सामग्री पर जाएँ

दिव्यावदानम्/अवदानम् १०१-१५०

विकिस्रोतः तः
← अवदानम् ५१-१०० दिव्यावदानम्
अवदानम् १०१-१५०
[[लेखकः :|]]
अवदानम् १५१-२०० →

१०१.००१. द्विरपि प्रसेनजित्कौशलस्तीर्थ्यानिदमवोचत्--विदर्शितं भगवता उत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यम्।
१०१.००२. यूयमपि विदर्शयध्वम्।
१०१.००२. एवमुक्ते तीर्थ्या अन्योन्यं विघट्टयन्त एवाहुह्--त्वमुत्तिष्ठ त्वमुत्तिष्ठेति।
१०१.००३. न कश्चिदप्युत्तिष्ठति॥
१०१.००४. तेन खलु पुनः समयेन पाञ्चिको महासेनापतिस्तस्यामेव पर्षदि संनिपतितोऽभूत्संनिपतितः।
१०१.००५. अथ पाञ्चिकस्य यक्षसेनापतेरेतदभवत्--चिरमपि ते इमे मोहपुरुषा भगवन्तं विहेठयिष्यन्ति भिक्षुसंघं चेति विदित्वा तुमुलं वातवर्षं संजनय्य महान्तमुत्सृष्टवान्।
१०१.००६. तुमुलेन वातवर्षेण तीर्थ्याणां मण्डपा अदर्शनपथे क्षिप्ताः।
१०१.००७. तीर्थ्या ह्यशनिवर्षेण बाध्यमाना दिशो दिग्भ्यो विचलन्ति।
१०१.००८. अनेकानि प्राणिशतसहस्राण्यतिवर्षेण बाध्यमानानि येन भगवांस्तेनोपसंक्रान्ताः।
१०१.००९. उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णानि।
१०१.००९. भगवता तथा अधिष्ठितं यथा तस्यां पर्षद्येकवारिबिन्दुर्न पतितः।
१०१.०१०. एकान्तनिषण्णान्यनेकानि प्राणिशतसहस्राण्युदानमुदानयन्ति--अहो बुद्धः, अहो धर्मः, अहो संघः।
१०१.०११. अहो धर्मस्य स्वाख्यातता।
१०१.०१२. पाञ्चिकेन यक्षसेनापतिना तीर्थ्या अभिहिताह्--एते यूयं मोहपुरुषा भगवन्तं शरणं गच्छध्वं धर्मं च भिक्षुसंघं च्
१०१.०१३. ते निष्पलायमानाः कथयन्ति--एते वयं पर्वतं शरणं गच्छामः, वृक्षाणां कुड्यानामारामाणां च शरणं गच्छामः॥
१०१.०१५. अथ भगवांस्तस्यां वेलायां गाथां भाषते--
१०१.०१६. बहवः शरणं यान्ति पर्वतांश्च वनानि च्
१०१.०१७. आरामांश्चैत्यवृक्षांश्च मनुष्या भयतर्जिताः॥६॥
१०१.०१८. न ह्येतच्छरणं श्रेष्ठं नैतच्छरणमुत्तमम्।
१०१.०१९. नैतच्छरणमागम्य सर्वदुःखात्प्रमुच्यत् ।७॥
१०१.०२०. यस्तु बुद्धं च धर्मं च संघं च शरणं गतः।
१०१.०२१. आर्यसत्यानि चत्वारि पश्यति प्रज्ञया यदा॥८॥
१०१.०२२. दुःखं दुःखसमुत्पन्नं निरोधं समतिक्रमम्।
१०१.०२३. आर्यं चाष्टाङ्गिकं मार्गं क्षेमं निर्वाणगामिनाम्॥९॥
१०१.०२४. एत{द्वै} शरणं श्रेष्ठमेतच्छरणमुत्तमम्।
१०१.०२५. एतच्छरणमागम्य सर्वदुःखात्प्रमुच्यत् ।१०॥
१०१.०२६. अथ पूरणस्यैतदभवत्--श्रमणो गौतमो मदीयाञ्श्रावकानन्वावर्तयिष्यति।
१०१.०२६. इति विदित्वा निष्पलायन् कथयति--अहं युष्माकं शासनसर्वस्वं कथयिष्यामि।
१०१.०२७. यावद्दृष्टिगतान् ग्राहयितुमारब्धः।
१०१.०२८. यदुत अन्तवाम्ल्लोकः, अनन्तः, अन्तवांश्चानन्तवांश्च, नैवान्तवान्नानन्तवान्, स जीवस्तच्छरीरमन्यो जीवोऽन्यच्छरीरमिति।
१०१.०२९. ते कलहजाता विहरन्ति भण्डनजाता विगृहीता विवादमापन्नाः।
१०१.०३०. पूरणोऽपि भीतो निष्पलायितुमारब्धः।
१०१.०३०. स निष्पलायन् पण्डकेन प्रतिमार्गे दृष्टः।
१०१.०३१. पण्डको दृष्ट्वा गाथां भाषते--

१०२.००१. <१०२>कुतस्त्वमागच्छसि मुक्तपाणि रथकारमेष इव निकृत्तशृङ्गः।
१०२.००३. धर्मं ह्यभिज्ञाय जिनप्रसंशस्तमाहिण्डसे कोलिकगर्दभो यथा॥११॥
१०२.००५. पूरणः प्राह--
१०२.००६. गमनाय मे समयः प्रत्युपस्थितः कायस्य मे बलवीर्यम् {न?} किंचित् ।
१०२.००८. स्पृष्टाश्च भावाः सुखदुःखते मे अनावृतं ज्ञानमिहार्हताम्॥१२॥
१०२.०१०. दूरापगतोऽस्मि .... परितमिरापनुदश्च तृषं पतति।
१०२.०१२. आचक्ष्व मे दूषिक एतमर्थं शीतोदका कुत्र सा पुष्किरिणी॥१३॥
१०२.०१४. नपुंसकः प्राह--
१०२.०१५. एषा खलु शीता पुष्किरिणी नलिनी च विराजति तोयधारा।
१०२.०१७. श्रमणाधम हीनासत्पुरुष त्वमिमां ननु पश्यसि पुष्करिणीम्॥१४॥
१०२.०१९. पुराणः प्राह--
१०२.०२०. न त्वं नरो नापि च नारिका त्वं श्मश्रूणि च ते नास्ति न च स्तनौ तव्
१०२.०२२. भिन्नस्वरोऽसि न च चक्रवाकहेवं भवान् वातहतो निरुच्यत् ।१५॥
१०२.०२४. अथ पूरणो निर्ग्रन्थो वालुकाघटं कण्ठे बद्ध्वा शीतिकायां पुष्किरिण्यां पतितः।
१०२.०२४. स तत्रैव कालगतः॥
१०२.०२६. अथ ते निर्ग्रन्थाः पूरणं मृगयमाणाः प्रतिमार्गे गणिकां दृष्ट्वा पृच्छन्ति--भद्रे, कंचित्त्वमद्राक्षीर्गच्छन्तमिह पूरणं धर्मशाटप्रतिच्छन्नं कटच्छव्रतभोजनम्? गणिका प्राह--
१०२.०२८. आपायिको नैरयिको मुक्तहस्तावचारकः।
१०२.०२९. श्वेताभ्यां पाणिपादाभ्यामेष ध्वंसति पूरणः॥१६॥
१०२.०३०. भद्रे मैवं वोचस्त्वं नैतत्तव सुभाषितम्।
१०२.०३१. धर्मशाटप्रतिच्छन्नो धर्मं संचरते (संश्रयते?) मुनिः॥१७॥
१०२.०३२. गणिका प्राह--
१०२.०३३. कथं स बुद्धिमान् भवति पुरुषो व्यञ्जनान्वितः।
१०२.०३४. लोकस्य पश्यतो योऽयं ग्रामे चरति नग्नकः॥१८॥

१०३.००१. <१०३>यस्यायमीदृशो धर्मः पुरस्ताल्लम्बते दशा।
१०३.००२. तस्य वै श्रवणौ राजा क्षुरप्रेणावकृन्ततु॥१९॥
१०३.००३. अथ ते निर्ग्रन्था येन शीतिका पुष्किरिणी तेनोपसंक्रान्ताः।
१०३.००३. अद्राक्षीस्ते निर्ग्रन्थाः पूरणं काश्यपं पुष्किरिण्यां मृतम्।
१०३.००४. कालगतं दृष्ट्वा च पुनः पुष्किरिण्या उद्धृत्य एकान्ते छोरयित्वा प्रक्रान्ताः॥
१०३.००६. भगवता बुद्धनिर्माणो निर्मितो द्वात्रिंशता महापुरुषलक्षणैः समन्वागतो मुण्डः संघाटीप्रावृतः।
१०३.००७. धर्मता खलु बुद्धा भगवन्तो निर्मितेन सार्धं निश्चयं कुर्वन्ति।
१०३.००७. यं खलु श्रावको निर्मितमभिनिर्मिमीते, यदि श्रावको भाषते, निर्मितोऽपि भाषत्
१०३.००८. श्रावके तूष्णीभूते निर्मितोऽपि तूष्णीभवति।
१०३.०१०. एकस्य भाषमाणस्य सर्वे भाषन्ते निर्मिताः।
१०३.०११. एकस्य तूष्णीभूतस्य सर्वे तूष्णीभवन्ति त् ।२०॥
१०३.०१२. भगवान्निर्मितं प्रश्नं पृच्छति, भगवान् व्याकरोति।
१०३.०१२. एषा हि धर्मता तथागतानामर्हतां सम्यक्सम्बुद्धानाम्॥
१०३.०१४. भगवता तस्य महाजनकायस्य तथा अभिप्रसन्नस्य आशयं चानुशयं च धातुं प्रकृतिं च ज्ञात्वा तादृशी चतुरार्यसत्यसम्प्रतिवेधकी धर्मदेशना कृता, यथा अनेकैः प्राणिशतसहस्रैः शरणगमनशिक्षापदानि कैश्चिदुष्म(?)गतान्यधिगतानि मूर्धानः क्षान्तयो लौकिका अग्रधर्माः।
१०३.०१७. कैश्चित्स्रोतापत्तिफलं साक्षात्कृतं सकृदागामिफलमनागामिफलम्।
१०३.०१७. कैश्चित्प्रव्रज्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्।
१०३.०१८. कैश्चिच्छ्रावकमहाबोधौ बीजान्यवरोपितानि।
१०३.०१८. कैश्चित्प्रत्येकायां बोधौ बीजान्यवरोपितानि।
१०३.०१९. यद्भूयसा सा पर्षद्बुद्धनिंना धर्मप्रवणा संघप्राग्भारा व्यवस्थिता।
१०३.०२०. अथ भगवांस्तां पर्षदं बुद्धनिंनां धर्मप्रवणां संघप्राग्भारां व्यवस्थाप्योत्थायासनात्प्रक्रान्तः॥
१०३.०२२. धन्यास्ते पुरुषा लोके ये बुद्धं शरणं गताः।
१०३.०२३. निर्वृतिं ते गमिष्यन्ति बुद्धकारकृतौ जनाः॥२१॥
१०३.०२४. येऽल्पानपि जिने कारान् करिष्यन्ति विनायके ।
१०३.०२५. विचित्रं स्वर्गमागम्य ते लप्स्यन्तेऽमृतं पदम्॥२२॥
१०३.०२६. इदमवोचद्भगवान्।
१०३.०२७. आत्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥


१०३.०२८. इति श्र्रीदिव्यावदाने प्रातिहार्यसूत्रं द्वादशमम्॥


                    • अवदान १३ **********


१०४.००१. दिव्१३ स्वागतावदानम्।

१०४.००२. बुद्धो भगवाञ्श्रावस्त्यां विहरति स्म जेतवनेऽनाथपिण्डदस्याराम्
१०४.००२. तेन खलु पुनः समयेन शिशुमारगिरौ बोधो नाम गृहपतिः प्रतिवसति आढ्यो महाधानो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी।
१०४.००४. तेन सदृशात्कुलात्कलत्रमानीतम्।
१०४.००५. स तया सार्धं क्रीडति रमते परिचारयति।
१०४.००५. तस्य क्रीडतो रममाणस्य परिचारयतः कालान्तरेण पत्नी आपन्नसत्त्वा संवृत्ता।
१०४.००६. सा उपरिप्रासादतलगता अयन्त्रितोपचारा धार्यते, कालर्तुकैश्चोपकरणैरनुविधीयते, वैद्यप्रज्ञप्तैश्चाहारैर्नातितिक्तैर्नात्यम्लैर्नातिलवणैर्नातिमधुरैर्नातिकटुकैर्नातिकषायैस्तिक्ताम्ललवणमधुरकटुककषायविवर्जितैराहारैः।
१०४.००८. हारार्धहारभूषितगात्रा अप्सरेव नन्दनवनचारिणी मञ्चान्मञ्चं पीठात्पीठमनवतरन्ती अधरिमां भूमिम्।
१०४.०१०. न चास्याः किंचिदमनोज्ञशब्दश्रवणं यावदेव गर्भस्य परिपाकाय्
१०४.०१०. सा अष्टानां वा नवानां वा मासानामत्ययात्प्रसूता।
१०४.०११. दारिका जाता अभिरूपा दर्शनीया प्रादादिका सर्वाङ्गप्रत्यङ्गोपेता।
१०४.०१२. तस्यास्त्रीणि सप्तकान्येकविंशतिदिवसान् विस्तरेण जातिमहं कृत्वा वर्णसंस्थानविशेषानुरूपं नामधेयं व्यपस्थापितम्।
१०४.०१३. सा धात्र्यङ्कगता उन्नीयते वर्ध्यते क्षीरेण दध्ना नवनीतेन सर्पिषा सरिपिमण्डेनान्यैश्च चोत्तप्तोत्तप्तैरुपकरणविशेषैः।
१०४.०१४. आशु वर्धते ह्रदस्थमिव पङ्कजम्।
१०४.०१५. यदा महती संवृत्ता, तदा रूपिणी यौवनानुरूपया आचारविहारचेष्टया देवकन्येव तद्गृहमवभासमाना सुगृत्सम्बन्धिबान्धवानामन्तर्जनस्य च प्रीतिमुत्पादयति।
१०४.०१६. तस्यास्तादृशीं विभूतिं श्रुत्वा नानादेशनिवास्राजपुत्रा अमात्यपुत्रा गृहपतिपुत्रा धनिनः श्रेष्ठिपुत्राः सार्थवाहपुत्राश्च भार्यार्थं याचनकान् प्रेषयन्ति।
१०४.०१८. यथा यथा चासौ प्राथ्यते, तथा तथा बोधो गृहपतिः सुतरां प्रीतिमुत्पादयति।
१०४.०१९. संलक्षयति--मया एषा न कस्यचिद्रूपेण देया, न शिल्पेन, नाप्याधिपत्येन, किं तु यो मम कुलशीलेन वा धनेन वा सदृशो भवति, तस्य मया दातव्येति।
१०४.०२०. स चैवं चिन्तयति॥
१०४.०२१. अनाथपिण्डदेन गृहपतिना श्रुतं यथा शिशुमारगिरौ बोधो गृहपतिस्तस्य दुहिता एवं रूपयौवनसमुदिता, सा नानादेशनिवासिनां राजामात्यगृहपतिधनिनां श्रेष्ठिसार्थवाहपुत्राणामर्थाय प्रार्थ्यत इति।
१०४.०२३. श्रुत्वा च पुनरस्यैतदभवत्--अहमपि तावत्तां पुत्रस्यार्थाय प्रार्थयामि।
१०४.०२४. कदाचिद्बोधो गृहपतिर्दद्यादिति विदित्वा तस्या याचनकाः प्रेषिताः।
१०४.०२४. बोधेन गृहपतिना अनाथपिण्डदस्य गृहपतेः समुदाचारधनसम्पदं च विचार्य दत्ता।
१०४.०२५. अनाथपिण्डदेन गृहपतिना महता श्रीसमुदयेन पुत्रस्य परिणीता।
१०४.०२६. यावत्पुनरपि बोधस्य गृहपतेः पत्न्या सार्धं क्रीडतो रममाणस्य परिचारयतः पत्नी आपन्नसत्त्वा संवृत्ता।
१०४.०२७. यमेव दिवसमापन्नसत्त्वा संवृत्ता, तमेव दिवसं बोधस्य गृहपतेरनेकान्यनर्थशतानि प्रादुर्भूतानि।
१०४.०२८. तेन नैमित्तिका आहूय पृष्टाह्--भवन्तः, पश्यत कस्य प्रभावान्ममानर्थशतानि प्रादुर्भूतानि।
१०४.०२९. नैमित्तिका विचार्यैकमतेनाहुह्--गृहपते, य एष तव पत्न्याः कुक्षिमवक्रान्तः, अस्यैष प्रभावः।
१०४.०३०. तदस्य परित्यागः क्रियताम्।
१०४.०३१. इति श्रुत्वा बोधो गृहपतिः परं विषादमापन्नः।
१०४.०३१. कथयति--भवन्तः, स्वागतं न परित्यक्ष्यामीति।
१०४.०३२. नैमित्ताः स्वस्तीत्युक्त्वा प्रक्रान्ताः।
१०४.०३२. अथ बोधो गृहपतिर्वियोगसंजनितदौर्मनस्योऽपि<१०५> लोकापवादभयादभ्युपेक्ष्यावस्थितः।

१०५.००१. यथा यथासौ गर्भो वृद्धिं गच्छति, तथा तथा बोधस्य गृहपतेरुत्तरोत्तरातिशयेनानर्थशतान्युत्पद्यन्त्
१०५.००२. स संलक्षयति--क एतानि शृणोति? उद्यानं गत्वा तिष्ठामीति विदित्वा तेन पौरुषेया उक्ताह्--यदि मे कश्चिन्महाननर्थ उत्पद्यते, स श्रावयितव्यो नान्य इत्युक्त्वा उद्यानं गत्वा अवस्थितो यावदस्यासौ पत्नी प्रसूता।
१०५.००५. दारको जातः।
१०५.००५. अन्यतमः पुरुषस्त्वरितं त्वरितं बोधस्य गृहपतेः सकाशं गतः।
१०५.००५. तेनासौ दूरत एव दृष्टः।
१०५.००६. स संलक्षयति--यथायं त्वरितत्वरितमागच्छति, नूनं महाननर्थः प्रादुर्भूतः।
१०५.००७. इति विदित्वा ससम्भ्रमः पृच्छति--भोः पुरुष, किं त्वरित्वरितमागच्छसीति? स कथयति--गृहप्ते, दिष्ट्या वर्धसे, पुत्रस्ते जात इति।
१०५.००८. स कथयति--भोः पुरुष, यद्यपि मे पुत्रोऽनर्हशतान्युत्पाद्य जातः, तथापि स्वागतमस्येति।
१०५.००९. तदनन्तरमेव द्वितीयपुरुषस्तथैव त्वरितत्वरितमश्रुपर्याकुलेक्षणो बोधस्य गृहपतेः सकाशं गतः।
१०५.०१०. सोऽपि तेनानर्थतया ससम्भ्रमेण पृष्टह्--भोः पुरुष, किं त्वरितत्वरितमागच्छसीति? स बाष्पोपरुध्यमानगद्गदकण्ठः करुणादीनविलम्बिताक्षरं कथयति--गृहपते, गृहेऽग्निरुत्थितः।
१०५.०१२. सर्वं स्वापतेयं दग्धमिति।
१०५.०१२. स मुहुर्मुहुरनर्थश्रवणदृढीकृतचित्तसंततिः कथयति--भोः पुरुष, प्राप्तव्यमेतत् ।
१०५.०१३. अलं विषादेन, तूष्णीं तिष्ठेति।
१०५.०१४. अथ तस्य ज्ञातयो लोकधर्मानुवृत्त्या अवज्ञापूर्वकेन नामधेयं व्यवस्थापयितुमारब्धाह्--किं भवतु दारक्स्य नामेति।
१०५.०१५. तत्रैके कथयन्ति--यत्कुलसदृशं तत्क्रियतामिति।
१०५.०१५. अपरे कथयन्ति--येन बोधस्य गृहपतेः कुक्षिगतेनैवानेकधनसमुदितं गृहं निधनमुपनीतम्, तस्य कीदृशं कुलसदृशं नाम व्यवस्थाप्यते? अपि तु अयं पित्रा जातमात्रः स्वागतवादेन समुदाचरितः, तस्मादस्य स्वागत इति नाम भवतु इति।
१०५.०१८. तस्य स्वागत इति नामधेयं व्यवस्थापितम्।
१०५.०१८. यथा यथा स्वागतो वृद्धिमुपयाति, तथा तथा बोधस्य गृहपतेर्धनधान्यहिरण्यसुवर्णदासीदासकर्मकरपौरुषेयास्तनुत्वं परिक्षयं पर्यादानं गच्छन्ति।
१०५.०२०. यावदपरेण समयेन बोधो गृहपतिः कालगतः।
१०५.०२१. साप्यस्य पत्नी कालगता।
१०५.०२१. तद्गृहं प्रतिसंस्कृतं पुनरग्निना दग्धम्।
१०५.०२२. येऽप्यस्य पौरुषेयाः पण्यमादाय देशान्तरगता महासमुद्रं यावत्तीर्णाः, ततः केषांचिद्यानपात्रं विपन्नम्, केषांचित्पण्यमपण्यीजातम्, केचित्तत्रैवानयेन व्यसनमापन्नाः, केषांचित्कान्तारमध्यगतानां चौरैर्द्रव्यमपहृतम्, केषांचिन्नगरसमीपमनुप्राप्तानां शौल्किकशौल्किकैर्द्रव्यं विचारयद्भिः सारो गृहीतः, केषांचित्पत्तनमनुप्राप्तानां राज्ञा विनियुक्तैर्दोषमुत्पाद्य सर्वस्वमपहृतम्।
१०५.०२६. केचिद्बोधस्य गृहपतेः प्राणवियोगं श्रुत्वा तत्रैव अवस्थिताः।
१०५.०२७. ज्ञातीनामपि केचित्कालगताः, केचिन्निष्पलायिताः, केचित्तत्रैवावस्थिताः स्वागतस्य वाचमपि न प्रयच्छन्ति।
१०५.०२८. दासीदासकर्मकरपौरुषेया अपि केचित्कालगताः, केचिन्निष्पलायिताः, केचिदन्याश्रयेण तत्रैवावस्थिताः सन्तः स्वागतस्य नामापि न गृह्णन्ति।
१०५.०३०. किं तु बोधस्यैका पुराणवृद्धा दासी कृतज्ञतया स्वागतस्योपस्थानं कुर्वन्ती तिष्ठति।
१०५.०३१. तया स लिप्यक्षरचार्यस्याक्षराणि शिक्षयितुमुपन्यस्तः।
१०५.०३१. सा संलक्षयति--बोधस्य गृहपतेर्गृहमनेकधनसमुदितं विस्तीर्णस्वजनबन्धुवर्गं प्रभूतदासीदासकर्मकरपौरुषेयम्<१०६> पर्यादानं गतम्।

१०६.००१. स्वागतोऽहं चावस्थिताः।
१०६.००१. तज्जिज्ञास्यामि तावत्कस्यापुण्येनायमुपप्लवः, किं स्वागतस्य आहोस्विन्ममेति।
१०६.००२. तया स्वागतस्य नांना स्थाल्यां तण्डुलान् प्रक्षिप्य भक्तार्थं योजिता विनष्टाः।
१०६.००३. तत आत्मनो नांना तथैव योजिताः, शोभनं भक्तं संपन्नम्।
१०६.००४. सा संलक्षयति--असौ मन्दभाग्यः।
१०६.००४. एतमागम्य बोधस्य गृहपतेर्गृहमनेकधनसमुदितं विस्तीर्णस्वजनबन्धुवर्गं प्रभूतदासीदासकर्मकरपौरुषेयं परिक्षयं पर्यादानं गतम्।
१०६.००६. अहं पुनर्न यास्यामीति।
१०६.००६. कृतः स्थास्यामीति? अत्र प्राप्तकालं सर्वथा यावत्प्राणवियोगो न भवति तावन्निष्पलायेयेम्।
१०६.००७. इति विदित्वा यत्तत्र किंचित्सारमस्ति, तमादाय निष्पलायिता।
१०६.००८. तस्मिञ्शून्ये गृहे श्वानः प्रविश्य कलहं कर्तुमारब्धाः।
१०६.००८. यावदन्यतमो धूर्तपुरुषस्तेन प्रदेशेनातिक्रामति।
१०६.००९. स श्वानकलहं श्रुत्वा संलक्षयति--बोधस्य गृहपतेर्गृहे श्वानः कलिं कुर्वन्ति।
१०६.०१०. किं तदन्यं भवेत्? पश्यामि तावदिति।
१०६.०१०. स तत्र प्रविष्टो यावत्पश्यति शून्यम्।
१०६.०११. सोऽपि तस्माद्यत्किंचिच्छेषावशेषमस्ति, तमादाय प्रक्रान्तः॥
१०६.०१२. ततः स्वागतो भोजनवेलां ज्ञात्वा लेखशालायाः स्वगृहमागतो भोक्तुमिति यावत्पश्यति शून्यम्।
१०६.०१३. स भोक्तुकामावर्जितसंततिह्(?) क्षुधासंजनितदौर्मनस्यः शब्दापयितुमारब्धह्--अम्ब अम्बेति।
१०६.०१४. न कश्चिद्वचनं ददाति।
१०६.०१४. स तद्गृहमतिश्चामुतश्च व्यवलोक्य नैराश्यमापन्नो निष्क्रान्तः।
१०६.०१५. तस्य गृहस्य नातिदूरेऽन्यगृहम्।
१०६.०१५. तस्मिन् स्वागतस्य ज्ञातस्तिष्ठन्ति।
१०६.०१५. स तेषां सकाशं गतो यावत्तत्र कलिः प्रादुर्भूतः।
१०६.०१६. ते कलहं कृत्वा व्युपशान्ताः परस्परं कथयन्ति--भवन्तः, पूर्वमस्माकमन्योन्यं दृष्ट्वा स्नेहो भवति, इदानीं तु द्वेषः।
१०६.०१७. पश्यध्वं कश्चिदन्य आगतः स्यादिति।
१०६.०१८. ते समन्वेषितुमारब्धा यावत्पश्यन्ति स्वागतम्।
१०६.०१८. तत्रैके कथयन्ति--भवन्तः, स्वागतः प्रविष्ट इति।
१०६.०१९. अपरे कथयन्ति--नायं स्वागताः, किं तु दुरागतः, इममागम्यास्माकं कलिः प्रादुर्भूत इति।
१०६.०२०. स तैर्ग्रीवायां गृहीत्वा निष्कासितोऽन्यत्र गतः।
१०६.०२१. तस्मादपि निष्कासितो यावत्क्रोडमल्लानां मध्ये प्रविष्टः।
१०६.०२१. ते यत्र यत्र भैक्षार्थिकाः प्रविशन्ति, तत्र निर्भर्त्स्यन्ते निष्कास्यन्ते च्
१०६.०२२. ते नैराश्यमापन्ना रिक्तहस्तका रिक्तमल्लकाः शून्यदेवकुलमण्डपवृक्षमूलान्यागताः।
१०६.०२३. तेऽन्योन्यं पृच्छन्ति--भवन्तः, वयं पूर्वे यत्र यत्र गच्छामस्ततः पूर्णहस्ताः पूर्णमल्लका आगच्छामः।
१०६.०२४. इदानीं को योगो येन वयं रिक्तहस्तका रिक्तमल्लका नैराश्यमापन्ना इहागता इति? तत्रैके कथयन्ति--नूनं कोऽपि मन्दभाग्योऽस्माकं मध्ये प्रविष्टो येन वयं रिक्तहस्ता रिक्तमल्लका इहागता इति।
१०६.०२७. अपरे कथयन्ति--गतमेतत् ।
१०६.०२७. द्विधा भूत्वा प्रविशाम इति।
१०६.०२७. ते परस्मिन् दिवसे द्विधा प्रविष्टाः।
१०६.०२८. तत्र येषां मध्ये स्वागतस्ते तथैव निर्भर्त्सिता निष्कासिताश्च नैराश्यमापन्ना रिक्तहस्ता रिक्तमल्लाश्च यथानिलयमागताः।
१०६.०२९. ते त्वन्ये पूर्णहस्ता पूर्णमल्लका आगताः।
१०६.०३०. ये ते रिक्तहस्तका रिक्तपात्रा आगतास्ते भूयो द्विधा भूत्वा प्रविष्टाः।
१०६.०३०. तत्र तेषामपि येषां मध्ये स्वागतस्ते तथैव रिक्तहस्ता रिक्तमल्लकाश्चागताः।
१०६.०३१. ते भूयो द्विधा भूता एवं यावत्स्वागतक्रोडमल्लकौ प्रविष्टौ रिक्तहस्तौ रिक्तमल्लकौ आगतौ।
१०६.०३२. ते त्वन्ये पूर्णहस्ताह्<१०७>पूर्णमल्लका आगताः।

