द्वादशस्तोत्राणि
द्वादशस्तोत्राणि [[लेखकः :|]] |
॥ श्रीः ॥
श्रीमदानन्दतीर्थभगवत्पादप्रणीतसर्वमूलग्रन्थाः
---------------------------
द्वादशस्तोत्रम्
॥ श्रीमद्धनुमद्भिममध्वान्तर्गतरामकृष्णवेदव्यासात्मकश्रीलक्ष्मीहयग्रीवाय नमः ॥
प्रथमं स्तोत्रम्
---------
वन्दे वन्द्यं सदानन्दं (1)वासुदेवं निरञ्जनम् ।
इन्दिरातिमाद्यादिवरदेशवप्रदम् ॥ 1 ॥
नमामि निखिलाधीशकिरीटाघृष्टपीठवत्(2) ।
हृत्तमःशमनेऽर्काभं श्रीपतेः पादपङ्कजम्(3) ॥ 2 ॥
जम्बूनदाम्बराधारं नितम्बं चिन्त्यमीशितुः ।
स्वर्णमञ्जीरसंवीतमारूढं जगदम्बया ॥ 3 ॥
उदरं चिन्त्यमीशस्य तनुत्वेऽप्यखिलम्भरम् ।
वलित्रायाङ्कितं नित्यमुपगूढं श्रियैकया ॥ 4 ॥
स्मरणीयमुरो (4)विष्णोरिन्दिरावासमीशितुः ।
अनन्तमन्तवदिव भुजयोरन्तरं गतम् ॥ 5 ॥
(5)शङ्खचक्रगादपद्मधराश्चिन्त्या हरेर्भुजाः ।
पीनवृत्ता जगद्रक्षाकेवलोद्योगिनोऽनिशम् ॥ 6 ॥
सन्ततं चन्तयेत्कण्ठं (6)भास्वत्कौस्तुभभासकम् ।
वैकुण्ठस्याखिला वेदा उद्गीर्यन्तेऽनिशं यतः ॥ 7 ॥
स्मरेत यामिनीनाथसहस्रामितकान्तिमत् ।
भवतापापनोदीड्यं श्रीपतेर्मुखपङ्कजम् ॥ 8 ॥
पूर्णानन्यसुखोद्भासि मन्दस्मितमधीशितुः ।
गोविन्दस्य सदा चिन्त्यं नित्यानन्दपदप्रदम् ॥ 9 ॥
स्मारामि भवसन्तापहानिदामृतसागरम् ।
पूर्णानन्दस्य रामस्य सानुरागावलोकनम् ॥ 10 ॥
ध्यायेदजस्रमीशस्य पद्मजादिप्रतीक्षितम् ।
भ्रूभङ्गं पारमेष्ठ्यादिपददायि विमुक्तितदम् ॥ 11 ॥
(7)सन्ततं चिन्तयेऽनन्तमन्तकाले विशेषतः ।
नैवोदापुर्गृणन्तोऽन्तं यद्गुणानामजादयः ॥ 12 ॥
॥ इति श्रीमदानन्दतीर्त्थभगवत्पादाचार्यविरचितेषु द्वादशस्तोत्रेषु प्रथमं स्तोत्रम् ॥
F.N.
1. आच्छादयति सर्वं वासयति वसति च सर्वत्रेति वासुः ।
देवाशब्दार्थ उक्तः पुरस्तात् । -गीताभाष्ये 10/37
`छादयामि जगद् विश्वं भूत्वा सूर्य इवांशुभिः ।
सर्वभूताधिवासश्च वासुदेवस्ततो ह्यहम्'। मोक्षधर्मे । -गीताभाष्ये 10/37
`वानात्सूतेर्देवनाद्वासुदेवो वासाद्द्युतेश्छादनात्क्रीडया वा ।
बलादसुत्वाद्दातृतो वर्तनाच्च तं वासुदेवं प्रवदन्ति वेदाः'
इति च सौकरायणश्रुतिः । -इति कर्मनिर्णये
2. सब्रह्मरुद्रमरुदश्विदिवाकरादिमूर्धन्यरत्नपरिघट्टितपादपीठः ।
-म.भा.नि.9/12
3. `सर्वं स्मर्तुमशक्तः सन्नेकाङ्गं चिन्तयेद्बुधः' इति च ॥
-भा.ता.3/29/6
`यावत्समग्रस्मरणमचलं केशवे भवेत् ।
समग्रं चिन्तयेत्तावद्यदा तु विचलेत्ततः ।'
प्रत्यङ्गं धारणं कुर्यान्मनो यावत्समग्रगम् ।
प्रत्यङ्गाभ्यासतो यावत्समग्रे सुस्थिरं मनः ।
तदा पुनः समग्रं तु धारयेद्यत्नतो बुधः ।
यदा तु धारणोत्साहं विना तत्राचलं मनः ।
तिष्ठेत्त्यक्त्वा यमुद्योगं शङ्खचक्राम्बुजाङ्किते ।
आरूढचेताः परमे शृङ्गाराद्येकधामनि ।
नैवान्यच्चिन्तयेत्तस्मात्पूर्णानन्दाच्चतुर्भुजात् ।
यतोऽन्यस्मरणे तस्मान्मनश्चलति सुस्थिरम् ।
धारणार्थप्रयत्नेन तस्मात्तदुभयं त्यजेत् ।
यावत्स्वारूढचेताः स्याद्विष्णो रूपे चतुर्भुजः' इति ध्यानयोगे ॥
भा.ता.11/14/43
4. विष्णोरिन्दिरावासमुत्तमैः । (हृ.); विष्णोरिन्दिरावासमुत्तमम् । (प्र.)
