द्वादशलिङ्गस्तोत्रम्

विकिस्रोतः तः
द्वादशलिङ्गस्तोत्रम्
शङ्कराचार्यः
१९१०

॥ श्री ॥
॥ द्वादशलिङ्गस्तोत्रम् ॥



सौराष्ट्रदेशे वसुधावकाशे
ज्योतिमय चन्द्रकलावतसम् ।
भक्तिप्रदानाय कृतावतार
त सोमनाथ शरण प्रपधे ॥१॥

श्रीशैलशृङ्ग विविधप्रसङ्गे
शेषाद्रिशृङ्गेऽपि सदा वसन्तम् ।
तमर्जुन मल्लिकपूर्वमेन
नमामि ससारसमुद्रसेतुम् ॥२॥

अवन्तिकाया विहितावतार
मुक्तिप्रदानाय च सज्जनानाम् ।
अकालमृत्यो परिरक्षणार्थे
वन्दे महाकालमह सुरेशम् ॥३॥

कावेरिकानर्मदयो पवित्र
समागमे सज्जनतारणाय ।
सदैव मान्धातृपुरे वसन्त
मोंकारमीश शिवमेकमीढे ॥४॥

पूर्वोत्तरे पारलिकाभिधाने
सदाशिव त गिरिजासमेतम् ।
सुरासुराराधितपादपद्म
श्रीवैद्यनाथ सतत नमामि ॥५॥

आमर्दसज्ञे नगरे च रम्ये
विभूषिताङ्ग विविधैश्च भोगै ।
सद्भुक्तिमुक्तिप्रदमीशमेक
श्रीनागनाथं शरणं प्रपद्ये ॥६॥

सानन्दमानन्दवने वसन्त
मानन्दकन्द हतपापवृन्दम् ।
वाराणसीनाथमनाथनाथ
श्रीविश्वनाथं शरणं प्रपद्ये ॥७॥

यो डाकिनीशाकिनिकासमाजे
निषेव्यमाण पिशिताशनैश्च ।
सदैव भीमादिपदप्रसिद्ध
त शकर भक्तहित नमामि ॥८॥

श्रीताम्रपर्णीजलराशियोगे
निबद्धय खेतु निशि बिल्वपत्रे ।
श्रीरामचन्द्रेण समर्चित त
रामेश्वराख्य सतत नमामि ॥९॥

सिंहाद्रिपार्श्वेऽपि तट रमन्त
गोदावरीतीरपवित्रदेशे।
यदर्शनात्पातकजातनाश
प्रजायते त्र्यम्बकमीशमीडे ॥१०॥

हिमाद्रिपार्श्वेऽपि तटे रमन्त
सपूज्यमान सतत मुनीन्द्रै ।
सुरासुरैर्यक्षमहोरगाद्यै
केदारसज्ञ शिवमीशमीडे ॥११॥

एलापुरीरम्यशिवालयेऽस्मि
न्समुल्लसन्त त्रिजगद्वरेण्यम् ।
वन्दे महोदारतरस्वभाव
सदाशिव त धिषणेश्वराख्यम् ॥ १२ ॥

एतानि लिङ्गानि सदैव मर्त्या
प्रात पठन्तोऽमलमानसाश्च ।
ते पुत्रपौत्रैश्च धनैरुदारै
सत्कीर्तिभाज सुखिनो भवन्ति ॥ १३ ॥


इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवत कृतौ द्वादशलिङ्गस्तोत्र संपूर्णम् ।