१०७.००१. ततस्ते क्रोडमल्लकाः सर्वे संभूय संकल्पं कर्तुमारब्धाह्--भवन्तः, अयं मन्दभाग्योऽस्माकं मध्ये प्रविष्ठो येन वयं रिक्तहस्ता रिक्मल्लकाश्चागताः।
१०७.००२. निष्कासयाम एनमिति।
१०७.००३. स तैः प्रभूतान् प्रहारान् दत्त्वा शिरसि च मल्लकं भङ्क्त्वा निष्कासितः॥
१०७.००४. अत्रान्तरे यावच्छ्रावस्तेयो वणिजो बोधस्य गृहपतेर्वयस्यः पण्यमादाय शिशुमारगिरिमनुप्राप्तः।
१०७.००५. तेन स्वागतो मल्लकेन हस्तगतेन पीठीं गतो मुखबिम्बकेन प्रत्यभिज्ञात उक्तश्च--पुत्र त्वं बोधगृहपतेः पुत्र इति? स कथयति--तात, अहं तस्य पुत्रो दुरागत इति।
१०७.००६. स मुहूर्तं तूष्णीं स्थित्वा अश्रुपर्याकुलेक्षणः कथयति--पुत्र, तौ तव मातापितरौ कालगतौ? ते ज्ञातयह्? स आह--तेषामपि केचित्कालगताः केचिदिहैव तिष्ठन्तो वाचमपि न प्रयच्छन्ति।
१०७.००८. ते दासीदास्कर्मकरपौरुषेयाह्? तेषामपि केचित्कालगताः, केचिन्निष्पलायिताः, केचिदिहैवान्यानाश्रित्यावस्थिता वाचमपि न प्रयच्छन्ति।
१०७.०१०. यदवशिष्टं धनं तदपि किंचिदग्निना दग्धम्।
१०७.०११. ये वणिक्पौरुषेयाः पण्यं गृहीत्वा धनार्थिनो देशान्तरं महासमुद्रं चावतीर्णाः, तत्रापि केषांचित्पण्यमपण्यीभूतम्, केचित्तत्रैवानयेन व्यसनमापन्नाः, केषांचित्कान्तारमध्यगतानां तस्कैरद्रव्यमपहृतम्, केषांचिन्नगरसमीपमनुप्राप्तानां शौल्किकशौल्किकैर्द्रव्यं विचारयद्भिः सारो गृहीतः, केषांचित्पत्तनमनुप्राप्तानां राज्ञो विनियुक्तैर्दोषमुत्पाद्य सर्वस्वमपहृतम्।
१०७.०१५. केचित्तस्य प्राणवियोगं श्रुत्वा तत्रैवावस्थिताः।
१०७.०१५. स दीर्घमुष्णं च निश्वस्य कथयति--पुत्र श्रावस्तीं किं न गच्छसि? तात, किं तत्रगतस्य भविष्यति? पुत्र, तत्रानाथपिण्डदो गृहपतिः, तस्य पुत्रेण तव भगिनी परिणीता।
१०७.०१७. सा तव योगोद्वहनं करिष्यतीति।
१०७.०१७. स कथयति--तात, यद्येवं गच्छामीति।
१०७.०१८. तेन तस्य द्वौ कार्षापणौ दत्तौ, उक्तश्च--पुत्र, आभ्यां तावदात्मानं संधारय, यावदहं पण्यं विसर्जयामि।
१०७.०१९. मया सार्धं गमिष्यसि।
१०७.०१९. तेन तौ कार्षापणौ खुस्तवस्त्रान्ते बद्ध्वा स्थापितौ, कर्मविपाकेन विस्मृतौ।
१०७.०२०. तथैवासौ कुतश्चित्किंचिदारागयति किंचिन्नारागायति।
१०७.०२१. क्षुधया पीड्यमानोऽवस्थितः।
१०७.०२१. यावदसौ वणिक्पण्यं विसर्जयित्वा प्रतिपण्यमादाय स्वागतं वैस्मृत्य संप्रस्थितः।
१०७.०२२. स्वागतोऽपि तेन सार्धं संप्रस्थितः।
१०७.०२३. यावत्ते सार्थकाः कलिं कर्तुमारब्धाः, बलीवर्दा योद्धुमारब्धाः।
१०७.०२३. सार्थिकाः कथयन्ति--भवन्तः, प्रत्यवेक्षत सार्थम्।
१०७.०२४. मा असौ दुरागतोऽत्रागतः स्यादिति।
१०७.०२४. तैः प्रत्यवेक्षमाणैरसौ दृष्टः।
१०७.०२४. ते तं खटुचपेटादिभिस्ताडयित्वा अर्धचन्द्रकारेण ग्रीवायां गृहीत्वा निष्कासितुमारब्धाः।
१०७.०२५. स निष्कासितः।
१०७.०२६. निष्क्रम्यमाणो विक्रोष्टुमारब्धः।
१०७.०२६. सार्थवाहस्तं कोलाहलशब्दं श्रुत्वा निरीक्षितुमारब्धः, यावत्पश्यति तं निष्कास्यमानम्।
१०७.०२७. स कथयति--भवन्तः, मा एनं निष्कासयत, ममैष वयस्यपुत्रो भवतीति।
१०७.०२८. ते कथयन्ति--सार्थवाह, यमागम्य बोधस्य गृहपतेरनेकधनसमुदितं ससुहृत्सम्बन्धिबान्धवं गृहं विनष्टम्, कथं तेन सार्धं गच्छामह्? सर्वथा त्वं सार्थस्य स्वामी।
१०७.०२९. यद्येष गच्छति, वयं न गच्छाम इति।
१०७.०३०. सार्थवाहस्तं कथयति--पुत्र, महाजनविरोधोऽत्र भवति।
१०७.०३०. सार्थकाः क्षुभिताः।
१०७.०३१. त्वं पश्चाद्वासोद्धातिकया गच्छ, अहं तवार्थे आहारं स्थापयामीति।
१०७.०३१. स मातापितृवियोगप्रतिस्पर्धिना पूर्वकर्मापराधप्रभावेण दुःखदौर्मनस्येन संतापितमनाः साश्रुकण्ठस्तूष्णीमवस्थितः।

१०८.००१. <१०८>सार्थः संप्रस्थितः।
१०८.००१. सोऽपि वासोद्धातिकया गन्तुमारब्धः।
१०८.००१. स सार्थवाहस्तस्याहारं पत्रपुटके बद्ध्वा किंचिद्भूमौ पांशुना प्रतिच्छाद्य स्थापयति, किंचिद्वृक्षशाखापत्रैरवच्छाद्य्
१०८.००२. तत्र यं भूमौ स्थापयति, स शृगालैरन्यैश्चतुष्पादौर्भक्ष्यत्
१०८.००३. यं वृक्षशाखासु, स पक्षिभिः शाखामृगैश्च भक्ष्यत्
१०८.००४. ततः किंचिदारागयति किंचिन्नारागयति।
१०८.००४. अस्थानमनवकाशो यच्चरमभविकः सत्त्वोऽसम्प्राप्ते विशेषाधिगमे सोऽन्तरा कालं कुर्यात् ।
१०८.००५. स कृच्छ्रेण श्रावस्तीमनुप्राप्तः।
१०८.००५. बहिः श्रावस्त्यामुदपानोपकण्ठके विश्रान्तः।
१०८.००६. यावत्तस्य भगिन्याः सन्तिका प्रेष्यदारिका उदकार्थिनी कुम्भमादाय गता।
१०८.००७. स तया मुखबिम्बकेन प्रत्यभिज्ञातः।
१०८.००७. सा चिरं निरीक्ष्य हीनदीनवदना कथयति--दारक, त्वं बोधस्य गृहपतेः शुशुमारगिरीयकस्य पुत्र इति? स कथयति--एवं मां भगिनीजनः संजानीत इति।
१०८.००९. सा अश्रुपर्याकुलेक्षणा बाष्पोपरुध्यमानकण्ठा उरसि प्रहारं दत्त्वा करुणादीनविलम्बिताक्षरं प्रष्टुमारब्धा।
१०८.०१०. तौ तव मातापितरौ कालगतौ? कालगतौ।
१०८.०११. ते ज्ञातयह्? स कथयति--तेषामपि केचित्कालगताः, केचिन्निष्पलायिताः, केचित्तत्रैव तिष्ठन्तो वाचमपि न प्रयच्छन्ति।
१०८.०१२. ते दासीदासकर्मकरपौरुषेयाह्? तेषामपि केचित्कालगताः, केचिन्निष्पलायिताः, केचित्तत्रैवान्यानाश्रित्यावस्थिता वाचमपि न प्रयच्छन्ति।
१०८.०१४. यदपि धनजातं तदपि किंचिदग्निना दग्धम्, किंचिदन्यपौरुषेया गृहीत्वा धनार्थिनो देशान्तरं महासमुद्रं चावतीर्णाः।
१०८.०१५. तत्रापि केषांचिद्यानपात्रं विपन्नम्, केषांचित्पण्यमपण्यीभूतम्, केचित्तत्रैवानयेन व्यसनमापन्नाः, केषांचित्कान्तारमध्यगतानां तस्करैर्द्रव्यमपहृतम्, केषांचिन्नगरसमीपमनुप्राप्तानां शौल्किकशौल्किकैर्द्रव्यं विचारयद्भिः सारो गृहीतः, केषांचित्पत्तनमनुप्राप्तानां राजनियुक्तैर्दोषमुत्पाद्य सर्वस्वमपहृतम्, केचित्तस्य प्राणवियोगं श्रुत्वा तत्रैवावस्थिताः।
१०८.०१९. सा दीर्घमुष्णं च निश्वस्य कथयति--इहैव तिष्ठ यावत्ते भगिन्याः कथयामीति।
१०८.०२०. तया गत्वा तस्याः प्रयच्छन्नं कथितम्।
१०८.०२०. कीदृशेन पण्येनेति? सा कथयति--कुतोऽस्य पण्यम्? दण्डमस्य हस्ते मल्लकश्चेति।
१०८.०२१. तया तस्यार्थं महार्हाणि वस्त्राणि दत्तानि।
१०८.०२१. कार्षापणांश्च दत्त्वा उक्ता च--स वक्तव्यो यदि ते भागिनेयो वा भागिनेयिका वा उपसंक्रामति, तस्यैव कार्षापणान् दद्याः।
१०८.०२३. मा ज्ञातीनां प्रतर्क्यो भविष्यतीति।
१०८.०२३. सा वस्त्राण्यादाय कार्षापणांश्च तस्य सकाशं गता कथयति--इमानि ते वस्त्राणि कार्षापणाश्च भगिन्या प्रेषितानि, कथयति च--यदि ते भागिनेयो वा भागिनेयिका वा उपसंक्रामति, तस्यैतत्कार्षापणान् दद्याः।
१०८.०२५. मा ज्ञातीनां प्रतर्क्यो भविष्यसि।
१०८.०२६. स कथयति--शोभनमेव भवति।
१०८.०२६. इत्युक्त्वा तूष्णीमवस्थितः।
१०८.०२७. दारिका प्रक्रान्ता।
१०८.०२७. स संलक्षयति--अनाथपिण्डदो गृहपतिर्विस्तीर्णस्वजनपरिवारः।
१०८.०२७. अस्माकमपि पिता विस्तीर्णपरिवारः।
१०८.०२८. तेषाममेकैकशो वार्तां प्रत्यवेक्षत्
१०८.०२८. भगिन्या चिरमालापो भविष्यति।
१०८.०२९. स च मार्गपरिश्रमखिन्नेन क्षुधार्तेन न शक्यते कर्तुम्।
१०८.०२९. पुरोभक्षिकां तावत्करोमि।
१०८.०३०. तृप्तः सुखालापमुद्यानं गत्वा शयितः।
१०८.०३१. आचरितं श्रावस्त्यामुद्यानमोषकाः पुरुषाः प्रतिदिनमन्वाहिण्ड्यन्त्
१०८.०३२. ते यदि सुप्तं पुरुषं पश्यन्ति, पादेन घट्टयन्ति।
१०८.०३२. स यदि प्रतिविबुध्यते<१०९>, तमेवं वदन्ति--भोः पुरुष, न त्वया श्रुतं यथा श्रावस्त्यामुद्यानमोषकाः पुरुषाः प्रतिदिनमन्वाहिण्ड्यन्ते? ते यदि सुप्तं पुरुषं पश्यन्ति, वदन्ति--उत्तिष्ठ गच्छेति।

१०९.००२. यदि न प्रतिविबुध्यते, मुषित्वा गच्छन्ति।
१०९.००३. तैः पादेन घट्टितो न प्रतिविबुध्यत्
१०९.००३. मुषित्वा प्रक्रान्ताः।
१०९.००३. स विगतमद्यमदः प्रतिबुद्धो यावत्पश्यति तान्येवानन्तकानि(?) प्रावृत्यावस्थितः।
१०९.००४. ततोऽस्य भगिनी संलक्षयति--अतिचिरयत्यसौ।
१०९.००५. नूनमत्र कारणेन भवितव्यमिति।
१०९.००५. तस्यासौ दारिका पुनः प्रेषिता--दारिके गच्छ, चिरयत्यसौ, पश्य किमर्थं नागच्छतीति।
१०९.००६. सा गता यावत्पश्यति मुषितकं तेनैव वेषेणावस्थितम्।
१०९.००७. सा त्वरितत्वरितं गता तस्याः कथयति--आर्ये, मुषितस्तेनैव वेषेण तिष्ठतीति।
१०९.००८. सा संलक्षयति--यमागम्य बोधस्य गृहपतेरनेकधनसमुदितं ससुहृत्सम्बन्धिबान्धवं गृहं विनष्टम्, यदि तमिह प्रवेशयामि, स्थानमेतद्विद्यते यन्मयापि श्वशुरगृहमनयेन व्यसनमापत्स्यत्
१०९.०१०. नासाविह प्रवेशयितव्यः।
१०९.०१०. इति विदित्वा तयाप्युपेक्षितः॥
१०९.०११. तस्यापि पूर्वकर्मापराधाद्विस्मृतम्।
१०९.०११. स क्रोडमल्लकानां मध्ये प्रविष्टः।
१०९.०११. ते यत्र यत्र भैक्षार्थिनः प्रविशन्ति, तत्र तत्र निर्भत्स्यन्ते च निष्कास्यन्ते च्
१०९.०१२. नैराश्यमापन्ना रिक्तहस्ता रिक्तमल्लकाः शून्यदेवकुलमण्डपवृक्षमूलान्यागताः।
१०९.०१३. तेऽन्योन्यं पृच्छन्ति--भवन्तः, वयं पूर्वं यत्र यत्र गच्छामस्ततः पूर्णहस्ताः पूर्णमल्लका गच्छामः।
१०९.०१४. इदानीं को योगो येन वयं रिक्तहस्ता रिक्तमल्लका नैराश्यमापन्ना इहागता इति? तत्रैके कथयन्ति--नूनं कोऽपि मन्दभाग्योऽस्माकं मध्ये प्रविष्टो येन वयं रिक्तहस्ता रिक्तमल्लका इहागता इति।
१०९.०१६. अपरे कथयन्ति--द्विधा भूत्वा प्रविशाम इति।
१०९.०१७. तेऽपरस्मिन् दिवसे द्विधा भूत्वा प्रविष्टाः।
१०९.०१७. तत्र येषां मध्ये स्वागतः, ते तथैव निर्भर्त्सिता निष्कासिताश्च नैराश्यमापन्ना रिक्तहस्ता रिक्तमल्लकाश्चागताः।
१०९.०१८. ते त्वन्ये पूर्णहस्ताः पूर्णमल्लका आगता।
१०९.०१९. ये रिक्तहस्ता रिक्तमल्लका आगताः, ते भूयो द्विधा भूत्वा प्रविष्टाः।
१०९.०२०. तेषामपि येषां मध्ये स्वागतः, ते तथैव रिक्तहस्ता रिक्तमल्लकाश्चागताः।
१०९.०२०. ते भूयो द्विधा भूता एवं यावत्स्वागतोऽन्यश्च क्रोडमल्लकः प्रविष्टः।
१०९.०२१. तौ रिक्तहस्तौ रिक्तमल्लकौ आगतौ, ते त्वन्ये पूर्णहस्ताः पूर्णमल्लका आगताः।
१०९.०२२. ते क्रोडमल्लकाः सर्वे संभूय संजल्पं कर्तुमारब्धाह्--भवन्तः, अयं मन्दभाग्यसत्त्वोऽस्माकं मध्ये प्रविष्टो येन वयं रिक्तहस्ता रिक्तमल्लकाश्चागताः।
१०९.०२४. निष्कासयाम एनमिति।
१०९.०२४. स तैः प्रभूतान् प्रहारान् दत्त्वा शिरसि च मल्लकं भङ्क्त्वा निष्कासितः॥
१०९.०२५. अत्रान्तरेऽनाथपिण्डदेन गृहपतिना बुद्धप्रमुखो भिक्षुसंघोऽन्तर्गृहे भक्तेनोपनिमन्त्रितः।
१०९.०२६. तेन दौवारिकाणामाज्ञा दत्ता--न तावत्कस्यचित्क्रोडमल्लकस्य प्रवेशो दातव्यो यावद्बुद्धप्रमुखेन भिक्षुसंघेन भुक्तम्।
१०९.०२७. पश्चात्तान् भोजयिष्यामीति।
१०९.०२७. क्रोडमल्लका ये तस्य गृहं प्रतिशरणभूतास्ते सर्वे संनिपतिताः प्रवेष्टुमारब्धाः।
१०९.०२८. दौवारिकेण विरोधिताः।
१०९.०२९. कथयन्ति--भोः पुरुष, अस्माकमेव नांना अयं गृहपतिः प्रज्ञायते अनाथपिण्डदो गृहपतिरिति।
१०९.०३०. तत्किमिदमिति कृत्वा अस्मान् विधारयसीति? स कथयति--गृहपतिना आज्ञादत्ता--न तावत्कस्यचित्क्रोडमल्लकस्य प्रवेशो दातव्यो यावद्बुद्धप्रमुखेन भिक्षुसंघेन भुक्तम्।
१०९.०३२. पश्चात्तान् भोजयिष्यामीति।
१०९.०३२. ते कथयन्ति--भवन्तः, न कदाचिद्वयं विधार्यमाणाह्<११०>।

११०.००१. तं पश्यत मा अत्रार्या दुरागत आगतो भवेदिति।
११०.००१. ते समन्वेष्टितुमारब्धा यावत्पश्यन्त्येकस्मिन् प्रदेशे निलीयावस्थितम्।
११०.००२. ततस्तैः कोलाहलशब्दः कृतह्--अयं भवन्तः स दुरागतो निलीनस्तिष्ठतीति।
११०.००३. स तैः प्रभूतान् प्रहारान् दत्वा निष्कासितस्तीव्रेण च पर्यवस्थानेन शिरसि मल्लकेन प्रहारो दत्तः।
११०.००४. तस्य शिरो भग्नम्।
११०.००४. स निवर्त्य विप्रलपितुमारब्धः।
११०.००५. ततस्तैर्हस्तपादेषु गृहीत्वा संकारकूटे क्षिप्तह्--दुरागत अत्र तिष्ठेति।
११०.००५. स रुधिरेण प्रघरता तस्मिन् संकारकूटेऽवस्थितः।
११०.००६. यावद्भगवान् पूर्वाह्णे निवास्य पात्रचीवरमादाय भिक्षुगणपरिवृतो भिक्षुसंघपुरस्कृतो येनानाथपिण्डदस्य गृहपतेर्निवेशनं तेनोपसंक्रान्तः।
११०.००८. अद्राक्षीद्भगवान् स्वागतं परुषरूक्षाङ्गुलिदीर्घकेशं रजसावचूर्णितगात्रं कृशमल्पस्थानं मलिनजीर्णवासोनिवसितं शिरसा भग्नेन रुधिरेण प्रघरता अन्यैश्च व्रणैश्चाकीर्णैः, मक्षिकाभिरुपद्रुतैः संकारकूटे निपतितम्।

११०.०१०. दृष्ट्वा च पुनर्भिक्षूनामन्त्रयते स्म--तृप्यत भिक्षवः सर्वभवोपपत्तिभ्यः।
११०.०११. तृप्यत सर्वभवोपपत्त्युपकरणेभ्यः, यत्र नाम चरमभविकस्य सत्त्वस्येयमवस्था।
११०.०११. तत्र भगवांस्तं स्वागतमामन्त्रयते--आकाङ्क्षसे वत्स पात्रशेषम्? भगवन्।
११०.०१२. तत्र भगवानायुष्मन्तमानन्दमामन्त्रयते--स्वागतस्य ते आनन्द पात्रशेषः स्थापयितव्यमिति।
११०.०१३. एवं भदन्तेत्यायुष्मानानन्दो भगवतः प्रत्यश्रौषीत् ॥
११०.०१५. अथ भगवान् येनानाथपिण्डदस्य गृहपतेर्भक्ताभिसारस्तेनोपसंक्रान्तः।
११०.०१५. उपसंक्रम्य पुरस्ताद्भिक्षुसंघस्य प्रज्ञप्त एवासने निषण्णः।
११०.०१६. अनाथपिण्डदो गृहपतिः सुखोपनिषण्णं बुद्धप्रमुखं भिक्षुसंघं विदित्वा प्रणीतेन खादनीयभोजनीयेन स्वहस्तेन संतर्प्य संप्रवार्य भगवन्तं भुक्तवन्तं विदित्वा धौतहस्तमपनीतपात्रं नीचतरमासनं गृहीत्वा भगवतः पुरस्तान्निषण्णो धर्मश्रवणाय्
११०.०१९. आयुष्मत आनन्दस्य तत्पात्रशेषं स्वागताय विस्मृतम्।
११०.०१९. असंमोषधर्माणो बुद्धा भगवन्तः।
११०.०२०. भगवता उत्थापितम्।
११०.०२०. आयुष्मानानन्दो भगवतः पात्रं गृहीतुमारब्धो यावत्पश्यति तत्र पात्रशेषं न संस्थापितम्।
११०.०२१. दृष्ट्वा च स्मृतिरुत्पन्ना।
११०.०२१. स धर्मतत्त्वो वचसा(?) अथ रोदितुमारब्धः।
११०.०२२. भगवानाह--कस्मात्त्वमानन्द रोदिषीति।
११०.०२२. स कथयति--न मया भदन्त भगवतः कदाचिदाज्ञा प्रत्यूढपूर्वेति।
११०.०२३. किं कृतम्? स्वागतस्य पात्रशेषं न स्थापितमिति।
११०.०२४. भगवानाह--न त्वया आनन्द ममाज्ञा प्रतिस्मृता, अपि तु स्वागतस्यैव तानि कर्माणि लब्धसम्भाराणि परिणतप्रत्ययान्योघवत्प्रत्युपस्थितान्यवश्यभावीनि येन तव विस्मृतम्।
११०.०२६. अलं विषादेन्
११०.०२६. गच्छ, तं शब्दापयेति।
११०.०२६. स गत्वा शब्दापयितुमारब्धः।
११०.०२६. अनेकैः प्रतिवचनं दत्तम्।
११०.०२७. स्वागतस्य तदपि विस्मृतं यद्भगवता प्रतिज्ञातम्--तव पात्रशेषं स्थापयिष्यामीति।
११०.०२८. स संलक्षयति--कोऽप्ययं पुण्यकर्मा भगवता त्रैलोक्यगुरुणा समन्वाहृतः शब्दत इति।
११०.०२८. आयुष्मता आनन्देन गत्वा भगवत आरोचितम्।
११०.०२९. भगवन् स्वागत इत्युक्त्वा अनेकैः प्रतिवचनं दत्तम्।
११०.०३०. न जाने कं शब्दापयामीति।
११०.०३०. भगवानाह--गच्छ आनन्द, गत्वा कथय--यो बोधस्य गृहपतेः शुशुमारगिरीयस्य पुत्रः स्वागतः, स आगच्छतु इति।
११०.०३१. आयुष्मता आनन्देन गत्वोच्चैः शब्दैरुक्तह्--यो बोधस्य गृहपतेः शुशुमारगिरीयकस्य पुत्रः स्वागतः, स आगच्छतु इति।
११०.०३२. तेन पुतुर्नामश्रवणादात्मनो नाम स्मृतम्।
११०.०३२. स शनैर्दण्डविष्टम्भनयोगादुत्थाय गाथां भाषते--