5. चक्रशङ्खगदापद्मधराश्चिन्त्या । इति क्वचित्
6. दिवाकरौघकौस्तुभासकोरुकन्धरः । -म.भा.ता.नि.9/78
7. `अनन्तमिति वेत्तीशस्त्वनन्तं त्वन्तवत्तथा ।
अनन्तस्य हि सङ्ख्याने न तु सर्वज्ञता भवेत् ।
अनन्तमपि वेत्तीशः प्रत्येकं च विशेषतः ।
सर्वज्ञात्वान्न सङ्ख्यानमसङ्ख्यस्य कुतो हि सा'इति च ॥
-भा.ता.11/16/39
`प्रत्येकशो गुणानां तु निःसीमत्वमुदीर्यते ।
तदानन्त्यं तु गुणतस्ते चानन्ता हि सङ्ख्यया ।
अतोऽनन्तगुणो विष्णुर्गुणतोऽनन्त एव च' तन्त्रभागवते ॥
-भा.ता.6/4/48
`कालकोटिविहीनत्वं कालानन्त्यं विदुर्बुधाः ।
देशकोटिविहीनत्वं देशानन्त्यं तथैव च ।
गुणानामप्रमेयत्वं वस्त्वानन्त्यं विदो विदुः ।
आनन्त्यं त्रिविधं नित्यं हरेर्नान्यस्य कस्यचित् ।
तस्य सर्वस्वरूपेष्वप्यानन्त्यं तु त्रिलक्षणम् ।
तथाऽपि देशतस्तस्य परिच्छेदोऽपि विद्यते ।
परिच्छेदस्तथा व्याप्तिरेकरूपेऽपि युज्यते ।
तस्याचिन्त्याद्भुतैश्वर्याद्व्यवहारार्थमेव च ।
गुणतः कालतश्चैव परिच्छेदौ न कुत्रचित् ।
व्याप्तत्वं देशतोऽप्यस्ति सर्वरूपेषु यद्यपि ।
न च भेदः क्वचित्तेषामणुमात्रोऽपि विद्यते ।
तथापि विद्यतेऽणुत्वं यस्मादैश्वर्ययोगतः ।
तस्माद्बुद्ध्यवतारार्थमव्याप्तत्वं च भण्यते । -भा.ता.3/12/2
आधिव्याधिनिमित्तेन विक्षिप्तमनसोऽपि तु । -अनुव्याख्याने 4/1/36
`सर्वव्यापी तु भगवाननन्त इति कीर्तितः । -बृहद्भाष्ये
`त्यजन् देहं न कश्चित्तु मोहमाप्नोत्यसंशयम्' इति च स्कान्दे ।
-गीताभाष्ये 8/6,7
सदा तद्भावभावित इत्यन्तकाले स्मरणोपायमाह । भावोऽन्तर्गतं मनः ।
तथाऽभिधानात् । भावितत्वमतिवासितत्वम् ।`भावना त्वतिवासना' इत्यभिधानात्॥
-गीताभाष्ये 8/6,8
देशतः कालतश्चैव गुणतश्च त्रिधा ततिः ।
सा समस्ता हरेरेव नह्यन्ये पूर्णसद्गुणाः ॥ परमश्रुतिः ॥
-गीतातात्पर्ये 2/17
(1)द्वितीयं स्त्रोत्रम्
(2)सुजनोदधिसंवृद्धिपूर्णचन्द्रो गुणार्णवः ।
अमन्दानन्दसान्द्रो नः प्रीयतामिन्दिरापतिः ॥ 1 ॥
रमाचकोरीविधवे (3)दुष्टदर्पोदवह्नये ।
सत्पान्थदजनगेहाय नमो नारायणाय ते ॥ 2 ॥
(4)चिदचिद्भेदमखिलं विधायाधाय भुञ्जते ।
अव्याकृतगुहस्थाय रमाप्रणयिने नमः ॥ 3 ॥
अमन्दगुमसारोऽपि मन्दहासेन वीक्षितः ।
नित्यमिन्दिरयाऽऽनन्दसान्द्रो यो नौमि तं हरिम् ॥ 4 ॥
(5)वशी वशे न कस्यापि योऽजितो विजिताखिलः ।
सर्वकर्ता न क्रियते तं नमामि रमापतिम् ॥ 5 ॥
(6)अगुणाय गुणोद्रेकस्वरूपायादिकारिणे ।
विदारितारिसङ्घाय वासुदेवाय ते नमः ॥ 6 ॥
(7)आदिदेवाय देवानां पतये सादितारये ।
अनाद्यज्ञानपाराय (8)नमो वरवराय ते ॥ 7 ॥
अजाय जनयित्रेऽस्य विजिताखिलदानव ।
अजादिपूज्यपादाय नमस्ते गरुडध्वज(9) ॥ 8 ॥
(10)इन्दिरामन्दसान्द्राग्य्रकटाक्षप्रेक्षितात्मने ।
अस्मदिष्टैककार्याय पूर्णाय हरये नमः(11) ॥ 9 ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितेषु द्वादशस्तोत्रेषु द्वितीयं स्तोत्रम् ॥
F.N
1. हृषिकेशतीर्थीय पाठे इदं स्तोत्रं न पठ्यते । तत्त्वसङ्ख्यानान्ते पठ्यते ।
2. स्वजनोदधिसंवृद्धिपूर्णचन्द्रा (हृ.)
3. दुष्टसर्प्पोदवह्नये (पा.)
4. `षड्विकाराः शरीरस्य न विष्णोस्तद्गतस्य तु ।
तदधीनं शरीरं च ज्ञात्वा तन्ममतां त्यजेत्'इति च ॥ -भा.ता.7/7/18
5. `सर्वमस्य वशे यस्माद्धरिः सर्ववशी ततः । -बृहदारण्यकोपनिषद्भाष्ये
6. `स्वे स्वेऽधिकारे या निष्ठा स गुणः परिकीर्तितः ।
विपर्ययस्तु दोषः स्यादुभयोरेष निर्णयः' इति च ॥ -भा.ता.11/20/5
`अगुणोऽगुणदेहत्वात्सगुणो गुणधारणात् ।
ऐश्वर्यादिगुणत्वाद्वा वासुदेव इतीर्यते'इत्याग्नेये ॥ -भा.ता.10/4/20
7. `आदिनो राक्षसाः प्रोक्तास्तदन्तत्वाज्जनार्दनः ।
आद्यान्त इति विज्ञेयः परेशो ब्रह्मणीशनात्' इति ब्राह्मे ॥भा.ता.10/35/24
8. नमः पारावराश्रय (हृ.)
9. रमारमण एवैको रणजिच्छरणं सताम् ।
कारणं कारणस्यापि तरुणादित्यसप्रभः ॥ -इति अधिकः हृ.पाठे
10. हरिः सर्वयज्ञादिभागाहारित्वात्- `इडोपहूतं हरे भागं क्रतुष्वहम् ।
वर्णो मे हरितः श्रेष्ठस्तस्माद्धरिरिति स्मृतः' इति मोक्षधर्मे ॥
-गीताभाष्ये 11/9
11. एवंविधः परो विष्णुरव्याच्छ्रीपुरुषोत्तमः ।
तमहं सर्वदा वन्दे श्रीनिकेतं परं हरिम् ॥ -इति अधिकः हृ.पाठे
तृतीयं स्तोत्रम्
कुरु भुङ्श्व च कर्म निजं (1)नियतं हरिपादविनम्नधिया सततम् ।
(2)हरिरेव परो हरिरेव गुरुर्हरिरेव जगत्पितृमातृगतिः ॥ 1 ॥
(3)न ततोऽस्त्यपरं (4)जगतीड्यतमं परमात्परतः पुरुषोत्तमतः ।
तदलं बहुलोकविचिन्तनया (5)प्रवणं कुरु मानसमीशपदे ॥ 2 ॥
यततोऽपि हरेः परसंस्मरणे सकलं ह्यघमाशु लयं व्रजति ।
स्मरतस्तु विमुक्तिपदं परमं स्फुटमेष्यति तत्किमपाक्रियते ॥ 3 ॥
शृणुतामलसत्यवचः परमं शपथेरितमुच्छ्रितबाहुयुगम् ।
न हरेः परमो न हरेः सदृशः परमः स तु सर्वचिदात्मगणात् ॥ 4 ॥
(6)यदि नाम परो (7)न भवेत्स हरिः कथमस्य वशे जगदेतदभूत् ।
यदि नाम न तस्य वशे सकलं कथमेव तु नित्यसुखं न भवेत्(8) ॥ 5 ॥
(9)न च कर्मविमामलकालगुणप्रभृतीशमचित्तनु तद्धि यतः ।
चिदचित्तनु सर्वमसौ तु हरिर्यमयेदिति वैदिकमस्ति वचः ॥ 6 ॥
व्यवहारभिदाऽपि गुरोर्जगतां न तु चित्तगता नस हि चोद्यपरम् ।
(10)बहवः पुरुषाः पुरुषप्रवरो हरिरित्यवदत्स्वयमेव हरिः ॥ 7 ॥
चतुराननपूर्वविमुक्तगणा हरिमेत्य तु पूर्ववदेव सदा ।
नियतोच्चविनीचतयैव निजां स्थितिमापुरिति स्म परं वचनम् ॥ 8 ॥
आनन्दतीर्थसन्नान्मा पूर्णप्रज्ञाभिधायुजा ।
कृतं हर्यष्टकं भक्त्या पठतः प्रीयते हरिः ॥ 9 ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिषु द्वादशस्तोत्रेषु तृतीयं स्तोत्रम् ॥
F.N.
