सामग्री पर जाएँ

देलरामाकथासारः

विकिस्रोतः तः
देलरामाकथासारः
आह्लादभट्टः
१९२३

काव्यमाला ७७. भट्टाह्लादकविरचितो देलरामाकथासारः। मूल्य ७ आणकाः। LYA 10-12

काव्यमाला।

राजानकभट्टाह्लादकविरचितो

देलरामाकथासारः।

प्रथमः सर्गः ।

नमस्कृतिर्यस्य परं सपर्यावर्याप्रसूनैर्न तु धूपदीपैः ।
सदैव युष्मान्महिमा प्रभूतः पायात्स्वदैवस्य हितस्य तस्य ॥ १॥
एषा कथा मौसलशास्त्रदृष्टा भूयिष्ठसद्वाच्यमहाविशिष्टा ।
मनोविनोदाय सतां जनानां गीर्वाणवाण्या क्रियते मयाद्य ॥२॥
धनेशदिग्वारवधूसुवेशो देशो धरामण्डलहारिभूषा ।
अस्ति प्रभूताद्भुतवस्तुलाभो नाम्ना हलाभो जगति प्रतीतः ॥ ३ ॥
यत्राङ्गनालिङ्गनमद्यपानक्रीडाप्रपञ्चेष्वभवद्धि चिन्ता ।
कलिश्च नित्यं शुकशारिकासु मन्युः सपत्नीषु परस्परं च ॥ ४ ॥
कचग्रहस्तत्र मृगेक्षणासु नाशो बभूवाखिलदुनयेषु ।
पातोऽपि लीलाधृतकन्दुकेषु घातः स्मरास्त्रैस्तरुणेषु यत्र ॥ ५ ॥
वराङ्गनानूपुरयुग्म एव यत्र प्रहृद्यं मुखरत्वमासीत् ।
प्रतोदघातस्तुरगेषु चापध्वनिः सुधासूतिवसन्तशत्रौ ॥६॥
सामर्षनारीपरिसान्त्वनेषु वचोहरप्रेषणमेव चासीत् ।
किं चापि नित्यं रतियुद्धकाले यूनां जनानामतिनिर्दयत्वम् ॥ ७ ॥
यत्राभवद्वाष्पजलप्रपातो बालाङ्गनानां नवसंगमेषु ।
पीडाभवच्चासुरदच्छदेन वातूलचेष्टा मधुघूर्णितेषु ॥ ८ ॥
वैवर्ण्यमासीन्मदनातुरेषु कम्पोऽभिषेकावसरे वधूनाम् ।
शङ्काभवत्तत्सुरताप्तिहेतोर्यस्मिन्पुरे चेतसि कामुकानाम् ॥ ९ ॥


वक्रोक्तिरासील्लटभाङ्गनासु नैष्ठुर्यमेतत्कुचमण्डलेषु ।
गर्हाप्यभूद्दुष्कृतकार्य एव नित्यं नराणां सुकृताश्रयाणाम् ॥ १० ॥•
याच्ञाभवत्कामिजनस्य बालवराङ्गनालिङ्गनचुम्बनेषु ।
अधोगतिर्द्राग्जरतीस्तनेषु तदीयकेशेषु च मन्दभावः ॥ ११ ॥
कृशत्वमासील्ल्लनोदरेषु छेदोऽपि पुष्पावचये तरूणाम् ।
स्तम्भोऽप्यनङ्गप्रभवोऽभिकेषु रते नवोढाकरुणप्रलापः ॥ १२॥
मनस्विनीसान्त्वन एव चाटु तभ्द्रूषु कौटिल्यमभूत्सुहारि ।
व्यथा हि कामाहिततीक्ष्णबाणपातेन पान्थेषु रतोत्सुकेषु ॥ १३ ॥
धिग्वाद आसीत्परिचुम्बनेन यूनां नवोढानवसंगमेषु ।
कोपः क्षणं भर्तृषु मानिनीनां कृतापराधेष्वपरारतेन ॥ १४ ॥
तत्राभवद्विश्रुतकीर्तिपूरः संग्राममध्ये प्रवरः सुवीरः ।
साधुर्दयालुः सरलोऽतिधीरो राजा सुरत्राणमहम्मदाख्यः ॥ १५ ॥
तस्यातिभक्ता हितकार्यसक्ता नानाप्रतीता खलु मेरभक्ता ।
बभूव चेतोहरकान्तिरूपा भार्या निजान्तःपुरमुख्यभूता ॥ १६ ॥
तया समं चापरकामिनीभिः शृङ्गारकेलीर्विविधाः स कुर्वन् ।
बभार नो जातुचिदेव राज्यकार्यादिचिन्तां हृदि निर्विमर्शः ॥ १७ ॥
त्यक्तप्रजाजस्रविचार्यकार्ये तस्मिन्प्रयाते विपुले च काले ।
अदर्शनालापवशादमात्यवर्या विरक्ता निखिला बभूवुः ॥ १८ ॥
तस्यैकदा भूमिपतेः पुरस्तान्निरीक्षितुं वक्रमुपानिनाय ।
सुनिर्मलं दर्पणमुच्चशोभं बाह्याङ्गने नापित एक एव ॥ १९ ॥
आदर्शमध्ये स ददर्श राजा वक्र जरापाण्डुररोमकूर्चम्
ततः प्रदध्यौ सहसा विमुच्य तद्दर्पणं जातघनानुतापः ॥ २० ॥
इयत्यहो भूरितरे च काले यातेऽपदानं न हि किंचिदेव ।
अकार्षमुच्चैर्नरनाथयोग्यं वयोऽनयं निष्कलतावशेषम् ॥ २१ ॥
ध्यात्वेति तां रात्रिमथातिवाह्य प्रातर्वितीर्य स्वपुरे निजाज्ञाम् ।
विनिर्ययौ सर्वसहाययोधभृत्यान्वितः सन्मृगयां विधातुम् ॥ २२ ॥

गच्छन्स मार्गे विशिखावलीभिर्निपातयन्प्राणिगणान्धरित्र्याम् ।
पार्ष्णिप्रहारातिसकोपवाजिवेगेन दूरं कटकाज्जगाम ॥ २३ ॥
प्रधाव्यमानप्रवराश्ववेगादेकं महागहरमाससाद ।
तत्रालुलोके वरवर्णशोभामेकां मृगीं निर्भयगामिनीं सः ॥ २४ ॥
 तामीक्ष्य तत्र नृपतिर्निजचापदण्डा-
 द्धन्तुं निशातविशिखं विचकर्ष सद्यः ।
 सा व्याजहार हरिणी तु मनुष्यवाचा
 त्वेकत्र रुद्धगतिरुद्गतस्मयं तम् ॥ २५॥
 राजंस्त्वदर्थमधुना हि समागताह-
 माकृष्य बाणधनुषी इह संहरातः ।
 किंचिद्वदामि सुमते क्षणमात्रमेव
 यत्सावधानमनसा शृणु तत्समग्रम् ॥ २६ ॥
 दुष्कर्मणार्जितविपत्तव भूपतेऽस्ति
 या सर्वसद्विभववित्तविनाशकर्त्री ।
 एतर्हि तर्हि यदि वाञ्छसि तत्समेति
 त्वां साधुनैव सहसा तु मदीयवाचा ॥ २७ ॥
 किं तु त्वमिच्छसि तु चेत्परिणामकाले
 तत्सांप्रतं भज मदीयगिरा खराज्यम् ।
 ब्रूह्यद्य हृद्द्तयथेष्टनिजाभिलाषं
 त्वत्कारणात्रिदिवतोऽहमिहावतीर्णा ॥ २८ ॥
 श्रुत्वेति तद्विरमसौ पृथुजातदुःखो
 दोलाधिरूढहृदयोऽथ समभ्यधात्ताम् ।
 जायामुपैमि ननु यावदहं क्षणेन
 पृष्ट्वाम्ब तावदिह मद्दयया भव त्वम् ॥ २९ ॥
 उक्ते तथेति स तया खपुरं प्रतस्थे
 मार्गेऽथ संमिलितसैन्यभटानुयातः ।

 गच्छञ्जवेन सहसा निजराजधानीं
 संप्राप्य वासभवनं निजमाविवेश ॥ ३०॥
 आनीय तत्र निकटं किल मेरभक्तां
 दूरीकृताखिलजनो विजनं समेत्य ।
 तस्याः शशंस नृपतिः स मृगीवचस्त-
 त्प्रोद्भिन्नबाष्पजलगद्गदभाषितेन ॥ ३१ ॥
 आकर्ण्य तद्गिरमुवाच तु मेरभक्तां
 सा तं विमृश्य विपुलोद्गतचित्तपीडा ।
 राजन्नुपैति यदि दुर्गतिरद्य शक्ति-
 र्देहेऽस्ति किंचिदपि सोढुमुरुप्रयत्नम् ॥ ३२ ॥
 प्राप्तेऽथ दारुणतरे परिणामकाले
 शान्ताखिलेन्द्रियनितान्तघनावसादे ।
 कुर्वः किमेव बत कुत्र तदा प्रजा वः
 सर्वे हसन्ति हि यदङ्गुलिदर्शनेन । ३३ ।।
 तद्गच्छ तूर्णमित एव मृगीसमीपं
 तां ब्रूहि भूमिप पुरो विनयात्प्रणम्य ।
 मातस्त्वदीयवचसा तु विपन्ममाद्य
 स्फीतव्यथां तु न सहे परिणामकाले ॥ ३४ ॥
 इति निजदयिताया वाचिकं तन्निशम्य
 रजनिमवनिपालः खावरोधेऽतिवाह्य ।
 उषसि तु मृगयाव्याजेन दूरीकृतस्व-
 भृतकसचिवसैन्यः काननं तद्विवेश ॥ ३५ ॥

इति राजानकभट्टाह्लादकविरचिते देलरामाकथासारे मृगीदर्शनानन्तरं नृपगमनं नाम
प्रथमः सर्गः।


द्वितीयः सर्गः।

 अथ सपदि कुतोऽप्यागत्य दत्तावधानां
 स नरपतिरपश्यत्तां मृगीं काननेऽत्र ।

 द्रुततरमुपसृत्य प्राह नम्रोत्तमाङ्गो
 भवतु जननि हन्त व्यापदद्यैव सा मे ॥१॥
 वच इदमथ तस्याकर्ण्य सद्यस्तिरोभू-
 द्विपुलजनितचेतोविस्मया सा कुरङ्गी ।
 त्रिचतुरपदयातस्यावनीशस्य वाजी
 सपदि विधिनियोगाद्धन्त पञ्चत्वमाप ॥ २॥
 निजकटकसमीपप्राप्तमात्रेऽथ पभ्द्यां
 सपदि धरणिनाथे दुःखनम्रोत्तमाङ्गे ।
 विपुलसुभटचक्राक्रान्तसर्गमृगव्या(?)
 विविधनिशितहेतिर्व्याधसेना जगाम ॥ ३ ॥
 तदथ सकलसैन्यं हन्तुमभ्युद्यतां तां
 सपदि शबरसेनां वीक्ष्य सर्वेऽप्यमात्याः।
 प्रवरहयगणानारुह्य तूर्णं तु जग्मु-
 नंगरमवनिपालं तं पदातिं विमुच्य ॥ ४ ॥
 सकलविपुलसैन्ये विद्रुते ते पुलिन्दा
 नरपतिमिममेकं वीक्ष्य दीनं पदातिम् ।
 रुरुधुरथ समेत्य ज्यातले संनिपात्य
 पृथुतरमुरुरज्ज्वा दोर्युगं चापि बद्धा ॥ ५ ॥
 परिहृतसकलालंकारभूयिष्ठरत्नं
 धरणिपतिममन्दप्रत्तगात्रप्रहारम् ।
 मुमुचुरथ कथंचिद्रज्जुबन्धं निवार्य
 स्रवदपरिमितासृग्धारमेतं किराताः ॥ ६॥
 तदतिघनरुषाथात्रान्तरे तत्सहायाः
 सपदि ददुरमन्दानन्दितास्तत्स्वराज्यम् ।
 द्रुततरमपरस्मै गोपुरे संनिधाय
 प्रथितविपुलशौर्यात्रक्षिणो हेतिहस्तान् ॥ ७ ॥

 इति निजपुरवार्तां तामजानन्स राजा
 मुषितसकलभूषारत्नविच्छायशोभः ।
 द्रुतपदमवरोधोत्कण्ठितोऽथ प्रतस्थे
 शबरनिबिडबन्धायासितो राजधानीम् ॥ ८॥
 कतिपयमथ वर्त्मातीत्य गच्छन्पुरस्ता-
 न्नरपतिरथ पभ्द्यां मेरभक्तां ददर्श ।
 मलिनवसनभाजं स्वप्रियां तां रुदन्ती
 विगतनिजपरिष्कारां भिया क्षिप्रयान्तीम् ॥९॥
अथ तां निरीक्ष्य च कथंचिदेव स प्रविभाव्य भूमिपतिरात्मवल्लभाम् ।
घनतप्तबाष्पजलगद्गदस्वरो निजशोककारणमपृच्छदन्तिके ॥ १०॥
 अयि वैशसकारणं प्रिये वद केनासि नितान्तदुःखिता।
 विगतांशुकभूषणा कथं क च यासि द्रुतगामिनी पुरः॥ ११ ॥
 अथ सा विनतानना पतिं तमुदीक्ष्यावददश्रुगद्गदम् ।
 सचिवैस्तव राज्यमर्पितं ह्यपरस्मै द्रुतमेत्य पत्तनम् ॥ १२॥
 अहमप्यपनीतभूषणा नगरादद्य पलाय्य चागता ।
 त्वमपि क्व नु यासि सांप्रतं यदि दृष्टो रिपुभिर्निहन्यसे ॥ १३ ॥
 तदितस्त्वरितं तु कंचनापरदेशं हि मया सह व्रज ।
 अनुकूलविधिस्तथापि ते यदहं संघटिता पुरोऽधुना ॥ १४ ॥
 इति तद्वचनेन दुःखितः प्रविहाय स्वपुरस्पृहां नृपः ।
 परदेशमथोपचक्रमे सहसा गन्तुमरातिसाध्वसात् ॥ १५ ॥
अथ स भूमिपतिर्दयितासखो गहनभूधरवर्त्म परिभ्रमन् ।
कमपि देशमवाप्य चकार तद्वसतिमध्वघनश्रमखेदितः ॥ १६ ॥
न गुणवान्न च विक्रमलाञ्छनो न कवितापि च यत्र हि पूज्यते ।
परमसौ बत जीवति यः सदा नयति काष्ठचयं गहनान्तरात् ॥ १७ ॥
स नृपतिः सुकुमारशरीरवानपि दरिद्रतया विवशीकृतः ।
अधमवंशजनेऽपि विगर्हितामपि कुवृत्तिमजिग्रहदेव ताम् ॥ १८ ॥

प्रत्युषस्यपि निजप्रियार्पितापूप एव पथि भोजनाय सः।
दूरवर्तिगहनान्तरं ययाविन्धनानयनहेतवे सदा ॥ १९ ॥
सायमेत्य विपिनात्पुरं प्रविश्यापणे तमपि काष्ठसंचयम् ।
वृत्तिमेष कुरुते स्म हन्त विक्रीतलब्धमितनिष्कसंख्यया ॥ २० ॥
एवमेव सुचिरं बभार विक्रीतकाष्ठनिचयेन जीविकाम् ।
प्रातरेव बत संततं ब्रजन्सायमेत्य विपिनात्पुरं विशन् ॥ २१ ॥
द्वित्रियातपरिवत्सरावधौ काष्ठकष्टनिरतस्य तस्य सा ।
वल्लभा तु समजीजनत्सुतौ द्वौ क्रमेण शशिकान्तिसुन्दरौ ॥ २२ ॥
वृद्धिमापतुरथो क्रमेण तौ दारको रुचिरराजलक्षणौ ।
मातृपितृघनहर्षकारिणौ शैशवोचितमनोज्ञलीलया ॥ २३ ॥
•••••••••••••••••••••••••••••••••••••••••••••••••• ।
•••••••••••••••••••••••••••••••••••••••••••••••••• ॥ २४ ॥
•••••••••••••••••••••••••••••••••••••••••••••••••• ।
•••••••••••••••••••••••••••••••••••••••••••••••••• ॥२५ ॥