१११.००१. <१११>भ्रष्टः स्वागतशब्दोऽयं कुतः पुनरिहागतः।
१११.००२. नूनंश्रेयसो नाशः श्रेयसश्च समुद्भवः॥१॥
१११.००३. तेषां सर्वज्ञ नाथोऽसि ये हि त्वां शरणं गताः।
१११.००४. तेषां स्वागतमार्याणां ये च ते शासने रताः॥२॥
१११.००५. अहं तु भाग्यरहितः सर्वबन्धुविवर्जितः।
१११.००६. शोच्यः कष्टां दशां प्राप्तः शोकशल्यसमर्पितः॥३॥ इति।
१११.००७. अथायुष्मानानन्दस्तमादाय येन भगवांस्तेनोपसंक्रान्तः।
१११.००७. उपसंक्रम्य भगवन्तमिदमवोचत्--अयं भदन्त स्वागत इति।
१११.००८. स भगवता क्षुधासंजनितदौर्मनस्यः समाश्वासितः, उक्तश्च--पुत्र, इमं पात्रशेषं परिभुङ्क्ष्वेति।
१११.००९. स तं दृष्ट्वा संलक्षयति--यद्यप्यहं भगवता त्रैलोक्यगुरुणा दैवात्समन्वाहृतः, तदपि स्तोकः पात्रशेषः स्थापितः।
१११.०१०. किमत्र भोक्ष्य इति।
१११.०११. भगवांस्तस्य चेतसा चित्तमाज्ञाय कथयति--वत्स, यदि त्वं सुमेरुमात्रैः पिण्डैः समुद्रसदृशेन कुष्किणा परिभोक्ष्यसे, तथाप्यव्ययं तन्न परिक्षयं गमिष्यति, यावत्तृप्तः परिभुङ्क्ष्व यथासुखमिति।
१११.०१३. तेन तावद्भुक्तं यावत्तृप्त इति।
१११.०१३. तत्संतर्पितेन्द्रियो भगवतो मुखं व्यवलोकयितुमारब्धः।
१११.०१४. भगवानाह--वत्स स्वागत, तृप्तोऽसि? तृप्तोऽस्मि भगवन्।
१११.०१४. वत्स, यद्येवमपश्चिमं कवलं गृहाण, अन्तर्धास्यत्येष पात्र इति।
१११.०१५. तेनापश्चिमकवलो गृहीतः, सोऽन्तर्हितः।
१११.०१५. भगवान् दक्षिणादेशनां कृत्वा प्रक्रान्तः।
१११.०१६. चरमभविकः स सत्त्वो भगवन्तं पृष्टतः पृष्टतः समनुबद्धः।
१११.०१७. यावद्भगवान् विहारं गत्वा पुरस्ताद्भिक्षुसंघस्य प्रज्ञप्त एवासने निषण्णः।
१११.०१७. सोऽपि भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णः।
१११.०१८. भगवान् संलक्षयति--पुष्पाणामेनं प्रेषयामि, कर्मापनयोऽस्य कर्तव्य्
१११.०१९. इति विदित्वा स्वागतमामन्त्रयते--वत्स स्बागत, सन्ति ते कार्षापणाह्? न सन्ति भगवन्।
१११.०२०. वत्स स्वागत, वस्त्रान्तं निरीक्षस्व्
१११.०२०. वस्त्रान्तं निरीक्षितुमारब्धो यावत्पश्यति द्वौ कार्षापणौ।
१११.०२१. स कथयति--भगवन्, द्वौ कार्षापणौ।
१११.०२१. वत्स गच्छ, गण्डकस्यारामिकस्य सकाशान्नीलोत्पलानि गृहीत्वा आगच्छेति।
१११.०२२. स्वागतस्तस्य सकाशं गतः।
१११.०२२. स तं दूरादेव दृष्ट्वा पर्यवस्थितः।
१११.०२३. स संलक्षयति--आगतोऽयं दूरागतः।
१११.०२३. नियतं ममानर्थो भवति।
१११.०२३. इति विदित्वा सपरुषं कथयति--दुरागत, किमर्थं र्वमिहागच्छसीति।
१११.०२४. स गाथां भाषते--
१११.०२५. नीलोत्पलैरस्ति कार्यं मे तथान्यैर्नापि पङ्कजैः।
१११.०२६. मुनीन्द्रस्य तु दूतोऽहं सर्वज्ञस्य यशस्विनः॥४॥
१११.०२७. इत्युक्त्वा प्रतिनिवर्तितुमारब्धः।
१११.०२७. सोऽपि गाथां भाषते--
१११.०२८. एह्येहि यदि दूतोऽसि तस्य शान्तात्मनो मुनेः।
१११.०२९. पूज्यः स नरदेवानां पूज्यः पूज्यतमैरपि॥५॥
१११.०३०. इत्युक्त्वा स कथयति--बुद्धदूतस्त्वम्? बुद्धदूतः।
१११.०३०. किमर्थमागतह्? पुष्पार्थम्।
१११.०३०. यदि बुद्धदूतस्त्वम्, गृहाण यथेप्सितम्।
१११.०३१. नीलोत्पलानां भारमादाय भगवतः सकाशमागतः।

११२.००१. <११२>भगवानाह--वत्स, भिक्षूणां चारय्
११२.००१. स भिक्षूणां चारयितुमारब्धः।
११२.००१. भिक्षवो न प्रतिगृह्णन्ति।
११२.००२. भगवानाह--गृह्णीध्वं भिक्षवः सर्वसौगन्धम्।
११२.००२. चक्षुर्भ्यां कर्मापनयोऽस्य कर्तव्य इति।
११२.००३. भिक्षुभिर्गृहीतानि।
११२.००३. गृहीत्वा पुष्पितानि।
११२.००३. तेनापूर्वं नीलकृत्स्नमुत्पादितं पूर्वम्।
११२.००३. स वृद्धान्ते स्थित्वा तानि पुष्पाणि दृष्ट्वा सुतरां निरीक्षितुमारब्धः।
११२.००४. तस्य तन्नीलकृत्स्नमामुखीभूतम्।
११२.००५. ततस्तं भगवानाह--वत्स, किं न प्रव्रजसीति? स कथयति--प्रव्रजामि भगवन्निति।
११२.००५. भगवता प्रव्रजित उपसम्पादितो मनसिकारश्च दत्तः।
११२.००६. तेन युज्यमानेन घटमानेन व्यायच्छमानेन इदमेव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकिरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्।
११२.००८. अर्हन् संवृत्तस्त्रैधातुकवीतरागः समलोष्टकाञ्चन आकाशपाणितलसमचित्तो वासीचन्दनकल्पो विद्याविदारिताण्डकोशो विद्याभिज्ञाप्रतिसंवित्प्राप्तो भवलाभलोभसत्कारपरान्मुखः।
११२.०१०. सेन्द्रोपेन्द्राणां पूज्यो मान्योऽभिवाद्यश्च संवृत्तः।
११२.०११. सोऽर्हत्त्वं प्राप्तो विमुक्तिसुखप्रतिसंवेदी तस्यां वेलायां गाथां भाषते--
११२.०१२. उपायपाशैर्वीरेण बद्ध्वाहं तत्त्वदर्शिना।
११२.०१३. कारुण्यादुद्धृतो दुःखाज्जीर्णः पङ्कादिव द्विपः॥६॥
११२.०१४. स्वागतोऽहमभूवं प्राक्ततः पश्चाद्दुरागतः।
११२.०१५. आगतोऽस्मि पुरा नाथ श्रुत्वा वाक्यं तवोत्तमम्॥७॥
११२.०१६. साम्प्रतं स्वागतो व्यक्तम् {संवृत्तो न दुरागतह्}।
११२.०१७. साम्प्रतं काञ्चनं देहं धारयामि निराश्रवम्॥८॥
११२.०१८. रत्नानि प्रतिलेभे हि स्वर्गं मोक्षं च काङ्क्षताम्।
११२.०१९. श्रेष्ठा कल्याणमित्राणां सदा सेवा हितैषिणाम्॥९॥ इति।
११२.०२०. यदा आयुष्मान् स्वागतः स्वाख्याते धर्मविनये प्रव्रजितः, तदा सामन्तकेन शब्दो विसृतह्--श्रमणेन गौतमेनासौ दुरागतः क्रोडमल्लकः प्रव्रजितः।
११२.०२१. तीर्थ्यैः श्रुतम्।
११२.०२१. तेऽवध्यायन्ति क्षिपन्ति विवादयन्ति--श्रमणो भवन्तो गौतम एवमाह--सामन्तप्रासादिकं मे शासनमिति।
११२.०२३. अत्र किं सामन्तप्रासादिकमित्यस्य यत्रेदानीं दुरागतप्रभृतयोऽपि क्रोडमल्लकाः प्रव्रजन्तीति? अत्रान्तरे नास्ति किंचिद्बुद्धानां भगवतामज्ञातमदृष्टमविदितमविज्ञातम्।
११२.०२४. भगवान् संलक्षयति--सुमेरुप्रख्यो महाश्रावके महाजनकायः प्रसादं प्रवेदयत्
११२.०२५. तद्गुणोद्भावनमस्य कर्तव्यम्, कुत्र कर्तव्यम्? यत्रैव पतितः।
११२.०२६. इति ज्ञात्वा आनन्दमामन्त्रयते स्म--गच्छ आनन्द भिक्षूणामारोचय--तथागतो भिक्षवो भर्गेषु जनपदेषु चारिकां चरिष्यति।
११२.०२७. यो युष्माकमुत्सहते तथागतेन सार्धं भर्गेषु चारिकां चर्तुम्, स चीवरकाणि गृह्णातु इति।
११२.०२८. एवं भदन्तेत्यायुष्मानानन्दो भगवतः प्रतिश्रुत्य भिक्षूणामारोचयति--भगवानायुष्मन्तो भर्गेषु जनपदेषु चारिकां चरिष्यति।
११२.०२९. यो युष्माकमुत्सहते भगवता सार्धं भर्गेषु जनपदेषु चारिकां चरितुम्, स चीवरकाणि गृह्णातु इति।
११२.०३१. अथ भगवान् दान्तो दान्तपरिवारः शान्तः शान्तपरिवारो मुक्तो मुक्तपरिवार आश्वस्त आश्वस्तपरिवारो विनीतो विनीतपरिवारोऽर्हन्नर्हत्परिवारो वीतरागो वीतरागपरिवारः प्रासादिकह्<११३>प्रसादिकपरिवारो वृषभ इव गोगणपरिवृतो गज इव कलभपरिवृतः सिंह इव दंष्टृगणपरिवृतो हंसराज इव हंसगणपरिवृतः सुपर्णीव पक्षिगणपरिवृतो विप्र इव शिष्यगणपरिवृतः सुवैद्य इवातुरगणपरिवृतः शूर इव योधगणपरिवृतो देशिक इवाध्वगगणपरिवृतः सार्थवाह इव वणिग्गणपरिवृतः श्रेष्ठीव पौरगणपरिवृतः कोट्टराज इव मन्त्रिगणपरिवृतश्चक्रवर्तीव पुत्रसहस्रपरिवृतश्चन्द्र इव नक्षत्रगणपरिवृतः
सूर्य इव रश्मिसहस्रपरिवृतो धृतराष्ट्र इव गन्धर्वगणपरिवृतो विरूढक इव कुम्भाण्डगणपरिवृतो विरूपक्ष इव नागगणपरिवृतो धनद इव यक्षगणपरिवृतो वेमचित्रीवासुरगणपरिवृतः शक्र इव त्रिदशगणपरिवृतो ब्रह्मेव
ब्रह्मकायिकगणपरिवृतः स्तिमति इव जलनिधिः सजल इव जलधरो विमद इव गजपरिः सुदान्तेन्द्रियैरसंक्षोभितेर्यापथप्रचारो द्वात्रिंशता महापुरुषलक्षणैः समलंकृतोऽशीत्यानुव्यञ्जनैर्विराजितगात्रो व्यामप्रभालंकृतमूर्तिः सूर्यसहस्रातिरेकप्रभो जङ्गम इव रत्नपर्वतः समन्ततो भद्रको दशभिर्बलैश्चतुर्भिर्वैशारद्यैस्त्रिभिरावेणिकैः स्मृत्युपस्थानैर्महाकरुणया च समन्वागत आज्ञातकौण्डिन्यबाष्पमहानामानिरुद्धशारिपुत्रमौद्गल्यायनकाश्यपानन्दरैवतप्रभृतिभिर्महाश्रावकैः परिवृतोऽन्येन च महता भिक्षुसंघेन येन शुशुमारगिरिस्तेनोपसंक्रान्तः।

११३.०१३. अनुपूर्वेण चारिकां चरञ्शुशुमारगिरिमनुप्राप्तः।
११३.०१४. शुशुमारगिरौ विहरति भीषणिकावने मृगदाव्
११३.०१४. अश्रौषुः शुशुमारगिरीयका ब्राह्मणगृहपतयह्--भगवान् भर्गेषु जनपदेषु चारिकां चरञ्शुशुमारगिरिमनुप्राप्तः शुशुमारगिरौ विहरति भीषणिकावने मृगदाव इति।
११३.०१६. श्रुत्वा च पुनः संघात्संघं पूगात्पूगं संगम्य शुशुमारगिरेर्निष्क्रम्य येन भगवांस्तेनोपसंक्रान्ताः।
११३.०१७. उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णाः।
११३.०१८. शुशुमारगिरीयकान् ब्राहमणगृहपतीन् धर्म्यया कथया संदर्शयति समादापयति समुत्तेजयति संप्रहर्षयति।
११३.०१९. अनेकपर्यायेण धर्म्यया कथया संदर्श्य समादापयति समुत्तेजयति संप्रहर्ष्य तूष्णीम्।
११३.०२०. अथ शुशुमारगिरीयका ब्राह्मणगृहपतय उत्थायासनादेकांसमुत्तरासङ्गं कृत्वा येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमिदमवोचन्--अधिवासयत्वस्माकं भगवाञ्श्वोऽन्तर्गृहे भक्तेन सार्धं भिक्षुसंघेन्
११३.०२२. अधिवासयति भगवाञ्शुशुमारगिरीयकानां ब्राह्मणगृहपतीनां तूष्णीभावेन्
११३.०२३. अथ शुशुमारगिरीयका ब्राह्मणगृहपतयो भगवतस्तूष्णीभावेनाधिवासनां विदित्वा भगवतो भाषितमभिनन्द्यानुमोद्य भगवतः पादौ शिरसा वन्दित्वा भगवतोऽन्तिकात्प्रक्रान्ताः।
११३.०२५. अथ शुशुमारगिरीयका ब्राह्मणगृहपतयस्तामेव रात्रिं शुचि प्रणीतं खादनीयभोजनीयं समुदानीय काल्यमेवोत्थाय आसनकानि प्रज्ञप्य उदकमणीन् प्रतिष्ठाप्य भगवतो दूतेन कालमारोचयन्ति--समयो भदन्त, सज्जं भक्तं यस्येदानीं भगवान् कालं मन्यत इति।
११३.०२८. अथ भगवान् पूर्वाह्णे निवास्य पात्रचीवरमादाय भिक्षुगणपरिवृतो भिक्षुसंघपुरस्कृतो येन शुशुमारगिरीयकानां ब्राह्मणगृहपतीनां भक्ताभिसारस्तेनोपसंक्रान्तः।
११३.०३०. उपसंक्रम्य प्रज्ञप्त एवासने निषण्णः।
११३.०३०. शुशुमारगिरीयका ब्राह्मणगृहपतयः सुखोपनिषण्णं बुद्धप्रमुखं भिक्षुसंघं विदित्वा शुचिना प्रणीतेन खादनीयभोजनीयेन स्वहस्तेन संतर्पयन्ति संप्रवारयन्ति।
११३.०३२. अनेकपर्यायेण शुचिना प्रणीतेन खादनीयेन <११४>भोजनीयेन स्वहस्तं संतर्प्य संप्रवार्य भगवन्तं भुक्तवन्तं विदित्वा धौतहस्तमपनीतपात्रं नीचतरमासनं गृहीत्वा भगवतः पुरस्तान्निषण्णा धर्मश्रवणाय्

११४.००२. अथ भगवाञ्शुशुमारगिरीयकान् ब्राह्मणगृहपतीन् धर्म्यया कथया संदर्शयति समादापयति समुत्तेजयति संप्रहर्षयति।
११४.००४. अनेकपर्यायेण धर्म्यया कथया संदर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्य तूष्णीम्॥
११४.००५. अथ शुशुमारगिरीयका ब्राह्मणगृहपतयो भगवन्तमिदमवोचत्--भगवता भदन्त नानादेशेषु नानाधिष्ठानेषु ते ते दुष्टनागा दुष्टयक्षाश्च विनीताः।
११४.००६. अयं भदन्त अश्वतीर्थिको नागोऽस्माकमवैराणां वैरी असपत्नानां सपत्नोऽद्रुग्धानां द्रुग्धः।
११४.००७. नित्यमस्माकं जातानि जातानि शस्यानि विनाशयति, स्त्रीपुरुषदारकदारिकागोमहिषानजैडकांश्च्
११४.००८. अहो बत भगवांस्तं विनयेदनुकम्पामुपादायेति।
११४.००९. अधिवासयति भगवाञ्शुशुमारगिरीयकानां ब्राह्मणगृहपतीनाम्।
११४.०१०. तूष्णीभावेनाधिवासयति।
११४.०१०. अथ भगवाञ्शुशुमारगिरीयकानां ब्राह्मणगृहपतीनां तूष्णीभावेनाधिवास्य उत्थायासनात्प्रक्रान्तः।
११४.०११. अथ भगवान् विहारं गत्वा पुरस्ताद्भिक्षुसंघस्य प्रज्ञप्त एवासने निषण्णः।
११४.०१२. निषद्य भगवानायुष्मन्तमानन्दमामन्त्रयते--गच्छ आनन्द, भिक्षूणामेवमारोचय, शलाकां चारय--यो युष्माकमुत्सहते अश्वतीर्थिकं नागं विनेतुम्, स शलाकां गृह्णातु इति।
११४.०१४. एवं भदन्तेत्यायुष्मानानन्दो भगवतः प्रतिश्रुत्य भिक्षुसंघस्यारोचयित्वा बुद्धप्रमुखे भिक्षुसंघे शलाकां चारयितुमारब्धः।
११४.०१५. भगवता शलाका न गृहीता।
११४.०१५. स्थविरा भिक्षवः समन्वाहर्तुं संवृत्ताह्--किमर्थं भगवता शलाका न गृहीता इति? पश्यन्त्यायुष्मतः स्वागतस्य गुणोद्भावनां कर्तुकामः।
११४.०१७. तैरपि न गृहीता।
११४.०१७. आयुष्मान् स्वागतः समन्वाहर्तुं प्रवृत्तह्--किं कारणं भगवता शलाका न गृहीता स्थविरस्थविरैश्च भिक्षुभिरिति? पश्यति मम गुणोद्भावनां कर्तुकामः।
११४.०१९. तच्छास्तुर्मनोरथं पूरयामि, गृह्णामि शलाकामिति।
११४.०१९. तेनार्धासनं मुक्त्वा गजभुजसदृशं बाहुमभिप्रसार्य शलाका गृहीता।
११४.०२०. जानकाः पृच्छका बुद्धा भगवन्तः।
११४.०२१. पृच्छति बुद्धो भगवानायुष्मन्तमानन्दम्--कतरेणानन्द भिक्षुणा शलाका गृहीतेति? स कथयति--स्वागतेन भदन्तेति।
११४.०२२. भगवानाह--गच्छ आनन्द, स्वागतं भिक्षुमेवं वद--दुष्टनागोऽसौ, कायेन्द्रियं ते रक्षितव्यमिति।
११४.०२३. एवं भदन्तेत्यायुष्मानानन्दो भगवतः प्रतिश्रुत्य येनायुष्मान् स्वागतस्तेनोपसंक्रान्तः।
११४.०२४. उपसंक्रम्यायुष्मन्तं स्वागतमिदमवोचत्--आयुष्मन् स्वागत, भगवानेवमाह--दुष्टनागोऽसौ, कायेन्द्रियं ते रक्षितव्यमिति।
११४.०२५. स कथयति--आयुष्मन्नानन्द अकोप्या शास्तुराज्ञा।
११४.०२६. अपि तु यादृशोऽश्वतीर्थिको नागः, ईदृशानां नागानामिक्षुवेणुनडवद्यदि पूर्णो जम्बुद्वीपः स्यात्, तथापि मे ते रोमापि नेञ्जयितुं समर्थाः स्युः, प्रागेवाश्वतीर्थिको नागः कायेन्द्रियस्योपरोधं करिष्यतीति।
११४.०२८. आयुष्मानानन्द आरोग्यमित्युक्त्वा प्रक्रान्तः॥
११४.०२९. अथायुष्मान् स्वागतस्तस्या एव रात्रेरत्ययात्पूर्वाह्णे निवास्य पात्रचीवरमादाय शुशुमारगिरिं पिण्डाय प्राविक्षत् ।
११४.०३०. शुशुमारगिरिं पिण्डाय चरित्वा येनाश्वतीर्थिकस्य नागस्य भवनं तेनोपसंक्रान्तः।
११४.०३१. अद्राक्षीदश्वतीर्थिको नाग आयुष्मन्तं स्वागतं दूरादेव्
११४.०३१. दृष्ट्वा च पुनः संलक्षयति--किमनेने श्रमणकेन मम मृतिप्रवृत्तिर्येन मे भवनमागच्छतीति? पुनः संलक्षयति--<११५>आगन्तुरयम्, आगच्छतु तावदिति।

११५.००१. अथायुष्मान् स्वागतस्तस्य ह्रदं गत्वा पात्रचीवरमेकान्तमुपसंक्षिप्य पादौ प्रक्षाल्य हस्तौ निर्माद्य पानीयं परिस्राव्य जीर्णपर्णकानि समुदानीय निषद्य भक्तकृत्यं कर्तुमारब्धः।
११५.००३. अश्वतीर्थिकेन नागेनासावतिथिरिति कृत्वाध्युपेक्षितः।
११५.००३. आयुष्मान् स्वागतः संलक्षयति--नासंक्षोभिता दुष्टनागा दमथमागच्छन्ति।
११५.००४. संक्षोभयाम्येनमिति।
११५.००४. तेन पात्रं पक्षाल्य तत्पात्रोदकं तस्मिन् ह्रदे प्रक्षिप्तम्।
११५.००५. स संक्षुब्धः।
११५.००५. स संलक्षयति--अयं मया श्रमण आगच्छन्नध्युपेक्षितः, भुञ्जानोऽप्युपेक्षितः, अनेन मम भवने उच्छिष्टोदकं छोरितम्।
११५.००७. नामावशेषमेनं करोमीति तीव्रेण पर्यवस्थानेन पर्यवस्थितः।
११५.००७. उपरिविहायसमभ्युद्गम्य आयुष्मतः स्वागतस्योपरि चक्रकणपपरशुभिन्दिपालादीनि प्रहरणानि क्षेप्तुमारब्धः।
११५.००८. आयुष्मान् स्वागतो मैत्रीसमापन्नः।
११५.००९. तान्यस्य दिव्यान्युत्पलपद्मकुमुदपुण्डरीकमन्दारकाणि पुष्पाणि भूत्वा काये निपतन्ति।
११५.०१०. अश्वतीर्थिको नागोऽङ्गारवर्षमुत्स्रष्टुमारब्धः।
११५.०१०. तदपि दिव्यानि पुष्पाणि मान्दारकाणि भूत्वा काये निपतितुमारब्धम्।
११५.०११. अश्वतीर्थिको नागः पांसु वर्षितुमारब्धः।
११५.०१२. तदपि दिव्यान्यगुरुचूर्णानि तमालपत्रचूर्णानि भूत्वा निपतितुमारब्धम्।
११५.०१३. अश्वतीर्थिको नागः क्रोधपर्यवस्थानानुभावाद्धूमयितुमारब्धः।
११५.०१३. आयुष्मानपि स्वागत ऋद्ध्यनुभावाद्धूमयितुमारब्धः।
११५.०१४. अश्वतीर्थिको नागः क्रोधपर्यवस्थानानुभावात्प्रज्वलितः।
११५.०१५. आयुष्मानपि स्वागतस्तेजोधातुं समापन्नः।
११५.०१५. इति तत्राश्वतीर्थिकस्य नागस्य क्रोधस्यानुभावेनायुष्मतः स्वागतस्य ऋद्ध्यनुभावेन महानवभासः प्रादुर्भूतो यं दृष्ट्वा शुशुमारगिरीयका ब्राह्मणगृहपतयः संभ्रान्ताहितश्चामुतश्च निरीक्षितुमारब्धाः।
११५.०१७. कथयन्ति--एष भवन्तो भगवानश्वतीर्थिकं नागं विनयति, आगच्छत पश्याम इति।
११५.०१८. अनेकानि प्राणशतसहस्राणि निर्गतानि।
११५.०१९. भिक्षवोऽपि तमुदारावभासं तत्रस्था एव निरीक्षितुमारब्धाः।
११५.०१९. तत्र भगवान् भिक्षूनामन्त्रयते स्म--एषोऽग्रो मे भिक्षवो भिक्षूणां मम श्रावकाणामभीक्ष्णं तेजोधातुं समापद्यमानानां यदुत स्वागतो भिक्षुरिति।
११५.०२१. यदाश्वतीर्थिको नागो विगतमददर्पः क्षीणप्रहरणश्च संवृत्तः, तदा निष्पलायितुमारब्धः।
११५.०२२. आयुष्मता स्वागतेन समन्ततोऽग्निर्निर्मितः।
११५.०२२. अश्वतीर्थको नागो यां यां दिशं गच्छति, तां तां दिशमादीप्तां प्रदीप्तां संप्रज्वलितामेकज्वालीभूतां पश्यति।
११५.०२३. स इतश्चामुतश्च नैर्माणिकेनाग्निना पर्याकुलीकृतोऽत्राणः सर्वमशान्तं पश्यति नान्यत्रायुष्मत एव स्वागतस्य समीपं शान्तं शीतिभूतम्।
११५.०२५. स येनायुष्मान् स्वागतस्तेनोपसंक्रान्तः।
११५.०२५. उपसंक्रम्य आयुष्मन्तं स्वागतमिदमवोचत्--अहं भदन्त स्वागत्
११५.०२६. किं मां विहेठयसीति? स कथयति--जराधर्मा नाहं त्वां विहेठयामि, अपि तु त्वमेव मां विहेठयसि।
११५.०२७. यदि मया एवंविधा गुणगणा नाधिगता अभविष्यन्, अद्याहं त्वया नामावशेषः कृतोऽभविष्यमिति।
११५.०२८. स कथयति--भदन्त स्वागत, आज्ञापयतु, किं मया करणीयम्? भद्रमुख, भगवतोऽन्तिकं गत्वा शरणगमनशिक्षापदानि गृहाणेति।
११५.०३०. स कथयति--भदन्त स्वागत, शोभनम्, एवं करोमीति।
११५.०३०. अथायुष्मान् स्वागतोऽश्वतीर्थनागमादाय येन भगवांस्तेनोपसंक्रान्तः।
११५.०३१. उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णः।
११५.०३२. एकान्तनिषण्ण आयुष्मान् स्वागतो भगवन्तमिदमवोचत्--अयं सोऽश्वतीर्थिको<११६> नाग इति।