1. अतो नियतं वर्णाशमोचितं कर्म कुरु ॥ -गीताभाष्ये 3/8
2. `परः स्वो हरिरुद्दामा इति नामचतुष्टयम् ।
विष्णोर्गुह्य तु यो वेद सर्वपापैः प्रमुच्यते' (प्रकाशिका)।
भा.ता.10/1/43
`पतित्वेन श्रियोपास्यो ब्रह्मणा मे पितेति च ।
पितामहतयाऽन्येषां त्रिदशानां जनार्दनः ।
प्रपितामहो मे भगवानिति सर्वजनस्य तु ।
गुरुः श्रीब्रह्मणोर्विष्णुः सुराणां च गुरोर्गुरुः ।
मूलभूतो गुरुः सर्वजनानां पुरुषोत्तमः ।
गुरुर्ब्रह्माऽस्य जगतो दैवं विष्णुः सनातनः ।
इत्येवोपासनं कार्यं नान्यथा तु कथञ्चन' इति वाराहे ॥
-भा.ता.10/27/15
`अनित्यसम्बन्धयुताः पित्राद्या नित्ययुग्घरिः' इति च ॥
-भा.ता.6/16/9
3. `दुग्धदोहां तु गां रक्षेत्क्षीरमात्रप्रयोजनः ।
यथा तद्वद्धरेरन्यवाचोधारणमिष्यते' इति हरिवंशेषु ॥
-भा.ता.11/11/20
4. जगदीड्यतमं (हृ.)
5. `भावो भक्तिः प्रणामश्च प्रावण्यमपि चादरः' इत्यभिधानात् ॥
-भा.ता./2/749
`सर्वनामा यतो विष्णुस्तदन्यार्थान्न तु स्मरेत् ।
स्मरंस्तु यावदर्थः स्यादन्यथा स्वात्महा स्मृतः' ब्रह्माण्डे ॥
-भा.ता.2/2/1,2
6. अचेतनासत्यायोग्यान्यनुपास्यान्यफलत्वविपर्ययाभ्याम् ।
इति सङ्कर्षणमसूत्रन् ।
-छान्दोग्योपनिषद्भाष्ये
`कथं देहपरो देवो न लिप्यत हि बन्धनैः ।
कथं न दुःखीं सभवेद्दुःखी चेदिश्वरः कुतः । इत्यादि -भा.ता.3/8/9
यमः कालो मानुषाणां तस्य कालः सुदर्शनः ।
तस्यापि रुद्रस्तत्कालो ब्रह्मा दुर्गाऽपि तस्य तु ।
सा ब्रह्मप्रले देवी वर्तते चक्ररूपिणी । इत्यादि ।
-भा.ता.3/12/38
न च जडानां स्वतः प्रवृत्तिः सम्भवति । -गीताभाष्ये 3/15
7. न भवेत हरिः (हृ.)
8. स एव सर्ववेत्ता हरिः ।
नान्यो वेत्ता स्वतन्त्रोऽस्ति जीवाः सर्वे हि दुःखिनः ।
यदि स्वतन्त्रा नैवैते दुःखिनः स्युः कदाचन ।
अत आर्तिमतामार्तिदाता मुक्तिप्रदश्च सः ।
भगवान्परमो विष्णुः स्वतन्त्रः सर्वदैकराद्' इत्यादि महामीमांसायाम् ॥
-इति बृहद्भाष्ये
9. `अचेतनं चेतनेभ्यो दैवतेभ्यश्च चेतनाः ।
देवाः प्राणाच्च स प्रामो विष्णोरेव सदैव तु ।
स्वभावं च प्रवृत्तिं च विकारं च समान्पुयुः ।
कश्चिद्भाव ऋते तेषां नैतत्स्याच्च कदाचन ।
अचेतनप्रवृत्तौ तु न दृष्टान्तोऽस्ति कश्चन ।
चेतनानां प्रवृत्तेश्च दृष्टत्वादेव सर्वशः ।
अदृष्टं दृष्टवज्ज्ञेयं यथा दृष्टप्रणेतृकम् ।
विसर्पत्तण्डुलं दृष्ट्वा कल्प्या तत्र पिपीलिका ।
न तद्दृष्ट्वैव दृष्टानामपिपीलिकसर्पणम् ।
एवं दृष्टानुसारेण चिदधीनमचेतनम् ।
दुर्घटा शक्तिरपि हि पिशाचानां हि दृश्यते ।
देवानां किमु किम्वेव परमस्य हरेः प्रभोः' इत्यादि ब्रह्मातर्के ।
-छान्दोग्योपनिषद्भाष्ये
10. जनमेजय उवाच- बहवः पुरुषा ब्रह्मन् उताहो एक एव तु ।
को ह्यत्र पुरुषश्रेष्ठस्तं भवान्वक्तुमर्हसि ॥
वैशम्पायन उवाच- नैतदिच्छन्ति पुरुषमेकं कुरुकुलोद्वह ।
बहूनां पुरुषाणां हि यथैका योनिरुच्यते ।
तथा तं पुरुषं विश्वमाख्यास्यामि गुणाधिकम् ॥
-भारते (शान्ति.मोक्षधर्मे.......)
चतुर्थं स्तोत्रम्
निजुपूर्णसुखामितबोधतनुः परशक्तिरनन्तगुणः परमः ।
अजरामरणः सकलार्तिहरः कमलापतिरीड्यतमोऽवतु नः ॥ 1 ॥
यदसुप्तिगतोऽपि (1)हरिः सुखवान् सुखरूपिणमाहुरतो निगमाः ।
स्वमतिप्रभवं जगदस्य यतः परबोधतनुं च ततः खपतिम् ॥ 2 ॥
बहुचित्रजगद्बहुधाकरमात्परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥ 3 ॥
स्मरणे हि परेशितुरस्य विभोर्मलिनानि मनांसि कुतः करणम् ।
विमलं हि पदं परमं स्वरतं तरुणार्क्कसवर्णमजस्य हरेः ॥ 4 ॥
विमलैः श्रुतिशाणनिशाततमैः सुमनोंऽसिभिराशु निहत्य दृढम् ।
बलिनं निजवैरिणमात्मतमोभिदमीशमनन्तमुपास्व हरिम् ॥ 5 ॥
स हि विश्वसृजो (2)विभुशम्भुपुरन्दरसूर्यमुखानपरानपरान् ।
सृजतीड्यतमोऽवति हन्ति निजं पदमापयति प्रणातान्सुधिया ॥ 6 ॥
परमोऽपि रमेशितुरस्य समो न हि कश्चिदभून्न भविष्यति च ।
क्कचिदद्यतनोऽपि न पूर्णसदागणितेड्यगिणानुभवैकतनोः ॥ 7 ॥
(3)इति देववरस्य हरेः स्तवनं कृतवान् (4)मुनिरुत्तममादरतः ।
सुखतीर्त्थपदाभिहितः पठतस्तदिदं भवति ध्रुवमुच्चसुखम् ॥ 8 ॥
॥ इति श्रीमदानन्दतीर्थभागवत्पादाचार्यविरचितेषु द्वादशस्तोत्रेषु चतुर्थं स्तोत्रम् ॥
F.N.