इति राजानकभट्टाहादकविरचिते देलरामाकथासारे •••••••••• नाम
द्वितीयः सर्गः ।


तृतीयः सर्गः ।

•••••••••••••••••••••••••••••••••••••••••••••••••• ।
•••••••••••••••••••••••••••••••••••••••••••••••••• ॥ १ ॥
•••••••••••••••••••••••••••••••••••••••••••••••••• ।
•••••••••••••••••••••••••••••••••••••••••••••••••• ॥ २ ॥
•••••••••••••••••••••••••••••••••••••••••••••••••• ।
•••••••••••••••••••••••••••••••••••••••••••••••••• ॥ ३ ॥
•••••••••••••••••••••••••••••••••••••••••••••••••• ।
•••••••••••••••••••••••••••••••••••••••••••••••••• ॥ ४ ॥
•••••••••••••••••••••••••••••••••••••••••••••••••• ।
•••••••••••••••••••••••••••••••••••••••••••••••••• ॥ ५ ॥

•••••••••••••••••••••••••••••••••••••••••••••••••• ।
•••••••••••••••••••••••••••••••••••••••••••••••••• ॥ ६॥
•••••••••••••••••••••••••••••••••••••••••••••••••• ।
•••••••••••••••••••••••••••••••••••••••••••••••••• ॥ ७ ॥
•••••••••••••••••••••••••••••••••••••••••••••••••• ।
•••••••••••••••••••••••••••••••••••••••••••••••••• ॥ ८॥
•••••••••••••••••••••••••••••••••••••••••••••••••• ।
•••••••••••••••••••••••••••••••••••••••••••••••••• ॥९॥
•••••••••••••••••••••••••••••••••••••••••••••••••• ।
•••••••••••••••••••••••••••••••••••••••••••••••••• ॥ १० ॥
•••••••••••••••••••••••••••••••••••••••••••••••••• ।
•••••••••••••••••••••••••••••••••••••••••••••••••• ॥ ११ ॥
•••••••••••••••••••••••••••••••••••••••••••••••••• ।
•••••••••••••••••••••••••••••••••••••••••••••••••• ॥ १२ ॥
••••••••••••••••••••••••••••••••••••••••••••••••••ह मातः ।
तुभ्यमद्य तु ददानि समग्रांस्तान्गृहाण सहसैव हि मत्तः ॥ १३ ॥
द्रव्यमन्यदधिकं ह्यत एतन्नैव रत्नमिह चाहति लब्धुम् ।
नेयता यदि ददासि भवत्या नीयतामपरधाम तदद्य ॥ १४ ॥
सा निशम्य गिरमित्थममन्दानन्दितस्य वणिजस्तु विमृश्य ।
एवमस्त्विति जगाद पुरस्तात्संनिधाय धरणीपतिपत्नी ॥ १५॥
सोऽथ सार्थपतिरुद्धतहर्षस्तूर्णमेव विगणय्य समग्रम् ।
तत्समर्प्य च शतत्रयमस्यै भासुरं मणिमजिग्रहदण्डम् ॥१६॥
तां ततः प्रमुदितः स बभाषे सन्ति चान्यमणयोऽस्य समानाः।
तर्हि यद्यपि तवाद्य समीपं तान्समानय जनन्यखिलांस्त्वम् ॥ १७ ।।
दीयते खलु मयास्य समानं वित्तमम्ब विगणय्य समग्रम् ।
तन्निशम्य मुदिता नृपपत्नी सा तथेति तमथो निजगाद ॥ १८ ॥

साप्यशेषमथ तत्परिगृह्य स्फीतहर्षभरपूरित चित्ता।
आययौ निजगृहं नृपपत्नी व्यापदन्तसमयं प्रविदन्ती ॥ १९ ॥
गूढमेव तदुपार्जितवित्तं सा निधाय विजने नृपजाया ।
कस्यचिन्न समभाषत नैवादर्शयच्च कृतसंवृतिरुच्चैः ॥ २० ॥
सा परेऽह्नि च समेत्य विहङ्गीपञ्जरान्तिकमुपात्तघनास्था ।
अद्वितीयमपरं च तदण्डं पश्यति स्म गुरुदीप्ति सुदीप्तम् ॥ २१ ॥
तं मणिं च परिगृह्य सहर्षाकृष्य मञ्जुलसुपञ्जरगर्भात् ।
तस्य नैगमवरस्य समीपं सा पणान्तरमथैत्य जगाम ॥ २२ ॥
तत्र तस्य तु यथा प्रथमस्मिन्वासरे ननु तथैव तदह्नि ।
अण्डमेकमपरं च ततो विक्रीय वित्तमनयन्निजधाम ॥ २३ ॥
अथ सा तृतीयदिवसेऽपि तथा परिलब्धरत्नकृतविक्रयतः ।
समुपात्तवित्तनिचयेन तदा बहुशो जहर्ष सुखमाप भृशम् ॥ २४ ॥
इति संतताप्तगुरुरत्नचया विहगीप्रसादवशतो ननु सा ।
सह तेन सार्थपतिना व्यधित व्यवहारमत्र न परेण समम् ॥ २५॥
अथ संभृतप्रवरचित्तचया स्वपतिं कदाचिदवदद्दयया ।
सततं कुटुम्बभरणाय विभो नितरां प्रताम्यसि कुवृत्तिवशात् ॥ २६ ॥
निजशिल्पकर्मवशतो द्रविणं मम विद्यतेऽद्य ननु किंचिदिह ।
परिगृह्यते तदत एव मया सदनप्रयासकरदासजनः ॥ २७ ॥
ननु सर्वथा स्वपतिरेव सदा परिरक्ष्यते वरकुलाङ्गनया ।
तदितः परं भव सुखी सुचिरं त्यज काष्ठकष्टकृतवृत्तिमिमाम् ॥ २८ ॥
करवै कुटुम्बभरणं तु कथंचिदपि स्वयं विविधयत्नशतैः ।
न सहे त्वदीयवपुषः सततं पृथुखेदमुत्तमगुणस्य विभो ॥ २९ ।।
इति भारतीं प्रियहितां नृपतिः स निशम्य तामथ निजां दयिताम् ।
प्रशशंस जातधनहर्षभरो विरराम चेन्धनचयाहरणात् ॥३०॥

१. प्रथमे च' इति पाठः कल्पनीयः, प्रथमशब्दस्य सर्वनामसंज्ञकत्वाभावात्स्मिन्ना- देशाप्रवृत्तेः।

स ततः प्रभृत्यभवदत्र सुखी सुकुलीनसाधुविबुधैर्गुणिभिः ।
सह धर्मशासनकथाविबुधा धरणीपतिर्विरचयन्सततम् ॥ ३१ ॥
विहगीप्रसादपरिलब्धमहाद्रविणेन सा विपुलदासजनान् ।
समजिग्रहन्नरपतेर्दयिता निजमन्दिरे विविधकर्मकृते ॥ ३२ ॥
अपि केवलं स्वयमसौ नितरां सह तेन सार्थपतिना सततम् ।
मणिभिर्धनैर्विदधती प्रवरैर्व्यवहारमास्त सुखितात्र पुरे ॥ ३३ ॥
सततं तदीयसदनागमना परिजातसंस्तववशेन तु सा ।
गतयन्त्रणा विविधनर्महृता वणिजा समं रतिमचीकमत ॥ ३४ ॥
स्वगृहात्सदैव घनभोज्यसुरादिकमेतदीयसदनं सधनम् ।
उपनीय तेन वणिजैव समं ह्यघसत्पपौ भृशमरंस्त च सा ॥ ३५ ॥
प्रतिवासरं प्रचुररागहृता समभूत्तथैव किल सार्थपतौ ।
स्वधनेन रुच्यतममस्य कृते स्वयमेव भोज्यमपचत्तु यथा ॥ ३६ ॥
 तं भर्तारमपि स्वकीयतनयौ तौ राजचिहाङ्कितौ
 सर्वस्वं मनुते स्म नैव च तदा सा मेरभक्ता तथा ।
 रागग्रस्तमतिर्यथैव वणिजं तं दुष्कुलीनं शठं
 स्त्रीणां दुश्चरितं न जातुचिदहो पापावहं शाम्यति ॥ ३७ ॥

इति देलरामाकथासारे वित्तप्राप्यनन्तरं वणिजा सह राजपत्नीसंगमो नाम

तृतीयः सर्गः।

चतुर्थः सर्गः ।

ज्ञानतीक्ष्णधिषणा बभूव तत्कालमस्य वणिजः स्वमन्दिरे ।
वृद्धयोषिदपि काचिदुच्चकैस्तकृपापरमना हि शाकिनी ॥ १ ॥
भोज्यभाण्डनिचयं सदा समादाय तत्र जरती विलोक्य सा ।
तां गतागतकरीं दिवानिशं सार्थवाहसदने विसिस्मिये ॥ २ ॥
एकदा समुपसृत्य साब्रवीत्सार्थवाहमथ वृद्धकामिनी ।
पुत्र सेयमिह संततं किमागच्छति प्रचुरभाण्डधारिणी ॥ ३ ॥
एतदागमनहेतुमत्र मे ब्रूहि पुत्र मम तथ्यमेव तत् ।
नैव गोपयितुमर्हसि ध्रुवं त्वं मया तनयवद्धि मन्यसे ॥ ४ ॥

हृद्गतं वद ममाधुना भृशं कौतुकं मम किलात्र वर्तते ।
वेद्म्यहं सकलबुद्धिचेष्टितं तद्ब्रवीमि हितकाम्यया तव ॥ ५॥
सोऽभ्यधादिति निशम्य भारती वृद्धयोषितमिमामथो वणिक् ।
मातरत्र तव किं वदाम्यहं स्त्रीमनो हि तरलं प्लवंगवत् ॥ ६॥
आययाविह निजात्पदाच्चयुतः कोऽपि भूमिपतिरम्बिके पुरा ।
सेयमस्य दयिता मदन्तिके जातुचिद्यधित रत्नविक्रयम् ॥ ७ ॥
तत्ततः प्रभृति जातसंस्तवा मां सदैव भजतेऽनुरागिणी ।
नैव मुञ्चति कदाचिदप्यसौ स्नेहबन्धमनिवारितं मयि ॥ ८ ॥
तत्स्वकीयधनसंचयाद्ययं नित्यमेव कुरुते निरन्तरम् ।
मामकं न हि तु किंचिदेव गृह्णाति वित्तमपि कल्पितार्थना ॥९॥
भारतीमिति निशम्य सा ततस्तं जगाद जरती वणिक्पतिम् ।
पुत्र चेदतिघनानुरागिणी सा भवत्यपि भवत्यनारतम् ॥ १० ॥
तत्स्वगेहविहगीं निहत्य चेत्त्वामुपानयति भोक्तुमद्य सा।
मन्यते तदतिविस्मयान्मया प्रेम पूर्णमतिमात्रशोभनम् ॥ ११ ॥
सोऽब्रवीदिति निशम्य तामथो मातरत्र बत को हि संशयः ।
यत्र दुर्लभसुपीनमेष मां शासनं तु कृपयानयात्र किम् ॥ १२ ॥
साप्यभाषत विहस्य शाकिनी तत्त्वमत्र न हि वेत्सि नन्दन ।
विस्मयप्रदमिहाद्य विद्यते कारणं न वितथं मयोच्यते ॥ १३ ॥
तन्निशम्य गुरुजातकौतुकः सोऽत्र सार्थपतिरुच्चकैस्ततः ।
पक्षिणीपिशितभक्षणोद्यतस्तत्प्रतीक्षणरतोऽभवत्तदा ॥ १४ ॥
सा जगाम नरनाथवल्लभा सार्थवाहनिकटं तदन्तरे ।
सोत्सुका प्रचुरहर्षमानसा भोज्यपानभृतभाण्डधारिणी ॥ १५ ॥
तां विलोक्य स पराङ्मुखोऽभवन्नैव किंचिदपि चावदत्ततः ।
संजहार च तदाननोत्सुका दृष्टिमुच्चतरमन्युमानभूत् ॥ १६ ॥
सा तथाविधमवेक्ष्य तं प्रियं जारमाह समुपेत्य तत्क्षणम् ।
भूतले विविधभोज्यसंभृतस्थापिताभिनवभाण्डसंचया ॥ १७ ॥

 त्वत्कृतेऽहमविमृश्य तत्क्षणं तत्करोमि तदपि ब्रवीषि यत् ।
 नापराधमपि वेद्मि चात्मनः स्तोकमप्यथ हि येन खिद्यसे ॥ १८ ॥
 तावकीनवचनामृतं मया केवलं दयित काङ्क्षयते सदा ।
 किं पराङ्मुखमवस्थितो भवान्मन्दभाग्यवशतो मम प्रभो ॥ १९॥
 वेत्सि किंचिदपराधमद्य मे यद्यहो तदपि किं प्रतीक्ष्यसे ।
 रोचितं यदिह तत्कुरु प्रभुस्त्वं ममाहमपि चेटिका तव ॥ २०॥
 नाथ किंचिदपि नोऽभवत्समाराधनाय मम चास्ति दुष्करम् ।
 तत्प्रसीद बद सांप्रतं द्रुतं हृद्तं यदिह तन्महामते ॥ २१॥
 अर्थ्यतां च भवता यदीप्सितं विद्यते मम यदेव दुर्लभम् ।
 जीवितं यदनुरागतो मया दीयते परधने तु का कथा ॥ २२ ॥
इत्यस्या गिरमुपकर्ण्य सार्थवाहः प्रत्याहाथ सपदि मन्दमन्दवाचा ।
किं ब्रूमो यदपि नितान्तनीरसं तन्मांसं मे निकटमिहानयस्यजस्रम् ॥२३॥
रुन्ध्यो यत्पिशितमतीव पुंश्चलि त्वं तां गेहे स्थगयसि सर्वदा विहंगीम् ।
पक्त्वा तत्सविधमिहानयाद्य तूर्ण प्रीतिस्ते यदि मयि विद्यते नितान्तम्॥२४॥
श्रुत्वैतत्तमथ जगाद मेरभक्ता व्यक्तीभूतनिजविहंगिका सदुःखा ।
क्रीडार्थै पृथुककृते स्थिता हि सा मे किं तस्याः कृशतरमांसचर्वणेन ॥२५||
अन्यान्कांश्चिदपि सुपीवरान्विहंगान्भूरींस्त्वत्सविधमिहानयामि तूर्णम् ।
मेषादीनपि विविधान्पृथूनथो वा तां सूक्ष्माकृतिविहगीं त्यजस्व नाथ ॥२६॥
उक्तोऽप्येवमथ स भूरिशो यदासौ निर्बन्धान्न तु विचचाल सार्थवाहः ।
तां हन्तुं सपदि तदैव सा विहंगीमङ्गीकारमकृत तस्य चित्ततुष्टयै ॥२७॥
प्रातस्तामथ विहगीं निहत्य गूढं सा क्रूरा विगतघृणा हि मेरभक्ता ।
जाराराधनवशतो निरस्तदुःखा तन्मांसं सपदि पपाच सूक्ष्मभाण्डे ॥२८॥
पक्त्वा तद्रहसि निधाय चैकदासी रक्षायै निजसदने प्रयुज्य तूर्णम् ।
तं द्रष्टुं वणिजमगच्छदस्य तच्च व्याख्यातुं त्ववसरमाप्तुमात्मभोगे ॥ २९ ॥
तत्काले नृपतनयौ विधाय लीलामन्योन्यं विपुलतरोद्गतश्रमार्तौ ।
क्षुत्क्षामौ किमपि तु भोजनं विधातुं तत्तूर्णं सदनमथाविवेशतुस्तौ ॥ ३० ॥

एकान्तौ नृपतनयौ तु तत्र दृष्ट्वा दासीमेत्य सविधमूचतुस्तदानीम् ।
भद्रे त्वं वद जननी क्व चागमत्सा कावाभ्यामशनमिहाधुना ददाति ॥३१॥
दासी सा तदिति निशम्य तौ बभाषे क्वापीतो झगिति गताभवत्स्वमाता ।
रक्षार्थे निजसदने तथा प्रत्युक्ता किं चाहं बत करवै विना तदाज्ञाम् ॥३२॥
श्रुत्वैतद्गिरमवधूय चेटिकायाः क्षुत्क्रान्तौ स्वयमथ किंचिदेव भोज्यम् ।
अन्विष्य क्षणमपि नापतुर्यदा तौ तद्भाण्डं रहसि तदात्र पश्यतः स्म ॥ ३३॥
आनिय द्रुतमथ तत्सुगन्धिनानाद्रव्येण प्रसभमनोहरं समीपम् ।
तत्रान्तः सपदि निवार्य तत्पिधानं तां पक्त्वा बत विहगीं ददर्शतुस्तौ॥३४॥
दृष्ट्वा तद्विपुलबुभुक्षयाग्रजोऽसौ तन्मध्यात्सपदि शिरो निगीर्य सास्थि ।
पक्षिण्याः स्वयमघसच्च तत्कनीयांस्तद्वक्षोऽपि च स तथैव तूर्णमेव ॥ ३५॥
 तन्मांसावयवद्वयं च युगपद्भुक्त्वा बुभुक्षावशा-
 तद्भाण्डं च तथैव मातृभयतः कृत्वा पिधानाचितम् ।
 तत्रैवापि निधाय किं तु विजने निर्याय वेश्मान्तरा-
 त्क्रीडां कर्तुमथो प्रजग्मतुरिमौ भूपालपुत्रौ बहिः॥ ३६ ॥