११६.००१. तत्र भगवानश्वतीर्थिकं नागमामन्त्रयते--त्वं तावद्भद्रमुख, पूर्वकेण दुश्चरितेन प्रत्यवरायां तिर्यग्योनौ उपपन्नः।
११६.००२. स त्वमेतर्हि हतप्रहतनिविष्टः परप्राणहरः परप्राणोपरोधेन जीविकां कल्पयसि।
११६.००३. इतश्च्युतस्य ते का गतिर्भविष्यति, का उपपत्तिः, कोऽभिसम्परायह्? इति।
११६.००४. स कथयति--भगवन्, आज्ञापय, किं मया करणीयमिति।
११६.००५. भगवानाह--ममान्तिकाच्छरणशिक्षापदानि गृहाण, शुशुमारगिरीयकानां च ब्राह्मणगृहपतीनामभयमनुप्रयच्छेति।
११६.००६. स कथयति--एषोऽहं भगवन्तं शरणं गच्छामि, शिक्षापदानि च गृह्णामि, अद्याग्रेण च शुशुमारगिरीयकानां च ब्राह्मणगृहपतीनामभयमनुप्रयच्छामीति।
११६.००८. अथ शुशुमारगिरीयका ब्राह्मणगृहपतयः प्रभूतमभिसारं गृहीत्वा येन भगवांस्तेनोपसंक्रान्ताः।
११६.००९. उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णाः।
११६.००९. एकान्तनिषण्णाः शुशुमारगिरीयका ब्राह्मणगृहपतयो भगवन्तमिदमवोचत्--भगवता भदन्त अश्वतीर्थिको नागो विनीतह्? भगवानाह--न मया ब्राह्मणगृहपतयोऽश्वतीर्थको नागो विनीतः, अपि तु स्वागतेन भिक्षुणा।
११६.०१२. कतमेन भदन्त? इहनिवासिनैव बोधस्य गृहपतेः पुत्रेण्
११६.०१२. संपत्तिकामो लोको विपत्तिप्रतिकूलः।
११६.०१३. तत्रैके कथयन्ति--अस्माकमसौ भ्रातुः पुत्रो भवति।
११६.०१३. अपरे कथयन्ति--अस्माकं भगिनेय इति।
११६.०१४. अपरे कथयन्ति--अस्माकं वयस्यपुत्र इति।
११६.०१४. अथ शुशुमारगिरीयका ब्राह्मणगृहपतय उत्थायासनादेकांसमुत्तरासङ्गं कृत्वा येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमिदमवोचन्--अधिवासयत्वस्माकं भगवान् भदन्तस्वागतमागम्य भक्तं सप्ताहेन सार्धं भिक्षुसंघेनेति।
११६.०१७. अधिवासयति भगवाञ्शुशुमारगिरीयकानां ब्राह्मणगृहपतीनां तूष्णीभावेन्
११६.०१८. अथ शुशुमारगिरीयका ब्राह्मणगृहपतयो भगवतस्तूष्णीभावेनाधिवासनां विदित्वा भगवतः पादौ शिरसा वन्दित्वा भगवतोऽन्तिकात्प्रक्रान्ताः॥
११६.०२०. शुशुमारगिरौ अन्यतमो ब्राह्मण अहितुण्डिको बोधस्य गृहपतेर्वयस्यः।
११६.०२०. सोऽश्वतीर्थिकस्य नागस्य भयान्निष्पलाय्य श्रावस्तीं गतः।
११६.०२१. स राज्ञा प्रसेनजिता कौशलेन हस्तिमध्यस्योपरि विश्वासिकः स्थापितः।
११६.०२२. स केनचिदेव करणीयेन शुशुमारगिरिमनुप्राप्तः।
११६.०२२. तेन श्रुतं यथा स्वागतेन भिक्षुणा बोधस्य गृहपतेः पुत्रेणाश्वतीर्थिको नागो विनीत इति।
११६.०२३. श्रुत्वा च पुनर्येनायुष्मान् स्वागतस्तेनोपसंक्रान्तः।
११६.०२४. उपसंक्रम्यायुष्मतः स्वागतस्य पादौ शिरसा वन्दित्वा एकान्ते निषण्णः।
११६.०२५. स ब्राह्मण आयुष्मन्तं स्वागतमिदमवोचत्--अधिवासयतु मे आर्यस्वागत श्वोऽन्तर्गृहे भक्तेनेति।
११६.०२६. आयुष्माअन् स्वागतः कथयति--ब्राह्मण, मामागम्य शुशुमारगिरीयकैर्ब्राह्मणगृहपतिभिर्बुद्धप्रमुखो भिक्षुसंघो भक्तेन सप्ताहेनोपनिमन्त्रितः।
११६.०२७. नाहमधिवासयामि।
११६.०२८. ब्राह्मणः कथयति--आर्य, यदि साम्प्रतं नाधिवासयसि, यदा श्रावस्तीगतो भवसि, तदा मम गृहे तत्प्रथमतः पिण्डपातः परिभोक्तव्य इति।
११६.०२९. कथयति--एवमस्तु इति।
११६.०२९. ब्राह्मणः पादाभिवन्दनं कृत्वा प्रक्रान्तः।
११६.०३०. अथ भगवान् यथाभिरम्यं शुशुमारगिरौ विहृत्य येन श्रावस्ती तेन चारिकां प्रक्रान्तः।
११६.०३१. अनुपूर्वेण चारिकां चरञ्श्रावस्तीमनुप्राप्तः।
११६.०३१. श्रावस्त्यां विहरति जेतवनेऽनाथपिण्डदस्याराम्
११६.०३२. अश्रौषीदनाथपिण्डदो गृहपतिर्भगवान् भर्गेषु जनपदचारिकाम्<११७> चरञ्श्रावस्तीमनुप्राप्तः, इहैव विहरत्यस्माकमेवाराम इति।

११७.००१. श्रुत्वा च पुनः श्रावस्त्या निष्क्रम्य येन भगवांस्तेनोपसंक्रान्तः।
११७.००२. उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णः।
११७.००३. एकान्तनिषण्णमनाथपिण्डदं गृहपतिं भगवान् धर्म्यया कथया संदर्शयति समादापयति समुत्तेजयति संप्रहर्षयति।
११७.००४. अनेकपर्यायेण धर्म्यया कथया संदर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्य तूष्णीम्।
११७.००५. अनाथपिण्डदो गृहपतिरुत्थायासनादेकांसमुत्तरासङ्गं कृत्वा येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमिदमवोचत्--अधिवासयतु मे भगवाञ्श्वोऽन्तर्गृहे भक्तेन सार्धं भिक्षुसंघेनेति।
११७.००७. अधिवासयति भगवाननाथपिण्डदस्य गृहपतेस्तूष्णीभावेन्
११७.००८. अथानाथपिण्डदो गृहपतिर्भगवतस्तूष्णीभावेनाधिवासनां विदित्वा भगवतो भाषितमभिनन्द्यानुमोद्य भगवतः पादौ शिरसा वन्दित्वा भगवतोऽन्तिकात्प्रक्रान्तः।
११७.०१०. अश्रौषीत्स ब्राह्मणो भगवान् भर्गेषु जनपदचारिकां चरन्निहानुप्राप्त इहैव विहरति जेतवनेऽनाथपिण्डदस्याराम इति।
११७.०११. श्रुत्वा च पुनर्येनायुष्मान् स्वागतस्तेनोपसंक्रान्तः।
११७.०११. उपसंक्रम्यायुष्मन्तं स्वागतमिदमवोचत्--अधिवासयतु मे आर्यः श्वोऽन्तर्गृहे भक्तेनेति।
११७.०१२. अधिवासयत्यायुष्मान् स्वागतस्तस्य ब्राह्मणस्य तूष्णीभावेन्
११७.०१३. अथ स ब्राह्मण आयुष्मन्तः स्वागतस्य तूष्णीभावेनाधिवासनां विदित्वा उत्थायासनात्प्रक्रान्तः।
११७.०१४. अथानाथपिण्डदो गृहपतिस्तामेव रात्रिं शुचि प्रणीतं खादनीयभोजनीयं समुदानीय काल्यमेवोत्थाय आसनानि प्रज्ञप्य उदकमणीन् प्रतिष्ठाप्य भगवतो दूतेन कालमारोचयति--समयो भदन्त, सज्जं भक्तं यस्येदानीं भगवान् कालं मन्यत इति।
११७.०१७. अथ भगवान् पूर्वाह्णे निवास्य पात्रचीवरमादाय भिक्षुगणपरिवृतो भिक्षुसंघपुरस्कृतो येनानाथपिण्डदस्य निवेशनं तेनोपसंक्रान्तः।
११७.०१८. तेनापि ब्राह्मणेनायुष्मतः स्वागतस्य प्रणीत आहारः सज्जीकृतः।
११७.०१९. आयुष्मानपि स्वागतः पूर्वाह्णे निवास्य पात्रचीवरमादाय येन तस्य ब्राह्मणस्य निवेशनं तेनोपसंक्रान्तः।
११७.०२०. उपसंक्रम्य प्रज्ञप्त एवासने निषण्णः।
११७.०२१. एकान्तनिषण्ण आयुष्मान् स्वागतस्तेन ब्राह्मणेन प्रणीतेनाहारेण संतर्पितः।
११७.०२१. स ब्राह्मणः संलक्षयति--आर्येण स्वागतेन प्रणीत आहारः परिभुक्तः, नो जरयिष्यति, पानकमस्मै प्रयच्छामि।
११७.०२३. इति विदित्वा आयुष्मन्तं स्वागतमिदमवोचत्--आर्य, प्रणीतस्ते आहारः परिभुक्तः।
११७.०२४. पानकं पिब्
११७.०२४. पानं जरयिष्यतीति।
११७.०२४. स कथयति--शोभनम्।
११७.०२४. एवं करोमीति।
११७.०२४. तेन पानकं सज्जीकृत्य हस्तिमदादङ्गुलिः प्रक्षिप्ता।
११७.०२५. असमन्वाहृत्यार्हतां ज्ञानदर्शनं न प्रवर्तत्
११७.०२५. आयुष्मता स्वागतेन तत्पानकं पीतम्।
११७.०२६. ततो दक्षिणादेशनां कृत्वा प्रक्रान्तः श्रावस्तीवीथीं किलिञ्जच्छन्नाम्।
११७.०२७. स तामतिक्रान्त आतपेन स्पृष्टो मद्यक्षिप्तः पृथिव्यां निपतितः।
११७.०२७. असंमोषधर्मणो बुद्धा भगवन्तः।
११७.०२८. भगवता सुपर्णिका कुटिर्निर्मिता--मैतं कश्चिद्दृष्ट्वा शासनेऽप्रसादं प्रवेदयिष्यतीति।
११७.०२९. अनाथपिण्डदः सुखोपनिषण्णं बुद्धप्रमुखं भिक्षुसंघं विदित्वा शुचिना प्रणीतेन खादनीयेन स्वहस्तेन संतर्पयति संप्रवारयति।
११७.०३०. अनेकपर्यायेण स्वहस्तं संतर्प्य संप्रवार्य भगवन्तं भुक्तवन्तं विदित्वा धौतहस्तमपनीतपात्रं नीचतरमासनं गृहीत्वा भगवतः पुरस्तान्निषण्णो धर्मश्रवणाय्
११७.०३२. अथ भगवाननाथपिण्डदं गृहपतिं धर्म्यया कथया <११८>संदर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्योत्थायासनात्प्रक्रान्तः।

११८.००१. अनुपूर्वेण तत्प्रदेशनुप्राप्तः।
११८.००२. अथ भगवांस्तानृद्ध्यभिसंस्कारान् प्रतिप्रस्रभ्य भिक्षूनामन्त्रयते स्म--अयं स भिक्षवः स्वागतो भिक्षुर्येनाश्वत्रीर्थिको नागस्तावच्चण्डो विनीतः।
११८.००३. किमिदानीमेष शक्तो दुर्भुक्तस्यापि विषमपनेतुम्? नो भदन्त इति।
११८.००४. भिक्षवः, इमे चान्ये चादीनवा मद्यपान्
११८.००४. तस्मान्न भिक्षुणा मद्यं पातव्यं दातव्यं वा।
११८.००५. अथ भगवानायुष्मन्तं स्वागतं मद्यवशात्सुप्तमुत्थाप्येदमवोचत्--स्वागत, किमिदम्? असमन्वाहारो भगवन्, असमन्वाहारः सुगत्
११८.००६. ततो भगवानायुष्मन्तं स्वागतमादाय विहारं गत्वा पुरस्ताद्भिक्षुसंघस्य प्रज्ञप्त एवासने निषण्णः।
११८.००७. निषद्य भिक्षूनामन्त्रयते स्म--मां भो भिक्षवः शास्तारमुद्दिश्य भवद्भिर्मद्यमपेयमदेयमन्ततः कुशाग्रेणापि॥
११८.००९. भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुह्--किं भदन्त आयुष्मता स्वागतेन कर्म कृतं येनाढ्ये कुले महाधने महाभोगे जातह्? किं कर्म कृतं येन क्रोडमल्लको जातः, दुरागत इति च संज्ञा संवृत्ता? किं कर्म कृतं येन भगवतः शासने प्रव्रज्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्, तेजोधातुं समापद्यमानानां चाग्रतायां निर्दिष्टह्? भगवानाह--स्वागतेनैव भिक्षवो भिक्षुणा कर्माणि कृतान्युपचितानि लब्धसम्भाराणि परिणतप्रत्ययानि ओघवत्प्रत्युपस्थितान्यवश्यभावीनि।
११८.०१४. स्वागतेन कर्माणि कृतान्युपचितानि।
११८.०१५. कोऽन्यः प्रत्यनुभविष्यति? न भिक्षवः कर्माणि कृतान्युपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तु उपात्तेष्वेव स्कन्धधात्वायतनेषु कर्माणि कृतान्युपचितानि विपच्यन्ते शुभान्यशुभानि च्
११८.०१८. न प्रणश्यन्ति कर्माणि कल्पकोटिशतैरपि।
११८.०१९. सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्॥१०॥
११८.०२०. भूतपूर्वं भिक्षवोऽन्यतमस्मिन् कर्वटके गृहपतिः प्रतिवसति आढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनप्रतिस्पर्धी।
११८.०२१. सोऽपरेण समयेन सुहृत्सम्बन्धिबान्धवपरिवृतोऽन्तर्जनपरिवृतश्चोद्यानभूमिं निर्गतः।
११८.०२२. असति बुद्धानामुत्पादे प्रत्येकबुद्धा लोक उत्पद्यन्ते हीनदीनानुकम्पकाः प्रान्तशयनासनभक्ता एकदक्षिणीया लोकस्य्
११८.०२३. यावदन्यतमः प्रत्येकबुद्धो जनपदचारिकां चरंस्तं कर्वटकमनुप्राप्तः।
११८.०२४. सोऽध्वपरिश्रमाद्धातुवैषम्याश्च ग्लानः पिण्डार्थी तदुद्यानं प्रविष्टः।
११८.०२५. स गृहपतिस्तं दृष्ट्वा पर्यवस्थितः।
११८.०२५. तेन पौरुषेयाणामाज्ञा दत्ता--भवन्तः, निष्कासयतैनं प्रव्रजितमिति।
११८.०२६. तेषां न कश्चिदुत्सहते निष्कासयितुम्।
११८.०२७. तेन गृहपतिना भूयसा पर्यवस्थितेन स महात्माअ स्वयमेव ग्रीवायां गृहीत्वा निष्कासितः, उक्तश्च--क्रोडमल्लकानां मध्ये प्रतिवसेति।
११८.०२८. स दुर्बलप्राणो भूमौ निपतितः।
११८.०२८. स संलक्षयति--हतोऽयं तपस्वी गृहपतिरुपहतश्च्
११८.०२९. अभ्युद्धारोऽस्य कर्तव्यः।
११८.०२९. इति विदित्वा उपरिविहायसमभ्युद्गम्य ज्वलनतपनवर्षणविद्योतनप्रातिहार्याणि कर्तुमारब्धः।
११८.०३०. आशु पृथग्जनस्य रिद्धिरावर्जनकरी।
११८.०३१. स मूलनिकृत्त इव द्रुमः पादयोर्निपत्य कथयति--अवतरावतर महादक्षिणीय, मम दुश्चरितपङ्कनिमग्नस्य हस्तोद्धारमनुप्रयच्छेति।
११८.०३२. स तस्यानुग्रहार्थमवतीर्णः।
११८.०३२. तेन तस्य <११९>पूजासत्कारं कृत्वा प्रणिधानं कृतम्--यन्मया एवंविधे सद्भूतदक्षिणीयेऽपकारः कृतः, मा अस्य कर्मणो भागी स्याम्।

११९.००२. यत्तूपकारः कृतः, अनेनाहं कुशलमूलेन आढ्ये महाधने महाभोगे कुले जायेयम्, एवंविधानां च धर्माणां लाभी स्याम्, प्रतिविशिष्टतरं चातः शास्तारमारागयेयं मा विरागयेयमिति॥
११९.००५. भगवानाह--किं किं मन्यध्वे भिक्षवो योऽसौ गृहपतिरेव, असौ स्वागतो भिक्षुस्तेन कालेन तेन समयेन्
११९.००६. यदनेन प्रत्येकबुद्धे काराः कृताः, तेनाढ्ये महाधने महाभोगे कुले जातः।
११९.००७. यदपकारः कृतः, तेन पञ्चजन्मशतानि क्रोडमल्लको जातः।
११९.००७. यावदेतर्ह्यपि चरमभविकोऽपि तत्क्रोडमल्लक एव जातः।
११९.००८. यत्प्रणिधानं कृतम्, तेन मम शासने प्रव्रज्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्।
११९.००९. अहमनेन प्रत्येकबुद्धकोटिशतसहस्रेभ्यः प्रतिविशिष्टतरः शास्ता आरागितो न विरागितः।
११९.०१०. भूयोऽपि काश्यपे भगवति सम्यक्सम्बुद्धे प्रव्रजितो बभूव्
११९.०११. यस्य भिक्षोरन्तिके प्रव्रजितः, स भगवता काश्यपेन सम्यक्सम्बुद्धेनाभीक्ष्णं तेजोधातुं समापद्यमानानामग्रो निर्दिष्टः।
११९.०१२. तत्रानेन यावदायुर्ब्रह्मचर्यं चारितम्, न च कश्चिद्गुणगणोऽधिगतः।
११९.०१३. स मरणसमये प्रणिधानं कर्तुमारब्धह्--यन्मया भगवति काश्यपे सम्यक्सम्बुद्धेऽनुत्तरे दक्षिणीये यादवायुर्ब्रह्मचर्यं चरितम्, न च कश्चिद्गुणगुणोऽधिगतः, अनेनाहं कुशलमूलेन योऽसौ भगवता काश्यपेन सम्यक्सम्बुद्धेनोत्तरो माणवो व्याकृतह्--भविष्यसि त्वं माणव वर्षशतायुषि प्रजायां शाक्यमुनिर्नाम तथागतोऽर्हन् सम्यक्सम्बुद्ध इति, तस्याहं शासने प्रव्रज्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कुर्याम्।
११९.०१७. यथा मामुपाध्यायो भगवता काश्यपेन सम्यक्सम्बुद्धेनाभीक्ष्णं तेजोधातुं समापद्यमानानामग्रो निर्दिष्टः, एवं मामपि स भगवाञ्शाक्यमुनिः शाक्याधिराजोऽभीक्ष्णं तेजोधातुं समापद्यमानानामग्रं निर्दिशेदिति।
११९.०१९. तत्प्रणिधानवशादेतर्हि तथागतेनाभीक्ष्णं तेजोधातुं समापद्यमानानामग्रो निर्दिष्टः।
११९.०२०. इति हि भिक्षव एकान्तकृष्णानां कर्मणामेकान्तकृष्णो विपाकः, एकान्तशुक्लानामेकान्तशुक्लः, व्यतिमिश्राणां व्यतिमिश्रः।
११९.०२२. तस्मात्तर्हि भिक्षव एकान्तकृष्णानि कर्मण्यपास्य व्यतिमिश्राणि च, एकान्तशुक्लेष्वेव कर्मस्वाभोगः करणीयः।
११९.०२३. इत्येवं भो भिक्षवः शिक्षितव्यम्॥
११९.०२४. इत्यवोचद्भगवान्।
११९.०२४. आत्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥


११९.०२५. इति श्रीदिव्यावदाने स्वागावदानं नाम त्रयोदशमम्॥


                    • अवदान १४ **********


१२०.००१. दिव्१४ सूकरिकावदानम्।

१२०.००२. धर्मता खलु च्यवनधर्मणो देवपुत्रय्स पञ्च पूर्वनिमित्तानि प्रादुर्भवन्ति--अक्लिष्टानि वासांसि क्लिश्यन्ति, अम्लानानि माल्यानि म्लायन्ति, दौर्गन्धं कायेन निष्क्रामति, उभाभ्यां कक्षाभ्यां स्वेदः प्रादुर्भवन्ति, च्यवनधर्मा देवपुत्रः स्व आसने धृतिं न लभत्
१२०.००३. अथान्यतमश्च्यवनधर्मा देवपुत्रः पृथिव्यामावर्तते, संपरिवर्त्यैवं चाह--हा मन्दाकिनी, हा पुष्करिणी, हा वापी, हा चैत्ररथ, हा पारुष्यक, हा नन्दनवन, हा मिश्रकावन, हा पारियात्रक, हा पुण्डुकम्बलशिला, हा देवसभा, हा सुदर्शन, इति करुणकरुणं परिदेवते स्म्
१२०.००७. अद्राक्षीच्छक्रो देवानामिन्द्रस्तं देवपुत्रमत्यर्थं पृथिव्यामावर्तन्तं परिवर्तन्तम्।
१२०.००८. दृष्ट्वा पुनर्येन स देवपुत्रस्तेनोपसंक्रान्तः।
१२०.००९. उपसंक्रम्य तं देवपुत्रमिदमवोचत्--हा कस्मात्त्वं मार्ष अत्यर्थं पृथिव्यामावर्तसे, संपरिवर्तसे, करुणकरुणं परिदेवसे--हा मन्दाकिनी, हा पुष्किरिणी, हा वापी, हा चैत्ररथ, हा पारुष्यक, हा नन्दनवन, हा मिश्रकावन, हा पारियात्रक, हा पाण्डुकम्बलशिला, हा देवसभा, हा सुदर्शन इति करुणकरुणं परिदेवसे? एवमुक्ते देवपुत्रः शक्रं देवानामिन्द्रमिदमवोचत्--एषोऽहं कौशिक दिव्यं सुखमनुभूय इतः सप्तमे दिवसे राजगृहे नगरे सूकर्याः कुक्षौ उपपत्स्यामि।
१२०.०१४. तत्र मया बहूनि वर्षाण्युच्चारप्रस्रावः परिभोक्तव्य इति।
१२०.०१४. अथ शक्रो देवानामिन्द्रः कारुण्यतया तं देवपुत्रमिदमवोचत्--एहि त्वं मार्ष, बुद्धं शरणं गच्छ द्विपदानामग्र्यम्, धर्मं शरणं गच्छ विरागाणामग्र्यम्, संघं शरणं गच्छ गणानामग्र्यमिति।
१२०.०१६. अथ स देवपुत्रस्तिर्यग्योन्युपपत्तिभयभीतो मरणभयभीतश्च शक्रं देवानामिन्द्रमिदमवोचत्--एषोऽहं कौशिक बुद्धं शरणं गच्छामि द्विपदानामग्र्यम्, धर्मं शरणं गच्छामि विरागाणामग्र्यम्, संघं शरणं गच्छामि गणानामग्र्यम्।
१२०.०१९. अथ स देवपुत्रस्त्रिशरणपरिगृहीतो भूत्वा च्युतः कालगतस्तुषिते देवनिकाये उपपन्नः॥
१२०.०२१. धर्मता खलु अधस्ताद्देवानां ज्ञानदर्शनं प्रवर्तते नोर्ध्वम्।
१२०.०२१. अथ शक्रो देवानामिन्द्रस्तं देवपुत्रमवलोकयति--किमसौ देवपुत्रः सूकरिकायाः कुक्षौ उपपन्नो न वेति।
१२०.०२२. यावत्पश्यति--नोपपन्नस्तिर्यक्प्रेतेषु।
१२०.०२३. नरकेषूपपन्न इति पश्यति।
१२०.०२३. नोपपन्नः।
१२०.०२३. मनुष्याणां सभागतायामुपपन्न इति पश्यति।
१२०.०२४. नोपपन्नः।
१२०.०२४. चातुर्महाराजकायिकान् देवांस्त्रायस्त्रिंशांश्चावलोकयितुमारब्धः।
१२०.०२५. तत्रापि नाद्राक्षीत् ।
१२०.०२५. अथ शक्रो देवानामिन्द्रः कुतूहलजातो येन भगवांस्तेनोपसंक्रान्तः।
१२०.०२६. उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णः।
१२०.०२६. एकान्तनिषण्णः शक्रो देवानामिन्द्रो भगवन्तमिदमवोचत्--इहाहं भदन्त अद्राक्षमन्यतमं देवपुत्रं च्यवनधर्माणं पृथिव्यामावर्तमानं करुणकरुणं च परिदेवमानम्--हा मन्दाकिनि, हा पुष्किरिणि, हा वापि, हा चैत्ररथ, हा पारुष्यक, हा नन्दनवन, हा मिश्रकावन, हा पारियात्रक, हा पाण्डुकम्बलाशिला, हा देवसभा, हा सुदर्शन इति।
१२०.०२९. तमेनमेवं वदामि--कस्मात्त्वं मार्ष अत्यर्थं शोचसि परिदेवसे क्रन्दसि उरसि ताडयसि संमोहापद्यस इति? स एवमाह--एषोऽहं कौशिक दिव्यं सुखमपहाय इतः सप्तमे दिवसे राजगृहे नगरे सूकरिकायाः कुक्षौ उपपत्स्यामि।
१२०.०३१. तत्र मया <१२१>बहूनि वर्षाणि उच्चारप्रस्रावः परिभोक्तव्यं भविष्यति।

