द्रौपदीचीरहरणम्

विकिस्रोतः तः
द्रौपदीचीरहरणम्
कैलासनाथः एम् ए
१९२९

( १७६ )

द्रौपदीचीरहरणम् ।

सभायामानयनम् ।

दुर्योधन उवाच-

एहि क्षत्तर्द्रौपदीमानयस्व
 प्रियां भार्या संमतां पाण्डवानाम् ।
संमार्जतां वेश्म परैतु शीघ्रं
 तत्रास्तु दासीभिरपुण्यशीला ॥ १ ॥

विदुर उवाच-

दुर्विभाषं भाषितं त्वादृशेन
 न मन्द संवुद्ध्यसि पाशबद्धः ।
प्रपाते त्वं लम्बमानो न वेत्सि
 व्याघ्रान्मृगः कोपयसेऽतिवेलम् ॥ २ ॥
आशीविषास्ते शिरसि पूर्णकोपा महाविषाः ।
मा कोपिष्ठाः सुमन्दात्मन्मा गमस्त्वं यमक्षयम् ॥ ३ ॥
न हि दासीत्वमापन्ना कृष्णा भवितुमर्हति ।
अनीशेन हि राज्ञैषा पणे न्यस्तेति मे मतिः ॥ ४ ॥
अयं धत्ते वेणुरिवात्मघाती
 फलं राजा धृतराष्ट्रस्य पुत्रः ।
द्यूतं हि वैराय महाभयाय
 मत्तो न बुध्यत्ययमन्तकालम् ॥ ५ ॥
नारुन्तुदः स्यान्न नृशंसवादी
 न हीनतः परमभ्याददीत ।
ययास्य वाचा पर उद्विजेत
 न तां वदेद्रुशतीं पापलोक्याम् ॥ ६ ॥

( १७७ )

समुञ्चरन्त्यतिवादाश्च वक्त्रा-
द्यैराहतः शोचति रात्र्यहानि ।
परस्य नामर्मसु ते पतन्ति
तान्पण्डितो नावसृजेत्परेषु ॥ ७ ॥
अजो हि शस्त्रमगिलत्किलैकः
शस्त्रे विपन्ने शिरसास्य भूमौ
निकृन्तनं स्वस्य कण्ठस्य घोरं
तद्वद्वैरं मा कृथाः पाण्डुपुत्रैः ॥ ८ ॥
न किंचिदित्थं प्रवदन्ति पार्था
वनेचरं वा गृहमेधिनं वा ।
तपस्विनं वा परिपूर्णविद्यं
भषन्ति हैवं श्वनराः सदैव ॥ ९ ॥
द्वारं सुघोरं नरकस्य जिह्मं
न बुध्यते धृतराष्ट्रस्य पुत्रः ।
तमन्वेतारो बहवः कुरूणां
द्यूतोदये सह दुःशासनेन ॥ १० ॥
मञ्जन्त्यलावूनि शिलाः प्लवन्ते
मुह्यन्ति नावोम्भसि शश्वदेव ।
मूढो राजा धृतराष्ट्रस्य पुत्रो
न मे वाचः पथ्यरूपाः शृणोति ॥ ११ ॥
अन्तो नूनं भवितायं कुरूणां
सुदारुणः सर्वहरो विनाशः ।
वाचः काव्याः सुहृदां पथ्यरूपा
न श्रूयन्ते वर्धते लोभ एव ॥ १२ ॥

वैशंपायन उवाच-

धिगस्तु क्षत्तारमिति ब्रुवाणो

( १७८ )

दर्पण मत्तो धृतराष्ट्रस्य पुत्रः ।
अवैक्षत प्रातिकामीं सभाया-
मुवाच चैनं परमार्यमध्ये ॥ १३ ॥

दुर्योधन उवाच-

त्वं प्रातिकामिन्द्रौपदीमानयस्व
न ते भयं विद्यते पाण्डवेभ्यः ।
क्षत्ता ह्ययं विवदत्येव भीतो
न चास्माकं वृद्धिकामः सदैव ॥ १४ ॥

वैशम्पायन उवाच-

एवमुक्तः प्रातिकामी स सूतः
प्रायाच्छीघ्रं राजवचो निशम्य ।
प्रविश्य च श्वेव हि सिंहगोष्ठं
समासदन्महिषीं पाण्डवानाम् ॥ १५ ॥

प्रातिकाम्युवाच-

युधिष्ठिरो द्यतमदेन मत्तो
दुर्योधनो द्रौपदि त्वामजैषीत् ।
सा त्वं प्रपद्यस्व धृतराष्ट्रस्य वेश्म
नयामि त्वां कर्मणे याज्ञसेनि ॥ १६ ॥

द्रौपद्युवाच-

कथं त्वेवं वदसि प्रातिकामि-
न्को हि दीव्येद्भार्यया राजपुत्रः ।
मूढो राजा द्यूतमदेन मत्तो
ह्यभून्नान्यत्कैतवमस्य किंचित् ॥ १७ ॥

प्रातिकाम्युवाच-

यदा नाभूत्कैतवमन्यदस्य
तदाऽदेवीत्पाण्डवोऽजातशत्रुः ।

( १७९ )

न्यस्ताः पूर्वं भ्रातरस्तेन राज्ञा
स्वयं चात्मा त्वमथो राजपुत्रि ॥ १८ ॥

द्रौपद्युवाच- गच्छ त्वं कितवं गत्वा सभायां पृच्छ सूतज किं तु पूर्वं पराजैषीरात्मानमथवा नु माम् ॥ १९ ॥ एतज्ज्ञात्वा समागच्छ ततो मां नय सूतज । ज्ञात्वा चिकीर्षितमहं राज्ञो यास्यामि दुःखिता ॥ २० ॥

वैशंपायन उवाच- सभां गत्वा स चोवाच द्रौपद्यास्तद्वचस्तदा । युधिष्ठिरं नरेन्द्राणां मध्ये स्थितमिदं वचः ॥ २१ ॥ कस्येशो नः पराजैषीरिति त्वामाह द्रौपदी । किं नु पूर्वं पराजैषीरात्मानमथवापि माम् ॥ २२ ॥

वैशंपायन उवाच- युधिष्ठिरस्तु निश्चेता गतसत्व इवाभवत् । न तं सूतं प्रत्युवाच वचनं साध्वसाधु वा ॥ २३ ॥

दुर्योधन उवाच- इहैवागत्य पाञ्चाली प्रश्नमेनं प्रभाषताम् । इहैव सर्वे शृण्वन्तु तस्याश्चैतस्य यद्वचः ॥ २४ ॥

वैशंपायन उवाच- स गत्वा राजभवनं दुर्योधनवशानुगः । उवाच द्रौपदीं सूतः प्रातिकामी व्यथन्निव ॥ २५ ॥ सभ्यास्त्वमी राजपुत्र्याह्वयन्ति मन्ये प्राप्तः संशयः कौरवाणाम् । न वै समृद्धिं पालयते लघीयान् यस्त्वां सभां नेष्यति राजपुत्रि ॥ २६ ॥ ( १८० )