इति देलरामाकथासारे विहगीव्यापादनानन्तरं राजपुत्रकृततदङ्गद्वयकवलीकारो नाम

चतुर्थः सर्गः।

पञ्चमः सर्गः।

तत्काले निजसदनं समेत्य तूर्णे पप्रच्छ क्षितिपतिवल्लभा स्वदासीम् ।
भद्रे कोऽत्र हि मदसंनिधौ प्रविष्टः श्रुत्वैतद्गिरमिति चेटिकाचचक्षे ॥१॥
त्वं याता जननि यतः प्रभृत्यपीतः केनापि द्रुततरमेव कारणेन ।
आरभ्य ध्रुवमिह नस्ततस्तु गेहे नान्यः कश्चिदपि समागतो न दृष्टः ॥२॥
किं तु क्षुत्क्लमविवशौ त्वदीयपुत्रौ मामेत्याहतुरुपकण्ठमम्बिकेऽद्य ।
भद्रे किं भवति हि नौ कृते स्वभोज्यं माता साक च विगता गृहं विहाय ॥३॥
श्रुत्वैतत्त्वहमवदं नृपात्मजौ तौ माता वां क च विगतेति नैव वेद्मि ।
रक्षार्थे निजसदने तया प्रयुक्ता तस्याः शासनमपहाय किं करोमि ॥ ४ ॥
उक्तौ ताविति च मया स्वयं प्रविश्य क्षिप्रं मन्दिरमथ भोजनं प्रलब्धुम् ।
खट्वायास्तलमपिधानसूक्ष्मभाण्डात्किन्चिन्मांसशकलयुग्ममाशतुश्च ॥ ५ ॥

श्रुत्वैतत्सपदि ससंभ्रमं सदुःखं तद्भाण्डं स्वयमुपसृत्य मेरभक्ता ।
शीर्षेणापि च ननु वक्षसा विहीनं हर्षोन्मुक्तनिजमना ददर्श तत्र ॥६॥
 अन्यथातितशकुन्तकर्षितोरःशिरःसु परिपूरिताङ्गकम् ।
 तच्चकार सहसा तथैव सा द्रव्यगौरवनितान्तसौरभम् ॥ ७॥
 गृढमेव ननु तत्ततः समादाय भाण्डमतिमात्रहर्षिता ।
 रम्यकल्पितसुवेशशोभिता सार्थवाहनिकटं जगाम सा ॥ ८॥
 आगतामथ स भाण्डधारिणीं तां निरीक्ष्य गुरुजातसंपदः ।
 गाढरामपरिरम्भचुम्बनाद्यैरतोषयदतीव भूरिशः॥९॥
 शाकिनी गदितशिक्षयादरात्तच्चखाद सकलं खयं पलम् ।
 अन्यमांसमपि सा जघास तच्चित्तरञ्जनकृतेऽनुरागिणि ॥ १० ॥
 सोऽथ सार्थपतिरेतया समं राजयोग्यवरभोगरूपया ।
 उच्चकैर्विविधचेष्टितं व्यधात्स्वात्मगुप्तसदने यथेप्सितम् ॥ ११ ॥
 क्षणं सघनसंमदं ललितकुन्तलाकर्षणं
 क्षणं च परिचुम्बनं सुभगतत्कपोलद्वये ।
 क्षणं मधुरमद्यपानमपि जानुयुग्मं पुरो
 निधाय च ससंभ्रमं मणिमये महाभाजने ॥ १२॥
 मुहुश्च परिरम्भसंभवसुखामृतास्वादनं
 मुहुर्मदनविभ्रमं...........मुहुर्नर्म च ।
 मुहुः स्वगुणकीर्तनं मुहुरपि प्रियाः सत्कथा
 मुहुश्च कमनीयचेष्टितमलं रतिव्यत्ययम् ॥ १३ ॥
 वणिक्स इति भूरिशो ह्यनुभवन्समं चैतया
 निनाय रजनीं मुहूर्त....बलं सुखं हर्षवान् ।
 ततः समुदिते रवौ प्रतिमुमोच तां वल्लभां
 स्वकीयसदनं प्रति प्रचुरभोगसंतर्पितः ॥ १४ ॥ (तिलकम्)
 ततः समुपसृत्य तां स वणिगाह हर्षान्वितो
 गृहस्थजरतीस्त्रियं कृतनमस्कृतिस्तत्पुरः।

 यदेव भवती जगाद जननि प्रियं मे हितं
 तदद्य विहितं मया सपदि सावहेलं निशि ॥ १५ ॥
 निशम्य वणिजो वचस्तदिति सा विमृश्य क्षणं
 जगाद जरती विहस्य वणिजं गुरुज्ञानवित् ।
 यदत्र तनया भवद्वरतरं हि सारं परं
 न जग्धमपि तत्त्वया प्रचुरकाम्यसिद्धिप्रदम् ॥ १६ ॥
 स चावददथो किमन्यदधिकं ब्रवीषि द्रुतं
 ह्यतो जननि कथ्यतां हृदि विमृश्य मे निर्णयात ।
 मयैव ननु खादितं सकलमेव चैकाकिना
 तयार्पितममन्दरागवशतः सगात्रं पलम् ॥ १७ ॥
 उवाच जरती पुरः शृणु वदामि सत्यं तव
 भृशं तनयसारभूतमभवद्विहंग्याः शिरः।
 उरश्च यदहो तदेव खलु तत्सुतौ जक्षतु-
 स्त्वया यदपि भुक्तमद्य च तदन्यमांसोपमम् ॥ १८ ॥
 स्वपुत्रयुगखादितावयवहीनभाण्डं ततो
 विलोक्य सहसा भृशं तनयभूरिदुःखाकुला ।
 त्वदीयभयकारणादपि कुतश्चिदानीय सा
 निहत्य शकुनि परं किल तदङ्गतोऽपूपुरत् ॥ १९ ॥
 स सार्थपतिराह तामथ विचिन्तयन्स्वात्मनः
 कुभाग्यपरिजृम्भितं प्रसभविप्रतीसारवान् ।
 क एतदशनेन संभवति मातरुच्चैर्गुण-
 प्रभावगरिमा च को यदनिशं प्रशंसस्यलम् ॥ २० ॥
 तमाह जरती ततस्तनय यो हि भुङ्क्ते शिर-
 स्तदीयमुत यत्र यत्र हि तिष्ठति प्राज्यधीः ।
 अवाक्ष्यति स तत्र तत्र सहसैव राज्यं मह-
 त्सुखं च कमनीयमेव नितरां यथेष्टं शुभम् ॥ २१ ॥

 स्वहारवरमध्यशोभितसुरत्नधाम्नि ध्रुवं
 शतत्रयमवाप्य संततमुदारदीनारतः ।
 सुखं भजति मङ्गलं श्रयति सोऽपि सद्भाग्यवा-
 नुरश्च सुत यस्तदीयमपि चात्ति कश्चिन्नरः ॥ २२ ॥
 भवान्पलमखादयिष्यदपि भूरिसिद्धिप्रदं
 तदव्ययदितत्प्रभाववशतोऽभविष्यत्सुत ।
 महाधरणिवल्लभः प्रवरभागधेयावहो
 निरन्तरधनाढ्यकोशसुखसंस्थिताम्भोधिजः ॥ २३ ॥
 तदेव विहगीपलं खलु यथा त्वया खाद्यते
 तथा कुरु यथा तथा तनय चैवमेव प्रियम् ।
 त्वदीयहितकाम्यया निजगदे मया संततं
 तदभ्यधिकरुच्यमांसमिह विद्यते तेन किम् ॥ २४ ॥
 अपृच्छदथ तामसौ विपुलजातकौतूहलो
 विधातृपरिवञ्चितं स्वमशुभं विनिन्दन्मुहुः ।
 उपाय इह कथ्यतां जननि मे त्वया सांप्रतं
 किमत्र तु विधीयते वरमते क्षणं चिन्तय ॥ २५ ॥
 प्राज्यं प्राज्यं जननि यदि तन्मेऽभविष्यच्च बह्वी
 वित्तप्राप्तिः प्रतिदिनमथो तावकीनप्रसादात् ।
 यद्यत्किंचित्सपदि भवती स्वात्मबुध्द्याकरिष्य-
 त्तत्तत्को वा सदसदपि वालङ्घयिष्यद्वराकः ॥ २६ ॥
 आकर्ण्यासौ तदिति जरती सार्थवाहं बभाषे
 शीर्षे वक्षस्यपि च तु विहंग्यास्तु तस्या यदस्थि ।
 काम्यं रत्नं तनय रुचिरं वाञ्छिता मेयसिद्धि-
 प्राप्तिप्राज्ञानुपमविभवं माननीयं तदस्ति ॥ २७ ॥
 नैतत्केनापि खलु सुमते जीर्यते नाम भुक्त्वा
 तस्मात्तस्यास्तनययुगवक्षोन्तरे विद्यतेऽद्य ।

 तत्तत्प्रेम्णा यदि निजसुतौ साहनिष्यन्निगूढं
 किं चैतद्वयस्थियुगलमतोऽप्रापयिष्यद्भवांस्तत् ॥ २८ ॥
 अद्य त्वं तनय तथा कुरुष्व तूर्णं सद्यो यद्रुचिरतरास्थिनी निगीर्य ।
 प्राप्नोषि प्रवरमते धराधिपत्यं वित्तं च प्रतिदिनमुच्चकैर्यथैव ॥ २९॥
 अन्यत्किंचित्तदपि न हि तद्विद्यते नात्र मन्त्रः
 पुत्रैतच्चेत्सपदि बत संपत्स्यते ते स्वभाग्यैः ।
 किं भूयिष्ठैः सततविफलायासदैः कार्यभारै-
 स्तस्मादत्रैव शुभदमहाकर्मणि प्रेरयैताम् ॥ ३० ॥
 उक्त्वा चैवं सपदि विरतायां तु तस्यां जरत्यां
 स्फीतोत्कण्ठातिविविधमहाभोज्यसंपूर्णभाण्डा ।
 रन्तुं तस्यान्तिकमुरुमुदा सा ययौ मेरभक्ता
 सालंकारा रुचिरतरसंकल्पिताकल्पशोभा ॥ ३१ ॥
 तामायान्ती सपदि स वणिग्वीक्ष्य सोत्कण्ठचित्तां
 चेटीस्कन्धार्पितवरमहाभोज्यभाण्डां सहर्षाम् ।
 कोपाटोपं विगतहसितं धारितादत्र मौनं
 त्यक्तालापं परिहृतगुणं सावमानं चकार ॥ ३२ ।।
 आलोक्यैवंविधमुपगता कामिनं तं प्रदध्यौ
 धिङ्मां भाग्यैः सततपरिहीनामुदारावसादाम् ।
 दीनाराणां त्रितयशतदां प्रत्यहं तां विहंगी
 हत्वा यः सेवित इह बत प्रत्युतासौ समन्युः ॥ ३३ ॥
 ध्यात्वैवं तं सविनयमसावाचचक्षे सदुःखा
 केनैवं त्वं प्रकुपित इवालोक्यसे प्राणनाथ ।
 जानाम्यत्र प्रियतम विचार्यापि हेतुं न किंचि-
 त्तन्मा मिथ्या मयि घनरुषा वक्रवक्त्रं कुरुष्व ॥ ३४ ॥
 जानीषे किंचिदपि खलु चेद्रोषलेशं मम त्वं
 यद्भूयास्त्वं किमिह तु करोष्युच्चकैश्चावहित्थाम् ।

 मह्यं याज्ञा यदिह भवता दीयते सादरेण
 क्षिप्रं सा चेद्यदि न विहिता तद्रुषं धत्स्व चित्ते ॥ ३५॥
 दैवान्निष्कारणमपि विभो चेत्प्रकुप्यस्यभीक्ष्णं
 तन्नो युक्तं सदयमनसां त्वादृशानां जनानाम् ।
 भूयोभिर्वा किमिह वचनैः किं प्रलापैश्च मिथ्या
 मां पादान्ते ध्रुवमपरथा विद्धि संत्यक्तजीवाम् ॥ ३६॥
 उक्त्वैवं तच्चरणयुगले संनिपत्य प्रभूत-
 प्राप्तस्वान्तस्मरशरभरासारसंभूतपीडा ।
 तत्कालं सा करुणकरुणं गाढरागंगृहीता
 वक्षोजोध्रवच्युतनयनबाष्पाम्बुधारा रुरोद ॥ ३७॥
 त्यक्त्वा मौनं सपदि कुपितः स्वार्थलोभगृहीतो
 दूरं कृत्वा विधिमपि हठात्सिद्धिमिच्छन्वराकः ।
 तां रागान्धामथ स शनकैराचचक्षे कथंचि-
 तद्वक्त्रालोकननिरतदृष्टिं निजां संनियम्य ॥ ३८ ॥
 त्वं मे भर्ता त्वमसि दयितः प्राणनाथस्त्वमेव
 त्वं सर्वस्वं मम यदपि चास्ति प्रभो तत्त्वदीयम् ।
 वाङ्मात्रेण प्रतिदिनमहो भाषसे चैवमद्धा
 प्रत्यक्षं तन्न हि तु फलतो लभ्यते किंचिदेव ॥ ३९ ॥
 इत्थं तद्वचनेन जातकुतुका सोद्वाष्पनेत्रा ततः
 पप्रच्छाङ्घ्रितले निपत्य सहसा साभ्यर्थनं सादरम् ।
 किं गूढं भवता विनाप्यकरवं कार्य ममेहोच्यतां
 ज्ञात्वा तत्सदसद्विनिर्णयमहो यद्रोचते तत्कुरु ॥ ४० ॥

इति देलरामाकथासारे सरोषकामुकानुनयो नाम पञ्चमः सर्गः ।

षष्ठः सर्गः।

श्रुत्वा तत्स वणिगुवाच दुर्मतिस्तां नैवासीन्मम विहगीपलेऽतिलिप्सा ।
वक्षःशीर्षमपि तदीयमेव भोक्तुं वाञ्छाभूस्किमपरमांसचर्वणेन ॥ १॥

तद्वस्तुद्वयमपि सर्वमेव सद्यः स्नेहेन स्वसुतयुगाय पूर्वमद्धा ।
दत्त्वा मन्निकटमथागतासि भाण्डं संपूर्णं परखगगात्रतो गृहीत्वा ॥ २ ॥
साकर्ण्योक्तिमिति तमेव मन्यमाना विज्ञानप्रवरमहाधियं तु कंचित् ।
प्रत्याह प्रिय मदसंनिधौ तु ताभ्यां जग्धं तद्वद किमहं करोमि तत्र ॥३॥
सोऽवादीद्यदि दयितेऽधुना ध्रुवं मां जानीषे प्रियतममेव कामुकाग्र्यम् ।
तत्तूर्णं निजतनयौ यथा तथा तौ हन्यास्त्वं युगपदलं निगूढमेव ॥ ४ ॥
उत्पाट्य हृदयमथो तयोः स्वयं तद्वक्षोन्तर्गतविहगीवरास्थियुग्मम् ।
आकृष्य द्रुतमधुना प्रयच्छ मह्यं मन्युर्मे न च परथा प्रशाम्यति द्राक् ॥५॥
 विद्युन्निपातमिव मन्दिरवह्निदाहं
 खड्गप्रहारमिव सागरमज्जनं वा ।
 जारानुरोधवशतः शिशुमारणं हा
 साङ्गीचकार धिगहो वनितानुरागम् ॥६॥
 श्रुत्वेत्यथाभ्युपगमं नितरां प्रतुष्टो
 दुष्टो वणिक्सपदि तां दृढमालिलिङ्ग ।
 गेहे निजे द्रविणभूरितरव्ययेन
 प्रोच्चैस्तदा वरमहोत्सवमादिदेश ॥ ७ ॥
 आनीय सोऽन्तिकमहो विविधं प्रभूतं
 पक्वान्नहारिमदिरादियथेष्टभोज्यम् ।
 आरोप्य तां निबिडरागहृतां निजाङ्के
 प्रीतां परामनुबभूव रतादिभोगैः ॥ ८॥
 आलिङ्गय तां निबिडमेव नरेन्द्रपत्नी
 भोगान्सुदुर्लभतरांश्च पुरो निरीक्ष्य ।
 आखण्डलं च मदनं धनदं तदानी-
 मात्मानमेव स विवेद वणिक्प्रमोदात् ॥९॥
 कृत्वा क्षणं तदधरामृतपानलीलां
 स प्रोद्गतप्रमदजातनितान्तदर्पः ।

