्‌। भ्रमावृत्तिकार्यतावच्छेदकत्वात्‌। घटत्ववदित्याद्यपि निरस्तम्‌। कार्यतावच्छेदकत्वस्यैव निरासादि।।
एतदुक्तं "अन्यथा" इत्यादिना। अनुगतगुणाभावेप्यनित्यप्रमात्वस्य कार्यतावच्छेदकत्वे घटत्वादिकं कार्यतावच्छेदकं न तु नीलघटत्वादिकमिति व्यवस्थाऽयोगादित्यर्थः।
[ त. ता. प्र. परि. 148 तः 157 पृ ]
अप्रामाण्यपरतस्त्वम्‌
अप्रामाण्यस्य परतस्त्वसमथनं चैवमस्ति। "अप्रमायां त्वनन्यथासिद्धान्वयव्यतिरेकित्वाद्दोषः कारणम्‌। क्वचित्सादृश्यादिके दोषे सत्यपि भ्रमानुत्पत्तिरसंसर्गाग्रहादिहेत्वन्तरवैकल्यादिति नान्वयव्यभिचारः। विसंवादिशुकादिवाक्येपि दोषस्योक्तत्वान्न व्यतरेकव्यभिचारोपि।।
न च प्रमायां गुणः प्रतिबन्धकस्य दोषस्येवा प्रमायामपि दोषः प्रतिबन्धकस्य गुणस्य दोषाभावस्य वा निरासक इत्यन्यथासिद्ध इत्यप्रामाण्यमपि स्वतः स्यादिति वाच्यम्‌। पीतःशङ्ख इत्यादिप्रत्यक्षे भूयोऽवयवेन्द्रियसन्निकर्षेशङ्खत्वादिविशेषदर्शनादिरूपे गन्धप्रागभावावच्छिन्नो घट इत्याद्यनुमाने सत्यपरमार्शरूपे घटोस्तीति वक्तवये पटोस्तीति वाक्यजन्यज्ञाने विवक्षितार्थतत्वज्ञानरूपे च गे सत्यपि पित्तबाधप्रमादरूपेण दोषेण भ्रमोत्पादनेन दोषस्य गुणानिरासोपक्षीणत्वायोगात्‌। स्वाभावनिरासोपक्षीणत्वेनान्यथासिद्धौ च सहकारिमात्रापलापप्रसङ्गात्‌।।
ननु तथाप्यौत्सार्गिकस्याप्रामाण्यस्य क्वचिद्गुणः प्रतिबन्धकः। पीतःशङ्ख इत्यादौ तु विषयासत्वमुत्तेजकम्‌। त्वन्मते यादृच्छिकसंवादिलिङ्गाभासादौ प्रमाप्रतिबन्धकस्य दोषस्य विषयसत्त्वमिवेति चेन्न। अयथार्थधूमज्ञानेन ज्ञापनीयस्य वह्नेर्दैवात्सत्त्ववद्गुणेन ज्ञापनीयस्य श्वैत्यादेः शङ्खे सत्त्वेन विषयासत्वस्याभावात्‌। आरोप्यपीतत्वासत्वस्य च दोषापगमदशायामपि सत्वेन तदापि भ्रमापातात्‌।।
अस्तु तर्हि पित्तादिदोष उत्तेजक इति चेत्तर्हि दोषाभावविशिष्टस्य गुणस्याभावो भ्रमे प्रयोजक इत्युक्तं स्यात्‌। ततो वरं दोष एव प्रयोजक इति लाघवात्‌। दाहे तु नोत्तेजक एव हेतुः। तस्मिन्नसत्यपि दाहदर्शनात्‌। भ्रमस्तु नासति दोषे दृष्टः।।
किञ्च यादृच्छिकसंवादिलिङ्गशब्दाभासादिज्ञाने प्रतिबन्धके गुणे त्वन्नयेन विद्यमाने मन्नयेनाविद्यमाने चोत्तेजकस्य दोषस्य सत्त्वेनौत्सर्गिकसमप्रामाण्यं स्यात्‌।।
ननूत्तेजकस्य दोषस्य विषयसत्त्वं प्रतिबन्धकमिति चेत्तर्हि विषयसत्त्वाभावविशिष्टो यो दोष स्तदभावविशिष्टस्य गुणस्याभावो भ्रमप्रयोजक इत्युक्तं स्यात्‌। स च दोषापेक्षयातिगुरुः। तस्माद्भ्रमे अर्थस्यासत्त्वेन सन्निकर्षासम्भवेन तत्स्थानीयस्य दोषस्यावश्यकत्वात्‌। पित्तादिदोषोत्कर्षेण भ्रमोत्कर्षदर्शनात्‌ अन्यथासिद्धान्वयव्यतिरेकित्वाच्च प्रमायां दोषो हेतुरित्यप्रामाण्यं परत एव।।
उक्तं हि भगवत्पादैः। "परतोऽप्रामाण्यं" इति परतः अपवादात्‌ न तु प्रामाण्यमिव स्वतः उत्सर्गत इत्यर्थः।।" इति।।
[ त. ता. प्र. परि. 220 तः 226 पृ ]
अभावप्रत्यक्षम्‌
अभावप्रत्यक्षं प्रति अधिरणयोग्यतायाः तन्त्रता। "अभावप्रत्यक्षतायां त्वधिकारणयोग्यता तन्त्रम्‌, अन्यथा परमाणौ जलत्वाभावग्रहप्रसङ्गस्यापरिहार्यत्वात्‌, इतरनिरूप्येषु ज्ञानेच्छादीर्घत्वपरत्वपृथक्त्वादिषु क्लृप्तत्वाच्च, अन्योन्याभावग्रहे त्वयाऽपि स्वीकृतत्वाच्च। न तु त्वदुक्तानेकविशेषणविशिष्टानुपलब्धिस्तन्त्रम्‌, अक्लृप्तत्वात्‌, विशेषणप्रयोजनस्यातिप्रसङ्गनिरासस्य दीर्घत्वादौ क्लृप्ताधिकरणयोग्यतयैव सिद्धेश्च।।
नन्वभावप्रत्यक्षत्वप्रयोजकाधिकरणयोग्यता किमिन्द्रियग्राह्यत्वमात्रं किं वा प्रतियोगिग्राहकेन्द्रियग्राह्यत्वं यद्वाऽभावग्राहकेन्द्रियग्राह्यत्वम्‌? आद्येऽधिकरणं प्रतियोगिसमवायि चेदाश्रयनाश जन्यो भूतलनिष्ठो घटध्वंसः प्रत्यक्षो न स्यात्‌। आश्रयमात्रं चेच्छब्दाधिकरणमपि योग्यमेव, वने सिंहनाद इत्यादिप्रतीत्या विशेषणतारूपप्रत्यासत्त्याऽधिकरणस्य वनस्यापि प्रत्यक्षत्वात्‌। न द्वितीयः, स्तंभजीवनिष्ठयोः पिशाचेश्वरान्योन्याभावयोरप्रत्यक्षत्वापातात्‌। न तृतीयः, वायुगुडपाषाणेषु रपतिक्तरससौरभाभावानामप्रत्यक्षत्वापातादिति चेन्न।।
यन्निष्ठत्वेनाभावो ज्ञायते तस्य प्रतियोगिसमवायिरूपस्य वाऽन्यरूपस्य वाऽधिकरणस्याभावग्राहकत्वेनाभिमतेन्द्रियग्राह्यत्वमधिकरणयोग्यतेति स्वीकारात्‌।।
एवं च कपालनाशजन्यस्य भूतलनिष्ठस्य घटध्वंसस्य स्तम्भजीवनिष्ठयोः पिशाचेश्वरान्योन्याभावयोश्च प्रत्यक्षता। सिद्धा भूतलस्तम्भयोर्घटध्वंसपिशाचान्योन्याभावग्राहकचक्षुरादिग्राह्यत्वात्‌। जीवस्यापीश्वराद्भेदग्राहकसाक्षिग्राह्यत्वात्‌।।
अत एवोक्तमनुव्याख्याने।।
"शारत्रगम्यपरेशानाद्भेदः स्वात्मन ईयते।
अनुभूतिविरोधेन कथमेकत्वमुच्यते"।। इति।
वनादिकं च शब्दाभावग्राहकत्वेनाभिमतश्रोत्राग्राह्यमिति न शब्दाभावस्य श्रावणता।।
यत्तु वाय्वादौ रूपाद्यभावानामप्रत्यक्षत्वापादनं, तन्न। तन्मते नीरूपे वायुः, गुडो न तिक्तः इति वाय्वादिविशेष्यकप्रतीतीनामिव मन्मतेऽपि वायौ न रूपं गुडे न तिक्ततेति वाय्वादिविशेषणकप्रत्ययानामपि लैङ्गिकत्वेनेष्टापत्तेः। तत्र विशेष्ययोग्यतारूपप्रत्यक्ष त्वहेत्वभावेनेव प्रकृतेपि दीर्घत्वादौ क्लृप्ताधिकरणयोग्यतरूपतद्धेत्वभावेन योग्यानुपलब्धिरूपलिङ्गाद्यनुसंधानकल्पनात्‌। न च भट्टमत इव मन्मतेऽनुपलब्धिरप्यनुमेया। येनानुपलब्धेरप्यनुपलब्ध्यन्तरानुमेयत्वेनानवस्था स्यात्‌।।
न चैवं वाय्वादौ रूपाद्यभावस्यानुमेयत्वे चक्षुरादिव्यापारवैयर्थ्यम्‌, पक्षस्य वाय्वादेश्चक्षुराद्ययोग्यत्वात्‌, लिङ्गीभूताया अनुपलब्धेश्च साक्षिवेद्यत्वात्, प्रतियोगिनश्च स्मरणादिति वाच्यम्। लिङ्गीभूतानुपलब्धिविशेषणयोग्यतान्तर्गतालोकादिग्रहार्थत्वात्।।
उक्तं हि प्रमाणलक्षणे "योग्यानुपलब्धेश्च लिङ्गत्वम्" इति। लिङ्गत्वेनोक्ता योग्यानुपलब्धिश्च न ग्राहकाभावप्रयुक्ता।।
न चाधिकरणयोग्यतायास्तन्त्रत्वे आत्मादौ धर्माद्यभावोऽपि प्रत्यक्षः स्यादिति शङ्क्यम्‌, संसर्गाभावग्रहे त्वदभिमता प्रतियोगियोग्यताऽपि तन्त्रमिति मया स्वीकृतत्वात्‌। दृष्टानुसारिणी हि कल्पना।।" इति।।
[ त. ता. प्र. परि. 388 तः 393 पृ ]

अपौरुषेयत्वे लाघवम्‌
"नन्वेतादृशापौरुषेयत्वे किं मानमिति चेत्‌। लाघवमेवेति ब्रूमः। तथा हि। किमीश्वरश्चतुर्मुखाय यं वेदमुपदिदेश किमेतमेवैतत्पूर्वकल्प उपदिष्टवानन्यं वा। तथा हि। किमीश्वरश्चतुर्मुखाय यं वेदमुपदिदेश किमेतमेवैतत्पूर्वकल्प उपदिष्टवानन्यं वा। आद्ये एवमेव पूर्वकल्पे एतदानुपूर्वीविशिष्टोपदेश इत्यागतमपौरुषेयत्वेन। द्वितीयपक्षेऽपि पूर्वकल्पीयो वेदः किमीश्वरबुद्धिस्थो न वा। नेति पक्षेऽज्ञानादिदोषप्रसक्तिः। आद्ये तद्विहायानुपूर्व्यनतरनिर्माणे कारणाभावः। अन्यथैकस्मिन्नपि कल्पे दिनप्रलयादिभेदेन वेदानतरनिर्माणप्रसङ्गः। न च भारतादावप्येवं प्रसङ्गः। पुराणानि तदर्थानि सर्गे सर्गेऽन्यथैव तु। क्रियान्तेऽतस्त्वनित्यानीत्यादिवाक्यादानुपूर्व्यन्तरनिर्माणस्य प्रमितत्बात्‌। अनादिनिधना नित्या वागुत्सृष्टा स्वयम्भुवेत्यागमाद्वेदानादित्वस्यैव प्रमितत्वात्‌। अनादिनिधना नित्या वागुत्सृष्टा स्वयम्भुवेत्यागमाद्वेदानादित्वस्यैव प्रमितत्वात्‌। लाघवात्प्रमितकर्तृत्वादित्युक्तेः सत्त्वाद्गौरवस्यापि पक्षे बाधकत्वस्य सत्त्वाच्च। न च भारतादौ प्रतिसर्गमुत्पत्तेः प्रमितत्वेऽपि तत्करणे किं निमित्तमिति चेत्‌। ईश्वरप्रवृत्तेः सर्वत्र स्वप्रयोजनशून्यत्वात्प्रामाण्यनिश्चयायैकानुपूर्वीविशिष्टं वेदमुपदिशति। अन्यथा पूर्वोक्तिप्रकारेणाप्तिनिश्चयोपायाभावेन प्रामाण्यनिश्चयायोगादिति प्रयोजनसत्त्वाच्च। न च सृष्ट्यादिकाले उत्पन्नस्य चतुर्मुखस्य स्वपितर्याश्वासोपपत्तिः। लोके तथो दृष्टत्वात्‌। तथा तत्सृष्टानामित्युपदेशपरम्परया महाजनपरगृहीतत्वलिङ्गेन प्रामाण्यनिश्चयोपपत्तिरिति वाच्यम्‌। तथा तत्सृष्टानामित्युपदेशपरम्परया महाजनपरिगृहीतत्वलिङ्गेन प्रामाण्यनिश्चयोपपत्तिरिति वाच्यम्‌। केषाञ्चिदुक्तरीत्या सम्भवेऽपि विचारदशायां केषुचित्पुरुषेषूक्तपरम्परावत्त्वाद्विप्रलम्भकल्पनायां प्रमाणाभावेन प्रामाण्यनिश्चयानुपपत्तेः। बुद्धादेरीश्वरावतारस्य स्वमातापितृवञ्चकस्य दृष्टत्वेन स्वपितृत्वेऽपि विचारशीलस्य चतुर्मुखस्याश्वासानुपपत्तेः। लोके बहुतरं पित्रादावनाश्वासस्यापि दृष्टेः। न चाषौरुषेयत्वनिश्चयोऽपि कथमिति चेत्‌। पूर्वकल्पेऽधीता एव वेदा उपदेशाद्युद्बोधकेन स्मर्यन्त इत्यङ्गीकारात्‌। नच तत्र मानाभावः। जन्मान्तरे श्रुतास्तास्तु वासुदेवप्रसादतः। सुनीनां प्रतिभास्यन्ति भागेनैव न सर्वश इत्यागमानां सत्त्वात्‌। अन्येषां तूक्तरीत्याऽप्रमितकर्तृत्वादिना निर्णयोपपत्तेः। न च गूढकर्तृकेऽप्युक्तापौरुषेयत्वप्रसङ्गः। अध्येतृसामान्यनिष्ठपूर्वतनत्वप्रकारकज्ञानविषयत्वरपाप्रमितकर्तृत्वस्य वा प्रत्यक्षाद्यसूलत्वरूपाप्रमितकर्तृकस्य वा हेतुत्वेन विवक्षितत्वेन गूढकर्तृके तदभावेन व्यभिचाराभावात्‌। न च हेतोरज्ञानासिद्धिः। ऋष्यादिदृष्टवेदेषु तस्य हेतोर्ज्ञातुमशक्यत्वादिति वाच्यम्‌। तदृषिवाक्येन तत्रापि ज्ञातुं शक्यत्वात्‌। विंशल्लक्षण इति वाक्येन तत्रापि निश्चयसम्भवात्‌। वेदप्रामाण्यसन्देहदशायां तदनुसारिपुराणवचनेष्वपि प्रामाण्यसन्देहात्कथमयं निश्चय इति वाच्यम्‌। ऋष्याद्यदृष्टेवेदेषु पुरातनत्वप्रसिद्ध्या प्रमितकर्त्रङ्गीकारे कल्पने कल्पनागौरवेण यद्धाक्यं तत्सकर्तृकमेवेति नियमग्राहकमानाभावेनापौरुषेयवाक्यानङ्गीकारे धर्माधर्माद्यसिद्धिभयेन चावश्यमेवापौरुषेयवाक्यकल्पनाया आवश्यकत्वेन लोकेऽपौरुषेयत्वेन प्रसिद्धवाक्यं परित्यज्य वाक्यान्तरकल्पनाया अन्याप्यत्वेन लोकप्रसिद्धवेदस्यापौरुषेयत्वस्य प्रामाण्यस्य च सिद्ध्या तदनुसारिषु पुराणादिषु प्रामाण्यनिश्चयसम्भवेन तेन वाक्यविशेषे हेतुज्ञानसिद्धेः सम्भवात्‌।।" इति।।
[ प्र. पद्ध. टि. आद. 381,382 पृ ]

अभिनवापौरुषेयत्वम्
अपौरुषेयत्वविषये अभिनवत्वमस्ति। "इति हासपुराणानि अपौरुषेयाण्यपि न वेदवत्‌ कूटस्थानि। 'सर्गेऽन्यथैव तु। क्रियन्तेऽतस्त्वनित्यानी'ति परिणामश्रवणात्‌। ननु पुराणान्यपौरुषेयाणीत्ययुक्तम्‌। 'इदं भागवतं नाम पुराणं ब्रह्मसंमितम्‌। उत्तमश्लेकचरितं चकार भगवानृषिरि'ति भागवतस्य। 'तपसा ब्रह्मचर्येण व्यस्य वेदं सनातनम्‌। इतिहासमिमं चक्रे पुण्यं सत्यवतीसुत' इति भारतस्य च व्यासप्रणीतत्वस्मरणात्‌। 'व्यासो बभूव लोकेऽस्मिन्‌ वेदान्व्यभजदाशु सः। वेदार्थानि पुराणानि चकार भगवान्‌ द्विज' इति ब्रह्मवैवर्ते पुराणानामपि व्यासप्रणीतत्वस्मरणात्‌। अपौरुषेयत्वप्रमाणाभावाच्चेति चेत्‌। न। 'आचख्युः कवयः केचित्‌ संप्रत्याचक्षते परे। आख्यास्यन्ति तथैवान्ये इतिहासमिमं भुवी'ति सूतवचनान्यथानुपत्त्यैव भारतस्यापौरुषेयत्वसिद्धेः। न हि सूतशौनकसंवादात्मकस्य भारतस्य सूतशौनकसंवादात्‌ प्राक्‌ व्याख्यानमपौरुषेयत्वमन्तरा उपपद्यते। अविद्यमानस्य अध्ययनायोगात्‌। न च वर्तमानकल्पीयसूतशौनकसंवादात्मकं भारतम्‌। येन सूतशौनकसंवादात्पुरा अध्ययनमनुपपन्नं सत्‌ अपौरुषेयत्वं गमयेत्‌। किं नाम प्राक्कल्पीयसूतशौनकसंवादात्मकम्‌। ततश्च सूतप्रवचनात्पुरा केषाञ्चिद्व्याख्यानं सूतस्याध्ययनं चोपपन्नमिति वाच्यम्‌। तदर्थः पूर्वसर्गवदति पुराणानां पूर्वकल्पीयार्थसदृशवर्तमानार्थविषयकत्वस्मरणात्‌। किं च जनमेजयस्य सर्पसत्रे प्रवृत्त्यर्थं भारते ऋत्विग्वचनं श्रुयते 'अस्ति राजन्‌ महत्सन्नं त्वदर्थं वेदनिर्मितम्। सर्पसत्रमिति ख्यातं पुराणे कथ्यते नृप। आहर्ता सर्पसत्रस्य नान्योस्तिच नराधिप। इति पौराणिकाः प्राहुरि'ति। न च भारतस्य वर्तमानकल्पीयजनमेजयविषयत्वायोगात्‌। नामसाम्यस्याप्रयोजकत्वात्‌। वेदानां वर्तमानार्थविषयकत्वेन तत्समानार्थानां पुराणानां वर्तमानार्थविषयकत्वस्यावश्यं वक्तव्यत्वाच्च। लोकानामुद्धरणाय तीर्थक्षेत्रमाहात्म्यदिकथनभागस्य वैय्यर्थ्यापाताच्च। कल्पान्तरीयतीर्थाद्युपदेशस्य स्नानाद्यनुपयोगित्वात्‌। 'इमं विवस्वते योगं प्रोक्तवानहमव्ययम्‌। विवस्वान्मनवे प्राह मनुरिक्ष्चाकवेऽब्रवीत्‌। एवं परंपराप्राप्तं इमं राजर्षयो विदुः। स कालेनेह महता योगो नष्टः परन्तप। स एवायं मया तेऽद्य योगः प्रोक्तः पुरातनः। भक्तोऽसि मे सखा चेति राहस्यं ह्येतदुत्तममि'ति भारतात्मकगीतैकदेशस्य पुरातनत्वोक्तेश्च। तता नारयणवर्माख्यमन्त्रस्य 'इमां विद्यां पुरा कश्चित्‌ कौशिको धारयन्‌ द्विजः। योगधारणाय स्वाङ्गं जहौ स मरुधन्वनी'त्युत्क्वा 'एतत्सर्वं समाख्यातं माघमाहात्म्यमुत्तमम्‌। शुश्रुषुभ्यो भवद्भ्यश्च सदा गोप्यतमं नृणाम्‌। कस्यापीदमनाख्येयं श्रद्धाहीनस्य दुर्मतेः। देयं पुत्राय शिष्याय चिरं ज्ञातस्वरूपिणे। सर्ववेदसमं शास्त्रं भारभूतं मनोरमम्‌। विज्ञाते येन शास्त्रे तु सर्वं ज्ञातमिदं भवेत्‌। भक्त्या तु पूजयेद्यस्तु लिखित्वा पुस्तकं गृहे। तद्गृहं तु कुरुक्षेत्रं तस्य मुक्तिः करे स्थिते'ति वायुपुराणमाघमाहात्म्ये माघमाहात्म्यस्य सूतादिभिर्व्याख्यातत्वाभिधानात्‌। 'प्रातः स्नात्वा देवरूजां च कृत्वा श्रुत्वा कथां मासमाहात्म्यसज्ञाम्‌। धर्मान्‌ कृत्वा चोदितान्वैष्णवैश्च स वै भवेद्विष्णुलोकैकनाथ' इति, तथा 'इत्येतत्परमाख्यानं अंबरीष तवोदितं' इति। तथा 'लिखितं पुस्तकं येषां गृहे तिष्ठति मानद। तेषां मुक्तिः करस्था हि किमु तच्छ्रवणात्मनां ' इति। वैशाखमाहात्म्यरूपग्रन्थस्य स्कन्दपुराणे पूर्वं अम्बरीषादीन्‌ प्रति कथितत्वाद्यभिधानात्‌। न हि पुराण एव इदं पुराणमम्बरीषादीन्‌ प्रति कथितमीतत्युक्तमपिन पुरातनमिति वक्तुं युक्तम्‌। अविद्यमानत्वादकथितस्य कथितत्वाभिधाने अप्रामाण्यापातात्‌। 'पुराणेषु जगन्नाथ न श्रुतं पटमार्जनमि'ति पुराणोत्पत्तेः प्रागेव पुराणेषु न श्रुतमिति नियमोक्त्यन्यथानुपपत्यैव पुराणपौरुषेयत्वसिद्धेश्च। न हि पुराणोत्पत्तेः प्राक्‌ पटमार्जनस्य पौरुषेयत्वपक्षे पुराणेषु श्रवणप्रसक्तिग्स्त्वि। येन तन्निषेधः सार्थकः स्यात्‌। अपौरुषेयत्वपक्षे तु पटमार्जनप्रतिपादकपुराणभागातिरिकग्त पुराणभागस्य तेन तन्निषेधः सार्थक स्यात्‌। अपौरुषेयत्वपक्षे तु पटमार्जनप्रतिपादकपुराणभागातिरिक्तपुराणभागस्य तेन दृष्टत्वात् पुरुषेष्वश्रवणप्रतिपादनमर्थवत्‌। एवं 'मैथिल उवाच। पूर्वमन्वन्तरस्थो हि वेनो राजा दुरात्मवान्‌। अयं वैवस्वतस्थो हि राज चेक्ष्वाकुनन्दनः। इति श्रुतं मया पूर्वं इदानीं चोच्यते त्वया। अस्मिन्‌ वैकुण्ठगे पश्चात्‌ वेनो राजा भविष्यति। इत्येतत्संशये छिंधिश्रुतदेव महामते। श्रतदेव उवाच। पुराणेषु च वैषम्यं युगकल्पव्यवस्थया। गतेदैनं दिने कल्पे कथैषा शाश्वती शुभा। मार्कण्डेयेन मे प्रोक्ता सा चोक्ता तव भूपत' इति स्कन्दपुराणवैशाखमाहात्म्ये पुराणानां परस्परं विरोधेनापरामाण्यमाशङ्क्य, विषयभेदेन परिहारमभिधाय एतत्कल्पीयपुराणस्य पूर्वदैनन्दिनकल्पीयपुराणाभेदोक्तेश्च। तथा 'ततस्त्वपउपस्पृश्य ददौ पुण्यमनुत्तमम्‌। वैशाखमासमाहात्म्यश्रवणस्य मुहूर्तजं' इति वैशाखमाहात्म्यस्योत्पत्तेः पूर्वतनस्य सत्यनिष्ठस्य वैशाखमाहात्म्यश्रवणपुण्यदानोक्तेश्च। किं च वेदव्यतिरिक्तस्यापि 'अस्यास्त्वामष्टमो गर्भो हंता यां नयसेऽबुधे'ति वाक्यस्यापौरुषेयत्वमवर्जनीयम्‌। 'पथि प्रग्रहिणं कंसमाभाष्याहाशरीरवागि'ति अशरीरत्वस्मरणात्‌। एवं 'सत्यमाह शकुन्तले'त्यादिनामपि द्रष्टव्यम्‌। न चाशरीरवाक्यास्यापि वक्तारः श्रुयन्त इति वाच्यम्‌। असाधारण्येनाशरीरिणी वाक्‌ इति व्यवहारान्यथानुपपत्त्या वेदे ऋषीणामिव तेषां तद्‌दृष्टत्वस्य कल्पनीयत्वात्‌। नच पुराणोत्पत्तिप्रतिपादकवचनाप्रामाण्यम्‌। पुराणानां परिणामलक्षणोत्पत्त्यङ्गीकारात्‌। नच शब्दात्मकस्य पुराणस्य परिणामः कर्तुमशक्य
इति वाच्यम्‌। साधारणैः कर्तुमशक्यस्यापि परमेश्वरेण कर्तुं शक्यत्वात्‌। दृश्यन्ते हि परमेश्वरानुग्रहात्‌ अगस्त्यादयः असंभावितसमुद्रपानादिकर्तारः। सति चैवं, परमेश्वरावतारस्य व्यासस्य का नामासंभावना। न चापसिद्धान्तः। तत्वसंख्यानटीकायां पुराणानामुत्पत्तिमत्वे सति नाशाभाव एव नित्यानित्यत्वमित्यभिधानात्‌। तत्वनिर्णयटीकायामपि उत्पत्तिमत्वनिमित्त एवानित्यत्वव्यपदेशः न तु विनाशनिमित्त इत्यर्थ इत्यभिधानादिति वाच्यम्‌। तत्राप्युत्पत्तिपदेन परिणामस्यैव विवक्षितत्वात्‌। विनाशाभावस्यास्माभिरप्यङ्गीकारात्‌। उक्तं च भगवत्पादौः 'पुराणानामप्यन्यथारचनमेवानित्यत्वमि'ति। अन्यथा पुराणानां रचनमित्येवावक्ष्यत्‌। रजनशब्दस्यैव शुद्धोत्पत्तिवाचकत्वात्‌। अन्यथारचनशब्दस्य परिणामवाचित्वात्‌। नच पुराणानां परिणामाङ्गीकारे दध्यात्मना विकृत्स्य क्षीरशब्दवाच्यत्वाभाववत्‌ पुराणशब्दवाच्यत्वाभावप्रसङ्गः। कुण्डलाद्यात्मना विकृतस्य सुवर्णस्य सुवर्णशब्दवाच्यत्ववत्‌ तच्छब्दवाच्यत्वोपपत्तेः। किं च, प्रतिकल्पंध पुराणानि भिद्यन्त इति वदन्‌ प्रष्टव्यः। 'इतिहासपुराणः पञ्चमो वेदानां वेद' इत्यनेनोक्तं पञ्चत्वसंख्यापूरकत्वं इतिहासपुराणानामनन्तकल्पीयानां किं मिलितानां उत प्रत्येकम्‌। नाद्यः। कदाऽप्यपूर्तिप्रसङ्गात्‌। मेलनाभावात्‌। नापि द्वितीयः. यत्किञ्चित्कल्पीयपुराणेनैव पञ्टचत्वसंख्यायाः पूर्णत्वेन कल्पान्तरीयपुराणानां तदभावप्रसङ्गात्। अभिनवापौरुषेयत्वे तु पुराणभेदाभावान्नायं दोष इति तदेवास्थेयम्‌। अभिमतं चैतत्सूत्रकारस्य स्वोक्तार्थे श्रुतेः प्रमाणत्वेनोदाहरणवत्‌ स्मरतीत्यादिना स्मृतेरपि प्रमाणत्वेनोदाहरणात्‌। अन्यता स्वोक्तार्थे विवदमानं प्रति स्ववचनस्य प्रमाणत्वेनोदाहरणमयुक्तं स्यात्।।" इति।।
[ अभि. ता. 115 तः 118 पृ ]

अदृष्टौत्सर्गिकत्वम्‌
अदृष्टस्य मव्युक्तौत्सर्गिकत्वनिरासः एवमस्ति "ननु कर्तृगत एव व्यापार इत्ययुक्तो नियमः। पुत्रकृतगयाश्राद्धादिना पितरिपितृकृतजातेष्ट्यादिना पुत्रे इष्टोत्पत्तेः। न च तत्र कर्तृसमवेतमेवादृष्टमिति वक्तुं शक्यम्‌। इष्टोपपादकापूर्वस्य इष्टाश्रय एव कल्प्यत्वात्‌। कल्पकस्य फलस्य स्वाश्रय एवोपपादकानुमापकत्वात्‌। ततश्चजातेष्ट्यादेः व्यधिकरणव्यापारस्यावर्जनीयत्वात्। अर्धजरतीयानुसरणे कारणाभावात्‌। सर्वत्रापि व्यधिकरणो देवताप्रसादो व्यापारोऽस्तु किमपूर्वकल्पनयेत्याक्षिप्य विहितक्रियया कर्तृगतद्वारा कालान्तरभाविफलं जन्यत इत्युत्सर्गः। स च बलवता बाधकेनापोद्यते। प्रकृते च बाधकं नास्ति। यथा शास्त्रदर्शितं फलमनुष्ठातरीत्युत्सर्गः पुत्रकृतगयाश्राद्धस्य पितृस्वर्गं प्रति पितृकृतजातेष्टेः पुत्रपूतत्वादिकं प्रति हेतुत्वस्य शास्त्रेण बोधितत्वात्‌ इति समादधौ। तन्न।।
गयाश्राद्धादिकर्मणा देशान्तरगते पितरि, पितृकृतजातेष्ट्या च पुत्रे इष्टोपपादकापूर्वस्य त्वन्मते असमवायिकारणासंभवेनोत्पादायोगात्‌। न च पुत्रादिकृतं श्राद्धादिकर्मैवासमवायिकारणम्‌। समवायिकारणप्रत्यासन्नत्वाभावात्‌। अन्यस्यानिरूपणात्‌। न च पितृसमवेतपूर्वादृष्टं आत्ममनःसंयोगो वा असमवायिकारणमिति वाच्यम्‌। तस्य तज्जनकत्वे मानाभावात्‌। नापि श्राद्धादिक्रियायाः पित्रादिनिष्ठादृष्टनिमित्तत्वम्‌। त्वन्मते आत्मनो विभुत्वेऽपि कार्यप्रदेशे अदृष्टस्योत्पत्तव्यत्वेन पुत्रस्य भौमशरीरक्रियायाः देशव्यवहितत्वेन स्वर्गावच्छिन्ने पितरि अदृष्टजनकत्वासंभवात्‌। अथ देशव्यवधानं न कारणताविरोधि। हन्त तर्हि कालव्यवधानमपि तथैवेति ध्वस्तस्य यागस्य कालान्तरभाविस्वर्गजनकत्वसंभवादपूर्ववैय्यर्थ्यम्‌। तस्मात्‌ गयाश्राद्धादिजन्यमपूर्वं कर्तर्येवेति नियमात्‌ विहितक्रियया कर्तृगतव्यापारद्वारा कालान्तरभाविफलं जन्यत इत्यौत्सर्गिकत्वकथनमयुक्तम्‌।।" इति।।
[ अभि. तां. 151 पृ ]