1. वरिनः सुखवान् (हृ.)
2. विभुशम्भुपुरन्दरसूर्यमुखानपरानमरान् । इति क्वचित्
3. `स हि लोके मुनिर्नाम यः कामक्रोधवर्जितः' इति ॥ -गीताभाष्ये 5/6
`एतेन हीदं सर्वं मतम् । यदनेनेदं सर्वं मतं तस्मान्मुनिस्तस्मान्मुनिरित्याचक्षते' इति हि भाल्लवेयश्रुतिः । -गीताभाष्ये 17/16
4. ओङ्कारो विदितो येन स मुनिर्नेतरो जनः । स मुनिर्नेतरो जन ।
-इति माण्डूकोपनिषत्
पञ्चमं स्तोत्रम्
(1)वासुदेवापरिमेयसुधामन् शुद्धसदोदित सुन्दरीकान्त ।
धराधरधारणवेधुरधर्तः सौधृतिदीधितिवेधृविधातः ॥ 1 ॥
अधिक बन्धं रन्धय बोधाच्छिन्धि पिधानं बन्धुरमद्धा(2) ।
केशव केशव शासक वन्दे पाशधरार्च्चित शूरवरेश ॥ 2 ॥
(3)नारायणामलकारण वन्दे कारमकारण पूर्णवरेण्य ।
माधव माधव साधक वन्दे बाधक बोधक शुद्धसमाधे ॥ 3 ॥
गोविन्द गोविन्द पुरन्दर वन्दे स्कन्दसनन्दनवन्दितपाद ।
(4)विष्णो सृजिष्णो ग्रसिष्णो विवन्दे कृष्ण सदुष्णवधिष्णो सुधृष्मो ॥4॥
मधुसूदन दानवसादन वन्दे (5)दैवतमोदित वेदितपाद ।
त्रिविक्रम निष्क्रम् विक्रम वन्दे (6)सङ्क्रम सुक्रम हुङ्कृतवक्त्र ॥ 5॥
वामन वामन भामन वन्दे सामन सीमन सामन सानो ।
श्रीधर श्रीधर शन्धर वन्दे भूधर वार्धर कन्धरधारिन् ॥ 6 ॥
हृषीकेश सुकेश परेश विवन्दे शरणेश कलेश बलेश सुखेश ।
पद्मनाभ शुभोद्भव वन्दे सम्भृतलोकभराभर भूरे ।
दामोदर दूरतरान्तर(7) वन्दे (8)दारितपारगपार परस्मात् ॥ 7 ॥
(9)आनन्दतीर्थमुनीन्द्रकृता हरिगीतिरियं (10)परमादरतः ।
परलोकविलोकनसूर्यनिबा हरिभक्तिविवर्धनशौण्डतमा ॥ 8 ॥
॥ इति श्रीमदानन्दतीर्थभागवत्पादाचार्यविरचितेषु द्वादशस्तोत्रेषु पञ्चमं स्तोत्रम् ॥
F.N.
1. `तेजः शक्तिः समूहश्च हृगं धामेति कथ्यते' इति तत्त्वनिर्णये ॥
-भा.ता.4/9/85
`धिष्ण्यं तेजश्च सामर्थ्यं महिमा धाम चोत्यते' इत्याभिधानम् ।
-भा.ता.4/20/29
`अनुबन्धस्तु भक्तिः स्याद्बन्धः स्नेह उदाहृतः' इति च ॥
-भा.ता.7/1/48
2. इदं सार्धपद्यं हृ. पाठे न पठ्यते ।
3. नारायणामरतारण (हृ.)
4. विष्णु सृजिष्णु ग्रसिष्णु विवन्दे कृष्णसदुष्णवधिष्ण सुधृष्णो (हृ.)
5. दैवतमोदन (हृ.)
6. सुक्रम सङ्क्रमहुङ्कृतवक्त्र (हृ.)
7. अन्तःस्थित्वा रमणकृदन्तरः (समुदाहृतः) स उदाहृतः ॥
-अनुव्याख्याने 1/2/1
8. दारितपारक पार परस्मात् (हृ.)
9. आनन्दसुतीर्थमुनन्द्रकृता (हृ.)
10. `आदरो भजनं भक्तिर्बहुमानं च सेवनम् ।
पर्यायवाचकाः सर्वे स्मृतस्तिज्जन्म कर्म च' इति शब्दनिर्णये ॥
-भा.ता.11/13/37
हृषीकाणामिन्द्रियाणामीशत्वाच्च हृषीकेशः । तेषां विशेतत ईशत्वं च `यः प्राणे तिष्ठन्' इत्यादौ सिद्धम् । `न मेहृषीकाणि पतन्त्यसत्पथे' इत्यादिप्रयोदाच्च ॥
-गीताभाष्ये 11/36
इतरोऽर्थो मोक्षदर्मे सिद्धः-
`सूर्याचन्द्रमसौ शश्वत् कैशर्मे अंशुसंज्ञितैः ।
बोधयन् स्थापयंश्चैव जगदुत्पद्यते पृथक् ।
बोधनात् स्थापनाच्चैव जगतो हर्षसम्भवात् ।
अग्नीषोमकृतैरेभिः कर्मभिः पाण्डुनान्दन ।
हृषीकेशोऽहमीशानो वरदो लोकभावनः' इति ॥
-गीताभाष्ये 11/36
षष्ठं स्तोत्रम्
मत्स्यकरूप लयोदविहारिन् वेदविनेत्र चतुर्मुखवन्द्य ।
कूर्मस्वरूपक मन्दरधारिन्(1) लोकविधारक देववरेण्य ॥ 1 ॥
सूकररूपक दानवशत्रो भूमिविधारक यज्ञवराङ्ग ।
देव नृसिंह हिरण्यकशत्रो सर्वभयान्तक दैवतबन्धो ॥ 2 ॥
वामन वामन माणववेष दैत्यवरान्तक कारणरूप ।
राम भृगूद्वह सूर्जितदीप्ते क्षत्रकुलान्तक शम्भुवरेण्य ॥ 3 ॥
राघव राघव राक्षसशत्रो मारुतिवल्लभ जानकिकान्त ।
देवकिनन्दन सुन्दररूप (2)रुग्मिणिवल्लभ पाण्डवबन्धो ॥ 4 ॥
देवकिनन्दन नन्दकुमार वृन्दावनाञ्चन गोकुलचन्द्र ।
कन्दफलाशन सुन्दररूप नन्दितगोकुलवपन्दितपाद ॥ 5 ॥
इन्द्रसुतावक नन्दकहस्त चन्दनचर्चित सुन्दरीनाथ ।
इन्दीवरोदरदलनयन मन्दरधारिन् गोविन्द वन्दे ॥ 6 ॥
चन्द्रशतानन कुन्दसुहास नन्दितदैवतानन्दसुपूर्ण ।
दैत्यविमोहक नित्यसुखादे देवसुबोधक बुद्धस्वरूप ॥ 7 ॥
दुष्टकुलान्तक कल्किस्वरूप धर्मविवर्धन मूलयुगादे ।
(3)नारायणामलकारममूर्त्ते पूर्मगुणार्णव नित्यसुबोध ॥ 8 ॥
(4)आनन्दतीर्थमुनीन्द्रकृता हरिगाथा
पापहरा शुभा नित्यसुखार्था ॥ 9 ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितेषु द्वादशस्तोत्रेषु षष्ठः स्तोत्रम् ॥
F.N.