 पीयूषलाभमथिताम्बुनिधिप्रभूत-
 संभूतखेदविवशांस्त्रिदशान्निनिन्द ॥ १० ॥
 तन्नेत्रवक्रकरकण्ठकुचोदराति-
 शोभां निरीक्ष्य रुचिरां स चिरं विचार्य ।
 इन्दीवरेन्दुकमलाच्युतशङ्खहेम-
 कुम्भाशनिप्रविहितानुकृति न सेहे ॥ ११ ॥
 एवं तदा विरचयन्खमनोविनोदं
 साकं तया विविधनर्मकथाश्च कुर्वन् ।
 संसेवयन्सुरतसौख्यमलं यथेच्छं
 तामत्यवाहयदसौ क्षणवत्रियामाम् ॥ १२ ॥
 उत्थाय साथ वणिजः शयनाद्गतायां
 रात्रौ स्वपुत्रयुगमारणबद्धकक्ष्या ।
 कर्तुं ह्युपायमतिदुःखकरं प्रभूत-
 पापावहं च निजमन्दिरमाजगाम ॥ १३ ॥
 ध्यात्वा चिरं निबिडरागविनष्टबुद्धिः
 सा दुष्टकामुकसमागमतुष्ट चित्ता ।
 अन्विष्य कंचिदपि दासमतीव पापं
 जग्राह वित्तनिचयेन दयाविहीनम् ॥ १४ ॥
 स्थूलाकृतिं शमनहुंकृतितुल्यवाचं
 कृष्णाननं दुरितकर्मनिरस्तशङ्कम् ।
 आनीय तं विजनमाह नितान्ततीव्र
 चात्यन्तनिर्घृणमतीव भयानकं च ॥ १५ ॥
 त्वत्स्वामिने हि विगणय्य वितीर्य दीना-
 राणां सहस्रमधुनैव समग्रमेव ।
 दासीकृतस्त्वमिह वान्छितकर्महेतोः
 क्षिप्रं मया प्रकुरु तद्यदहं ब्रवीमि ॥ १६ ॥

 यद्येकमेव भवता क्रियतेऽद्य काये
 सद्यस्तु तेन भविता तव दास्यमुक्तिः ।
 तत्त्वं करोषि यदि नैव तु मूर्खभावा-
 च्छास्तिं परामनुभवस्यधुनैव मत्तः ॥ १७ ॥
 श्रुत्वेत्यसौ समुपजातनितान्तहर्ष-
 स्वान्तर्व्यथाभयविषादनिरस्तधैर्यः ।
 पप्रच्छ तां जननि किं क्रियते मयाद्य
 तद्यत्र दुष्करतमेऽस्ति मनोरथस्ते ॥ १८ ॥
 सा प्रत्यभाषत कुरागविनष्टबुद्धि-
 र्मांसं पुनः स्थितमिमं विकरालवक्रम् । र
 एतौ मदीयतनयौ सहसाधुनैव
 गूढं निहत्य कुरु वाञ्छितपूरण मे ॥ १९॥
 आकस्मिकोद्गततडिद्विनिपाततुल्यं
 श्रुत्वा तदेवमतिमात्रगतत्रपोऽपि ।
 कर्णौ पिधाय स बभूव दयार्द्रचित्तः
 कश्चूतचम्पकतरू जडधीश्छिनत्ति ॥ २० ॥
 तां व्याजहार धरणौ प्रणिपत्य दासो
 ब्रूह्यन्यदद्य ननु यत्तदहं करिष्ये ।
 निष्कारणं जननि रम्यगुणाभिरामौ
 कान्ताकृती तव सुतौ तु कथं निहन्याम् ॥ २१॥
 कन्दर्पदर्पहरकान्तिसुरूपरम्या-
 वेतौ निहन्तुमपि सर्वजगत्कृतान्तः ।
 कारुण्यमावहति चेतसि हा कृतान्तो
 मातः प्रसीद विपरीतधियं त्यजातः ॥ २२॥
 देशेऽस्मिन्नप्यखिल एव हि विश्रुतौ तौ
 राजोचितप्रवरलक्षितलक्षणत्वात् ।

 हन्यां कथं यदि च केनचिदेतदेवं
 दृष्टं श्रुतं च भविता मम ते च शास्तिः ॥ २३॥
 तेनापि निर्दयतरेण तथाविधेन
 प्रोक्ता विधाय विनयं च भयं च दत्त्वा ।
 नो दुर्गृहात्तु विचचाल कुकामिराग-
 ग्रस्तस्वबुद्धिरतिनिर्दयतां जगाम ॥ २४ ॥
 तस्या नितान्तमिति दुर्ग्रहमाकलय्य
 स्वार्थातिसाध्वसवशीकृतचित्तवृत्तिः ।
 अङ्गीचकार स कथंचिदहो तदीय-
 पुत्रद्वयप्रलयकर्म ततो भुजिष्यः ॥ २५ ॥
 अत्रान्तरे हि विहगीविनिगीर्णमस्थि-
 वक्षःप्रभावसमुपार्जितवित्तराशिः।
 ज्येष्ठानुजस्य तु बभूव सदैव दीना-
 राणां शतत्रितयलाभवशेन तस्य ।। २६॥
 क्रीडानिमित्तमथ तौ विजनं स नीत्वा
 बालौ नरेन्द्रतनयौ विगतात्मशङ्कौ ।
 जग्राह वक्षसि निधाय बत खमुष्टिं
 हन्तुं रुषा सपदि राहुरिवार्कचन्द्रौ ॥ २७ ॥
 पप्रच्छतुस्तमवनीशसुतावकस्मा-
 त्कस्मात्प्रकुप्यसि सखे बत निर्निमित्तम् ।
 दासत्वमेव कुरुषे सततं हि नस्त्वं
 नास्माभिरप्रियमकारि तवाद्य किंचित् ॥ २८॥
 श्रुत्वेत्युवाच स ततः परिचारकस्तौ
 केनापि कारणवशेन भवज्जनित्री।
 रोषाकुलास्ति युवयोरधुना नितान्तं
 सोऽहं प्रयुक्त इह वामनया निहन्तुम् ॥ २९ ॥

 किंचित्तदीयवपुषोस्तु भवान्न कुर्या-
 त्तौ त्वं निहत्य सहसा प्रकटं समेहि ।
 इत्यादिदेश जननी युवयोरिदानी
 मां किं करोमि परतन्त्रनिजक्रियस्तत् ॥ ३० ॥
 दृष्ट्वा युवां हि निहतौ धनजातहर्षा-
 दङ्गीचकार मम किंकरकर्ममुक्तिम् ।
 सा चान्यथा विविधया तनयातिपीडां
 स्वार्थान्स भीतिवशगः किमहं करिष्ये ॥ ३१ ॥
 तावूचतुः सविनयं प्रणिपत्य दासं
 संभूतभूरितरभीतिसकम्पचित्तौ।
 नैवाहसि त्वमिह हन्तुमनागसौ नौ
 साघो विचारय मनस्यधुना स्वयं तत् ॥ ३२ ॥
 निष्कारणं च यदि हंसि सखेऽधुनावां
 पापं भविष्यति नितान्तममन्ददुःखम् ।
 त्वं घातयन्सपदि नौ यदि केनचिच्च
 दृष्टः स्वलीकृतिमवाप्स्यसि चानिवार्याम् ॥ ३३ ॥
 अङ्गीकृता यदि तया हितया जनन्या
 हत्वा हि नौ तव तु किंकरकर्ममुक्तिः।
 तत्पुंसु सत्सु कथमर्हति मङ्क्षु रामा
 कर्तुं यथेच्छमधिकारममन्ददर्पात् ॥ ३४ ॥
 कर्तुं सखे स्वपरिचारककर्ममुक्तिं
 ह्यावां विलिख्य निजलेखमिहैव तुल्यम् ।
 व्यक्ताक्षरैः स्वयमुताद्य तथा ददाव
 त्वां जातुचिन्न तु रुणद्धि यथैव कश्चित् ॥ ३५ ॥
 भोगार्थमप्यतनुहर्षकरं च दीना-
 राणां सहस्रमपि संप्रति दीयते ते ।

 स्वार्थों भवत्यभिमतो भवतो नितान्तं
 पुण्यं च नौ तदपि रक्षसि चेद्विचार्य ।। ३६ ॥
 किं चान्यथा तव सखे गुरु पातकं स्या-
 त्स्वार्थोऽपि नश्यति न तुष्यति कोऽपि बुद्धा ।
 नो सा भविष्यति च किंकरकर्ममुक्तिः
 स्त्रीणां मतं हि विफलं सति पुंसि यस्मात् ।। ३७ ।।
 तद्भोः प्रसीद कुरु मा गुरु पातकं नौ
 त्रायस्व संप्रति सखे श्रय साधुवादम् ।
 कीर्ति नितान्तमिह चापरलोकपथ्यां
 श्रेयस्करं प्रबलपुण्यमलं गृहाण ॥ ३८ ॥
 श्रुत्वेत्यभाषत ततो मुदितः स दीना-
 राणां सहस्रमिह मे त्वरितं युवाभ्याम् ।
 तद्दीयते यदि च संप्रति लेखपत्रं
 रक्षामि वां भवतु यत्तदतो ममाद्य ॥ ३९ ॥
 तस्मै विलिख्य च ददौ नितरां प्रतुष्टो
 ज्येष्ठः स्वलेखमथ किंकरकर्ममुक्त्यै ।
 तस्यानुजश्च सहसैव यथोक्तदीना-
 राणां सहस्रमपि जीवितरक्षणार्थम् ॥ ४० ॥
 ततः प्रमुदितो भृशं द्रविणतः सदा मेरकः
 उवाच नृपतेः सुतौ भयविकम्पिताङ्गौ पुरः ।
 पलाय्य ननु कुत्रचिद्विपुलरंहसा गम्यतां
 व्रजाम्यपरदेशमध्यमहमप्यलं साध्वसात् ।। ४१ ।।
 श्रुत्वैवं गिरमुच्चकैः प्रमददां तौ भूमिपालात्मजौ
 मार्तण्डातपतप्तधन्वधरणौ पीयूषवृष्टिं यथा ।
 दूरं क्वापि तु जग्मतुः प्रतिभयास्त्वं मन्यमानौ पुन-
 र्जातं भूरिजवोद्गतामिततरोच्छ्वासे प्रकम्पाकुलौ ॥ ४२ ॥

इति देलरामाकथासारे कामुकाराधनार्थ दासविमुक्त्यनन्तरं पुत्रद्वयपरदेशगमनं नाम

षष्ठः सर्गः।

सप्तमः सर्गः।

 गच्छन्तौ विपुलाध्वखिन्नवपुषौ क्षुत्क्षामकण्ठौ भृशं
 नारम्यगवाक्ष्यहर्म्यरुचिरागारावलीदन्तुरम् ।
 तीक्ष्णानल्पसुशिल्पमूर्तिजनितासंसेवितं कंचिद-
 प्येकं सत्पुटभेदनं पृथुधनं संप्रापतुस्तौ क्रमात् ॥ १ ॥
 तत्काले विधियोगतो नरपतिस्तत्रागमत्पञ्चतां
 तद्दुःखाकुलसाधुवर्यसचिवान्बाप्पाम्बुसिक्ताननान् ।
 स्वप्ने दिव्यपुमाञ्जगाद सहसा कश्चित्समभ्येत्य ता-
 न्प्रत्येकं दयया निशीथसमये व्योम्नोऽवतीर्य खयम् ॥ २॥
 युष्मद्भाग्यवशान्महम्मदसुरत्राणात्मजः सद्गुण
 इब्राहीम इति प्रसिद्धनिजनामेह भ्रमँश्चागतः ।
 राजद्वारि निशाक्षये रुचिरसद्रूपो हि यो दृश्यते
 तस्मै राज्यमिदं भवद्भिरधुना सर्वैर्द्रुतं दीयताम् ॥ ३ ॥
 इत्युक्त्वा सचिवान्स दिव्यपुरुषोऽप्येकैकशोऽन्तर्दधे
 स्वप्ने तेऽपि तदित्थमत्र वचनं चेतोहरं दुर्लभम् ।
 अन्योन्यं जगदुः प्रहृष्टमनसः प्रातस्ततस्तत्यजुः
 स्वक्षोणीपतिमृत्युकालजनितस्वान्तव्यथावैशसम् ।। ४ ॥
अत्रान्तरे तौ क्षितिपालपुत्रावितस्ततः संभ्रमतो भ्रमन्तौ ।
पुरं प्रविश्य श्रियमीक्षमाणामेकां मसेदामथ पश्यतः स्म ॥ ५॥
तत्रोपविश्य श्रमविश्लथाङ्गो ज्येष्ठोऽनुजं प्राह स राजपुत्रः ।
भ्रातः श्रियं पश्य पुरोत्तमेऽस्मिन्नदृष्टपूर्वी विविधां मनोज्ञाम् ॥ ६ ॥
एतस्य रम्यां पुटभेदनस्य द्रष्टुं श्रियं संप्रति किं तु बह्वीम् ।
भ्रातस्तदेकेन पथा ब्रज त्वं गच्छामि चान्येन च वत्र्मनाहम् ॥ ७ ॥
दिनावसाने च ततो मिलित्वा भ्रातर्मसेदान्तर एव चात्र ।
कथासुखं चानुभवाव उच्चैः परस्परालोकितकौतुकेन ॥ ८ ॥
श्रुत्वेति तद्वाक्यमथो कनीयांस्तथेति चोक्त्वा प्रययौ सुदूरम् ।
उत्थाय सोऽप्यग्रज उच्चकैस्तां द्रष्टुं श्रियं तत्र पुरे चचार ॥ ९॥

स चाग्रजोऽगच्छदुदारलक्ष्मीं पश्यन्पुरे तत्र सविस्मयोऽलम् ।
समाससाद क्षितिपालसिंहद्वारं निबद्धामितवारणाश्वम् ॥ १० ॥
सुलक्षणालोकनकौतुकेन पृष्टो जनैरन्वयनामनी सः ।
स्वकीयवृत्तान्तमशेषमेव व्यावर्णयामास नरेन्द्रसूनुः ॥ ११ ॥
निवेदितं तत्र जनैः सहर्षं ततः ससैन्याखिलमन्त्रिमुख्याः ।
पौराश्च बद्धाञ्जलयः समन्तादुपागता राजसुतं प्रणेमुः ॥ १२ ॥
स्वप्नोक्तसल्लक्षणदर्शनेन प्रहृष्टचित्तैः सचिवैस्तदानीम् ।
हिरण्यकुम्भैर्विमलाम्बुपूर्णे राज्येऽभिषिक्तः स रराज राजा ॥ १३ ॥
प्राज्यं स राज्यं समवाप्य नानाभोगोपभोगोत्सुकमानसोऽभूत् ।
कनीयसो भ्रातुरहो कदाचित्सस्मार नो राजसुतस्य तस्य ॥ १४ ॥
अत्रान्तरे स क्षितिपालसूनुर्मो(र्मु)रादभक्षो(बख्शो) दिवसावसाने ।
अदर्शनाद्भातुरहो मसेदासमीपमागत्य शुशोच दुःखात् ॥ १५ ॥
दूराध्वखेदेन बुभुक्षया च भ्रातुर्वियोगेन च पीड्यमानः ।
कथंचिदाहारमसौ तु किंचिच्चकार तत्रापणमध्यमेत्य ॥ १६ ॥
इतस्ततो भ्रातृगवेषणार्थ भ्रमन्प्रभूतव्यसनान्तचेताः ।
स्खलद्गतिर्दूरतराध्वखेदादेकं वरोद्यानमथाविवेश ॥ १७ ॥
व्याकोशपुष्पस्तबकप्रनम्रप्रतानिनीराजिविराजमाने ।
तत्र क्षणं शाखितलोपविष्टस्तुतोष नानाश्रियमीक्षमाणः ॥ १८ ॥
इतस्ततो यावदसौ स्वदृष्टिं क्षिपन्क्षणं शाखितलेऽत्र तस्थौ।
तदन्तिके तावदथारुरोह प्रोत्तुङ्गसौधं वनिता तु काचित् ॥ १९ ॥
विराजितां साञ्जनहारिनेत्रद्वयेन सभृङ्गजितोत्पलेन ।
प्रोत्तुङ्गपीनस्तनयुग्मशोभाहिरण्यकुम्भाहितकान्तिगर्गा(र्भा)म् ॥ २० ॥
आश्यामधम्मिल्लविधुंतुदेन भ्रान्त्या सुसंपूर्णतुषाररश्मेः ।
व्योम्नोऽवतीर्य द्रुतमेव भूमौ रुषेव पश्चात्समुपात्तवक्राम् ॥ २१ ॥
लावण्यपाथोनिधिरत्नवीचिं तारुण्यहेमाद्रिहिरण्यवल्लीम् ।
सुकान्तिगङ्गानलिनी प्रफुल्लां शृङ्गारमद्भूमिरुहालवालाम् ॥ २२ ॥