द्रौपद्युवाच-

एवं नूनं व्यदधात् संविधाता स्पर्शावुभौ स्पृशतो वृद्धबालौ । धर्मं त्वेकं परमं प्राह लोके स नः शमं धास्यति गोप्यमानः ॥ २७ ॥

सोऽयं धर्मो मा त्यगात्कौरवान् वै सभ्यान्गत्वा पृच्छ धर्म्यं वचो मे । ते मां ब्रूयुर्निश्चितं तत्करिष्ये धर्मात्मानो नीतिमन्तो वरिष्ठाः ॥ २८ ॥

वैशम्पायन उवाच-

श्रुत्वा सूतस्तद्वचो याज्ञसेन्याः सभां गत्वा प्राह वाक्यं तदानीम् । अधोमुखास्ते न च किंचिदूचु- र्निर्बन्धं तं धार्तराष्ट्रस्य बुद्ध्वा ॥ २९ ॥

युधिष्ठिरस्तु तच्छ्रुत्वा दुर्योधनचिकीर्षितम् । द्रौपद्याः संमतं दूतं प्राहिणोद्भरतर्षभ ॥ ३० ॥ एकवस्त्रा त्वधोनीवी रोदमाना रजस्वला । सभामागम्य पाञ्चालि श्वशुरस्याग्रतो भव ॥ ३१ ॥ अथ त्वामागतां दृष्ट्वा राजपुत्रीं सभां तदा । सभ्याः सर्वे विनिन्देरन्मनोभिर्धृतराष्ट्रजम् ॥ ३२॥

वैशम्पायन उवाच- स गत्वा त्वरितं दूतः कृष्णाया भवनं नृप । न्यवेदयन्मतं धीमान्धर्मराजस्य निश्चितम् ॥ ३३ ॥ पाण्डवाश्च महात्मानो दीना दुःखसमन्विताः । सत्येनातिपरीताङ्गा नोदीक्षन्ते स्म किंचन ॥ ३४ ॥ ( १८१ )

ततस्त्वेषां मुखमालोक्य राजा दुर्योधनः सूतमुवाच हृष्टः । इहैवैतामानय प्रातिकामिन् प्रत्यक्षमस्याः कुरवो ब्रुवन्तु ॥ ३५ ॥ ततः सूतस्तस्य वशानुगामी भीतश्च कोपाद्द्रुपदात्मजायाः । विहाय मानं पुनरेव सभ्या- नुवाच कृष्णां किमहं ब्रवीमि ॥ ३६ ॥

दुर्योधन उवाच- दुःशासनैष मम सूतपुत्रो वृकोदरादुद्विजतेऽल्पचेताः । स्वयं प्रगृह्यानय याज्ञसेनीं किं ते करिष्यन्त्यवशाः सपत्नाः ॥ ३७ ॥

वैशंपायन उवाच- ततः समुत्थाय स राजपुत्रः श्रुत्वा भ्रातुः शासनं रक्तदृष्टिः । प्रविश्य तद्वेश्म महारथाना- मित्यब्रवीद्द्रौपदीं राजपुत्रीम् ॥ ३८ ॥ एह्येहि पाञ्चालि जिताऽसि कृष्णे । दुर्योधनं पश्य विमुक्तलज्जा । कुरून् भजस्वायतपत्रनेत्रे धर्मेण लब्धाऽसि सभां परैहि ॥ ३९ ॥ ततः समुत्थाय सुदुर्मनाः सा विवर्णमामृज्य मुखं करेण । आर्ता प्रदुद्राव यतः स्त्रियस्ता वृद्धस्य राज्ञः कुरुपुङ्गवस्य ॥ ४० ॥ ( १८२ )

ततो जवेनाभिससार रोषाद्
दुःशासनस्तामभिगर्जमानः ।
दीर्घेषु नीलेष्वथ चोर्मिमत्सु
जग्राह केशेषु नरेन्द्रपत्नीम् ॥ ४१ ॥
ये राजसूयावभृथे जलेन
महाक्रतौ मन्त्रपूतेन सिक्ताः ।
ते पाण्डवानां परिभूय वीर्यं
बलात्प्रमृष्टा धृतराष्ट्रजेन ॥ ४२ ॥
स तां पराकृष्य सभासमीप-
मानीय कृष्णामतिदीर्घकेशीम् ।
दुःशासनो नाथवतीमनाथवच्
चकर्ष वायुः कदलीमिवार्ताम् ॥ ४३ ॥
सा कृष्यमाणा नमिताङ्गयष्टिः
शनैरुवाचाथ रजस्वलाऽस्मि ।
एकं च वासो मम मन्दबुद्धे
सभां नेतुं नार्हसि मामनार्य ॥ ४४ ॥
ततोऽब्रवीत्तां प्रसभं निगृह्य
केशेषु कृष्णेषु तदा स कृष्णाम् ।
कृष्णं च जिष्णुं च हरि नरं च
त्राणाय विक्रोशति याज्ञसेनि ॥ ४५ ॥
रजस्वला वा भव याज्ञसेनि
एकाम्बरा वाप्यथवा विवस्त्रा ।
द्यूते जिता चासि कृताऽसि दासी
दासीषु वासश्च यथोपजोषम् ॥ ४६ ॥

वैशंपायन उवाच-

प्रकीर्णकेशी पतितार्धवस्त्रा ( १८३ )

दुःशासनेन व्यवधूयमाना ।
ह्रीमत्यमर्षेण च दह्यमाना
शनैरिदं वाक्यमुवाच कृष्णा ॥ ४७ ॥

द्रौपद्युवाच-

इमे सभायामुपनीतशास्त्राः
क्रियावन्तः सर्व एवेन्द्रकल्पाः ।
गुरुस्थाना गुरवश्चैव सर्वे
तेषामग्रे नोत्सहे स्थातुमेवम् ॥ ४८ ॥
नृशंसकर्मंस्त्वमनार्यवृत्त
मा मा विवस्त्रां कुरु मा विकार्षीः ।
न मर्षयेयुस्तव राजपुत्राः
सेन्द्रापि देवा यदि ते सहायाः ॥ ४९ ॥
धर्मे स्थितो धर्मसुतो महात्मा
धर्मश्च सूक्ष्मो निपुणोपलक्ष्यः ।
वाचापि भर्तुः परमाणुमात्र-
मिच्छामि दोषं न गुणान्विसृज्य ॥ ५० ॥
इदं त्वकार्ये कुरुवीरमध्ये
रजस्वलां यत्परिकर्षसे माम् ।
न चापि कश्चित्कुरुतेऽत्र कुत्सां
ध्रुवं तवेदं मतमभ्युपेतः ॥ ५१ ॥
घिगस्तु नष्टः खलु भारतानां
धर्मस्तथा क्षत्रविदां च वृत्तम् ।
यत्र ह्यतीतां कुरुधर्मवेलां
प्रेक्षन्ति सर्वे कुरवः सभायाम् ॥ ५२ ॥
द्रोणस्य भीष्मस्य च नास्ति सत्त्वं
क्षत्तुस्तैथवास्य महात्मनोपि ।

( १८४ )