1. लोकाभिधाश्चापि यतो हि मुक्ताः प्रकाशरूपाः सततं च सर्वे ।
ब्रह्मैव लोकाधिपतिर्विमुक्तो भवेदिति प्राह तरश्रुतिश्चा ॥
-अनुव्याख्याने 4/4/10
2. रुक्मिणिवल्लभ (प्र.)
3. हृ.पाठे न पठ्यते ।
4. आनन्दतीर्थकृता (हृ.)
सप्तमं स्तोत्रम्
(1)विश्वस्तितिप्रलयसर्ग्गमहाविभूतिवृत्तिप्रकाशनियमावृतिबन्धमोक्षाः ।
यस्या अपाङ्गलवमात्रत ऊर्ज्जिता सा श्रीर्यत्कटाक्षबलवत्यजितं नमामि ॥1॥
ब्रह्मेशशक्ररविधर्मशशाङ्कपूर्वगीर्वाणसन्ततिरियं यदपाङ्गलेशम् ।
आश्रित्य विश्वविजयं विसृदत्यचिन्त्या श्रीर्यत्कटाक्षबलवत्यजितं नमामि
धर्मार्थकामसुमतिप्रचयाद्यशेषसन्मङ्गलं विदधते यतपाङ्गलेशम् ।
आश्रित्य तत्प्रणतसत्प्रणता अपीड्याः श्रीर्यत्कटाक्षबलवत्यजितं नमामि
षड्वर्गनिग्रहनिरस्तसमस्तदोषा द्ध्यायन्ति विष्णुमृषयो(2) यदपाङ्गलेशम् ।
आश्रित्य यानपि समेत्यन याति दुःखं श्रीर्यत्कटाक्षबलत्यजितं नमामि
शेषाहिवैरिशिवशक्रमनुप्रधानचित्रोरुकर्मरचनं यदपाङ्गलेशम् ।
आश्रित्य विश्वमखिलं विदधाति धाता श्रीर्यत्कटाक्षबलवत्यजितं नमामि
शक्रोग्रदीधितिहिमाकरसूर्यसूनुपूर्वं (3)निहत्य निखिलं यदपाङ्गलेशम् ।
आश्रित्य नृत्यति शिवः प्रकटोरुशक्तिः श्रीर्यत्कटाक्षबलवत्यजितं नमामि
तत्पादपङ्कजमहासनतामवाप (4)शर्वादिवन्द्यतरणो यदपाङ्गलेशम् ।
आश्रित्य नागपतिरन्यसुरैर्दुरापां श्रीर्यत्कटाक्षबलत्यजितं नमामि ॥ 7 ॥
नागारिरुग्रबलपौरुष आप (5)विष्णोर्वाहत्वमुत्तमजवो यदपाङ्गलेशम् ।
आश्रित्य (6)शक्रमुखदेवगणैरचिन्त्यं श्रीर्यत्कटाक्षबलवत्यजितं नमामि ॥
आनन्दतीर्त्थमुनिसन्मुखपङ्कजोत्थं साक्षाद्रमाहरिमनः प्रियमुत्तमार्थम्(7) भक्त्या पठत्यदितमात्मनि सन्निधाय यः स्तोत्रमेतदभियाति तयोरभीष्टम् ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितेषु द्वादशस्तोत्रेषु (8)सप्तमं स्तोत्रम् ॥
F.N.
1. `वृत्तिः स्वभावो वृत्तं च स्थितिरित्यभिधीयते' शब्दनिर्णये।
-भा.ता.3/27/23
`ये तु विष्णुमवज्ञाय श्रियमेव ह्युपासते ।
उपेक्ष्य वा हरिं ते तु भूत्वा याज्याः पतन्त्यधः' इति प्रवृत्तिसंहितायाम् ॥ -भा.ता.11/5/10
`दशतः कालतश्चैव वस्तुतश्च त्रिधा हरेः ।
यथानन्त्यं न चान्यस्य प्रकृतेर्देशकालतः ।
तथा शब्दस्य कालस्य देशानन्त्यं न कालतः ।
कालशब्दात्मिका सैव तथाऽपि तु हरेः सदा ।
नास्याः सामर्थ्यालेशोऽपि ज्ञानानन्दगुणेष्वपि ।
ज्ञेयस्तदवरो वायुः शेषवीन्द्रहरास्ततः ।
अवरास्तत इन्द्राद्य गुणैः सर्वैर्न संशयः' इति ब्रह्मवैवर्ते ॥
-भा.ता.3/12/2
2. `नामरूपादि विष्णोस्तु न शक्यं ज्ञातुमञ्जसा ।
तथापि तत्प्रसादेन जानन्ति परमर्षयः' इति पाद्मे ॥
-भा.ता.10/3/37
`मरीचिरत्र्यह्गिरसौ पुलस्त्यः पुलहः क्रतुः ।
वसिष्ठश्च महातेजाः पूर्वे सप्तर्षयः स्मृताः' इति ब्रह्मे ।
-गीतातात्पर्ये 10/6
3. `स्वातन्त्र्यमीश्वरे वेत्ति नैवात्मनि कदाचन ।
ईश्वराधीनमेवात्मन् स्वातन्त्र्यं तु जडान् प्रति ।
तारतम्येन लक्ष्म्यादेर्जीवान् प्रति च सर्वशः ।
यस्तदर्थं समुत्पन्नो यथा रुद्रो यथा यमः ।
हत्वाऽपि स इमान् लोकान् न हन्ति न निबद्ध्यते ।
अज्ञस्तदर्थं जातोऽपि बद्ध्यते दैत्यवद् ध्रुवम् ।
अपरोक्षदृङ् न जातो यस्तदर्थं मुक्तिगं सुखम् ।
ह्रसेत् तस्य परोक्षज्ञः किञ्चिद् दोषेण लिप्यते' इति च ।
-गी.ता.18/17
4. `रुद्राद्याः शेषदेहस्थं विष्णुं संकर्षणाभिधम् ।
शेषान्तर्यामिणं ज्ञात्वा स्वपदं प्रापुरञ्जसा' इति तन्त्रभागवते ॥
-भा.ता.6/15/35
5. विष्णुवाहत्वमुत्तमजवो (हृ.)