दम्भोलिमध्यामपि वंशनासामानन्ददामन्दसुसुन्दरत्वात् ।
तां सुन्दरीं वीक्ष्य ननन्द तत्र पूर्णेन्दुवक्रां स नरेन्द्रसूनुः ॥ २३ ॥
  (चतुर्भिः कुलकम्)
ततः स दध्यौ नरनाथसूनुर्नवीनसंभूतमनोभवार्तिः ।
इयत्यहो नो ददृशे न काचिन्मया पुरेऽस्मिन्भ्रमता पुरंध्री ॥ २४ ।।
किमप्सराः काचिदियं तु नाकाच्छापावतीर्णा धरणीतलेऽत्र ।
पुरान्तरात्किं बहिरन्यथेयं व्यक्तं समारुह्य करोति हर्म्यम् ॥ २५ ॥
ध्यात्वेति निर्याय नरेन्द्रसूनुरुद्यानमध्यात्सहसा ततः सः ।
तदन्तिके कांचिदुपेत्य दासीं पप्रच्छ केयं ललना स्थितेति ॥२६॥
सा चेटिका भूमिपतेस्तनूजं जगाद जातामितकौतुकं तम् ।
इयं पुरेऽस्मिन्प्रथिताभिरामा वेश्यास्ति नाम्ना खलु देलरामा ॥२७॥
दीनारराशिं विगणय्य सद्यः शतत्रयं यो हि ददाति चास्यै
एकां स रात्रिं भजते विचित्रभोगैः सुखं साकमथानयेह ॥ २८ ॥
श्रुत्वेति संचोदितचित्तवृत्तिर्लब्धावकाशेन मनोभवेन ।
अद्य प्रयच्छामि शतत्रयं यत्तूर्णं समावेदय चेत्युवाच ॥ २२॥
ततस्तया हर्षपुरःसरं तत्समीपमागत्य निवेदितः सः ।
तदीयवाचा प्रविवेश देलरामाभिरामालयमुच्चशोभम् ॥ ३०॥
विलोक्य तं साद्भुतरूपकान्तिं मनोहराकारमुदारशोभम् ।
प्रत्युद्ययौ जातनितान्तहर्षा निजासनार्धं सविधे निधाय ॥ ३१ ।।
नानास्वलंकारभराभिरामां सदान्यरामाधिककान्तिकान्ताम् ।
विलासहास्यादिगुणाविरामां ददर्श हर्षादथ देलरामाम् ॥ ३२ ॥
अन्योन्यमालिङ्गय ततोऽतिगाढं कपोलयुग्मं परिचुम्व्य चैव ।
प्रीतिं प्रकल्प्य प्रथमं नितान्तं चैकं त्वलंचक्रतुरासनं तौ ॥ ३३ ॥
चेटीगिरा तत्पुरतस्तदानीं दीनारराशिं विगणय्य सद्यः ॥
स सर्वमेवात्र तु सावहेलं चिक्षेप वस्त्रान्तरतो विकृष्य ॥ ३४ ॥
तदन्तिके चाथ विचित्रशोभं पर्यङ्कमारुह्य नितान्तरम्यम् ।
नानाविधैर्भोगचयैर्यथेच्छं संभोगसौख्येन च पिप्रिये सः ॥ ३५ ।।

ततो गतायां कमनीयभोगैर्मुहूर्तवत्तत्र तु यामवत्याम् ।
प्रविश्य चेटी तमुवाच कोपान्निर्याहि तूर्णं सदनादमुष्मात् ॥ ३६ ॥
दत्ता यथा ह्यो भवता स्वभाटी तथाद्य योऽस्यै हि ददाति कामी ।
स एतया साकमिहैकरात्रिं भोगान्यथेच्छं भजते मनोज्ञान् ॥ ३७॥
श्रुत्वेति तद्वाक्यमथाभ्यधात्तां मयैव भाटी प्रतिपाद्यतेऽद्य ।
तथैव ह्यः किं तु यथैव नूनं मिथ्यातिकोपं त्यज चेटिके त्वम् ॥ ३८ ॥
उक्त्वेति संरम्भवशेन तूर्णं प्रक्षिप्य भाटी पुरतो यथोक्ताम् ।
तथैव भेजे विविधान्नपानस्वेच्छाहितानल्परतोपभोगान् ॥ ३९ ॥
तस्यां गतायामपि यामवत्यां तथैव दासीवचनेन सद्यः ।
प्रक्षिप्य भाटीं पुरतो यथोक्तां निशामुखं प्राग्वदसौ सिषेवे ॥ ४०॥
इत्थं तदानीं कतिचिद्दिनेषु यातेषु दध्यावथ वारयोषित् ।
यथोक्तदीनारसमर्पणेन प्रभूतसंभूतकुतूहला सा ॥ ४१ ।।
अहो न कोशादि विलोक्यतेऽस्य स्वहस्तगं नो द्रविणं च किंचित् ।
न चापि कश्चिद्भृतकोऽनुयायी बहिश्च नो निर्गमनं कदाचित् ॥४२॥
कुतः समानीय ददाति वित्तं चेटीगिरा संप्रति तूर्णमेषः ।
यथोक्तदीनारचयं हि मह्यं को हेतुरत्रेति न वेद्मि हन्त ॥ ४३ ॥
 इत्थं विमृश्य सुचिरं हृदये तदानीं
 ज्ञातुं तदीयधनसंभवकारणं सा ।
 कर्तुं च किंचिदपि कौतुकमात्मसिद्ध्यै
 तं चापि वञ्चयितुमेव समुद्यताभूत् ॥ ४४ ॥

इति देलरामाकथासारे देलरामासमागमनानन्तरं राजपुत्रस्य वञ्चनोपायो नाम

सप्तमः सर्गः।

अष्टमः सर्गः।

अथ समारभतात्मधनेन सा वरतरं स्वमहोत्सवमेकदा ।
मधु नितान्तमपाययदत्र तं सविनयं प्रणिपत्य पुनः पुनः ॥ १ ॥
मधुमदेन तु निष्कलमीक्ष्य तं विनयपूर्वमपृच्छदसौ स्वयम् ।
किमिति वित्तचयेन भवेद्विभो यदि भवद्विध एति सुकामुकः ॥२॥

अहमतो ह्यधुना तव किंकरी ललितकान्तिवशीकृतमानसा ।
त्वमपि जीवितनाथ इहास्ति यन्मम धनं त्वदधीनमिदं हितम् ॥ ३ ॥
तदपि कौतुकमेकमिहाद्य मे मनसि जीवितनाथ विजृम्भते ।
यदसितोत्कलिकावशतः सदा न रसिकास्मि तु कुत्रचिदप्यहो ॥ ४ ॥
तदहमस्मि तवाद्य यदि प्रिया यदि च वेत्सि तु मामनुरागिणीम् ।
मयि चिकीर्षसि चेत्त्वमनुग्रहं कथय तत्कुतुकं विनिवारय ॥ ५ ॥
इति निशम्य तदीयगिरं ततो मधुमदापहृताखिलचेतनः ।
सपदि तां तदपृच्छदसौ तदा किमिति संभ्रमतो नृपनन्दनः ॥ ६॥
अथ ततो गणिका निजगाद सा यदि विवर्णयसि स्फुटमद्य मे ।
यदि न कुप्यसि नाथ मनागपि प्रियतम ध्रुवमद्य वदामि तत् ॥ ७ ॥
वद तदद्य तु वेद्मि यदि प्रिये ध्रुवमिह द्रुतमेव मयोद्यते ।
इति निशम्य नृपात्मजभारतीं सपदि वक्तुमसावुपचक्रमे ॥ ८ ॥
न निजधाम न चानुचरागमो न च बहिर्गमनं तव दृश्यते ।
न हि तु किंचिदपि स्वकरेऽप्यहो किमपि नैव च भाण्डमपि प्रभो ॥९॥
इयदहो प्रतिवासरमेव तत्कुत इदं द्रविणं तव विद्यते ।
इति हि जीवितनाथ कुतूहलं मनसि संप्रति तिष्ठति मेऽनिशम् ॥१०॥
अथ स वारवधूमविदन्निमां कुसृतिवञ्चनतत्परमानसाम् ।
सुपरिपीतघनासवमोहितः सरलहृत्समभाषत सत्यतः ॥ ११ ॥
शृणु पुरैकविहंगसुता हि नः समभवत्सवने सदने कृशा ।
बत निहत्य तु तामपचत्कदाचिदपि मज्जननी विजने स्वयम् ॥ १२॥
अथ तमेव तदीयमुरस्तदा द्रुततरं विनिगीर्य निजे गृहे ।
किमपि कर्म विधातुमथो बहिर्व्रिगतमातरि जातबुभुक्षया ॥ १३ ॥
 यतः प्रभृति खादितं तदपि किं तु वक्षो मया
 ततः प्रभृति सर्वदा द्रविणमेतदुत्पत्स्यति ।
 निजोरसि च वल्लभे किल तदस्ति जानेऽस्ति मे
 तदन्तिकतमांशुके कथमिदं भवेदन्यथा ॥ १४ ॥

 इति स्फुटतरं गिरं सपदि सा समाकर्ण्य तां
 विधाय मधुना समं मुदितमानमामिश्रितम् ।
 तथाविधधनासवापहृतचेतनाय द्रुतं
 ददौ तु वमनौषधं नृपसुताय तस्मै तदा ॥ १५॥
 ववाम सकलं ततो यदपि जग्धमेवाशनं
 महामणिमनोहरं तदपि चास्थि वक्षोऽन्तरात् ।
 निपीतमदिरालवस्रवदमन्दनासाम्यवा-
 न्स भूमिपतिनन्दनः सपदि खेदितो विव्यथे ॥ १६ ॥
 नरेन्द्रतनये ततो वमनखेदसुप्ते निशि
 प्रहृष्टगणिकाप्यसौ तदतिवान्तभोज्यान्तरात् ।
 गवेष्य च विलोक्य निर्मलतरं विधायास्थि त-
 न्निगीर्य च तदन्तिके व्यधित तत्र निद्रासुखम् ॥ १७ ।।
 प्रभातसमये तया सपदि चोदिता चेटिका
 जगाद घनमन्युना नृपतिनन्दनं निर्धनम् ।
 इतोऽपसर सांप्रतं त्वपर एति वित्तप्रदः
 किमत्र कुरुषे रुषेति करमाचकर्ष स्वयम् ॥ १८ ॥
 उवाच स तु पूर्ववत्समहिमास्थिरत्नास्थया
 मयैव खलु दीयते तदखिलं यथोक्तं धनम् ।
 त्वमद्य कुरुषे रुषं किमपि चेटिके दुर्मते
 यदा न मम विद्यते वसु तदा व्रजामि स्वयम् ॥ १९॥
 उदीर्य वसनान्तरं निजमिति स्वयं वीक्षते
 प्रलब्धुमथ पूर्ववद्द्रविणमत्र यावच्च सः।
 न तावदपि चाप्तवान्किमपि किं तु संस्मृत्य तां
 निशान्तरजनश्रुतिं सपदि विव्यथे छिद्रतः ॥ २० ॥
 ततः सपदि कुट्टनीप्रमुखसर्वचेटीजनै-
 र्धनं हि परिदीयते त्यजत संभ्रमं निष्फलम् ।

 इति प्रतिपदं वदन्बत निरुद्धजङ्घाभुजो
 हतेन सदनान्तरान्नृपसुतः स निर्वासितः ॥ २१ ॥
 गर्हागालिगलार्धचन्द्रमुखभूयिष्ठाक्मानोद्गत-
 व्रीडामन्युविषादसाध्वसवशात्संत्रस्तचित्तस्ततः ।
 ध्यायं ध्यायमतीव वारवनिताछद्मांनुतापावहो
 गन्तुं वापि स हन्त भूपतिसुतो दूरं प्रतस्थे तदा ॥२२॥

इति देलरामाकथासारे गणिकाकल्पितकपटवञ्चनानन्तरं राजपुत्रखलीकारो नाम

अष्टमः सर्गः।

नवमः सर्गः ।


 स्वचापशरमात्रपाणिरतिमात्रदुःखाकुलो
 व्रजन्नृपतिनन्दनो बत स निर्धनः प्रस्खलन् ।
 अवृत्तिवशतो मुमूर्षुरटवीमथैकां क्रमा-
 दवाप गणिकाकुचेष्टितमतीव निन्दन्मुहुः ॥ १॥
 व्रजन्स पुरतो घनोद्गतबुभुक्षया पीडितः
 स्खलत्प्रतिपदं विषादहतशक्तिरायासवान् ।
 परस्परविवादतः प्रकुपितं त्वरण्यान्तरे
 ददर्श मनुजत्रयं सपदि तत्र भूपात्मजः ॥ २ ॥
 उपेत्य सहसा ततो नृपसुतः स पप्रच्छ ता-
 न्विवादमिह निर्जने कुरुत किंनिमित्तं रुषा ।
 ममाद्य वदत खयं कलहहेतुमङ्ग ध्रुवं
 विचार्य करवै च वो निजसमीहितं हृद्गतम् ॥ ३ ॥
 इत्थं निशम्य वचनं हृदयंगमं त-
 त्कंचिन्महान्तमपि तं प्रविभाव्य कान्त्या ।
 तन्मध्यतः सपदि कश्चिदुवाच तत्र
 त्वेको नरः सविनयं च सहर्षमेव ।। ४ ।।
 भस्त्रांशुकश्च रुचिरोऽभिनवस्थलस्था
 चेति दृशाभिमतमस्ति विभो स्वकीयम् ।

 वस्तुत्रयं वरमिदं तदिहाद्य भागी-
 कर्तुं विवाद उदभूदितरेतरं नः ॥ ५ ॥
 त्वं कोऽपि संप्रति किलावसरेऽस्मदीय-
 भाग्यैरिहागत उदारतरखबुद्धिः ।
 भागीकुरुष्व तदिदं कृपया क्षणं नो
 यद्यस्य वेत्सि तदितस्तु विचार्य देहि ॥ ६॥
 पप्रच्छ राजतनयः स ततः प्रभूत-
 संभूतकौतुकवशेन नरं तमेकम् ।
 वस्तुत्रयस्य वद को महिमास्य साधो
 यत्कारणेन भवतां जनितो विरोधः ॥ ७ ॥
 एको नरः स निजगाद नरेन्द्रसूनुं
 श्रुत्वेति वाक्यमथ तत्र पुरः प्रणम्य ।
 भस्त्रेयमङ्ग ननु यस्य करेऽस्ति दीना-
 राणां शतत्रयमसौ लभते सदैव ॥ ८ ॥
 नित्यं स्वहस्तनिजदत्तयथेच्छनिष्कै-
 र्भोज्यादिकं सपदि दूरतरादपि द्राक् ।
 नेदिष्टमानयति तस्य सुभाग्यभाजः
 कीरोऽप्यसौ प्रवरधीरुत यस्य पुंसः ॥९॥
 एषापि यस्य कृतिनो भवति स्थलस्था
 स्थानं स यत्सपदि वाञ्छति गन्तुमद्धा ।
 प्राप्नोति तत्त्वरितमेव परैरदृष्टो
 वैमानिकोपमजवेन नितान्तसौख्यात् ॥ १०॥
 श्रुत्वेति तं स निजगाद नरेन्द्रसूनु-
 र्जानाम्यहं वरगुणान्हि परस्परं वः ।
 कस्मै मयाधिकतमो रुचिरः स्वभाग-
 स्तद्दीयतेऽलमिति चेतसि संशयो मे ॥ ११ ॥