राज्ञस्तथाहीममधर्ममुग्रं
न लक्ष्यन्ते कुरुवृद्धमुख्याः ॥ ५३ ॥

वैशम्पायन उवाच-

तथा ब्रुवन्ती करुणं सुमध्यमा
भर्तॄन्कटाक्षैः कुपितानपश्यत् ।
सा पाण्डवान्कोपपरीतदेहान्
सन्दीपयामास कटाक्षपातैः ॥ ५४ ॥
हृतेन राज्येन तथा धनेन
रत्नैश्च मुख्यैर्न तथा बभूव ।
यथा त्रपाकोपसमीरितेन
कृष्णाकटाक्षेण बभूव दुःखम् ॥ ५५ ॥
दुःशासनश्चापि समीक्ष्य कृष्णा-
मवेक्षमाणां कृपणान्पतींस्तान् ।
आधूय वेगेन विसंज्ञकल्पा-
मुवाच दासीति हसन्सशब्दम् ॥ ५६ ॥
कर्णस्तु तद्वाक्यमतीव हृष्टः
संपूजयामास हसन्सशब्दम् ।
गान्धारराज: सुबलस्य पुत्र-
स्तथैव दुःशासनमभ्यनन्दत् ॥ ५७ ॥
सभ्यास्तु ये तत्र बभूवुरन्ये
ताभ्यामृते धार्तराष्ट्रेण चैव ।
तेषामभूद् दुःखमतीव कृष्णां
दृष्ट्वा सभायां परिकृष्यमाणाम् ॥ ५८ ॥

भीष्म उवाच-

न धर्मसौक्ष्म्यात्सुभगे विवेक्तुं
शक्नोमि ते प्रश्नमिमं यथावत् ।

( १८५ )

अस्वाम्यशक्तः पणितुं परस्वं
स्त्रियाश्च भर्तुर्वशतां समीक्ष्य ॥ ५९ ॥
त्यजेत सर्वां पृथिवीं समृद्धां
युधिष्ठिरो धर्ममथो न जह्यात् ।
उक्तं जितोऽस्मीति च पाण्डवेन
तस्मान्न शक्नोमि विवेक्तुमेतत् ॥ ६० ॥
द्यूतेऽद्वितीयः शकुनिर्नरेषु
कुन्तीसुतस्तेन निसृष्टकामः ।
न मन्यते तां निकृतिं युधिष्ठिर-
स्तस्मान्न ते प्रश्नमिमं ब्रवीमि ॥ ६१ ॥

द्रौपद्युवाच-

आहूय राजा कुशलैरनार्यै-
र्दुष्टात्मभिर्नैकृतिकैः सभायाम् ।
द्यूतप्रियैर्नातिकृतप्रयत्नः
कस्मादयं नाम निसृष्टकामः ॥ ६२ ॥
अशुद्धभावैर्निकृतिप्रवृत्तै-
रबुध्यमानः कुरुपाण्डवाग्र्यः ।
संभूय सर्वैश्च जितोऽपि यस्मात्
पश्चादयं कैतवमभ्युपेतः ॥ ६३ ॥
तिष्ठन्ति चेमे कुरवः सभाया-
मीशाः सुतानां च तथा स्नुषाणाम् ।
समीक्ष्य सर्वे मम चापि वाक्यं
विव्रूत मे प्रश्नमिमं यथावत् ॥ ६४ ॥
न सा सभा यत्र न सन्ति वृद्धा
न ते वृद्धा ये न वदन्ति धर्मम् ।

( १८६ )

नासौ धर्मो यत्र न सत्यमस्ति न तत्सत्यं यच्छलेनानुविद्धम् ॥ ६५ ॥

वैशंपायन उवाच-

तथा ब्रुवन्तीं करुणं रुदन्ती-
मवेक्षमाणां कृपणान्पतींस्तान् ।
दुःशासनः परुषाण्यप्रियाणि
वाक्यान्युवाचामधुराणि चैव ॥ ६६ ॥
तां कृष्यमाणां च रजस्वलां च
स्नस्तोत्तरीयामतदर्हमाणाम् ।
वृकोदरः प्रेक्ष्य युधिष्ठिरं च
चकार कोपं परमार्तरूपः ॥ ६७ ॥

चीर हरणम् ।

भीम उवाच--

भवन्ति गेहे बन्धक्यः कितवानां युधिष्ठिर ।
न ताभिरुत दीव्यन्ति दया चैवास्ति तास्वपि ॥ १ ॥
काश्यो यद्धनमाहार्षीद्द्रव्यं यच्चान्यदुत्तमम् ।
तथाऽन्ये पृथिवीपाला यानि रत्नान्युपाहरन् ॥ २ ॥
वाहनानि धनं चैव कवचान्यायुधानि च ।
राज्यमात्मा वयं चैव कैतवेन हृतं परैः ॥ ३ ॥
न च मे तत्र कोपोऽभूत्सर्वस्येशो हि नो भवान् ।
इमं त्वतिक्रमं मन्ये द्रौपदी यत्र पण्यते ॥ ४ ॥
एषा ह्यनर्हती बाला पाण्डवान्प्राप्य कौरवैः ।
त्वत्कृते क्लिश्यते क्षुद्रैर्नृशंसैरकृतात्मभिः ॥ ५ ॥
अस्याः कृते मन्युरयं त्वयि राजन्निपात्यते ।
बाहू ते संप्रधक्ष्यामि सहदेवाग्निमानय ॥ ६ ॥

( १८७ )

अर्जुन उवाच-

न पुरा भीमसेन त्वमीहशीर्वदिता गिरः ।
परैस्ते नाशितं नूनं नृशंसैर्धर्मगौरवम् ॥ ७ ॥
न सकामाः परे कार्या धर्ममेवाचरोत्तमम् ।
भ्रातरं धार्मिकं ज्येष्ठं कोऽतिवर्तितुमर्हति ॥ ८ ॥
आहूतो हि परै राजा क्षात्रं व्रतमनुस्मरन् ।
दीव्यते परकामेन तन्नः कीर्तिकरं महत् ॥ ९ ॥

भीमसेन उवाच

एवमस्मिन्कृतं विद्यां यदि नाहं धनञ्जय ।
दीप्तेऽग्नौ सहितौ बाहू निर्दहेयं बलादिव ॥ १० ॥

वैशंपायन उवाच-

तथा तान् दुःखितान्दृष्ट्वा पाण्डवान्धृतराष्ट्रजः ।
कृष्यमाणां च पाञ्चालीं विकर्ण इदमब्रवीत् ॥ ११ ॥
याज्ञसेन्या यदुक्तं तद्वाक्यं विव्रूत पार्थिवाः ।
अविवेकेन वाक्यस्य नरकः सद्य एव नः ॥ १२ ॥
भीष्मश्च धृतराष्ट्रश्च कुरुवृद्धतमावुभौ।
समेत्य नाहतुः किंचिद्विदुरश्च महामतिः ॥ १३ ॥
भारद्वाजश्च सर्वेषामाचार्यः कृप एव च ।
कुत एतावपि प्रश्नं नाहतुर्द्विजसत्तमौ ॥ १४ ॥
ये त्वन्ये पृथिवीपालाः समेताः सर्वतो दिशम् ।
कामक्रोधौ समुत्सृज्य ते ब्रुवन्तु यथामति ॥ १५ ॥
यदिदं द्रौपदी वाक्यमुक्तवत्यसकृच्छुभा ।
विमृश्य कस्य कः पक्षः पार्थिवा वदतोत्तरम् ॥ १६ ॥