6. `यत्प्रसादेन देवेन्द्रो वेदोदितयशा अभूत् ।
सोऽपि विष्णुरमेयात्मा सदा ब्राह्मणवत्सलः' इति हरिवंशेषु ॥
-भा.ता.4/21/37
7. उत्तमोऽर्थो हरिस्त्वेकस्तदन्यन्मध्यमाधमम् ।
-अनुव्याख्याने1/4/118
8. हृ. पाठे श्रीस्तुतिरित्यस्य नाम पठ्यते ।
अष्ठमं स्तोत्रम्
वन्दिताशेषवन्द्योरुवृन्दारकं चन्दनाचर्चितोदारपीनांसकम् ।
इन्दिराचञ्चलापाङ्गनीराजितं मन्दरोद्धारिवृत्तोद्भुजाभोगिनम् ।
प्रीणयामो वासुदेवं देवतामण्डलाखण्डमण्डनं प्रीणयामो वासुदेवम् ॥ 1
सृष्टिसंहारलीसाविलासाततं पुष्टषाड्गुण्यसद्विग्रहोल्लासिनम् ।
दुष्टनिश्शेषसंहारकर्मोद्यतं हृष्टपुष्टानुशिष्टप्रजासंश्रयम् ।
प्रीणयामो वासुदेवं देवतामण्डलाखण्डमण्डनं प्रीणयामो वासुदेवम् ॥ 2
उन्नतप्रार्थिताशेषसंसाधकं सन्नतालौकिकानन्ददश्रीपदम् ।
भिन्नकर्माशयप्राणिसम्प्रेरकं तन्न किं नेति विद्वत्सु मीमांसितम् ।
प्रीणायामो वासुदेवं देवतामण्डसाखण्डमण्डनं प्रीणयामो वासुदेवम् ॥ 3
विप्रमुख्यैः सदा वेदवादोन्मुखैः सुप्रतापैः क्षितीशेश्वरैश्चार्च्चितम् ।
अप्रतर्क्योरुसंविद्गुणं निर्मलं सप्रकाशाजरानन्दरूपं परम् ।
प्रीणयामो वासुदेवं देवतामण्डलाखण्डमण्डनं प्रीणयामो वासुदेवम् ॥ 4
अत्ययो यस्य केनापि न क्वापि हि प्रत्ययो यद्गुणेषूत्तमानां परः ।
सत्यसङ्कल्प एको वरेण्यो वशी मत्यनूनैः सदा वेदवादोदितः ।
प्रीणयामो वासुदेवं देवतामण्डलाखण्डमण्डनं प्रीणयामो वासुदेवम् ॥ 5
पश्यतां दुःखसन्ताननिर्मूलनं दृश्यतां दृश्यतामित्यजेशार्चितम् ।
नश्यतां दूरगं सर्वदाऽप्यात्मगं वश्यतां स्वेच्छया (1)सज्जनेष्वागतम् ।
प्रीणायामो वासुदेवं देवतामण्डलाखण्डमण्डनं प्रीणयामो वासुदेवम् ॥ 6
अग्रजं यः ससर्जाजममग्य्राकृतिं विग्रहो यस्य सर्वे गुणा एव हि ।
उग्र आद्योऽपि यस्यात्मजाग्य्रात्मजः सद्गृहीतः सदा यः परं दैवतम् ।
प्रीणयामो वासुदेवं देवतामण्डलाखण्डमण्डनं प्रीणयामो वासुदेवम् ॥ 7
(2)अच्युतो यो गुणैर्न्नित्यमेवाखिलैः प्रच्युतोऽशेषदोषैः सदा पूर्तितः ।
उच्यते सर्ववेदोरुवादैरजः स्वर्चितो ब्रह्मरुद्रेन्द्रपूर्वैः सदा ।
प्रीणयामो वासुदेवं देवतामण्डलाखण्डमण्डनं प्रीणयामो वासुदेवम् ॥ 8
धार्यते येन विश्वं सदाऽजादिकं वार्यतेऽशेषदुःखं निजध्यायिनाम् ।
पार्यते सर्वमन्यैर्न यत्पार्यते कार्यते चाखिलं सर्वभूतैः सदा ।
प्रीणायामो वासुदेवं देवतामण्डलाखण्डमण्डनं प्रीणयामो वासुदेवम् ॥
सर्वपापानि यत्संस्मृतेः सङ्क्षयं सर्वदा यान्ति भक्त्या विशुद्धात्मनाम्।
(3)शर्वगुर्वादिगीर्वाणसंस्थनदः कुर्वते कर्म यत्प्रीतये सज्जनाः ।
प्रीणयामो वासुदेवं देवतामण्डलाखण्डमण्डनं प्रीणयामो वासुदेवम् ॥
अक्षयं कर्म यस्मिन् परे स्वर्पितं प्रक्षयं यान्ति दुःखानि यन्नमतः ।
अक्षरो योऽजरः सर्वदैवामृतः कुक्षिगं यस्य विश्वं सदाऽजादिकम् ।
प्रीणयामो वासुदेवं देवतामण्डलाखण्डमण्डनं प्रीणयामो वासुदेवम् ॥
नन्दितीर्थोरुसन्नामिनो नन्दिनः संदधानाः सदानन्ददेवे मतिम् ।
मन्दहासारुणापाङ्गदत्तोन्नतिं नन्दिताशेषदेवादिवृन्दं सदा ।
प्रीणयामो वासुदेवं देवतामण्डलाखण्डमण्डनं प्रीणयामो वासुदेवम् ॥
॥ इति श्रीमदानन्दतीर्त्थभहवत्पादाचार्यविचरितेषु द्वादशस्तोत्रेषु अष्टमं स्तोत्रम् ॥
F.N.
1. `सदव सत्यमित्युक्तं सत्यो वायुरुदाहृतः ।
साधुत्वं सत्यता प्रोक्ता साधुर्वायिर्हि सर्वतः'॥ इति शब्दनिर्णये ।
-ऐतरेयोपनिषद्भाष्यम्
`सत् साधुगुणपूर्णत्वादस्मान्नान्यो गुणाधिकः ।
यतोऽतोऽसदिति प्रोक्तं विष्ण्वाख्यं परमं पदम्' इति शब्दनिर्णये ॥
-गीतातात्पर्ये 9/16-19
2. अनित्यत्वं देहहानिर्दुःखप्राप्तिरपूर्णता ।
नाशश्चतुर्विधः प्रोक्तस्तदभावो हरेः सदा ।
तदन्येषां तु सर्वेषां नाशाः केचिद्भवन्ति हि ॥ इति महावाराहे ।
-गीतातात्पर्ये 2/17
3. शर्वगुर्वादिनिर्बाणसंस्थानदः (हृ.)