अप्रभ्रंशशक्तिः
मव्यक्तापभ्रंशशक्तिनिरासप्रकारनिराकरणमेवमस्ति। "एकत्र शक्त्याऽन्यत्र तदारोपात्‌ अर्थप्रतीत्युपपत्तेरेकत्रैव शक्तिर्लाघवात्‌। अनन्यलभ्यस्यैव शब्दार्थत्वात्‌। अन्यथा वृत्त्यन्तरोच्छेदः। सा च शक्तिः संस्कृत एव। सर्वदेशे तस्यैकत्वात्‌ नापभ्रंशेषु। तेषां प्रतिदेशमेकत्रार्थे भिन्नरूपाणां तावच्छक्तिकल्पने गौरवात्‌। एवं शक्त्यारोपादर्थप्रत्ययोपपत्तौ नापभ्रंशे शक्तिरित्याह।
तत्र। वृद्धव्यवहारेण जातस्य गाव्यादिशब्दशक्तिज्ञानस्य बाधकं विना भ्रमत्वायोगात्‌। न हि कस्यचित्‌ गावीशब्दो न गवि शक्त इति बाधकप्रत्ययोऽस्ति। येन तज्ज्ञानं भ्रमः स्यात्‌। यदि प्रत्ययमनुत्पाद्य गाव्याद्यपभ्रष्टशब्दानां शक्तिज्ञानं भ्रम इति ब्रूषे। तर्हि परोऽपि पर्यायेषु संस्कृतेषु एक एव शब्दः शक्तः अन्ये सर्वेऽपि अशक्ता एव। तत्र शक्तिज्ञानं भ्रमः लाघवादिति ब्रूयात्‌। किं च यथा संस्कृतेषु शब्देषु गौणी लक्षणा दृश्यते। तथा भाषाशब्देष्वपि लक्षणा गौणी च वृत्तिर्दृश्यते। न च सा शक्त्त्यभावे युक्ता। क्वचिच्छक्तस्यैव लक्षकत्वात्‌। अन्यथा कचटतपदादिशब्दानामपि लक्षकत्वप्रसङ्गो दुर्वारः. न च भाषाशब्देषु गौण्यादिवृत्तिरेव नास्तीति वक्तुं शक्यम्‌।
मुख्यार्थानुपपत्तिपुरःस्मरं भाषाशब्देभ्योऽर्थप्रतिभासस्य सर्वानुभवसिद्धत्वात्‌। किं च 'साधूनेव प्रयुञ्जीत नासाधूनि'ति अपशब्दो न प्रयोक्तव्य इति श्रुयते। न च शक्तिविधुरस्य कचटतपादिवन्निरर्थकस्य प्रयोगप्रसक्तिरस्ति। येन तन्निषेधः सार्थकः स्यात्‌। ततो मन्यामहे अस्त्यपभ्रंशानामपि सङ्केताधीना शक्तिरिति।।" इति।।
[ अभि. तां. 174,175 पृ]
अपभ्रंशानां साङ्केतिकत्वम्‌
अपभ्रंशानां साङ्केतिकत्वेमवमस्ति। "ननु पङ्कजादि शब्दानां स्वार्थे शक्तिरभ्युपगम्यते तथा गाव्याद्यपभ्रंशानामपि शक्तिरभ्युपगन्तव्या। संस्कृतानामिव अपभ्रंशानामर्थप्रत्यायकत्वात्‌। न च शक्त्यभावे शक्तिभ्रमादर्थप्रत्यायकता युक्ता। संस्कृतेष्वपि तथात्वापातात्‌। न च देवदत्तादिशब्दवत् साङ्केतिकत्वं युक्तम्‌। सङ्केत कर्तृरप्रसिद्धेः। न चापभ्रंशानामपि संस्कृतवच्छक्तत्वे साध्यसाधुविभागो न स्यात्‌। 'साधुभिर्भाषितव्यं' इति विधिः 'न म्लेञ्छत वै नापभषित वै म्लेञ्छो ह वा यदेव अपशब्द' इत्यादिनिषेधश्च न स्यादिति वाच्यम्‌। शक्तत्यसाम्येऽपि पुण्यपापसाधनत्वाभ्यां साध्वसाधुविभागस्य विधिनिषेधयोश्चोपपत्तेः। ततश्चार्वजनीया गावी गोणीत्याद्यपभ्रंशानामपि स्वार्थे शक्तिरिति।
अत्रोच्यते। साङ्केतिका एवापभ्रंशाः। न तु संस्कृतवत्‌ स्वाभाविकशक्तिमन्तः। 'अनन्याधीनविज्ञानात्‌ अन्याधीनं तथैव च। मृदयोलोहनाम्नां हि ज्ञानात्साङ्केतिकं यथे'ति स्मृतेः। साङ्केतिकं मण्णुमातीत्यादिप्राकृतं नाम संस्कृतनामविज्ञानाद्यथा विज्ञातफलं भवति तथा परमात्मविज्ञानात्सर्वं विज्ञातफलं भवतीति स्मृत्यर्थः। न च गवादिशब्दानामपि साङ्केतिकत्वं युक्तम्‌। 'वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यमि'ति श्रुतौ मण्णुमातीत्यादिशब्दानां अनित्यत्वमुक्त्वा 'मृत्तिकेत्येव सत्यमि'ति मृत्तिकादिशब्दोपलक्षितानां संस्कृतशब्दानां नित्यत्वाभिधानात्‌। नच नित्यानां साङ्केतिकत्वं युक्तम्‌। सङ्केतात्प्राक्‌ अबोधकत्वप्रसङ्गेन तद्धटितवेदादीनामप्रामाण्यप्रसङ्गात्‌। न च भाषाशब्दानां साङ्केतिकत्वे बाधकमस्ति म्लेञ्छादिजातिनिर्मात्रा परमेश्वरेण संस्कृतायोग्यानां तेषां व्यवहारप्रसिद्धये भाषाशब्दान्निर्माय तेषु तेष्पर्थेषु सङ्केतस्य कृतत्वेन सङ्केतात्पूर्वं तच्छब्दस्यैवाभावात्‌। न चार्थप्रत्यायकत्वं शक्तिसाधनायालम्‌। सङ्केतेनैवान्यथासिद्धत्वात्‌। नापि वृद्धव्यवहारस्तत्साधकः। वृद्धव्यवहारस्य परमेश्वरसङ्केतेनान्यथासिद्धेः। देवदत्तादिनाम्नां यज्ञप्रवेशस्तु द्वादशेऽहनि पिता नाम कुर्यादिति विधिप्राप्तत्वादुपपन्नः। न च सङ्केतकर्तृरप्रसिद्धिर्दोषः। लोकप्रसिद्ध्यभावेऽपि गिरिदरीविवरवर्त्यङ्कुरादीनां कर्तृरिव 'नामरूपे व्याकरोदि'ति श्रुतिसिद्धत्वात्। न चौषां परमेश्वरसङ्केतयुक्तत्वेन 'म्लेञ्छत वै नापभाषित वा इति निषेधानुपपत्तिः। ईश्वरसृष्टाया अपि सुराया 'न सुरां पिबेदि'ति पाननिषेदवदुपपत्तेः।।" इति।।
[ अभि. तां. 174 पृ ]

अर्धपिप्पली
अर्धपिप्पलीत्यादौ योगेसमर्थनमेवमस्ति। "एवं अर्धपिप्पवली अर्धकौशातकीत्यादितत्पुरुषेऽपि योग एव। पिप्पल्या अर्धमित्यर्थस्यावयवशक्तिलभ्यताव्त्। इत्यांस्तु विशेषः। राजपुरुष इत्यादितत्पुरुष उतत्रपदार्थप्रधानः। अर्धपिप्पलीत्यादितत्पुरुषस्तु पूर्वपदार्थप्रधानः। तथाऽनुभवात्‌ अतिखट्वः अतिमाल इत्यादितत्पुरुषेऽपि पूर्वपदार्थप्रधानो योग एव। तेन खट्वां अतिक्रान्त इत्याद्यर्थप्रतीतेः अत्याद्युपसर्गाणां अतिक्रान्ताद्यर्थत्वं उपसर्गवादे वक्ष्यते। एवं अधिकुमारि उपकुम्भं सुमद्रमित्याद्यव्ययीभावेषु पूर्वपदार्थप्रधानो योग एव। कुमारीष्वधिकृत्येत्यध्यर्थस्य प्रवृत्ता कथेत्यनेनान्वयप्रतीतेः। उपकुम्भमित्यनेन कुम्भस्य समीपे इत्यर्थस्य सुमद्रमित्यनेन मद्राणां समृद्धिरित्यर्थस्य प्रतीतेः। अधीत्याद्यव्ययस्य 'अव्ययं समीपसमृद्धी'ति सूत्रेणैव विभक्त्याद्यर्थत्वस्योक्तत्वात्‌ विभक्त्याद्यर्थानां समस्यमानाव्ययार्थत्वं द्रष्टव्यम्‌।।" इति।।
[ अभि. तां. 197 पृ ]

अनुप्रमाणत्रैविध्यम्‌
अनुप्रमाणत्रौविध्यविषये बाधकोद्धारः एवमस्ति। "ननु सङ्केतबलाच्छब्दादिवच्चेष्टातोऽप्यर्थानुभवदर्शनात्‌ शब्दवच्चेष्टाऽपि प्रमाणमेव। ततश्च त्रीण्येवानुप्रमाणानीत्ययुक्तमिति चेत्‌। उच्यते। भवत्येव चेष्टातोऽप्यर्थावगतिः। तथाऽपि न सा पृथक्‌ प्रमाणं किं तु अनुमानमेव। तथा हि। काश्चिच्चेष्टा अर्थे सङ्केतिता भवन्ति। ताश्च तत्कर्त्रभिप्रायानुमापिकाः। अयं देवदत्तः, देशविशेषस्थघटबुद्धिमान्‌। घट-देशविशेष-तत्रवर्तमानत्वेषु सङ्केतिततेष्टासमूहकारित्वात्‌ यो यत्सङ्केतितचेष्टाकारी स तद्बुद्धिमान्‌ यथाऽहमिति। ततश्च घटस्तद्देशस्थः तत्रस्थत्वेनाप्तबुद्धिविषयत्वात्‌। इत्यनुमाय तत्र प्रवर्तते। काश्चिच्चेष्टास्तु वर्णेषु सङ्केतिताः।
ताश्च लिपिवत्‌ वर्णाननुमापयन्ति। विमतो देवदत्तः घटादिवर्णज्ञापनेच्छुः तत्सङ्केतितचेष्टाकारित्वात्‌। यो यत्सङ्केतितान्‌ करोति स तज्ज्ञापनेच्छुः। यथा लेखक इति। एवमिच्छावच्छेदकतया वर्णासिद्धौ अनुसंहितैर्वर्णसमूहैरर्थं ज्ञात्वा प्रवर्तते। अर्थे सङ्केतितास्तु चेष्टाः एडमूकानामपि अर्थज्ञानहेतुत्वातत्प्रवर्तिकाः। वर्णसङ्केतितास्तु तद्व्यतिरिक्तानामेव। तेषां वर्णज्ञानस्य तदनुसन्धानजन्यार्थज्ञानस्य वाऽयोगात्‌। ननु यदि चेष्टा लिङ्गतया बोधिका तर्हि सङ्केतग्रहो व्यर्थः। लिङ्गस्य सङ्केतग्रहानपेक्षत्वात्‌। अतः पृथगेव सा प्रमाणमिति चेत्‌। न । चेष्टामात्रस्य अर्थादिभिर्व्याप्त्यभावेन सङ्केतिताया एव चेष्टायाः अर्थादिव्याप्तत्वेन हेतुविशेषणसङ्केतग्रहस्यावश्यकत्वात्। न च दैवात्‌ सङ्केतितचेष्टाकारिणो बालादेरर्थादिज्ञानविधुरत्वान्नायं सद्धेतुरिति वाच्यम्‌। घटादिप्रसङ्गे तदुत्तरत्वेन तत्सङ्केततचेष्टाकारित्वस्य विवक्षितत्वात्‌। ऐतिह्यं त्वागमभेद इति त्रीण्येवानुप्रमाणानीति सिद्धम्‌।।" इति।।
[ अभि. तां. 221,222 पृ ]

अनुमितेः मनःकरणत्वम्‌
अनुमितेः मनः करणत्वनिरासः एवमस्ति। "अनुमितिं प्रति न व्याप्तिज्ञानं करणम्‌। 'वह्न्यव्यभिचरितवह्निसहचरितधूमवानयं पर्वतः' इति परामर्शात्‌ यत्र अनुमितिः तत्र व्याप्तिज्ञानाभावात्‌। स्मृतिरूपपरामर्शात्‌ यत्र अनुमितिः तत्रापि व्याप्तिज्ञानाभावाच्च। तेन विनाऽपि भवतः तज्जन्यत्वाभावात्‌। किन्तु मन एव करणम्‌। क्लृप्तनियतपूर्ववर्तिनो मनसः करणत्वकल्पने लाघवात्‌। न च अनुमितेः मानसाध्यक्षतापत्तिः। इन्द्रियत्वेनैव मनोजन्यत्वस्य तत्प्रयोजकत्वात्‌। प्रकृते च मनस्त्वेनैव करणत्वस्य अङ्गीकारात्‌' इत्याह।।
तन्न। मनसि अनुमानत्वव्यवहारप्रसङ्गात्‌। अनुमितिकरणस्यैव अनुमानत्वात्‌। धूमादौ अनुमानत्वव्यवहाराभावप्रसङ्गाच्च। धूमादौ अनुमितिकरणत्वाभावात्‌। किञ्च धूमादौ व्याप्तिपक्षधर्मतादिचिन्ता न स्यात्‌। अनैकान्त्यादिश्च करणदोषो न स्यात्‌। अनुमितिकरणावृत्तित्वात्‌।
एतेन अनुमितेः मनःकरणकत्वं वदन्‌ शिरोमणिरपि अपास्तो वेदितव्यः।।" इति।।
[ अभि. तां. 302,303 पृ ]

अर्थापत्तेरन्तर्भावः
अर्थापत्तिप्रमाणं अनुमानेऽन्तर्भवति। तथाहि-- "अर्थापत्तिः न मानान्तरम्‌। किन्तु अनुमानमेव। व्याप्तिबलेनार्थगमकत्वात्‌। तथा हिजीवनविशिष्टस्य गृहेऽसत्त्वं विज्ञातं सत्‌ बहिर्भावं गमयति। न च यो जीवत्‌ यत्र नास्ति स ततोऽन्यत्रास्तीति व्याप्तिप्रतिसंधानाभावे जीवतो गृहादर्शनमात्रेण बहिःसत्त्वविज्ञानं भवति। येनेदं व्याप्तिबलेनार्थगमकं न स्यात्‌।
ननु न जीवनमात्रं बहिःसत्त्वेन व्याप्तम्‌। गृहस्थिते व्यभिचारात्‌। नापि गृहेऽसत्त्वं तद्व्याप्तम्‌। मृते व्यभिचारात्‌। नापि जीवित्वे सति गृहेऽसत्त्वं तेन व्याप्तम्‌। विरुद्धयोः जीवनगृहाभावयोः विशेषणविशेष्यभावानुपपत्तेः। न चानयोः विरुद्धत्वमेवासिद्धमिति। युक्तम्‌। बहिर्भावकल्पकत्वाभावप्रसङ्गात्‌। न हि जीवतो गृहेऽसत्त्वं बहर्भाव कल्पयति। येन जीवतः सत्त्वमिवाविरुद्धमसत्त्वं वहिर्भाव गमयेत्‌। तथा च व्याप्तिप्रतिसंधानाभावात्‌ नार्थापत्तिरनुमानेऽन्तर्भवतीति चेत्‌।
उच्यते--जीवतो गृहेऽसत्त्वमेव बहिर्भावव्याप्तम्‌। न च विरुद्धयोः विशेषणविशेष्यभावानुपपत्तिः। तयोः आत्यन्तिकविरोधासिद्धेः। स एव हि आत्यन्तिकविरोधो नाम यो हि उपशामकशून्यः। न च जीवनगृहाभावयोः विरोधः तादृशः। बहिर्भाव सति जीवतो गृहेऽसत्त्वदर्शनात्‌। आत्यन्तिकविरोधे तु अर्थापत्तिरेव न प्रवर्तते। न च पक्षीकृतदेवदत्तस्य असन्निकृष्टत्वात्‌ तद्विशेष्यकलिङ्गपरामर्शानुपपत्तिः। ज्ञानान्तरोपनीते तस्मिन्‌ मनसैव परामर्शसंभवात्‌। जीवनस्य सन्दिग्धत्वात्‌ विशेषणासिद्धिरिति वाच्यम्‌। ज्योतिःशास्त्राभिज्ञवचसा ज्योतिःशास्त्रोक्तलिङ्गेन वा जीवित्वनिश्चये सत्येवानुमानप्रवृततिरित्यङ्गीकारात्‌। जीवनसंशये च अर्थापत्तेरपि अप्रवृत्तेः।।" इति।।
[ अभि. तां 330 पृ ]

अर्थापत्तिः
अर्थापत्तेः परोक्तप्रथक्‌ प्रामाण्य प्रकारनिरासस्तु एवमस्ति।।" अत्रैके मन्यन्ते---ज्योतिःशास्त्राभिज्ञपुरुषात्‌ ज्योतिः शास्त्रोक्तलिङ्गाद्वा देवदत्तस्य शतवर्षजीवित्वे अवगते, अनन्तरं च शतवर्षाजीवी गृह एवेत नियमे प्रत्यक्षेणावगते, अनन्तरं योग्यानुपलब्धिजनितो गृहाभावनिश्चयः; प्रमाणद्वयस्य बलाबलानिरपणात्‌ ज्योतिःशास्त्रोक्तलिङ्गशतवर्षजीवित्वयोः व्याप्तिविषयकं, तथा
शतवर्षजीवी गृहएवेति व्याप्तिविषयकं संशयमापाद्य देवदत्तो जीवति न वेति संशयं जनयित्वा तदपनुत्तये जीवनोपपादकं बहिःसत्त्वं कल्पयति। यथोक्तसामग्न्याः अनन्तरं बहिरस्तीतिप्रतीतेः। तत्रान्वयव्यतिरेकाभ्यां संशयद्वारा गृहाभावनिश्चयः करणम्‌। तदुत्पादितनियमद्वयविषयकसंशयो वा करणम्‌। जीवनसंशय एव वा करणम्‌। बहिःसत्त्वज्ञानं फलम्‌' इति।
तन्न। जीवनसंदेहसहकृतः गृहाभावनिश्चयः बहिःसत्त्वस्यैव कल्पकः; न मरणस्येत्यत्र नियामकाभावात्।
न च यथोक्तसामग्रीजनितसंशयवानेवं तर्कयति 'योग्यानुपलब्धिजनितो गृहाभावनिश्चयः सुदृढः इति जीवननियमग्राहकयोरेकं बाध्यं, विरुद्धयोरन्यतरस्याप्रमाणत्वनियमात्‌, तदिह मरणं कल्पयित्वा जीवनग्राहकं बाध्यतामुत्‌ बहिःसत्वं कल्पयित्वा गृहनियमग्राहकं; तत्र बहिःसत्त्वकल्पने गृहनियमग्राहकमात्रबाधः, मरणकल्पने तु शतवर्षजीवी देवदतो शतवर्षजीवी गृह एवेति नियमद्वयस्यापि बाधः स्यात्‌' इति। ततश्चोक्ततर्कबलात्‌ बहिःसत्त्वमेव कल्पयति न मरणमिति वाच्यम्‌। उक्ततर्कसहकारेण गृहाभावनिश्चयस्य अनुमानविधया बहिःसत्त्वमेव कल्पयति न मरणमिति वाच्यम्‌। उक्ततर्कसहकारेम गृहाभावनिश्चयस्य अनुमानविधया बहिःसत्त्वानुमितिकरणत्वोपपत्तौ अक्लृप्तार्थापत्तिविधया कल्पकत्वाभिधानायोगात्‌। देवदत्तो जीवत्येवेति निश्चयदशायां उपलब्घस्य गृहाभावस्य बहिःसत्त्वकल्पकत्वाभावप्रसङ्गाच्च। प्रमाणत्वेनाभिमतगृहाभावनिश्चयरूपार्थापत्तेः संशयजनकत्वायोगाच्च। मृतपुरुषेऽपि उक्तसामग्रीजनितैवंविधसंशयसहकृतस्य गृहाभावनिश्चयस्य बहिःसत्त्वव्यवस्थापकत्वप्रसङ्गाच्च। प्रमाणविज्ञातस्य वास्तवत्वनियमात्‌।
न च प्रमाणस्यापि गृहाभावनिश्चयस्य दोषेण प्रमाशक्तितिरोधानात्‌ अव्यवस्थापकत्वमुपपन्नमिति वाच्यम्‌। तादृशदोषानिरूपणात्‌। न च जोवननियमग्राहकयोः अन्यतराभासत्वं दोषः इति वाच्यम्‌। तस्य गहाभावनिश्चयनिष्ठत्वाभावात्‌। अन्यतराप्रामाण्यस्य सार्वत्रिकत्वेन अर्थापत्तिजन्यबहिःसत्त्वज्ञानमात्रस्य अप्रामाण्यप्रसङ्गाच्च। न च यदुपपत्त्यर्थं अर्थापत्तिरर्थान्तरं कल्पयति तद्गाहकस्याप्रामाण्यं दोषः इति वाच्यम्‌। अन्यनिष्ठाप्रामाण्यस्य अन्यत्राभासताप्रयोजकत्वाभावात्‌।
अस्तु तर्हि उपपाद्यस्य इदानीं असत्त्वं दोषः इति चेत्‌। न। भ्रान्तिवशात्‌ मरणेपपत्तये बहिःसत्त्वकल्पनां उपपाद्याभिमतासत्त्वेऽपि अर्थापत्तेः प्रमाजनकत्वे तस्य तत्राप्रयोजकत्वायोगात्‌।
यदपि 'संशयः करणं' इति। तदपि न । कोटिद्वयावलम्बिनः संशयस्य अन्यतरकोट्युपपादकनिश्चयजनकत्वायोगात्‌। अन्यथा संशयादेव सर्वत्र निर्णयसंबवे अनुमानादिप्रमाणानां वैय्यर्थ्यं स्यात्‌। अप्रमाणस्य संशस्य नियमेन प्रमाजनकत्वायोगाच्च।
अन्ये मन्यन्ते--- 'अनुपपत्तिरर्थापत्तिः। जीवी देवदत्तो गृहे नास्तीति ज्ञानानन्तरं बहिःसत्त्वं विना गृहासत्त्वमनुपपन्नमित्युनुपपत्तिप्रतिसंधानवतो बहिरस्तीति धीदर्शनात्‌। तत्र अन्वयव्यतिरेकाभ्यां अनुपपत्तिज्ञानं करणमित्यवधार्यते। न च 'देवदत्तो बहिरस्ति। जीवित्वे सति गृहेऽसत्त्वात्‌। यो जीवन्‌ यत्र नास्ति स ततोऽन्यत्र वर्तते। यथाऽहम्‌' इत्यनुमानेनैव बहिःसत्त्वज्ञानसंभवे किमर्थापत्त्या इति वाच्यम्‌। व्याप्त्यप्रतिसंधानदशायामपि अनुपपत्तिदर्शनमात्रेण बहिःसत्त्वज्ञानात्‌' इति।
अत्र वक्तव्यम्‌--- यद्यनुपपत्तिरर्थापत्तिः तर्हि जीवतो देवदत्तस्य गृहासत्त्वानुपपत्तिः, यज्ञदत्तस्य बहिःसत्त्वं कुतो न गमयतीति। नियामकं विना, देवदत्तस्यैव बहिःसत्वं गमयतीति नान्यस्येति कल्पनाऽयोगात्‌। यस्य गृहासत्त्वं यद्बहिःसत्त्वमन्तराऽनुपपन्नं तत्‌ तस्यैव गमकं नान्यस्येति चेत्‌। तर्हि अङ्गीकृतमर्थापत्तेरनुमात्वम्‌। तेन विनाऽनुपपत्तेः तदभावे सत्यभावरूपायाः व्यतिरेकव्याप्तित्वेन तद्बलेन गमकत्वाङ्गीकारात्‌। न हि व्याप्तिबलेनार्थगमकत्वमन्तरा अनुमानत्वं नामास्ति। येनार्थापत्तिरनुमानात्‌ पृथक्‌ प्रमाणं स्यात्‌। सत्यमनुपपत्तिर्नाम व्यतिरेकव्याप्तिः। तथाऽपि नार्थापत्तिरनुमानम्‌। व्याप्तेरनुमाने ज्ञातोपयुक्तत्वात्‌ इह चाज्ञाताया एवोपयुक्तत्वात्‌ इति चेत्‌। न । तेन विनेदमनुपपन्नमिति विज्ञानाभावदशायां अर्थापत्तेरगमकत्वात्‌। स्वरूपसत्या एवानुपपत्तेः गमकत्वे अर्थापत्त्याभासप्रवृत्तिश्च न स्यात्‌।।" इति।।
[ अभि. तां. 331,332 पृ ] ॐ
असाधारणम्‌
असाधारणहेत्वाभासस्य परोक्तदूषकताबीजं निख्स्य अव्याप्तिरेवदूषणमिति समर्थनम्‌। "यत्तमणौ--सर्वसपक्षविषक्षाभ्यां व्यावृत्तोऽसाधारणः' इति अप्ताधारणलक्षणं उक्तम्‌। तन्न। 'पृथिवी रूपवती गन्धवत्त्वात्‌' इत्यनुमाने आप्तवाक्यादिजन्यव्याप्तिनिश्चयविषये अतिव्याप्तेः। तस्यापि सर्वसपक्षविपक्षव्यावृत्तत्वात्‌। न च आप्तवाक्यजन्यव्याप्तिज्ञानस्य पक्षनिष्ठसाध्यविषयतया पक्षस्यैव सपक्षत्वात्‌ तत्र वर्तमानस्य गन्धवत्त्वस्य न सर्वसपक्षव्यावृत्तत्वं इति वाच्यम्‌। व्याप्तिग्रहस्य पक्षीयसाध्यविषयकत्वेऽपि पृथिवी रूपवतीति पक्षे साध्यनिश्चयाभावेन तस्य सपक्षत्वाभावात्‌। अन्यथा सामान्यप्रत्यासत्तिजन्यव्याप्तिग्रहस्यापि पक्षीयसाध्यविषयत्वेन धूमानुमानेऽपि पक्ष एव सपक्षः स्यात्‌। न च हेत्वाभासत्वेन विशेषणान्न तत्रातिव्याप्तिरिति वाच्यम्‌। असाधारण्यस्यैव हेत्वाभासताप्रयोजकत्वेन असाधारण्ये सिद्धे हेत्वाभासतासिद्धिः। तत्सिद्धौ च असाधारण्यसिद्धिरिति अन्योन्याश्रयः।।
रुचिदत्तस्तु---'संशयविरोधिविशेषदर्शनविरहकालीनस्य सर्वसपक्षविपक्षव्यावृत्तत्वं असाधारण्यं' इत्याह। तन्न। वह्निसंशयविरोधिप्रकाशविशेषदर्शनवन्तं प्रति 'महानसोऽग्निमान्‌ धूमात्‌' इत्यनुमानस्य असाधारणत्वाभावप्रसङ्गात्‌। न चेष्टापत्तिः। व्याप्त्यग्रहदशायां तस्यापि अनुमितिजनकत्वपरसङ्गात्‌। आभासताप्रयोजकदोषान्तराभावात्‌। न चेदं व्याप्यत्वासिद्ध्यैव दुष्टं नासाधारण्येनेति वाच्यम्‌। असाधारणमात्रे व्याप्यत्वासिद्धेरुद्भावयितुं शक्यत्वेन असाधारण्यस्यानुद्भाव्यतापातात्‌। नेदं स्वसाध्यसाधकं सर्वसपक्षविपक्षव्यावृत्तत्वात्‌ इत्यत्र सपक्षव्यावृत्तत्वादित्येतावतैव पूर्णत्वेनाधिक्याच्च। विपक्षव्यावृत्तत्वस्य गुणत्वेनानुद्भाव्यत्वाच्च।
अथ मतम्‌-- 'असाधारणो हेतुः साध्यवतः तदभाववतश्च व्यावृत्तत्वेन ज्ञातोऽर्थात्‌ व्यतिरेकितया पक्षे साध्यं तदभावं च साधयेत्; अविशेषात्‌। अन्यथा पक्षवृत्तित्वानुपपत्तिः इति साध्यतदभावोत्थापकतया स्वार्थनुमाने दोषः। सत्प्रतिपक्षे द्वौ तथा। अत्र त्वेक एवेति ततो भेदः। असाधारणेन व्यतिरेकिप्रयोगे परस्य सर्वसपक्षव्यावृत्तिरेवोद्भाव्या। साध्याभावोपपादकत्वात्‌। न तु विपक्षव्यावृत्तत्वमपि। प्रतिकूलत्वात्‌ व्यर्थत्वाच्च। लक्षणं तु सर्वसपक्षव्यावृत्तत्वमेव। न विपक्षव्यावृत्तत्वमपि। असाधकतानुमानदशायां व्यर्थत्वात्‌। विरुद्धोऽपि अनेनोपाधिना असाधारण एव। अन्यथा एतदवगमे विरुद्धत्वाज्ञाने हेत्वाभासान्तरतापत्तेः' इति।
तन्न। असाधारणलिङ्गस्य विरुद्धाभ्यां साध्यतदभावाभ्यां युगपदेकस्य व्याप्तिग्रहसंभवेन अर्थापत्तिविधया व्यतिरेकिविधया वा साध्यं तदभावं च साधयेदविशेषात्‌ इत्युभयसाधकत्वाभिधानायोगात्‌। न च नात्र साध्यतदभावानुमितिजनकत्वमुच्यते किं तर्हि असाधारणं हेतुं पश्यतः पुरुषस्य मानसो विचारः उच्यते इति वाच्यम्‌। तथा सति साध्याभाववद्व्यावृत्तो हेतुः साध्यं साधयेत्‌ तर्हि साध्यवद्व्यावृत्तत्वात्‌ साध्याभावमपि साधयेत्‌ इति वक्तव्यत्वेन साध्यं तदभावं च साधयेत्‌ इत्यभिधानस्य अयुक्तत्वापरिहारात्‌।
यदपि-- 'साध्यतदभावोत्थापकतया असाधारणः स्वार्थानुमाने दोषः' इति। तदपि न। परार्थानुमान इव साध्याभावोत्थापकत्वस्यैव दोषत्वेन साध्योपस्थापकत्वस्य अदोषत्वात्‌। न हि हेतोः साध्योपस्थापकत्वं दोषत्वेन मान्याः मन्यन्ते। किं तु गुणत्वेन मन्यन्ते। लिङ्गिष्ठसाध्याभावोपस्थापकत्वस्य असाधारण्यप्रयुक्तत्वेऽपि साध्योपस्थापकत्वस्य असाधारण्यप्रयुक्तत्वाभावाच्च। सर्वसपक्ष व्यावृत्तेरिव असाधारण्यशब्दार्थत्वात्‌। सकलसपक्षविपक्षव्यावृत्तिरेव असाधारण्यशब्दार्थः न तु सपक्षव्यावृत्तिमात्रं; इति चेत्‌। एवं तर्हि साध्याभावोपस्थापकत्वमपि नासाधारण्यप्रयुक्तम्‌। तस्य सपक्षव्यावृत्तिमात्रप्रयुक्तत्वेऽपि विपक्षव्यावृत्तत्वे सति सपक्षव्यावृत्तत्वरूपविशिष्टाप्रयुक्तत्वात्‌।
पक्षधरस्तु--- 'यदि शब्दत्वं सर्वनित्यव्यावृत्तं भवेत्‌ सर्वानित्यव्यावृत्तं कथं न भवेत्‌। नित्यत्वसामानाधिकरण्यग्राहकस्येवानित्यत्वसामानाधिकरण्यग्राहकस्याप्यभावात्। उभयव्यावृत्ततायां च पक्षवृत्तित्वानुपपत्तेः। पक्षस्य तदन्यतरकोटिनियमेन वृत्तिमद्धर्मस्यान्यतरवृत्तिनियमेन च शब्दवृत्तित्वेन प्रतीतस्य तदुभयसकलव्यावृत्तत्वे शब्दवृत्तित्वानुपपत्तेः इति साध्यतदभावोत्थापकतया
साध्यवदभावव्याप्तिग्राहकविरोधिसामग्रीभूतव्यतिरेकसहचारद्वयज्ञानविषयतया असाधारणो दोषः' इत्याह।।
तन्न। साध्याभावव्याप्तिग्राहकसहचारधीविषयत्वस्यैव दोषत्वात्‌। तस्यैव वक्तव्यात्वेन साध्यव्याप्तिग्राहकसहचारधीविषयत्वस्य अवक्तव्यत्वात्‌।
शिरोमणिस्तु--- 'पक्षधर्मतया ज्ञायमानो हेतुः; साध्याभावव्यापकीभूताभावप्रतीयोगित्वज्ञानात्‌ साध्यस्य, साध्यव्यापकीभूताभावप्रतियोगित्वज्ञानाच्च साध्याभावस्य, साधनायोन्मुखः मिथोविरोधेन नैकमपि साधयति। न च शब्दे नित्यत्वानित्यत्वसन्देहे तदुभयव्यापकत्वं शब्दत्वाभावस्य गृहीतुमशक्यम्‌। व्यापकत्वाभिमतशबदत्वाभावप्रतियोगिशब्दत्ववच्छब्दवृत्तित्वस्य नित्यत्वानित्यत्वयोः सन्दिह्यमानत्वेन अनैकान्त्यसन्देहाहितव्यापकत्वसन्देहावर्जनात्‌ इति वाच्यम्‌। तथात्वेऽपि तादृशशङ्काभावदशायां तथात्वनिश्चये तदुभयव्यापकीभूताभावप्रतियोगिशब्दत्ववत्त्वस्य शब्दे प्रतिसन्धातुं शक्यत्वात्‌। मा भूदसाधारणस्य शब्दो नित्यः शब्दत्वात्‌ इत्यनुमानं उदाहरणं; पक्षे साध्यतदभावकेटिकसन्देहवेलायां शब्दत्वस्य साध्यतदभावव्यापकीभूताभावप्रतियोगित्वस्य निश्चेतुमशक्यत्वात्‌। तथापि 'चन्दनं न पृथिवी सुरभित्वात्‌' इत्यनुमानं असाधारणोदाहरणं भविष्यति। वायूपनीतस्य सौरभ्यस्य आश्रयविधुरस्य गरहानन्तरं पृथिवीत्ववति पानीयादौ सौरभ्याभावदर्शनेन पृथिवीत्वव्यापकाभावप्रतियोगित्वस्य तथा, पृथिवीत्वाभाववति पाषाणादौ सौरभ्याभावदर्शनेन पृथिवीत्वाभावव्यापकाभावप्रतियोगित्वस्य सुग्रहत्वात्‌। न चास्मिन्नपि उदाहरणे पूर्वोदाहरणवत् साध्यतदभावयोः व्याप्तिग्रहणवेलायां सन्दिग्धानैकान्तिकत्वं भवति। प्रतियोगिज्ञानं विना शब्दत्वाभावस्य नित्यत्वानित्यत्वरूपसाध्यतदभावव्यापकत्वग्रहासंभवेन प्रतियोगिनि शब्दत्वे ज्ञातव्ये यत्राधिकरणे शब्दत्वरूपव्यापकाभावनिश्चयः तस्मिन्‌ शब्दरूपेऽधिकरणे साध्यतदभावरूपव्याप्यद्वयसन्देहसद्भावेन निश्चितव्यापकाभाववति व्याप्यसन्देहेन सन्दिग्धानैकान्तयप्राप्तिवत्‌ उक्तोदाहरणे प्रतियोगिनो निरधिकरणतयैव प्रतीतत्वेन सन्दिग्धानैकान्त्यप्राप्त्यभावात्‌।
न चायं सत्प्रतिपक्ष एव स्यादिति वाच्यम्‌। सत्प्रतिपक्षे द्वौ हेतू साध्यतदभावसाधकौ; इह तु एक एवेति ततो भेदात्‌। न चैवं भेदेन पार्थक्यकरणेऽतिप्रसङ्गः। स्वतन्त्रेच्छायाः (यां) नियन्तुमशक्यत्वात्‌ इति ग्रन्थकृतैव अभिधानात्‌' इत्याह।।
तन्न। प्रतिपक्षविधयाऽसाधारण्यं दोष इति वदता साध्यव्यापकीभूताभावप्रतियोगितयाऽनुसन्धीयमानो हेतुः स्वप्रतिबद्धतया स्वसाध्यं न साधयतीत्येव वक्तव्यत्वेन 'मिथो विरोधेन नैकमपि साधयति इत्युक्त्ययोगात्‌। न हि असाधारण्यं पक्षादिप्रविभागात्‌ पुराऽस्ति। किन्तु शब्दं पक्षीकृत्य नित्यत्वसाधनाय शब्दत्वे प्रयुक्तेऽसाधारण्यं भवति। सति चैवं नित्यत्वानुमितेरेव प्रतिबन्धो वक्तव्यः। असाधारण्यस्य नित्यत्वसाधनाय प्राप्तानुमानप्रयोगप्रयुक्तत्वात्‌। न हि साध्यविशेषप्रयुक्तासाधारण्ये प्राप्ते साध्यान्तरानुमितिप्रतिबन्धाभिधानस्य उपयोगोऽस्ति। येन परस्परप्रतिबन्धेन अनुमितिद्वयप्रतबन्धानुमानं युक्तिमत्‌ स्यात्‌। शब्दत्वहेतोः साध्याभावसाधकत्वस्य असाधारण्यान्तरप्रयुक्तत्वात्‌ पूर्वासाधारण्येन अनुमितिप्रतिबन्धनिरूपणवेलायां अवक्तव्यत्वात्‌। शब्दो नित्यत्वव्याप्यशब्दत्ववानयमिति परामर्शवेलायां अनित्यत्वव्याप्यशब्दत्ववानयमिति परामर्शासंभवेन प्रतिपक्षासंभवाच्च।
ननु मा भूत्‌ अन्वयव्यापतिद्वयप्रकारकपरामर्शद्वयम्‌। तथापि नित्यत्वाभावव्यापकीभूताभावप्रतियोगिशब्दत्वावानयं, तथा, नित्यत्वव्यापकीभूताभावप्रतिगिशब्दत्वावानयमिति परामर्शः संभवति इति चेत्‌। न । व्याप्तिकारकपरामर्शद्वयानिरूपणात्‌। व्यभिचारज्ञानविरोधिप्रकारकपरामर्शद्वयं निरूपितं, तस्यैवावश्यकत्वात् इति चेत्‌। न। अव्यभिचाराप्रकारकस्य व्यभिचारग्राहकसामग्रीविरोध्यप्रकारकत्वे च व्यभिचारधीविरोधिप्रकारकत्वस्यैवायोगात्‌। परामर्शद्वयस्य हेतोः साध्यतदभावव्यभिचारधीविरोधिविषयकत्वे च तदुभयगोचरानुमितिरेव स्यात्। न तु परस्परपरतिबन्धेन अनुमितिद्वयविलोपः। अयमेतत्संयोगी एतत्त्वादित्यनुमानेन संयोगानुमानवत्‌ एतसंयोगाभाववान्‌ एतत्त्वत्‌ इति तदभावानुमितेः तदैव दर्शनात्।
न च साध्यतदभावयोः विरोधज्ञानेन प्रतिबन्धात् नानुमितिद्वयापत्तिरिति वाच्यम्‌। प्रमाणद्वयेन एकस्मिन्नधिकरणे साध्यतदभावप्राप्तौ क्षीणशक्तिकस्य विरोधज्ञानस्य प्रतिबन्धकत्वायोगात्‌। अन्यथा
क्षित्यादिकर्तृत्वेन ईश्वरसिद्धौ तस्य ज्ञानादिगुणयोगित्वं अशरीरत्वं चेत्यर्थद्वयं न सिध्येत्‌। तयोः विरोधज्ञानसद्भावेन तत्साधकप्रमाणप्रवृत्त्ययोगात्‌।
न चैवं सत्प्रतिपक्षोच्छेदः। द्वयोः हेत्वोः व्याप्त्यादिग्रहे सुदृढनिर्णयाभावे च सत्येव सत्प्रतिपक्षावतारसंभवात्‌। उभयत्रापि व्याप्त्यादेः सुदृढनिर्णये तु साध्यद्वयसिद्धिः दुर्वारा। अन्यतरलिङ्गस्य व्याप्त्यादिसुदृढनिर्णये अन्यतरस्य अन्यतरेण बाध एव। अस्माभिस्तु त्वया व्युत्पादित व्याप्त्यादिग्रहदार्ढ्यमेव निराकृतम्‌। न तु सर्वथा व्याप्त्यादिग्रहस्य असंभवः एवोपपादितः।
अस्तु तर्हि द्विविधव्याप्तिज्ञानमात्रेण सत्प्रतिपक्षावतारः इति चेत्‌। न। सर्वसपक्षव्यावृत्त्या झडिति प्रतीयमानव्याप्तिवैधुर्येणैव दूषकत्वसंभवे प्रतिपक्षमुखेन दूपकत्वाभिधानायोगात्‌। सकलसपक्षव्यावृत्तेः व्याप्तिग्रहोपयोगिसहचारज्ञानविरोधित्वेन व्याप्तिवैधुर्यस्यैव झडिति प्रतिभानात्‌। अन्यथा विरुद्धत्वेनैव दूषणां स्यात्‌। प्रतिपक्षविधया दूषणत्वमङ्गीकुर्वताऽपि साध्याभावव्याप्तेरादरणीयत्वात्‌।
यदत्रोक्तं रुचिदत्तेन--- 'नासाधारणस्य विरुद्धे अन्तर्भावः। साध्यव्यापकाभावप्रतियोगित्वज्ञानस्य विरोध्यविषयतया तत्र प्रतिबन्धकत्वानभ्युपगमात्‌' इति। तन्न। तस्य विरोध्यविषयकत्वेऽपि तदुत्पन्नस्य साध्याभावव्याप्तो हेतुरिति विज्ञानस्य प्रकृतव्याप्तिविरुद्धविषयकस्य प्रतिबन्धकत्वात्‌।
एवं 'चन्दनादिकं न पृथिवी सुरभिताव्त्‌' इत्यसाधारणोदाहरणे सकलसपक्षव्यावृत्तिदर्शनोपस्थितव्याप्तिवैधुर्यमुखेनैव दूषणत्वं बोध्यम्।
यदपि मणौ-- 'परस्य सर्वसपक्षव्यावृत्तिरेव उद्भाव्या। न विपक्षव्यावृत्तिरपि। व्यर्थत्वात्' इत्यदि। तदपि न। सर्वसपक्षव्यावृत्तस्यापि आप्तोपदेशादिना गृहीतव्याप्तिकस्य लिङ्गस्य साधुत्वदर्शनेन सर्वसपक्षव्यावृत्तेरदूषणत्वात्‌।
किञ्च(ञ्चेदं) तावदयं प्रष्टव्यः--- 'सर्वसपक्षव्यावृत्तिवत्‌ सपक्षैकदेशव्यावृत्तिरपि कुतो न दूषणं' इति। सर्वसपक्षव्यावृत्तौ व्याप्तिग्रहोपायवैधुर्यं भवति, न तु सपक्षैकदेशव्यावृत्या भवतीति तद्‌दूषणमिति चेत्‌। तर्हि आगतं अव्याप्तिरेव दूषणं, सर्वसपक्षव्यावृत्तिस्तु तज्ज्ञापिकेति।।" इति।।
[ अभि. तां. 373 तः 377 पृ ]