 आकृष्य चापमित एव शिलीमुखांस्त्री-
 न्मुञ्चामि वो जवगुणं विनिरीक्षितुं तत् ।
 एकैकशः परिगृहीतमदीयबाणो
 यः पूर्वमन्तिकमिहैति स ज्येष्ठभागी ॥ १२ ॥
 आकर्ण्य वाचमिति तैस्तु तथेति चोक्ते
 कर्णान्तकृष्टहठगाढतरस्वचापः ।
 वेगेन दूरतरगामिनरेन्द्रसूनु-
 र्बाणत्रयं सपदि दिवित्रतये मुमोच ॥ १३ ॥
 तेषु द्रुतं तदभिधावनसोद्यमेषु
 त्यक्त्वा स्ववस्तुचयमस्य समीप एव ।
 प्राहोपविश्य नृपसूनुरथो स्थलस्थां
 भस्त्रां शुकं च निजहस्तगतं विधाय ॥ १४ ॥
 माहात्म्यतस्तव जनन्यधुनैव देल-
 रामान्तिकं द्रुततरं घनरंहसैव ।
 प्राप्नोम्यहं ननु यथैव तथा कुरुष्व
 त्वं मे प्रसादमवसाद निगर्हणार्हम् ॥ १५॥
 वाङ्मात्रतः सपदि भूपसुतः स तस्याः
 शय्यासमीपमथ तत्क्षणमाससाद ।
 साश्चर्यमेव च ससाध्वसमन्तिके तं
 दृष्ट्वा व्यचिन्तयदसावपि वारयोषित् ॥ १६ ॥
 अस्मद्गृहे बहुविधामिति रक्षिवर्गे
 नावेदितो न हि च केनचिदेव दृष्टः ।
 सोऽयं कथं सपदि मे निकटं प्रविष्टो
 भूयिष्ठविस्मयकरः स्वविशिष्टबुद्ध्या ॥ १७ ॥
 कोऽपि ध्रुवं समहिमायमुदारकीर्ति-
 स्तत्सांप्रतं विनयमेव करोमि चास्य ।

 ध्यात्वेति वारवनिता विततार सद्यः
 खट्वातलात्प्रमुदितेव समुत्सुकेव ॥ १८ ॥
 अभ्यर्णमेत्य चरणद्वितयं प्रणम्य
 तज्जानुयुग्ममपि सा परिचुम्ब्य सद्यः ।
 बाहुद्वयेन च बलिं विरचय्य चाग्रे
 भूमौ ततः समुपविश्य च तं बभाषे ॥ १९ ॥
 दिष्ट्या चिरेण मम लोचनगोचरत्वं
 यातः प्रभो कथय कुत्र तदद्य तावत् ।
 आसीद्भवान्विपुलसद्गुणवान्स्वकान्ति-
 लावण्यवान्प्रवरवारणबन्धरज्जुः ॥ २० ॥
 पापा गुणैर्विरहिता बत कुट्टनीयं
 चेट्योऽपि दुष्टमतयः सदने वसन्ति ।
 स्वैरं कुकर्म रचयन्ति निकाममद्धा
 याभिः कुबुद्धिवशतो नरिनर्तितास्मि ॥ २१ ॥
 प्राणप्रियस्त्वमपि याभिरहो हठेन
 निर्वासितः सपदि हन्त हि कद्वदाभिः ।
 मद्भारतीमपि निरस्य विहस्य ताभि-
 राक्रान्तवेश्मवशतः किमहं करिष्ये ॥ २२ ॥
 नाथ प्रसीद कुरु मा मयि चावहेलां
 लीलां कुरुष्व किल पूर्ववदेव तस्मात् ।
 उक्त्वेति वाररमणी रमणीयवाणी
 तं भूमिपालतनयं दृढमालिलिङ्ग ॥ २३ ॥
 सोऽपि क्षणेन विनिवार्य तु मौनमुद्रां
 भस्त्रां निघाय वसनान्तर एव गूढम् ।
 आलप्य किंचिदपि हास्यकरं स्वदीना-
 राणां शतत्रितयमक्षिपदेतदग्रे ॥ २४ ॥

 तस्यासने तु विनिरीक्ष्य नवां स्थलस्था-
 मेकं शुकं च करगं परितुष्टचित्ता ।
 पप्रच्छ वस्तुयुगलस्य तु तस्य वार्तां
 संजातविस्मयवशेन नरेन्द्रसूनुम् ॥ २५ ॥
 सोऽमुं मृषैव निजगाद तु सावहित्थं
 छिद्रं विदन्पुनरपि क्षितिपालसूनुः ।
 एकस्य कस्यचिदिदं करगं बभूव
 वस्तुद्वयं स च ददौ प्रणयेन मह्यम् ॥ २६ ॥
 उक्त्वेत्यथो बहुविधामितभोजमद्य-
 पानादिकं सह तया स विधाय रात्रौ ।
 खट्वातलेऽतिरुचिरे शयनार्थमुच्चै-
 रभ्यर्थितोऽपि न मुमोच निजां स्थलस्थाम् ॥ २७ ॥
 तस्यानुरोधवशतो निजतूलितव्य-
 मुत्सृत्य वारवनितापि तदन्तिके सा ।
 शय्यां व्यधात्कृतकरागवशावतीर्णा
 पर्यङ्कतः सपदि भूरितरादरेण ॥ २८ ॥
 याते ततो नृपसुतः स निशैकयामे
 याम्ये तया कचिदितः सह चिन्तयेति ।
 निर्निद्र एव समभाषत तां स्थलस्थां
 सुप्तां विभाव्य तदुपर्यबलां समीपे ॥ २९ ॥
 यत्रास्ति नो वसतिरेव हि यत्र रथ्या
 न ज्ञायते जननि कुत्रचिदप्यजस्रम् ।
 अम्भोनिधिः परित एव विभाति यत्र
 द्वीपं तदद्य नय मामनया समेतम् ॥ ३० ॥
 इत्थं राजसुतो निगद्य स ततो रात्र्यन्धकारे घने
 भस्त्राकीरकरश्च वारवनितायुक्तस्तदानीं सुखम् ।

 तन्माहात्म्यवशेन वासभवनान्निर्याय चालक्षित-
 स्तद्द्वीपं समवाप वाञ्छिततरं मध्येसमुद्रं द्रुतम् ॥ ३१ ॥

इति देलरामाकथासारे वस्तुत्रयप्राप्यनन्तरं देलरामां वासभवनादाकृष्य तया साकं

राजपुत्रस्य सिन्धुद्वीपगमनं नाम नवमः सर्गः ।

दशमः सर्गः।

प्रातरत्र सहसा विहाय निद्रामसावथ विलासिनी तदा ।
न व्यलोकत निजं गृहादिकं केवलं च परितः पयोनिधिम् ॥ १॥
सा ततो विपुलजातसाध्वसातङ्कसंकुचितदर्पगौरवा ।
तत्र वारवनिता व्यचिन्तयद्भूमिपालसुतमायया छलम् ॥ २ ॥
हन्त मे प्रतिकृतिर्दुरात्मनाश्वास्य किं तु विहितामुनाधुना ।
क्व व्रजामि तदितो महार्णवात्प्रोल्लसद्विपुलवीचिसंचयात् ॥ ३ ॥
मामकं सदनमाययौ यथा गूढमेष नितरामलक्षितः ।
तत्तथेह च हि मां द्रुतं ममाकृष्य वासभवनादिहागतः ॥ ४ ॥
किं प्रलापनिवहैर्वृथा कृतैः सावहित्थमिह वस्त्रमद्य मे ।
युक्तमेव परथा त्वहं रुषा चेदनेन निहता शृणोति कः ॥ ५ ॥
एवमत्र तु विचिन्त्य तं प्रबुद्धं जगाद मुदितेव तत्क्षणम् ।
शोभनं हि भवता विनिर्मितं कर्मतोऽर्थयति मामकं मनः ॥ ६ ॥
कुट्टिनी गतघृणा हि तत्र मां त्वत्परायणतमां विलोक्य सा।
संततं भ्रुकुटिमेव मन्युना दुर्मतिः प्रकुरुते स्म भूरिशः ॥ ७ ॥
अद्य तावकधिया नृशंसधीः सा क चाहमपि च क दूरतः ।
एकया तदपि हन्त चिन्तया व्याकुलास्मि नितरामिह प्रभो ॥ ८॥
ग्राम एव न च पत्तनं विभो दृश्यतेऽत्र न तु मानुषागमः ।
केवलं जलधिरेव सर्वतः सांप्रतं किमुपभुज्यते हि तत् ॥९॥
सोऽभ्यधान्नृपसुतः प्रहर्षवान्वारयोषितमथो विहस्य ताम् ।
भुङ्क्ष्व यन्मनसि रोचते प्रिये तुभ्यमद्य भव धीरधीः सदा ॥ १० ॥
इत्युदीर्य सभयां प्रियां समाश्वास्य कीरमवदत्पुरःस्थितम् ।
किंचिदेव किल तत्करे समर्प्यं स्ववित्तमवनीशनन्दनः ॥ ११ ॥

मत्समीपमिह सन्मतेऽधुनान्विष्य भद्र हि कुतश्चिदुत्तमात् ।
तूर्णमेव पुटभेदनाद्धनाद्भोज्यमानय वरासवान्वितम् ॥ १२ ॥
सोऽथ तद्वचनमात्रतस्तदोत्पत्य खं सपदि सन्मतिः शुकः ।
आनिनाय ललितं कुतश्चिदस्यान्तिकं विविधमासवाशनम् ॥ १३ ॥
आसवं बहुविधं च भोजनं तच्छुकाहृतमनेन दुर्लभम् ।
सा सुधाफलसमे समं समास्वाद्य वारवनिता विसिस्मिये ॥ १४ ॥
प्रत्यहं स तु तथैव कीरराडाजहार वरमासवाशनम् ।
सोऽपि भूमितनयस्तया समं निर्विशङ्कमघसत्पपौ सुखम् ।। १५ ।।
एवमत्र शुकमन्त्रताहृतानल्पभोज्यमधुमुख्यभोग्यवान् ।
कालमेष दयितासखस्तदा कंचिदेव सुखमत्यवाहयत् ॥ १६ ॥
जातुचित्तमवदन्नृपात्मजं वारयोषिदथ छिद्रदर्शिनी ।
आर्यपुत्र न हि विद्यते....नौ कर्म किंचिदपि देहखेददम् ॥ १७ ॥
मन्दमन्दमपि तच्छनैः शनैर्भोजनं ह्यविरतं विधीयताम् ।
किं न नाथ सततं महामते स्वैरमत्र विजने मनोहरे ॥१८॥
वासरद्वयकृते यदानया माससंततमसौ शुकः सुधीः ।
तत्समाहरतु भोज्यमुच्चकैः सासवं सकृदनल्परंहसा ॥ १९॥
एष चापि न भवेद्गतागतैः खेदितो हि शुकराट् पुनः पुनः ।
हृत्प्रमोद उत(?)जावयोः प्रभो जायते बहुविधाशनेन तत् ॥ २० ॥
सोऽब्रवीन्नृपतिनन्दनस्ततस्तां तदा कपटवञ्चनोद्यताम् ।
ह्यस्तनं कथमिहोपभुज्यते नव्यमेव परिवर्त्य भोजनम् ॥ २१ ॥
वारितापि नितरां पुनः पुनः सा तदेव गणिका समभ्यधात् ।
सोऽपि राजतनयस्तथाकरोत्कीरमाशु विनियोज्य(?)सर्पतिम् ॥ २२ ॥
रंहसैव सहसागते शुके भोज्यमत्र परिगृह्य सासवम् ।
न्यस्तजानु नितरामपाययत्सा नरेन्द्रतनयं भृशं मधु ॥ २३ ॥
क्षीबतामुपगतं विलोक्य तं सा समञ्जसतरार्धभाषितम् ।
वारयोषिदतिहर्षितः स पप्रच्छ स प्रणयमुच्चकैरिति ॥ २४ ॥

नाथ तुष्यति मदीयमानसं ह्यत्र रम्यतलभूरिशाद्वले ।
संगमेन तव भोगसंचयैर्हृत्प्रियैः परमदुर्लभैः सदा ॥ २५ ॥
कौतुकं तदपि नाथ विद्यते चैकमेव नितरां मनस्यतः ।
नागदुर्लभतराप्तभोगहृष्टापि सम्यगिह नो भजे सुखम् ॥ २६ ॥
सोऽथ तामवददत्र वल्लभे ब्रूहि यन्मनसि वर्तते तव ।
त्वत्कृते हि सहसा करोमि तत्किं न सिध्यति ममाद्य सुन्दरि ॥२७ ।।
तोषिताथ सुतरां जगाद सा भूपनन्दनमिदं निशम्य तत् ।
संततं व्ययकृते कुतस्त्वया दीयते धनमियद्वनान्तरे ॥ २८ ॥
एष चापि शुकराट् त्वया कुतो लब्ध उत्तममहागुणः सुधीः ।
मां कथं च निजवेश्मनः समाकृष्य चानयदहो भवानिह ।। २९ ।।
स्वर्गभूमिरियमेव मन्यते सांप्रतं ननु मया त्वया सह ।
किं तु तावकवराद्भुतक्रियां श्रोतुमस्मि नितरां समुत्सुका ।। ३० ।।
तन्निशम्य मदिराविमोहितो विस्मृताधमतदीयकैतवः ।
सर्वमेव स शुकादिवस्तुवृत्तान्तमत्र सहसा व्यवर्णयत् ॥ ३१ ॥
तन्निगद्य सुरतासवाशनोद्वेगतः सपदि भूपनन्दनः ।
तत्र पादयुगलं प्रसार्य निद्रां चकार रजनीमुखे ततः ॥ ३२ ।।
 तत्काल एव सहसा शनकैः स्थलस्था
 पृष्टाद्भुवस्तलनिषण्णमिमं विधाय ।
 तस्यां खयं समुपविश्य तदन्तिकात्सा
 भस्त्रां शुकं च निजहस्तगतं चकार ।। ३३ ॥
 वाणीं जगाद ननु वासगृहं स्वकीयं
 तत्प्राप्नुयां सपदि सांप्रतमेव रात्रौ ।
 इत्युक्तिमात्रवशतो गगनाध्वना सा
 स्वं वेश्म वारवनिता द्रुतमाससाद ॥ ३४ ॥
दृष्टा साथ चिरेण तीव्रकुतुकात्कासीति पृष्टा तदा
 दासीभिः परिचुम्ब्य जानुयुगलं भक्त्या प्रणम्याग्रतः ।

आख्यास्यन्नृपनन्दनस्य विहितच्छद्मक्रियावञ्चना-
 वृत्तान्तं सकलं सहास्यवचना हर्षेण वाराङ्गना ॥ ३५ ॥

इति देलरामाकथासारे द्विर्विहितराजपुत्रकैतववञ्चनानन्तरं सिन्धुद्वीपाद्देलरामास्व गृहागमनं नाम दशमः सर्गः ।

एकादशः सर्गः।

 अत्रान्तरे स नरनाथसुतः समुद्र-
 द्वीपे प्रभातसमये सहसा प्रबुद्धः ।
 भस्त्रां शुकं च रुचिराभिनवां स्थलस्थां
 तां चापि वारवनितां न ददर्श तत्र ॥ १ ॥
 स्मृत्वा ततो रजनिमध्यनिरुक्तवाचं
 निन्दन्स्वकीयमतिविप्लवमुच्चकैस्तम् ।
 सर्वं तयैव विहितं ननु वारवध्वा
 मेने विमृश्य कपटं प्रकटं स्वबुद्ध्या ॥२॥
 उच्चैः शुशोच स ततो नरनाथसूनु-
 र्जानन्मृतं स्वमुपवासनितान्तयत्नात् ।
 अश्नामि किं कथमितश्च तरामि सिन्धो-
 रेकोऽधुना बत किमत्र करोमि शून्ये ॥ ३ ॥
 आदौ ययैव बत वञ्चित एव योऽह-
 माश्वास्य हृद्गतमवोचमहो हि तस्याः ।
 धिङ्मां विमर्शरहितं सहितं नितान्तं
 मौर्ख्येण येन विपदं बहुशो भजामि ॥ ४ ॥
 निर्वासितः प्रथममेव यदानयाहं
 दत्त्वार्धचन्द्रमवमानमलं विधाय ।
 रथ्या तदा मम बभूव सुखेन गम्या
 तन्निर्मिता प्रतिदिनं निजजीवरक्षा ॥५॥
 काहं व्रजामि तदितस्त्वधुनातिदुर्गा-
 द्रत्नाकरं कथमिमं बत लङ्घयामि ।