१२१.००१. तमेनमेवं वदामि--एहि त्वं मार्ष बुद्धं शरणं गच्छ द्विपदानामग्र्यम्, धर्मं शरणं गच्छ विरागाणामग्र्यम्, संघं शरणं गच्छ गणानामग्र्यमिति।
१२१.००३. स एवमाह--एषोऽहं कौशिक बुद्धं शरणं गच्छामि द्विपदानामग्र्यम्, धर्मं शरणं गच्छामि विरागाणामग्र्यम्, संघं शरणं गच्छामि गणानामग्र्यम्।
१२१.००४. इत्युक्त्वा स देवपुत्रः कालगतः।
१२१.००५. कुत्रासौ भदन्त देवपुत्र उपपन्नह्? भगवानाह--तुषिता नाम कौशिक देवाः सर्वकामसमृद्धयः।
१२१.००६. तत्रासौ मोदते देवो गत्वेह शरणत्रयम्।
१२१.००६. अथ शक्रो देवानामिन्द्र आत्तमानास्तस्यां वेलायामिमां गाथां गाथां भाषते--
१२१.००८. ये बुद्धं शरणं यान्ति न ते गच्छन्ति दुर्गतिम्।
१२१.००९. प्रहाय मानुषान् कायान् दिव्यान् कायानुपासत् ।१॥
१२१.०१०. ये धर्मं शरणं यान्ति न ते गच्छन्ति दुर्गतिम्।
१२१.०११. प्रहाय मानुषान् कायान् दिव्यान् कायानुपासत् ।२॥
१२१.०१२. ये संघं शरणं यान्ति न ते गच्छन्ति दुर्गतिम्।
१२१.०१३. प्रहाय मानुषान् कायान् दिव्यान् कायानुपासत् ।३॥
१२१.०१४. अथ भगवाञ्शक्रस्य देवानामिन्द्रस्य भाषितमनुसंवर्णयन्नेवमाह--एवमेतत्कौशिक, एवमेतत् ।
१२१.०१६. ये बुद्धं शरणं यान्ति न ते गच्छन्ति दुर्गतिम्।
१२१.०१७. प्रहाय मानुषान् कायान् दिव्यान् कायानुपासत् ।४॥
१२१.०१८. ये धर्मं शरणं यान्ति न ते गच्छन्ति दुर्गतिम्।
१२१.०१९. प्रहाय मानुषान् कायान् दिव्यान् कायानुपासत् ।५॥
१२१.०२०. ये संघं शरणं यान्ति न ते गच्छन्ति दुर्गतिम्।
१२१.०२१. प्रहाय मानुषान् कायान् दिव्यान् कायानुपासत् ।६॥
१२१.०२२. अथ शक्रो देवानामिन्द्रो भगवतो भाषितमभिनन्द्यानुमोद्य भगवतः पादौ शिरसा वन्दित्वा भगवन्तं त्रिः प्रदक्षिणीकृत्य प्राञ्जलिकृतसम्पुटो भगवन्तं नमस्यमानस्तत्रैवान्तर्हितः॥
१२१.०२४. इदमवोचद्भगवान्।
१२१.०२४. आत्तमनसस्ते भिक्षवोऽभ्यनन्दन्॥


१२१.०२५. इति श्रीदिव्यावदाने सूकरिकावदानं चतुर्दशमम्॥


                    • अवदान १५ **********


१२२.००१. दिव्१५ चक्रवर्तिव्याकृतावदानम्।

१२२.००२. बुद्धो भगवाञ्श्रावस्त्यां विहरति जेतवनेऽनाथपिण्डदस्याराम्
१२२.००२. धर्मता खलु बुद्धानां भगवतां जीवतां ध्रियमाणानां यापयतां केशनखस्तूपा भवन्ति।
१२२.००२. यदा बुद्धा भगवन्तः प्रतिसम्लीना भवन्ति, तदा भिक्षवः केशनखस्तूपे पुजां कृत्वा केचित्पुण्डाय प्रविशन्ति, केचिद्ध्यानविमोक्षसमाधिसमापत्तिसुखान्यनुभवन्ति।
१२२.००५. तेन खलु समयेन बुद्धो भगवांस्तथागतमाकारतः समनुस्मरंश्चित्तमभिप्रसादयति--इत्यपि स भगवांस्तथागतोऽर्हन् सम्यक्सम्बुद्धो विद्याचरणसम्पन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारिथः शास्ता देवमनुष्याणां बुद्धो भगवानिति।
१२२.००९. अथ भगवान् सायाह्णे प्रतिसम्लयनाद्व्युत्थाय पुरस्ताद्भिक्षुसंघस्य प्रज्ञप्त एवासने निषण्णः।
१२२.०१०. अद्राक्षीद्भगवांस्तं भिक्षुं केशनखस्तूपे सर्वशरीरेण प्रणिपत्य चित्तमभिप्रसादयन्तम्।
१२२.०११. दृष्ट्वा च पुनर्भिक्षूनामन्त्रयते स्म--पश्यत यूयं भिक्षव एतं भिक्षुं केशनखस्तूपे सर्वशरीरेण प्रणिपत्य चित्तमभिप्रसादयन्तम्? एवं भदन्त्
१२२.०१२. अनेन भिक्षुणा यावती भूमिराक्रान्ता अधोऽशीतियोजनसहस्राणि यावत्काञ्चनचक्रमित्यत्रान्तरा यावत्यो वालुकास्तावन्त्यनेन भिक्षुणा चक्रवर्तिराज्यसहस्राणि परिभोक्तव्यानि।
१२२.०१४. अथ तेषां भिक्षूणामेतदभवत्--पुरुषमात्रायां यावद्गर्तायां न शक्यते वालुका गणयितुम्, कृतः पुनरशीतियोजनसहस्राणि यावत्काञ्चनचक्रमिति।
१२२.०१६. कः शक्यते इयत्कालं संसारे संसरितुमिति।
१२२.०१६. अथ ते भिक्षवो न भूयः केशनखस्तूपे कारां कर्तुमारब्धाः।
१२२.०१७. अथ भगवांस्तेषां भिक्षूणां चेतसा चित्तमाज्ञाय भिक्षूनामन्त्रयते स्म--अनवराग्रो भिक्षवः संसारोऽविद्यानीवरणानां सत्त्वानां तुष्णासम्योजनानां तृष्णार्गलबद्धानां दीर्घमध्वानं संधावतां संसरताम्।
१२२.०१९. पूर्वा कोट्तिर्न प्रज्ञायते दुःखस्य्
१२२.०२०. आयुष्मानुपाली बुद्धं भगवन्तं पप्रच्छ--यदुक्तं भगवता अस्य भिक्षोरियत्पुण्यस्कन्ध इति, कुत्र भदन्त इयत्पुण्यस्कन्धस्तनुत्वं परिक्षयं पर्यादानं गमिष्यति? नाहमुपालिन्नितो बहिः समनुपश्याम्येव क्षतिं चोपहतिं च यथा सब्रह्मचारी सब्रह्मचारिणोऽन्तिक्
१२२.०२३. तत्रोपालिन्निमानि महान्ति कुशलमूलानि तनुत्वं परिक्षयं पर्यादानं गच्छन्ति।
१२२.०२३. तस्मात्तर्हि ते उपालिन्नेवं शिक्षितव्यम्, यद्दग्धस्थूणाया अपि चित्तं न प्रदूषयिष्यामः, प्रागेव सविज्ञानके काय् ।
१२२.०२६. इदमवोचद्भगवान्।
१२२.०२६. आत्तमनसस्ते भिक्षवोऽभ्यनन्दन्॥


१२२.०२७. इति श्रीदिव्यावदाने अन्यतमभिक्षुश्चक्रवर्तिव्याकृतः पञ्चदशमम्॥


                    • अवदान १६ **********


१२३.००१. दिव्१६ शुकपोतकावदानम्।

१२३.००२. श्रावस्त्यां निदानम्।
१२३.००२. तेन खलु समयेन अनाथपिण्डदेन गृहप्तिना द्वौ शुकशावकौ प्रतिलब्धौ।
१२३.००३. तेन निवेशनं नीत्वा आलापितौ पोषितौ संवर्धितौ मानुषालापं च शिक्षापितौ।
१२३.००४. तयोश्चायुष्मानानन्दोऽभीक्ष्णमागत्य चतुरार्यसत्यसम्प्रतिवेधिकीं धर्मदेशनां करोति--यदुत इदं दुःखम्, अयं दुःखसमुदयः, अयं दुःखनिरोधः, इयं दुःखनिरोधगामिनी प्रतिपदिति।
१२३.००५. स्थविरस्थविरा अपि भिक्षवोऽनाथपिण्डदस्य गृहपतेर्निवेशनमुपसंक्रामन्ति शारिपुत्रमौद्गल्यायनकाश्यपानन्दरैवतप्रभृतयः।
१२३.००७. तेषां कालानुकालमुपसंक्रामतां ताभ्यां शुकशावकाभ्यां नामानि परिज्ञातानि।
१२३.००८. यावदपरेण समयेनायुष्माञ्शारिपुत्रोऽनाथपिण्डदस्य गृहपतेर्निवेशनमनुप्राप्तः।
१२३.०११. अद्राष्टां तौ शुकशावकौ आयुष्मन्तं शारिपुत्रम्।
१२३.००९. दृष्ट्वा अन्तर्जनमामन्त्रयतह्--एष भदन्तः स्थविरः शारिपुत्र आगच्छति, आसनमस्य प्रज्ञापयतेति।
१२३.०१०. एवमायुष्मन्तं महामौद्गल्यायनं काश्यपं रैवतमायुष्मन्तमानन्दं दृष्ट्वा कथयतह्--एषोऽस्माकमाचार्यानन्द आगच्छति, आसनमस्य प्रज्ञापयतेति।
१२३.०१२. यावदपरेण समयेन भगवाननाथपिण्डदस्य गृहपतेर्निवेशनमनुप्राप्तः।
१२३.०१२. अद्राष्टां तौ शुकशावकौ भगवन्तं दूरादेवागच्छन्तं प्रासादिकं प्रसादनीयं शान्तेन्द्रियं शान्तमानसं परमेण चित्तमत्युपशमेन समन्वागतं सुवर्णयूपमिव श्रिया ज्वलन्तम्।
१२३.०१४. दृष्ट्वा च पुनस्त्वरितत्वरितमन्तर्जनमामन्त्रयतह्--एष भदन्तो भगवानागच्छति, आसनमस्य प्रज्ञापयतेति हृष्टमधुरस्वरेण निकूजतः।
१२३.०१६. अथ भगवांस्तयोरनुग्रहार्थं प्रविश्य प्रज्ञप्त एवासने निषण्णः।
१२३.०१६. निषद्य भगवता शुकशावकौ चतुरार्यसत्यसम्प्रतिवेधिकया धर्मदेशनया शरणगमनशिक्षापदेषु प्रतिष्ठापितौ।
१२३.०१८. अथ भगवाञ्शुकशावकौ अन्तर्जनं च धर्म्यया कथया संदर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्योत्थायासनात्प्रक्रान्तः।
१२३.०१९. तौ चान्तर्जनस्य विहरतः प्रमादविहारिणौ बिडालेन प्राणिना गृहीतौ।
१२३.०२०. विह्वलवदनौ च्छिद्यमानेषु मर्मसु मुच्यमानेषु संधिषु नमो बुद्धाय, नमो धर्माय, नमः संघायेत्युक्त्वा कालगतौ चातुर्महाराजकायिकेषु देवेषूपपन्नौ॥
१२३.०२२. अथ भगवानन्यतमस्मिन् प्रदेशे स्मितमकार्षीत् ।
१२३.०२२. अद्राक्षीदायुष्मानानन्दो भगवन्तं स्मितं प्राविष्कुर्वन्तम्।
१२३.०२३. दृष्ट्वा च पुनर्भगवन्तमिदमवोचत्--नाहेतुप्रत्ययं भदन्त तथागता अर्हन्तः सम्यक्सम्बुद्धाः स्मितं प्राविष्कुर्वन्ति।
१२३.०२४. को भदन्त हेतुः कः प्रत्ययः स्मितस्य प्राविष्करणे? एवमेतदानन्द, एवमेतत् ।
१२३.०२५. नाहेतुप्रत्ययं तथागता अर्हन्तः सम्यक्सम्बुद्धाः स्मितं प्राविष्कुर्वन्ति।
१२३.०२६. दृष्टौ त्वया आनन्द तौ शुकशावकौ? दृष्टौ भदन्त्
१२३.०२६. तौ आनन्द शुकशावकौ मम समनन्तरप्रक्रान्तस्य बिडालेन प्राणिना जीविताद्व्यपरोपितौ।
१२३.०२७. तौ बुद्धधर्मसंघावलम्बनया स्मृत्या कालगतौ चातुर्महाराजकायिकेषु देवेषूपपन्नौ॥
१२३.०२९. अथ संबहुला भिक्षवः पूर्वाह्णे निवास्य पात्रचीवरमादाय श्रावस्तीं पिण्डाय प्राविक्षन्।
१२३.०३०. अश्रौषुः संबहुला भिक्षवः श्रावस्तीं पिण्डाय प्रचरन्तोऽनाथपिण्डदस्य गृहपतेर्निवेशने शुकशावकौ--नमो बुद्धाय, नमो धर्माय, नमः संघायेति बिडालेन प्राणिना व्यपरोपितौ<१२४> इति।

१२४.००१. श्रुत्वा च पुनः श्रावस्तीं पिण्डाय चरित्वा कृतभक्तकृत्याः पश्चाद्भक्तपिण्डपातप्रतिक्रान्ताः पात्रचीवरं प्रतिसामय्य पादौ प्रक्षाल्य येन भगवांस्तेनोपसंक्रान्ताः।
१२४.००२. उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णाः।
१२४.००३. एकान्तनिषण्णाः संबहुला भिक्षवो भगवन्तमिदमवोचन्--इह वयं भदन्त संबहुला भिक्षवः पूर्ववद्यावदनाथपिण्डदस्य गृहपतेर्निवेशने द्वौ शुकशावकौ--नमो बुद्धाय, नमो धर्माय, नमः संघायेति कुर्वाणौ बिडालेन प्राणिना जीविताद्व्यपरोपितौ इति।
१२४.००६. तयोर्भदन्त का गतिः, कोपपत्तिः, कोऽभिसम्परायह्? भगवानाह--तौ भिक्षवः शुकशावकौ तस्य शरणगमनस्य विपाकेन षट्त्रिंशत्कृत्वश्चातुर्महाराजकायिकेषु देवेषूपपत्स्येते, षट्त्रिंशत्कृत्वस्त्रायस्त्रिंशेषु, यामेषु, तुषितेषु, निर्माणरतिषु, परनिर्मितवशवर्तिषु देवेषूपपस्त्येत्
१२४.००९ ततस्तावत्षट्सु कामावचरेषु देवेषु सत्त्वा व्यपसंसृत्य पश्चिमे भवे पश्चिमे निकेते पश्चिमे आत्मभावप्रतिलम्भे मनुष्यप्रतिलाभं लब्ध्वा प्रत्येकां बोधिमभिसम्भोत्स्येते, धर्मश्च सुधर्मश्च प्रत्येकबुद्धौ भविष्यतः।
१२४.०११. एवं हि भिक्षवो महाफलं धर्मश्रवणं महानुशंसकम्, कः पुनर्वादो धर्मदेशना धर्माभिसमयो वा।
१२४.०१२. तस्मात्तर्हि भिक्षव एवं शिक्षितव्यं यन्नो धर्मश्रवणाभिरता भविष्यामः।
१२४.०१३. इत्येवं वो भिक्षवः शिक्षितव्यम्॥
१२४.०१४. इदमवोचद्भगवान्।
१२४.०१४. आतमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥


१२४.०१५. इति श्रीदिव्यावदाने शुकपोतकावदानं षोडशम्॥


                    • अवदान १७ **********


१२५.००१. दिव्१७ मान्धातावदानम्।

१२५.००२. एवं मया श्रुतम्।
१२५.००२. एकस्मिन् समये भगवान् वैशाल्यां विहरति मर्कटह्रदतीरे कूटागारशालायाम्।
१२५.००३. अथ भगवान् पूर्वाह्णे निवास्य पात्रचीवरमादाय वैशालीं पिण्डाय प्राविक्षत् ।
१२५.००४. वैशालीं पिण्डाय चरित्वा कृतभक्तकृत्यः पश्चाद्भक्तपिण्डपातप्रतिक्रान्तः पात्रचीवरं प्रतिसमय्य येन चापालचैत्यं तेनोपसंक्रान्तः।
१२५.००५. उपसंक्रम्यान्यतमं वृक्षमूलं निश्रित्य निषण्णो दिवाविहाराय्
१२५.००६. तत्र भगवानायुष्मन्तमानन्दमामन्त्रयते--रमणीया आनन्द वैशाली वृजिभूमिश्चापालचैत्यं सप्ताम्रकम् {बहुपत्रकम्} गौतमन्यग्रोधः शालवनं धुरानिक्षेपनं मल्लानां मकुटबन्धनं चैत्यम्।
१२५.००८. चित्रो जम्बुद्वीपः, मधुरं जीवितं मनुष्याणाम्।
१२५.००८. यस्य कस्यचिदानन्द चत्वार ऋद्धिपादा आसेविता भाविता बहुलीकृताः, आकाङ्क्षन् स कल्पं वा तिष्ठेत्कल्पावशेषं वा।
१२५.०१०. तथागतस्य आनन्द चत्वार ऋद्धिपादा आसेविता भाविता बहुलीकृताः।
१२५.०११. आकाङ्क्षमाणस्तथागतः कल्पं वा तिष्ठेत्कल्पावशेषं वा।
१२५.०११. एवमुक्ते आयुष्मानानन्दस्तूष्णीम्।
१२५.०१२. द्विरपि त्रिरपि भगवानायुष्मन्तमानन्दमामन्त्रयते--रमणीया आनन्द वैशाली वृजिभूमिश्चापालं चैत्यं सप्ताम्रकं बहुपत्रकं गौतमन्यग्रोधः शालवनं धुरनिक्षेपनं मल्लानां मकुटबन्धनं चैत्यम्।
१२५.०१४. चित्रो जम्बुद्वीपः, मधुरं जीवितं मनुष्याणाम्।
१२५.०१४. यस्य कस्यचिदानन्द चत्वार ऋद्धिपादा आसेविता भाविता बहुलीकृताः, आकाङ्क्षन् स कल्पं वा तिष्ठेत्कल्पावशेषं वा।
१२५.०१६. तथागतस्य आनन्द चत्वार ऋद्धिपादा आसेविता भाविता बहुलीकृताः।
१२५.०१६. आकाङ्क्षमाणस्तथागतः कल्पं वा तिष्ठेत्कल्पावशेषं वा।
१२५.०१७. द्विरपि त्रिरपि आयुष्मानानन्दस्तूष्णीम्।
१२५.०१७. अथ भगवत एतदभवत्--स्फूटोऽभवदानन्दो भिक्षुर्मारेण पापीयसा यत्रेदानीं यावत्त्रिरपि औदारिके अवभासनिमित्ते प्राविष्क्रियमाणे न शक्नोति तन्निमित्तमाज्ञातुं यथापि ततः स्फुटो मारेण पापीयसा।
१२५.०२०. तत्र भगवानायुष्मन्तमानन्दमामन्त्रयते--गच्छ त्वमानन्द, अन्यतरवृक्षमूलं निश्रित्य विहर, मा उभावपि आकीर्णविहारिणौ भविष्यावः।
१२५.०२१. एवं भदन्तेत्यायुष्मानानन्दो भग्वतः प्रतिश्रुत्य अन्यतमवृक्षमूलं निश्रित्य निषण्णो दिवाविहाराय्
१२५.०२२. स मारः पापीयान् येन भगवांस्तेनोपसंक्रान्तः।
१२५.०२३. उअप्संक्रम्य भगवन्तमिदमवोचत्--परिनिर्वातु भगवान्।
१२५.०२३. परिनिर्वाणकालस्मयः सुगतस्य्
१२५.०२४. कस्मात्त्वं पापीयन्नेवं वदसि--परिनिर्वातु भगवान्, परिनिर्वाणकालसमयः सुगतस्य? एकोऽयं भदन्त समयह्--भगवानुरुबिल्वायां विहरति नद्या नैरञ्जनायास्तीरे बोधिमूलेऽचिराभिसम्बुद्धः।
१२५.०२६. सोऽहं येन भगवांस्तेनोपसंक्रान्तः।
१२५.०२६. उपसंक्रम्य भगवन्तमेवं वदामि--परिनिर्वातु भगवान्, परिनिर्वाणकालसमयः सुगतस्य्
१२५.०२७. भगवानेवमाह--न तावत्पापीयन् परिनिर्वास्यामि, यावन्न मे श्रावकाः पिण्डता भविष्यन्ति व्यक्ता विनीता विशारदाः, अलमुत्पन्नोत्पन्नानां परप्रवादिनां सहधर्मेण निग्रहीतारः, अलं स्वस्य वादस्य पर्यवदापयितारो भिक्षवो भिक्षुण्य उपासका उअपासिकाः।
१२५.०३०. वैस्तारिकं च ते ब्रह्मचर्यं चरिष्यन्ति बाहुजन्यं पृथुभूतं यावद्देवमनुष्येभ्यः सम्यक्सम्प्रकाशितम्।
१२५.०३१. एतर्हि भदन्त भगवतः श्रावकाः पण्डिता व्यक्ता विनीता विशारदा अलमुत्पन्नोत्पन्नानां परप्रवादितां सहधर्मेण <१२६>निग्रहीतारः, स्वस्य वादस्य पर्यवदापयितारो भिक्षवो भिक्षुण्य उपासका उपासिकाः।

१२६.००२. वैस्तारिकं च ते ब्रह्मचर्यं बाहुजन्यं पृथुभूतं यावद्देवमनुष्येभ्यः सम्यक्सम्प्रकाशितम्।
१२६.००३. तस्मादहमेवं वदामि--परिनिर्वातु भगवान्, परिनिर्वाणकालसमयः सुगतस्य्
१२६.००४. अल्पोत्सुकस्त्वं पापीयन् भव्
१२६.००४. निचिरस्येदानीं तथागतस्य त्रयाणां वर्षिकाणां मासानामत्ययान्निरुपधिशेषे निर्वाणधातौ परिनिर्वाणं भविष्यति।
१२६.००५. अथ मारस्य पापीयस एतदभवत्--परिनिर्वास्यते बत श्रमणो गौतमः॥
१२६.००६. इति विदित्वा हृष्टस्तुष्टः प्रमुदित उदग्रः प्रीतिसौमनस्यजातस्तत्रैवान्तर्हितः॥
१२६.००७. अथ भगवत एतदभवत्--कस्तथागतस्य संमुखं वैनेयह्? सुप्रियो गन्धर्वराजा सुभद्रश्च परिव्राजकः।
१२६.००८. तयोस्त्रयाणां वर्षिकाणां मासानामत्ययादिन्द्रियपरिपाको भविष्यति सुखाधिष्ठानं वा।
१२६.००९. शक्यं श्रावकवैनेयस्तथागतेन विनयितुं न तु तथागतवैनेयः श्रावकेण् ।
१२६.०१०. अथ भगवत एतदभवत्--यन्न्वहं तद्रूपं समाधिं समापद्येयं यथा समाहिते चित्ते जीवितसंस्कारानधिष्ठाय आयुःसंस्कारानुत्सृजेयम्।
१२६.०११. अथ भगवांस्तद्रूपं समाधिं समापन्नो यथा समाहिते चित्ते जीवितसंस्कारानधिष्ठाय आयुःसंस्कारानुत्स्रष्टुमारब्धः।
१२६.०१२. समनन्तराधिष्ठितेषु जीवितसंस्कारेषु महापृथिवीचालोऽभूदुल्कापाता दिशोदाहाः।
१२६.०१३. अन्तरिक्षे देवदुन्दुभयोऽभिनदन्ति।
१२६.०१४. समनन्तरोत्सृष्टेष्वायुःसंस्कारेषु कामावचरेषु देवेषु षण्निमित्तानि प्रादुर्भूतानिपुष्पवृक्षः शीर्णाः, रत्नवृक्षाः शीर्णाः, आभरणवृक्षाः शीर्णाः, भवनसहस्राणि प्रकम्पितानि, सुमेरुशृङ्गानि विशीर्णानि, दैवतानि वादित्रभाण्डानि पराहतानि।
१२६.०१६. अथ भगवांस्तस्मात्समाधेर्व्युत्थाय तस्या वेलायां गाथां भाषते--
१२६.०१८. तुल्यमतुल्यं च संभवं बवसंस्कारमपोत्सृजन्मुनिः।
१२६.०१९. अध्यात्मरतः समाहितो ह्यभिनित्कोशमिवाण्डसम्भवः॥१॥
१२६.०२०. समनन्तरोत्सृष्टेष्वायुःसंस्कारेषु षट्कामावचरा देवाः क्रियाकारं कृत्वा भगवतोऽन्तिकं प्रक्रान्ता दर्शनाय वन्दनाय्
१२६.०२१. भगवता तादृशी धर्मदेशना कृता यदनेकैर्देवताशतसहस्रैः सत्यानि दृष्टानि, दृष्टसत्याः स्वभवनमनुप्राप्ताः।
१२६.०२२. समनन्तरोत्सृष्टेष्वायुःसंस्कारेष्वनेकानि पर्वतकन्दरगिरिगुहाभ्योऽनेकानि ऋषिशतसहस्राण्यागतानि।
१२६.०२३. ते भगवताऽएत भिक्षवश्चरत ब्रह्मचर्यम्ऽ प्रव्रजिताः।
१२६.०२४. तैर्योजयद्भिर्घटद्भिः सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्।
१२६.०२४. समनन्तरोत्सृष्टेष्वायुःसंस्कारोष्वनेका नागयक्षगन्धर्वकिन्नरमहोरगा भगवतः सकाशमुपसंक्रान्ता भगवतो दर्शनाय्
१२६.०२६. भगवता तेषामेवंविधा धर्मदेशना कृता यदनेकैर्नागयक्षगन्धर्वकिन्नरैर्महोरगैः शरणगमनशिक्षापदानि गृहीतानि यावत्स्वभवनमनुप्राप्ताः॥
१२६.०२८. अथायुष्मानानन्दः सायाह्णेऽभिसम्लयनाद्व्युत्थाय येन भगवांस्तेनोपसंक्रान्तः।
१२६.०२८. उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्तेऽस्था
१२६.०२९. एकान्तस्थित आयुष्मानानन्दो भगवन्तमिदमवोचत्--को भदन्त हेतुः कः प्रत्ययो महतः पृथिवीचालस्य? अष्टौ इमे आनन्द अष्टौ प्रत्यया महतः पृथिवीचालस्य्
१२६.०३१. कतमेऽष्टौ? इयमानन्द महापृथिवी अप्सु प्रतिष्ठिता, आपो वायौ प्रतिष्ठिताः, वायुराकाशे प्रतिष्ठितः।
१२६.०३२. भवत्यानन्द समयो यदाकाशे यदाकाशे विषमा <१२७>वायवो वान्ति, आपः क्षोभयन्ति, आपः क्षुब्धाः पृथिवीं चालयन्ति।