अनुपसंहारी
अनुपसंहारिरूपहेत्वाभासस्य लक्षणानि निरस्य अव्याप्तिरेव अनुपसंहारीति समर्थनम्‌-- "यत्तुमर्णौ-व्याप्तिग्रहानुकूलैकधर्म्युपसंहाराभावो यत्र स हेत्वभिमतोऽनुपसंहारी। स चान्वयेन व्यतरेकेण वा; सर्वस्य (सर्व) पक्षत्वे दृष्टान्ताभावात्' इति। तन्न। सर्वत्र विप्रतिपत्तिदशायां सर्वं अभिधेयं मेयत्वात्‌ इति सद्धेतौ अतिव्याप्तेः।
यदत्रोक्तं--- 'विप्रतिपत्त्या साध्यानिश्चयदशायां सर्वस्य पक्षत्वे अनुपसंहार्येव' इति। तन्न। व्याप्त्यादिविशिष्टस्य सद्धेतोः हेत्वाभासत्वानुपपत्तेः। न च अनुमित्यजनकत्वात्‌ हेत्वाभासत्वं युक्तं इति वाच्यम्‌। हेत्वाभासत्वं विनाऽपि व्याप्तिग्रहरूपसहकारिविरहेण अनुमित्यजनकत्वोपपत्तेः। अन्यथा सहकारिविरहेण घटाजनकस्य दण्डस्य कारणाभासतापत्तिः दुर्वारा स्यात्‌।
न च व्याप्तिग्रहानुकूलैकधर्म्युपसंहाराभाववत्त्वे सति हेत्वाभासोपाधिमत्त्वं इति विवक्षितं इति वाच्यम्‌। हेत्वाभासोपाधेः सव्यभिचारत्वस्य साधारणत्वासाधारणत्वानुपसंहारित्वत्रितयान्यतमधर्मवत्त्वरूपत्वेन उदाहृतानुमानेऽनुपसंहारित्वसद्भावेन अतिव्याप्तिपरिहाराभावात्‌। न च होत्वाभासोपाधिमत्त्वात्‌ तस्य लक्ष्यत्वमेवेति वाच्यम्‌। तस्य हेत्वाभासोपाधित्वेन त्वयोक्तत्वेऽपि वास्तवोपाधित्वाभावात्‌।
किञ्च अनुपसंहाग्शब्देन सहचाराभावः विवक्षितः। उत सहचारनिश्चयाभावो विवक्षितः। नाद्यः। सर्वमनित्यं प्रमेयत्वात्‌ इत्यनुपसंहारिणि अव्याप्तेः। सहचारस्य वास्तवत्वात्‌। न च मेयत्वस्य अनित्यत्वेन सहचारमात्रसद्भावेऽपि व्याप्तिग्रहानुकूलसहचाराभावात्‌ नाव्याप्तिरिति वाच्यम्‌। तत्सहचारदर्शिनः व्याप्तिभ्रमानुदयप्रसङ्गेन तत्सहचारोऽपि व्याप्तिग्रहानुकूलः इति वक्तव्यत्वात्। नापि द्वितीयः। ज्ञातदोषस्यैव
हेत्वाभासताप्रयोजकत्वेन अज्ञातदोषस्य सहचारनिश्चयाभावस्य हेत्वाभासत्वाप्रयोजकत्वेन अनुपसंहारिणो हेत्वाभासताऽभावापातात्‌।
यदपि--- 'केवलान्वयिधर्मावच्छिन्नपक्षकोऽनुपसंहारी' इति लक्षणान्तरम्‌। तदपि अत एव निरस्तम्‌। सर्वमभिधेयं मेयत्वात् इति केवलान्वयिधर्मावच्छिन्नपक्षके सद्धेतौ अतिव्याप्तेः। दशाविशेषे तस्य हेत्वाभासत्वं तु प्रागेव दूषितम्‌।
किञ्च न दृश्यतेऽसङ्कीर्णोदाहरणमिति नायं पृथक्‌ हेत्वाभासः; सर्वमभिधेयं प्रमेयत्वादित्यस्य सत्त्वात्‌ सर्वं अनित्यं प्रमेयत्वात्‌ इत्यस्य व्याप्यत्वासिद्धत्वात्‌। सर्वमनित्यं कृतकत्वात्‌ इत्यस्य भागासिद्धत्वात्‌। एवमुदाहरणान्तरेऽपि दोषान्तरसन्निपातो द्रष्टव्यः।
यदपि 'व्यतिरेकिसाध्याभाववद्वृत्तित्वाज्ञानदशायां इदं दूषणम्‌। तदवगमे साधारणसङ्कर एव इति। तन्न। साध्याभाववद्वृत्तित्वाज्ञानदशायां व्याप्यत्वासिद्धेरेव उद्भाव्यत्वेन अस्यानुद्भाव्यत्वात्‌। यदत्रोक्तं-- 'व्याप्यत्वासिद्धत्वज्ञाने तदुद्भावने वा अयं व्यभिचारवदुपजीव्यत्वात्‌ दूषणम्‌' इति। तन्न। सर्वत्रापि व्याप्यत्वासिद्ध्युपजीव्यस्यैव दूषणत्वप्रसङ्गेन व्याप्यत्वासिद्धेरदूषणत्वापातात्‌। आवश्यकव्याप्यत्वासिद्धेरेव हेतुदूषणत्वसंभवे अनुपसंहारित्वस्य दूषणत्वकल्पनाऽयोगाच्च। सर्वमभिधेयं मेयत्वात्‌ इत्यत्र आगमादिना व्याप्त्यवगमे केवलान्वयिधर्मावच्छिन्नपक्षकत्वस्य व्याप्तिग्रहानुकूलैकधर्म्युपसंहाराभावस्य च विज्ञानेऽपि अनुमितिप्रतिबन्धादर्शनेन द्वयोरपि दूषकताबीजत्वायोगाच्च।।" इति।।
[ अभि. तां. 377,378 पृ ]

असाधकतानुमानम्‌
मणिग्रन्योक्तरीत्या असाधकतानुमानस्य आवश्यकत्व यदुक्तंतन्निराक्रियते। "हेत्वाभासानां असाधकतासाधकत्वेन सदुत्तरत्वम्‌। जात्यादीनां स्वस्यापि असाधकत्वप्रसङ्गेन परानुमानासाधकतासाधकत्वाभावेन असदुत्तरत्वम्‌। अथ विरुद्धत्वादिज्ञानादेव स्वार्थानुमितेरिव परार्थानुमितेः प्रतिबन्धे किमसाधकतानुमानेन। 'यद्वचसि दूषणावगतिः सः निगृहीतः' इति समयबन्धेन कथाप्रवृत्तौ दूषणमात्रं उद्भाव्यम्‌। अन्यथा अर्थान्तरत्वात्‌ इति चेत्‌। न। द्वयं उद्देश्यम्। परानुमितिप्रतिबन्धः। स्थापनायाः असाधकतासाधनं च। तत्र आद्यं दूषणमात्रज्ञानादेव। द्वितीयं तु अलिङ्गत्वज्ञापनात्‌। प्रतिबन्धकत्ववदनेनापि रूपेण दूषणत्वसंभवः; इत्यभिप्रायेण वा असाधकत्वसाधनम्‌।
असाधकत्वं च स्वज्ञानदशायां पक्षे साध्यप्रत्ययाजनकत्वम्‌। यद्वा अनुमितिप्रतिबन्धकरूपवत्त्वं असाधकत्वं' इति।।
तन्न। परानुमितिप्रतिबन्धकत्वाभावेनैव जातेरदूषणत्वास्य वक्तव्यत्वेन परानुमानासाधकतासाधकत्वाभावस्य अदूषणत्वे निमित्तत्वेन अवक्तव्यत्वात्‌। परानुमितिप्रतिबन्धकत्वस्यैव दूषणत्वे तन्त्रत्वात्।
यत्तु--- 'विरुद्धत्वादिकमेवोद्भाव्यं; किमसाधकतासाधनेन इत्याशङ्क्य, उद्देश्यं द्वयं, परानुमितिपरतिबन्धः स्थापनायाः असाधकतासाधनं च' इत्यादि समाधानम्‌। तदपि न। अनुमितिप्रतिबन्धस्यैव उद्देश्यत्वेन असाधकतासाधनस्य अनुद्देश्यत्वात्‌। न हि प्रतिपक्षादिना लिङ्गस्य अनुमितिप्रतिबन्धे सति लिङ्गस्य असाधकत्वज्ञापनेन प्रयोजनमस्ति। येन असाधकत्वसाधनस्यापि उद्देश्यत्वं स्यात्‌।
यदपि--- 'प्रतिबन्धकत्वेन असाधकतासाधकत्वेनापि हेत्वाभासस्य दूषणत्वमित्यभिप्रायेण असाधकत्वसाधनं' इति। तदपि न। अनुमितिप्रतिबन्धकत्वस्यैव दूषणताप्रयोजकत्वेन असाधकताज्ञापकत्वस्य दूषणत्वाप्रयोजकत्वात्‌। अन्यथा तज्ज्ञापकस्य आप्तवाक्यस्य दूषणत्वं स्यात्‌।
यदपि--- 'अनुमितिप्रतिबन्धकरूपवत्त्वं असाधकत्वं' इति। तदपि न। व्यभिचारादेरेव अनुमितिप्रतिबन्धकरूपवत्त्वेन तेनैव तत्साधने साध्यावैशिष्ट्यात्‌। न च उपाधिविशेषस्य अनुमेयत्वात्‌ न साध्याविशेषः इति वाच्यम्‌. तज्ज्ञापनस्य प्रयोजनभावात्‌।।" इति।।
[ अभि. तां. 385,386 पृ ]

अनन्तगूणपूर्णत्वम्‌
श्रुत्युपन्यासपूर्वकं भगवतो नारायणस्य अनन्तगुणपूर्णतवसमर्थनं एवं दरीदृश्यते। "अत्र अद्वैतवादिनो वदन्ति-- 'नेश्वरसय अनन्तगुणपूर्णत्वं युक्तम्‌। जीवाभिन्नत्वात्‌। न च तत्र मानाभावः। तत्त्वमसीति श्रुतेरेव तन्मानत्वात्‌। न च 'भिन्नोऽचिन्त्यः परमो जीवसङ्घात्‌' इति भेदश्रुतिविरोधः। उपक्रमादितात्पर्यलिङ्गसद्भावेन
उद्वैतश्रुतेः बलवत्त्वात्‌।
तथा हि--- 'एकमेवाद्वितीयं ब्रहं' इति तावदुपकरमोऽध्यक्षसिद्धः। एवं 'तत्त्वमसी'त्युपसंहारोऽपि। तथा 'तत्वमसि, तत्त्वमसि' इति नवकृत्वोऽभ्यासः। तथा अद्वैतस्य प्रमाणान्तराप्राप्तत्वेन अपूर्वत्वम्‌। 'तस्य तावदेव चिरं यावन्न विमोक्ष्येत, अथ संपस्यते' इतिश्रुत्या, तस्य ब्रह्मज्ञानिनः, तावदेव तावत्कालमेव, ब्रह्मप्राप्तये, चिरं बिलम्बः यावत्कालपर्यन्त प्रारब्धकर्मणः सकाशात्‌ श्रुतं भवत्यमतं मतमविज्ञातं विज्ञातं' इत्यर्थवादश्च श्रुयते। 'यथा सोम्यैकेन मृत्पिण्डेन सर्वं मृन्मयं विज्ञातं स्यात्‌' इति मृत्पिण्डादिदृष्टान्तेनोपपादनात्‌ उपपत्तिश्च। तदेवं तात्पर्यलिङ्गैः वेदान्तानां अभेद एव तत्पर्यावगमात्‌ अभेदः सिद्धः।
न च अभेदः जीवेश्वरयोः निर्घर्मकत्वमन्तरा युज्यते इति नेश्वरस्य अनन्तगुणपरिपूर्णत्वम्‌। न च जीवे प्रतीयमानाः दुःखादयो धर्माः मिथ्याभूताः ये ब्रह्मतादात्म्यविरोधिनः। ब्रह्म तु सगुणमेवेति युक्तम्। अनभवसिद्धानां जीवधर्माणां मिथ्यात्वमङ्गीकृत्य ब्रह्मधर्माणां प्रामाणिकत्वमङ्गीकृत्य तादात्म्यप्रतिपदनस्य अयुक्तत्वात्। न हि जीवधर्मावेदकः साक्षी मिथ्याभूतार्थगोचरः ब्रह्मधर्मप्रतिपादकश्च वेदः पारमार्थिकधर्मगोचरः इत्यत्र किञ्चिन्मानम्‌। येन जिवधर्माणां मिथ्यात्वं, ब्रह्मधर्माणां नेति स्यात्‌। श्रौतजीवब्रह्मतादात्म्यान्यथानुपपत्त्या मिथ्यात्वसिद्धिस्तु जीवधर्माणामिव ब्रह्मधर्माणामपि। अविशेषात्‌। अन्यथा ईश्वरस्य गुणपूर्णत्वं जीवस्य तन्नेति विरुद्धधर्माधिकरणत्वं दुप्परिहरं स्यात्।
न च संसारदशायामपि जीवेऽनभिव्यक्ताः ईश्वरधर्माः कल्प्यन्ते इति वाच्यम्‌। अन्योन्याश्रयप्रसङ्गात्‌। जीवस्य परमेश्वरैक्यसिद्धौ ईश्वरधर्माधिकरणत्वसिद्धिः. तत्सिद्धौ च तत्सिद्धिरति। न च प्रमाणद्वयसिद्धजीवब्रह्मधर्माणां मिथ्यात्वकलपनापेक्षया तादात्म्यस्यैव मिथ्यात्वकल्पनं वरं इति युक्तम्‌। तादात्म्यस्य उपासनाफलत्वेनाभिधानात्‌। अपि च उपासनार्थं हि गुणाभिधानम्‌। उपासनं च गुणैः मिथ्याभूतैरेवोपपन्नम्‌। 'वाचं धेनुमुपासीत' इत्यादौ तथा दर्शनात्‌। न च मिथ्योपासनेन फलासंभवः। राजत्वेन उपासितामात्यात्‌ उत्कृष्टफलदर्शनात्‌। 'साक्षी चेता केवलो निर्गुणश्च' इति निर्गुणत्वाभिधानाच्च' इति।।
अत्रोच्यते--- भवत्येव परमेश्वरोऽनन्तगुणपरिपपूर्णः। 'बृहन्तो ह्यस्मिन्‌ गुणाः।।' 'परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च।।' 'सत्यकामः सत्यसङ्‌कल्पः।।' 'सोऽन्वेष्टव्यः स विजिज्ञासितव्यः।' 'यतो वा इमानि भूतानि जायन्ते।' 'सर्वस्य वशी सर्वस्येशानः सर्वस्यधिपतिः।' 'स न साधुना कर्मणा भूयान्नो एवासाधुना कनीयान्‌।' 'एष सर्वेश्वरः एष भूताभिपतिः एष भूतपालः' इत्यादि श्रुतेः।
'ब्रह्मेशानादिभिः देबैः समेतैःयद्गुणांशकः।। नावसाययितुं शक्यो व्याचक्षाणैश्च सर्वदा'।।'मय्यनन्तगुणेऽनन्तगुणतोऽनन्तविग्रहे'।। 'तेजोबलैश्वर्यमहावबोधसद्वीर्यशक्त्यादिगुणैकराशिः। परः पराणां'। इत्यादिस्मृतेः।
नन्वेतेषां श्रुतिवाक्यानां सगुणबरह्मपरत्वेन निर्गुणे ब्रह्मणि न गुणसिद्धिः। अन्यपरेण अन्यत्राभिलषितसिद्ध्ययोगात्‌ इति चेत्‌। न। प्रमाणाभावेन सगुणब्रह्मातिरिक्तनिर्गुणब्रह्मण एवाभावात्‌। 'जीवब्रह्मणोः भेदः न वास्तवः' इति वदता सगुणनिर्गुणब्रह्मणोः वास्तवभेदाङ्गीकारायोगात्‌। भेदस्य मिथ्यात्वे तु वास्तवाबेदसद्भावात्‌ सगुणविषयकश्रुत्यादिना निर्गुणत्वेनाभिमतस्य गुणसिद्धिः दुर्वारा।
न चैतेषां वाक्यानां उपासनापरत्वेन गुणेषु तात्पर्याभावात्‌ न तद्बलेन गुणसिद्धिरिति युक्तम्‌। 'गुणोत्कर्षे देवदेवस्य विष्णोः महातात्पर्यं नैव चान्यत्र सत्त्यम्‌। अवान्तरं तत्परत्वं तदन्यत् सर्वागमानां पुरुषार्थस्ततोऽतः।।1।। न तादृशी प्रीतिरीड्यस्य विष्णोः गुणोत्कर्षज्ञातरि यादृशी स्यात्‌। तत्प्रीणनान्मोक्षमाप्नोति सर्वः ततो वेदाः तत्पराः सर्व एव।।2।।' इत्यादिश्रुत्या; 'मुख्यं च वेदानां तात्पर्यं श्रीपतेः परम्‌।। उत्कर्षे तु
तदन्यत्र तात्पर्यं स्यादवान्तरम्‌' इत्यादिश्रुत्या; 'मुख्यं च वेदानां तात्पर्यं श्रीपतेः परम्‌।। उत्कर्षे तु तदन्यत्र तात्पर्यं स्यादवान्तरम्‌' इत्यादिस्मृत्या च गणप्रतिपादकवाक्यानां गुणेषु तात्पर्यावधारणात्‌। 'सत्यः सो अस्य महिमा गुणे शवो यज्ञेषु विप्रराज्ये' इत्यादिश्रुत्या ईश्वरमहिम्नः सत्यत्वाभिधानात्‌। 'अस्य-परमात्मनः, सः-जगत्सर्जनादिरपो महिमा सत्यः, विप्रराज्ये विप्रप्रधानेषु यज्ञेषु, शवः-सुखमुद्दिश्य, गृणे-स्तौमि' इति श्रुत्यर्थः।
न च जीवब्रह्माभेदान्यथानुपपत्त्या ईश्वरधर्माणां मिथ्यात्वसिद्धिः। अभेदस्यैव अप्रामाणिकत्वात्‌।
यदत्रोक्तं--- 'तत्त्वमसि' इत्यागम एव तत्र प्रमाणं इति। तन्न। विरुद्धस्वभावयोः जीवब्रह्मणोः ऐक्यस्य अत्यन्तासंभावितत्वेन श्रुतेः अन्यार्थत्वात्‌। 'नाहमीश्वरः' इत्यनुभवविरुद्धोऽत्यन्तासंभावितश्च अभेदः श्रुत्यर्थः इति न हि संभवति। नानया श्रुत्या तत्त्वंपदवाच्ययोः विशिष्टयोः
अभेदः उच्यते। येन प्रत्यक्षादिविरोधः स्यात्‌। किन्तु भागत्यागलक्षणया चिन्मात्रयोः ऐक्यमुच्यते इति चेत्‌।
अत्र वक्तव्यम्‌--- कोऽयं भागत्यागो नाम। किमप्रतिपादनं? उत भस्मीकरणम्‌? नाद्यः। अप्रतिपादनमात्रेण विरुद्धस्वभावत्वेन ऐक्योपदेशायोगात्‌। न हि विरुद्धस्वभावयोः जलानलयोर्भागत्यागेनैक्योपदेशो युक्तः। येनेह तथा स्यात्‌।
न च 'जीवेश्वरौ न विरुद्धस्वभावौ' इति वक्तुं युक्तम्‌। जीवस्य नियमेन दुःखभोक्तृत्वं ईश्वरस्य तन्नेति वैलक्षण्यस्य स्वभावविशेषमन्तराऽयोगात्‌।
न च कर्मयोगायोगाभ्यां तदुपपन्नमिति वाच्यम्‌। तदर्थमपि स्वभाववैलक्षण्यस्य अनुसर्तव्यत्वात्‌। उपाधिभावाभावयोरपि तदधीनत्वात्‌। सुखदुःखादीनां मिथ्यात्वात्‌ न तदधिकरणत्वाय स्वभावविशेषोऽभ्युपगन्तव्यः इति चेत्‌। न। अनिर्वचनीयदुःखाद्यधिकरणत्वायैव स्वभावविशेषस्य अनुसर्तव्यत्वात्‌। अन्यथा ईश्वरस्य घटाद्यचेतनस्य च तत्स्यात्‌।
कस्तर्हि तत्त्वमसीति श्रुत्यर्थः इति चेत्‌। अभेदप्रतिनिधिः सादृश्यमेव तदर्थः इति गृहाण। तदुक्तं-- 'सादृश्याभेदसंश्रयात्‌' इति। त्वयोदाहृतानि उपक्रमादिलिङ्गनि तु सादृशरूपगौणाभेद एव तात्पर्यग्राहकाणि; इति न तद्विरोधः।
यदपि-- 'साक्षी चेता केवलो निरगुणश्च' इति निर्गुणश्रुत्यभिधानम्‌। तदपि न। तस्य लौकिकगुणवैधुर्यपरत्वात्‌। अन्यथा साक्षी चेतेति साक्षित्व-ज्ञातृतवरूपधर्मं विधाय 'निर्गुणः' इति गुणमात्रवैधुर्यप्रतिपादने व्याहतं स्यात्‌।।" इति।।
[ अभि. तां. 387, तः 389 पृ ]

अपवर्गः
अपर्गवस्य पुरुषार्थत्वसमर्थनं तथा मुक्तौ आनन्दसद्भावेप्रमाणप्रदर्शनं चैवमस्ति। "अनन्तगुणपूर्णतया परमेश्वरज्ञानस्य साक्षात्कारः फलम्‌। तस्य च अपवर्गः फलम्‌। 'तमेवं विद्वानमृत इह भवति नान्यः पन्था अयनाय विद्यते' इति श्रुतेः।
ननु परमेश्वरसाक्षात्कारस्य मोक्षः पलं इत्ययुक्तम्‌। मोक्षस्य सुखविधुरत्वेन अपुरुषार्थत्वात्‌। न च मोक्षेऽपि सुखं युक्तम्‌। सुखस्य दुःखव्याप्तत्वेन दुःखप्रसङ्गात्‌। सुखस्य धर्मकार्यत्वेन, मुक्तौ च धर्माभावादानन्दासंभवः। स्वरूपानन्दाविर्भाव एव मुक्तौ; न तु सुखोत्पादः इत्यङ्गीकारात्‌। न च मुक्तौ आनन्दसद्भावे मानाभावः---
'सोऽनानन्दद्विमुक्तः सन्नानन्दो भवति सफुटम्‌।
निर्गुणे ब्रह्मणि मयि धारय्‌ विशदं मनः।।1।।
परमानन्दमाप्नोति यत्र काभोऽवसीयते।
न विष्णुसद्ृशं दैवं न मोक्षसदृशं सुखम्‌।। 2।।
न वेदसदृशं वाक्यं न वर्णोऽकारसम्मितः'।। 3।।
इत्यादिस्मृतेश्च तत्र मानत्वात्।
'न च देहाभावात्‌ तत्र सुखायोगः। सुखमात्रस्य देहजन्यत्वनियमात्‌। अस्तु वा सुखस्य नित्यत्वम्‌।
तथापि देहः आवस्यकः। तद्व्यतिरेकेण सुखानुभवादर्शनात्‌' इति वाच्यम्‌। देहादेः तत्र सद्भावात्‌। न च तत्र प्रमाणाभावः---
'श्यामावदाताः शतपत्रलोचनाः पिशङ्गवस्त्राः सुरुचः सुपेशसः।
सर्वे चतुर्बाहव उन्मिषन्मणिप्रवेकनिष्काभरणाः सुवर्चसः।। 1।।
प्रवालवैडूर्यमृणालवर्चसां परिस्फुरत्कुण्डलमौलिमालिनाम्‌।
भ्राजिष्णुभिर्यः परितो विराजते लसद्विमानावलिभिर्महात्मनाम्‌'।। 2।।
इत्यादिस्मृतीनां, 'कामान्नी कामरूप्यनुसञ्चरन्‌' इत्यादिश्रुतीनां च तत्र मानत्वात्‌।
न च 'देहमात्रस्य सुखमात्रस्य च अनित्यत्वात्‌ तत्र तयोग्नित्यत्वापत्तिः। तथा च तत्र दुःखप्रसक्तिः' इति वाच्यम्‌। 'निवर्तते यत्र रजस्तमस्तयोः सत्त्वं च मिश्रं न च कालविक्रमः' इति जरामरणरूपविक्रमाभावोक्त्या देहनित्यत्वावगमात्‌।
'बलमानन्द ओजश्च सहो ज्ञानमनाकुलम्‌।
स्वरूपाण्येव जीवस्य व्यज्यन्ते परमाद्विभोः।।'
इति ज्ञानसुखादीनां नित्यजीवस्वरपत्वोक्त्या नित्यत्वावगमात्‌। अत एव धर्मादिकारणाभावात्‌ न मुक्तौ सुखोत्पत्तिरिति परास्तम्‌। मुक्तिसुखस्य नित्यत्वात्‌। न च सुखे सति दुःखनियमात्‌ दुःखप्रसङ्गः। 'दुःखेनात्यन्तं विमुक्तश्चरति' इति श्रुतिबलेन मुक्तौ दुःखाभावसिद्धेरुक्तियमस्य संसारादिविषयत्वात्‌।।" इति।।
[ अभि. तां. 416,417 पृ ]

अपवर्गस्वरूपम्‌
मणिग्रन्थोक्तापवर्गस्वरूपं निरस्य द्वैतमतानुसारेणापवर्गस्वरूपकथनम्‌। "मणिकारस्तु - परमपरयोजनं तु अनुमानस्य अपवर्गः। स च समानाधिकरणदुःखप्रागभावासहवृत्ति [त्तिः] दुःखध्वंसः। 'आत्मा वाऽरे द्रष्टवयः श्रोतव्यो मन्तव्यो निधिध्यासितव्यः [साक्षात्कर्तव्यः] इति श्रुत्या मोक्षोद्देशेन श्रवणादिविधानात्‌। न च मोक्षस्य दुःखध्वंसरूपत्वं कुत इति वाच्यम्‌। 'दुःखेनात्यन्तं विमुक्तश्चरति' इति दुःखाभावरूपत्वाभिधानात्‌। न च नित्यसुखाभिव्यक्तिः मुक्तिः। अभिव्यक्तर्हि न नित्या। मुक्तसंसारिणोः अविशेषप्रसङ्गात्‌। नोत्पाद्या। तद्धेतुशरीराद्यभावात्‌। ज्ञानमात्रे च सुखमात्रे च तद्धेतुत्वावधारणात्‌। न च संसारितादशायां तद्धेतुः। सामान्ये बाधकाभावात्‌। अत एव स्वर्गादौ शरीरकल्पना। न च नित्यसुखे मानमस्ति' इत्याह।।
तन्न।
'बलमानन्द ओजश्च सहो ज्ञानमनाकुलम्‌।
स्वरूपाण्येव जीवस्य व्यज्यन्ते परमाद्विभोः।।
इति वचनात्‌ स्वरूपानन्दाविर्भावस्यैव मोक्षत्वेन केवलदुःस्वध्वंसस्य तदात्मकत्वभावात्‌। सुखार्थं दुःखस्यापि सह्यत्वदर्शनेन सुखासमानकालिकदुःखध्वंसस्य अपुरुषार्थत्वाच्च। दुःखरूपानिष्टनिवृत्त्यात्मकत्वेन तस्य पुरुषार्थत्वे सुखरूपेष्टनिवृत्तिरूपत्वेन अपुरुषार्थत्वं स्यात्‌। चरमदुःखसमानकालोत्पत्तिके उपान्त्यदुःखध्वंसे अतिव्याप्तेः लक्षणं चायुक्तम्‌।
यदपि--- 'न नित्यसुखाभिव्यक्तिः' इत्यादिन नित्यसुखस्याभिव्यक्तिखण्डनं; तदपि न। सुखाभिव्यक्तेः अपरोक्षज्ञानसाध्यत्वेन मुक्तिसंसारयोः साम्यापादनायोगात्‌। न च मुक्तौ देहाभावेन आनन्दाभिव्यक्त्ययोगः। तदाऽप चिदानन्दात्मकदेहस्य उक्तत्वात्‌। न च आनन्दादेः जीवस्वरूपत्वे सदाऽनुभवप्रसङ्गः। संसारदशायां अनभिव्यक्तत्वेन अननुभवोपपत्तेः। अनभिव्यक्तिश्च आवरणसद्भावात्‌।
न च जीवस्वरूपानन्दस्य अनभिव्यक्तत्वे जीवस्याप्यनभिव्यक्तिप्रसङ्गः। विशेषसद्भावेन, घटरूपयोः त्वचा ग्रहणाग्रहणवत्। जीवानन्दयोरपि अभिव्यक्त्यनभिव्यक्त्योरुपपत्तेः। अत एव नित्यसुखे मानाभावः इति परास्तम्‌।
'बलमानन्द ओजश्च सहो ज्ञानमनाकुलम्‌।
स्वरूपाण्येव जीवस्य व्यज्यन्ते परमाद्विभोः।।'
इति श्रुतेरेव तत्र मानत्वात्‌। अन्यथा 'उत्पद्यन्ते' इत्यवक्ष्यत्‌।।" इति।।
[ अभि. तां. 417,418 पृ ]

अनन्तम्‌
'सत्यं ज्ञानमनन्तं ब्रह्म' इति श्रुतिघटक अनन्तपदस्यार्थः न्यायामृते- "यत्तु तत्त्वप्रदीपिकायां "सत्यं ज्ञानमनंतम्‌" इत्यनंतशब्दस्तत्र मानमित्युक्तम्‌। तन्न। अंतशब्दो हि परिचछेदे व्युत्पन्नः। न तु परिच्छिन्ने। तथाचाभेदसयापरिच्छेदरूपत्वेऽपि यथा देशाद्यपरिच्छेदाभिप्रायेणाकाशोऽनंत इत्युक्ते देशादेराकाशतुल्यतया सत्त्वे सत्येव तदपरिच्छेदमात्रं सिध्यति न तु देशादेर्मिथ्यात्वम्‌, तथेहापि वस्तुनो घटादेर्जीवचैतन्यवद्ब्रह्मतुल्यतया सत्त्वे सत्येव (प्रतीयमानभेदत्यागेन) "विरुद्धांशत्यागेन" ब्रह्मण्यभेदरूपं वस्त्वपरच्छेदमात्रं सिध्येत्‌। न तु वस्तुनो मिथ्यात्वम्‌। जीवस्वरूपं सत्यं विश्वं तु मिथ्येति विभागस्त्वद्याप्यसिद्धः। वस्तुतस्त्वभेदो नापरिच्छेदः। परिच्छिन्नाद्भेदाभावे अपरिच्छिन्नत्वायोगात्‌। कालापरिच्छिन्नेऽपि परमाण्वादौ देशपरिच्छेदेन परिच्छिन्नत्वबुद्धिवत्‌ उभयापरिच्छिन्ने गगनादौ भेदमात्रेण परिच्छिन्नत्वबुद्धेरभावाच्च। अनंतपदेनैव परिच्छिन्नाद्व्यावृत्तेस्त्वयैवोक्तत्वाच्च भिन्न इत्यर्थे परिच्छिन्नइत्यप्रयोगाच्च। तस्माद्देशकालगुणापरिच्छेद एवानंतशब्दार्थः।।" इति।।
[ न्या. अ. प्र. परि. 222,223 पृ ]