वैशंपायन उवाच-

एवं स बहुशः सर्वानुक्त्वांस्तान्सभासदः ।
न च ते पृथिवीपालास्तमूचुः साध्वसाधु वा ॥ १७ ॥

( १८८ )

उक्त्वाऽसकृत्तथा सर्वान्विकर्णः पृथिवीपतीन् ।
पाणौ पाणिं विनिष्पिष्य निःश्वसन्निदमब्रवीत् ॥ १८ ॥
विव्रूत पृथिवीपाला वाक्यं मा वा कथञ्चन ।
मन्ये न्याय्यं यदत्राहं तद्धि वक्ष्यामि कौरवाः ॥ १९ ॥
चत्वार्याहुर्नरश्रेष्ठा व्यसनानि महीक्षिताम् ।
मृगयां पानमक्षांश्च ग्राम्ये चैवातिरक्तताम् ॥ २० ॥
एतेषु हि नरः सक्तो धर्ममुत्सृज्य वर्तते ।
यथाऽयुक्तेन च कृतां क्रियां लोको न मन्यते ॥ २१ ॥
तथेयं पाण्डुपुत्रेण व्यसने वर्तता भृशम् ।
समाहूतेन कितवैरास्थितो द्रौपदीपणः ॥ २२ ॥
साधारणी च सर्वेषां पाण्डवानामनिन्दिता ।
जितेन पूर्वं चानेन पाण्डवेन कृतः पणः ॥ २३ ॥
इयं च कीर्तिता कृष्णा सौबलेन पणार्थिना ।
एतत्सर्वं विचार्याहं मन्ये न विजितामिमाम् ॥ २४ ॥

वैशंपायन उवाच-

एतच्च्रुत्वा महान्नादः सभ्यानामुदतिष्ठत ।
विकर्णं शंसमानानां सौबलं चापि निन्दताम् ॥ २५ ॥
तस्मिन्नुपरते शब्दे राधेयः क्रोधमूर्च्छितः ।
प्रगृह्य रुचिरं वाहुमिदं वचनमब्रवीत् ॥ २६ ॥

कर्ण उवाच-

दृश्यन्ते वै विकर्णेह वैकृतानि बहून्यपि ।
तज्जातस्तद्विनाशाय यथाऽग्निररणिप्रजः॥ २७ ॥
एते न किंचिदप्याहुश्चोदिता ह्यपि कृष्णया ।
धर्मेण विजितामेतां मन्यन्ते द्रुपदात्मजाम् ॥ २८ ॥
त्वं तु केवलवाल्येन धार्तराष्ट्र विदीर्यसे ।
यद् ब्रवीषि सभामध्ये वालः स्थविरभाषितम् ॥ २९ ॥

( १८९ )

न च धर्मं यथावत्त्वं वेत्सि दुर्योधनावर ।
यद् ब्रवीषि जितां कृष्णां न जितेति सुमन्दधीः ॥ ३० ॥
कथं ह्यविजितां कृष्णां मन्यसे धृतराष्ट्रज ।
यदा सभायां सर्वस्वं न्यस्तवान्पाण्डवाग्रजः ॥ ३१ ॥
अभ्यन्तरा च सर्वस्वे द्रौपदी भरतर्षभ ।
एवं धर्मजितां कृष्णां मन्यसे न जितां कथम् ॥ ३२ ॥
कीर्तिता द्रौपदी वाचा अनुज्ञाता च पाण्डवैः ।
भवत्यविजिता केन हेतुनैषा मता तव ॥ ३३ ॥
मन्यसे वा सभामेतामानीतामेकवाससम् ।
अधर्मेणेति तत्रापि शृणु मे वाक्यमुत्तमम् ॥ ३४ ॥
एको भर्ता स्त्रिया देवैर्विहितः कुरुनन्दन ।
इयं त्वनेकवशगा बन्धकीति विनिश्चिता ॥ ३५ ॥
अस्याः सभामानयनं न चित्रमिति मे मतिः।
एकाम्बरधरत्वं वाऽप्यथवाऽपि विवस्त्रता ॥ ३६ ॥
यच्चैषां द्रविणं किंचिद्या चैषा ये च पाण्डवाः ।
सौबलेनेह तत्सर्वं धर्मेण विजितं वसु ॥ ३७॥
दुःशासन सुबालोऽयं विकर्णः प्राज्ञवादिकः ।
पाण्डवानां च वासांसि द्रौपद्याश्चाप्युपाहर ॥ ३८ ॥

वैशंपायन उवाच-

तच्छ्रुत्वा पाण्डवाः सर्वे स्वानि वासांसि भारत ।
अवकीर्योत्तरीयाणि सभायां समुपाविशन् ॥ ३९ ॥
ततो दुःशासनो राजन्द्रौपद्या वसनं बलात् ।
सभामध्ये समाक्षिप्य व्यपाक्रष्टुं प्रचक्रमे ॥ ४०॥
"आकृष्यमाणे वसने विललाप सुदुःखिता ।
ज्ञातं मया वसिष्ठेन पुरा गीतं महात्मना ॥ ४१ ॥
महत्यापदि संप्राप्ते स्मर्तव्यो भगवान् हरिः ।

( १९०)

इति निश्चित्य मनसा शरणागतवत्सलम् ॥
आकृष्यमाणे वसने द्रौपदी कृष्णमस्मरत् ॥ ४२ ॥
शङ्खचक्रगदापाणे द्वारकानिलयाच्युत ।
गोविन्द पुण्डरीकाक्ष रक्ष मां शरणागताम् ॥ ४३ ॥
हा कृष्ण द्वारकावासिन्क्वासि यादवनन्दन ।
इमामवस्थां संप्राप्तामनाथां किमुपेक्षसे ॥ ४४ ॥
गोविन्द द्वारकावासिन्कृष्ण गोपीजनप्रिय ।
कौरवैः परिभूतां मां किं न जानासि केशव ॥ ४५ ॥
हे नाथ हे रमानाथ व्रजनाथार्तिनाशन ।
कौरवार्णवमग्नां मामुद्धरस्व जनार्दन ॥ ४६ ॥
कृष्णकृष्ण महायोगिन् विश्वात्मन् विश्वभावन ।
प्रपन्नां पाहि गोविन्द कुरुमध्येऽवसीदतीम् ॥ ४७ ॥
इत्यनुस्मृत्य कृष्णं सा हरिं त्रिभुवनेश्वरम् ।
प्रारुदद् दुःखिता राजन्मुखमाच्छाद्य भामिनी" ॥ ४८ ॥
तस्य प्रसादाद् द्रौपद्याः कृष्यमाणेऽम्बरे तदा ।
तद्रूपमपरं वस्त्रं प्रादुरासीदनेकशः ॥ ४९ ॥
नानारागविरागाणि वसनान्यथ वै प्रभो ।
प्रादुर्भवन्ति शतशो धर्मस्य परिपालनात् ॥ ५० ॥
ततो हलहलाशब्दस्तत्रासीद्धोरदर्शनः ।
तदद्भुततमं लोके वीक्ष्य सर्वे महीभृतः ॥ ५१ ॥
शशंसुर्द्रौपदीं तत्र कुत्सन्तो धृतराष्ट्रजम् ।
'घिग्धिगित्यशिवां वाचमुत्सृजन्कौरवान्प्रति ॥ ५२ ॥
यदा तु वाससां राशिः सभामध्ये समाचितः।'
तदा दुःशासनः श्रान्तो व्रीडितः समुपाविशत् ॥ ५३ ॥
शशाप तत्र भीमस्तु राजमध्ये बृहत्स्वनः।
क्रोधाद्विस्फुरमाणौष्ठो विनिष्पिष्य करे करम् ॥ ५४ ॥