 एवं प्रलापमुखरो निजपाणिपृष्ठे
 ध्यात्वा मुखं क्षणममन्दशुचा निदद्रौ ॥ ६॥
 तत्काल एव(?)विधिनियोगवशेन दिव्यं
 मञ्जीरमञ्जुतरशिञ्जितमुल्ललास ।
 आकर्ण्य तत्सपदि भूपसुतः प्रबुद्ध
 उत्थाय चाक्षिपदसौ परितः स्वदृष्टिम् ॥ ७॥
 बभ्राम काननमितस्तत एव ताव.
 दाप्लावसज्जमथ तावदसौ ददर्श ।
 सीमन्तिनीत्रितयमत्र विनग्नगात्रं
 तीरस्थितानुपमवस्त्रचयस्वरूपम् ॥ ८ ॥
 उद्वीक्ष्य जातकुतुकः स ततः प्रदध्यौ
 नैवेह कस्यचिदपश्यमहं हि वक्रम् ।
 प्राप्तं ततो द्रुततरं वनितात्रयं तु
 भूयिष्ठदृष्टसुविशिष्टगरिष्ठधाम ॥९॥
 जाने हि काश्चिदपि दिव्यवरप्रभावा
 एताः स्त्रियो ललितकान्तिवशाद्भवन्ति ।
 यत्तन्ममास्तु सहसाभरणादि वस्तु
 क्षिप्रं हरामि तदथो किमिवावदन्ति ॥ १० ॥
 ध्यात्वेति वारिनिधितीरतलाज्जहार
 सद्यस्तदीयवसनाभरणादि सर्वम् ।
 आलोक्य तास्तदिति नग्नसमग्रदेहा
 भूपालसूनुमवदन्नितरां हसन्तम् ॥ ११ ॥
 भो भो महापुरुष नैतदिहोचितं ते
 योगिन्य एव हि वयं त्रिदिवावतीर्णाः ।
 खातुं समुद्रसलिले विमलेऽधुना त-
 न्मा बालचापलवशात्कुरु नर्मलीलाः ॥१२॥

 त्वं वञ्चितो ननु यया कपटेन तुभ्यं
 तत्प्राप्युपायवरमद्य वरं वदामः ।
 लज्जामहे तदपि ते पुरतो विनग्ना
 नीत्वास्मदीयवसनाभरणानि देहि ॥ १३ ॥
 श्रुत्वेति ताः स निजगाद नरेन्द्रसूनु-
 रादौ वरं ददत मह्यमिहाद्य तूर्णम् ।
 मुञ्चामि युष्मदखिलाभरणादि वस्तु-
 व्रातं ततः सपदि नापरथा कदाचित् ॥ १४ ॥
 आकर्ण्य तस्य वचनं नृपनन्दनस्य
 चैका जगाद वनसंमुखदत्तदृष्टिः ।
 संवर्धितः वयमसौ हि मयात्र शाखी
 कृत्वालवालमयमेव महाप्रभावः ॥ १५ ॥
 एतत्पलाशमपि यो मनुजो हि धत्ते
 वस्त्रान्तरे यदथ वा निजपाणिमध्ये ।
 स प्रत्यहं प्रकुरुतेऽतिसुखेन दीना-
 राणां शतत्रयमवाप्य यथेष्टभोगान् ॥ १६ ॥
 अन्याप्युवाच तरुरेष महान्मदीयो
 यो धारयेविटपमस्य महाप्रभावम् ।
 यद्यत्पुरं समभिवाञ्छति गन्तुमद्धा
 तत्तत्समाश्रयति स क्षणमात्रमेव ॥ १७ ॥
 भूपालनन्दनमवोचदथो तृतीया
 योगीश्वरी निजकराङ्गुलिदर्शनेन ।
 पश्याग्रतो विकचभूरितरप्रसूनः
 शाखी महामहिमवानिह मामकोऽयम् ॥ १८ ॥
 अस्य त्वगेव नृपनन्दन यस्य चूर्णी-
 कृत्वा शिरस्यमितरोषवशेन नूनम् ।

 प्रक्षिप्यते सपदि गर्दभतां स गच्छे-
 त्स्वेच्छावशेन निजकर्मकृते विधेयः ॥ १९ ॥
 कारुण्यपुण्यवशतः खरजन्ममुक्ति
 वाञ्छेत तस्य यदि किं तु रुषं विहाय ।
 भूपोऽपि मस्तकतले त्वचमेतदीयां
 प्रेम्णा क्षिपेत्सपदि सोऽपि तथाविधः स्यात् ॥ २० ॥
 श्रुत्वेति हृष्टहृदयः स परस्परं त-
 द्वाक्यं यथाभिलषितं च वरं प्रलब्ध्वा ।
 ताभ्यो ददौ स्ववसनाभरणानि सर्वं
 यन्नीतमेव सहसा नरनाथसूनुः ॥२१॥
 आप्लावनिर्मलतरङ्गनितान्तजात-
 कान्तिप्रभातुलितशारदचन्द्रशोभाः।
 आमुक्तदिव्यवसनाभरणाः स्त्रियस्ता-
 स्तत्कालमेव सहसाथ तिरोबभूवुः ॥ २२ ।।
 सोऽथ प्रहृष्टवदनो नरनाथसूनु-
 रेकैकशः क्षितिरुहत्रितयात्तदानीम् ।
 पर्णे त्वचं च विटपं च महाप्रभावं
 तस्मादजिग्रहदनल्पकुतूहलेन ॥ २३ ॥
 वस्तुत्रयं तदथ हस्तगतं विधाय
 प्रोवाच वाचमिति राजसुतस्तदानीम् ।
 तस्या इतस्त्वरितमेव हि वारवध्वाः
 संप्राप्तधामनिकटोपवनो भवेयम् ॥ २४ ॥
 इत्युक्त्वा विटपस्य तस्य सहसा माहात्म्यतः प्राप्तवा-
 निच्छामात्रवशेन वारवनितावश्मान्तिकस्थं तदा।
 उद्यानान्तरमेव राजतनयः प्रोल्लङ्घय रत्नाकरं
 ध्यायंश्चेतसि तत्पराभवमसौ भूयिष्ठरोषाकुलः ॥ २५॥

इति देलरामाकथासारे योगिनीवरप्रसादेन सिन्धुद्वीपादुत्तीर्य राजपुत्रस्य गणिकोप-

वनागमनं नामैकादशः सर्गः ।

द्वादशः सर्गः।

 अत्रान्तरे नृपसुतापहृतस्ववस्तु-
 व्रातप्रभावगरिमार्जितवित्तराशिः।
 नानाविधाहितमहोत्सवहृष्टचित्ता
 सा वारयोषिदपि हर्म्यमथारुरोह ॥ १॥
 आमुक्तभूषणवरांशुकभूषिताङ्गी
 संत्रस्तबालमृगचञ्चनलोचनश्रीः ।
 वातायनोपरि रराज नितान्तमेषा
 दिव्याङ्गनेव वरवारवधूस्तदानीम् ॥ २॥
 शिञ्जानमञ्जुलसुरञ्जितचित्ररत्न-
 मञ्जीरयुग्मललिताङ्घ्रियुगं रराज ।
 तस्या विकोशमुखरालिभृतस्थलाम्बु-
 जन्मानुकारि सरलाङ्गुलिपत्रहारि ॥ ३ ॥
करभाधिकोच्चमसृणं त्वधरं ललितोरुबिम्बयुगलं शुशुभे ।
मदनद्विपेन्द्रदशनद्वितयं मुनिचित्रशाखिपरिभञ्जनकृत् ॥ ४ ॥
 नाभिबलित्रितयहारितरातिरम्या
 तस्या बभौ विरचिता तदहं हि मन्ये ।
 स्थित्यर्थमीश्वरभयान्मकरध्वजेन
 सोपानलाञ्छितमनोरमदीर्घिकेव ॥ ५॥
तस्या उरोजद्वयमूर्ध्वगामि रराज सत्काञ्चनकुम्भकान्ति ।
पश्याव एतद्वदनं कदा वामित्थं हि सोत्कण्ठतयेव नुन्नम् ॥ ६ ॥
शिरोधरा चापि रराज तस्या भूष्याद्वितीयाखलभूषणालम् ।
कंसारिहस्तस्थितकम्बुशोभां विडम्बयन्ती धवलोच्चकान्तिः ॥ ७॥
 तस्याः पाणियुगं रराज रुचिरं रक्ताञ्जशोभाधिकं
 प्रान्तप्राज्यविराजमाननखरं स्पष्टाङ्गुलीलाञ्छितम् ।
 मन्ये शंकरदग्धपञ्चविशिखामर्शेण चेतोभुव-
 श्चक्रे तद्विगुणं स्वबाणदशकं यद्व्याजतो नूतनम् ॥ ८ ॥

दशनपङ्क्तिरत्नं शुशुभेऽमिता धवलकान्तिविडम्बितचन्द्रिका ।
प्रवरमौक्तिकराजिविराजिता स्मरवशंकरचूर्णसुसंनिभा ॥ ९॥
 नात्युन्नतेन न च वामनताश्रितेन
 नैवातिपीवरतरेण न कार्श्र्यभाजा।
 नातीव किं च विनतेन सुकान्तिनासा-
 वंशेन चापि शुशुभे ललितार्जवेन ॥ १० ॥
नेत्रद्वयं तत्र रराज तस्या निरन्तरामन्दसुपक्ष्मशोभम् ।
तिरस्कृतैणेक्षणकान्तिदर्पं व्याकोशराजीव पलाशरम्यम् ॥ ११ ॥
शोभां भ्रूयुगलं बभार नितरां तस्या महाकान्तिभृ-
 द्रम्यं काम्यतमं विजिह्यमनघं संदर्शनानन्दकृत् ।
जानेऽहं नु नवीचकार मदनश्चापद्वयं शंभुना
 निर्दग्धाद्य निजैककार्मुकवशामर्षेण जैत्रं स्थिरम् ॥ १२ ॥
बभार शोभां नितरां ललाटपट्टं तदीयं विमलस्वकान्ति ।
शङ्के रुषा शंकरशीर्षपृष्ठादचूचुरच्चन्द्रकलामनङ्गः ॥ १३ ॥
सच्छोभालकराजिराजितमलं लावण्यकान्त्या करं
 वक्रं चारुतरं तदीयमनघं सद्रूपगर्वावधि ।
शङ्के नानुचकार पार्वणसुधासूतिः कलङ्काश्रया
 तत्पङ्केरुहसाम्यवर्णनविधौ किं चित्रमुच्चैर्भवेत् ॥ १४ ॥
उवाह शोभां च तदुत्तमाङ्गं नितान्तसीमन्तविराजमानम् ।
विनिर्जितालिव्रजबर्हिबर्हनितम्बबिम्बाश्रितकेशपाशम् ॥ १५ ॥
 तत्केशपाशधवलस्तबकापदेशा-
 च्चन्द्रो विवादमकरोदिति राहुणेव ।
 मां चेद्भसस्यशरणं किमिदं मदीय-
 भ्रान्त्या रुणत्सि वदनं मदनोऽत्र रक्षी ॥१६॥
 चान्द्रीं त्विषं दशनशुभ्रमरीचिकान्त्या
 लीलालसेन गमनेन च राजहंसीम् ।

 कर्णान्तसर्पिनयनद्वितयेन बालां
 संत्रासितां च हरिणीमपि सा जिगाय ॥ १७ ॥
नात्युन्नतं नैव तथातिह्रस्वं स्वमुष्टिमेयोदरराजमानम् ।
सरोरुहाकारमदोषगात्रं वपुश्च तस्याः शुशुभे नितान्तम् ॥ १८ ॥
विराजते स्मापि तदीयवाणी शनैः शनैर्मन्द्रतरोल्लसन्ती ।
वसन्तसंतुष्टपिकालिवीणानिक्काणहृद्यातुलतुल्यशोभा ॥ १९ ॥
कण्ठे हारलतां महामणियुतां श्रोत्रद्वये कुण्डले
 सौवर्णे भुजयोश्च रत्नवलयान्यङ्घ्रिद्वये नूपुरे ।
अन्यत्प्राज्यतमांशुकादिविविधाकल्पं वहन्ती बभौ
 सा हर्म्ये गगनात्स्वशापवशतो विद्याधरीव च्युता ॥ २०॥
 तस्याः स्मितोद्गतमनोहरशुभ्रदन्त-
 दीप्त्या रराज नितरां धवलः स सौधः ।
 संपूर्णशीतकरमण्डलमध्यनिर्य-
 ज्ज्योत्स्नाप्रभाप्रकरतो हि यथा हि मानी ॥ २१ ॥
 एवं स्वकान्तिविभवादिसहर्षचित्ता
 कर्णान्तगामिवरदृष्टिमितस्ततः सा ।
 चिक्षेप यावदपि तावदिमं नरेन्द्र-
 सूनुं ददर्श सरुषं निजनिष्कुटान्तः ॥ २२ ॥
 तं वीक्ष्य जातगुरुसाध्वसविस्मया सा
 विच्छायतामगमदाशु ततस्तदानीम् ।
 चन्द्रत्विषेव नलिनी खलिनीव साधोः
 संमानती रविरुचा च कुमुद्वतीव ।। २३ ।।
 कोपाकुलं तमवलोकयितुं तदानीं
 भूपालनन्दनमसौ न शशाक भीत्या ।
 वाराङ्गना सपदि विह्वलमानसालं
 पञ्चाननं हि करिणीव निरस्तधैर्या ।। २४ ।।

 साचिन्तयद्भुवमसौ गुणवान्महात्मा
 कोऽपि प्रभूतमहिमा हिमरश्मिधामा ।
 प्रायो मया कपटतः परिवञ्चितोऽयं
 तत्किं चिकीर्षति रुषाद्य न वेद्मि हन्त ॥ २५॥
 उल्लङ्घयवारिनिधिमेष मुहूर्तमात्रा-
 त्प्राप्तोऽधुनैव हनुमानिव रंहसान्यः ।
 कुत्र व्रजामि तदितो निजहर्म्यपृष्ठा-
 दृष्टा सरोषममुना च बताहमद्धा ॥ २६ ॥
 किं चाधुना मम विधिः शरणं भयेऽस्मि-
 न्यत्तन्ममास्तु निजकर्म हि कः प्रमार्ष्टि ।
 एतत्समीपमपि सान्त्वयितुं व्रजामि
 जानामि नापरमुपायमलं विचार्य ॥ २७ ॥
 ध्यात्वेति सा निकटमस्य तु मन्दमन्दं
 गन्तुं स्वकीयपरिवारजनैरदृष्टा ।
 एकाकिनी विपुलसाध्वसकम्पमाना
 वातायनादवततार ततस्तदानीम् ॥ २८॥
 यान्ती प्रभूतभयतस्तु शनैः शनैः सा
 दूराद्ददर्श सरुषं नरनाथसूनुम् ।
 गत्वा ततस्त्रिचतुरेषु पदेषु भूमौ
 विन्यस्य जानुयुगलं प्रणनाम चाग्रे ॥ २९ ॥
 सोऽप्यग्रतः सविनयां प्रणतोत्तमाङ्गां
 प्रक्षिप्तजानुयुगलां गलदश्रुधाराम् ।
 उत्तुङ्गपीनकुचकुम्भनिवेशितस्व
 पाणिद्वयामतिभयामथ तामपश्यत् ॥ ३० ॥
 कोपाकुलः स सहसा नरनाथसूनु-
 रुत्थाय तां भुजयुगेन हठान्निरुध्य ।

 चूर्णीकृतामथ मुमोच तदीयशीर्षे
 वृक्षत्वचं भव खरीति निगद्य वाचा ॥ ३१ ॥
 तद्वाक्यमात्रवशतः सहसा तदानीं
 वाराङ्गनाविगतसर्वनिजस्वरूपा ।
 सा गर्दभी समभवन्नरनाथसूनो-
 स्तच्चेष्टितं मनसि रोषवशात्स्मरन्ती ॥ ३२ ॥
 दन्तालिकामथ वितीर्य स राजपुत्रः
 पीडामतीव जनयंल्लगुडप्रहारैः ।
 ईर्ष्यावशेन सहसा स्वयमेव पृष्ठं
 तस्या अशिश्रयदसूक्ष्मघृतप्रमोदः ॥ ३३ ॥
श्वभ्राद्रिकान्तारवनप्रदेशान्बभ्राम कान्तोऽधिकरूपहीनाम् ।
आरुह्य नित्यं स तु गर्दभी तां भीतां प्रहारैः स्रवदश्रुधाराम् ॥ ३४ ॥
तदीर्ष्यया स्वात्मकृते समं सा वहन्नपूपाः स नरेन्द्रसूनुः ।
स्वल्पं ददौ वारि तृणं च तस्यै पृष्ठाद्दिनेनावततार जातु ॥ ३५॥
अत्रान्तरे तत्परिवारवेद्यो दिनेष्वनल्पेषु गतेषु तत्र ।
तां स्वामिनीं नैव कुतोऽप्यवापुर्गवेषितामप्यखिलाध्वयानैः ॥ ३६ ॥
लब्धुं ततस्तां परिवर्जिताशाश्चेट्यः समग्रा अपि कुट्टनीश्च ।
स्वमस्तकन्यस्तसमस्तहस्ताश्चक्रन्दुरुच्चैर्गलदश्रुधाराः ॥ ३७ ॥
जग्मुः समग्रा अपिराजधानीं तच्चेटिका बाष्पनिरुद्धवाचः ।
आस्थानसंस्थं ददृशुर्नरेन्द्रं निवेदिता द्वाःस्थगुणेन सद्यः ॥ ३८ ॥
विन्यस्य जानुद्वयमग्रतस्ताः कृत्वाशिषं साश्रुदृशः सदुःखाः ।
चेट्यः समग्रा अपि कुट्टनी च व्यजिज्ञपन्भूमिपतिं प्रणम्य ॥ ३९॥
राजन्वती भूर्भवता नरेन्द्र प्रजापरित्राणकरस्त्वमेव ।
श्रीमान्सुरत्राणवरस्त्वमद्धा तद्दीनवाक्यं शृणु सावधानः ॥ ४० ॥
केनापि षिङ्गेन हृताद्य राजन्विलासिनी सा बत देलरामा ।
अन्वेषिताप्येव नितान्तयत्नात्कुतोऽपि नास्माभिरंहो प्रलब्धा ॥ ४१ ॥