तत्रैव व्याख्यानेऽपि "अनन्तशब्दस्तत्रमानमिति।। देशकालकृतपरिच्छेदयोरिव 'इदं इदं न भवति' इत्येवंरूपप्रतीतिसिद्धवस्तुप्रतियोगिकभेदरूपपरिच्छेदस्यापि निषेधात्‌, वस्त्वन्तरसत्त्वे तदयोगात् अनन्तशब्दमहिम्ना मिथ्यात्वसिद्धिरिति भावः। ननु अन्तशब्दस्य परिच्छिन्नवाचित्वेन अनन्तशब्देनैव तन्निबेधे मिथ्यात्वासिद्धिरविकलेति आशंकां अन्तशब्दस्य तत्र व्युत्पत्त्याभवेन निराकुर्वन्‌ यत्तु इत्यादिना उक्तं निराचष्टे।। तन्नेति।। ननु चित्त्वजडत्वरूपविरुद्धधर्माक्रान्तयोः ब्रह्मजगतोः कथममेद इत्याशंक्याह।। विरुद्धांशत्यागेनेति।। यथा तत्त्वमसीत्युक्ते विरुद्धांशत्यगेन जीवब्रह्मणोरभेदः, तथा हहापि ब्रह्मजगतोरभेद एव सिध्येत्‌ इत्यर्थः। ननु जीवस्वरूपस्य सत्यत्वेन भेदयोग्यत्वेऽपि विश्वस्वरूपस्य मिथ्यात्वेन तदयोग्यत्वात्‌ विरुद्धांशत्यागेनापि कथं तस्य ब्रह्माभेद इत्यत आह।। जीवस्वरूपमिति।। पूर्वं अनन्तशब्दोक्तापरिच्छेदोऽभेद इत्यंगीकृत्य दूषणमभिहितम्‌, इदानीं तदेव अप्रामाणिकम्‌ इत्याह।। वस्तुतस्तु इति।। ब्रह्म अपरिच्छिन्नमिति वदन्‌ प्रष्टव्यः। किं तत्‌ परिच्छिन्नाद्भिन्नं नवेति। नाद्यः त्वया भेदस्यैव परिच्छेदरूपत्वांगीकारेण परिच्छिन्नत्वापातात्‌ इत्याद्यं निराचष्टे।। परिच्छिन्नादिति।। सत्यं ज्ञानमनन्तं ब्रह्मेत्यत्र सत्यज्ञानपदाभ्यां अनृतजडव्यावृत्तिवत्‌। अनन्तपदेन परिच्छिन्नाद व्यावृत्तेरपि त्वयैवोक्तत्वात्‌ अनन्तपदेनाभेदोक्तौ स्ववचनविरोधश्चेत्याह।। अनन्तपदेनैवेति।। न च ब्रह्मपदेन परिच्छिन्नव्यावृत्तिसिद्धिः। तस्य लक्ष्यनिर्देशार्थत्वात्‌ अत एव अनन्तपदेनैवेत्येवकार इति। उपसंहरन्नेव स्वविवक्षितार्थं दर्शयति।। तस्मादिति।। अपरिच्छेदः इयत्ताशून्यत्वम्‌।।" इति।। [ न्या. अ. आ. 222,223 पृ ]

अतोऽन्यदार्तम्‌
अतोऽन्यदार्तमितिश्रुत्यर्थः व्यायामृते "यत्तु कौमुद्याम "अतोऽन्यदार्तम्‌" इतिवाक्यं तत्र मानमित्युक्तम्‌। तत्त्वतितुच्छम्‌। अत्रांतर्यामिणः प्रकृतत्वादेतच्छब्दस्य प्रकृतपरत्वात्‌। अन्यशब्दस्य च "एतद्ब्रह्मणादन्यमानय, समानमितरच्छयेनेन" इत्यादाविव प्रकृतसमानजातीयान्यपरत्वात्‌ ब्रह्मणोऽन्यञ्जीवजातमार्तं दुःखीति जीवभेदस्यैवोक्तेः, नहि जीवादन्यस्यार्तिः।।" इति।।
[ न्या. अ. प्र. परि. 226 पृ ]
एवमेव तत्रैव व्याख्याने आमोदाख्ये "तत्र मानमिति।। यस्योभयं हविरार्तिमार्छतीत्यादाविव आर्तिशब्दस्य निवृत्तिपरत्वात्‌ ब्रह्मव्यतिरक्तस्य सर्वस्य निवृत्तिप्रतीतेः मिथ्यात्वसिद्धिरिति भावः। आर्तिः पीडाधनुष्कोट्योरति कोशप्रसिद्धेरार्तिशब्दसय आर्तो जिज्ञासुरर्थार्थित्यादौ दुःखिन्यपि प्रयुक्तत्वं (अस्ति)(अभियुक्ताविगीतप्रयोगदर्शनात्‌
इति पाठान्तरम्‌) गीताप्रयोगदर्शनात्‌। यस्योभयं हविरार्तिमार्छतीति क्वाचित्कप्रयोगस्य नाशे लक्षणयाप्युपपत्तेः, नाशप्रतियोगित्वमात्रस्य मिथ्यात्वरूपत्वाभावाच्च नैतच्छुत्या मिथ्यात्वसिद्धिरित्यभिप्रेत्य दूषयति।। तत्तुच्छमिति।। तर्हि तछ्रुतेः कोऽर्थं इत्यपेक्षायां तत्तात्पर्यविषयीभूतार्थं दर्शयितुमाह।। अत्रेति।। प्रकृतत्वं चान्तर्यामिणः "एष त आत्मा सर्वान्तर" इति पूर्ववाक्येनेति द्रष्टव्यम्‌। ननु तथाप्यन्यदित्युक्ते संकोचकाभावेन ब्रह्मव्यतिरिक्तसर्वप्राप्तेः सर्वस्मिंश्चार्तत्वविधानमसंभवीत्यत आह।। अन्यशब्दस्यचेति।। एतेन आर्तमित्यस्य आ ऋतमीषदृतमिति ईषत्सत्यमिति यौगिकार्थलाभादीषत्सत्यत्वं च मिथ्यात्व एव पर्यवस्यतीतिनिरस्तम्‌। योगस्य रुढेर्जघन्यत्वात्‌।। अर्तमितिप्रयोगापत्तेश्चेति।।" इति।।
[ न्या. अ. आ. 226 पृ ]

अविद्यालक्षणम्‌
परोक्ताविद्यालक्षण-प्रमाणान्यनुवाद्य निरीसक्रियते। "यच्चोक्तमनादिभावरूपत्वे सति ज्ञाननिवर्त्यत्वं भ्रमोपादानत्वं वाऽविद्यालक्षणम्‌। प्रमाणं त्वहमज्ञो मामन्यं च न जानामि त्वदुक्तमर्थं न जानामीत्यादिप्रत्यक्षम्‌, तथा एतावंतं कालं न किंचिदहमवेदिषमिति परामर्शसिद्धसौषुप्तकानुभवः। तथा प्रमाणज्ञानं स्वप्रागभावव्यतिरिक्तस्वविषयावरणस्वनिवर्त्यस्वदेशगतवस्त्वंतरपूर्वकम्‌। अप्रकाशितार्थप्रकाशकत्वात्‌। अंधकारे प्रथमोत्पन्नप्रदीपप्रभावदिति विवरणोक्तमनुमानम्‌। स्वप्रागभावं स्वोत्पादकादृष्टं स्वप्रतिबंधकादृष्टं विषयगतमज्ञातत्वं च व्युदसितुं साध्यविशेषणानि। तथा चैत्रप्रमा चैत्रगतप्रमाप्रागभावातिरिक्तानादिनिवर्तिका प्रमात्वात्‌ मैत्रप्रमावत्‌। विगीतो विभ्रमः एतज्जनकाबाध्यातिरिक्तोपादानकः विभ्रमत्वात्‌ सम्मतवदिति तत्वप्रदीपिकोक्तानुमानम्‌। तथा "तम आसीत्‌" इत्यादिश्रुतिः, तथा मिथ्याभूतस्यार्थज्ञानात्मकस्य भ्रमस्य कादाचत्कत्वेन सोपादानत्वात्‌ भावरूपं कार्यानुगुणं मिथ्याभूतमुपादानमनवस्थापरिहारार्थमनाद्यंगीकार्यमित्याद्यर्थापत्तिश्च। न च न जानामीतिप्रत्यक्षं ज्ञानाभावविषयम्। धर्मिण्यात्मनि प्रतियोगिनि च ज्ञानेऽज्ञाते तस्य विषयनिरूप्यत्वेन विषयस्यापि ज्ञाततया तज्ज्ञानाभावायोगात्‌। अज्ञाते तु हेत्वभावेन ज्ञानाभावज्ञानायोगात्‌। न च विषयोऽपि सामान्ययो ज्ञायत इति युक्तम्। सामान्यस्य ज्ञातत्वादेव तज्ज्ञानाभावायोगात्‌। विशेषज्ञानाभावे सत्यपि निरूपकविशेषज्ञानाभावेन तन्निरूपितविशेषज्ञानायोगादिति। तज्ञ ब्रूमः। आद्यलक्षणे अव्याप्तिः। सादिशुक्त्याद्यवच्छिन्नचैतन्यावरकाज्ञानानामनादित्वायोगस्योक्तत्वात्‌ आरोपिताभावोपादानाज्ञाने भावत्वाभावाच्च। अभावस्य भावोपादानकत्वे असत्यस्य सत्योपादानकत्वापातात्‌। तस्याज्ञानानुपादानकत्वे ज्ञानान्निवृत्तिर्न स्यात्‌। शुद्धं ब्रह्म वृत्तिव्याप्यमपि नेतिमते तदज्ञाने चरमसाक्षात्कारानंतरभाविजीवन्मुक्त्यनुवृत्ते अज्ञाने ऊर्ध्वाग्रत्वाद्यधिष्ठानत्वसाक्षात्कारानिवर्तिजलस्थवृक्षाधोऽग्रत्वादिसोपाधिकभ्रमोपादानाज्ञाने च ज्ञाननिवर्त्यत्वाभावाच्च। नह्यब्रह्मज्ञानेन ब्रह्माज्ञाननिवृत्तिः जीवन्मुक्त्यनुवृत्ताज्ञानस्य ज्ञाननिवर्त्यत्वे च स्वकार्यैरारब्धकर्मभिः सह पूर्वोणैव साक्षात्कारेण निरवृत्तिः स्यात्‌। न च सोपाधिकभ्रमोपादानमज्ञानमुपाधिनिवृत्तिसचिवतत्त्वज्ञाननिवर्त्यम्‌। तस्य स्वप्रागभावं प्रतीवाज्ञानं प्रत्यप्यन्यनिरपेक्षस्यैव निवर्तकत्वात्‌। न हि ज्ञाते क्वचिदपि न जानामीति धीरस्ति, चैतन्याविद्यासंबंधेऽतिव्याप्तिश्च। साक्षाज्ज्ञाननिवर्त्यत्वविवक्षायां चानादिपदवैयर्थ्यमसंभवश्च। कल्पितत्वेन दोषजन्यधीमात्रशरीरस्याज्ञानस्यानादित्वायोगस्योक्तत्वात्‌, ज्ञाननिवर्त्यस्याभावविलक्षणस्य रूप्यवदनादित्वायोगाच्च। अज्ञानसंबंधोऽपि पक्षतुल्यः। नचाज्ञानत्वाभावविलक्षणस्य रूप्यवदनादित्वायोगाच्च। अज्ञानसंबंधोऽपि पक्षतुल्यः। नचाज्ञानत्वानधिकरणत्वमुपाधिः, पक्षेतरत्वात्‌। अवच्छिन्नाज्ञाने साध्याव्याप्तेश्च। व्यतिरिकासिद्धेश्च। त्वन्मते अज्ञानस्य भावाभावविलक्षणत्वेन भावत्वाभावाच्च। भावविलक्षणस्याभावत्वनियमेन भावविलक्षणे अभाववैलक्षण्यस्याप्ययोगाच्च। अपिचानादेरभावविलक्षणस्यात्मवदनिवर्त्यत्वम्‌। न च भावत्वमात्मत्वं वोपाधिः। अत्यंताभावे असति च साध्याव्याप्तेः। त्वन्मते आत्मन्यप्यभाववैलक्षण्यातिरेकेण भावत्वाभावाच्च। यदत्रोक्तं विवरणे न सादित्वमनादित्वं वा विनाशाविनाशयोर्निमित्तम्‌, किंतु विरोधिसन्निपातासन्निपातौ। किंचानादिभावो न निवर्तत इति सामान्यव्याप्तेरज्ञानं ज्ञाननिवर्त्यमिति विशेषव्यापतिर्बलीयसी, अपिचाभाववैलक्षण्यादात्मवदनिवृत्तौ
भाववैलक्षण्यात्प्रागभाववन्निवृत्तिः किं न स्यादिति।
तन्न। अनादिभावत्वेनैव विरोध्यसन्निपातस्याप्यनुमानात्‌। यःल पर्वतः सोऽनग्निक इति विशेषव्याप्तिरित्यतिप्रसंगाच्च। त्वदभिमतानाद्यज्ञानस्य ज्ञाननिवर्त्यत्वे दृष्टांताभावेनाज्ञानशब्देन सादिभ्रांत्यादिसाधारणज्ञानविरोधिमात्रस्य विवक्षणीयत्वेन विशेषव्याप्तित्वायोगाच्च। भाववैलक्षण्येन निवृत्तावत्यंताभावस्य ध्वंसस्य च निवृत्त्यापाताच्च। अविद्यानिवृत्तिरूपमोक्षाभावोऽपि मयैवापाद्यते। प्रतीतिमात्रशरीरस्याज्ञानस्य यावत्स्वविषयधीरूपसाक्षिसत्त्वमनुवृत्तिनियमेननिवृत्त्ययोगाच्च, अज्ञानस्यात्यंताभावप्रतियोगित्वरूपमिथ्यात्ववतो निवृत्त्ययोगस्योक्तत्वाच्चा द्वितीयलक्षणेऽपि यावंति ज्ञानानि तावंत्यज्ञानानीतिमते अभ्रमपूर्वकप्रमानिवर्त्याज्ञाने अभावारोपनिवर्तकप्रमानिवर्त्याज्ञाने चाव्याप्तिः। अभावस्य निरुपादानकत्वात्‌। सोपादानकत्वेऽपि भावरूपाज्ञानोपादानकत्वायोगात्‌। किंच ब्रह्म जगदुपादानमायाधिष्ठानमितिपक्षे दोषाभावेऽपि मायावच्छिन्नं ब्रह्मोपादानमितिपक्षे असंभवः। रज्जवा। सूत्रद्वयमिव मायाब्रह्मणी उपादाने इतिपक्षे अतिव्याप्तिः। अपिचार्थज्ञानरूपस्य भ्रमस्य भावविलक्षणत्वेन निरुपादानत्वादसंभवः। नच भावविलक्षणाज्ञानोपादेस्य भ्रमस्य भावत्वं युक्तम्‌। कार्यकारणयोरभेदात्‌। सोपादानत्वे च भावत्वमेव तन्त्रम्‌, नत्वभावविलक्षणत्वं, गौरवात्‌। अपिचार्थस्य मन्मते असत्त्वेन त्वन्मते च सद्विलक्षणत्वेन निरुपादानत्वात्‌। ज्ञानस्तु तु त्वन्मते सद्विलक्षणत्वेन निरुपादानत्वात्। मन्मते तु सत्त्वेन तत्प्रत्यात्मनोंऽतःकरणस्य वोपादानत्वात्‌ नाज्ञानमुपादानम्‌। सोपादानत्वे कदाचित्सत्त्वमेव तंत्रम्‌, न त्वसद्विलक्षणत्वम्‌, कदाचिदेव सत्त्वेन प्रतीयमानत्वं वा, गौरवात्‌, तुच्छस्यापि शब्दाभासादिना वेदांततात्पर्यं चरमसाक्षात्कारं च प्रति विषयस्य ब्रह्मणः सत्त्ववत्‌ संतं व्यवहारं परोक्षज्ञानं च प्रति विषयस्य खपुष्पादेरसत्त्ववत्‌ सत्यसाक्षिवेद्याज्ञानादेर्मिथ्यात्ववच्चोपपत्तेः। एतावंतं कालं रजतज्ञानमासीदितिज्ञानस्य सत्त्वानुसंधानाच्च, असद्वैलक्षण्यमात्रेण सत्त्वानुसंधाने च सद्वैलक्षण्येन नासीदित्यनुसंधानापातात्‌। अर्थेऽप्यासीदित्यनुसंधानापाताच्च। एतावंतं कालमिहादर्शे मुखमासीदित्यनुसंधानं तु प्रतिर्बिबस्य छायादिवत्सत्यत्वात्‌। किंच अज्ञानस्य भावविलक्षणत्वात्‌ सद्विलक्षणत्वाच्च नोपादानत्वम्‌। अन्यथा तत्वज्ञानप्रागभाव एव भ्रमोपादानं स्यात्‌। उपादानत्वे च भावत्वं सत्त्वं च तंत्रम्‌, न त्वभावविलक्षणत्वमसद्विलक्षणत्वं वा गौरवात्‌। किंच यद्यदनुविद्धतया भाति तत्तदुपादानकम्‌। नच रूप्यं तच्ज्ञानं वा अज्ञानमिति भाति।
यत्त ज्ञाननिवर्त्यत्वमज्ञानलक्षणम्‌। नच प्रपंचेऽतिव्याप्तिः। तस्याज्ञानपरिणामत्वात्‌। नहि पृथिवीलक्षण्स्य घटादावतिव्याप्तिरिति। तन्न। जीवन्मुक्त्यनुवृत्ताज्ञानादावव्याप्त्यादेरुक्तत्वात्‌। यद्भावरूपाज्ञानं विप्रतिपन्नं तस्त शुक्तिरूप्यादिव्यावृत्तस्य कारणावस्थानाद्यज्ञानस्यैव लक्षणीयत्वेन रूपित्वस्य तेजोलक्षणत्वे तत्परिणामेऽप्यबादाविवास्यापि प्रपंचेऽतिव्याप्तेश्च। पृथिवीलक्षणेऽपि कारणावस्थस्यैव लिलक्षयिषितत्वे घटादावतिव्याप्तिरेव, साक्षात्पदप्रक्षेपेणोपादाननिवृत्तिद्वारेण ज्ञानेन निवर्त्ये प्रपंचेऽतिव्याप्तिपरिहारेऽपि "अभावाभावो भावव्याप्य" इतिमते ज्ञानप्रागभावस्यापि साक्षात्तन्निवर्त्यत्वाच्च। अन्यथाविवरणाविद्यानुमाने आद्यविशेषणवैयर्थ्यम्‌।।" इति।।
[ न्या. अ. 253 तः 262 पृ ]

अविद्यार्थापत्तिः
लक्षणप्रमाणाभावाच्चाविद्यागगनकुसुमायमानाऽतस्तन्मयत्वं प्रपञ्चस्य असम्भवीति परोक्तलक्षणस्य प्रमाणस्य च दूषणं एवं दरीदृश्यते-- "भ्रमोपादानत्वेनाविद्याकल्पनं तु द्वितीयलक्षणनिरासेनैव निरस्तम्। किंच शुक्तिरूप्यमुपादानसहितं चेत्‌ सकर्तृकं भवेत्‌। नचेशो जीवो वा तस्य कर्तेतियुज्यते। नापि निर्विकारस्य ब्रह्मणः श्रौतजगदुपादानत्वनिर्वाहाय तत्कल्पनम्‌। सत्यस्य त्रिगुणस्य प्रधानस्यैव तदुपादानत्वेन श्रुत्यादिसिद्धत्वात्‌। अविद्याया अपि अनादित्वेन निरवयवतया ब्रह्मवदेव विकारायोगाच्च। किंच ब्रह्मण उपादानत्वेऽपि नावद्या कल्प्या। त्वद्रीत्या ब्रह्मण एव तात्विकाविकाराविरुद्धेनातात्विकविकारेण शुक्त्यादिवत्‌ विवर्ताधिष्ठानत्वरूपोपादानत्वोपपत्तेः। अन्यथा अविद्यादेराश्रयसापेक्षस्य तत्वतोऽद्वितीयात्‌ ब्रह्मणोऽन्यदधिकरणं कल्प्यं स्यात्‌। नच
परिणामित्वेनाविद्याकल्पनम्‌। असत्यस्य सत्यरूपांतरापत्तिरूपपरिणाम्यनपेक्षत्वात्‌। नच कार्यापेक्षितस्वसत्तासमानसत्ताकोपादानत्वेन तत्कल्पनम्‌। विवर्ताधिष्ठानरूपोपादानेन निवृत्तोपादानाकांक्षस्यापि घटादिदृष्टांतेनोक्तोपादानकल्पने घटादेः कार्यस्य स्वासमानसत्ताकोपादानानपेक्षत्वेनासमानसत्ताकस्य ब्रह्रणो वियदादावनुपादानत्वापातात्‌। रूप्येस्वसमानसत्ताकनिमित्तस्यापि कल्पनापाताच्च। नच जीवस्यानवच्छिन्नब्रह्मानंदाप्रकाशाय तत्कल्पना। भेदेनैव तदुपपत्तेः। अनवच्छिन्नानंदस्यापि प्रकाशमानप्रत्यङ्भात्रत्वेनाप्रकाशानुपपत्तेश्च।।" इति।।
[ न्या. अ. 285,286 पृ ]

अविद्याप्रतीतिः
अविद्याप्रतीतेरेवायुक्तत्वादविद्याऽप्रामाणिकीतिनिरूपणं दृश्यते। "किंचाविद्या किं शुद्धसाक्षिचैतन्येनैव भाति किं वा वृत्तिप्रतिबिंबितेन तेन। नाद्यः। निर्दोषचित्प्रकाश्यत्वेनाज्ञानस्य पारमार्थिकत्वापातात्‌। मोक्षेऽपि तत्प्रतीत्यापत्तेश्च। तदा सा निवृत्तत्वान्न भातीति चेन्न। प्रतीतिमात्रशरीरस्य प्रतीत्यनुवृत्तौ निवृत्त्ययोगात्‌। एतेनाज्ञानस्य राहुवत्स्वावृतप्रकाशेनैव स्फुरणमिति निरस्तम्। नांत्यः। अज्ञानस्य कदाचिदप्रतीत्यापातात्‌। अंतःकरणाविद्यावृत्त्योः प्रमाणदोषाभ्यां जन्यतयेहोभयाभावेन वृत्त्ययोगाच्च। प्रतिर्बिबनोपाधित्वप्रयोजकस्य सत्त्वस्य अपरमार्थिकत्वेन प्रातीतिक्या वृत्तेः प्रतीत्यधीनत्वेनान्योन्याश्रयाच्च।।" इति।।
[ न्या. अ. 289 पृ ]
एवमेव तत्रैव व्याख्यानेऽपि "किंचाज्ञानविषयकप्रतीतेश्च दुर्वचत्वात्‌ नाज्ञानमङ्गीकर्तुं शक्यमित्याह।। किंचेति।। मोक्षेऽपीति।। अन्यथा तस्य तत्प्रकाशि(त)त्वमेव न स्यादिति भावः। ननु प्रतीतिसत्त्वं विषयभाने न तंत्रं, अपितु विषयसत्त्वमपीति शङ्कते।। तदेति।। प्रतीतिमात्रशरीरस्येति।। एतेनेति।। उक्तरीत्या चिन्मात्रस्याज्ञानभानत्वनिरासेनेत्यर्थः।। अज्ञानस्येति।। वृत्तेः कादाचत्कत्वेन तत्प्रतिबिम्बितचैतन्यस्यापि कादाचित्कत्वादिति भावः। किञ्चाविद्यायां परमाणदोषयोरभावेव न वृत्तिप्रतिबिम्बितचैतन्यं अज्ञानभासकमित्यभिप्रेत्याह।। अन्तःकरणेति।। वृत्तेरपीति।। किंच वृत्तिप्रतीतेरपि दुर्वचत्वेन वृत्तिसिध्या न तत्प्रतिबिम्बितचैतन्यं अज्ञानभासकमित्यभिप्रेत्याह।। वृत्तेरपीति।। किंच वृत्तेः प्रतिबिम्बनोपाधित्वस्यैवायोगात्‌ नाज्ञानं तत्प्रतिबिम्बितचिद्भास्यमित्याह।। प्रतिबिम्बनेति।। अन्योन्याश्रयाच्चेति।। प्रातीतिकी वृत्तिः प्रतिबिम्बनोपाधित्वा प्रयोजिका अपारमार्थिकसत्त्वसिध्यर्थं चैतन्यरूपप्रतीतिमपेक्षते। चैतन्यं च स्वस्याविद्याप्रकाशसिध्यर्थं वृत्तिमपेक्षत इत्यन्योन्याश्रय इत्यर्थः।।" इति।।
[ न्या. अ. आ. 289 पृ ]

अवाच्यत्वम्‌
'यतो वाचो निवर्तन्ते' इत्यादिश्रुत्या परब्रह्मणः वाच्यत्वं नास्ति। अतो ब्रह्म न अनन्तवैदिक पदवच्यमिति अवाच्यत्वमुक्तं तस्य निराकरणं एवमस्ति। "यच्चेदमुच्यते ब्रह्म सर्वशब्दावाच्यमिति। तत्रावाच्यपदेनोच्यते चेत्‌, वाच्यत्वसिद्धिः। नापि तेनापि लक्ष्यते, अवाच्यरूपमुख्यार्थस्यान्यस्याभावात्‌, भावे वा ब्रह्म नावाच्यं किंतु तीरवदवाच्यरूपमुख्यार्थसंबंधिमात्रमिति स्यात्, मुख्यार्थहीनस्यापि ब्रह्मलक्षकत्वे घटशब्दोऽपि घटलक्षकः स्यात्‌। एवं निर्विशेषं स्वप्रकाशं परमार्थसदित्यादिशब्दैर्ब्रह्मोच्यते चेद्वाच्यत्वसिद्धिः। नापि तैरपि लक्ष्यते, निर्विशेषस्वप्रकाशादिरूपमुख्यार्थस्यान्यस्याभावात्‌। एवं लक्ष्यशब्देनोच्यते चेद्वाच्यत्वसिद्धिः, लक्ष्यते चेल्लक्ष्यत्वहानिः, गंगाशब्दलक्ष्यस्याऽगंगात्ववत्‌ लक्ष्यपदलक्ष्यस्यालक्ष्यत्वात्‌। ननु निर्विशेषादिशब्दानां विशेषाभावादिविशिष्टं वाच्यम्‌। तच्च न ब्रह्म, तस्य विशेषाभावाद्युपलक्षितत्वादिकं वा तद्विशिष्टत्वं वा निर्विशेषादिपदवाच्यं, तच्च न ब्रह्म, तस्य विशेषाभावाद्युपलक्षितत्वादिति चेत्‌ तर्हि विशेषाभावोपलक्षितशब्दवाच्यत्वमनिवार्यम्‌। ननु विशेषाभावोपलक्षितत्वादिकं वा तद्विशिष्टत्वं वा निर्विशेषादिपदवाच्यं, तच्च न ब्रह्म किंतु तदाश्रयव्यक्तिभूतं विशेष्यम्‌, एवंच मुख्यार्थसिद्धिः। ब्रह्मणो
निर्विशेषादिशब्दलक्ष्यत्वेऽपि निर्विशेषत्वाद्यहानिश्चेति चेन्न। व्यक्तिः शब्दार्थः जातिस्तूपधानमितिमते, जातिविशिष्टा व्यक्तिः शब्दार्थ इति मते च यत्र विशेष्ये निर्विशेषत्वादिकं तस्य तदवाच्यत्वयोगात्‌। जातिरेव शब्दार्थः, व्यक्तिस्तु लक्ष्येति मतस्य च व्युत्पत्तिविरोधादिनान्यत्रनिरासात्‌। अस्मिन्पक्षे घटादिव्यक्तेरपि घटादिशब्दावाच्यत्वेन ब्रह्मणस्ततो विशेषार्थं जातिवाचिभिः सत्यादिशब्दैः ब्रह्म मंचशब्देन पुरुष इव जात्याधारव्यक्तिसंबंधितयैव लक्ष्यत इति वक्तव्यत्वेन मुख्यार्थाभावादिदोषतादवस्थ्याच्च। सत्यं ज्ञानमित्यादौ ब्रह्मणः सत्यत्वादिधर्माश्रयतयैव लक्ष्यत्वे घटादिवत्‌ सखंडार्थत्वापाताच्च। किंच निर्गुणस्वप्रकाशादेरब्रह्मत्वे यद्यद्‌ ब्रह्मतयेष्टं तत्तदब्रह्मेति साधु समर्थितो ब्रह्मवादः।
नन्ववाच्यादिशब्दाः समस्तरूपाः लक्ष्यादिशद्बास्तु यौगिकाः, उभयेषामपि वाक्यतुल्यत्वान्न वाचकतेति। चेन्न। अन्विताभिधानपक्षे तेषामपि वाचकत्वात्‌। अभिहितान्वयपक्षेऽपि वाक्य एवाभिहितान्वयस्वीकारेण प्रकृतिप्रत्यययोरन्विताभिधायित्वात्‌। समासे पदार्थसंसर्गस्य यौगिके प्रकृतिप्रत्ययार्थसंसर्गस्य चानभिधेयत्वेऽपि पदार्थस्य प्रत्ययार्थस्य च वाच्यत्वात्‌ तदर्थस्य च ब्रह्मणः वाच्यत्वापरिहाराच्च। यदि तु ब्रह्म न पदाद्यर्थः किंतु पदाद्यर्थसंसर्गरूपम्‌, तर्हि सखंडं स्यात्‌। यदितु अवाच्यमित्यादौ पदद्वयादिकं न स्वार्थसंसर्गपरं किंतु ब्रह्ममात्रलक्षकम्, तर्हि न तेनावाच्यत्वादिसिद्धिः। तस्मान्निर्विशेषादिशब्दवाच्यत्वं दुर्वारम्‌।
तदुक्तम्‌---"पदं च निर्गुण इति कथं गौणं वदिष्यति।
गुणाभावोपलक्ष्यं चेत्पदं तदपि वाचकम्‌।।" इति।
"येन लक्ष्यमिति प्रोक्तं लक्ष्यशब्देन सोऽवदत्‌" इति।
एवंच "अवाच्यलक्ष्यादिपदैर्लक्ष्यं चेद्वाच्यतादिकम्‌।
स्यान्नदीशब्दलक्ष्यस्यानदीत्वमिव हि ध्रुवम्‌।"
"यतो वाचो निवर्त्तंते अशब्दमस्पर्शम्‌" इत्यादिश्रुतिस्तु अद्भुतत्वाद्यभिप्राया।
"न तदीदृगिति ज्ञेयं न वाच्यं न च तर्क्यते।
पश्यंतोऽपि न पश्यन्ति मेरो रूपं विपश्चितः।।" इत्यादौ दर्शनात्‌।
"अद्भुतत्वादवाच्यं तदतर्क्याज्ञेयमेव च।
अनंतगुणपूर्णत्वादित्यूदे पैंगिनां श्रुतिः।
अवाच्यमिति लोकोऽपि वक्त्याश्चर्यतमं भूवि।।"
इत्युक्तेश्च। पराभिमतार्थे अशब्दमित्यादिशब्दवाच्यत्वास्यापि निषेधेन अशब्दशब्दावाच्यस्याशब्दत्वासिद्ध्या स्वव्याघाताच्च। "यतो वाच" इत्यत्र मनसा सहेति श्रुतम्‌, अतो वृत्तेरिवांतःकरणवृत्तिव्याप्ये ब्रह्मणि वाग्वृत्तेरपि सर्वथा निषेधायोगाच्च। यत आनंदं ब्रह्मण इति यदानंदाद्यनेकशब्दमुख्यार्थत्वाय निवर्तत इत्येकामुख्यार्थत्वस्यैव न्याय्यत्वाच्च। त्वन्मते "यतो वाचो निवर्त्तते" इत्यादेरपि लक्षणया चिन्मात्रपरत्वेन वाच्यत्वाविरोधत्वाच्च। "अथ कस्मादुच्यते ब्रह्मेति तस्मादुच्यते परं ब्रह्म" इतिश्रुत्या "वचसां वाच्यमुत्तमं, परमात्मेति चाप्युक्त" इत्यादिस्मृत्या वेदांततात्पर्यविषयो ब्रह्म वाच्यं वस्तुत्वाल्लक्ष्यत्वाच्च तीरवत्‌। परमार्थसदादिपदं कस्यचिद्वाचकं पदत्वाद्धटपदवत्‌। सत्यज्ञानादिवाक्यं वाच्यार्थतात्पर्यवत्पदयुक्तं वाक्यत्वात्‌ अग्निहोत्रदिवाक्यवदित्याद्यनुमानैश्च विरोधाच्च। विपक्षे लक्ष्यत्वं न स्यात्‌। तथाहि लाक्षणिकशब्दो न श्रुत एवार्थांतरधीहेतुः। तत्रागृहीतशक्तिकत्वात्, किंतु पूर्वधीस्थे वाच्यार्थेऽनुपपत्तिदर्शने सति तत्त्यागेन स्वरूपतो वाच्यार्थसंबंधित्वेन चावगतस्यार्थांतरस्य बोधकः। गंगाशब्दादौ तथा दर्शात्‌। अन्यथातिप्रसंगाच्च। तथाच ब्रह्मणोऽपि लक्ष्यत्वे वाच्यार्थसंबंधित्वे ज्ञेयत्वात्‌, औपनिषदत्वश्रुत्या वेदैकगम्यस्य चाशब्देनाज्ञेयत्वात्‌ स्वप्रकाशतया नित्यसिद्धौ च शब्दवैयर्थ्यात्‌ अवाच्ये च शब्दस्य लक्षकस्यैव वक्तव्यत्वात्‌ तत्रापि वाच्यसंबंधित्वेन ज्ञेयत्वेनानवस्थेति कथमवाच्ये लक्षणा।
एवंच "वाच्ययोगितया बुद्धं लक्ष्यं ब्रह्म च वैदिकम्‌।
अवाच्यं चेति वक्तव्ये लक्षके ह्यनवस्थितिः।।"
नच वाचकस्यापि गृहीतसंगतिकस्यैव बोधकत्वात्संबंधग्रहणस्य च संबंधिज्ञानाधीनत्वात् संबंधिनश्च ब्रह्मणः शब्दैकगम्यत्वात्‌ तवाप्यनवस्थेति वाच्यम्‌। यौगिकशब्दानां वाक्यतुल्यत्वेन संगतिग्रहणानपेक्षणात्‌। एवमवाच्यं
चेद्ब्रह्म न सिद्ध्येत्‌। स्वतःसिद्धेर्निरस्तत्वात्‌, औपनिषदत्वेन चाशब्देनासिद्धेः। लक्षकस्य च शब्दस्य वाच्यार्थसंबंधित्वेन ज्ञातं प्रत्येव साधकत्वेनावाच्यस्य सिद्ध्ययोगात्‌।
ननु चात्र पक्षो ब्रह्मपदवाच्यं चेत्सिद्धसाधनं लक्ष्यं चेद्विरोधः, अत एवावाच्यत्वे लक्ष्यत्वं न स्यादितिर्कोऽप्ययुक्तः। आपाद्यापादकयोरप्रसिद्ध्या व्याप्त्यसिद्धेश्च। उक्तं हि
उक्तं हि "कथं लक्ष्यत्वमत्यंतावाच्यस्येति न चोद्यताम्‌।
अत्यंतावाचयशब्देन लक्ष्यस्यैवावबोधनात्‌।।" इति चेन्न।
वेदांततात्पर्यविषयत्वादिना रूपेण पक्षीकरणात्‌। अन्यथा त्वदीयेऽवाच्यत्वानुमानेऽपि पक्षो वाच्यं चेद्विरोधः, लक्ष्यं चेदाश्रयासिद्धिरिति स्यात्‌। अस्ति च यत्र प्रयोजकाभावस्तत्र प्रयोज्याभाव इति सामान्यव्याप्तिः। उक्ता च लक्ष्यत्वे वाच्यत्वस्य तंत्रता। न चेक्षुक्षीर माधुर्यादौ वाक्यार्थे च व्यभिचारः, तस्यापि माधुर्यवाक्यार्थादिसाधारणशब्दवाच्यत्वात्‌।
"विशदं क्षीरमाधुर्यं स्थिरमाज्यस्य तीक्ष्णकम्‌।
गुडस्य पनसादीनां निर्हारीत्यभिधीयते।।"
इत्युक्तत्वेन अन्विताभिधानस्यान्यत्र समर्थित्वेन चासाधारणशब्दवाच्यत्वाच्च। अभिहितान्वयपक्षेऽपि वाक्यार्थो नोच्यते नापि लक्ष्यते किंत्वन्विताभिधाने विशेषान्वय इव वृत्तिं विनैव संसर्गमर्यादया प्रतीयत इति तार्किकमते वाक्यार्थे लक्ष्यत्वस्याप्यभावाच्च। नच वाक्यार्थशब्दस्य समासत्वेन लक्षकत्वात्‌ न वाचकतेति वाच्यम्‌। समासस्य लक्षकत्वपक्षेऽपि राजपुरुष इत्यत्र राजशब्दस्येव वाक्यशब्दस्य षष्ठ्यर्थलक्षकत्वेऽपि पुरुषशब्दस्येव अर्थशब्दस्य वाचकत्वात्‌। एतेन समासस्य वाक्यतुल्यत्वेनाभिधानं विनैव स्वार्थबोधकतेति निरास्तम्‌। वाक्यशब्दार्थशब्दयोर्यावर्थौ तत्संसर्गत्वेन रूपेण समासावाच्यत्वेऽपि अर्थत्वरूपेणार्थपदवाच्यत्वात्‌।
ननु प्रवृत्तिनिमित्ताभावात्‌ कथं वाच्यत्वम्‌। उक्तं हि
"दृष्टा गुणक्रियाजातिरूढ्यः शब्दहेतवः।
नात्मन्यन्यतमोऽमीषां तेनात्मा नाभिधीयते।।" इति।
नच घटादाविवारोपितं निमित्तमस्तीति शंक्यम्‌। आरोपिते श्रुतितात्पर्यायोगेन तात्पर्यविषयस्य वाच्यत्वायोगादिति चेन्न। सत्यादिशब्दानां लक्षकत्वे सिद्धे निमित्तबावस्तस्मिंश्च सिद्धे लक्षकत्वमित्यन्योन्याश्रयात्‌। स्वरूपमात्रप्रश्नोत्तरत्वेन तल्ल(क्षकते)क्ष्यतेत्यस्य च निरास्यात्‌। निर्विशेषवाक्यस्य च स्वरूपमात्रपरत्वे सत्यत्वाद्यविरोधात्। तस्य निर्विशेषत्वविशिष्टपरत्वे तु निमित्तस्य सत्त्वेन निर्विशेषशब्दवाच्यत्वापातात्‌। अभावनिमित्तकशब्दवाच्यत्वे च निर्गुणत्वभंगे उक्तरीत्या प्रामाणिकत्वाविशेषेण भावनिमित्तकशब्दवाच्यत्वस्यापि दुर्वारत्वात्‌। तस्माद्ब्रह्मणि सर्वेषां वैदिकशब्दानां लक्षणेत्येतदयुक्तम्‌। उक्तं हि
"एकस्यापि च (हि) शब्दस्य गौणार्थस्वीकृतौ सताम्‌।
महती जायते लज्जा यत्र तत्राखिला रवाः।। 1।।
अमुख्यार्था इति वदन्यस्तनमार्गानुवर्तिनाम्‌।
कथं न जायते लज्जा वक्तुं शाब्दत्वमात्मनः।। 2।।" इति।
तस्माद्यौगिकानंतवैदिकशब्दवाच्यत्वादनंतगुणं ब्रह्म जीवादिभिन्नमिति।।" इति।। [न्या. अ. 473 तः 477 पृ ]
अध्ययनविधिः
अध्ययनविधेः नित्यत्वेऽपि विचारविधायकत्वमस्तीतिनिरूपणम्‌। "यत्तु भामत्युक्तं श्रवणादिविध्यभावादध्ययनविधिरेव कांडद्वयविचाराक्षेपक इति तत्‌ "स्वाध्यायस्य हि तथात्वेन" इत्यत्र सूत्रभाष्यादौ "अध्ययनस्य चार्थज्ञानपर्यंतत्वात्‌" इति टीकायां च तस्य तदाक्षेपकताया उक्तत्वादिष्टम्। श्रवणादिविधुस्तु समर्थयिष्यते। ननु तत्रैव टीकायां योऽनधीत्येत्यकरणे प्रत्यवायस्मरणेनाध्ययनस्य नित्यताप्युक्ता। तत्कथं तस्यार्थज्ञानपर्यंतत्विति चेन्न। अर्थज्ञा(नार्थत्वे)नपर्यंतत्वेऽप्यध्ययनविधेरवैयर्थ्यायाधीतेनैव वेदेन कर्तव्यतां ज्ञात्वानुष्ठितं कर्म फलायालमित्यादिनियमाश्रयणात्‌। असत्यध्ययने यथोक्तनित्यादिकर्मानुष्ठानासिद्ध्या प्रत्यवायश्रवणोपपत्तिः। तथाचार्थज्ञानार्थस्याप्यध्ययनस्य फलतो नित्यत्वमिति केचित्‌। अपरे तु अनध्ययनेन
संध्यानुपासनेनेव साक्षात्प्रत्यवायस्मरणेनाध्ययनस्यादृष्टार्थत्वेऽप्यर्थज्ञानस्यापि दृष्टत्वादपेक्षितत्वाच्च तादर्थ्यमपीत्युभयार्थता पशुपुरोडाशादिवदित्याहुः।
अथवा श्रुतिबलाद्दध्यादेः क्रत्वर्थत्वपुरुषार्थत्ववद्दर्शपूर्णमासादेर्नित्यकाम्यतववच्चाध्ययनस्याप्युभयार्थता। प्रत्यवायस्येव "सर्वे वेदा यत्पदमामनंति" इत्यादिश्रुत्या "वेदैश्च सर्वैरहमेव वेद्यः" इति स्मृत्या च ब्रह्मज्ञानार्थत्वस्याप्यवगमात्‌। यद्वोक्तश्रुत्याध्ययनस्य ब्रह्मज्ञानार्थत्वेऽपि "यदेव विद्यया करोति" इत्यादिश्रुत्या ब्रह्मज्ञानस्यैवावस्यकत्वात्‌ ज्ञानार्थत्वेऽप्यध्ययनस्याकरणे प्रत्यवायश्रवणं युक्तम्‌। एतेन नित्यत्वादध्ययनविधिर्न विचाराक्षेपक इति यद्विवरणाभिप्रेतं तन्निरस्तम्‌। तस्मात्‌।
ब्रह्मज्ञानफलस्यापि स्वाध्यायाध्ययनस्य या।
टीकायां नित्यता प्रोक्ता सापि नैव विरुध्यते।।" इति।।
[ न्या. अ. 587 तः 589 पृ ]