१२७.००१. अयमानन्द प्रथमो हेतुः प्रथमः प्रत्ययो महतः पृथिवीचालस्य्
१२७.००२. पुनरपरमानन्द भिक्षुर्महर्द्धिको भवति महानुभावः।
१२७.००३. स आकाङ्क्षमाणः पृथिवीं चालयति।
१२७.००४. देवता महर्द्धिका भवति महानुभावा।
१२७.००४. सापि परित्तां पृथिवीसंज्ञामधितिष्ठति अप्रमाणां चाप्संज्ञम्।
१२७.००५. साप्याकाङ्क्षमाणा पृथिवीं चालयति।
१२७.००५. अयं द्वितीयो हेतुर्द्वितीयः प्रत्ययो महतः पृथिवीचालस्य्
१२७.००६. पुनरपरमानन्द्
१२७.००६. यस्मिन् समये बोधिसत्त्वस्तुषिताद्देवनिकायाच्च्युत्त्वा मातुः कुक्षिमवक्रामति, अथ तस्मिन् समये महापृथिवीचालो भवति, सर्वश्चायं लोक उदारेणावभासेन स्फुटो भवति।
१२७.००८. या लोकस्य लोकान्तरिका अन्धास्तमसोऽन्धकारतमिस्रा यत्रामू सूर्याचन्द्रमसौ एवंमहर्द्धिकौ एवंमहानुभावौ आभया आभां न प्रत्यनुभवतः, ता अपि तस्मिन् समये उदारेणावभासेन स्फुटा भवन्ति।
१२७.०१०. तत्र ये सत्त्वा उपपन्नाः, ते तया अन्योन्यं सत्त्वं दृष्ट्वा संजानन्ते--अन्येऽपीह भवन्तः सत्त्वा उपपन्नाः, अन्येऽपीह भवन्तः सत्त्वा उपपन्ना इति।
१२७.०१२. अयमानन्द तृतीयो हेतुस्तृतीयः प्रत्ययो महतः पृथिवीचालस्य्
१२७.०१३. पुनरपरमानन्द यस्मिन् समये बोधिसत्त्वो मातुः कुक्षेर्निष्क्रामति, अथ तस्मिन् समये महापृथिवीचालो भवति सर्वश्चायं लोक उदारेणावभासेन स्फुटो भवति।
१२७.०१४. या अपि ता लोकस्य लोकान्तरिका अन्धास्तमसोऽन्धकारतमिस्रा यत्रेमौ सूर्याचन्द्रमसौ एवंमहानुभावौ आभया आभां न प्रत्यनुभवतः, ता अपि तस्मिन् समये उदारेणावभासेन स्फुटा भवन्ति।
१२७.०१६. तत्र ये सत्त्वा उपपन्नाः, ते तया आभया अन्योन्यं सत्त्वं दृष्ट्वा संजानन्ति--अन्येऽपीह भवन्तः सत्त्वा उपपन्नाः, अन्येऽपीह भवन्तः सत्त्वा उपपन्ना इति।
१२७.०१८. अयमानन्द चतुर्थो हेतुश्चतुर्थः प्रत्ययो महतः पृथिवीचालस्य्
१२७.०१९. पुनरपरमानन्द यस्मिन् समये बोधिसत्त्वोऽनुत्तरं ज्ञानमधिगच्छति, अथ तस्मिन् समये महापृथिवीचालो भवति, सर्वश्चायं लोक उदारेणावभासेन स्फुटो भवति।
१२७.०२०. या अपि ता लोकस्य लोकान्तरिका अन्धास्तमसोऽन्धकारतमिस्रा यत्रेमौ सूर्याचन्द्रमसौ एवंमहर्द्धिकौ एवंमहानुभावौ आभया आभां न प्रत्यनुभवतः, ता पि तस्मिन् समये उदारेणावभासेन स्फुटा भवन्ति।
१२७.०२३. तत्र ये सत्त्वा उपपन्नाः, ते तयाभया अन्योन्यं सत्त्वं दृष्ट्वा संजानन्ति--अन्येऽपीह भवन्तः सत्त्वा उपपन्नाः, अन्येऽपीह भवन्तः सत्त्वा उपपन्ना इति।
१२७.०२४. अयमानन्द पञ्चमो हेतुः पञ्चमः प्रत्ययो महतः पृथिवीचालस्य्
१२७.०२५. पुनरपरमानन्द यस्मिन् समये तथागतस्त्रिपरिवर्तद्वादशाकारं धर्मचक्रं परिवर्तयति, अत्यर्थं तस्मिन् समये महापृथिवीचालो भवति, सर्वश्चायं लोक उदारेणावभासेन स्फुटो भवति।
१२७.०२७. या अपि ता लोकस्य लोकान्तरिका अन्धास्तमसोऽन्धकारतमिस्रा यत्रेमौ सूर्याचन्द्रमसौ एवंमहर्द्धिकौ एवंमहानुभावौ आभया आभां न प्रत्यनुभवतः, ता अपि तस्मिन् समये उदारेणावभासेन स्फुटा भवन्ति।
१२७.०२९. तत्र ये सत्त्वा उपपन्नाः, ते तयाभया अन्योन्यं सत्त्वं दृष्ट्वा संजानन्ति--अन्येऽपीह भवन्तः सत्त्वा उपपन्नाः, अन्येऽपीह भवन्तः सत्त्वा उपपन्ना इति।
१२७.०३१. अयमानन्द षष्ठो हेतुः षष्ठः प्रत्ययो महतः पृथिवीचालस्य्
१२७.०३२. पुनरपरमानन्द यस्मिन् समये तथागतो जीवितसंस्कारानधिष्ठाय <१२८>आयुःसंस्कारनुत्सृजति, अत्यर्थं तस्मिन् समये महापृथिवीचालो भवति उल्कापाता दिशोदाहाः, अन्तरिक्षे देवदुन्दुभयोऽभिनदन्ति, सर्वश्चायं लोक उदारेणावभासेन स्फुटो भवति।

१२८.००३. या अपि ता लोकस्य लोकान्तरिका अन्धास्तमसोऽन्धकारतमिस्रा यत्रेमौ सूर्याचन्द्रमसौ एवंमहर्द्धिकौ एवंमहानुभावौ आभयाअ आभां न प्रत्यनुभवतः, ता अपि तस्मिन् समये उदारेणावभासेन स्फुटा भवन्ति।
१२८.००५. तत्र ये सत्त्वा उपपन्नाः, ते तयाभया अन्योन्यं सत्त्वं दृष्ट्वा संजानन्ति--अन्येऽपीह भवन्तः सत्त्वा उपपन्नाः, अन्येऽपीह भवन्तः सत्त्वा उपपन्ना इति।
१२८.००६. अयमानन्द सप्तमो हेतुः सप्तमः प्रत्ययो महतः पृथिवीचालस्य्
१२८.००७. पुनरपरमानन्द नचिरस्येदानीं तथागतस्य निरुपधिशेषे निर्वाणधातौ परिनिर्वाणं भविष्यति।
१२८.००८. अथ तस्मिन् समये महापृथिवीचालो भवति उल्कापाता दिशोदाहाः, अन्तरिक्षे देवदुन्दुभयोऽभिनन्दन्ति, सर्वश्चायं लोक उदारेणावभासेन यत्रेमौ सूर्यचन्द्रमसौ एवंमहर्द्धिकौ एवंमहानुभावौ आभया आभां न प्रत्यनुभवतः, ता अपि तस्मिन् समये उदारेणावभासेन स्फुटा भवन्ति।
१२८.०१२. तत्र ये सत्त्वा, उपपन्नाः, ते तया आभया अन्योन्यं सत्त्वं दृष्ट्वा संजानन्ति--अन्येऽपीह भवन्तः सत्त्वा उपपन्नाः, अन्येऽपीह भवन्तः सत्त्वा उपपन्ना इति।
१२८.०१४. अयमानन्द अष्टमो हेतुरष्टमः प्रत्ययो महतः पृथिवीचालस्य् ।
१२८.०१५. अथायुष्मानानन्दो भगवन्तमिदमवोचत्--यथा खल्वहं भदन्त भगवता भासितस्यार्थमाजानामि, इहैव भगवता जीवितसंस्कारानधिष्ठाय आयुहसंस्कारा उत्सृष्टा भविष्यन्ति।
१२८.०१७. भगवानाह--एवमेतदानन्द, एवमेतत् ।
१२८.०१७. एतर्हि आनन्द तथागतेन जीवितसंस्कारानधिष्ठाय आयुःसंस्कारा उत्सृष्टाः।
१२८.०१८. संमुखं मे भदन्त भगवतोऽन्तिकाच्छ्रुतं संमुखमुद्गृहीतम्--यस्य कस्यचिच्चत्वार ऋद्धिपादा आसेविता भाविता बहुलीकृताः, आकाङ्क्षमाणस्तथागतः कल्पं वा तिष्ठत्, कल्पावशेषं वा।
१२८.०२०. भगवता भदन्त चत्वार ऋद्धिपादा आसेविता भाविता बहुलीकृताः।
१२८.०२१. आकाङ्क्षमाणस्तथागतः कल्पं वा तिष्ठेत्कल्पावशेषं वा।
१२८.०२१. तिष्ठतु भगवान् कल्पम्, तिष्ठतु सुगतः कल्पावशेषं वा।
१२८.०२२. तवैवानन्द अपराधस्तवैव दुष्कृतं यस्त्वं तथायतस्य यावत्त्रिरप्यौदारे अवभासनिमित्ते प्राविष्कृते न शक्नोषि तन्निमित्तं प्रतिश्रावयितुम्, अपि ततः स्फुटो मारेण पापीयसा।
१२८.०२४. किमन्यस्य आनन्द भाषेत तथागतस्तां वाचं या स्याद्द्विधा? नो भदन्त्
१२८.०२५. साधु साधु आनन्द, अस्थानमेतदानन्द अनवकाशो यत्तथागतस्तां वाचं भाषेत या स्याद्द्विधा।
१२८.०२६. गच्छ त्वमानन्द, यावन्तो भिक्षवश्चापालं चैत्यमुपनिश्रित्य विहरन्ति, तान् सर्वानुपस्थानशालायां संनिपातय्
१२८.०२७. एवं भदन्त्
१२८.०२७. आयुष्मानानन्दो भगवतः प्रतिश्रुत्य यावन्तो भिक्षवश्चापालं चैत्यमुपनिश्रित्य विहरन्ति, तान् सर्वानुपस्थानशालायां संनिपात्य येन भगवांस्तेनोपसंक्रान्तः।
१२८.०२९. उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्तेऽस्थात् ।
१२८.०३०. एकान्तस्थित आयुष्मानानन्दो भगवन्तमिदमवोचत्--यावन्तो भदन्त भिक्षवश्चापालं चैत्यमुपनिश्रित्य विहरन्ति, सर्वे ते उपस्थानशालायां निषण्णाः संनिपतिताः, यस्येदानीं भगवान् कालं मन्यत्
१२८.०३२. अथ भगवान् येनोपस्थानशाला तेनोपसंक्रान्तः।

१२९.००१. <१२९>उपसंक्रम्य पुरस्ताद्भिक्षुसंघस्य प्रज्ञप्त एवासने न्यषीदत् ।
१२९.००१. निषद्य भगवान् भिक्षूनामन्त्रयते स्म--अनित्या भिक्षवः सर्वसंस्कारा अध्रुवा अनाश्वासिका विपरिणामधर्माणो यावदलमेव भिक्षवः सर्वसंस्कारान् संस्करितुमलम्।
१२९.००३. विरमन्तु तस्मात्तर्हि भिक्षवः।
१२९.००३. एतर्हि वा मेऽत्ययाद्ये ते धर्मा दृष्टधर्महिताय संवर्तन्ते दृष्टधर्मसुखाय, संपरायहिताय संपरायसुखाय, ते भिक्षुभिरुद्गृह्य पर्यवाप्य तथा तथा धारयितव्या वाचयितव्या ग्राहयितव्या यथैव तत्र ब्रह्मचर्यं विरस्थितिकं स्याद्बहुजन्यं पृथुभूतं यावद्देवमनुष्येभ्यः सम्यक्सम्प्रकाशितम्।
१२९.००६. एतर्हि भिक्षवो धर्मा दृष्टधर्महिताय संवर्तन्ते दृष्टधर्मसुखाय, संपरायहिताय संपरायसुखाय, ये भिक्षुभिरुद्गृह्य पर्यवापय्तथा तथा धारयितव्या ग्राहयितव्या वाचयितव्या यथैतद्ब्रह्मचर्यं चिरस्थितिकं स्याद्बहुजन्यं पृथुभूतं यावद्देवमनुष्येभ्यः सम्यक्सम्प्रकाशितम्।
१२९.००९. यदुत चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गानि, आर्याष्टाङ्गो मार्गः।
१२९.०११. इमे ते भिक्षवो धर्मा दृष्टधर्महिताय संवर्तन्ते दृष्टधर्मसुखाय, संपरायहिताय संपरायसुखाय, भिक्षुभिरुद्गृह्य पर्यवाप्य तथा तथा धारयितव्या ग्राहयितव्या वाचयितव्या यथैतद्ब्रह्मचर्यं चिरस्थितिकं स्याद्बहुजन्यं पृथुभूतं यावद्देवमनुष्येभ्यः सम्यक्सम्प्रकाशितम्।
१२९.०१३. आगमय आनन्द येन कुशिग्रामकम्।
१२९.०१४. एवं भदन्तेत्यायुष्मानानन्दो भगवतः प्रत्यश्रौषीत् ।
१२९.०१४. भगवान् वैशालीवनमभिसरन् दक्षिणेन सर्वकायेन नागावलोकितेन व्यवलोकयति।
१२९.०१५. अथायुष्मानानन्दो भगवन्तमिदमवोचत्--नाहेत्वप्रत्ययं भदन्त तथागता अर्हन्तः सम्यक्सम्बुद्धा दक्षिणेन नागावलोकितमवलोकयन्ति।
१२९.०१७. को भदन्त हेतुः, कः प्रत्ययो नागावलोकितस्य? एवमेतदानन्द, एवमेतत् ।
१२९.०१८. नाहेत्वप्रत्ययं तथागता अर्हन्तः सम्यक्सम्बुद्धा दक्षिणेन सर्वकायेन नागावलोकितेन व्यवलोकयन्ति।
१२९.०१९. इदमानन्द तथागतस्यापश्चिमं वैशालीदर्शनम्।
१२९.०१९. न भूय आनन्द तथागतो वैशालीमागमिष्यति।
१२९.०२०. परिनिर्वाणाय गमिष्यति मल्लानामुपवर्तनं यमकशालवनम्।
१२९.०२१. अथान्यतरो भिक्षुस्तस्यां वेलायां गाथां भाषते--
१२९.०२२. इदमपश्चिमकं नाथ वैशाल्यास्तव दर्शनम्।
१२९.०२३. न भूयः सुगतो बुद्धो वैशालीमागमिष्यति॥२॥
१२९.०२४. निर्वाणाय गमिष्यति मल्लानामुपवर्तनं यमकशालवनम्।
१२९.०२४. यदा ह भगवता वाग्भाषिता इदमपश्चिमकं वैशाल्या दर्शनम्, तदा अनेकाभिर्वैशालीवननिवासिनीभिर्देवतैरश्रुपातः कृतः।
१२९.०२६. स्थविरानन्दः कथयति--न भगवन्नमेघेनैव वर्षासु प्रवृष्टह्? भगवानाह--वैशालिवननिवासिनीभिर्दैवतैर्मम वियोगादश्रुपातः कृतः।
१२९.०२७. ता अपि देवता(?) वैशाल्यां शब्दो निश्चारितह्--भगवान् परिनिर्वाणाय गच्छति, न भूयो भगवान् वैशालीमागमिष्यति।
१२९.०२९. देवतानां शब्दं श्रुत्वा अनेकानि वैशालिकानि प्राणिशतसहस्राणि भगवत्सकाशमुपसंक्रान्तानि।
१२९.०३०. भगवता तेषामाशयानुशयं धातुं प्रकृतिं च ज्ञात्वा एवंविधा धर्मदेशना कृता, यथा अनेकैः प्राणिशतसहस्रैः शरणगमनशिक्षापदानि गृहीतानि।
१२९.०३१. कैश्चिच्छ्रोतापत्तिफलं कैश्चित्सकृदागमिफलं कैश्चिदनागामिफलं प्राप्तम्।
१२९.०३२. कैश्चित्प्रव्रजित्वा अर्हत्त्वं प्राप्तम्।
१२९.०३२. कैश्चिच्छ्रावकबोधौ<१३०> चित्तमुत्पादितम्।

१३०.००१. कैश्चित्प्रत्येकायां बोधौ चित्तमुत्पादितम्।
१३०.००१. कैश्चिदनुत्तरायां सम्यक्सम्बोधौ चित्तमुत्पादितम्।
१३०.००२. कैश्चिच्छरणगमनशिक्षापदानि गृहीतानि।
१३०.००२. यद्भूयसा सा पर्षद्बुद्धनिंना धर्मप्रवणा संघप्राग्भारा व्यवस्थिता।
१३०.००३. स्थविरानन्दः कृताञ्जलिपुटो भगवन्तमिदमवोचत्--पश्य भदन्त यावत्त्वम्।
१३०.००४. भगवता परिनिर्वाणाय प्रस्थितेनानेकानि देवताशतसहस्राणि सत्येषु प्रतिष्ठापितानि।
१३०.००५. अनेकाभ्यः पर्वतकन्दरगिरिगुहाभ्योऽनेकानि ऋषिशतसहस्राण्यागतानि।
१३०.००६. भगवता एते भिक्षवः प्रव्रजिताः।
१३०.००६. तैर्युज्यद्भिर्घटद्भिर्व्यायच्छमानैः सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्।
१३०.००७. अनेकैर्देवनागयक्षगन्धर्वकिन्नरमहोरगैः शरणगमनशिक्षापदानि गृहीतानि।
१३०.००८. अनेकानि वैशालकानि प्राणिशतसहस्राणि स्रोताअपत्तिफले प्रतिष्ठापितानि।
१३०.००९. केचित्सकृदागमिफले, केचिदनागामिफले, केचित्प्रव्राजितः।
१३०.०१०. प्रव्रजित्वा अर्हत्त्वं प्राप्तम्।
१३०.०१०. केचिच्छरणगमनशिक्षापदेषु प्रतिष्ठापिताः।
१३०.०१०. अत्र आनन्द किमाश्चर्यं मया एतर्हि सर्वज्ञेन सर्वाकारज्ञेनानुत्तरज्ञानज्ञेयवशिप्राप्तेन अस्ततृष्णेन निरुपादानेन सर्वाहंकारममकारास्मिमानाभिनिवेशानुशयप्रहीणेन एवंविधं वैनेयकार्यं कृतम्।
१३०.०१२. यन्मया अतीतेऽप्यध्वनि सरागेण सद्वेषेण समोहेनापरिमुक्तेन जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासधर्मेण यन्मया मरणान्तिकया वेदनया स्पृष्टेन एवंविधा परिकर्मकथा कृता, यदनेकानि प्राणिशतसहस्राणि गृहाश्रममपहाय, ऋषयः प्रव्रजित्वा चत्वारो ब्रह्मविहारान् भावयित्वा कल्पवृन्दं प्रहाय तद्बहुलविहारिणो ब्रह्मलोकसभागतायामुपपन्नाः।
१३०.०१६. तच्छ्रुणु--
१३०.०१७. भूतपूर्वमानन्द उपोषधो नाम राजा बभूव्
१३०.०१७. उपोषधस्य राज्ञो मूर्ध्नि पिट्टको जातो मृदुः सुमृदुः, तद्यथा तूलपिचुर्वा कर्पासपिचुर्वा।
१३०.०१८. न कंचिदाबाधं जनयति।
१३०.०१८. पक्वः स्फुटितः।
१३०.०१९. कुमारो जातोऽभिरूपो दर्शनीयः प्रासादिको द्वात्रिंशन्महापुरुषलक्षणैः समन्वागतः।
१३०.०१९. उपोषधस्य राज्ञः षष्टिस्त्रीसहस्राणि।
१३०.०२०. सर्वासां स्तनाः प्रसृताः।
१३०.०२०. एकैका कथयति--मां धय मां धय्
१३०.०२०. मूर्धतो जातो मूर्धात इति संज्ञा संवृत्ता।
१३०.०२१. मां धय मां धय मान्धात इति संज्ञा संवृत्ता।
१३०.०२१. अन्ये कथयन्ति--केचिन्माधात इति संजानीत्
१३०.०२२. मान्धातस्य कुमारस्य कुमारक्रीडायां क्रीडतः षट्चक्राश्च्युताः।
१३०.०२३. यौवराज्ये प्रतिष्ठितस्य षट्चक्राश्च्युताः।
१३०.०२३. मान्धाता जनपदान् गतः।
१३०.०२३. जनपदान् गतस्य पिता ग्लानीभूतः।
१३०.०२४. स मूलपत्रगण्डपुष्पभैषज्यैरुपस्थीयमानो हीयत एव्
१३०.०२४. ततस्तैरमात्यैः संदेशो विसर्जितह्--पिता ते ग्लानीभूतः।
१३०.०२५. आगच्छतु।
१३०.०२५. देवराज्यं प्रतीच्छ्
१३०.०२५. तस्यानागच्छतस्तस्यानागच्छतः पिता कालगतः।
१३०.०२६. तैरमात्यैः पुनः संदेशो विसर्जितह्--पिता ते कालधर्मणा सम्युक्तः।
१३०.०२६. आगच्छ, देवराज्यं प्रतीच्छस्व्
१३०.०२७. ततोऽसौ संलक्षयति--यदि मम पिता कालगतः, किं भूयोऽहं गच्छामीति? ततो भूयः संदेशोऽभ्यागतः।
१३०.०२८. आगच्छ, देवराज्यं प्रतीच्छ्
१३०.०२८. स कथयति--यदि मम धर्मेण राज्यं प्राप्स्यते, इहैव राज्याभिषेक आगच्छतु।
१३०.०२९. ततस्ते अमात्यैः कथयन्ति--रत्नशिलया देव प्रयोजनं भवति।
१३०.०३०. तस्य च दिवौकसो नाम यक्षः पुरोजवः।
१३०.०३०. तेन रत्नशिला आनीता।
१३०.०३१. यदा रत्नशिला आनीता, ततस्ते अमात्या भूयः कथयन्ति--देव श्रीपर्यङ्केनात्र प्रयोजनं भवति।
१३०.०३२. ततस्तेनैव दिवौकसेन श्रीपर्यङ्क आनीतः।
१३०.०३२. ततस्ते अमात्या भूयः कथयन्ति--<१३१>देवाधिष्ठानमध्येऽभिषेकः क्रियत्

१३१.००१. स कथयति--यदि मम धर्मेण राज्यं प्राप्स्यते, इहैवाधिष्ठानमागच्छतु।
१३१.००२. ततोऽधिष्ठानं स्वयमेव तत्प्रदेशं गतम्।
१३१.००२. स्वयमागतं स्वयमागतं साकेतसाकेतमिति संज्ञा संवृत्ता।
१३१.००३. पश्चात्तेऽमात्या भटबलाग्रनैगमजनपदाश्चाभिषेकं गृहीत्वा आगताः।
१३१.००४. ते कथयन्ति--अभिषेकं देव प्रतीच्छस्व्
१३१.००४. स कथयति--मम मनुष्याः पट्टं बन्धिष्यन्ति? यदि धर्मेण राज्यं प्राप्स्यते, अमनुष्याः पट्टं बन्धन्तु।
१३१.००५. ततोऽमनुष्यैः पट्टो बद्धः।
१३१.००५. तस्य सप्त रत्नानि प्रादुर्भूतानि, तद्यथा--चक्ररत्नं हस्तिरत्नमश्वरत्नं मणिरत्नं परिणायकरत्नं स्त्रीरत्नं गृहपतिरत्नमेव सप्तमम्।
१३१.००७. पूर्णं चास्य सहस्रं पुत्राणां शूराणां वीराणां वीराणां वराङ्गरुपिणां परसैन्यप्रमर्दकानाम्।
१३१.००८. वैशालीसामन्तकेन रमणीयं वनखण्डम्।
१३१.००८. तत्र पञ्च ऋषिशतानि पञ्चाभिज्ञानि ध्यायन्ति।
१३१.००९. तत्र वनखण्डे प्रभूताः पक्षिणो मृगाश्च प्रतिवसन्ति।
१३१.००९. शब्दकण्टकानि च ध्यानानि।
१३१.०१०. ते च पक्षिणोऽवतीर्यमाणा अवतीर्यमाणाः शब्दं कुर्वन्ति।
१३१.०१०. दुर्मुखो नाम ऋषिः।
१३१.०१०. स कुपितः।
१३१.०११. तेनोक्तम्--बकानां पक्षाणि शीर्यन्ताम्।
१३१.०११. यदा तेषामृषिकोपेन पक्षाणि शीर्णानि, ततस्ते पादोद्धारकेण प्रस्थिताः।
१३१.०१२. स च राजा जनपदाननुसंसार्य पश्यति पादोद्धारकेण गच्छतः।
१३१.०१३. यतस्तेऽमात्याः पृष्टाह्--कस्मात्पादोद्धारकेण गच्छन्ति? पश्चात्तेऽमात्याः कथयन्ति--देव, शब्दकण्टकानि ध्यानानीति एतेषामृषिकोपेन पक्षाणि शीर्णानि।
१३१.०१४. ततो राज्ञा अभिहितम्--एवंविधा अपि ऋषयो भवन्ति, येषां सत्त्वानामन्तिके नास्त्यनुकम्पा? ततो राज्ञा अमात्याः संदिष्टाह्--गच्छन्तु भवन्तः, ऋषीणामेवं वदन्तु--तत्र गच्छत यत्राहं न वसया(सा?)मीति।
१३१.०१७. यतस्तैरमात्यैहृषयोऽभिहिताः।
१३१.०१७. राजा समादिशति--न मम राज्ये वस्तव्यम्।
१३१.०१८. गच्छन्तु भवन्तो यत्राहं न वसया(सा?)मीति।
१३१.०१८. ततस्ते संलक्षयन्ति--एषोऽयं चतुर्द्वीपेश्वरः।
१३१.०१९. गच्छामो वयं सुमेरुपरिखण्डम्।
१३१.०१९. ते तत्र गत्वा अवस्थिताः॥
१३१.०२०. राज्ञो मूर्धातस्यामात्याश्चिन्तकास्तुलका उपपरीषकाः।
१३१.०२०. चिन्तयित्वा तुलयित्वोपपरीक्ष्य पृथक्पृथगुत्काः शिल्पस्थानकर्मस्थानानि मापयितुम्।
१३१.०२१. चिन्तका इमे तुलका उपपरीक्षका इति मन्त्रजा मन्त्रजा इति संज्ञा।
१३१.०२२. तैरारब्धानि कर्षणकर्माणि कर्तुम्।
१३१.०२२. यतः स राजा पश्यति जनपदाननुसंसार्याकृष्यान् कर्मान्तान् कुर्वतः।
१३१.०२३. यतो राज्ञा अभिहितम्--किमेते मनुष्याः कुर्वन्ति? ततस्तैरमात्यै राजा अभिहितह्--एते देव मनुष्याः शास्यादीनि कृषन्ति, ततो ओषधयो भविष्यन्ति।
१३१.०२५. यतश्च स राजा कथयति--मम राज्ये मनुष्याः कृषिष्यन्ति? ततस्तेनोक्तम्--अप्ताविंशतिबीजजातीनां देवो वर्षतु।
१३१.०२६. सहचित्तोत्पादादेव राज्ञो मूर्धातस्य सप्ताविंशतिबीजजातिर्देवो वृष्टः।
१३१.०२७. राज्ञा मूर्धातेन जनपदाः पृष्टाह्--कस्यैतानि पुण्यानि? तैरभिहितम्--देवस्य चास्माकं च्
१३१.०२८. यतस्ते मनुष्याः कर्पासवातानारब्धा मापयितुम्, भूयोऽपि च राज्ञा मूर्धातेन जनपदाननुसंसार्य तेन पृष्टाः।
१३१.०२९. ततो राज्ञा अभिहितम्--किमेते मनुष्याः कुर्वन्ति? तैरमात्यैरभिहितम्--देव, मनुष्याः कर्पासवातान्मापयन्ति।
१३१.०३०. पश्चात्राज्ञा अभिहितम्--कस्यार्थे? तैरमात्यैरभिहितम्--देव, वस्त्राणामर्ह्
१३१.०३१. ततो राज्ञा तेनोक्तम्--मम राज्ये मनुष्याः कर्पासवातान्मापयिष्यन्तीति कर्पासमेव देवो वर्षतु।
१३१.०३२. सहचित्तोत्पादादेव<१३२> राज्ञो मूर्धातस्य कर्पासानेव देवो वृष्टः।