( १९१ )

भीम उवाच-

इदं मे वाक्यमादध्वं क्षत्रिया लोकवासिनः ।
नोक्तपूर्वं नरैरन्यैर्न चान्यो यद्वदिष्यति ॥ ५५ ॥
यद्येतदेवमुक्त्वाऽहं न कुर्यां पृथिवीश्वराः ।
पितामहानां पूर्वेषां नाहं गतिमवाप्नुयाम् ॥ ५६ ॥
अस्य पापस्य दुर्बुद्धेर्भारतापसदस्य च ।
न पिबेयं बलाद्वक्षो भित्त्वा चेद्रुधिरं युधि ॥ ५७ ॥

वैशंपायन उवाच-

तस्य ते तद्वचः श्रुत्वा रौद्रं लोमप्रहर्षणम् ।
प्रचक्रुर्बहुलां पूजां कुत्सन्तो धृतराष्ट्रजम् ॥ ५८ ॥
न विब्रुवन्ति कौरव्याः प्रश्नमेतमिति स्म ह ।
सुजनः क्रोशति स्मात्र धृतराष्ट्रं विगर्हयन् ॥ ५९ ॥
ततो बाहू समुत्क्षिप्य निवार्य च सभासदः ।
विदुरः सर्वधर्मज्ञ इदं वचनमब्रवीत् ॥ ६० ॥

विदुर उवाच-

द्रौपदी प्रश्नमुक्त्वैवं रोरवीति त्वनाथवत् ।
न च विब्रूत तं प्रश्नं सभ्या धर्मोऽत्र पीड्यते ॥ ६१ ॥
सभां प्रपद्यते प्रश्नः प्रज्वलन्निव हव्यवाट् ।
तं वै सत्येन धर्मेण सभ्याः प्रशमयन्त्युत ॥ ६२ ॥
धर्म्यं प्रश्नमतो ब्रूयादार्यः सत्येन मानवः ।
विब्रूयुस्तत्र तं प्रश्नं कामक्रोधबलातिगाः ॥ ६३ ॥
विकर्णेन यथाप्रज्ञमुक्तः प्रश्नो नराधिपाः ।
भवन्तोऽपि हि तं प्रश्नं विब्रुवन्तु यथामति ॥ ६४ ।।
यो हि प्रश्नं न विब्रूयाद्धर्मदर्शी सभां गतः ।
अनृते या फलावाप्तिस्तस्याः सोऽर्धं समश्नुते ॥ १५ ॥

(१९२ )

यः पुनर्वितथं ब्रूयाद्धर्मदर्शी सभां गतः ।
अनृतस्य फलं कृत्स्नं स प्राप्नोतीति निश्चयः ॥ ६६ ॥

वैशंपायन उवाच-

विदुरस्य वचः श्रुत्वा नोचुः किंचन पार्थिवाः ।
कर्णो दुःशासनं त्वाह कृष्णां दासीं गृहान्नय ॥ ६७ ॥
तां वेपमानां सव्रीडां प्रलपन्तीं स्म पाण्डवान् ।
दुःशासनः सभामध्ये विचकर्ष तपस्विनीम् ॥ ६८ ॥


द्रौपद्या विलापः ।

द्रौपद्युवाच-

पुरस्तात्करणीयं मे न कृतं कार्यमुत्तरम् ।
विह्वलाऽस्मि कृताऽनेन कर्षता बलिना बलात् ॥ १ ॥
अभिवादं करोम्येषां कुरूणां कुरुसंसदि ।
न मे स्यादपराधोऽयं तदिदं न कृतं मया ॥ २ ॥

वैशंपायन उवाच-

सा तेन च समाधूता दुःखेन च तपस्विनी ।
पतिता विललापेदं सभायामतथोचिता ॥ ३ ॥

द्रौपद्यवाच-

स्यंवरे यास्मि नृपैर्दृष्टा रङ्गे समागतः ।
न दृष्टपूर्वा चान्यत्र साऽहमद्य सभां गता ॥ ४ ॥
यां न वायुर्न चादित्यो दृष्टवन्तौ पुरा गृहे ।
साऽहमद्य सभामध्ये दृष्टास्मि जनसंसदि ॥ ५ ॥
यां न मृष्यन्ति वातेन स्पृश्यमानां गृहे पुरा ।
स्पृश्यमानां सहन्तेऽद्य पाण्डवास्तां दुरात्मना ॥ ६ ॥
मृष्यन्ति कुरवश्वेमे मन्ये कालस्य पर्ययम् ।

( १९३ )

स्नुषां दुहितरं चैव क्लिश्यमानामनर्हतीम् ॥ ७ ॥
किंन्वतः कृपणं भूयो यदहं स्त्री सती शुभा ।
सभामध्यं विगाहेऽद्य क्व नु धर्मो महीक्षिताम् ॥ ८ ॥
धर्म्यां स्त्रियं सभां पूर्वे न नयन्तीति नः श्रुतम् ।
स नष्टः कौरवेयेषु पूर्वो धर्मः सनातनः ॥ ९ ॥
कथं हि भार्या पाण्डूनां पार्षतस्य स्वसा सती ।
वासुदेवस्य च सखी पार्थिवानां सभामियाम् ॥ १० ॥
तामिमां धर्मराजस्य भार्या सदृशवर्णजाम् ।
ब्रूत दासीमदासीं वा तत्करिष्यामि कौरवाः ॥ ११ ॥
अयं मां सुदृढं क्षुद्रः कौरवाणां यशोहरः ।
क्लिश्नाति नाहं तत्सोढुं चिरं शक्ष्यामि कौरवाः ॥ १२ ॥
जितां वाऽप्यजितां वापि मन्यध्वं मां यथा नृपाः ।
तथा प्रत्युक्तमिच्छामि तत्करिष्यामि कौरवाः ॥ १३ ॥