अहं ब्रह्मास्मि
अहं ब्रह्मस्मीति श्रत्यर्थः एवमुपवर्णिताः। "एतेनाहं ब्रह्मस्मीत्याद्यपि व्याख्यातम्‌। उक्तरीत्या एकपदलक्षणया ब्रह्मसाहचर्यादिना जीवे ब्रह्मेतिव्यपदेशस्य वा सादेश्यादिना ब्रह्मण्यहमितिव्यपदेशस्य वोपपत्तौ पदद्वयलक्षणयैक्यपरत्वायोगात्‌। किंचाहंशब्दो जीवांतर्यामिणि मुख्यः।
"सर्वांतर्यामिको विष्णुः सर्वनाम्नाऽभिधीयते।
एषोऽहं त्वमसौ चेति नतु सर्वस्वरूपतः।।"
इत्यादिस्मृतेः, "अहं मनुरभवं सूर्यश्च" सूर्यश्च" इत्यंतर्यामिणि अहंशब्दप्रयोगाच्च। नहि त्वत्पक्षेऽपि विशिष्टचैतन्यरूपो वामदेवो विशिष्टचैतन्यरूपमनुसूर्यादिर्भवति। अहंमन्वादिशब्दैश्चिन्मात्रलक्षणायां चोत्तमपुरुषायोगः, "अहं भूमिमददामार्याय" इत्याद्ययोगश्च। नहि चिन्मात्रं भूमिमदात्‌। भगवान्विष्णुहींद्राय भूमिमदात्‌, तस्मादहंनामाभवत्तस्योपनिषदहमिति।
"अहंनामा हरिर्नित्यमहेयत्वात्प्रकीर्तितः"
इत्यादिश्रुतेश्च। श्रुत्यंतरे "अहं तत्तेजोरश्मीन्नारायमं पुरुषं जातमग्रतः। तमिममहं विजानाति" इति अहेये अहंशब्दप्रयोगाच्च। अन्यथा अहं विजानामीति स्यात्‌। ततश्चांतर्याम्यैक्यमेवात्रोच्यते। उक्त चांतर्यामिणि नियम्यानंत्यादिना भेदप्रसक्तिः। तथाच श्रुत्यंतरम्‌, "स यश्चायं पुरुषे यश्चासावादित्ये स एकः"इति। अन्यथा "य एष आदित्ये पुरुषो दृश्यते सोऽहमस्मि" इति छांदोग्ये "स एनान्ब्रह्म गमयति" इति भेदपरोत्तरवाक्यविरोधः। किंच "स च एतमेवं विद्वानुपास्ते" इत्युत्तरवाक्ये उपास्तिश्रवणात्‌ त्वन्मते चोपास्यस्यारोपितत्वान्नानेनैक्यसिद्धिः। "योसावसौ पुरुषः सोऽहमस्मि, वायुः" इतीशावास्ये च "वायुरनिलममृतमथेदं भस्मांतं शरीरम्‌" इत्युत्तरवाक्यविरोधः। नहि शरीरादेरपि जीवैक्यम्‌। "अग्ने नय सुपथा राये अस्मान्‌" इत्यादिभेदपरोत्तरवाक्यविरोधश्च। "तद्योऽहं सोऽसौ योऽसौ सोऽहम्‌" इत्यैतरेये च "चक्षुर्मित्रस्य वरुणस्याग्नेः" इति भेदपरोत्तरमंत्रविरोधः। "ब्रह्म वा इदमग्र आसीत्तदात्मानमेवावेदहं ब्रह्मास्मि" इतिभेदपरवाक्यशेषविरोधः। किंचात्र वाक्ये ब्रह्मण एव प्रकृतत्वात्‌ नानेन जीवब्रह्मैक्यसिद्धिः। "य एवं वेदाहं ब्रह्मास्मि" इत्युत्तरवाक्ये त्वितिशब्दयोगात्‌ त्वन्मते चेतिशब्दयुक्तानाम्‌ "आदित्यो ब्रह्म" इत्यादीनामुपासनार्थत्वात्‌। "अथ योऽन्यां देवतामुपास्ते" इत्युत्तरवक्ये उपास्तिश्रवणाच्च नानेनैक्यसिद्धिः। यद्वात्र ब्रह्मशब्दो बृंहणार्थ इति न परब्रह्मैक्यसिद्धिः। अन्यथा पूर्ववाक्ये "आत्मानमेवावेत्‌" इत्यनेनैव ब्रह्मेतिज्ञानस्य सिद्धत्वात्‌ ब्रह्मास्मीतिव्यर्थम्‌। एतेन "अहं हरिः सर्वमिदं जनार्दनः" इत्यादिस्मृतयोऽपि व्याख्याताः। "अथ योऽन्यां देवातामुपास्ते अन्योऽसावन्योऽहमस्मीति न स वेद यथा पशुः" इत्यत्राप्यंतर्यामिभेदज्ञानीं निंद्यते। अन्यथा पदद्वयादिलक्षणादिदोषात्‌। यद्वा योऽन्यो जीवः अन्यां विलक्षणां देवतामुपास्ते। किमिति अन्योऽसौ परमात्मा अहमस्मीति न स् वेद यथा पशुरित्यर्थः. अन्यथाहमर्थस्यापि विशेष्यत्वे देवातामुपास्त इत्ययुक्तम्‌। नच व्यवहितान्वयदोषः। यस्य येनार्थसंवंध इति न्यायेन सन्निधानाद्योग्यतायाः प्रबलत्वात्‌। अथवा
स्वातंत्र्येणाऽन्यसद्भावनिषेधाय श्रुतिस्त्वियम्‌।
"अन्योऽसावन्योऽहमस्मीति पश्यन्नज्ञ इति स्म ह।
आह तद्ब्रह्मणोऽदीना भिन्ना जीवास्तु सर्वशः।।"
इत्यादिस्मृतेः स्वातंत्र्यज्ञानी पशुरित्यर्थः। केचित्तूपास्त इत्यादिश्रवणात्पुंप्रयत्नसाध्यज्ञानविझातीयवृत्त्यंतररूपोपासनाया एव निषेधः न तु ज्ञानस्येत्याहुः। "स यो ह वैतत्परमं ब्रह्म वेद ब्रह्मैव भवति" इत्यत्रापि द्वितीयो ब्रह्मशब्दो जीवपरः। "बृह जातिजीवकमलासनशब्दराशिषु" इतिवचनात्। "ब्रह्माणि जीवाः सर्वेऽपि" इत्यादिस्मृतेश्च। "द्वे ब्रह्मणी वेदितव्ये" इत्यादौ जीवे तत्प्रयोगाच्च। तथाच यः परमं ब्रह्म वेद स जीव एव भवति नतु परं ब्रह्मेत्यर्थः। अत एवाद्यो ब्रह्मशब्दः परमत्वेन विशेषितः। यद्वा ब्रह्म भवति बृंहितत्वरूपब्रह्मत्वाक्रांतो भवतीत्यर्थः।
"संपूज्य ब्राह्मणं भक्त्या शूद्रोऽपि ब्राह्मणो भवेत्‌" इतिवत्‌।
नहि शूद्रः स्वपूज्यब्राह्मणव्यक्तिरेव भवति किंतु ब्राह्मणत्वजात्याक्रांतः, ब्रह्मण्यपि ब्रह्मशब्दस्य बृंहणार्थत्वात्‌।
"ब्रह्मत्वं बृंहितत्वं स्याज्जीवानां न परात्मता" इतिस्मृतेश्च।
"अस्य महिमानमिति वीतशोक" इतिवाक्यशेषाच्च। अन्यथा पूर्वत्र "यथा नद्यः स्यंदमाना" इति भिन्ननदीसमुद्रदृष्टांतोक्तिः "परात्परं पुरुषमुपैति दिव्यम्" इति ब्रह्मप्राप्त्युक्तिश्चायुक्ता स्यात्‌। किंच त्वत्पक्षे नित्यं ब्रह्मभूतस्यापूर्वब्रह्मभावोक्तिरयुक्ता। आरोपनिवृत्तेः साध्यत्वेऽप्यशाब्दत्वात्‌, "ब्रह्मैव सन्ब्रह्माप्येति" इत्यत्रापि जीव एव सन्‌ ब्रह्म प्राप्नोतीति कर्तृकर्मभावेन भेद एवोच्यते। "कर्माणि विज्ञानमयश्च आ्तमा परेऽव्यये सर्व एकीभवंति" इत्यत्रापि एकीभावः स्थानैक्यं मत्यैक्यं सादृश्यं वा न स्वरूपैक्यम्‌।
"अविरोधश्य सादृश्यमेकदेशस्थितिस्तथा।
एकीबाव(स्त्रधा)स्तथा प्रोक्तो नैकीभावः स्वरूपयोः" इतिवचनात्‌।
"अह्नीतस्ततो गता गावः सायं गोष्ठे एकीभवंति, एकीभूता नृपाः सर्वे ववृषुः पाडवं शरैः अस्मिन्ग्रामे महाजना एकीभूताः, कीटो भ्रमरेणैकीभूत" इत्यादौ प्रयोगाच्च। त्वत्पक्षे ऐक्यस्य प्रागेव सिद्धत्वादभूततद्भावार्थच्विपरत्ययबाधः। तथा सकृत्प्रयुक्तस्यैकीभवंतीत्यस्य कर्मसु निवृत्तिरर्थः विज्ञानात्मन्यैक्यमर्थ इति अनेकार्थत्वम्‌। तथा "परेऽव्यये" इति श्रुतसप्तमीहानिः, अश्रुततृतीयाकल्पनापत्तिः। तथा "निरंजनः परमं साम्यमुपैति" इतिपूर्ववाक्येन "परात्परं पुरुषमुपैति दिव्यम्‌" इत्युत्तरवाक्येन च विरोधः स्यात्‌। नाप्यंतर्यामिप्रकरणस्थं "नान्योऽतोऽस्ति द्रष्टा" इतिवाक्यं अक्षरप्रकरणस्थं "नान्यदतोऽस्ति द्रष्टृ" इतिवाक्यं चैक्ये मानम्‌। अत इत्यनेन प्रस्तुतं सर्वनियंतारं परामृश्यान्यो द्रष्टा नास्तीत्युक्ते अस्मिन्ग्रामे अयमेव सर्वनियोजकः नान्यः पुरुषोऽस्तीत्यादावन्यशब्दस्य प्रस्तुतसदृशान्यपरतया व्युत्पन्नत्वेनेहापि सर्वनियामकद्रष्ट्रंतरनिषेधात्‌। उक्तं हि समानमितरच्छ्येनेनेत्यनेनेत्यत्र इतरशब्दस्य पूर्वनिर्दिष्टसदृशपरत्वम्‌। एवंच "कंदर्पः सुंदरो लोके नान्योऽस्तीह पुमान्‌" इत्युक्ते कंदर्पतोऽन्यः पुमान्नेति न प्रतीयते किंतु कंदर्पसदृशः सुंदरो नेति भासते। एवं परात्मसदृशद्रष्ट्रभावोऽत्र भासते। अन्यथा अंतर्यामिवाक्ये "य आच्मनोंऽतरः यमात्मा न वेद यस्मात्मा शरीरं य आत्मानमंतरो यमयति" इति पूर्ववाक्येन "एष त आत्मांतर्याम्यमृतः अतोऽन्यदार्तम्‌" इत्युत्तरवाक्येन च विरोधः। तत्र परमात्मनोऽन्यं चेतनमंगीकृत्य तस्यार्तियुक्तत्वेनास्वातंत्र्यस्यैवोक्तेः। अक्षरवाक्ये च "एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचंद्रमसौ विधृतौ तिष्ठत" इत्यादिपूर्ववाक्येन विरोधः। स्यात्‌। द्वितीयाद्वै भयं भवतीत्यस्यापि विरोधिनः समानाद्भयं भवतीत्येवार्थः, लोके तादृशादेव भयदर्शनात्‌। अस्य च लोकसिद्धानुवादित्वात्‌। "समानाद्धि भयं भवेत्‌" इतिस्मृतेश्च। पूर्वत्र "तस्मादेकाकी बिभेति" इति, उत्तरत्र च "तस्मादेकाकी न रमत" इतिश्रवणाच्च। "यदा ह्येवैष एतस्मिन्नुदरमंतरं कुरुते" इत्यत्रापि एतस्मिन्निति विशेषणात्स्वगतस्यैव भेदस्य निषेधः। एवं "एको देवः सर्वभूतेषु गूढः" इत्यादिश्रुतिः।
"एक एव हि भूतात्मा भूते भूते व्यवस्थित"
इतिस्मृतिश्चांतर्याम्यैक्यपरा। भूतशब्दस्य "यतो वा इमानि भूतानि जायंते यत्प्रयंत्यभिसंविशंति" इत्यादाविव चेतनपरत्वात्‌।
"यावन्मोक्षं तु भेदः स्याञ्जीवस्य परमस्य च।
ततः परं न भेदोऽस्ति भेदहेतोरभावतः।
विभेदजनकेऽज्ञाने नाशमात्यंतिकं गते।
आत्मनो ब्रह्मणो भेदमसंतं कः करिष्यति।।"
इत्यादिस्मृतिष्वपि भेदशब्दो मित्रभेद इत्यादाविव वैमत्यार्थः।
"जीवस्य परमैक्यं तु बुद्धिसारूप्यमेव च" इत्यादिस्मृतेः।
जीवस्य हि आमोक्षमीश्वरकामविरुद्धकामिता न तु मोक्षे। अत एव मुक्तः सत्यकामः। असंतमभद्रमित्यर्थः।
"क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत"
इत्यस्यापि क्षेत्रज्ञं सर्वज्ञं मां सर्वक्षेत्रेष्वपि विद्धीत्यर्थः। तत्रैव।
"इदं शरीरं कौंतेय क्षेत्रमित्यभिधीयते।
एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः।
तत्‌ क्षेत्रं यच्च यादृक्च, तत्समासेन मे शृणु।।" इत्यक्त्वा
"महाभूतान्याहंकारो बुद्धिरव्यक्तमेव च।
इंद्रियाणि दशैकं च पंच चेंद्रियगोचराः।।" इत्याद्युक्त्वा

"एतत्क्षेत्रं समासेन सविकारमुदाहृतम्‌"
इत्यनेन "यस्य पृथिवी शरीरम्‌" इतिश्रुत्या ईश्वरशरीरतयोक्तं चेतनाचेतनात्मकं सर्वं क्षेत्रमित्युक्तत्वात्‌। मोक्षधर्मे
"क्षेत्राणि च शरीराणि बीजानि च शुभाशुभे।
तानि वेत्ति स योगात्मा ततः क्षेत्रज्ञ उच्यते।।" इति।

"प्रकृतेश्च विकाराणां द्रष्टारमगुणान्वितम्‌।
क्षेत्रज्ञमाहुर्जीवं तु कर्तारं गुणसंवृतम्‌।।" इतिचोक्तेः।
नचैवं रूढार्थत्यागः। जीवेऽपि क्षेत्रज्ञशब्दस्य यौगिकत्वात्‌ शास्त्रस्था वेति न्यायाच्च। एवमन्यान्यपि वाक्यानि योज्यानि। तस्मान्नागम ऐक्ये प्रमाणम्‌।।" इति।।
[ न्या. अ. 546 तः 552 पृ ]

अच्युतः
"स्वरूपतः गुणतः क्रियातो वा न च्यवत इति अच्युतः। च्युङ गतौ।।" इति।।
आथ - उ.भा. 1-3-10.
एवमेव कयाऽपि दृष्ट्या च्युति र्नास्ति भगवतः।
तदुक्तं---"यस्मान्न च्युत्तपूर्वोऽहमच्युतस्तेन कर्मणा"
इति [ म. भार. शां. प. 342/71]
अच्युतः विष्णुरेव---
"ज्ञानं नित्यं क्रियानित्या बलंशक्तिः परात्मनः।
नित्यानन्दोऽव्ययः पूर्णो भगवान्‌ विष्णुरच्युतः।।"
इति [ अनु - व्या. 1-2-7 ]
अच्यतशब्दार्थस्तु --
"'अ' इति ब्रह्म इत्युक्तेः 'अ' भूतं गुणपूर्णं अनित्यभिन्नत्वात्‌, असर्वगतभिन्नत्वाच्य, नित्य सर्वग च च्युतं गमनं ज्ञानं वा यस्य सः अच्युतः।। च्युङ गतै।।" इति [ वि. स. स्तो. विध्या ]
एवमेव ब्रह्मादीनां आथवा मुक्तात्मनां ज्ञानानन्दादिषु च्युतिं विना प्रसादयतितदुक्तं---"ब्रह्मदीनां मुक्तत्मनां वा न
विद्यते च्युतं ज्ञानानन्दादिषु अपगमः येन सः अच्युतः," इति
एवमेव बृहतीसहसं---
"ये अमदन्ननुत्वा। वि सद्यो विश्वा द्दंहितान्येषामिन्द्रः
पुरः सहस सप्त दर्दः। व्यानवस्य तृत्सवे।। 103।।
ये त्वामनुसृत्य अन्ये स्थितास्तेप्यमदन्‌ सुखिनोऽभवन्‌, अप्रच्युतसुखा एव भवन्ति। इन्द्रसखित्वप्राप्त्यनन्तरं द्रूह्यादीनपि सुदासमिव भाग्यवतश्चकार तच्छत्रुहननं च चकारेत्याह। एषां द्रुह्यादिशत्रूणां श्रुतकवषवृद्धदीनां द्दंहितानि दृढानि दुर्गाणि विश्वा विश्वानि पुरः पट्टणानि तद्रक्षासाधनभूतान्‌ सप्तप्राकारांश्च सहसा बलेन सद्यः युगपदेव विदर्दः दारयामास। किञ्च आनवस्य अनुपुत्रसय तृत्सवे तृत्सुसञ्ज्ञकाय तदीयं धनमदादिति शेषः।
तेन अप्रच्युतसुखवत्त्वादच्युत इति निरुक्तेः अच्युतमूर्तिरत्र।।" इति।।
[ बृह. स. व्या. रधु 65 पृ ]
एवमेवतत्रैवान्यत्र---
अहं प्रत्नेन मन्मना गिरः शुम्भामि कण्ववत्‌। येनेन्द्रः
शुष्ममिद्‌ वृधे। ये त्वामिन्द्र न तुष्टुवुरृषयो ये च तुष्टुवुः।। 325।।
येन भोगसाध्येन मन्मना ज्ञानेन कण्ववत् कण्वो यथा तथा अहमपि गिरः अस्मदीया वाचः शुम्भामि शोभयामि। गिरां तद्विषयज्ञानेन हि शोभमानता। हे इन्द्र ये असुरजना त्वां न तुष्टुवुः ते विनष्टा अभवन्‌। ये च ऋषयः सात्विका जना त्वां तुष्टुवुः ते अभिवृद्धा आसन्‌ इत्यध्याहारः।
अनेन स्तावको जनः च्युतः क्षीणो न भवत्यस्मादित्यच्युत इति निरुक्तेः अच्युतमूर्तिरत्र।।"इति।।
[ बृह. स. व्या. रधु. 160 पृ ]
किंच त्रत्रैवान्यत्र--
"अवमं वसु त्वं पुष्यसि मध्यमम्‌। सत्रा विश्वस्य परमस्य
राजसि नकिष्ट्वा गोषु वृण्वते। त्वं विश्वस्य।। 564।।
हे हन्द्र अवममधमं त्रपुसीसादिकं धनं यद्वा भौमं वसु अवमं मध्यमं वसु रजतहिरण्यादिकमान्तरिक्षं वा पुष्यसि। विश्वस्य सर्वस्य परमस्योत्तमस्यापि रत्नादेर्दिव्यस्य वा वसुनः राजसि ईशिषे। न केवलं धनस्य (अपि तु ) विश्वस्य जगतोपि ईशिषे इत्येतत्‌ सत्रा अबाधितम्‌ अप्रच्युतजगदैश्वर्यवानित्यर्थः। अपि च त्वा त्वां गोषु निमित्तेषु नकिः वृण्वते केपि न वारयन्ति।
अनेन न च्यवते जगदैश्वर्यादिभ्य इत्यच्युत इति निरुक्तेः त्वं विश्वस्येशिषे सत्रा इत्यनेन सूचनाद्‌ अच्युतमूर्तिरत्र।।" इति।। [ बृह. स. व्या. रधु. 266 पृ ]


अक्रूरः
"गमदा वाजसातये गमदा मेधसातये नभन्तामन्यके समे।
ता हि मध्यं भराणामिन्द्राग्नी अधिक्षितः।। 918।।
स इन्दः नः वाजसातये अन्नदानाय आगमत्‌ आगच्छेत्‌। मेधसातये अस्मद्यज्ञसिध्यर्थं चागमत्‌ आगच्छेत्‌। किञ्च समे सर्वे अन्यके शत्रवः त्वदागमनेन नभन्तां नश्यन्ताम्‌। किञ्च ताविन्द्राग्नी भराणां युद्धानां मध्ये अधिक्षितः, क्षि निवासगत्योः, अधिनिवसतः। सन्निहितौ सन्तौ अस्माकमक्रूरौ भवेताम्‌।
अनेन कॄ हिंसायमित्यत उरक्‌प्रत्ययः, यणादेशः। क्रूरो हिंसको न भवतीत्यक्रूर इति निरक्तेः मध्यं भराणामधिक्षित इत्यनेन सूचानाद् अक्रूरमूर्तिरत्र।।" इति।।
[ बृ. स. व्या. रधु 422 पृ ]

अग्रजः
"वाजयताम्‌। अस्माकमिन्द्र भूतु ते स्तोमो वाहिष्ठो अन्तमः।
अस्मान्‌ राये महे हिनु। रेवतीर्नः सधमादे।। 895।।
हे इन्द्र वाहिष्ठो वोढृतमः अभीष्टपापकः अस्माकं स्तोत्रं ते तव अन्तमः अन्तिकतमः भूतु भवेत्‌। त्वदग्रे तिष्ठतु। त्वं चास्मान्‌ महे महते राये धनाय हिनु प्रेरय। किञ्च नः सधमादे यज्ञे रेवतीः धनप्रापिकाः स्तुतीः शृणु।
अनेन अग्रे समीपे जः प्रादुर्भूतः स्तेमो यस्य सोऽग्रज इति निरुक्तेः स्तोमो अन्तमो भूत्वित्यनेन सूचनाद्‌ अग्रजमूर्तिरत्र।।" इति।।
[ बृ. स. व्या. रधु 411 ]

अग्रणीः
"अन्यदद्य कर्वरमन्यदु श्वोऽसच्च सन्मुहुरचक्रिरिन्द्रः।
मित्रो नो अत्र वरुणश्च पूषाऽर्यः।। 224।।
अयमिन्द्रः अद्य अस्मिन्‌ दिवसे अन्यत्‌ कर्वरं, कर्मनामैतत्‌, कर्म करोति। श्वः परस्मिन्‌ दिवसे स अन्यदु अन्यदेव उक्तविलक्षणमेव करोति। तदेव विव्रियते। असच्च अशुभमशनिपातादिकं सत्‌ वर्षणादिकं शोभनं कर्म च। यद्वा विश्वरूपवधादिकमसत्कर्म वृत्रवधादिरूपं सत्कर्म। मुहुः पुनः आचक्रिः कर्ता भवति। करोतेः कर्तरि किः लिङ्भावश्च। अत्र अस्मिन्‌ यज्ञे नः इन्द्रप्रेरितैरस्माभिः मित्रो वरुणः पूषा च अर्यः पूज्यः अस्तु।
अनेन अग्रे भवमग्रम्‌, भवार्थप्रत्ययलोपः, शुभमशुभं च कर्म कदाचिदशनिपाताद्‌ वर्षणादेः पूर्वमुत्पत्तेः, तथा चासच्छब्दबट्‌ विरुद्धोभयवाची अग्रशब्दः। अग्राणि शुभाशुभकर्माणि नयतीत्यग्रणीः। नयतेः कर्तरि क्विप्‌ इति निरुक्तेः अग्रणीमूर्तिरत्र।।" इति।।
[ बृ. स. व्या. रधु 116 पृ ]

अचलः
"कदानो गव्ये अशव्ये वसौ दधः। उत ते सुष्टुता हरी
वृषणा वहतो रथम्‌। अजुर्यस्य मदिन्तमम्‌।। 758।।
हे इन्द्र गव्ये गोसमूहे अश्व्ये अश्वसमूहे वसौ धने च नः अस्मान्‌ कदा दधः अदधाः स्थापयसि। कदा अस्मभ्यं द्रव्यादिकं ददासीति यावत्‌। उत किञ्च अजुर्यस्य जरादिदोषरहितस्य अत एव नित्यस्य ते त्वदयौ वृषणा वृषणौ युवानौ सुष्टुता सुष्टुतौ हरी अश्वौ मदिन्तमं सुखसाधनं रथम्‌ अस्मद्‌गृहं प्रति वहतः वहेताम्‌।
अनेन चल संचलने इत्यतोऽच्‌। चलत नश्यतीति चलः। स न भवतीत्यचल इति निरुक्तेः अजुर्यस्येत्यनेन सूचनाद्‌ अचलमूर्तिरत्र।।"इति।।
[ बृ. स. व्या. रधु 351 पृ ]

अचिन्त्यः
"जनेषु पञ्चसु। इन्द तानि त आ वृणे। अगन्निन्द्र श्रवो बृहद्‌
  द्युम्नं दधिष्व दुष्टरम्‌। उत्‌ ते शुष्मं तिरामसि।। 843।।
हे इन्द्र पञ्चसु जनेषु प्राणापानादिमुख्यप्राणरूपेषु ते तव यानीन्द्रियाणि रूपाणि वा प्रवर्तकानि सन्ति तानि अहम् वृणे सम्यगभीष्टसाधनतया वृणोमि। हे इन्द्र त्वद्भक्तजनास्त्वां शरणं प्राप्य बृहद्‌ महत्‌ श्रवः अन्नं भोग्यम्‌ अगन्‌ अगमन्‌ प्राप्नवन्‌। तस्मात्‌ त्वमस्मभ्यं तादु द्युम्नं सुशं शुष्मं बलं च दधिष्व धत्स्व। ततो वयं तव प्रसादात्‌ दुस्तरामपि संसारादिकम्‌ उत्‌ तिरामसि सम्यक्‌ तरामः।
अनेन "अकारो ब्रह्मविष्णवीशकमठेष्वङ्गणे रणे। गौरवेऽन्तःपुरे हेतौ" इत्युक्तेः अः अभिष्टदानहेतुः। चिति स्मृत्यामित्यतश्चौरादिकात्‌ ण्यन्ताद्‌ अचो यदिति यत्‌प्रत्ययः णिलोपो नुमागमश्च। चिन्त्यः स्मरणीयः।
अभीष्टदानहेतुत्वेन स्मरणीयः अचिन्त्य इति निरुक्तेः द्युम्नं दधिष्व तानि वृणे इत्यनेन सूचनाद् अचिन्त्यमूर्तिरत्र।।" इति।।
[ बृ. स. व्या. रधु 387 पृ ]

अजः
"पृथिवी पथ्यमानः पशुष्कविरशयच्चायमानः।
ईयुरर्थं न न्यर्थं परुष्णीमाशुश्चनेदभिपित्वं जगाम।। 98।।
नदीकूलभेदकहननप्रकारमेव विवृणोति। चायमानः चयमानस्य पुत्रः कविनामाऽसुरः पत्यमानः पृथिवीं प्रति पात्यमानः यागे संज्ञप्तः पशुरिव अशयत् अशेत्‌। निश्चेष्टः भुवि प्रक्षिप्तोऽभवत्‌। एवं प्रतिबन्धकस्य निवृत्तत्वादेव आपः अर्थम्‌ ऋ गतावित्यतोऽर्हार्थे थप्रत्ययः, गन्तव्यमेव प्रवणदेशं परुष्णीं नदीमीयुः प्रापयामासुः। द्विकर्मकमिदम्‌। किञ्च न्यर्थं, निर्निषेधार्थः, अगन्तव्यप्रदेशं प्रति परुष्णीं नेयुः न प्रापयामासुः सेतुबन्धानन्तरं नदीपार्श्वयोः स्थितं निम्नदेशमगमयित्वा यथापूर्वं प्रवहणीयदेशमगमयन्‌। किञ्च आशुश्चन आशुगमनादश्वोऽपि सुदासस्येत शेषः, सुदासे इति वक्ष्यमाणचतुर्थ्यन्तस्याकर्षणं वा, अभिपित्वमित्‌, अभिपूर्वाद्‌ वहेरर्हार्थे वप्रत्ययः दकारस्य तकारः उपधाकरस्येकारः, अभिप्राप्तव्यदेशं जगाम। त्वद्‌भक्ताश्वानां जलप्रतबन्धनं विना सुखेन सञ्चारो जात इति यावत्‌।
अनेन सदा सद्द्वेषिणां कविप्रभृतीनां पृथिव्यां निरसनाद्‌ अजः। अज गतिक्षेपणयोरिति धातोरिति निरुक्तेः अजमूर्तिरत्र।।" इति।।
[ बृ. स. व्या. रधु. 62,63 पृ ]
एवमेव तत्रैवान्यत्र
"वृत्रहत्येऽवसि शूरसातौ। यद्‌ वा दक्षस्य बिभ्युषो
  अबिभ्यदरन्धयः शर्धत इन्द्र दस्यून्‌। पाता सुतमिन्द्रः।। 209।।
हे इन्द्र शूरसातौ शूराणां लाभरूपे वृत्रहत्ये युद्धे योद्धारं भक्तमवसीति यत्‌, दक्षस्य कर्म कर्तुं समर्थस्य बिभ्युषः शत्रुभीतियुक्तस्य जनस्यार्थे शर्धतः संग्रामे उद्योगवतः दस्यून्‌ उपक्षयकर्तॄन्‌ अबिभ्यत्‌ स्वयं भीतिरहितः सन्‌ अरन्धसः प्रतिक्षिप्तवान्‌, हिंसितवानिति वा यत्‌, अयमिन्द्रः सुतं सोमं पाता पिबतीति वा यत्, तत्‌ सर्वं उक्थे शस्यमाने कुरु। उक्थस्तोत्रेण प्रसन्न इदं सर्वं कुर्वीति तात्पर्यम्‌।
अनेन दस्यून्‌ अजति प्रतिक्षिपतीति निरुक्तेः अजमूर्तिरत्र।।" इति।।
[ बृ. स. व्या. रधु 110 पृ ]