१३२.००१. स च राजा जनपदान् पृच्छति।
१३२.००१. कस्यैतानि पुण्यानि? ते कथयन्ति--देवस्य चास्माकं च्
१३२.००२. पश्चात्तेन जनेन तत्कर्पासं कर्तितुमारब्धम्।
१३२.००३. स राजा कथयति--किमेते मनुष्याः कर्वन्ति? तैरमात्यैरभिहितम्--देव सूत्रेण प्रयोजनम्।
१३२.००४. ततो राज्ञा अभिहितम्--मम राज्ये मनुष्याः कर्तिष्यन्ति? सूत्रमेव देवो वर्षतु।
१३२.००४. सहचित्तोत्पादादेव राज्ञो मान्धातस्य सूत्रमेव देवो वृष्टः।
१३२.००५. स च राजा कथयति--कस्यैतानि पुण्यानि? यतस्ते कथयन्ति--देवस्य चास्माकं च्
१३२.००६. यतस्तैरनुपूर्वेण वस्त्राण्यारब्धानि वापयितुम्।
१३२.००६. स राजा कथयति--किमेते मनुष्याः कुर्वन्ति? तैरमात्यैरभिहितम्--देव, वस्त्राणि वापयन्ति, वस्त्रैः प्रयोजनम्।
१३२.००८. यतो राजा संलक्षयति--मम राज्ये मनुष्या वस्त्राणि वापयिष्यन्ते? वस्त्राण्येव देवो वर्षतु।
१३२.००९. सहचित्तोत्पादादेव राज्ञो मान्धातस्य वस्त्राण्येव देवो वृष्टः।
१३२.००९. स राजा कथयति--कस्यैतानि पुण्यानि? ते कथयन्ति--देवस्य चास्माकं च्
१३२.०१०. यतः स राजा संलक्षयति--मनुष्या मम पुण्यानां प्रभावं न जानन्ति।
१३२.०११. अथ राज्ञो मान्धातस्यैतदभवत् ।
१३२.०११. अस्ति मे जम्बुद्वीप ऋद्धश्च स्फीतश्च क्षेमश्च सुभिक्षश्च आकीर्णबहुजनमनुष्यश्च्
१३२.०१२. सन्ति मे सप्त रत्नानि, तद्यथा चक्ररत्नं हस्तिरत्नमश्वरत्नं मणिरत्नं गृहपतिरत्नं स्त्रीरत्नं परिणायकरत्नमेव सप्तमम्।
१३२.०१४. पूर्णं च मे सहस्रं पुत्राणां शूराणां वीराणां वराङ्गरूपिणां परसैन्यप्रमर्दकानाम्।
१३२.०१५. अहो बत मेऽन्तःपुरे सप्ताहं हिरण्यवर्षं पतेत्, एककार्षापणोऽपि बहिर्न निपतेत् ।
१३२.०१५. सहचित्तोत्पादादेव राज्ञो मान्धातस्यान्तःपुरे सप्ताहं हिरण्यवर्षं वृष्टम्।
१३२.०१६. एककार्षापणोऽपि बहिर्न निपतितो यथापि तन्महर्द्धिकस्य सत्त्वस्य महानुभावस्य कृतपुण्यस्य कृतकुशलस्य स्वकं पुण्यफलं प्रत्यनुभवतः।
१३२.०१८. यतः स राजा कथयति--कस्यैतानि पुण्यानि? ते कथयन्ति--देवस्य चास्माकं च्
१३२.०१९. यतो राजा स राजा कथयति--क्षुण्णा भवन्तो यदि युष्माभिः पूर्वमेवाभिहितमभविष्यद्देवस्य पुण्यानीति, मया सकलं जम्बुद्वीपं रत्नैरभिवृष्टमभविष्यत् ।
१३२.०२०. अपि तु यो युष्माकं रत्नैरर्थी, स यावदीप्सितानि रत्नानि गृह्णातु॥
१३२.०२२. तस्य तत्र मूर्धातस्य राज्ञो महाराज्यं कारयतः षट्चक्राश्च्युताः।
१३२.०२२. राज्ञो मूर्धातस्य दिवौकसो यक्षः पुरोजवः।
१३२.०२३. स राज्ञा मूर्धातेनोक्तह्--अस्ति किंचिदन्यद्वीपे नाज्ञापितं यद्वयमाज्ञापयेम? यतः पश्चाद्दिवौकसेनाभिहितह्--अस्ति देव पूर्वविदेहो नाम द्वीपः, ऋद्धश्च स्फीतश्च क्षेमश्च सुभिक्षश्च आकीर्णबहुजनमनुष्यः।
१३२.०२५. स्वयं नु देवो गत्वा तमप्याज्ञापयेत् ।
१३२.०२५. अथ राज्ञो मूर्धातस्यैतदभवत्--अस्ति मे जम्बुद्वीप ऋद्धश्च स्फीतश्च क्षेमश्च सुभिक्षश्च आकीर्णबहुजनमनुष्यश्च्
१३२.०२७. अस्ति मे सप्त रत्नानि तद्यथा चक्ररत्नं हस्तिरत्नमश्वरत्नं मणिरत्नं स्त्रीरत्नं गृहपतिरत्नं परिणायकरत्नमेव सप्तमम्।
१३२.०२८. पूर्णं च मे सहस्रं पुत्राणां शूराणां वीराणां वराङ्गरूपिणां परसैन्यप्रमर्दकानाम्।
१३२.०२९. वृष्टं मे सप्ताहमन्तःपुरे हिरण्यवर्षम्।
१३२.०२९. श्रूयते अथ खलु पूर्वविदेहो नाम द्वीपः।
१३२.०३०. यन्न्वहं तमपि गत्वा समनुशासेयम्।
१३२.०३०. सहचित्तोत्पादादेव राजा मान्धात उपरिविहायसमभ्युद्गतः सार्धमष्टादशभिर्भटबलाग्रकोटिभिः पुत्रसहस्रपरिवृतः सप्तरत्नपुरोजवः।
१३२.०३१. अगमद्राजा मान्धातः पूर्वविदेहद्वीपम्।
१३२.०३२. प्रत्यष्ठाद्राजा मान्धाता पूर्वविदेहद्वीप्
१३२.०३२. समनुविष्टवान् <१३३>राजा मूर्धातः पूर्वविदेहं द्वीपम्।

१३३.००१. तस्य तत्र समनुशासतः षट्चक्राश्च्युताः।
१३३.००१. भूयः स राजा दिवौकसं यक्षमामन्त्रयति--अस्ति दिवौकसं किंचिदन्यद्वीपे नाज्ञापितम्? दिवौकस आह--अस्ति देव अपरगोदानीयं नाम द्वीपमृद्धं च स्फीतं च क्षेमं च सुभिक्षं च आकीर्णबहुजनमनुष्यं च्
१३३.००४. यन्नु देवस्तमपि गत्वा समनुशासेत् ।
१३३.००४. अथ राज्ञो मूर्धातस्यैतदभवत्--अस्ति मे जम्बुदीप ऋद्धश्च स्फीतश्च क्षेमश्च सुभिक्षश्च आकीर्णबहुजनमनुष्यश्च्
१३३.००५. सन्ति च मे सप्त रत्नानि।
१३३.००५. पूर्णं च मे सहस्रं पुत्राणां शूराणां वीराणां वराङ्गरूपिणां परसैन्यप्रमर्दकानाम्।
१३३.००६. वृष्टं मे सप्ताहमन्तःपुरे हिरण्यवर्षं यथापि तन्महर्द्धिकस्य सत्त्वस्य महानुभावस्य कृतकुशलस्य स्वपुण्यफलं प्रत्यनुभवतः।
१३३.००८. श्रूयते अपरगोदानीयं नाम द्वीपमृद्धं च स्फीतं च क्षेमं च सुभिक्षं च आकीर्णबहुजनमनुष्यं च्
१३३.००९. यन्न्वहं तमपि गत्वा समनुशासेयम्।
१३३.००९. सहचित्तोपादादेव राजा मान्धाता उपरिविहायसमभ्युद्गतः सार्धमष्टादशभिर्भटबलाग्रकोटिभिः पुत्रसहस्रपरिवृतः सप्तरत्नपुरोजवः।
१३३.०११. अगमद्राजा मान्धाता अपरगोदानीयं द्वीपम्।
१३३.०११. अनुशास्ति राजा मान्धाता अपरगोदानीयम्।
१३३.०१२. तस्य समनुशासतः षट्चक्राश्च्युताः।
१३३.०१२. यतः स राजा मान्धाता दिवौकसं यक्षं पृच्छति--अस्ति कश्चिदन्यद्वीपो नाज्ञापितह्? आगतोऽस्मि पूर्वान्।
१३३.०१३. अस्ति देव उत्तरकुरुर्नाम द्वीपः।
१३३.०१४. किं चापि ते मनुष्या अममा अपरिग्रहाः।
१३३.०१४. यन्नु देवो गत्वा स्वकं भटबलाग्रं समनुशासेत् ।
१३३.०१५. अथ राज्ञो मान्धातस्यैतदभवत्--अस्ति मे जम्बुद्वीपमृद्धं च स्फीतं च क्षेमं च सुभिक्षं च आकीर्णबहुजनमनुष्यं च्
१३३.०१६. सन्ति मे सप्त रत्नानि।
१३३.०१६. पूर्णं च मे सहस्रं पुत्राणां शूराणां वीराणां वराङ्गरूपिणां परसैन्यप्रमर्दकानाम्।
१३३.०१७. वृष्टमेव सप्ताहमन्तःपुरे हिरण्यवर्षम्।
१३३.०१८. श्रूयते उत्तरकुरुर्नाम द्वीपः।
१३३.०१८. किंचापि ते मनुष्या अममा अपरिग्रहाः।
१३३.०१८. यन्न्वहं तत्रापि गत्वा स्वं भटबलाग्रं समनुशासेयम्।
१३३.०१९. सहचित्तोत्पादादेव राजा मान्धाता सार्धमष्टादशभिर्भटबलाग्रकोटिभिः पुत्रसहस्रपरिवृतः सप्तरत्नपुरोजव उपरिविहायसेनाभ्युद्गतः।
१३३.०२०. अद्राक्षिद्राजा मान्धातः सुमेरुपार्श्वेनानुयायंश्चित्रोपचित्रान् वृक्षानापीडकजातान्।
१३३.०२१. दृष्ट्वा च पुनर्दिवौकसं यक्षमामन्त्रयते स्म--किमेतद्दिवौकस चित्रोपचित्रान् वृक्षानापीडकजातान्।
१३३.०२२. एते देव उत्तरकौरवाणां मनुष्याणां कल्पदूष्यवृक्षाः, यत उत्तरकौरवा मनुष्याः कल्पदूष्याणि प्रावृण्वन्ति।
१३३.०२४. देवोऽप्यत्रैव गत्वा कल्पदूष्यानि प्रावरीतु।
१३३.०२४. श्रुत्वा च पुना राजा मान्धाता अमात्यानामन्त्रयते--पश्यथ यूयं ग्रामण्यश्चित्रोपचित्रान् वृक्षानापीडकजातान्? एवं देव्
१३३.०२६. एते ग्रामण्य उत्तरकौरवाणां मानुष्याणां कल्पदूष्यवृक्षा यत उत्तरकौरवा मनुष्याः कल्पदूष्याणि प्रावरन्ति।
१३३.०२७. यूयमप्यत्र गत्वा कल्पदूष्ययुगानि प्रावरध्वम्।
१३३.०२७. अद्राक्षीद्राजा मान्धाता सुमेरुपार्श्वेनानुयायञ्श्वेतश्वेतं पृथिवीप्रदेशम्? एतद्देव उत्तरकौरवकाणां मनुष्याणामकृष्टोप्तं तण्डुलफलशालिं यत उत्तरकौरवका मनुष्या अकृष्टोप्तं तण्डुलफलशालिं परिभुञ्जन्ति।
१३३.०३०. देवोऽप्यत्र गत्वा अकृष्टोप्तं तण्डुलफलशालिं परिभुञ्जतु।
१३३.०३१. अगमद्राजा मान्धाता उत्तरकुरुद्वीपम्।
१३३.०३२. प्रत्यष्टाद्राजा मान्धाता उत्तरकुरौ द्वीप्
१३३.०३२. समनुशास्ति राजा मान्धाता उत्तरकुरौ द्वीपे स्वकम् <१३४>भटबलाग्रम्।

१३४.००१. तस्य तत्र स्वकं भटबलाग्रं समनुशासतः षट्चक्राश्च्युताः।
१३४.००१. अथ राजा मान्धाता दिवौकसं यक्षमामन्त्रयते--अस्ति किंचिदन्यद्वीपमनाज्ञापितमिति? नास्ति देव्
१३४.००२. श्रूयन्ते देवास्त्रायस्त्रिंशा दीर्घायुषो वर्णवन्तः सुखबहुला उच्चेषु विमानेषु चिरस्थितिकाः।
१३४.००३. यन्नु देवो देवांस्त्रायस्त्रिंशान् दर्शनायोपसंक्रमेत् ।
१३४.००४. अथ राज्ञो मूर्धातस्यैतदभवत्--अस्ति मे जम्बुद्वीपम्, ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं च आकीर्णबहुजनमनुष्यं च्
१३४.००५. अस्ति मे सप्त रत्नानि।
१३४.००६. पूर्णं च मे सहस्रं पुत्राणां शूराणां वीराणां वराङ्गरूपिणां परसैन्यप्रमर्दकानाम्।
१३४.००६. वृष्टं मे सप्ताहमन्तःपुरे हिरण्यवर्षम्।
१३४.००७. समनुशिष्टो मे अपरगोदानीयो द्वीपः।
१३४.००८. समनुशिष्टं मे उत्तरकुरुद्वीपे स्वकं भटबलाग्रम्।
१३४.००८. श्रूयन्ते देवास्त्रायंस्त्रिशा दीर्घायुषो वर्णवन्तः सुखबहुला उच्चेषु विमानेषु चिरस्थितिकाः।
१३४.००९. यन्न्वहं देवांस्त्रायास्त्रिंशान् दर्शनायोपसंक्रमेयम्।
१३४.०१०. सहचित्तोत्पादादेव राजा मान्धाता उपरिविहायसमभ्युद्गतः सार्धमष्टादशभिर्भटबलाग्रकोटिभिः सप्तरत्नपुरोजवः पुत्रसहस्रपरिवृतः।
१३४.०११. सुमेरुः पर्वतराजा सप्तकाञ्चनपर्वतपरिवृतः।
१३४.०१२. अथ राजा निमिंधरे पर्वते प्रत्यष्ठात्काञ्चनमय्
१३४.०१२. तस्य तत्र स्वकं भटबलाग्रं समनुशासतः षट्चक्राश्च्युताः।
१३४.०१३. निमिंधरात्पर्वतात्विनतके पर्वते प्रत्यष्ठात्काञ्चनमय्
१३४.०१३. तस्य तत्र स्वकं भटबलाग्रं समनुशासतः षट्चक्राश्च्युताः।
१३४.०१४. विनतकात्पर्वतादश्वकर्णगिरौ पर्वते प्रत्यष्ठात्काञ्चनमय्
१३४.०१५. तस्य तत्र स्वकं भटबलाग्रं समनुशासतः षट्चक्राश्च्युताः।
१३४.०१५. अश्वकर्णगिरेरपि पर्वतात्सुदर्शने पर्वते प्रत्यष्ठात्काञ्चनमय्
१३४.०१६. तस्य तत्र स्वकं भटबलाग्रं समनुशासतः षट्चक्राश्च्युताः।
१३४.०१७. सुदर्शनात्पर्वतात्खदिरके पर्वते प्रत्यष्ठात्काञ्चनमय्
१३४.०१७. तस्य तत्र स्वकं भटबलाग्रं समनुशासतः षट्चक्राश्च्युताः।
१३४.०१८. खदिरकात्पर्वतादीषाधारे पर्वते प्रत्यष्ठात्काञ्चनमय्
१३४.०१८. तस्य तत्र स्वकं भटबलाग्रं समनुशासतः षट्चक्राश्च्युताः।
१३४.०१९. ईषाअधारात्पर्वताद्युगंधरे पर्वते प्रत्यष्ठात्काञ्चनमय्
१३४.०२०. तस्य तत्र स्वकं भटबलाग्रं समनुशासतः षट्चक्राश्च्युताः।
१३४.०२१. युगंधरात्पर्वतादुपरिविहायसमभ्युद्गतः।
१३४.०२१. तत्र सुमेरुपरिषण्डायां पञ्च ऋषिशतानि ध्यापयन्ति।
१३४.०२१. तैः स राजा दृष्ट आगच्छन्।
१३४.०२२. ते कथयन्ति--अयमसौ भवन्तः कलिराजा आगच्छति।
१३४.०२२. तत्र दुर्मुखो नाम ऋषिः।
१३४.०२३. तेन गृह्योदकस्याञ्जलिः क्षिप्तः।
१३४.०२३. विष्कम्भितं भटबलाग्रम्।
१३४.०२३. तस्य चाग्रतः परिणायकरत्नमनुयाति।
१३४.०२४. तेन ऋषयोऽभिहिताह्--
१३४.०२५. गच्छथ ब्राह्मण्यकोऽयं नैतत्सर्वत्र सिध्यति।
१३४.०२६. मूर्धाता नृपतिर्ह्येषो नैते वैशालिका बकाः॥३॥
१३४.०२७. अथ राजा तस्मिञ्शासनेऽभ्यागतः कथयति--केनैतद्विष्कम्भितं भटबलाग्रम्? तेनोक्तम्--ऋषिभिर्देव तं भटबलाग्रं विष्कम्भितम्।
१३४.०२८. पश्चाद्राज्ञा अभिहितम्--किमेषामृषीणां सर्वं प्रियमिति? परिणायकरत्नेनोक्तम्--जटा ऋषीणां सर्वेष्टाः।
१३४.०२९. ततो राज्ञा अभिहितम्--ऋषीणां जटाः शीर्यन्ताम्, मम च भटबलाग्रं विहायसा गच्छतु।
१३४.०३०. तेषामृषीणां जटाः शीर्णाः, राज्ञश्च मूर्धातस्य भटबलाग्रं विहायसेन प्रस्थितम्।
१३४.०३१. सुमेरुः पर्वतराजा अशीतियोजनसहस्राण्यधस्तात्काञ्चनमय्यां भूमौ प्रतिष्ठितोऽशीतियोजनसहस्राण्युदकादभ्युद्गत<१३५> ऊर्ध्वमधश्च षष्टियोजनशतसहस्रं पार्श्वं पार्श्वमषीतियोजनसहसराणि तद्भवति समन्तपरिक्षेपेण विंशत्यधिकानि त्रीणि योजनशतसहस्राणि।

१३५.००२. अभिरूपो दर्शनीयः प्रासादिकश्चतूरत्नमयः।
१३५.००३. तस्य मूर्ध्नि देवानां त्रायस्त्रिंशानां सुदर्शनं नाम नगरम्।
१३५.००३. देवानां त्रायस्त्रिंशानां पञ्च रक्षाः स्थापिताह्--उदकनिश्रिता नागाः, करोटपाणयो देवाः, मालाधारा देवाः, सदामत्ता देवाः, चत्वारश्च महाराजानः।
१३५.००५. तस्य राज्ञो मूर्धातस्योदकनिश्रितैर्नागैर्बलकायो विष्कम्भितः।
१३५.००६. राजा च मूर्धातस्तत्स्थानमागतः।
१३५.००६. तेनोक्तम्--केनैतद्भटबलाग्रं विष्कम्भितम्? ते कथयन्ति--देव, उदकनिश्रितैर्नागैः।
१३५.००७. राजा कथयति--तिर्यञ्चो मम युध्यन्ति? तेन ह्युदकनिश्रिता एव मे नागाः पुरोजवा भवन्तु।
१३५.००८. ततस्ते नागा राज्ञो मूर्धातस्याग्रतोऽनुयायिनो जाताः।
१३५.००९. तेषां नागानामनुसम्यायतां करोटपाणयो देवाः संप्राप्ताः।
१३५.००९. यतो नागैस्तैः करोटपाणिभिर्देवैः सार्धं मिश्रिभावं गत्वा पुनस्तद्बलाग्रं स्तम्भितम्।
१३५.०१०. राज्ञा मूर्धातेनोक्तम्--केनैतद्भटबलाग्रं स्तम्भितम्? ते कथयन्ति--देव, एते करोटपाणयो देवाः।
१३५.०११. एतैर्भटबलाग्रं स्तम्भितम्।
१३५.०१२. राजा मूधातः कथयति--एतेऽप्येव मे करोटपाणयो देवाः पुरोजवा भवन्तु।
१३५.०१२. यतस्तेऽग्रतः प्रधाविताः।
१३५.०१३. पश्चात्तेषां नागैः सार्धं धावतां मालाधारा देवाः संप्राप्ताः।
१३५.०१३. मालाधारैर्देवैस्ते पृष्टाह्--किं भवन्तो धावतह्? ते कथयन्ति--एष मनुष्यराजा आगच्छति।
१३५.०१४. यतस्तैः स्मभूय नागैर्देवैश्च पुनस्तद्बलाग्रं स्तम्भितम्।
१३५.०१५. राजा च मान्धातस्तत्स्थानमनुप्राप्तः।
१३५.०१५. तेनोक्तम्--किमेतद्भवन्तह्? ते कथयन्ति--देव, मालाधारैर्देवैः।
१३५.०१६. राजा कथयति--मालाधारा देवाः पुरोजवा मे भवन्तु।
१३५.०१७. यतो मालाधारा देवास्तैर्नागैर्देवैश्च सार्धं मूर्धातस्याग्रतः प्रधाविताः।
१३५.०१८. तेषां धावतां सदामत्तका देवाः संप्राप्ताः।
१३५.०१८. सदामत्तैर्देवैः पृष्टाह्--किं भवन्तो धावतह्? तैर्नागैः करोटपाण्यादिभिश्च देवैरभिहिताह्--एष मनुष्यराजा आगच्छति।
१३५.०१९. यतो भूयः सदामत्तैर्देवैः करोटपाण्यादिभिश्च देवैर्नागैः सार्धं मिश्रीभावं कृत्वा भटबलाग्रं विष्कम्भितम्।
१३५.०२०. राजा च मूर्धातस्तत्स्थानमनुप्राप्तः।
१३५.०२१. तेनोक्तम्--किमेतद्भटबलाग्रं विष्कम्भितम्? ते कथयन्ति--एते देव सदामत्ता देवाः।
१३५.०२२. राज्ञा अभिहितम्--सदामत्ता एव मे देवाः पुरोजवा भवन्तु।
१३५.०२२. यतः सदामत्ता देवास्तैः सार्धं देवैर्नागैश्चाग्रतः प्रधाविताः।
१३५.०२३. तेषां धावतां चात्रुमहाराजिका देवाः संप्राप्ताः।
१३५.०२४. तैरुक्तम्--किमेतद्भवन्तो धावतह्? यतो नागादिभिर्देवैरग्रतोऽनुयायिभिरभिहिताह्--एष मनुष्यराजा आगच्छति।
१३५.०२५. चत्वारो महाराजानः संलक्षयन्ति।
१३५.०२५. पुण्यमहेशाख्योऽयं सत्त्वः।
१३५.०२६. नास्य शक्यं विरोद्धुमिति।
१३५.०२६. ततस्तैश्चतुर्भिर्महाराजैस्त्रायस्त्रिंशानामारोचितम्--एष भवन्तो मनुष्यराजा मूर्धात आगच्छति।
१३५.०२७. त्रायस्त्रिंशा देवाः संलक्षयन्ति--पुण्यविपाअकमहेशाख्योऽअयं सत्त्वः।
१३५.०२७. नास्य विरोद्धव्यम्।
१३५.०२८. अर्घेणास्य प्रत्युद्गच्छामः।
१३५.०२८. ततस्ते त्रायस्त्रिंशा देवा अर्घेण प्रत्युद्गताः।
१३५.०२८. अद्राक्षीद्राजा मूर्धातः सुमेरुमूर्धन्यभिरुहन्नीलनीलां वनराजिं मेधराजिमिवोन्नताम्।
१३५.०२९. दृष्ट्वा च पुनर्दिवौकसं यक्षमामन्त्रयते--किमेतद्दिवौकस नीलनीला वनराजिर्मेघराजिरिवोन्नता? एषा देव देवानां पारिजातको नाम कोविदारो यत्र देवास्त्रायस्त्रिंशाश्चतुरो वार्षिकान्मासान् दिव्यैः पञ्चभिः कामगुणैः समर्पिताः समन्वङ्गीभूतास्त्रीडन्ति रमन्ते परिचारयन्ति।
१३५.०३२. देवोऽप्यत्र गत्वा दिव्यैह्<१३६>पञ्चभिः कामगुणैः समर्पितः समन्वङ्गीभूतस्त्रीडतु रमतां परिचारयतु।