भीष्म उवाच-

उक्तवानस्मि कल्याणि धर्मस्य परमा गतिः ।
लोके न शक्यते ज्ञातुमपि विज्ञैर्महात्मभिः ॥ १४ ॥
बलवांश्च यथा धर्मं लोके पश्यति पूरुषः ।
स धर्मो धर्मवेलायां भवत्यभिहतः परः ॥ १५ ॥
न विवेक्तुं च ते प्रश्नमिमं शक्नोमि निश्चयात् ।
सूक्ष्मत्वाद्गहनत्वाच्च कार्यस्यास्य च गौरवात् ॥ १६ ॥
नूनमन्तः कुलस्यास्य भविता न चिरादिव ।
तथा हि कुरवः सर्वे लोभमोहपरायणाः ॥ १७ ॥
कुलेषु जाताः कल्याणि व्यसनैराहता भृशम् ।
धर्म्यान्मार्गान्न च्यवन्ते येषां नस्त्वं वधूः स्थिता ॥ १८ ॥
उपपन्नं च पाञ्चालि तवेदं वृत्तमीदृशम् ।
यत्कृच्छ्रमपि संप्राप्ता धर्ममेवान्ववेक्षसे ॥ १९ ॥

( १९४ )

एते द्रोणादयश्चैव वृद्धा धर्मविदो जनाः ।
शून्यैः शरीरैस्तिष्ठन्ति गतासव इवानताः ॥ २० ॥
युधिष्ठिरस्तु प्रश्नेऽस्मिन्प्रमाणमिति मे मतिः ।
अजितां वा जितां वेति स्वयं व्याख्यातुमर्हति ॥ २१ ॥


प्रतिज्ञाकरणम् ।

वैशंपायन उवाच-

तथा तु दृष्ट्वा बहु तत्र देवीं
रोरूयमाणां कुररीमिवार्ताम् ।
नोचुर्वचः साध्वथवाऽप्यसाधु
महीक्षितो धार्तराष्ट्रस्य भीताः ॥ १ ॥
दृष्ट्वा तथा पार्थिवपुत्रपौत्रां-
स्तूष्णींभूतान्धृतराष्ट्रस्य पुत्रः ।
स्मयन्निवेदं वचनं बभाषे
पाञ्चालराजस्य सुतां तदानीम् ॥ २ ॥

दुर्योधन उवाच-

तिष्ठत्वयं प्रश्नं उदारसत्वे
भीमेऽर्जुने सहदेवे तथैव ।
पत्यौ च ते नकुले याज्ञसेनि
वदन्त्वेते वचनं त्वत्प्रसूतम् ॥ ३ ॥
अनीश्वरं विब्रुवन्त्वार्यमध्ये
युधिष्ठिरं तव पाञ्चालि हेतोः ।
कुर्वन्तु सर्वे चानृतं धर्मराजं
पाञ्चालि त्वं मोक्ष्यसे दासभावात् ॥ ४ ॥
धर्मे स्थितो धर्मसुतो महात्मा
स्वयं चेदं कथयत्विन्द्रकल्पः ।

( १९५ )

ईशो वा ते हनीशोऽथवैष
वाक्यादस्य क्षिप्रमेकं भजस्व ॥ ५ ॥
सर्वे हीमे कौरवेयाः सभायां
दुःखान्तरे वर्तमानास्तवैव ।
न विब्रुवन्त्यार्यसत्वा यथावत् ।
पतींश्च ते समवेक्ष्याल्पभाग्यान् ॥ ६ ॥

वैशंपायन उवाच-

ततः सभ्याः कुरुराजस्य तस्य
वाक्यं सर्वे प्रशशंसुस्तथोच्चैः ।
चेलावेघांश्चापि चक्रुर्नदन्तो
हाहेत्यासीदपि चैवार्तनादः ॥ ७ ॥
श्रुत्वा तु तद्वाक्यमनोहरं त-
द्धर्षश्चासीत्कौरवाणां सभायाम् ।
सर्वे चासन्पार्थिवाः प्रीतिमन्तः
कुरुश्रेष्ठं धार्मिकं पूजयन्तः॥ ८ ॥
युधिष्ठिरं च ते सर्वे समुदैक्षन्त पार्थिवाः ।
किं नु वक्ष्यति धर्मज्ञ इति साचीकृताननाः ॥॥ ९ ॥
किं नु वक्ष्यति बीभत्सुरजितो युधि पाण्डवः ।
भीमसेनो यमौ चोभौ भृशं कौतूहलान्विताः ॥ १० ॥
तस्मिन्नुपरते शब्दे भीमसेनोऽब्रवीदिदम् ।
प्रगृह्य रुचिरं दिव्यं भुजं चन्दनचर्चितम् ॥ ११ ॥
यद्येष गुरुरस्माकं धर्मराजो महामनाः ।
न प्रभुः स्यात्कुलस्यास्य न वयं मर्षयेमहि ॥ १२ ॥
ईशो नः पुण्यतपसां प्राणानामपि चेश्वरः।
मन्यते जितमात्मानं यद्येष विजिता वयम् ॥ १३ ॥
न हि मुच्येत मे जीवन्पदा भूमिमुपस्पृशन् ।

( १९६ )

मर्त्यधर्मा परामृश्य पाञ्चाल्या मूर्धजानिमान् ॥ १४ ॥
पश्यध्वं हायतौ वृत्तौ भुजौ मे परिघाविव ।
नैतयोरन्तरं प्राप्य मुच्येतापि शतक्रतुः ॥ १५ ॥
धर्मपाशसितस्त्वेवमधिगच्छामि सङ्कटम् ।
गौरवेण निरुद्धश्च निग्रहादर्जुनस्य च ॥ १६ ॥
धर्मराजनिसृष्टस्तु सिंहः क्षुद्रमृगानिव ।
धार्तराष्ट्रानिमान्पापान्निष्पिषेयं तलासिभिः ॥ १७ ॥

वैशंपायन उवाच-

तमुवाच तदा भीष्मो द्रोणो विदुर एव च ।
क्षम्यतामिदमित्येवं सर्वं संभाव्यते त्वयि ॥ १८ ॥

कर्ण उवाच-

त्रयः किलमे ह्यधना भवन्ति
दासः पुत्रश्चास्वतन्त्रा च नारी ।
दासस्य पत्नी त्वधनस्य भद्रे
हीनेश्वरा दासधनं च सर्वम् ॥ १९ ॥
प्रविश्य राज्ञः परिवारं भजस्व
तत्ते कार्यं शिष्टमादिश्यतेऽत्र ।
ईशास्तु सर्वे तव राजपुत्रि
भवन्ति वै धार्तराष्ट्रा न पार्थाः ॥ २० ॥
अन्यं वृणीष्व पतिमाशु भामिनि
यस्माद्दास्यं न लभसि देवनेन ।
अवाच्या वै पतिषु कामवृत्ति-
र्नित्यं दास्ये विदितं तत्तवास्तु ॥ २१ ॥
पराजितो नकुलो भीमसेनो
युधिष्ठिरः सहदेवार्जुनौ च ।

( १९७ )

दासीभूतां त्वं हि वै याज्ञसेनि पराजितास्ते पतयो नैव सन्ति ॥ २२ ॥ प्रयोजनं जन्मनि किं न मन्यते पराक्रमं पौरुषं चैव पार्थः । पाञ्चाल्यस्य द्रुपदस्यात्मजामिमां सभामध्ये यो व्यदेवीद्ग्लहेषु ॥ २३ ॥