एवं तत्रैव बृहतासहस्रेऽन्यत्रापि--
"ओजिष्ठं दधिषे सहः। अध्वर्थो द्रावया त्वं सोममिन्द्रः
पिपासति। उप नूनं युयुजे वृषणा इरी।। 531।।
हे इन्द्र ओजिष्ठमोजस्वितमं सहो बलं दधिषे धत्से। अस्य पूर्वेणान्वयः। हे अध्वर्यो ऋत्विग्विशेष त्वं द्रावय सोमं शीघ्रं सुनु। इन्द्रस्तु पिपासति पातुमिच्छति। उप किञ्च वृषणा वृषणौ युवानौ हरी अश्वौ स्वरथे युयुजे बध्दवान्‌। नुनं निश्चितम्‌।
अनेन स्वरथे अश्वौ अजति गमयति योजयतत्यजः, अज गतिक्षेपणयोरित्यस्मादन्तर्णीतण्यर्थादप्रत्ययः, इति निरुक्तेः युयुजे वृषणा हरी इत्यनेन सूचनाद्‌ अजमूर्तिरत्र।।" इति।।
[ बृ. स. व्या. रधु 251 पृ ]

अजितः
"अंशो धनं न जिग्युषः। य इन्द्रो हरिवान्‌ न दभन्ति
तं रिपो दक्षं दधाति सोमिनि। मन्त्रमखर्वं सुधितम्‌।। 560।।
जिग्युषः शत्रून्‌ जितवतः धनं न धनमिव, शत्रुजयशीलस्य धनं यथाऽभिवर्धते तथा इन्द्रस्य अंशो यज्ञियो भागः उद्रिच्यते। इन्द्रस्य त्रिष्वपि सवनेषु सोमपानमस्ति न तथेतरेषाम्‌। माध्यंदिनं सर्वमैन्द्रमेव। अपि च ये हरिवानिन्द्रः सोमिनि यजमाने दक्षं बलं दधाति। किञ्च रिपा रिपवः न दभन्ति तमिन्द्रं न हिंसन्ति। केनाप्ययमजितः। किञ्च अखर्वमनल्पं सुधितं सुविहितं मन्त्रं स्तोत्रं दधाति आत्मनि सन्दधाति।
अनेन केनापि जितो नेत्यजित इति निरुक्तेः न दभन्ति तं रिप इत्यनेन सूचनाद्‌ अजितमूर्तिरत्र।।"इति।।
[ बृ, स. व्या. रधु 264,265 पृ ]

अणुर्बृहत्‌
"सोमपा पिब। गोदा इद्‌ रेवतो मदः। अथा ते अन्तमानां
विद्याम सुमतीनाम्‌। मा नो अति ख्य आ गहि।। 845।।
हे सोमपाः इन्द्र रेवतः हिरण्यादिमतोऽस्य यजमानसय इत्‌ एव गोदाः ज्ञानदः मदः सुखककारी च। यद्वा मदि स्तुतिमोदमदस्वप्नकान्तिगतिष्विति पाठात्‌ मदेर्गत्यर्थादकारप्रत्ययः। सर्वजीवान्तर्नियामकतया गच्छति, अन्तःप्रविष्ट इति मदः अणुः। वालाग्रशतभागस्येत्यादिना अत्यणोर्जीवस्यान्तः प्रवेशोक्त्या ततोऽप्यणुत्वसिद्धेः। अथ तस्मात्‌ अन्तमानाम्‌ उत्तमोत्तमगुणेषु गणनायां अत्युत्तमानां ते सुमतीनां त्वदविषयबुद्धीनाम्‌, व्यत्ययेन सुमतीः, विद्याम वयं लभेमहि। नः अस्मान्‌ अति अतीत्य अन्यान्‌ मा ख्यः मा पश्य। करुणार्द्रदृष्ट्या अस्मानेव पश्य। दृष्ट्वा च आगह। यद्वा सुष्टु मतयो येषां ते सुमतयः तेषां सुमतीनाम्‌ अन्तमानां सर्वस्याप्यन्ते मेयानां व्यापकानां महतां रूपाणां, व्यत्ययेन तानि रूपाणि, लभेमहि।
अनेन अणरणवणभृणमणकणक्वणः शब्दार्था इति पाठाद्‌ अणतेः अणश्चेति सूत्रादुप्रत्ययः। अणु सूक्ष्मः। वर्तमाने पृषद्बृहन्महदित्यादिना बृहेरतिप्रत्ययः। शतृवद्भावः, इकार उच्चारणार्थः, गुणाभावश्च निपात्यते। बृहद्‌ व्यापकम्‌। अणुश्चासौ बृहच्च अणुर्बहत्‌, प्रथमाया अलुक्‌। इति निरुक्तेः मद इत्यनेन अन्तमानामित्यनेन च सूचनाद्‌ अणुर्बुहन्मूर्तिरत्र।
अणुत्वमहत्त्वयोर्युगपदेकत्र समावेशस्तु अणोरणीयान्‌ महतो महीयनित्यादि श्रुतिप्रमाणान्न विरुद्धः। एवमग्रेपि।।" इति।।
[ बृ. स. व्या. रधु. 388,389 पृ ]


अतीन्द्रः
"वरुणो मायीः नः सात्‌। वोचेमेदिन्द्रं मघवानमेनं महो
रायो राधसो यद्‌ ददन्नः। यो अर्चतः।। 162।।
अयं मायी, प्रज्ञानामसु पाठात्‌ प्रज्ञावानिन्द्रः नः अस्माकं वरुणः वरणीयः सात्‌ स्याद्‌ भवेत्‌। य इन्द्रः अर्चतः अर्चतां स्वपूजकानां नः महः महतो रायस्य द्रविणस्य राधसः सिद्धेश्च ददत्‌ अत्यन्तं दाता। यद्‌ यस्मादेवं तस्मादेनं मघवानं घनवन्तमिन्द्रमित्‌ इन्द्रमेव वोचेम स्तुमः।
अनेन अति अतिशयितम्‌ इदं रयिसिद्ध्यादिकं ददातति निर्वचनसचनाद्‌ अतीन्द्रमूर्तिरत्र।।"इति।।
[ बृ. स. व्या. रधु. 90,91 पृ ]

अतीन्द्रियः
"वि यो ररप्श ऋषिभिर्नवेभिर्वृक्षो न पक्कः सृण्यो न जेता।
मर्यो न योषामभि मन्यमानोऽच्छा विवक्मि।। 174।।
य इन्द्रः ऋषिभिर्ज्ञानिभिः नवेभिः स्तुत्यैर्जनैः तत्कृतस्तुतिविशेषैः वि ररप्शे, रप्शिर्वृद्धिकर्मा, ववृधे। पक्वः
पक्वफलो वृक्ष इव सृण्यः, सृ गतौ ततः कर्मणि ण्यक्, प्राप्यश्च। न जेता जेतुं शक्यो न। अथवा यस्य जेता नास्ति। यश्च मर्य मरणादिदोषयुक्तशरीरेन्द्रियवान्‌ न न भवति। अथवा यस्य मर्यः विनाशशिरस्कदेहेन्द्रियदिर्नास्ति, तमिन्द्रं योषां जोषां सेवामभिमन्यमानः कांक्ष्माणोऽहम्‌, यद्वा योषादिभोग्यजातं कांक्षमाणोऽहं विवक्मि स्तौमि। चस्य कः, निरुक्तत्वात्‌।
अनेन इन्द्रियं मरणादिदोषयुक्तं प्राकृतं शरीरादिकमतिक्रम्य वर्तत इति निरुक्तिसूचनाद्‌ अतीन्द्रियमूर्तिरत्र।।" इति।।
[ बृ. स. व्या. रधु. 95 पृ ]

अतुलः
"सोमं वीराय शक्राय। भरा पिबन्नर्याय। यो वेदिष्ठो अव्यथि-
ष्वश्वावन्तं जरितृभ्यः। वाजं स्तोतृभ्यो गोमन्तम्‌।। 362।।
हे सोतः नर्याय नरेषु हिताय वीराय पिबत्‌ पिबते शक्राय शक्तिमते इन्द्राय सोमं भरं संस्कृतं कुरु। यः इन्द्रः अव्यथिषु यज्ञेषु स्तोतृभयो जरितृभ्यो ऋत्विग्भ्यः गोमन्तमश्ववन्तं गवाश्वादियुक्तं वाजमन्नं वेदिष्ठः प्रापयितृतमः। तस्मै भरेति सम्बन्धः।
अनेन न विद्यते तुलः सदृशो यस्य स इति निरुक्तेः अतुलमूर्तिरत्र।।" इति।।
[ बृ. स. व्या. रधु. 176 पृ ]

अद्भुतः
"हरीणाम्‌। त्वां हि सत्यमद्रिवो विद्म दतारमिषाम्‌। विद्म
दातारं रयीणाम्‌। आ यस्य ते महिमानं शतमूते।। 899।।
हे अद्रिवः त्वां सत्यं साधुगुणपूर्णं विद्म। इषामन्नानां हरीणामश्वानां दातारं च विद्म। रयीणां दातारं च विद्म। शतमूते अनन्ताभिप्राय इन्द्र यस्य ते तव महिमानं कारवो गृणन्ति तं विद्मेति (उत्तरेण) संबन्धः।
अनेन अद भक्षणे भू सत्तायमित्याभ्यां धातुभ्यां अदिभूभ्यां डुतजिति डुतच्‌प्रत्ययः, टिलोपः। आद्यं भोग्यमन्नादिकं भवत्यस्मादित्यद्भुतमिति निरुक्तेः इषां रयीणां दातारमित्यादिना सूचनाद् अद्भुतमूर्तिरत्र।
अत्रोणादिवृत्तिकारादयः अदिभुवो डुतजिति सूत्रं पठित्वा व्याचख्युः। तेषामदेर्धातोरुपपदत्वाश्रयणं दोषः। तस्य क्विबन्तत्वापेक्षया धातुद्वयपक्षस्यैव न्याय्यत्वात्‌। कोशान्तरेषु तथा पाठादर्शनाच्चायुक्तता।।"इति।।
[ बृ. स. व्या. रधु 413,414 पृ ]

अदृश्यः
"क्षियन्तः पुष्यन्तो रयिं धीमहे तमिन्द्र। विश्वतो दावन्‌
विश्वतो न आ भर यं त्वा शविष्ठमीमहे। स सुप्रणीते।।310।।
सुप्रणीते सम्यक्तय निर्मिते गृहे रयिं द्रविणादिकं पुष्यन्तः पोषयन्तः क्षियन्तः निवासं कुर्वन्तः वयं धीमहे ध्यायेम्‌। ध्यानं विना दर्शनायोगादिति भावः। हे विश्वतोदावन्‌ सर्वाभीष्टप्रद इन्द्र विश्वतः सर्वस्मादपि शत्रुवर्गतः धनान्यपहृत्य नः आभर। हे इन्द्र यं शविष्ठं यं शविष्ठं सुखकृत्तमं त्वामीमहे प्राप्नुमः स त्वं नः आभरेति सम्बन्धः।
अनेन स्वतः दृश्यो न भवतीति निरुक्तेः अदृश्यमूर्तिर्त्र।।" इति।।
[ बृ. स. व्या. रधु. 153 पृ ]

अद्धाऽपराजितः
"इन्द्र विष्णवि यद्‌ वा घ त्रित आप्त्ये। यद्‌ व मरुत्सु
मन्दसे समिन्दुभिः। यद्‌ वा शक्र परावति समुद्रे अधि।। 728।।
हे इन्द्र विष्णवि विष्णोर्गृहे अनन्तासनादौ यद्‌ यथा, यथा वा त्रिते त्रितनामकस्य गृहे, यथा वा, आप्त्ये तन्नामकस्य गृहे, यथावा मरुत्सु मरुतां गृहेषु सोमं प्रति मन्दसे तुष्यसि तथा मदीयगृहेपि इन्दुभिर्मन्दस्व। शक्लृ शक्तौ, शत्रुजनान्‌ पराभावयितुं परकृतापजयादि निवारयितुं च शक्तिमान्‌ शक्रः। हे शक्र यद्‌ यदि वा परावति उपरिलोके स्थितः यदि वा समुद्रे अधितिष्ठसि। तथाऽस्माकं गृहमागत्य मन्दस्वेति योज्यम्‌।
अनेन केनापि अन्तर्बहिश्च न पराजित इति अद्धाऽपराजित इति निरुक्तेः शक्रशब्देन सूचनाद्‌ अद्धाऽपराजितमूर्तिरत्र।।" इति।।
[ बृ. स. व्या. रधु 339 पृ ]

अधिष्ठानः
"प्रस्वस्त्वाऽऽसा गर्भमचक्रिरन्‌। परि धर्मेव सूर्यम्‌।
त्वामिच्छवसस्पते कण्वा उक्थेन वावृधुः। त्वां सुताम इन्दवः।। 331।।
हे इन्द्र या गाव आपो वाचश्च प्रस्वः जगतां मातृवद्‌ हितरूपाः सत्यः आसा आसाम्‌ अन्तिकसर्वेषामन्तर्यामितया स्थितं गर्भं स्वान्तर्गतं सूर्यं धर्मेव यज्ञ इव पर्यचक्रिरन्‌ अकुर्वन्‌। यथा यज्ञः सर्योदयमपेक्ष्य प्रवर्तते एव गाव इन्द्रमपेक्ष्यैव हविरादिकं दुहन्ति। ताभिर्धेन्वादिभिः कण्वा कण्वपरभृकतयः उक्थेन स्तोत्रेण त्वामेव ववृधुः वर्धयामासुः। हे शवसस्पते सुखस्य पते इन्द्र सुतास इन्दवः सोमाः त्वां त्वामेव ववृधुः।
अनेन अधि अत्यन्तं मांसादिवत्‌ श्लिष्टतया अवस्थानं यस्य तत्‌ अधिष्ठानं गर्भः। गर्भवत्‌ सर्वदा वीरेषु संश्लिष्टतवा वर्तत इत्यधिष्ठानमिति निरुक्तेः अधिष्ठानमूर्तिरत्र।।" इति।।
[ बृ. स. व्या. रधु 162,163 पृ ]

अधृतः
"अभवः। प्रावो वोजेषु वाजिनम्‌। तं त्वा वाजेषु वाजिनं
वाजयामः शतक्रतो। धनानामिन्द्र सातये।। 849।।
हे इन्द्र वाजिनम्‌ अन्नवन्तमन्नदं युध्यन्तं वा नरं वाजेषु सर्वभोगविषयेषु युद्धेषु वा प्रावः अरक्षः। हे शतक्रतो तम् एवमुक्तगृणं वजिनं योद्धारं त्वां धनानां सातये वाजेषु युद्धेषु अस्मदरिभिः सह वाजयामः योधयामः।
अनेन पूर्ववदकारो रणवाची। धृञ धारणे इत्यतः कर्तरि क्तः। धरते इति धृतः। एषु युद्धेषु भक्तं रणादिना धरत इत्यधृत इति निरुक्तेः प्रावो वाजेषु वाजिनमित्यनेन सूचनाद्‌ अधृतमूर्तिरत्र।।" इति।।
[ बृ.य सा. व्या. रधु 390,391 ]

अधोक्षजः
"महान्‌ त्सुपारः सुन्वतः सखा। तमिन्द्रमभि गायत।
आयन्तारं महिस्थिरं पृतनासु श्रवोजितम्‌। भूरेः।। 423।।
हे उद्गातारः य इन्द्रः सुन्वतो यजमानस्य महान्‌ सुपारः पारभूतः सखा तमिन्द्रमभिगायत। आयन्तारं सर्वजगन्नियन्तारं महि महान्तं स्थिरमचञ्चलमविनाशिनं पृतनासु युद्धेषु श्रवोजितं श्रवसो धनस्यान्नस्य वा यशसो वा जितमपहर्तारं भूरेर्दातारमिन्द्रमभिगायतेति सम्बन्धः।
अनेन सर्वं जगत्‌ स्वाधः करोति नियम्यतया अधःकरोतीत्यधः, आयन्तेति यावत्‌। क्षि क्षये, अस्माद्‌ भावे डः, क्षः क्षयो विनाशः, न विद्यते क्षो विनाशो यस्येत्यक्षः। श्रवःशब्दोदितान्नादेर्जेता अपहर्ता, जि जय इत्यतो डप्रत्ययः। अधश्चासावक्षश्चासौ जश्चेत्यधोक्षज इति निरुक्तेः आयन्तारं स्थिरं श्रवोजितमित्यनेन सूचनाद्‌ अधोक्षजमूर्तिरत्र।।" इति।।
[ बृ. स. व्या. रधु 203 पृ ]

अनघः
"उप नो माहि वाजान्‌ यूयं पत स्वस्तिभिः सदा नः।
इन्द्रं नरो नेमाधिता हवन्ते यत्‌ पार्या युनजते।। 151।।
यत्‌ यः इन्द्रः पार्याः पारगमनशीलाः नेमधिताः व्यत्ययेन निमथिताः सम्यक्‌ शोधिता बृद्धीः युनजते युनक्ति। भक्तैः संयोजयति। तमिन्द्रं नरो नेतारो ऋत्विजः हवन्ते। हे इन्द्र ऋत्विग्भिराहूतस्त्वं नः अस्मभ्यं वाजान्‌ अन्नानि उप समीपे माहि, मा निर्माणे, निर्मिमीहि। किञ्च सदा स्वस्तिभिर्गुणैर्युक्तः यूयं त्वं नः पात पाहि।
तेन अघं दोषः, न विद्यते अघं यस्य स अनघ इति निर्वचनसूचनात्‌ अनधमूर्तिरत्र।।" इति।।
[ बृ. स. व्या. रघु. 86 पृ ]
एवमेव तत्रैवान्यत्र
"शुष्मिमन्तं न ऊतये द्युम्निनं पाहि जगृविम्‌। इन्द्र सोमं
शतक्रतो। इन्द्रियाणि शतक्रतो या ते।। 842।।
हे शतक्रतो इन्द्र शुष्मिमन्तं बलवत्तमं द्युम्निनं सुखवहेतुं जागृविं सुसंस्कृतं सोमं न ऊतये पाहि विब। हे शतक्रतो इन्द्र ते तव या यानि प्रवर्तकतया स्थितनि इन्द्रियाणि चक्षुरादीनि दीप्तिमन्ति रूपाणि वा तानि इन्द्रियाणि ईमहे।
अनेन अन चेष्टायामित्यतो ण्यन्तादकारप्रत्ययः, अनति चेष्ट्यति प्रवर्तयतीत्यनः चक्षुरादीन्द्रियसमुदायः भगवद्रूपविशेषो वा। अघिवधिमधि गत्यर्था इत्युक्तेः गत्यर्थादघेरकारप्रत्ययः। अनानि सर्वजनप्रवर्तकाणि इन्द्रियाणि स्वस्वरूपाणि वा अघति प्राप्नोतीत्यधः। सर्वजनप्रवर्तकेन्द्रियमानिति यावत्‌। उत्तरपदादेर्लोपः पररूपं वा। इति निरुक्तेः इन्द्रियाणि शतक्रतो या ते इत्यनेन सूचनाद्‌ अनघमूर्तिरत्र।।" इति।।
[ बृ. स. व्या. रधु. 387 पृ ]

अनन्तजित्‌
"शं पदं मघं रयीषणि न सोमो अव्रतं हिनोति न
स्पृशद्रयिः। एष ब्रह्मा य ऋत्विय इन्दो नाम श्रुतः।। 313।।
हे इन्द्र रयीषणि रयिश्च इट्‌ च रयीषौ, उपलक्षणमेतत्‌, अनन्तान्यपि तान्यस्य सन्तीति रयीषी, इकारस्याकारः यद्वा रयेः सन्‌ लाभो यस्य सः रयिषण्‌, व्यत्ययेन दीर्घः, तस्मिन्‌ बहुवित्तवति त्वयि शं सुखसाधनं पदं गतिसाधनं मघं यज्ञसाधनं सोमचरुपुरोडाशादिद्रव्यम्‌ अस्मभिः समर्पितमस्तु। यतः अव्रतं त्वत्पूजात्मककर्मरहितं जनं सोमो देवः न हिनोति न वर्धयति, रयिश्च न स्पृशत्‌ न स्पृशति, तत इति सम्बन्धः। य इन्द्रः नाम प्रसिद्धः एष ऋत्वियः ऋत्विक्षु याज्यः एष ब्रह्मा परिपूर्णश्च।
अनेनानन्तानि भोग्यानि जयतीति निरुक्तेः अनन्तजिन्मूर्तिरत्र।।" इति।।
[ बृ. स. व्या. रधु 154 पृ ]

अनन्तरूपः
"के अप्सु स्वासूर्वरासु पौंस्ये। भुवस्त्वमिन्द्र ब्रह्मणा
महान्‌ भुवो विश्वेषु सवनेषु यज्ञियः। भुवो नॄंश्च्यौत्नः।। 935।।
हे इन्द्र स्वासु स्वकीयासु उर्वरासु उरुवरास्वतश्रेष्ठासु अप्सु कर्मसु त्वत्पूजात्मिकासु के हिन्विरे के गच्छन्ति, अकुर्वन्निति यावत्‌। किञ्च तव पौंस्ये जगत्सृष्ट्यादिसामर्थ्यविषये के हिन्विरे के व्यजानन्‌। त्वत्सामर्थ्यपरिज्ञानादिकमपि दुर्लभमेवेत्यभिप्रायः। हे इन्द्र ब्रह्मणा स्तोत्रेण महान्‌ परममुख्यया वृत्त्या प्रतिपाद्यः एकेन रूपेण भुवोऽभुवः। विश्वेषु सवनेषु त्रिष्वपि सवनेषु रूपान्तरेण यज्ञियो यज्ञे अभिव्यक्तये भुवः अभवः। रूपान्तरेण नॄन्‌ अशेषप्राणिनः प्रति च्यौत्नः बलदो भुवः। तेषु तेषु कार्येषु रूपान्तरेण कर्ता अभव इति तात्पर्यम्‌।
अनेन अनन्तानि रूपाणि यस्य सः अनन्तरूप इति निरुक्तेः ब्रह्मणा महानित्यादिना सूचनाद्‌
अनन्तरूपमूर्तिरत्र।।" इति।।
[ बृ. स. व्या. रधु 429 पृ ]

अनन्तश्रीः
"विश्वस्मिन्‌ भरे ज्येष्ठश्च मन्त्रो विश्वचर्षणे। अवा नु कं
ज्यायान्‌ यज्ञवनसो महिं त ओमात्रां कृष्टयो विदुः।। 936।।
हे विश्वचर्षणे इन्द्र त्वं विश्वस्मिन्‌ भूरे युद्धे ज्येष्ठः प्रशस्यः शोभस इति यावत्‌। मन्त्रः मन्ता गोप्यश्च शोभसे हि। इन्द्र त्वमस्मान्‌ प्रति नु निशिचतं अव शोभसे, अवतिरत्र कान्त्यर्थः। अत एव यज्ञवनसो यज्ञैर्वननीयस्य त्वत्तो ज्यायान्‌ उत्तमपुरुषः। कं कः, इत्याक्षेपः। अत एव कृष्टयः सज्जनाः ते महां महतीं ओमात्रान्‌ आ समन्तादनन्तां शोभां विदुः जानन्ति।
अनेन श्रिञ्‌ श्रयणे इत्यतः "क्विप्‌ वचिप्रच्छिश्रिद्रुस्रुकठप्रुज्वां दीर्घोऽसंप्रसारणं च" इति सूत्रेण क्विप्‌, दीर्घ ईकारः सम्प्रसारणनिषेधश्च। श्रीर्वेषरचनाशोभेतत्युक्तेः श्रयत इति श्रीः शोभा कान्ति। अनन्ताः श्रियो यस्य स अनन्तश्रीरिति निरुक्तेः विश्वस्मिन्‌ भरे ज्येष्ठ इत्यादिना सूचनाद्‌ अनन्तश्रीमूर्तिरत्र।।" इति।।
[ बृ. स. व्या. रधु 429,430 पृ ]

अनन्तात्मा
"सव्यामनु स्फिग्यं वावसे वृषा न दानो अस्य रोषति।
मध्वा सम्पृक्ताः सारघेण धेनवस्तूयमेहि।। 528।।
हे इन्द्र युद्धकाले सव्यां स्फिग्यं सव्यबाहुमनु सम्यग्‌ ववसे चालयसि। किञ्च वृषा श्रेष्ठः भवान्‌ अस्य यजमानस्य दानः दाता सन्‌ न रोषति नकुप्यति। सारघेण मधुमक्षिकानिर्मितेन मध्वा मधुवहत्वादुद्भूतेन(?) सोमरसेन धेनवः धेनुविकाराः पयांसि सम्पृक्ताः सन्ति। तस्मात्‌ त्वं तूयं तूर्णमेहि।
अनेन अन्तोऽस्त्री निश्चये नाशे स्वरूपेऽग्रेऽन्तिकेऽन्तरे इत्युक्तेः नाशहेतुत्वादन्तो रोषः। यद्वा अति अदि बन्धने इत्युक्तेर्बन्धनकर्मणः अतेः अच्‌प्रत्ययः, इदित्वान्नुमागमः, अंतति ब्रघ्नातीति बन्धकत्वादन्तो रोषः। न विद्यते भक्तेषु अन्तो रोषो यस्य सः अनन्तः। आड्‌ पूर्वाद् ददातेर्मनिन्‌ प्रत्ययः, आत्मा दाता, अनन्तश्चासावात्मा चेत्यनन्तात्मा इति निरुक्तेः न दानो अस्य रोषतीत्यनेन सूचनाद्‌ अनन्तात्ममूर्तिरत्र।।"इति।। [ बृ. स. व्या. रधु 250 पृ ]

अनयः
"सहस्रिणम्‌। प्रयन्ता बोधि दाशुषे। पत्नीवन्तः सुता इम
उशन्तो यन्ति वीतये। अपां जग्मिर्निचुम्पुणः।।
हे इन्द्र अपां जग्मिर्गमकः स्यन्दनहेतुः, अहिवधादिना अपः प्रस्रावयतीति यावत्‌, निचुम्पुणः नितरां पोषकश्चत्वम्‌। तस्मात्‌ त्वामुद्दिश्य पत्नीवतः, पत्नीशब्दो धेनुपर्यायः, तज्जन्यपयसा मिश्रित इमे सोमासः सोमरसाः वीतये यजमानाय सहस्रिण सहस्रसंख्यं रयिं प्रयन्ता प्रकर्षेण प्रापयिता बोधि अबोधि, कर्मणि रूपमेतत्‌ प्राज्ञायि। यजमानेन। सर्वाभीष्टप्रापकत्वेन प्रज्ञातः।
अनेन अन चेष्टयामित्यतो भावे अप्रत्ययः, अनं अपां प्रस्रवणादिरूपचेष्टां यापयतीत्यनयः, यातेरन्तर्णीतण्यर्थात्‌ डः, इति निरुक्तेः अनयमूर्तिरत्र।।" इति।।
[ बृ. स. व्या. 196 पृ ]

अनर्थः
"शनैश्चिद्‌ यन्तो अद्रिवोऽश्वावन्तः शतग्विनः विवक्षणा
अनेहसः। ऊर्ध्वा हि ते दिवेदिवे सहस्रा सूनृता।।
आदरणयोग्यत्वादिद्रिर्वायुः प्राणादिस्थः, तं वर्तयति स्वोपभोग्यं करोतीत्यद्रवाः, वर्ततेः सुप्रत्ययः, तस्य सम्बुद्धिः, हे अद्रिवः शनैः कमेण वयं त्वां यन्तः शरणं प्राप्ता भवेम्‌ चित्‌। किञ्च अश्वावन्तः शतग्विनो शतगोमन्तः विवक्षणा विशेषेण बहूनां योगक्षेमवाहकाः अनेहसः अचञ्चलाश्च भवेम। हे इन्द्र ते ऊर्ध्वा उत्तमा सनृता स्तुतिः दिवेदिवे प्रतिदिनं सहस्रा बहुसहस्राणि धनानि, मंहते ददातीति सम्बन्धः।
अनेन अनेषु प्राणेषु रमत इत्यनरः आदरयोग्यो मुख्यप्राणः। स थं अन्नं भोग्यं प्रवर्तनीयो यस्य सोऽर्थः, उपपदान्त्यलोपः, इति निरुक्तेरद्रिवःशब्देन सूचनाद्‌ अनर्थमूर्तिरत्र।।" इति।।
[ बृ. स. व्या. 211 पृ ]

अनलः
"अग्निर्वनेव सासहिः प्र वावृधे। इयं त ऋत्वियावती
धीतिरेति नवीयसी। सपर्यन्ती पुरुप्रिया।।
हे इन्द्र अग्निः वनेव वनानीव वनानि दग्धुमिव सासहिः शत्रुवेगसहः प्रववृधे प्रकर्षेण वर्धते। किञ्च ऋतुषु भवम्‌ ऋत्वियं यवश्यामाकादिद्रव्यम्‌, तत् साधनतया अस्या अस्तीति ऋत्वियवती ते इयं धीतिः त्वद्विषयिणी यज्ञक्रिया नवीयसी नवीयस्या स्तुत्या सपर्यन्ती पूज्या पुरुप्रिया बहूनां सुखं साधयन्ती च सत्येव एति प्रकाशते।
अनेन श्वस प्राणने अनत चेति पाठात्‌ अनतेः वृषादिभ्यश्चिदेति सूत्रेण कलप्रत्ययः चिच्च, ककारलोपः। शत्रून्‌ दग्धुं चेष्टते वर्धते अग्निवत्‌ प्रवृद्धो भवतीत्यनलः। यद्वा अनतेर्भावे अच्‌, अनः अननं प्राणनं सुखमिति यावत्‌। ला दाने इत्यतः कर्तरि कः। प्राणनं लाति ददाति यस्य क्रिया स अनल इति निरुक्तेः अग्निर्वनेव प्रवावृधे इत्यनेन धीतिः पुरुप्रियेत्यनेन च सूचनाद्‌ अनलमूर्तिरत्र।।" इति।।
[ बृ. स. व्या. 337 पृ ]
अन्तकः
"सभामुप। ऋष्यो न तृष्यन्नवपानमा गहि पिबा सोमं
वशां अनु। निमेघमानो मघवन्‌ दिवेदिवे।।
हे मघवन्‌ तृष्यन्‌ तृषितः ऋष्यो न मृग इव नवपानं नूत्नंपानं प्रति आ गहि। आगत्य च वशान्‌ अनु यथेच्छं सोमं पिब। दिवेदिवे प्रतिदिनं निमेघमानः नितरां मेघ इवाचरन्‌ भक्तानामभीष्टं वर्षन्‌ सभामुप सभायामभीष्टवर्षकत्वेन निश्चित इति यावत्‌।
अनेन अन्तो निर्णयनाशयोरित्युक्तेः अन्तो निर्णयः अभीष्टवर्षणादिविषयः तं करोतीत्यन्तकः, करोतेर्डः, इति निरुक्तेः निमेघमान इत्यनेन सूचनाद्‌ अन्तकमूर्तिरत्र।।" इति।।
[ बृ. स. व्या. 251 पृ ]

अनादिः
"करसे कन्न आगन्‌। मित्रो न सत्य उरुगाय भूत्या अन्ने।
समस्य यदसन्‌ मनीषाः। प्रेरय सूरः।।
हे उरुगाय मित्रो न सखेव ते मनीषा बुद्धयः अन्ने अस्मद्भोगविषये कत्‌ कदा असन्‌ आसन्। किञ्च समस्य सर्वाधिष्ठानेषु नीचोच्चभावरहितसय सर्वदेशकालेषु आदिमध्यान्तरहितस्य वा ते सत्यः समीचीनाः मनीषाः भूत्यै अस्मद्भरणाय यत्‌ कदा आगान्‌ आगच्छेयुः। (शिष्टमुत्तरान्वयि)
अनेन आदिशब्दो मध्यान्तयोरप्युपलक्षकः। न विद्यन्ते आदिमध्यान्तानि यस्य सोऽनादिरिति निरुक्तेः समस्येत्यनेन सूचनाद्‌ अनादिमूर्तिरत्र।।" इति।।
[ बृ. स. व्या. 433 पृ ]

अनामयः
"आ नो विश्वासु हव्य इन्द्रः समत्सु भूषतु।
उप ब्रह्माणि सवनानि वृत्रहा परमज्या ऋचीषमः।।
अयमिन्द्रः विश्वासु समस्तासु समत्सु युद्धेषु नः अस्माभिः हव्यः स्तुत्यः। किञ्चि नः ब्रह्माणि स्तोत्राणि सवनानि सवनेषु उप प्रति आभूषतु आभूषयतु, स्तुतिगोचरो भवतु। अयं वृत्रहा परमज्याः परमज्यायान्‌ ऋचीषमश्च ऋक्‌प्रतिपाद्यगुणः।
अनेन नमु प्रह्वत्वे शब्दे चेत्यतः नामन्‌सामन्नित्यादिना मनिन्‌ प्रत्ययः, धातुमकार लोपः दीर्घश्च, नाम शब्दः। अः इति ब्रह्मेति श्रुतेः अः ब्रह्म, तस्य नामानि स्तोत्राणि, तनि यातीत्यनामयः। यातेः कः ब्रह्मप्रतिपादकस्तोत्राणि याति, स्तुतिगोचर इति यावत्‌ इति निरुक्तेः उप ब्रह्माणि भूषत्वित्यनेन सूचनाद्‌ अनामयमूर्तिरत्र।।" इति।।
[ बृ. स. व्या. 327 पृ ]

अन्नादः
"रातयो जेतारमपरजितम्‌। न विदस्यन्त्यूतयो यदी।
वाजस्य गोमतः। पुरां भिन्दुर्युवा कविः स्तोतृभ्यः।।
पुरां शत्रुपुराणां भिन्दुर्भेदकः, युवा तरुणः, कविः सर्वज्ञः, स्तोतृभ्यो गोमतो गवादिसहितस्य वाजस्य अन्नस्य यदि मंहते दाता भवति त्वद्दत्ता ऊतयो न विदस्यन्ति कदाचिन्न विनश्यन्ति, दसु विभेदेने क्षये वा। स्वयमपराजितं शत्रूणां जेतारं त्वां प्राप्तानामूतयो न विनश्यन्तीति संबन्धः।
अनेन भक्तोपहृतमन्नं चरुपुरोडाशादिकमत्तीत्यन्नादः। यद्वा अन्नं भक्तानामा समन्ताद्‌ ददातीत्यन्नाद इति निरुक्तेः वाजस्य महंते इत्यनेन सूचनाद्‌ अन्नादमूर्तिरत्र।।" इति।।
[ बृ. स. व्या. 450 पृ ]