नवमं स्तोत्रम्
(1)अतिमत तमोहिरिसमितिविभेदन पितामहभूतिद गुणगणनिलय ।
शुभतमकथाशय परम सदोदित जगदेककारण राम रमारमण ॥ 1 ॥
(2)विधिभवमुखसुरसततसुवन्दित रमामनोवल्लभ भव मम शरणम् ।
शुभतमकथाशय परम सदोदित जगदेककारण राम रमारमण ॥ 2 ॥
अगणितगुणगणमयशरीर हे विगतगुणेतर भव मम शरणम् ।
शुभतमकथाशय परम सदोदित जगदेककारण राम रमारमण ॥ 3 ॥
अपरिमितसुखनिधिविमलसुदेह हे विगतसुखेतर भव मम शरणम् ।
शुभतमकथाशय परम सदोदित जगदेककारण राम रमारमण ॥ 4 ॥
प्रचलितलयजलविहरण शाश्वत सुखमय मीन हे भव मम शरणम् ।
शुभतमकथाशय परम सदोदित जगदेककारण राम रमारमण ॥ 5 ॥
सुरदितिजसुबलविलुलितमन्दरधर परकूर्म हे भव मम शरणम् ।
शुभतमकथाशय परम सदोदित जगदेककारण राम रमारमण ॥ 6 ॥
सगिरिवरधरातलवह सुसूकर परम विबोध हे भव मम शरणम् ।
शुभतमकथाशय परम सदोदित जगदेककारम राम रमारमण ॥ 7 ॥
(3)अतिबलदितिसुतहृदयविभेदन जय नृहरेऽमल भव मम शरणम् ।
शुभतमकथाशय परम सदोदित जगदेककारण राम रमारमण ॥ 8 ॥
बलिमुखदितिसुतविजयविनाशन जगदवनाजित भव मम शरणम् ।
शुभतमकथाशय परम सदोदित जगदेककारण राम रमारमण ॥ 9 ॥
अविजितकुनृपतिसमितिविरखण्डन रमावर वीरप भव मम शरणम् ।
शुभतमकथाशय परम सदोदित जगदेककारण राम रमारमण ॥ 10 ॥
खरतरनिशिचरदहन परामृत रघुवर मानद भव मम शरणम् ।
शुभतमकथाशय परम सदोदित जगदेककारम राम रमारमण ॥ 11 ॥
सुललिततनुवर वरद् महाबल यदुवर पार्थप भव मम शरणम् ।
शुभतमकथाशय परम सदोदित जगदेककारम राम रमारमण ॥ 12 ॥
दितिसुतमोहन विमलविबोधन परगुणबुद्ध हे भव मम शरमम् ।
शुभतमकथाशय परम सदोदित जगदेककारम राम रमारमण ॥ 13 ॥
कलिमलहुतवह सुभग महोत्सव शरणद् (4)कल्कीश हे भव मम शरणम् ।
शुभतमकथाशय परम सदोदित जगदेककारम राम रमारमण ॥ 14 ॥
अखिलजनिविलय परसुखकारण परपुरुषोत्तम भव मम शरणम् ।
शुभतमकथाशय परम सदोदित जगदेककारम राम रमारमण ॥ 15 ॥
इति तव नुतिवरसततरतेर्भव सुशरणमुरुसुखतीर्थमुनेर्भगवन् ।
शुभतमकथाशय परम सदोदित जगदेककारम राम रमारमण ॥ 16 ॥
॥ इति श्रीमदानन्दतीर्त्थभगवत्पादाचार्यविरचितेषु द्वादशस्तोत्रेषु नवमं स्तोत्रम् ॥
F.N.
1. `आनन्दरूपो निष्परीमाम एष लोकश्चैतस्माद् रमते तेन रामः'
इति शाण्डिल्यशाख्याम् । रश्च अमश्चेति व्युत्पत्तिः ॥ -गीताभाष्ये 10/31
2. `सर्वोत्तमत्वविज्ञानपूर्वं तत्र मनः सदा ।
सर्वाधिकप्रेमयुक्तं सर्वस्यात्र समर्पणम् ।
अखण्डा त्रिविधा पूजा तद्रत्यैव स्वभावतः ।
पक्षतीत्येव विश्वासस्तदीयोऽहमिति स्मृतिः ।
शरणागतिरेषा स्याद् विष्णौ मोक्षफलप्रदा' इति महाविष्णुपुराणे ।
-गीतातात्पर्ये 18/66
3. `अज्ञानं तु निशा प्रोक्ता दिवा ज्ञानमुदीर्यते'स्कन्दे ॥
-भा.ता.3/10/10
`अज्ञानं सुक्तिशब्दोक्तं स्वप्नश्चैव विपर्यय' इति भारते ॥
-भा.ता.3/28/5
`रात्रिरज्ञानमुद्दिष्टं सम्यग्ज्ञानं दिवा स्मृतम्' इति शब्दनिर्णये ॥
-भा.ता.4/24/62
4. कलेस्तु कात्कारत एव कल्की ज्ञानं कलङ्कं सुखमेव तद्वान् ।
कल्कीति वा तेन समस्तदस्युविनाशनं तेन दिनात् व्यधायि ॥
-म.भा.ता.नि.32/164/
दशमं स्तोत्रम्
अवन श्रीपतिरप्रतिरधिकेशादिभवादे ।
करुणापूर्ण वरप्रद चरितं ज्ञापय मे ते ॥ 1 ॥
सुरवन्द्याधिप सद्वर भरिताशेषगुणालम् ।
करुणापूर्ण वरप्रद चरितं ज्ञापय मे ते ॥ 2 ॥
(1)सकलध्वान्तविनाशक परमानन्दसुधाहो ।
करुणापूर्म वरप्रद चरितं ज्ञापय मे ते ॥ 3 ॥
(2)त्रिजगत्पोत सदार्चितचरणाशपतिधातो ।
करपणापूर्ण वरप्रद चरितं ज्ञापय मे ते ॥ 4 ॥
त्रिगुणातीत विधारक परितो देहि सुभक्तिम् ।
करुणापूर्म वरप्रद चरितं ज्ञापय मे ते ॥ 5 ॥
शरणं कारणभावन भव मे तात सदाऽलम् ।
करुणापूर्ण वरप्रद चरितं ज्ञापय मे ते ॥ 6 ॥
मरणप्राणद पालक जगजीशाव सुभक्तिम् ।
करुणापूर्ण वरप्रद चरितं ज्ञापय मे ते ॥ 7 ॥
तरुणादित्यसर्वणकचरणाब्जामलकीर्ते ।
करुणापूर्ण वरप्रद चरितं ज्ञापय मे ते ॥ 8 ॥
सलिलप्रोत्थसरागकमणिवर्णोच्चनखादे ।
करुणापूर्ण वरप्रद चरितं ज्ञापय मे ते ॥ 9 ॥
(3)खजतूणीनिभपावनवरजङ्गामितशक्ते ।
करुणापूर्ण वरप्रद चरितं ज्ञापय मे ते ॥ 10 ॥
(4)इभहस्तप्रभशोभनपरमोरुस्थरमाले ।
करुणापूर्ण वरप्रद चरितं ज्ञापय मे ते ॥ 11 ॥
असनोत्फुल्लसुपुष्पकलमवर्णावरणान्ते ।
करुणापूर्ण वरप्रद चरितं ज्ञापय मे ते ॥ 12 ॥
(5)शतमोदोद्भवसुन्दरवरपद्मोत्थितनाभे ।
करुणापूर्ण वरप्रद चरितं ज्ञापय मे ते ॥ 13 ॥
जगदागूहकपल्लवसमुक्षे शरणादे ।
करुणापूर्ण वरप्रद चरितं ज्ञापय मे ते ॥ 14 ॥
(6)जगदम्बामलसुन्दरगृहवक्षोवरयोगिन् ।
करुणापूर्ण वरप्रद चरितं ज्ञापय मे ते ॥ 15 ॥
दितिजान्तप्रद चक्रदरगदायुग्वरबाहो ।
करुणापूर्ण वरप्रद चरितं ज्ञापय मे ते ॥ 16 ॥
परमज्ञानमहानिधिवदनश्रीरमणेन्दो ।
करुणापूर्ण वरप्रद चरितं ज्ञापय मे ते ॥ 17 ॥
निखिलाघौघविनाशक परसौख्यप्रददृष्टे ।
करुणापूर्ण वरप्रद चरितं ज्ञापय मे ते ॥ 18 ॥
परमानन्दसुतीर्थसुमुनिराजो हरिगाथाम् ।
(7)कृतवान्नित्यसुपूर्णकपरमानन्दपदैषी ॥ 19 ॥
॥ इति श्रीमदानन्दतीर्त्थभगवत्पादाचार्यविरचितेषु द्वादशस्तोत्रेषु दशमं स्तोत्रम् ॥
F.N.