वैशंपायन उवाच- तद्वै श्रुत्वा भीमसेनोऽत्यमर्षी भृशं निशश्वास तदाऽऽर्तरूपः । राजानुगो धर्मपाशानुबद्धो दहन्निवैनं क्रोधसंरक्तदृष्टिः ॥ २४ ॥

भीम उवाच- नाहं कुप्ये सूतपुत्रस्य राज- न्नेष सत्यं दासधर्मः प्रदिष्टः । किं विद्विषो वै मामेवं व्याहरेयु- र्नादेवीस्त्वं यद्यनया नरेन्द्र ॥ २५ ॥

वैशंपायन उवाच- भीमसेनवचः श्रुत्वा राजा दुर्योधनस्तदा । युधिष्ठिरमुवाचेदं तूष्णींभूतमचेतनम् ॥ २६ ॥ भीमार्जुनौ यमौ चैव स्थितौ ते नृप शासने । प्रश्नं हि च कृष्णां त्वमजितां यदि मन्यसे ॥ २७ ॥ एवमुक्त्वा तु कौन्तेयमपोह्य वसनं स्वकम् । स्मयन्निवेक्ष्य पाञ्चालीमैश्वर्यमदमोहितः ॥ २८॥ कदलीदण्डसदृशं सर्वलक्षणसंयुतम् । गजहस्तप्रतीकाशं वज्रप्रतिमगौरवम् ॥ २९ ॥ अभ्युत्स्मयित्वा राधेयं भीममाधर्षयन्निव । ( १९८ ) द्रौपद्याः प्रेक्षमाणायाः सव्यमूरुमदर्शयत् ॥ ३०॥ भीमसेनस्तमालोक्य नेत्रे उत्फाल्य लोहिते। प्रोवाच राजमध्ये तं सभां विश्रावयन्निव ॥ ३१ ॥ पितृभिः सह सालोक्यं मा स्म गच्छेद् वृकोदरः । यद्येतमूरुं गदया न भिन्द्यां ते महाहवे ॥ ३२ ॥

वैशंपायन उवाच- क्रुद्धस्य तस्य सर्वेभ्यः स्रोतोभ्यः पावकार्चिषः । वृक्षस्येव विनिश्चेरुः कोटरेभ्यः प्रदह्यतः ॥ ३३ ॥

विदुर उवाच- परं भयं पश्यत भीमसेना- त्तबुध्यध्वं पार्थिवाः प्रातिपेयाः । दैवेरितो नूनमयं पुरस्ता- त्परोऽनयो भरतेषूदपादि ॥ ३४ ॥ अतिद्यूतं कृतमिदं धार्तराष्ट्र यस्मात्स्त्रियं विवदध्वं सभायाम् । योगक्षेमौ नश्यतो वः समग्रौ पापान्मन्त्रान्कुरवो मन्त्र्यन्ति ॥ ३५ ॥ इमं धर्मं कुरवो जानताशु ध्वस्ते धर्मे परिषत्संप्रदुष्येत् । इमां चेत्पूर्वं कितवोऽग्लहिष्य- दीशोऽभविष्यदपराजितात्मा ॥ ३६ ॥ स्वप्ने यथैतद्विजितं धनं स्या- देवं मन्ये यस्य दीव्यत्यनीशः । गान्धारराजस्य वचो निशम्य धर्मादस्मात्कुरवो माऽपयात ॥ ३७ ॥ ( १९९ ) दुर्योधन उवाच- भीमस्य वाक्ये तद्वदेवार्जुनस्य स्थितोऽहं वै यमयोश्चैवमेव युधिष्ठिरं ते प्रवदन्त्वनीश- मथो दास्यान्मोदयसे याज्ञसेनि ॥ ३८ ॥

अर्जुन उवाच- ईशो राजा पूर्वमासीद्ग्लहे नः कुन्तीसुतो धर्मराजो महात्मा । ईशस्त्वयं कस्य पराजितात्मा तज्जानीध्वं कुरवः सर्व एव ॥ ३९ ॥

कर्ण उवाच दुश्शासन निवोधेदं वचनं वै प्रभाषितम् । किमनेन चिरं वीर नयस्व दुपदात्मजाम् ॥ दासीभावेन भुङ्क्ष्व त्वं यथेष्टं कुरुनन्दन ॥ ४० ॥

वैशंपायन उवाच- ततो गान्धारराजस्य पुत्रः शकुनिरब्रवीत् । साधु कर्ण महाबाहो यथेष्टं क्रियतामिति ॥ ४१ ॥ ततो दुश्शासनस्तूर्णे द्रुपदस्य सुतां बलात् । प्रवेशयितुमारब्धः स चकर्ष दुरात्मवान् ॥ ४२ ॥ ततो विक्रोशति तदा पाञ्चाली वरवर्णिनी ।

द्रौपद्युवाच- परित्रायस्व मां भीष्म द्रोण द्रौणे तथा कृप ॥ ४३ ॥ परित्रायस्व विदुर धर्मिष्ठो धर्मवत्सल । धृतराष्ट्र महाराज परित्रायस्व वै स्नुषाम् ॥ ४४ ॥ . गान्धारि त्वं महाभागे सर्वज्ञे सर्वदर्शिनि । परित्रायस्व मां भीरुं सुयोधनभयार्दिताम् ॥ ४५ ॥ ( २०० ) त्वमार्ये वीरजननि किं मां पश्यसि यादवीम् । क्लिश्यमानामनार्येण न त्रायसि वधूं स्वकाम् ॥ ४६ ॥ यदि लालप्यमानां मां न कश्चित्किंचिदब्रवीत् । हा हताऽस्मि सुमन्दात्मा सुयोधनवशं गता ॥ ४७ ॥ न वै पाण्डुर्नरपतिर्न धर्मो न च देवराट् । न वायुर्नाश्विनौ वाऽपि परित्रायन्ति वै स्नुषाम् ॥ धिक्कष्टं यदि जीवेयं मन्दभाग्या पतिव्रता ॥ ४८ ॥

विदुर उवाच- शृणोमि वाक्यं तव राजपुत्रि नेमे पार्थाः किंचिदपि ब्रुवन्ति । सा त्वं प्रियार्थं शृणु वाक्यमेत- द्यदुच्यते पापमतिः कृतघ्नः ॥ ४९ ॥ सुयोधनः सानुचरः सुदुष्टः सहैव राजा निकृतः सूनुना च । यद्येष वाचं महदुच्यमानां न श्रोष्यते पापमतिः सुदुष्टः ॥ ५० ॥

वैशंपायन उवाच- इत्येवमुक्त्वा द्रुपदस्य पुत्रीं क्षत्ताऽब्रवीद्धृतराष्ट्रस्य पुत्रम् । मा क्लिश्यतां वै द्रुपदस्य पुत्रीं मा त्वं चरीं द्रक्ष्यसि राजपुत्र ॥ ५१ ॥