अनिमिषः
"अर्यत्र्यो मघवा नृभ्य उक्थैर्द्युक्षो राजा गिरामक्षितोतः।
ततुरर्वीरो नर्यो विचेताः श्रोता हवम्‌।।
मघवा मघवान्‌ घनवान्‌ द्युक्षः, द्यौ क्षं निवासो यस्य, देवो न मानुषः अक्षितोतिः अक्षीणरक्षणः गिरां स्तुतीनां राजा ततुरिः शत्रूणां हिसकः वीरः विक्रान्तः नर्यः नरहितः विचेताः विविक्तज्ञानः हवं श्रोता अयमिन्द्रः नृभिः कर्तृभिः उक्थैः स्तोत्रैः करणै अर्चत्र्यः, पूजार्थादार्चतेः कर्माणि अत्र्यच्‌ प्रत्ययः, पूजनीय एव।
अनेन अनिमिषो देव एव न मानुष इति निरुक्तेः अनिमिषमूर्तिरत्र।।" इति।।
[ बृ. स. व्या. रधु. 114 पृ ]

अनिरुद्धः
"अवातः पुरुहूत इन्द्रः। अषा?Rळहमुग्रं सहमानमाभि-
र्गीभिर्वर्ध वृषभं चर्षणीनाम्‌। स युध्मः सत्त्वा।।
य इन्द्रः शत्रुभिः अवातः अहिंसितः, यद्वा शत्रुभिरनभिगतः, अनिरुद्ध इति यावत्‌। वनोतेर्वातेर्वा निष्ठान्तस्य नञ्‌पूर्वकस्य रूपम्‌। पुरुहूतः पुरुभिराहूतश्च। स इन्द्रः युध्मः शत्रुभिर्याद्धा सत्वा दाता च। सनोतेर्भावे क्विप्‌ ततो मतुप्‌ नलोपो नकारस्य वकारश्च। तमेवंभूतम्‌। अषा?Rळहं सोढुमशक्यं उग्रं उदीर्णगुणमोजस्विनं वा सहमानं शत्रुवेगान्‌ सहन्तं चर्षणीनां प्रजानां वृषभं श्रेष्ठं आभिः गीर्भिः स्तुतिभिः वर्ध वर्धय तोषय।
अनेन ऋद्धेः कर्तरि क्तः। नितरां रुद्धो निरुद्धः निरोधकः। न विद्यते युद्धे निरोधको यस्य स इति निरुक्तेः अनिरुद्धमूर्तिरत्र।।" इति।।
[ बृ. स. व्या. रधु. 102 पृ ]
एवमेवतत्रैवान्यत्र
"पक्वं फलमङ्कीव धूनुहीन्द्र संपारणं वसु। स्वयुरिन्द्र
स्वरा?Rळसि स्मद्दिष्टिः स्वयशस्तरः। स वावृधान्।।
पक्वं पक्वफलं वृक्षं फलं तद्गतफलानि अङ्कीव चालयन्‌, पुरुषो यथा तथा त्वमपि कर्मणां फलं संपारणं वसु संपूर्णं वसु च धूनुहि चालय। किञ्च त्वं स्वयुः भक्तानां सुखेच्छुः स्वराट्‌ स्वतन्त्रः स्मद्दिष्टिः, स्मच्छब्दः सम्यक्पर्यायः, दिष्टिरुपदेशः, स्मद्‌ दिष्टिर्यस्य सः, सम्यग्‌ हितोपदेशकः। यद्वा अस्मिद्दिष्टिः अस्मद्भागगधेयरूपः। स्वयशस्तरः सुकीर्तिरुपश्च असि। तस्मात्‌ त्वमोजसा वावृधानश्चासि।
अनेन अन चेष्टायामित्यत इन्‌प्रत्ययः, अनिः चेष्टकः फलानां प्रापकः। रुधिर्‌ आवरणे इत्यस्मात्‌ कर्तरि क्तः, रुद्धः स्रर्वेषां निरोधकः स्वराडिति यावत्‌। अनिश्चासौ रुद्धश्चेत्यनिरुद्ध इति निरुक्तेः फलमङ्कीव धूनुहि स्वरा?Rळसीत्यनेन सूचनाद्‌ अनिरुद्धमूर्तिरत्र।।" इति।।
[ बृ. स. व्या. रधु. 305 पृ ]

अनिर्देश्यवपुः
"रथ्यः सदासाः। इत्था हि सोम इन्मदे ब्रह्मा चकार वर्धनम्‌।
शविष्ठ वज्रिन्नोजसा पृथिव्या निः शशाः।।
हे शविष्ठ वज्रिन्‌ ब्रह्मा चतुर्मुखः मदे मदसाधने सोमे सुते सत इत्था एवमेव स्वबुद्ध्यनुसारेणैव तव वपुषः वर्धनं प्रकाशनं चकार। त्वदीयं वपुः स्वयोग्यतासरेणैव ददर्श शिष्येभ्यः प्रदिष्टवांश्च, न तु सामस्त्येन ददर्श नापि प्रदिष्टवानिति यावत्‌। त्वं हि पृथिव्याः पृथिव्याम्‌, अहिमित्यपकृष्यते, अहिम्‌ अहिसंज्ञमसुरं हत्वा ओजसा बलेन निः शशाः नितरां शायितवानसि। वयं च त्वदनुग्रहाद्‌ रथ्यः रथिनः सदासा दाससहिताश्च स्यामेति सम्बन्धः।
अनेन ब्रह्मणापि साकल्येन निर्देषु ज्ञातुं चाशक्यमनिर्देश्यं वपुर्यस्येति निरुक्तेः अनिर्देश्यवपुर्मूर्तिरत्र।।"इति।।
[ बृ. स. व्या. रधु. 98 पृ ]
तत्रैवान्यत्रापि-
"इन्द्रं सबाद ऊतये। बृहद्‌ गायन्तः सुतसोमे अध्वरे
हुवे भरं न कारिणम्‌। न यं दुघ्रा वरन्ते।।
हे जनाः सबाधः बाधादिसहिता यूयं ऊतये रक्षणार्थं भरं न अभ्रमिव मेघमण्डलमिव कारिणं भक्ताभीष्टवर्षणशीलं तमिन्द्रं सुतसोमे अभिषवसोमवति अध्वरे यज्ञे बृहत्‌ उच्चै गायन्तः हुवे, व्यत्ययेन आह्वयत। दुघ्राः दुर्धियो जनाः यमिन्द्रं न वरन्ते न वृण्वते।
अनेन क्षणमप्येकप्रकारं न तिष्ठति, अत एव निर्देष्ठुमशक्यमनिर्देश्यं मेघमण्डलम्‌। टुवप्‌ बीजसन्ताने इत्यस्मात्‌ अर्तिपॄवपीत्यादिना उसिः। मेघमण्डलमिव वपतीत्यनिर्देश्यवपुरिति निरुक्तेः भरं न कारिणमित्यनेन सूचनाद्‌ अनिर्देश्यवपुर्मूर्तिरत्र।।" इति।।
[ बृ. स. व्या. रधु. 314 पृ ]

अनिर्विण्णाः
"अबधिरं वयं श्रुत्कर्णं सन्तमूतये। दूरादिह हवामहे।
यच्छुश्रूथा इमं दुर्मर्षं चक्रिया उत।।
हे इन्द्र उत किञ्च दूरात्‌ दूरादेव श्रुत्कर्णं श्रवणसमर्थकर्णवन्तं अत एवाबधिरं सन्तमुत्तमं त्वाम्‌ ऊतये रक्षायै इह वयं हवामहे। यद्‌ यस्माद्‌ इममस्मदीयं हवमाह्वानां शुश्रूथाः शृणुयाः उत तस्मात्‌ दुर्मर्षं
शत्रुभिरमर्षणीयं कर्म चक्रियाः अकरोः।
अनेन बाधिर्यादिदोषैर्निर्विण्णो न भवतीत्यनिर्विण्ण इति निरुक्तेः अबधिरं श्रुत्कर्णं दूरादित्यनेन सूचनाद्‌ अनिर्विण्णमूर्तिरत्र।।" इति।।
[ बृ. स. व्या. रधु. 212,213 पृ ]
तत्रैवान्यत्रापि-
"इन्द्रे सन्तु तुविवाजाः। क्षुमन्तो याभिर्मदेम। आ घ त्वावान्‌
त्मनाप्तः स्तोतृभ्यो धृष्णवियानः। ऋणो रक्षं न चक्रयोः।।
याभिरन्नादिभिः क्षुमन्तः स्तुतिं कुर्वन्तो वयं मदेम सुखिनो भवेम ता रेवती रेवत्यो धनवत्यः तुविवाजो बहून्यन्नानि, स्त्रीलिङ्गं वैदिकम्‌, मादः सुखं तस्य सधः स्थानं मादस्य सधः, उपसर्जनस्य परनिपातः, सधमादे सुखाधिष्ठाने इन्द्रे परमेश्वरे अस्माकं स्वामिनि सति सन्तु भूयासुः। हे धृष्णो प्रगल्भ इन्द्र त्वावान्‌ त्वत्स्वामिकः पुरुषः त्मना आत्माना घ एव त्वयैव आप्तः प्राप्तः स्यात्। त्वत्सन्निधानपात्रं स्यात्‌। स्तोतृभ्यः स्तोतृभिः ऋणोः रणतोः चक्रयोः, चक्रशब्दपर्यायः चक्रिशब्दः, चक्रयोः अक्षं न यथा अक्षमाश्रयभावेन वर्तते तथा स्तेतृभिः इयानः गम्यमानस्तदाश्रयो भवसि।
अनेन विदेर्लाभार्थात् क्तप्रत्ययः, रदाभ्यामिति निष्ठातकारस्य धातुदकारस्य च नः, विन्नो लाभः, निर्गतो विन्नो लाबोऽस्मादिति निर्विण्णो लाभरहितो दुःखी, स न भवति यस्मात्‌ सोऽनिर्विण्णः, अन्नादिलाभप्रद इति यावत्‌, इति निरुक्तेः सन्तु तुविवाजा इत्यादिना सूचनाद्‌ अनिर्विण्णमूर्तिरत्र।।" इति।।
[ बृ. स. व्या. रधु. 411,412 पृ ]



अनिलः
"अनु सहो यजत्रेन्द्र देवेभिरनु ते नृपह्मे। एवा नः
स्पृधः समना समत्स्विन्द्र रारन्धि मिथतीरदेवीः।।
हे यजत्र यजनीय इन्द्र ते त्वामनुवर्तमानस्य सहः बलं नृपह्ये युद्धे देवेभिर्देवैः दायि दापितम्‌। हे इन्द्र एवं स्तुतस्त्वं नः अस्मदीयाः स्पृधः शत्रुसेनाः समत्सु संग्रामेषु अनु, यथा वायुरिति शेषः, समज अनिलवत्‌ प्रक्षिप। किञ्च मिथतीर्हिंसतीः अदेवीः आसुरीः सेना ररन्धि रन्धय हिंसय।
अनेनानिलवत्‌ शत्रुसेनाप्रक्षेतकत्वादनिल इति निरुक्तेः अनिलमूर्तिरत्र।।" इति।।
[ बृ. स. व्या. रधु. 122,123 पृ ]
तत्रैवान्यत्र-
"पृक्ष ऋतेन गाव ऋतमा विवेशुः। ऋतं येमान ऋतमिद्‌
वनोत्यृतस्य शुष्मस्तुरया उ गव्युः। ऋताय।।
ऋतेन यथार्थज्ञानरूपेण प्रेरिता गावः सूर्यरश्मयः ऋतं भुवं प्रति आ विवेशुः इन्द्र ऋतं उदकं येमानः नियच्छन्‌ ऋतमित्‌ उदकमेव ऋताय भगवतः पृक्षः अन्नानि प्रति पुनर्वर्षाकाले वनोति प्रयच्छति। ऋतस्येन्द्रस्य शुष्मः बलं तुरया तूर्मगतिरेव सन्‌ गव्युः गां भूमिं प्राप्तो भवति।
अनेन अं उदकं नितरां लाति ददाति, निपूर्वात्‌ लातेर्डः, इति निरुक्तेः अनिलमूर्तिरत्र।।" इति।।
[ बृ. स. व्या. रधु. 148 पृ ]
तत्रैवान्यत्रापि-
"हितेष्वधिवाकाय हवन्ते। येषामिन्द्रस्ते जयन्ति। तमित्‌
च्योत्नैरार्यन्ति तं कृतेभिश्चर्षणयः। एष इन्द्रः।।
ये जनाः हितेषु अभीष्टेषु अधिवाकाय सन्निधानाय सहायाय वा हवन्ते आह्वयन्ति। येषां यैश्च इन्द्रः
सन्निधानाय आहूतः ते शत्रून्‌ जयन्ति। तमित्‌ तमेवेन्द्रं च्योत्नैर्बलैः आर्यन्ति प्राप्नुवन्ति। तमेव बलिष्ठमत एव प्रेरकरहितं जानन्ति। याश्चर्षणयो योद्धृजनाः कृतेभिः कर्मभिः तम्‌ आर्यन्ति प्राप्नुवन्ति, कर्माणि तस्मिन्‌ समर्पयन्तीति यावत्‌, तेषामेष इन्द्रः सुखकृद्‌ भवति।
अनेन इल प्रेरणे इत्यस्मात्‌ कः, इलति प्रेरयतीतीलः। न विद्यते इलः प्रेरको यस्येत्यनिलः, बलवान्‌, इति निरुक्तेः च्यौत्नैरार्यन्तीत्यनेन सूचनाद्‌ अनिलमूर्तिरत्र।।" इति।।
[ बृ. स. व्या. रधुः 379 पृ ]

अनिवृत्तिः
"यो नो दाता स नः पिता महाँ उग्र ईशानकृत्‌।
अयामन्नुग्रो मघवा पुरूवसुर्गोरश्वस्य प्र दातु नः।।
य इन्द्रः नः अस्माकं दाता पिता महान्‌ उत्तमः उग्रः उद्गमयिता। ईशानकृत्‌ ईशस्य रुद्रस्य अनंचेष्टां करोतीतीशानकृत्‌ यद्वा ईशानेति भावप्रधानो निर्देशः, देहगेहादीन्‌ प्रति ईशानत्वं स्वामित्वं करोति ददातीतीशानकृत्‌। मघवा घनवान्‌ पुरूवसुः जगन्निवासः, पुरूणि नित्यानि वसूनि यस्येति वा। स इन्द्रः अस्मान्‌ अयामन्‌ अयामनि सर्वदा उग्रः उद्गमयिता। उत्‌पूर्वादन्तर्णीतण्यर्थाद्‌ गमेः डूः, उपपदान्त्यलोपः। सर्वदा सम्यक्‌ स्वरूपाभिव्यञ्जकः सन्‌ गोः गाम्‌ अश्वस्य अश्वं च नः अस्मभ्यं प्रदातु, समाने लोपः प्रददातु।
अनेन वृतु वर्तने इत्यस्मात्‌ कर्तरि क्तः, वृत्तं विद्यमानम्‌। निर्विषेधार्थः। विद्यमानं न भवतीति निवृत्तमनित्यम्। तन्न भवतीत्यानिवृत्तं स्वभृत्यस्वरूपाभिव्यञ्जकत्वगवाश्वादिदानादिनित्यधर्मजातम्‌। तदस्यास्तीत्यनिवृत्तीति निरुक्तेः अयामन्नुग्रः गोरश्वस्य प्र दातु न इत्यनेन सूचनाद्‌ अनिवृत्तिमूर्तिरत्र।।" इति।।
[ बृ. स. व्या. रधु. 286,287 पृ ]

अनीशः
"अध स्मा नो मघवन्निन्द्र गिर्वर्णस्तनूपा अन्तमो भव।
अध स्मा नो वृधे भवेन्द्र नायमवा युधि।।
हे मघवन्‌ गिर्वणः इन्द्र अध अथ तेभ्यः सकाशात्‌ नोऽस्माकं तनूपाः शरीररक्षकः सन्‌ अन्तमः अन्तिकतमो भव। अध किञ्च युध्दे नोऽस्माकं वृधेऽभिवृध्द्यर्थं भव। अपि च नायम्‌ अस्मदीयसेनानायकं चाव।
अनेन अन चेष्टायामित्यतः कर्तरि क्विप्‌, अनति चेष्टयति सेनामिति सेनानायकः अनी, तस्य ईष्टे रक्षक इत्यनीश इति निरुक्तेः नायमवा युधीत्यनेन सूचनाद्‌ अनीशमूर्तिरत्र।।" इति।।
[ बृ. स. व्या. रधु.य 300 पृ ]

अनुकूलः
"पूरूणि धृष्णवा भर। त्वं हि शृण्विषे वसो। इन्द्र इत्‌
सोमदा एक इन्द्रः सुतपा विश्वायुः। अन्तर्देवान्‌ मर्त्यांश्च।।
अस्मासु अनुकूलतया वसतीति वसुः। तस्य सम्बुद्धिः हे वसो। धृष्णो शत्रुधर्षणशील शत्रूणां प्रतिकूल इन्द्र पुरूणि बहूनि स्तोत्राणि त्वं शृण्विषे शृणु। श्रुत्वा च पुरूणि वसूनि आ भर देहि। सोमपाः सोमपानकर्तां एको मुख्यः इन्द्र इत्‌ इन्द्र एव सुतपाः, कर्तरि क्तः, सुन्वतो यजमानस्य रक्षकः। इन्द्र एक एव विश्वायुः पूर्णायुःप्रदश्च। इन्द्र एव मर्त्यान्‌ देवांश्च अन्तः अन्तःस्थित्वा नियामकः। सर्वेषामनुकूलश्चेन्द्र एव। तस्मात्‌ स एव प्रार्थ्यत इति शेषः।
अनेन सर्वेषामन्तः स्थित्वाऽनुकूलो वर्तत इति निरुक्तेः अनुकूलमूर्तिरत्र।।" इति।।
[ बृ. स. व्या. रधु. 170 पृ ]

अनेकः
"विशस्तुभ्यमिन्द्र नि येमिरे। आदित्‌ ते विश्वा भुवनानि
येमिरे। यदा सूर्यममुं दिवि शुक्रं ज्योतिरधारयः।।
यदा विशः तुभ्यं तव पूजार्थं नि येमिरे उद्युक्ता भवन्ति तदा आदित्‌ त्वत्पूजायामुद्युक्तत्वादेव विश्वा भुवनानि येमिरे सर्वलोकेषु अभिवृद्धा बभूवुः। सर्वदा तैः पूज्य एवासि। हे इन्द्र शुक्रं शुभ्रं ज्योतिः ज्योतीरूपममुं सूर्यं दिवि अधारयः स्थापितवान्‌।
अनेन एकः केवलः पूजकादिप्रपञ्चरहितः, स न भवति, सर्वदा जीवसंधैर्युक्त एव। न कदाचिदनीदृशं जगदित्युक्तेः स्वसमानसत्ताकप्रपञ्चेन सहित एवेत्यनेक इति निरुक्तेः विश्वा भुवनानि येमिरे इत्यनेन सूचनाद्‌ अनेकमूर्तिरत्र।।" इति।।
[ बृ. स. व्या. रधु. 343 पृ ]

अनेकदः
"सुतेसुते नक्षन्ते गिर्वणो गिरः। वत्सं गावो न धेनवः।
पुरूतमं पुरूणां स्तोतॄणां विवाचि। वाजेभिः।।
हे गिर्वणः इन्द्र सुते सुते प्रतिसवनं इमा अस्मदीया गिरः स्तुतयः त्वां धेनव दोग्ध्र्यो गावो वत्सं न वतसमिव नक्षन्ते गच्छन्ति प्राप्नुवन्ति। हे इन्द्र पुरुतमं पुरूणां बहूनां शत्रूणां तमयितारं ग्लपयितारम्‌, यद्वा पुरुशब्दे उपपदे तनोतेरप्रत्ययः धातोरन्त्यस्य मकारादेशः, पुरूणि अनेकान्यभीष्टानि तनोतीति पुरुतमः, तं त्वा विवाचि, विविधः स्तुतिशस्त्रात्मिका वाचो यस्मिन्‌ स विवाक्‌ तस्मिन्‌, यज्ञे स्तोतॄणां वाजेभिः हविर्लक्षणैरन्नैः वाजयतां त्वामन्नवन्तं कुर्वतामस्माकं पुरूणामनेकेषामभीष्टानां दाता भवेति संबन्धः। अथवा पुरूणां बहूनां स्तोतॄणामिति संबन्धः।
अनेन अनेकानि बहूनि ददातीत्यनेकद इति निरुक्तेः पुरुतमं पुरूणामित्यनेन सूचनाद्‌ अनेकदमूर्तिरत्र।।" इति।।
[ बृ. स. व्या. रधु. 411 पृ ]

अनेकमायः
"उषा अप स्वसुस्तमः सं वर्तयति वर्तनिं सुजातता।
प्र व इन्द्राय वृत्रहन्तमाय विप्रा गाथम्‌।।
अयमिन्द्रः उषाः वश कान्तौ, कमनीयः, स्वसुः सु समीचीना असवः प्राणा बलानि, समार्थ्यानीति यावत्‌, अस्य सन्तीति स्वसुः तमः शत्रूणां ग्लानिकरश्च सन्‌ अपः कर्माणि सुजातता सुजाततां सुजन्मानि वर्तनिं वर्तनं च संवर्तयति सम्यक्‌ प्रवर्तयति। कर्मणां जन्मनामवस्थानस्य च इन्द्र एव प्रवर्तक इति भावः। हे विप्राः प्राज्ञा ऋत्विजः वः युष्माकं वृत्रहन्तमाय आवरकाज्ञानादिनिवारकायेन्द्राय गाथं गायत सम्यक्‌ स्तुत।
अनेन अनेके माया असवः प्राणाः सामर्थ्यानि च यस्य स इति निरुक्तेः अनेकमायमूर्तिरत्र।।" इति।।
[ बृ. स. व्या. रधु. 152 पृ ]

अनेककर्मकृत्‌
"वज्रिवो न शताय शतामघ। वस्याँ इन्द्रासि मे पितुरुत
भ्रातुरभुञ्जतः। माता च मे छदयथः।।
हे वज्रिवः शतमघ इन्द्र अभुञ्जतो भोगरहितसय मे पितुः भ्रातुः उत वस्यान्‌ असि वासयितासि। सुखेनैवावासमकरोः। त्वं च मे माता निर्माता ज्ञाता चासि। छदयथः स्वं वक्ष्यमाणरीत्या सम्पूर्णकामैराच्छादयः।
अनेन कर्म न्यासक्रिया चेत्यभिधानात्‌ क्रियत इति कर्म फलन्यासः, अनेकेषां भक्तसम्बन्धिपितृभ्रात्रादीनां
सुखन्यासं करोतीत्यनेककर्मकृदिति निरुक्तेः वस्याँ इन्द्रसि मे पितुरित्यादिना सूचनात्‌ अनेककर्मकृन्मूर्तिरत्र।।" इति।।
[ बृ. स. व्या. रधु. 228 पृ ]

अनेकमूर्तिः
"अनूषता समोजसे। महान्तं महिना वयं स्तोमेभि-
र्हवनश्रुतम्‌। अर्कैरभि प्र णोनुम समोजसे।।
साधुजनाः ओजसे ओजःप्राप्त्यर्थं तमिन्द्रं समनूषत सम्यगस्तुवन्‌। ततो वयमपि महिना महिम्ना महान्तं प्रसिद्धं हवनश्रुतमाह्वानश्रोतारमिन्द्रं स्तोमेभिः स्तोत्रविशेषैः अर्कै ऋग्भिश्च ओजसे ओजस्मिद्ध्यर्थं समभिप्रणोनुमः सम्यक्‌ स्तुमः।
अनेन अनैकैः स्तोमविशेषैः मूतयो यस्य सः अनेकमूर्तिरिति निरुक्तेः स्तोमेभिरर्कैः समभिप्रणोनुम इत्यनेन सूचनाद्‌ अनेकमूर्तिमूर्तिरत्र।।" इति।।
[ बृ. स. व्या. रधु. 341 पृ ]

अपराजितः
"इन्द्र मावते। सद्यश्चित्‌ सन्ति दाशुषे। एवा ह्यस्य काम्या
स्तोम उक्थं च शंस्या। इन्द्राय सोमपीतये।।
हे इन्द्र ते दाशुषे त्वां यजते मावते ज्ञानिने दातुं ते तव विभूतयः ऐश्वर्याणि सद्यश्चित्‌ सद्योपि, नित्यमिति यावत्‌, सन्त्येवेति यावत्‌। किञ्चास्य परमेश्वरस्य काम्या काम्यानि प्रियाणि उक्थं उक्थानि सोमपीतये सोमपानार्थं तस्मा इन्द्राय शंस्या शंस्यान्येव हि। स्तोमः स्तोमाश्च इन्द्राय सोमपीतये, योग्या इति शेषः।
अनेन परापूर्वात्‌ जेःक्विप्‌। पराजीयन्ते कालत इति पराजितो नश्वरा विभूतयः। न विद्यन्ते नश्वरा विभूतयो यस्य स अपराजिदिति निरुक्तेः सद्यश्चित्‌ सन्ति दाशुषे इत्यनेन सूचनाद्‌ अपराजिन्मूर्तिरत्र।।"इति।।
[ बृ. स. व्या. रधु. 400 पृ ]

अपांनिधिः
"ममेदुग्र श्रुधी हवम्‌। इमास्त इन्द्र पृश्नयो घृतं
दुहत आशिरम्‌। एनामृतस्य पिप्युषीः। या इन्द्र।।
हे उग्र उत्कृष्टत्वेन गृहत इत्‌ इदानीं मम इवमाह्वानं श्रुधि शृणु। इमा वक्ष्यमाणा पृश्नयो होमधेनवः आपो वाचश्च घृतं सर्पिः आशिरं दधि च दुहते दुहन्ति। त्वत्पूजात्मकयज्ञसिद्ध्यर्थमाज्यादिद्रव्यं कल्पयन्ति। आपश्चेद्‌ धेनूनामाहारभूततृणादिनिर्माणद्वारा घृतादीन्‌ कल्पयन्ति। वाचश्चेद्‌ ग्रहणसाधनत्वेन ग्रहणादिद्वारा घृतादीन्‌ कल्पयन्ति। ऋतस्य ऋतम्‌ एनाम्‌ एतद्‌ आज्यादिरूपं हविः पिप्युषीः पिब।
अनेनोक्तरीत्या अपामप्‌कार्याणां घृतदध्यादीनां निधिः पातृत्वेनाश्रय इति निरुक्तेः अपांनिधिमूर्तिरत्र।।"इति।।
[ बृ. स. व्या. रधु.य 162 पृ ]

अप्रतिरथः
"ओजसा पुरुष्टुत भवा नः सुश्रवस्तमः। उभयं शृणवच्च
न इन्द्रो अर्वागिदं वचः। सत्राच्या मघवा।।
हे पुरुष्टुत इन्द्र सुश्रवस्तमः श्रवोऽन्नं सुश्रवो मोश्रयोग्यानन्दादिकं तद्‌ दातव्यत्वेनास्यास्तीति सुश्रवाः, तत्रातिशयितः सुश्रवस्तमः नः अस्मान्‌ प्रति अतिशयितमोक्षदाता भव। अयमिन्द्रः इदं वचो वेदरुपं वाक्यं अर्वाक्‌
अर्वाचीनं लौकिकं वच इति वैदिकलौकिकभेदेन उभयं द्विविधं वचः सत्राच्या, सत्राशब्दो महच्छब्दपर्यायः धिया महाबुध्द्या शृणवत्‌ शृणुयात्‌।
अनेन प्रतिः प्रतिनिधिप्रतिपादनयोरित्युक्तेः प्रतिः प्रतिनिधिः, न विद्यते प्रतिः प्रतिनिधिः यस्य सः अप्रतिः। रमु क्रीडायामित्यतो हनिकुषीत्यादिना क्थप्रत्ययः, रथः आनन्दः। अप्रतिः रथः आनन्दः यस्मादिति अप्रतिरथ इति निरुक्तेःभवा नःसुश्रवस्तम इत्यनेन सूचनात्‌ अप्रतिरथमूर्तिरत्र।।" इति।।
[ बृ. स. व्या. रधु. 306 पृ ]

अप्रमत्तः
"तवेदिन्द्र प्रणीतिषूत प्रशस्तिरद्रिवः। यज्ञो वितन्तसाय्यः।
आ न इन्द्र महीमिषं पुरं न दर्षि।।
हे आद्रिवः आदरयोग्यत्वादद्रिर्वायुः तद्वदतिवेगेनाप्रमत्त एव वर्तत इत्यद्रिवाः, तस्य सम्बुद्धिः हे अद्रिवः इन्द्र। अत एवाप्रमत्तस्य सकाशाज्जातासु प्रणीतिषु प्रेरणास्वेव प्रशस्तिः स्तोत्रं वर्तते। उत किञ्च वितन्तसाय्यः विशेषेण सन्ततो यज्ञः तव प्रणीतिष्वेव जायते। इन्द्र नः अस्मभ्यं महीं महतीं इषमन्नं पुरं न पुरमिव आ दर्षि सम्‌यक् रासि। पुरातनराजभ्य इव इषमन्नमस्मभ्यं देहीत्यर्थः।
अनेन वायुरिवाप्रमत्तो भवतीत्यप्रमत्त इति निरुक्तेः अप्रमत्तमूर्तिरत्र।।" इति।।
[ बृ. स. व्या. रधु. 163 पृ ]

अप्रमेयः
"पूर्वीरस्य निष्षिधो मर्त्येषु नदं व ओदतीनाम्‌।
पुरू वसूनि पृथिवी बिभर्ति नदं योयुवतीनाम्‌।।
किञ्च मर्त्येषु जीवजातेभ्यः। पञ्चम्यर्थे सप्तमी। पूर्वीः पूर्वदिगवस्थितत्वादिमर्यादाः निष्षिधः, निर्निषेधे, सेधतेः कर्तरि क्विप्‌। निषेधकस्य अमर्यादकस्य। अस्येन्द्रस्य पूजार्थं पृथिवी भूमिः पुरूणि वसूनि रत्नादीनि बिभर्ति धत्ते। रत्नगर्भा वसुन्धरेत्युक्तेः। किञ्च नदं वः।
प्रमा परिमितिः। (तां गच्छतीति) प्रमेयः। इण्‌ गतावित्यस्मादकारप्रत्ययः। स न भवतीत्यप्रमेय इति निरुक्तेः अप्रमेयमूर्तिरत्र।।" इति।।
[ बृ. स. व्या. रधु. 37 पृ ]

अप्रमेयात्मा
"वृषन्‌ त्स्वभिष्टिर्दास्वान्‌। सौवशव्यं यो वनवत्‌ स्वश्वो
वृत्रा समत्सु सामहदमित्रान्‌। त्वां हीन्द्रावसे विवाचो इवन्ते।।
हे वृषन्‌ इन्द्र यः पुत्रः स्वभिष्टिः शोभनाभ्येषणः सम्यगपेक्षणीयः सम्यगपेक्षणीयः दास्वान्‌ हविषां दानं दाः तद्वान्‌ स्वश्वः शोभनाश्वः समत्सु सङ्ग्रमेपु सौवश्व्यं शोभनाश्वानां समूहं वनवत्‌ हिंस्यात्‌, तथा वृत्रा वृत्रान्‌ वारयितॄन्‌ अमित्रान्‌ शत्रूंश्च ससहदत्यर्थमभिभवेच्च तं पुत्रमस्मभ्यं देहीति सम्बन्धः। हे इन्द्र त्वां हि त्वामेव विवाचः विविधाः स्तुतिरूपा वाच येषां ते ऋत्विजः अवसे हवन्ते।
तेन प्रमातुं योग्यः प्रमेयः। माङ्‌ मान इत्यस्य कर्मणि रूपमेतत्‌। मानं च पर्येषणम्‌। पर्येषणविषयः अपेक्षणीयः। तत आङा सम्बन्धः। आ समन्तात्‌ प्रमेयः सम्यगपेक्षणीयः अप्रमेयः। आङो ह्रस्वत्वम्‌। अप्रमेयं सम्यगपेक्षणीयं गुणाढ्यं पुत्रम्‌ आ सम्यग्‌ ददातीत्यात्मा। आङ्‌ पूर्वकाद्‌ ददातेर्मनिन्‌ टिलोपो धातोर्दसय च तः। यद्वा अप्रमेयः प्रमातुं हिंसितिं शत्रुभिः पराभावयितुमशक्यः, प्रत्युत तद्विपर्ययसय सोढा पुत्रस्तं ददातीत्यप्रमेयात्मेति निरुक्तेः अप्रमेयात्ममूर्तिरत्र।।" इति।।
[ बृ. स. व्या. रधु. 128,129 पृ ]

अभिप्रायः
"युवा सरवा। अविप्रे चिद्‌ वयो दधदनाशुना चिदर्वता।
इन्द्रो जेता हितं धनम्‌। महीरस्य प्रणीतयः।।
अयमिन्द्रो युवा तरुणः सखा सर्वेषां सह वर्तते। अविप्रे चित्‌, विप्रः स्तोता, अस्तोतर्यपि वयः अन्नं दधत्‌ धारयति। किमु वक्तव्यं स्तोतर धारयतीति। स इन्द्रः अनाशुना चित्‌ अक्षिप्रगमनेनापि अर्वता अश्वेन हितं शत्रुषु निहितं धनं जेता आनेता भवति। तृजन्तः। अस्येन्द्रस्य प्रणीतयः प्रेरणाः महीः महत्योऽनुल्लंध्याः सर्वगताश्च।
अनेन अभि अभितः प्रकर्षेण प्रायः प्रेरणादिक्रिया यस्येति निरुक्तेः महीरस्य प्रणीतय इत्यनेन सूचनाद्‌ अभिप्रायमूर्तिरत्र।।" इति।।
[ बृ. स. व्या. रधु. 403,404 पृ ]

अमानी
"वर्धस्वा सु पुरुष्टुत ऋषिष्टुताभिरूतिभिः। धुक्षस्व
पिप्युषीमिषमवा च नः। इन्द्र त्वमवितेदसीत्था।।
हे पुरुष्टुत इन्द्र ऋषिस्तुताभिः ज्ञानिसम्मताभिः ऊतिभिः स्तोत्रैः वर्धस्व। किञ्च पिप्युषीं पुष्टिकरीं इषमन्नं सु धुक्षस्व, दुह प्रपूरणे, पूरय, देहि। नः अस्मान्‌ अव रक्ष च। हे इन्द्र त्वमित्था इत्थमेव अवितासि इत्‌ एव।
अनेन माङ्‌ माने इत्यतो भावे ल्युट्‌, अनादेशः, मानं मितिः, न मानममानम्‌ अपरिमितिः, वृद्धिरिति यावत्‌, तदस्यास्तीत्यमानी इति निरुक्तेः वर्घस्व सु पुरुष्टुतेत्यनेन सूचनाद्‌ अमानिमूर्तिरत्र।।" इति।।
[ बृ. स. व्या. रधु. 352 पृ ]