1. सकलध्वान्तविनाशन (हृ.)
2. `भगवत्पादपोतोऽसौ नान्यपोतसमो भवेत् ।
सन्निधायैव शिष्येषु तदेव प्राप्नुयुर्यतः' इति वामने ॥ -भा.ता.10/3/32
`भगवत्पादनौकाया नेयं नौकोपमा भवेत् ।
तया तीर्त्वा तु तामेव प्राप्य तिष्ठन्ति तत्र यत्'इति ब्राह्मे ॥
-भा.ता.10/3/32
3. कजतूणीनिभपावनवरजङ्गामितशक्ते । (हृ.)
4. इभहस्तप्रभशोभनपरमोरुस्थरमाळे ।
5. शतमोदोद्भवसुन्दरिवररद्मोत्थितनाभे ।
6. जगदम्बामलसुन्दरिगृहवक्षोवरयोगिन् (हृ.)
7. कृतवान्नित्यसुपूर्णकपरमानन्दपदैषिन् (हृ.)
एकादसं स्तोत्रम्
उदीर्णमजरं दिव्यममृतस्यन्द्यधीशितुः ।
आनन्दस्य पदं वन्दे ब्रह्मेन्द्राद्यभिवन्दितम् ॥ 1 ॥
(1)सर्ववेदपदोद्गीतमिन्द्रिराधारमुत्तमम् ।
आनन्दस्य पदं वन्दे ब्रह्मेन्द्राद्यभिवन्दितम् ॥ 2 ॥
सर्वदेवादिदेवस्य विदारितमहत्तमः ।
आनन्दस्य पदं वन्दे ब्रह्मेन्द्राद्यभिवन्दितम् ॥ 3 ॥
उदारमादरान्नित्यमनिन्द्यं सिन्दरीपतेः ।
आनन्दस्य पदं वन्दे ब्रह्मेन्द्राद्यभिवन्दितम् ॥ 4 ॥
इन्दीवरोदरनिभं सुपूर्णं (2)वादिमोहदम् ।
आनन्दस्य पदं वन्दे ब्रह्मेन्द्राद्यभिवन्दितम् ॥ 5 ॥
दातृ सर्वामरैश्वर्यविमुक्त्यादेरहो वरम् ।
आनन्दस्य पदं वन्दे ब्रह्मेन्द्राद्यभिवन्दितम् ॥ 6 ॥
दूराद्दूरतरं यत्तु तदेवान्तिकमन्तिकात् ।
आनन्दस्य पदं वन्दे ब्रह्मेन्द्राद्यभिवन्दितम् ॥ 7 ॥
पूर्णसर्वगुणैकार्मणनाद्यन्तं सुरेशितुः ।
आनन्दस्य पदं वन्दे ब्रह्मेन्द्राद्यभिवन्दितम् ॥ 8 ॥
आनन्दतीर्त्थमुनिना हरेरानन्दरूपिणः ।
कृतं स्तोत्रमिदं पुण्यं (4)पठन्नानन्दतामियात् ॥ 9
॥ इति श्रीमदानन्दतीर्त्थभगवत्पादाचार्यविरचितेषु द्वादशस्तोत्रेषु एकादशं तोत्रम् ॥
F.N.
1. सर्ववेदपदोद्गीतमिन्दिरावासमुत्तमम् । (प्र.)
2. वादिमोहनम् (हृ.)
3. `पदं तु वाचकं प्रोक्तं क्वचिद्वाच्यमपीष्यते' शब्दनिर्णये ॥
-भा.ता.11/16/12
4. पठन्नानन्दमान्पुयात् (हृ.)
द्वादशं स्तोत्रम्
आनन्द मुकुन्द अरविन्दनयन । आनन्दतीर्थपरानन्दवरद ॥ 1 ॥
सुन्दरिमन्दिर गोविन्द वन्दे । आनन्तदीर्थपरानन्दवरद ॥ 2 ॥
चन्द्रकमन्दिरनन्दर वन्दे । आनन्दतीर्थपरानन्दवरद ॥ 3 ॥
चन्द्रुसुरेन्द्रसुवन्दित वन्दे । आनन्दतीर्थपरानन्दवरद ॥ 4 ॥
मन्दारस्यान्दकस्यन्दन वन्दे । आनन्दतीर्थपरानन्दवरद ॥ 5 ॥
(1)वृन्दारकवृन्दसुवन्दित(2) वन्दे । आनन्दतीर्थपरानन्दवरद ॥ 6 ॥
मन्दारस्यन्दितमन्दिर वन्दे । आनन्दतीर्थपरानन्दपरद ॥ 7 ॥
(3)मन्दिरस्यन्दनस्यन्दक वन्दे । आनन्दतीर्थपरानन्दवरद ॥ 8 ।
इन्दिरानन्दकसुन्दर वेन्दे । आनन्दतीर्थपरानन्दवरद ॥ 9 ॥
(4)आनन्दचन्द्रिकास्पन्दन वन्दे । आनन्दतीर्थपरानन्दवरद ॥ 10 ॥
॥ इति श्रीमदानन्दतीर्थ्यभगवत्पादाचार्यविरचितेषु द्वादशस्तोत्रेषु द्वादशः स्तोत्रम् ॥
॥ इति द्वादशस्तोत्रम् ॥
कन्दुकस्तुतिः (श्रीकृष्णपद्यम्)
अम्बरगङ्गाचुम्बितपादः पदतलविदलितगुरुतरशकटः ।
कालियनागक्ष्वेलनिहन्ता सरसिजनवदलविकलितनयनः ॥
कालघनालीकर्बुरकायः शरशतशकलितरिपुशतनिवहः ।
सन्ततमस्मान् पातु मुरारिः सततगसमजवखगपतिनिरतः ॥
॥ इति श्रीमदानन्दतीर्त्थभगवतत्पादाचार्यविरचिता कन्दुकस्तुतिः (श्रीकृष्मपद्यम्) ॥
बिल्वमङ्गलः साधुः
॥ श्रीकृष्णार्पणमस्तु ॥
श्रीमदानन्दतीर्थार्यग्रन्थरत्नसुसङ्ग्रहात् ।
जयतीर्थादिसम्पूज्यौ प्रीयेतां मध्वमाधवौ ॥
लक्ष्मीरामार्यजनुषा प्रभञ्जनसुनामिना ।
भीमसुब्बार्यशिष्येण कृतोऽयं ग्रन्थसङ्ग्रहः ॥
समर्पितं मया भवेत्सुमध्वनुत्तवाणिना ।
रमारमेशपादयोः प्रभञ्जनाभिधायुजा ॥
-----
F.N.
1. वृन्दारवृन्सुवन्दित वन्दे (हृ.)
2. `वृन्दैः प्राप्यतमत्वात्तु वृन्दारक इति स्मृतः' इति च पाद्मे ।
-बृहद्भाष्ये
3. मन्दारस्यान्दितमन्दिर वन्दे (हृ.)
`उन्दनं बिन्दुभावः स्यात्स्यन्दनं स्रवणं स्मृतम्' इत्यभिधानम् ।
भा.ता.3/27/45
4. आनन्दचन्द्रिकास्यन्दक (हृ.)