वैशंपायन उवाच- तमेवमुक्त्वा प्रथमं धृतराष्ट्र मुवाच ह ।

विदुर उवाच- यद्येवं त्वं महाराज संक्लेशयसि द्रौपदीम् ॥ ५२ ॥ अचिरेणैव कालेन पुत्रस्ते सह मन्त्रिभिः । ( २०१ ) गमिष्यति क्षयं पापः पाण्डवक्षयकारणात् ॥ ५३ ॥ भीमार्जुनाभ्यां क्रुद्धाभ्यां माद्रीपुत्रद्वयेन च । तस्मानिवारय सुतं मा विनाशं विचिन्तय ॥ ५४ ॥

वैशंपायन उवाच- एतच्छ्रुत्वा मन्दबुद्धिर्नोत्तरं किंचिदब्रवीत् । ततो दुर्योधनस्तत्र दैवमोहबलात्कृतः ॥ ५५ ॥ अचिन्त्य क्षत्तुर्वचनं हर्षेणायतलोचनः । उरू दर्शयते पापो द्रौपद्या वै मुहुर्मुहुः ॥ ५६ ॥ ऊरौ संदर्यमाने तु निरीक्ष्य तु सुयोधनम् । वृकोदरस्तदालोक्य नेत्रे चोल्फाल्य लोहिते ॥ ५७ ॥ एतत्समीक्ष्यात्मनि चावमानं नियम्य मन्युं बलवान्स मानी । राजानुजः संसदि कौरवाणां विनिष्क्रमन्वाक्यमुवाच भीमः ॥ ५८ । अहं दुर्योधनं हन्ता कर्णे हन्ता धनञ्जयः । शकुनि चाक्षकितवं सहदेवो हनिष्यति ॥ ५९ ॥ इदं च भूयो वक्ष्यामि सभामध्ये बृहद्वचः । सत्यं देवाः करिष्यन्ति यन्नो युद्धं भविष्यति ॥ ६०॥ सुयोधनमिमं पापं हन्ताऽस्मि गदया युधि । शिरः पादेन चास्याहमधिष्ठास्यामि भूतले ॥ ६१ ॥ वक्षः शूरस्य निर्वास्य परुषस्य दुरात्मनः । दुश्शासनस्य रुधिरं पास्यामि मृगराडिव ॥ ६२ ॥

अर्जुन उवाच- भीमसेन न ते सन्ति येषां वैरं त्वया सह । मन्दा गृहेषु सुखिनो न बुद्ध्यन्ते महद्भयम् ॥ ६३ ॥ नैव वाचा व्यवसितं भीम विज्ञायते सताम् । ( २०२ ) यदि स्थास्यन्ति सङ्ग्रामे क्षत्रधर्मेण वै सह ॥ ६४ ॥ दुर्योधनस्य कर्णस्य शकुनेश्च दुरात्मनः । दुश्शासनचतुर्थानां भूमिः पास्यति शोणितम् ॥ ६५ ॥ असूयितारं वक्तारं प्रहृष्टानां दुरात्मनाम् । भीमसेन नियोगात्ते हन्ताऽहं कर्णमाहवे ॥ ६६ ॥ कर्णं कर्णानुगांश्चैव रणे हन्ताऽस्मि पत्रिभिः । ये चान्ये विप्रयोत्स्यन्ति बुद्धिमोहेन मां नृपाः । तान्स्म सर्वाञ्छितैर्बाणैर्नेताऽस्मि यमसादनम् ॥ ६७ ॥ चलेद्धि हिमवान्स्थानान्निष्प्रभः स्याद्दिवाकरः । शैत्यं सोमात्प्रणश्येत मत्सत्यं विचलेद्यदि ॥ ६८ ॥

वैशंपायन उवाच- इत्युक्तवति पार्थे तु श्रीमान्माद्रवतीसुतः। प्रगृह्य विपुलं बाहुं सहदेवः प्रतापवान् ॥ ६९ ॥ सौबलस्य वधप्रेप्सुरिदं वचनमब्रवीत् । क्रोधसंरक्तनयनो निश्वस्य च मुहुर्मुहुः ॥ ७० ॥

सहदेव उवाच- यानक्षान्मन्यसे मूढ गान्धाराणां यशोहर । नैते ह्यक्षाः शिता बाणास्त्वयैते समरे धृताः ॥ ७१ ॥ यथा चैवोक्तवान्भीमस्त्वामुद्दिश्य सबान्धवम् । कर्ताऽहं कर्मणा चास्य कुरुकार्याणि सर्वशः । यदि स्थास्यसि सङ्ग्रामे क्षत्रधर्मेण सौबल ॥ ७२ ॥

वैशंपायन उवाच- सहदेववचः श्रुत्वा नकुलोऽपि विशांपते । दर्शनीयतमो नॄणामिदं वचनमब्रवीत् ॥ ७३ ॥

नकुल उवाच सुतेयं यज्ञसेनस्य द्यूतेऽस्मिन्धृतराष्ट्रजैः । ( २०३ ) यैर्वाचः श्राविता रूक्षा धूर्तैर्दुर्योधनप्रियैः ॥ ७४ ॥ धार्तराष्ट्रान्सुदुर्वृत्तान्मुमूर्षुन्कालचोदितान् । दर्शयिष्यामि भूयिष्ठमहं वैवस्वतक्षयम् ॥ ७५ ॥ उलूकं च दुरात्मानं सौबलस्य प्रियं सुतम् । हन्ताऽहमस्मि समरे मम शत्रुं नराधमम् ॥ ७६॥ निदेशाद्धर्मराजस्य द्रौपद्याः पदवीं चरन् । निर्धार्तराष्ट्रां पृथिवीं कर्तास्मि नचिरादिव ॥ ७७ ॥

द्रौपद्युवाच- यस्माच्चोरुं दर्शयसे यस्माच्चोरुं निरीक्षसे । तस्मात्तव ह्यधर्मिष्ठ ऊरौ मृत्युर्भविष्यति ॥ ७ ॥ यस्माच्चैवं क्लेशयति भ्राता ते मां दुरात्मवान् । तस्माद् रुधिरमेवास्य पास्यते वै वृकोदरः ॥ ७९ ॥ इमं च पापिष्ठमतिं कर्णं ससुतबान्धवम् । सामात्यं सपरिवारं हनिष्यति धनञ्जयः ॥ ८० ॥ क्षुद्रधर्मं नैकृतिकं शकुनिं पापचेतसम् । सहदेवो रणे क्रुद्धो हनिष्यति सबान्धवम् ॥ ८१ ॥

वैशंपायन उवाच- एवमुक्ते तु वचने द्रौपद्या धर्मशीलया । ततोऽन्तरिक्षात्सुमहत्पुष्पवर्षमवापतत् ॥ ८२ ॥ तेषां तु वचनं श्रुत्वा नोचुस्तत्र सभासदः । अर्जुनस्य भयाद्राजन्नभून्निश्शब्दमत्र वै ॥ ८३ ॥

"https://sa.wikisource.org/w/index.php?title=द्रौपदीचीरहरणम्&oldid=309243" इत्यस्माद् प्रतिप्राप्तम्