अमितविक्रमः
"सहस्रेणेव सचते यवीयुधा यस्त आन?Rळुपस्तुतिम्‌।
पुत्रं प्रावर्गं कृणुते सुवीर्यं दाश्र्नोति।।
हे इन्द्र यो जनः ते उपस्तुतिं सम्यक्‌स्तुतिं आनट्‌ व्याप्नोति करोति सः त्वद्‌भक्तो जनः यवीयुधा यवीयुधां अत्यन्तयोद्धॄणां सहस्रेण सहस्रेणापि सचते संगतो भवति। त्वद्‌भक्त एवं पराक्रमी भवति। किञ्च भवान्‌ तस्मै भक्तजनाय प्रावर्गं बहुपरिवारसहितं पुत्रं दाश्नोति ददाति। किञ्च भक्तजनं सुवीर्ये बहुपराक्रमे कृणुते बहुपराक्रमवन्तं करोति। अतस्त्वममितपराक्रमीति किमु वक्तव्यमिति भावः।
अनेन अमिता विक्रमा यस्य स ति निरुक्तेः यवीयुधा सचते सुवीर्यं कृणुते इत्यादिना सूचनाद्‌ अमितविक्रममूर्तिरत्र।।" इति।।
[ बृ. स. व्या. रधु. 249 पृ ]
तत्रैवान्यत्रापि-
"उतोपमानां प्रथमो निषीदसि सोमकामं हि ते मनः।
आ वृषस्व पुरूवसो सुतस्येन्द्रान्धसः। विद्मा हि त्वा।।
किञ्च हे इन्द्र त्वं उपमानां चेतनत्वेन समानानां देवानां मध्ये प्रथमःउत्तम आदिमः निसीदसि। तेन ते मनः सोमकामं हि निश्चितम्‌। वस निवास इत्यतः सृस्वृष्णुहीत्यादिना (?) उप्रत्ययः। वसन्ति प्राणिनः सुखमाभिरिति वसवो जगद्रक्षादिगोचरशक्तयः, पुर्व्य बह्व्यः अमिता वसवः शक्तयो यस्य सः पुरूवसुः, तस्य सम्बुद्धिः हे पुरूवसो इन्द्र आ समन्तात्‌ भक्तेभ्यो वृषस्व अभीष्टानि वर्षस्व। त्वा त्वां सुतस्य अन्धसः सोमस्य पातारं विद्म। हि निश्चितम्‌।
अनेन क्रमु पादविक्षेपे इत्यतः कप्रत्ययः। शक्तौ चरणविक्षेपे परिमित्यामपि क्रम इत्युक्तेः क्रमश्शक्तिः। वि विशेषेण क्रमो विक्रमः। अमिता विक्रमाः शक्तयो यस्य सः अमितविक्रम इति निरुक्तेः पुरूवसुशब्देन सूचनात्‌
अमितविक्रममूर्तिरत्र।।" इति।।
[ बृ. स. व्या. रधु. 307 पृ ]

अमिताशनः
"अयाम धीवतो धियोऽर्वद्भिः शक्र गोदरे। जयेम पृत्सु
वज्रिवः। वयमु त्वा शतक्रतो गावो न यवसेष्वा।।
हे वज्रिवः शतक्रतो बहुयज्ञ इन्द्र धीवतो बुद्धिमतस्त्वत्तो वयं धियः सर्वविषयबुद्धीः अयाम प्राप्नुमः। किञ्च हे शक्र अर्वद्भिरश्वैः पृत्सु युद्धेषु गोदरे गोर्भूमेर्धनस्य वा दरे प्राप्त्यर्थं शत्रून्‌ जयेम्‌। हे शतक्रतो यवसेषु तृणादिषु विषये गावो न गाव इव उक्थेषु उक्थविषये त्वं रणयामसि। गावो यथा तृणदातारमाह्वयन्ति तथा त्वमप्युक्थैः स्तोतारमाह्वयसीति सम्बन्धः। तस्माद्‌ वयं त्वामु त्वामेव आह्वयामः। यद्वा यवसेषु गाव इव गा इव उक्थेषु त्वां वयं रणयामसि शब्दं कारयामः। यथा तृणादिकं गृहीत्वा गाः शब्दं कुर्वन्ति (आह्वयन्ति) तथा उक्थेन त्वां शब्दयाम इत्यर्थः।
अनेन अमितं बहुवस्तु अशनाति विषयीकरोतीत्यमिताशः प्रज्ञाविशेषः, तं नयति प्रापयतीत्यमिताशनः बहुप्रज्ञाप्रापक इति निरुक्तेः अमिताशनमूर्तिरत्र।।" इति।।
[ बृ. स. व्या. रधु. 183,184 पृ ]


अमूर्तिः
"त्वामीमहे शतक्रतो। इन्द्र वृत्राय इन्तवे। द्युम्नेषु पृतनाज्ये
पृत्सुतूर्षु श्रवत्सु च। इन्द्र साक्ष्वाभिमातिषु।।
हे शतक्रतो वृत्राय इन्तवे त्वामीमहे। हे इन्द्र अभिमातिषु अभिभवहेतुषु पृत्सुतूर्षु त्वरायुक्तसेनावत्सु पृतनाज्ये पृतनाज्येषु युद्धेषु श्रवस्सु कीर्तिषु द्युम्नेषु सुखेषु च अस्मात्‌ साक्ष्व संगमय।
अनेन अकारो ब्रह्मविष्णवीशकमठेष्वङ्गणे रणे इत्युक्तेः अः रणः युद्धम्‌। मुर्च्छा मोहसमुच्छ्राययोरित्यस्मात्‌ क्तिन्‌। रलोपः (?)। मूर्तिः समुच्छ्रायः। ए युद्धेषु समुच्छ्रायः श्रवःसुम्नादिदातृत्वशकतिर्यस्य सः अमूर्तिरिति निरुक्तेः श्रवःरसु च द्युम्नेषु पृतनाज्ये वाक्ष्वेत्यनेन सूचनाद्‌ अमूर्तिमूर्तिरत्र।।" इति।।
[ बृ. स. व्या. रधु. 386 पृ ]

अमूर्तिमान्‌
"प्रशस्तयः। विश्वा वसूनि दाशुषे व्यानशुः। इन्दं
वृत्राय हन्तवे देवासो दधिरे पुरः। इन्द्रं वाणीः।।
प्रशस्तयः प्र मिथ्याज्ञानपूर्वकत्वरावत्त्वात्‌ (?) प्रकृष्टाः शस्तय इन्द्रविषयस्तुतयः दाशुषे यजामनाय विश्वा विश्वानि समस्तानि वसूनि व्यानशुः यजमानं प्रापयन्ति। देवासो देवाः वृत्राय हन्तवे वृत्रं हन्तुं पुरः पुरस्तात्‌ दधिरे स्थापितवन्तः किञ्च वाणीः वाण्यः इन्द्रमनूषत सम्यगस्तुवन्‌।
अनेन मूर्तिमोहो मिथ्याज्ञानम्‌, न विद्यते मूर्तिर्मोहो यस्याः सा अमूर्तिः प्रशस्तिः तद्वानमूर्तिमान्‌, इति निरुक्तेः प्रशस्तय इत्यनेन सूचनाद्‌ अमूर्तिमन्मूर्तिरत्र।।" इति।।
[ बृ. स. व्या. रधु. 340,341 पृ ]

अमृतपः
"ऋषिः को विप्र ओहते। कदा हवं मघवन्निन्द्र सुन्वतः
कदु स्तुवत आ रामः। उदु त्ये मधुमत्तमाः।।
हे इन्द्र विप्रः प्रकृष्टः ऋषिः ज्ञान्यपि कः ओहते त्वां धारयति। हे मघवन्‌ सुन्वतो यजमाजस्य हवमाह्वानं कदा शृणोषि। स्तुवतो यजमानस्य गृहं प्रति कदु कदैव आरामः आगच्छसि। त्ये ते प्रसिद्धा अपि मधुमत्तमाः त्वज्ज्ञानरूपमधुमत्तमाः क उ के, अतिदुर्लभा इति यावत्‌।
अनेन मृतो न भवतीत्यमृतं स्तोत्रं तत्‌ पिबति श्रोत्रेन्द्रियेणेत्यमृतप इति निरुक्तेः कदा हवं मघवन्निन्द्र इत्यनेन सूचनाद्‌ अमृतपमूर्तिरत्र।।" इति।।
[ बृ. स. व्या. रधु. 243,244 पृ ]

अमृतवपुः
"सत्वा तुविकूर्मिः। एकश्चित्‌ सन्नभिभूतिः। तमर्केभिस्तं
सामभिस्तं गायत्रैश्चर्षणयः। इन्द्रं वर्धन्ति क्षितय)।।
किञ्चायमिन्द्रः सत्वा बलवान्‌, तुविकूर्मिः बहुकर्मा च। स एकश्चित्‌ एक एव समाभ्यधिकरहित एव सन्‌ स्थितः, युद्धे अपलायितः। अभिभूतिः शत्रूणामभिभवकर्ता। चर्षणयः स्तोतृप्रजाः तमिन्द्रम्‌ अर्केभिः वर्धन्ति वर्धयन्ति। होतारस्तमिन्द्रं सामभिर्वर्धयन्ति, उद्गातारस्तमिन्द्रं गायत्रैः गायत्र्यादिछन्दोविशेषैः वर्धयन्ति। एवं सर्वा अपि क्षितयः तमेव स्तुवन्ति।
अनेन दु वप्‌ बीजसन्ताने इत्यतः अधिकरणे उसिप्रत्ययः। उप्यन्ते अत्रेति वपुः। अमृतानि मुक्तिसाधनानि अनादिनित्यानि वा ऋगादीनि गायत्रादिसामादीनि चोच्यन्ते अत्रेत्यमृतवपुरिति निरुक्तेः तमर्केभिस्तं सामभिरित्यनेन सूचनाद्‌ अमृतवपुर्मूर्तिरत्र।।" इति।।
[ बृ. स. व्या. रधु. 379,380 पृ ]

अमृतांशुः
"वरिवस्कृत्‌। इन्द्रो ब्रह्मेन्द्र ऋषिरिन्द्रः पूरू पुरुहूतः।
महान्‌ महीभिः शचीभिः। स स्तोम्यः स हव्यः सत्यः।।
अयमिन्द्रो रामादिः भक्तानां वरिवस्कृत्‌। अयमिन्द्रो मत्स्यादिः ब्रह्मा सर्वैर्गुणैः पूर्णः। अयमिन्द्रो व्यासादिः ऋषिर्ज्ञानी। अयमिन्द्रो नारायणः पुरू पुरु पुरुषोऽनेकरूपः अयमिन्द्रो हंसादिः पुरुहूतः पुरुभिर्बह्मादिभिः आहूतः प्रार्थितः। णहीभिर्महतीभिः नित्याभिः शचीभिर्वेदवाक्यैः महान्‌ सर्वोत्कृष्टत्वेन प्रतिपादितश्च। स इन्द्रः स्तोम्यः स्तोमविषयः हव्यो हविषामुद्देश्यः सत्यो जगदुत्पादकश्च।
अनेन अमृता नित्यमुक्ता रामकृष्णहंसाद्या अंशा अवतारा यस्य सः अमृतांशः। अमृताश इति पाठे तु अमृतं मुक्तिसाधनं हविरादिकमश्नातत्यमृताशः, अश भोजने इत्यतोऽच्‌। इति निरुक्तेः इन्द्रो ब्रह्मेत्यादिना स्तोम्यो हव्य इत्यादिना च सूचनाद्‌ अमृतांशमूर्तिरत्र।।" इति।।
[ बृ. स . व्या. रधु. 379 पृ ]

अमृतांशूद्भवः
"अभि सोममूधः। पिबन्नुशानो जुषमाणो अन्धो ववक्ष
ऋष्वः शुचते धनाय। को अस्य वीरः सधमादम्‌।।
ऋष्वः महान्‌। अयमिन्द्रः ऊधः ऊधसि हविर्धाने स्थितं सोमं उशानः कामयमानः जुषमाणः सेवमानश्च अभि गच्छति। किञ्च शुचते दीप्यमानाय यजमानाय धनाय धनार्थं धनं दातुं अन्धः अन्नं ववक्षे कदा प्रापयेत्‌। अस्येन्द्रस्य सधमादम्‌, सधशब्दः सहार्थः, इन्द्रेण सह मादं सुखं को वा वीरः (प्रापयेत्‌) तेन वयमपि तं पूजयाम इति पृच्छति।
अनेन अमृतांशुः सोमो हविर्धाने स्थितः, तस्मिन्‌ उत्‌ उत्कृष्टः भवः कामना यस्येति निरुक्तेः अमृतांशूद्भवमूर्तिरत्र।।" इति।।
[ बृ. स. व्या. रधु. 144 पृ ]

अमुत्युः
"दिवो ररप्शे महिमा पृथिव्याः। नास्य शत्रर्न
प्रतिमानमस्ति न प्रतिष्ठिः पुरुमायस्य सह्योः।।
हे इन्द्र तव महिमा महत्त्वं दिवः द्युलोकात्‌ पृथिव्याः भूमेश्च प्र ररप्शे प्ररिरिचे पृथिवीं दिवं चातिक्रम्य वर्तते। विरप्शीति महन्नामसु पाठात्‌, नाम्नां च प्रायेम धातुजत्वात्‌ रप्शतरत्रातिशयवाची। पुरुमायस्य बहुप्रज्ञस्य सह्योः शत्रूणामभिभवितुः अस्य इन्द्रस्य शत्रु शातयिता संहर्ता नास्ति। न मृतिरस्तीति। यावत्‌। प्रतिमानमुपमानं च नास्ति। प्रतिष्ठिः प्रतिष्ठा आश्रयोऽपि नास्ति। स एव सर्वस्य प्रतिष्ठेत्यर्थः।
तेन न विद्यते मृत्युः मारको मृतिर्वेति निरुक्तेः अमृत्युमूर्तिरत्र।।" इति।।
[ बृ. स. व्या. रधु. 108 पृ ]

अम्भोनिधिः
"नमशक्तिभिः। मा भेम मा श्रमिष्मोग्रस्य सख्ये तव।
महत्‌ ते वृष्णो अभिचक्ष्यं कृतं पश्येम तुर्वशं यदुम्‌।।
हे इन्द्र उग्रस्य उद्गीर्णस्य तव नमशक्तिभिः नमस्कारादिभिः सख्ये सति मा भेम शत्रतो न भयमाप्नुमः। मा श्रमिष्म श्रममपि न प्राप्नुमः। वृष्णः वर्षणशीलस्य ते त्वया यदुं तुर्वशं च प्रति महत् कृतं रक्षणादिरूपं कर्म अभिचक्ष्यं चक्षुर्गोचरं यथा भवति तथा पश्चेम्‌।
अनेन आप्लृ व्याप्तावित्यतः आप्नोतेर्नुम्भौ ह्रस्वश्चेत्यसुन्‌प्रत्यये आप्नुवन्ति परमेश्वरमिति अंभांसि यदुतुर्वशादिभक्तजातानि, निधीयन्ते अत्रेति निधिः, निपूर्वस्य धाञः उपसर्गे घोः किरिति किप्रत्ययः, इति निरुक्तेः पश्येम तुर्वशं यदुमित्यादिना सूचनाद्‌ अम्भोनिधिमूर्तिरत्र।।" इति।।
[ बृ. स. व्या. रधु. 249,250 पृ ]

अयोनिजः
"आ वसो दुघाइवोप दाशुषे। अनेहसं वो हवमानमूतये
मध्वः क्षरन्ति धीतयः। आ त्वा।।
हे आवसो बहुवित्त इन्द्र ते धीतयो दाशुषे यजमानाय दुघा इव सुदुघा धेनव इव उप समीपे भवन्ति। हे प्रजाः वो युष्मदीयाः धीतयः कर्माणि अनेहसमहिंस्यम्‌ ऊतये रक्षार्थं हवमानमाहूयमानमिन्द्रं प्रति मध्वो मधूनि क्षरन्ति क्षरन्ति क्षरन्तु।
अनेन योनिजो न भवतीत्ययोनिजः योनिसंबन्धादिना न हिंस्यते इति यावत्‌, इति निरुक्तेरनेहसमित्यनेन सूचनाद्‌ अयोनिडजमूर्तिरत्र।।" इति।।
[ बृ. स. व्या. रधु. 277 पृ ]

अरविन्दाक्षः
"पुरो?Rळाशमिन्द्रेमं सोमं श्रीणिहि। रेवन्तं हि त्वा शृणोमि।
हृत्सु पीतासो युध्यन्ते दुर्मदासो न सुराणाम्‌।।
हे इन्द्र पुरो?Rळाशं पिष्टविकारं सोमं च त्वा त्वां शृणोमि मिश्रीकरोमि। त्वयि पुरोळाशादिकं संगमयामि स्थापयामीति यावत्‌। हि यस्मात्‌ तस्मान्मां रेवन्तं धनवन्तं श्रीणिहि सेवय। मह्यं धनं देहीति यावत्‌। पीतासः सोमपानकर्तारस्त्वद्‌भक्ताः दुर्मदासः देवाः सुरायां न अमृतविषये यथा तथा हत्सु, हृच्छब्दः प्रज्ञापर्यायः, निमित्तसप्तमी, प्रज्ञाप्राप्त्यर्थं युध्यन्ते समरं कुर्वन्ति।
तेन अर्यते गम्यत इत्यरं द्रविणं विन्दयति प्रापयतीति विन्दः। आ पुरो?Rळाशादेराश्रयः स्थापनाश्रयः आक्षः। आङ्पूर्वस्य क्षि निवासगत्योरित्यस्याधिकरणे डः। तथा च द्रविणस्य विन्द्रः प्रापकः अरविन्दः। पुरो?Rळाशादेः प्रक्षेपभूमिः आक्षः। अरविन्दश्चसावाक्षश्चारविन्दाक्ष इति निरुक्तेः अरविन्दाक्षमूर्तिरत्र।।" इति।।
[ बृ. स. व्या. रधु. 172 पृ ]

अरौद्रः
"विचेतसम्‌। इन्द्रं नाम श्रुत्यं शाकिनं वचो यथा। ददी
रेक्णस्य तन्वे ददिर्वसु ददिर्वाजेषु पुरुहूत।।
हे पूरुहूत रेक्णो धनानि ददिर्दाता भव। किञ्च तन्वे तन्वाः शरीरस्य वसु वासहेतुभूतं बलादिकं ददिः। किञ्च वाजेषु यद्धेषु, वाजिनमिति अत्रापकृष्यते, अश्वसमुदायं ददिः। अहं तु वचो यथा वेदवाक्यं यादृग्गुणं प्रतिपादयति तथा क्षुत्यं श्रुतं श्रुतं तद्गुणवत्तया प्रसिद्धं शाकिनं शक्तं नाम प्रसिद्धं विचेतसं विशिष्टज्ञानिनम्‌। यद्वा चेतःशब्देन मनः परिणामभुतकामक्रोधादिदुः खसाधनमुच्यते, विशब्दो निषेधार्थाः, विगतं चेतो दुःखसाधनं यस्येति विचेताः तम्‌। इन्द्रं त्वां स्तौमि।
अनेन रुदत्यनेनेति रुद्रं दुःखम्‌ तज्जनकत्वेन तत्संबन्धित्वाद्‌ रौद्रं कामक्रोधादिदुःखसाधनम्, तदसय नास्तीत्यरौद्र इति निरुक्तेः विचेतसमित्यनेन सूचनाद्‌ अरौद्रमूर्तिरत्र।।" इति।।
[ बृ. स. व्या. रधु. 418 पृ ]
अर्चितः
"अपावृणोद्धरिभिरद्रिभिः सुतमुद्‌ गा हरिभिराजत।
आ मन्द्रैरिन्द्र हरिभिर्याहि मयूररोमभिः।।
किञ्चायमिन्द्रः हरिभिरसाधारणहरणशीलैः अद्रिभिर्ग्रावशैलादिभिः सुतं सोममपावृणोत्‌ अपगतावरणमकरोत्‌, अपिहितद्वारं द्रोमकलशस्थं सोमं पातुमपिधानं स्वयमुत्सृष्टवानिति यावत्‌। ततः सोममपिबच्च। पीत्वा च पणिनो जिगाय। जित्वा च हरिभिः परस्वहरणशीलैः पणिभिः अवरुद्धा गाः उदाजत उद्गमयामास। पर्वतगुहाभ्यो बहिर्निष्कासयामास। हे इन्द्र मन्द्रैः सुखसान्द्रैः मयूररोमभिः मयूररोमालंकृतैरश्वैऋ आ यादि।
अनेन अर्चं पूजायामित्यतः अर्चिशुचीत्यादिना इप्रत्ययः, अयमिकारान्तोऽपयस्तीत्युणादिवृत्त्युक्तेः। अर्च्यन्ते पूज्यन्ते इत्यर्चयो गावः। अर्चिशब्दे उपपदे तरतेस्तनोतेर्वा उप्रत्ययः। अर्चीः गाः गुहाभ्यः तारयति विस्तारयतीति वा अर्चित इति निरुक्तेः उद्‌ गा हरिभिराजतेत्यनेन सूचनाद्‌ अर्चितमूर्तिरत्र।।" इति।।
[ बृ. स. व्या. रधु. 303,304 पृ ]

अर्चिष्मान्‌
"इर्यश्वो हरितं धत्त आयुधमा वज्रं बाह्वोर्हरिम्‌।
इद्रो हर्यन्तमर्जुनं वज्रं शुक्रै रभीवृतम्‌।।
हर्यश्वो हरिद्वर्णाश्वयक्त इन्द्रः हरितं हरिद्वर्णोपेतं हरिं शत्रुनिर्हरणशीलं वज्रं शत्रुभिर्विर्जितं हर्यन्तमिन्द्रधारणयोग्यम्‌ अर्जुनमर्जुनवर्णं शुक्रैः अपां धनैः अभिवृतं संसिक्तं वज्रमायुधं बाह्वोः आ धत्ते धृतवान्‌।
अनेन अर्च पूजायामित्यतः अर्चिशुचीत्यादिना कर्मणि इसिप्रत्ययः। अर्च्यत इत्यर्चिः वज्रं, तदस्यास्तीति अर्चिःशब्दान्मतुप्‌, इति निरुक्तेः बाह्वोर्वजरमादधे इत्यनेन सूचनाद्‌ अर्चिष्मन्मूर्तिरत्र।।" इति।।
[ बृ. स. व्या. रधु. 303 पृ ]

अर्थः
"सातये। न यं धूर्वन्ति धूर्तयः। वृज्याम ते परि द्विषोऽरं ते
शक्र दावने। गमेमेदिन्द गोमतः।।
हे शक्र सातये युद्धाय धूर्तयो हिंसकाः यं त्वां न धूर्वन्ति ते तव द्विषो द्वेषिणः परिवृज्याम, वृजी वर्जने, वर्जयामः। "न विष्णुं वैष्णवांश्चैव ह्युत्सृजेयमिति त्रिशः। न चान्यदेवतासाम्यं तदैक्यमथ वा हरेः। चिन्तयेयं मृतौ वापि न चाप्येकत्ववादिभिः। समत्ववादिभिर्वाऽहं संगच्छेयं कथञ्चन। तन्निन्दकैश्च तदुभक्तनिन्दकैर्वा महामुने।" इत्युक्तेस्त्वद्‌द्वेषिणो वयं बहिष्कुर्म इति यावत्‌। दावने दानशीलस्य ते त्वत्तः गोमतः गवादियुक्तान्‌ भोगान्‌ अरमलं गमेम प्राप्नुमः इत्‌ एव।
अनेन रमेर्भावे डः। रं रमणम्‌। न विद्यते रमणं रतिर्भगवति येषां ते अराः भगवद्द्वेषिणः तेभ्यः तत्सङ्गजनितभयाद्‌ भक्तानां निवारणं थं यस्माद्‌ भवति स अर्थः, उपपदान्त्यलोपः। मिथ्याज्ञानिनोऽस्माभिर्वजनीया इति यावत्‌। "थः पुंस्यूर्मिगिरीन्दुषु। स्त्रीलिङ्गोऽयं तरङ्गिण्यां क्लीबे भयनिवारणे" इत्युक्तेः। मिथ्याज्ञानिसंसर्गदोषपरिहाराय मिथ्याज्ञानिनो वर्जनीया इति निरुक्तेः वृज्याम ते परि द्विष इत्यनेन सूचनाद्‌ अर्थमूर्तिरत्र।।" इति।।
[ बृ. स. व्या. रधु. 210,211 पृ ]

अविज्ञाता
"हि सोममद्रिभिरेमेनमप्सु घावत्‌। गव्या वस्त्रेव
वासयन्त इन्नरो निर्धुक्षम्‌ वक्षणाभ्यः। अध ज्मः।।
हे नरः कर्मणां नेतारः ऋत्विजः, अद्रिभिः पाषाणैः सोमं फलकयोः स्थापयित्वा आ सोत इत्‌ सुनुतैव। एनं सोम्‌ अप्सु कर्मसु आ सम्यग्‌ धवत्‌, धावू गतिशद्ध्योः, शोधयत। तत्प्रकारमेव विशदयति। गव्या गोपयआदिना वासयन्तः संमिश्रयन्तः वक्षणाभ्यः (?) वस्त्रेव वस्त्रणीव निर्धुक्षन्‌ नितरां शोधयत। पुरुषव्यत्ययः।
अनेन अवतेस्तृप्त्यर्थात्‌ किः, अवति तर्पयतीत्यविः पयआदिः ज्ञ शुद्धभावे इत्यतः कः, अविना गोपयआदिना शुद्धः सोमरसः अविज्ञः, तं आतनोति स्वीकरोतीत्याता, आङ्पूर्वात्‌ तनु विस्तारे इत्यतस्तृच्‌प्रत्ययः, तथा च गोपयआदिना सम्यक्‌ परिशोधितसोमरसग्राही अविज्ञातेति निरुक्तेः अप्सु धावत गव्या वस्त्रेवेत्यादिना सूचनाद्‌ अविज्ञातृमूर्तिरत्र।।" इति।।
[ बृ. स. व्या. रधु. 233 पृ ]

अव्यङ्गः
"हरिभ्यामुप ब्रह्माणि जुजुषाणमस्थुः। वि बाधिष्ट स्य
रोदसी महित्वेन्द्रो वृत्रण्यप्रती जघन्वान्‌।।
युजे रथं गवेषणीयमिति वर्तते। गवेषणं शत्रुगवेषणसाधनं रथं हरिभ्याम्‌ अश्वाभ्यां युजे युनज्मि। इन्द्रस्य रथे अस्मच्छत्रुहननाय इन्द्रवाहावश्वौ बघ्नामि। ननु कथमेतत्‌। जुजुषाणं परिवारदेवताभिः समन्तात्‌ सेव्यमानं साङ्गं सपरिवारमिन्द्रं मदीयानि ब्रह्माणि स्तोत्राणि उप अस्थुः उपतस्थुः इन्द्रमापुः। मदीये रथे अश्वौ बद्धौ त्वं सज्जीभवेति च स्वपरिवारदेवतागणमाज्ञापयितुं मदीयानि स्तोत्राणि प्रवर्तन्ते। स्तुतश्चासौ प्रसन्नश्च स्वपरिवारदेवतागणमाज्ञाप्य तैः सह रथमास्थाय अस्मच्छत्रून्‌ जघान चेत्याह। स्यः त्यः प्रसिद्धः, सकारादेशः, इन्द्रः महित्वा महित्वना महिम्ना रोदसी द्यावापृथिव्यौ विबाधिष्ट। द्यावापृथिव्योर्व्याप्तिं बाधितवान्‌। द्यावापृथिव्यौ अन्तश्चकार, ततोऽधिकं व्याप्तोभूदित्यर्थः। एवम्भूत इन्द्रः अप्रति अप्रतिद्वन्द्वानि वृत्राणि अस्मत्कार्यप्रतिरोधकानि बाह्याभ्यन्तरशत्रुजातानि जघन्वान्‌ इतवान्‌।
तेन अङ्गं देवतापरिवारः, न विद्यते अङ्गं यस्य सः व्यङ्गः, स न भवतीत्यव्यङ्गः। अल्पाक्षरेम शक्येपीति न्यायेन सर्वदा बहुपरिवारयुक्तः। इति निरुक्तेः अव्यङ्गमूर्तिरत्र।।" इति।।
[ बृ. स. व्या. रधु. 78,79 पृ ]

अश्वत्थः
"दीर्घस्ते अस्त्वङ्कुशो येना वसु प्रयच्छसि। यजमानस्य
सुन्वते। अयं त इन्द्र सोमो निपूतो अधि बर्हिषि।।
हे इन्द्र सुन्वते यजमानाय येन इच्छारूपेण अङ्कुशेन वसु द्रविणं प्रयच्छसि ते तव सोंऽकुशः, अकि लक्षणे इत्यतः सानसिधर्णसीत्यादिना उशप्रत्ययो नुमागमः, सकलश्रेयोज्ञापकः इच्छाविशेषः मयि दीर्घः दीर्घकालीनोऽस्तु। अयं सोमः ते त्वदर्थं निपूतः संम्यक्‌ संस्कृतः बर्हिषि अधि अधिष्ठितश्चास्ति।
अनेन ह्यो गतेऽनागतेह्वि श्वः परश्वस्तु परेहनीत्युक्तेः श्वः अनागतेह्नि आगामिनि दिवसे तिष्ठतीति श्वत्थः। श्वः शब्दे उपपदे सुपि स्थि इति कप्रत्ययः। धात्वादिसस्य उपपदान्त्यसस्य च तादेशः। सावधारणं चैतत्‌। श्व एव तिष्ठति न परेहनीति श्वत्थः अल्पकालीनः। स न भवतीत्यश्वत्थः अङ्कुशः। सोऽस्यास्तीति अर्शआद्यच्‌। दीर्घकालीनसकलश्रेयःसाधनवानश्वत्थ इति निरुक्तेः दीर्घस्ते अस्त्वङ्कुश इत्यनेन सूचनाद्‌ अश्वत्थमूर्तिरत्र।।" इति।।
[ बृ. स. व्या. रधु. 383 पृ ]

अशोकः
"मन्दस्वा सु स्वर्णर उतेन्द्र शर्यणावति। मत्स्वा विवस्वतो
मती। वावृधान उप द्यवि वृषा वज्य्ररोरवीत्‌।।
हे इन्द्र स्वर्णरे सुखयुक्तनरवति शर्यणावति यज्ञे मन्दस्व मदुमाप्नुहि। उत किञ्च विवस्वतः कान्तिमतो यजमानस्य मती मतीः मत्स्व देहि। वज्री वज्रधरः, शोकवर्जनाद्‌ वज्रीति वा, वृषा इन्द्रः द्यवि राज्ञे उप सम्यक्‌ वावृधानः सन्‌ अत एव शोकरहितः अरोरवीत्‌ आनन्दोद्रेकाच्छब्दमकरोत्‌। सुपीतं मयेति उपद्यवि द्युलोके स्थिति एव आगतोऽस्मीति शब्दमकरोदिति वा सम्बन्धः।
तेन न विद्यते शोको यस्येति निरुक्तेः अशोकमूर्तिरत्र।।" इति।।
[ बृ. स. व्या. रधु. 167 पृ ]

असंख्येयः
"इत्था सृजना अनपावृदर्थं दिवेदिवे विविषुरप्रमृष्यम्‌।
य ओजिष्ठ इन्द्र तं सु नो दा मदः।।
इत्था इत्थं अनेन प्रकारेण सृजाना सृज्यमानास्ता आपः अर्थं गन्तव्यम्‌ अप्रमृष्यमन्यैरक्षोभ्यं पारं गन्तुमशक्यं असंख्यं समुद्रं दिवेदिवे प्रतिदिनम्‌ अनपावृत्‌, क्रियाविशेषणम्‌, अपावर्तनं पुनरागमनं यथा न भवति तथा विविषुः विविशुः प्राप्नुवन्ति। हे इन्द्र य ओजिष्ठः ओजस्वितमः स्वसैन्यैरभिभवितुमशक्यः, असंख्य इति यावत्‌, मदः सुखविशेषः, तं मदं नः अस्मभ्यं सु सम्यग दाः देहि।
अनेनासङ्ख्यं समुद्रम्‌ उदकानि प्रापयतीति वा, असङ्ख्यं मदं भक्तान्‌ प्रायतीति वा असङ्ख्येयः। असंख्यशब्दोपपदादिण्‌ गताविति धातोरन्तर्णीतण्यर्थात्‌ कर्मणि यक्‌प्रत्यय इति निरुक्तेः असंख्येयमूर्तिरत्र।।"इति।।
[ बृ. स. व्या. रधु. 128 पृ ],

अहःसंवर्तकः
"अधः स्मा ते चर्षणयो यदेजानिन्द्र त्रातेत भवा वरूता।
अस्माकासो ये नृतमासो अर्य इन्द्र सूरयः।।
अध अथ किञ्च हे इन्द्र ते त्वदीयाः चर्षणयः प्रजाः यत्‌ यदा एजान्‌ एजेयुः भीत्या कम्पेयुः तदा त्वां तासां त्राता भव। किञ्च वरूता वरणीयश्च भव न त्याज्य इति यावत्‌। अस्माकासः अस्मदीयाः नृतमासः
नेतृतमाः ये मनुष्याः त्वाम्‌ अर्यः अरयः प्राप्तुमिच्छवः शिष्यवर्गाः तेषां त्राता भव। हे इन्द्र ये सूरयः ज्ञानिनः तेषामपि त्राता वरूता तैर्वरणीयश्च भव।
तेन अहर्दिनं प्रकाशश्चेत्युक्तेः प्रकाशवाचिनोऽहःशब्दात्‌ मत्वर्थीयः, तस्य लुक्‌। अहः भक्तजनं ज्ञानिनं स सम्यग्‌ भयपरिहारादिना वर्तयतीति निरक्तेः अहः संवर्तकमूर्तिरत्र।।" इति।।
[ बृ. स. व्या. रधु. 122 पृ ]

अक्षोभ्यः
"यजमानाय सुन्वते। गामश्वं पिप्युषीं दुहे। न ते पर्तास्ति
राधस इन्द्र देवो न मर्त्यः। यद्‌ दित्ससि स्तुतो मधम्‌।।
हे इन्द्र ते सूनृता त्वद्विषयिणी स्तुतिः सुन्वते यजामानाय पिप्युषी रक्षका सती गामश्वं च दुहे पूरयति। हे इन्द्रः जनैः स्तुतस्त्वं भक्ताय यन्मघं द्रविणादिकं दित्ससि दातुमिच्छसि तस्य ते त्वदीयस्य राधसो दानस्य वर्ता प्रवर्तकः अन्यो देवो मर्त्यो वा नास्ति। त्वद्वद्‌ दाता कोपि नास्तीति यावत्‌।
अनेन क्षुभ संचलने इत्यस्मात्‌ पोरदुपधादिति यत्प्रत्ययो गुणश्च। केनापि क्षोभ्यः संचलनीयो न भवतीत्यक्षोभ्य इति निरुक्तेः। न ते वर्तास्ति राधस इत्यनेन सूचनाद्‌ अक्षोभ्यमूर्तिरत्र।।" इति।।
[ बृ. स. व्या. रधु. 456,457 पृ ]
तत्रैवान्यत्रापि
"एवा न इन्द्र वार्यस्य पूर्धि प्रते महीं सुमतिं
वे विदास। इषं पिन्व मघवद्भ्यः सुवीराम्‌।।
हे इन्द्र नः अस्मान्‌ एव एवं वार्यस्य, तृतीयार्थे षष्ठी, वरणीयेन चलनरहितेन धनेन पूर्धि पूरय। ते तव महीं महतीं सुमतिमचञ्चलामनुग्रहबुद्धिं विदास भृशं लभेमहि। अनुग्रहपात्रा भवेम। मघवद्भ्यो हविष्मद्भ्यश्चास्मभ्यं सुवीरां शोभनपुत्रादियुतां इषमन्नं पिन्व प्रयच्छ।
अनेन क्षुभ सञ्चलने इत्यस्माद्‌ ऋहलोर्ण्यदिति ण्यत्प्रत्ययः। क्षुभ्यते चाल्यते इति क्षोभ्यं, न क्षोभ्यमक्षोभ्यं पुत्रधनादि, ततोऽर्शआदिभ्योऽच्‌ अक्षोभ्य इति निरुक्तेः एवा न इन्द्र वार्यस्येत्यनेन सूचनाद्‌ अक्षोभ्यमूर्तिरत्र।।" इति।।
[ बृ. स. व्या. रधु. 456,457 पृ ]

"https://sa.wikisource.org/w/index.php?title=द्वैतकोशः&oldid=399863" इत्यस्माद् प्रतिप्राप्तम्