धुरंधरे तत्त्वयि नाथ भूमिपुरंदरे पौरविचारदक्षे ।
विटादयश्चेत्प्रभवन्ति पापास्तत्कस्य गर्हा क्रियते परस्य ॥ ४२ ॥
श्रुत्वेति तद्वाक्यमसौ नरेन्द्रः ससंभ्रमं दीनतरं तदानीम् ।
आश्वासमाशां विरचय्य सद्यो व्यसर्जयच्चारगणांस्तु दिक्षु ॥ ४३ ॥
अन्विष्य ते चारगणा यदा न प्रापुः कृतश्चित्रमतिप्रयत्नात् ।
तदा नरेन्द्रस्य भिया पलाय्य चाशिश्रयन्देशमथान्यमेव ॥ ४४ ॥
 देशेऽस्मिन्बत जाल्मतस्करविटा वृद्धिं कियन्तो घना
 जग्मुः केन नितान्तमेव दुरितासक्ता महानिष्कृपाः ।
 यत्कश्चित्कमिता जहार गणिकां तां देलरामाभिधां
 हाहाकारमिति प्रकाममुदभूत्प्रत्यालयं प्रत्यहम् ॥ ४५॥

इति देलरामाकथासारे तद्रूपवर्णनानन्तरमेतस्यास्तिरस्कारो नाम द्वादशः सर्गः ।

त्रयोदशः सर्गः।

याते तु काले विपुले कदाचित्कृशाकृतिं तां रुधिरार्द्रदेहाम् ।
खरीस्वरूपामुपरिस्थितक्ष्मापालात्मजप्रत्तघनप्रहाराम् ॥ १॥
सबाष्पनेत्रां बत देलरामां ददर्श मार्गे स्वसुतानुयाता ।
योगीश्वरी काचिदमन्दजातकुतूहला ज्ञानवती सुदूरात् ॥ २॥
   (युगलकम् )
आलोक्य तां साह ततः स्वकन्यामेकं महत्कौतुकमग्रतस्त्वम् ।
पुत्रि द्रुतं पश्य न यावदेति दृग्गोचराद्दूतरं प्रयाति ॥ ३ ॥
साप्यब्रवीत्तां जननीं न किंचित्पश्याम्यहो मातरहं विचार्य ।
प्रत्याह कन्यामथ योगिनी सा येयं खरी सैव हि देलरामा ॥४॥
आरुह्य यस्तिष्ठति पुत्रिपृष्ठे चास्याः प्रहारैर्जनयन्हि पीडाम् ।
स राजपुत्रो बहुशोऽनयायं विवश्चितश्छद्म विधाय पूर्वम् ॥५॥
श्रुत्वेति संजातकुतूहला सा निर्बन्धतस्तां जननीमपृच्छत् ।
आमूलवृत्तान्तमशेषमेव व्यावर्णयामास तु योगिनी सा ॥ ६ ॥

कन्याथ सा तां जननीं ययाचे मातः खरीं देहविमुक्तिरस्याः ।
यथा भवेत्त्वं हि तथा कुरुष्व क्ष्मापालसूनोः प्रणयं विधाय ॥ ७॥
निर्बन्धतः सा निजकन्ययैवमभ्यर्थिता सादरगौरवेण ।
भूपालसूनोर्निकटं तदानीं योगीश्वरी तत्सहिता प्रतस्थे ॥ ८ ॥
तमाह दूरान्नरनाथसूनुं क्षणं प्रतीक्षख महाजन त्वम् ।
किंचिद्ब्रवीतुं मम विद्यतेऽद्य तवोपकण्ठे विपुलाभिलाषः ॥९॥
श्रुत्वेति भीत्याथ पुरःसरन्तीं दन्तालिकाकर्षणतो निरुद्ध्य ।
तां गर्दभी वर्त्मनि राजपुत्रो मुहूर्तमात्रं विनयेन तस्थौ ॥ १०॥
अभ्येत्य सा तं कुशलादिवार्तां पृष्ट्वा नरेन्द्रात्मजमाचचक्षे ।
कथान्तरे सा स्वसुतासमक्षं योगीश्वरी पादतले प्रणम्य ॥ ११ ॥
योगीश्वरी तद्गुणहृष्टचिता सिद्धा प्रसक्ता तव चाहमद्धा ।
विमृश्य तस्मात्तव नैव कांचिद्गर्हींं तु वेद्मि पृथुसद्गुणस्य ॥ १२ ॥
भवादृशं नैव तथापि वैरं महात्मनां दीनजनेऽतिपापे ।
चिरं प्रधर्तुंं सुतयुक्तमद्धा कुलीनपुंसामपरो गुणः कः ॥ १३ ॥
मुञ्चाधुनैतां तु खरीस्वरूपां दुष्कर्मसक्तामिह देलरामाम् ।
कृत्वा विवाहं सुमते स्वकीयां कन्यामिमां तुभ्यमहं ददानि ॥ १४ ॥
यथेतरे पुत्रविरोधसक्ता भवद्विधा नैव तथाविधाः स्युः ।
यदिच्छसि त्वं तदसौ ददाति तुभ्यं यथा कि तु तथा करिष्ये ॥१५॥
प्रसीद तत्पुत्र दयां कुरुष्व गृहाण कीर्तिं श्रय साधुवादम् ।
पुण्यं च वृद्धिं नय(?) दार्यसेव्यं भज स्वमार्गे त्यज कोपमस्याम् ॥१६॥
इयं सुता मे तव धर्मपत्नी यथा भवत्येवमुताधुनैव ।
तथा करिष्येऽधमवंशया तु किमेतया दुर्मतिवारवध्वा ॥ १७ ॥
तन्निशम्य नरनाथनन्दनस्तां जगाद वरयोगिनी ततः ।
एतया गणिकयातिपापया यन्ममापकृतमेव वेत्सि तत् ॥ १८ ॥
यातना बहुविधा विधाय तद्धर्तुमेव गणिकामिमां ध्रुवम् ।
विद्यते मम मनोरथोऽम्बिके किं करोमि भवदीयशासनात् ॥ १९ ॥

यन्मदीयमहरज्जनन्यनल्पं हि वस्तुनिचयं सुदुर्लभम् ।
तद्ददातु सकलं तदुद्गतं स्वापतेयमपि चानुवासरम् ॥ २० ॥
प्रत्यहं च मम दास्यसेवनं चेत्करोति हि विलोक्य सांप्रतम् ।
लेखमम्ब रुचिरं भवत्समक्षं स्फुटाक्षरततिप्रशोभितम् ॥ २१ ॥
तत्करोमि भवदीयशासनान्मातरद्य हि तथाविधामिमाम् ।
रासभीजनिमथो निवार्य तूर्ण प्रभाववशतः पुरस्तव ॥ २२ ॥
वाचमेवमथो सा निशम्य तां व्याजहार नरनाथनन्दनम् ।
योगिनी प्रमुदिता विहस्य संकल्पमाशिषममन्दसिद्धिदम् ॥ २३ ॥
दुर्मतिं कुगणिकां करोषि चेद्रासभीजनिविवर्जितामिमाम् ।
यद्यदिच्छसि ददाति तद्रुतं साक्षिणी ह्यपरथा त्वहं सदा ॥ २४ ॥
योगिनीगिरमिमां निशम्य सच्छद्मशङ्गितमनोनिमित्ततः ।
त्रिर्मनोरथमवोचदात्मनः साक्षिणोऽप्यकृत तत्र पञ्चषान् ॥ २५ ॥
पादपत्वचमथो मुमोच तां प्राप यां प्रवरयोगिनीवरात् ।
मूर्ध्नि भूमिपतिनन्दनः स तस्यास्तदा सपदि वारयोषितः ॥ २६ ॥
तत्प्रभाववशतः क्षणेन सा गर्दभीसमुचिताकृतिं जहौ
प्राप साभरणचित्तहारिकाम्यात्मविग्रहमथो तथाविधम् ॥ २७ ॥
वारयोषिदथ सा तदोपसृत्य प्रणाममकरोत्प्रहर्षिता ।
भूमिपालतनयस्य तस्य विन्यस्य जानुयुगलं ससंभ्रमम् ॥ २८॥
सोऽपि मन्युवशतस्ततोऽभवत्तां विलोक्य पुरत पराङ्मुखः ।
योगिनी किल तदिङ्गितं च तस्यै न्यवेदयदमर्षदर्शनात् ॥ २९ ॥
वारयोषिदपि योगिनीगिराङ्गीचकार विनयात्प्रणम्य सा।
अञ्जसा सकलमेव राजपुत्रेप्सितं बहुविधं यथोदितम् ॥ ३०॥
तद्दिने निजगृहं समानयद्योगिनी नृपतिनन्दनं ततः ।
वारयोषिदपि तस्य शासनाद्ध्रीनता निजगृहं जगाम सा ॥ ३१॥
भूमिपालतनयाय तत्र तस्मै निजां दुहितरं समर्पयत् ।
पाणिपीडनमथो विधाय सा योगिनी प्रमुदिता यथाविधि ॥ ३२ ॥

साथ वाररमणी तदीयवस्तुव्रजं च तदुपार्जितं धनम् ।
आनिनाय नृपनन्दनान्तिकं दास्यलेखमिह योगिनीगृहे ॥ ३३ ॥
अत्रान्तरे तत्र पुरे हि देलरामाप्रवृत्तिं प्रथितामितीमाम् ।
प्रत्यालयं सर्वजनो निशम्य नरेन्द्रसूनुं प्रशशंस हर्षात् ॥ ३४ ॥
राजापि चाकर्ण्य जनश्रुतिं तां प्रभूतसंभूतकुतूहलेन ।
स्वराजधानीमनयद्विसृज्य भृत्यान्प्रियान्भूपसुतस्ततस्तम् ॥ ३५॥
ततः परिज्ञाय निजं कनिष्ठं सहोदरं भूमिपतिस्तदानीम् ।
आनन्दबाष्पाम्बुकणार्द्रनेत्रो गाढं समुत्थाय तमालिलिङ्ग ॥ ३६ ।।
तमग्रज सोऽपि विभाव्य हर्षात्तज्जानुयुग्मं परिचुम्ब्य चैव ।
कृत्वा प्रणामं निकटोपविष्टो बाष्पाम्बुधाराकुलितो बभाषे ॥ ३७ ।।
यातो मसेदान्तिकतः सुदूरं यदा पुरा मां प्रविहाय तूर्णम् ।
दिनावसानेऽपि तदा मया त्वं कुतोऽपि नान्विष्य चिरं हि लब्धः ॥३८॥
श्रुत्वेति राजा निजगाद तत्र स्वभ्रातरं तत्त्रपया विनम्रः ।
ममेह संप्राप्तनरेन्द्र तस्य त्वं विस्मृतोऽपूर्णमतेस्तदानीम् ॥ ३९ ।।
श्रुत्वेत्यसौ तस्य शशंस देलरामाप्रवृतिं पुरतोऽग्रजस्य ।
स चाप्यवोचन्निखिलं स्वराज्यप्राह्यादिवृत्तान्तमशेषमेव ॥ ४० ॥
कथान्तरे तं निजगाद राजा मो(मु)रादभक्षं(बख्शं) स्वसहोदरं सः ॥
इहत्यसर्वामितसेनया स्वं देशं व्रजावोवरमद्य जेतुम् ॥ ४१ ॥
यत्रैव हेतिं जनकश्चकार यत्रैव नो ज्ञातिजना वसन्ति ।
हलाभदेशं स्वमनोरथो मे प्रयातुमद्यैव हि विद्यते तम् ॥ ४२ ॥
श्रुत्वेति सोऽपि प्रशशंस हर्षान्मो(मु)रादभक्षो(बख्शो)वचनं तदेव ।
आज्ञां ददौ सोऽथ पुरेऽत्र सेवाकृते नरेन्द्रः पृतनाधिपाय ॥ ४३ ॥
अल्पैर्दिनैः सर्वबलेऽपि सज्जीकृतेऽथ सेनापतिना नरेन्द्रः ।
विनिर्ययौ स्वं नगरं विजेतुं दत्त्वा परस्मै निजराज्यमत्र ॥ ४४ ।।
दासीपाणो(?)पार्जितदेलरामासमन्वितस्तद्धनपूरितोष्ट्रः ।
योगीश्वरीपुत्रिकया च साकं तमन्वगच्छत्स निजानुजन्मा ॥ ४५ ॥

गच्छन्क्रमात्प्राप स भूमिपालः सहानुजो भूरिबलं पुरं तत् ।
राजच्युतो यत्र स भारजीवी स जानिरेतज्जनको बभूव ।। ४६ ।।
दीर्घाध्वखिन्नामितसिन्धुवारः स भूमिपालः स्वसहायवाक्यात् ।
एकां त्रियामामथ तत्र तस्थौ सहानुजः खेदनिवारणार्थम् ॥ ४७ ॥
आकस्मिकोल्काविनिपाततुल्यं पितुर्जनेभ्यो मरणं निशम्य ।
शुशोच राजा ससहोदरोऽलं तदीयनाम्नात्र चकार धर्मम् ॥ ४८ ॥
स्वमातरं चाहितसंगमां तां तेनैव साकं वणिजाशृणोत्सः ।
निनिन्द तद्दुश्चरितं नितान्तं ददौ न तस्यै निजदर्शनं च ॥ ४९ ॥
प्रातस्ततः सद्गतिकुञ्जरेन्द्रमारुह्य राजा स्वपुरीं प्रतस्थे ।
विराजमानोपरिहेमछत्रः सहानुजो भूरिबलानुयातः ॥ ५० ॥
क्रमेण गच्छन्स शनैः शनैः स्वभ्रात्रान्वितो वीरभटानुयातः ।
समाससादाथ तमात्मदेशं नाम्ना हलाभं वरवस्तुलाभम् ॥ ५१ ॥
आमुक्तवत्र्मा वा निशितातुखड्गः सज्जीकृतायोधनदक्षवीरः ।
मात्रा समं तन्नगरं हठात्स द्वाःस्थान्निहत्य द्रुतमाविवेश ।। ५२ ॥
योद्धुं विनिर्यातविपक्षवृन्दं निहत्य संख्ये भटपत्यसंख्ये ।
पितुः स्वकीयस्य सहानुजन्मा विवेश राजा निजराजधानीम् ॥ ५३ ॥
तत्रानुयातान्सुभटान्यथेच्छं दानेन मानेन च तोषयित्वा ।
समुत्सुकांस्तान्प्रति स स्वदेशं व्यसर्जयद्भूमिपतिस्ततः सः ॥ ५४॥
प्राज्यं स राज्यं स्वयमेव तस्मिन्ह्वलाभदेशेऽखिलमन्त्रिवाचा ।
जग्राह तस्मै च निजानुजाय ददौ क्रमोपागतयौवराज्यम् ॥ ५५ ॥
इब्राहीमनराधिपो निजपितुः संप्राप्य सिंहासनं
 हत्वा वैरिगणान्नरराज नितरां सिंहानुकारी तदा ।
दासीभावयथेष्टकर्मनिरतां ता देलरामां पुनः
 पश्यन्सोऽपि बभूव तत्र नगरे मो(मु)रादभक्ष(बख्शः) सुखी ॥ ५६ ॥

इति देलरामाकथासारे स्वदेशराज्यप्राप्ति म त्रयोदशः सर्गः ।

समाप्तोऽयं ग्रन्थः।

"https://sa.wikisource.org/w/index.php?title=देलरामाकथासारः&oldid=309249" इत्यस्माद् प्रतिप्राप्तम्