१३६.००१. श्रुत्वा च पुना राजा मूर्धातोऽमात्यानामन्त्रयते--पश्यथ यूयं नीलनीलां वनराजिं मेघराजिमिवोन्नताम्? एवं देव्
१३६.००३. एष देवानां त्रायस्त्रिंशानां पारिजातकः कोविदारो यत्र देवास्त्रायस्त्रिंशाश्चतुरो वार्षिकान्मासान् दिव्यैः पञ्चभिः कामगुणैः समर्पिताः समन्वङ्गीभूताः क्रीडन्ति रमन्ते परिचारयन्ति।
१३६.००५. यूयमपि ग्रामण्योऽत्र गत्वा दिव्यैः पञ्चभिः कामगुणैः समर्पिताः समन्वङ्गीभूताः क्रीडत रमत परिचारयत्
१३६.००६. अद्राक्षीद्राजा मूर्धातः सुमेरुमूर्धन्यभिरुहञ्श्वेतश्वेतमभ्रकूटमिवोन्नतम्।
१३६.००७. दृष्ट्वा च पुनर्दिवौकसं यक्षमामन्त्रयते--किमेतद्दिवौकस श्वेतश्वेतमभ्रकूटमिवोन्नतम्? एषा देव देवानां त्रायस्त्रिंशानां सुधर्मा नाम देवसभा, यत्र देवास्त्रायस्त्रिंशाश्चत्वारश्च महाराजानः संनिषण्णाः संनिपतिता देवानां मनुष्याणां चार्थं च धर्मं च चिन्तयन्ति तुलयन्ति उपपरीक्ष्यन्ति।
१३६.०१०. देवोऽप्यत्र गमिष्यतु।
१३६.०१०. श्रुत्वा च पुनरमात्यानामन्त्रयते--पश्यथ यूयं ग्रामण्यः श्वेतश्वेतमभ्रकूटमिवोन्नतम्? एवं देव्
१३६.०११. एषा त्रायस्त्रिंशानां सुधर्मा नाम देवसभा यत्र देवास्त्रायस्त्रिंशाश्चत्वारश्च महाराजानः संनिषण्णाः संनिपतिता देवानां मनुष्याणां चार्थं च धर्मं च चिन्तयन्ति तुलयन्ति उपपरीक्ष्यन्ति।
१३६.०१३. यूयमपि ग्रामण्योऽत्र गमिष्यथ्
१३६.०१४. देवानां त्रायस्त्रिंशानां सुदर्शनं नाम नगरमर्धतृतीयानि योजनसहस्राण्यायामेन अर्धतृतीयानि योजनसहस्राणि विस्तरेण समन्ततः परिक्षेपेण दशयोजनसहस्राणि सप्तभिः काञ्चनमयैः प्राकारैः परिक्षिप्तम्।
१३६.०१६. ते प्राकारा अर्धतृतीयानि योजनान्युच्छ्रयेण्
१३६.०१६. तेषु प्राकारेषु चतुर्विधाः षो(खो)डका मापिताः सुवर्णमया रूप्यमया वैडूर्यमया स्फटिकमयाः।
१३६.०१८. ऊर्ध्वी एका निबद्धा संक्रमणका।
१३६.०१८. सुदर्शननगरेऽभ्यन्तरे भूमिभागोऽभिरूपो दर्शनीयः प्रासादिकश्चित्रः सुचित्र एकैकचित्रधातुशतेन मृदुः सुमृदुस्तद्यथा तुलपिचुर्वा।
१३६.०२०. कर्पासपिचुर्वा।
१३६.०२०. प्रक्षिप्ते पादे अवनमत्युत्क्षिप्ते पादे उन्नमति दिव्यैर्मन्दारवैः पुष्पैर्जानुमात्रेण ओघेन संस्तीर्णः।
१३६.०२१. वायुसम्योगाश्च पौराणान्यवकीर्यन्ते, नवानि पुष्पाणि समाकीर्यन्त्
१३६.०२२. सुदर्शने नगरे एकोनद्वारसहस्रम्।
१३६.०२२. द्वारे द्वारे पञ्चशतानि नीलवाससां यक्षाणां स्थापितानि संनद्धानि सन्ति चित्रकलापानि यावदेव देवानां त्रायस्त्रिंशानामारक्षणार्थमत्यर्थं शोभनार्थम्।
१३६.०२४. सुदर्शनस्य नगरस्य वीथ्यहर्धतृतीयानि योजनसहस्राण्यायामेन विस्तरेण द्वादश योजनान्यभिरूपा दर्शनीयाः प्रासादिकाः कनकवालुकास्तीर्णाश्चन्दनवारिपरिषिक्ता हेमजालावनद्धाः।
१३६.०२६. सामन्तकेन विविधाः पुष्किरिण्यो मापिताः।
१३६.०२६. ता पुष्करिण्यश्चतुर्विधैरिष्टकैश्चिताः सुवर्णमयै रूप्यमयैः स्फटिकमयैर्वैडूर्यमयैः।
१३६.०२७. वेदिकायाः स्फटिकमया सूची आलम्बनमधिष्ठानम्।
१३६.०२८. स्फटिकमय्या वैडूर्यमयी सूची आलम्बनमधिष्ठानम्।
१३६.०२८. ताः पुष्किरिण्यः पूर्णाः शीतलेन वारिणा क्षौद्रकल्पेनाम्बुना उत्पलपद्मकुमुदपुण्डरीकसंछन्ना विविधैर्जलजैः शकुनकैर्वल्गुस्वरैर्मनोज्ञस्वरैः कामरूपिभिर्निकूजताः।
१३६.०३०. सामन्तके विविधाः पुष्पवृक्षाः फलवृक्षाः सुजाताः सुसंस्थिता आपीडकजाताः, तद्यथा दक्षेण मालाकारेण वा मालाकारान्तेवासिना वा माला वा अग्रस्थितावतंसकानि वा सुरचितानि।
१३६.०३२. विविधैः स्थलजैः शकुनकैर्वल्गुस्वरैर्मनोज्ञस्वरैह्<१३७>कामरूपिभिरभिनिकूजिताः।

१३७.००१. सुदर्शने नगरे चतुर्विधाः कल्पदूष्यवृक्षा नीलाः पीता लोहिता अवदाताः।
१३७.००२. कल्पदूष्यवृक्षैश्चतुर्विधानि तुण्डिचेलानि।
१३७.००२. तैस्तुण्डिचेलैश्चत्रुविधानि कल्पदूष्यानि नीलानि पीतानि लोहितान्यवदातानि।
१३७.००३. यादृशमाकाङ्क्षति देवो वा देवकन्या वा, सहचित्तोत्पादाद्धस्ते प्रादुर्भवन्ति।
१३७.००४. चतुर्विधा आभरणवृक्षा हस्तोपगाः पादोपगा गुह्याः प्रकाशिताः।
१३७.००५. यादृशमाकाङ्क्षति देवो वा देवकन्या वा, सहचित्तोत्पादाधस्ते प्रादुर्भवन्ति।
१३७.००६. चतुर्विधा वाद्यभाण्डवृक्षा वेणुवल्लरिसुघोषकाः।
१३७.००६. यादृशमाकाङ्क्षति देवो वा देवकन्या वा, सहचित्तोत्पादाधस्ते प्रादुर्भवन्ति।
१३७.००७. चतुर्विधापि च सुधा, नीला पीता लोहिता अवदाता।
१३७.००८. यादृशमाकाङ्क्षति देवो वा देवकन्या वा, सहचित्तोत्पादाद्धस्ते प्रादुर्भवन्ति।
१३७.००८. मधु माधवः कादम्बरी पारिपानम्।
१३७.००९. गृहाः कूटागारा हर्म्याः प्रासादा स्वासनका अवलोकनका संक्रमणकाः।
१३७.०१०. नारीगणविराजितमप्सरःसहस्रसंघनिषेवितं तूर्यनादाभिनादितमुपेतमन्नपानम्।
१३७.०१०. यत्र त्रायस्त्रिंशाः क्रीडन्ति रमन्ते परिचारयन्ति, स्वकं पुण्यफलं प्रत्यनुभवन्ति।
१३७.०११. देवानां त्रायस्त्रिंशानां सुधर्मा देवसभा त्रीणि योजनशतान्यायामेन त्रीणि योजनशतानि विस्तरेण समन्तपरिक्षेपेण नवयोजनशतानि अभिरूपा दर्शनीया प्रासादिका स्फटिकमयी, अर्धपञ्चमानि योजनानि तस्मान्नगरीतोऽभ्युद्गता।
१३७.०१४. तत्र देवानां त्रायस्त्रिंशानामासनानि प्रज्ञप्तानि, यत्र पृथक्द्वात्रिंशतीनामुपेन्द्राणामासनानि, त्रयस्त्रिंशतिमं शक्रस्य देवानामिन्द्रस्य्
१३७.०१५. तेषामेव देवानां सर्वान्ते मूर्धातस्य राज्ञ आसनं प्रज्ञप्तम्।
१३७.०१६. पश्चादेवास्त्रायस्त्रिंशा मूर्धातस्य राज्ञोऽर्घं गृह्य प्रत्युद्गताः।
१३७.०१७. तत्र ये पुण्यमहेशाख्याः सत्त्वा अनुपूर्वेण प्रविष्टाहवशिष्टा बहिः स्थिताः।
१३७.०१७. यतः स राजा मूर्धातः संलक्षयति--यान्येतान्यासनानि प्रज्ञप्तकानि, एतेभ्यो यदन्तिममासनम्, एतन्मम भविष्यति।
१३७.०१९. अथ राज्ञो मूर्धातस्यैतदभवत्--अहो बत मे शक्रो देवानामिन्द्रोऽर्धासनेनोपनिमन्त्रयत्
१३७.०२०. सहचित्तोत्पदादेव शक्रो देवानामिन्द्रो राज्ञो मान्धातुरर्धासनमदात् ।
१३७.०२१. प्रविष्टो राजा मूर्धातः शक्रस्य देवानामिन्द्रस्यार्धासन्
१३७.०२१. न खलु राज्ञो मूर्धातस्य शक्रस्य देवानामिन्द्रस्यैकासने निषण्णयोः कश्चिद्विशेषो वा, अभिप्रायो वा नानाकरणं वा, यदुत आरोहपरिणाहौ वर्णपुष्कलता स्वरगुप्त्या स्वरगुप्तेः, नान्यत्र शक्रस्य देवानामिन्द्रस्यानिमिषतेन्
१३७.०२४. राज्ञो मूर्धातस्य देवेषु त्रायस्त्रिंशेषु तिष्ठतः षट्त्रिंशाश्चक्राश्च्युताः।
१३७.०२४. तत्र च तेषां देवानां देवासुरसंग्रामं भवति।
१३७.०२५. तत्र यद्यसुराः पराजयन्ते, पश्चादसुरपुर्यां द्वाराणि बध्नन्ति।
१३७.०२५. देवानामपि पञ्च रक्षाः पराजयन्त्
१३७.०२६. तेऽपि देवपुर्यां द्वाराणि बध्नन्ति।
१३७.०२६. तेषामेवं देवासुराणां परस्परतः संभ्रम उत्पन्नः।
१३७.०२७. यतो राज्ञा मूर्धातेन त्रायस्त्रिंशानामुक्तम्--किमेतद्भवन्तोऽतीव संभ्रमजाता देवाह्? त्रायस्त्रिंशैरुक्तम्--एतैरसुरैरस्माकं पञ्च रक्षा भग्नाः, यतोऽस्माभिर्द्वाराणि बद्धानि।
१३७.०२९. यतो मूर्धातेन राज्ञा उक्तम्--आत्मपुरुषाः, आनयन्तु भवन्तो धनुः।
१३७.०२९. यतस्तस्य धनुरानीतम्।
१३७.०३०. तेन पश्चाद्द्धनुर्गृह्य गुणशब्दः कृतः।
१३७.०३०. तस्य च धनुषो गुणशब्दः कृतः।
१३७.०३१. असुरैः श्रुतः।
१३७.०३१. तं श्रुत्वा असुरा कथयन्ति--कस्यैष गुणशब्दह्? तैः श्रुतम्--राज्ञो मूर्धातस्यैष गुणशब्दः।
१३७.०३२. ते तं शब्दं श्रुत्वा विस्मयमापन्नाः।
१३७.०३२. पश्चाद्राजा मूर्धातो निर्गतस्तस्मादेवनगरात्<१३८>तेषां देवानामसुरैर्भग्नकानां स्वं च कायं संनह्य्

१३८.००१. धर्मता च पुनरेषां देवासुराणां युध्यतां रथा वैहायसेन तिष्ठन्ति।
१३८.००२. तेषामन्योन्यं न कस्यचिदधिको वा हीनो वा।
१३८.००२. राज्ञो मूर्धातस्य सर्वेषामप्यसुराणां वैहायसमभ्युद्गम्योपरिस्थितः।
१३८.००३. पश्चात्तेऽसुराः कथयन्ति--क एषोऽस्माकमुपरिविहायसमभ्युद्गतह्? यतस्तैः श्रुतम्--मनुष्यराजा एष मूर्धातो नाम्
१३८.००४. पश्चात्ते संलक्षयन्ति--पुण्यविपाकमहेशाख्योऽयं सत्त्वो यस्यास्माकमुपरिवैहायसं रथो गच्छति।
१३८.००५. जिता भग्नाः पराजिताः परापृष्ठीकृता आसुरीं पुरीं प्रविष्टाः।
१३८.००६. पश्चाद्राजा मूर्धातः कथयति--कस्य जयह्? यतोऽमात्याः कथयन्ति देवस्य जयः।
१३८.००७. स राजा संलक्षयति--अहमेव देवानां त्रायस्त्रिंशानां सकाशादभ्यधिकः।
१३८.००८. तस्य राज्ञो मूर्धातस्यैतदभवति--एतदस्ति मे जम्बुद्वीपः, अस्ति मे सप्त रत्नानि, अस्ति मे सहस्रं पुत्राणाम्, वृष्टं मेऽन्तःपुरे सप्ताहं हिरण्यवर्षम्, समनुशिष्टं मे पूर्वहिदेहम्, समनुशिष्टं मेऽपरगोदानीयं द्वीपम्, समनुशिष्टं मे उत्तरकुरुषु स्वकं भटबलाग्रम्, अधिष्ठितं मेऽस्ति देवांस्त्रायस्त्रिंशान्, प्रविष्टोऽस्मि सुधर्मां देवसभाम्, दत्तं मे शक्रेण देवेन्द्रेणार्धसनम्।
१३८.०१२. अहो बताहं शक्रं देवानामिन्द्रमस्मात्स्थानाच्च्यावयित्वा स्वयमेव देवानां च मनुष्याणां च राज्यैश्वर्याधिपत्यं कारयेयम्।
१३८.०१३. सहचित्तोत्पादाद्राजा मूर्धातस्तस्मातृद्धितः परिभ्रष्टो जम्बुद्वीपेषु प्रत्यष्ठात् ।
१३८.०१४. स्वरमाबाधं स्पृष्टवान्।
१३८.०१४. प्रगाढां देवानां मरणान्तिकीम्।
१३८.०१४. अथ राज्ञो मूर्धातस्यामात्यगणमहामात्या राज्यकर्तारो मन्त्रसहजीविनो येन राजा मूर्धातस्तेनोपसंक्रान्ताः।
१३८.०१६. उपसंक्रम्य राजानं मूर्धातमिदमवोचन्--भविष्यन्ति खलु देवस्यात्ययात्पश्चिमा जनपदाह्? परिपृष्टवन्तह्--राज्ञा मूर्धातेन मरणसमये किं व्याकृतम्? सचेद्वो ग्राम्ण्यो ममात्ययात्कश्चिदुपसंक्रम्यैवं पृच्छेत्--किं भवन्तो राज्ञा मूर्धातेन मरणसमये व्याकृतम्, तेषामिदं स्याद्वचनीयाम्--राजा भवन्तो मूर्धातो रत्नैः समन्वागतोऽभूत् ।
१३८.०१९. चतसृभिश्च मानुषिकाभी ऋद्धिभिश्चतुर्षु द्वीपेषु राज्यैश्वर्याधिपत्यं कारयित्वा देवांस्त्रायस्त्रिंशानधिरूढः।
१३८.०२१. अतृप्त एव पञ्चानां कामगुणानां कालगतः।
१३८.०२२. न कार्षापणवर्षेण तृप्तिः कामेषु विद्यत्
१३८.०२३. अल्पास्वादान् बहुदुःखान् कामान् विज्ञाय पिण्डतः॥४॥
१३८.०२४. अपि दिव्येषु कामेषु रतिं नैवाधिगच्छति।
१३८.०२५. तृष्णाक्षये रतो भवति सम्यक्सम्बुद्धश्रावकः॥५॥
१३८.०२६. पर्वतोऽपि सुवर्णस्य समो हिमवता भवेत् ।
१३८.०२७. नालमेकस्य तद्वित्तमिति विद्वान् समाचरेत् ॥६॥
१३८.०२८. यः प्रेक्षति दुःखमितोनिदानं कामेषु जातु स कथं रमत्
१३८.०३०. लोके हि शल्यमुपाधिं विदित्वा तस्यैव धीरो विनयाय शिक्षेत् ॥७॥

१३९.००१. <१३९>यदा च पुनस्तेन जनकायेन श्रुतं राजा मूर्धातो ग्लानो मरणावस्थित इति, ततस्तेऽमात्या जनपदाश्चानेकानि प्राणिशतसहस्राणि राजानं मूर्धातमुपसंक्रम्य दर्शनाय्
१३९.००२. यतस्तेन राज्ञा तस्य जनस्य तावदेवंविधा धर्मदेशना कृता--कामेष्वादीनवकथा गृहाश्रमपदस्यादीनवो भाषितः, तथा कामो जुगुप्सितो यथा अनेकानि प्राणिशतसहस्राणि ऋषीणामन्तिके प्रव्रज्य गृहाश्रमपदान्यपहाय वनं संश्रिताः, ऋषिभिः प्रव्रजित्वा चत्वारि ब्रह्मविहारान् भावयित्वा कामेषु कामच्छन्दं प्रहाय तद्बहुलविहारिणो ब्रह्मलोकसभागतायामुपपन्नाः।
१३९.००६. यावच्च जम्बुद्वीपे यावच्च पूर्वविदेहे द्वीपे यावच्चापरगोदानीये द्वीपे यावच्चोत्तरकुरुषु यावच्च सप्तसु काञ्चनमयेषु पर्वतेषु यावच्च देवांस्त्रायस्त्रिंशानधिरूडः, अत्रान्तरे चतुर्दशोत्तरं शक्रशतं च्युतम्।
१३९.००९. शक्रस्य भिक्षवो देवानामिन्द्रस्यायुषः प्रामाणं यन्मनुष्याणां वर्षमेकं देवानां त्रायस्त्रिंशानामेकरात्रिंदिवसम्।
१३९.०११टेन रात्रिंदिवसेन त्रिंशद्रात्रकेन मासेन द्वादशमासेन संवत्सरेण दिव्यं वर्षसहस्रं देवानां त्रायस्त्रिंशानामायुषः प्रमाणम्।
१३९.०१२. तद्भवति मानुषिकया गणनया तिस्रो वर्षलक्षाः षष्टिश्च वर्षसहस्राणि॥
१३९.०१४. यस्मिन्नानन्द समये राजा मूर्धातो देवांस्त्रायस्त्रिंशानधिरूढः, एवंविधं चित्तमुत्पादितम्--अहो बत मे शक्रो देवानामिन्द्रोऽर्धासनेनोपनिमन्त्रयते, काश्यपो भिक्षुस्तेन कालेन तेन समयेन शक्रो देवानामिन्द्रो बभूव्
१३९.०१६. यस्मिन् खल्वानन्द समये राज्ञो मूर्धातस्यैवंविधं चित्तमुत्पन्नम्--यन्न्वहं शक्रं देवानामिन्द्रमस्मात्स्थानाच्च्यावयित्वा स्वयमेव देवानां च मनुष्याणां च राज्यैश्वर्याधिपत्यं कारयेयम्, काश्यपः सम्यक्सम्बुद्धस्तेन कालेन तेन समयेन शक्रो देवानामिन्द्रो बभूव्
१३९.०१९. महेशाख्ये सत्त्वे चित्तं प्रदूषितम्, तस्मादृद्धेः परिभ्रष्टो जम्बुद्वीपे प्रत्यष्ठात्, खरमाबाधं स्पृष्टवान्, प्रागाढां वेदनां मरणान्तिकीम्।
१३९.०२०. योऽसौ राजा मूर्धातः, अहमेवानन्द तेन कालेन तेन समयेन्
१३९.०२१. तत्र तावन्मया आनन्द सरागेण सद्वेषेण समोहेन अपरिमुक्तेन जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासधर्मेण मरणकालसमये तावदेवंविधा परिकथा कृता यदनेकानि प्राणिशतसहस्राणि गृहाश्रममपहाय ऋषिभ्यः प्रव्रजित्वा कामेषु कामच्छन्दं व्यपहाय तद्बहुलविहारिणो ब्रह्मलोकमुपपादिताः।
१३९.०२४. इदानीं सर्वज्ञेनानुत्तरज्ञानज्ञेयवशिप्राप्तेन निर्वाणाय संप्रस्थितेन तावदेवंविधा धर्मदेशना कृता, यदनेकानि देवता शतसहस्राणि सत्येषु प्रतिष्ठापितानि।
१३९.०२६. अनेकानि ऋषिशतसहस्राणि एतभिक्षव इति प्रव्रजितानि।
१३९.०२७. तैर्युज्यद्भिर्घटद्भिर्व्यायच्छद्भिः सर्वक्लेशप्रहाणादर्हत्त्वं प्राप्तम्।
१३९.०२७. अनेकदेवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगाः शरणगमनशिक्षापदेषु व्यवस्थापिताः।
१३९.०२८. अनेकानि वैशालिकानि प्राणिशतसहस्राणि येषां केचित्स्रोतापत्तिफले व्यवस्थापिताः, केचित्सकृदागामिफले, केचिदनागामिफले, कैश्चित्प्रव्रजित्वार्हत्त्वं प्राप्तम्, कैश्चित्श्रावकबोधौ, कैश्चित्प्रत्येकबोधौ, कैश्चिदनुत्तरायां सम्यक्सम्बोधौ चित्तमुत्पादितानि, कैश्चिच्छरणगमनशिक्षापदानि गृहीतानि॥

१४०.००१. <१४०>भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पृच्छन्ति--कानि भदन्त कर्माणि कृतानि राज्ञा मूर्धातेन येषां कर्मणां विपाकेन सहचित्तोत्पादादेव सप्ताहमन्तःपुरे हिरण्यवर्षं वृष्टम्? भगवानाह--
१४०.००४. भूतपूर्वं भिक्षवोऽतीतेऽध्वनि सर्वाभिभूर्नाम तथागतोऽर्हंल्लोके उत्पन्नो विद्याचरणसम्पन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्।
१४०.००६. तेन खलु समयेन अन्यतरः श्रेष्ठिदारकोऽचिरप्रतिष्ठितः।
१४०.००६. तत्र विषये धर्मता--या अचिरोढा दारिका भर्तरि प्रवहणकेन प्रतिप्रदीयते, सा चतूरत्नमयैः पुष्पैरवकीर्य बद्धका स्वामिने प्रदीयत्
१४०.००८. सा च भर्तारमादाय स्वगृहं गच्छति।
१४०.००८. स च श्रेष्ठिदारकश्चतूरत्नमयानि पुष्पाणि प्रतिगृह्य यानमधिरुह्य श्वशुरगृहमनुप्रस्थितः।
१४०.००९. तस्य गच्छतोऽभिमुखं सर्वाभिभूः सम्यक्सम्बुद्धो जनपदेषु चर्यां चरन्ननुपूर्वेणाभ्यागतः।
१४०.०१०. तं दृष्ट्वा द्वात्रिंशल्लक्षणालंकृतमसेचनकदर्शनमतीव प्रसाद उत्पन्नः।
१४०.०११. यतोऽसौ प्रसादीकृतचेता यानादवतीर्य तं भगवन्तं तैश्चतूरत्नमयैः पुष्पैरवकिरिति।
१४०.०१२. तानि सर्वाभिभुवा सम्यक्सम्बुद्धेनाधिष्ठितानि तथा यथा शकटचक्रमात्राण्यभिनिर्वृत्तानि।
१४०.०१३. तानि वितानं बद्ध्वा गच्छतोऽनुगच्छन्ति, तिष्ठतस्तिष्ठन्ति।
१४०.०१३. स प्रसादजातो गाथां भाषते--
१४०.०१५. अनेन दानेन महद्गतेन बुद्धो भवेयं सुगतः स्वयम्भूः।
१४०.०१७. तीर्णश्च तारयेयं महाजनौघानतारिता ये पूर्वकैर्जिनेन्द्रैः॥८॥
१४०.०१९. सर्वाभिभूर्मे भगवान्महर्षिरवकीर्णः पुष्पैः सुमनोरमैश्च्
१४०.०२१. प्रणिधिश्च मे तत्र कृता उदारा आकाङ्क्षता वा इदमग्रबोधिम्॥९॥
१४०.०२३. तस्यैव कर्मणो विपाकतो मे प्राप्त हि मे बोधिः शिवा अनुत्तरा।
१४०.०२५. वृष्टं च सप्ताहहिरण्यवर्षं मूर्धातस्य राज्ञो महाबलस्य् ।१०॥
१४०.०२७. तस्यैव कर्मणो विपाकतो मे नगरमपि सौवर्णकाञ्चनं बभूव महासुदर्शनस्य रमणीया कुशावती नाम पुरी बभूव् ।
१४०.०२९. भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पृच्छन्ति--कीदृशं भदन्त राज्ञा मूर्धातेन कर्म कृतं यस्य कर्मणो विपाकेन चतुर्षु द्वीपेषु राज्यैश्वर्याधिपत्यं कारितम्, देवांस्त्रायस्त्रिंशानधिरूढह्? भगवानाह--

१४१.००१. <१४१>भूतपूर्वं भिक्षवोऽतीतेऽध्वनि विपश्यी नाम तथागतोऽर्हन् सम्यक्सम्बुद्धो लोके उत्पन्नः।
१४१.००२. अथ स विपश्यी सम्यक्सबुद्धो जनपदेषु चर्यां चरमाणोऽनुपूर्वेण बन्धुमतीं राजधानीमनुप्राप्तः।
१४१.००३. अथ विपश्यी सम्यक्सम्बुद्धः पूर्वाह्णे निवास्य पात्रचीवरमादाय बन्धुमतीं पिण्डाय प्राविशात् ।
१४१.००४. तत्रान्यतरश्चौत्करिको नाम वणिक् ।
१४१.००४. भगवन्तं विपश्यिनमसेचनकदर्शनरूपं दृष्ट्वा अधिकः प्रसाद उत्पन्नः।
१४१.००५. प्रसादजातेन तस्य मुद्गानां मुष्टिं गृहीत्वा पात्रे प्रक्षिप्ता।
१४१.००६. ततो मुद्गाश्चत्वारः पात्रे पतिताः, एकः कण्टकमाहत्य भूमौ पतितः।
१४१.००६. अवशिष्टं नैवं संप्राप्तं पात्रम्, असम्प्राप्ता एव भूमौ पतिताः।
१४१.००७. ततो वणिक्प्रसादजातः प्रणिधिं करोति--
१४१.००९. अनेन दानेन महद्गतेन बुद्धो भवेयं सुगतः स्वयम्भूः।
१४१.०११. तीर्णश्च तारयेयं महाजनौघान्न तारिता ये पूर्वकैर्जिनेन्द्रैः॥११।
१४१.०१३. भगवानाह--योऽसौ ओत्करिको वणिक्, अहमेव तेन कालेन तेन समयेन्
१४१.०१३. यन्मया विपश्यिनः सम्यक्सम्बुद्धस्य प्रसादजातेन मुद्गानां मुष्टिः पात्रे पक्षिप्ता, तस्माच्चत्वारो मुद्गाः पात्रे पतिता अवशिष्टा भूमौ पतिताः, तस्य कर्मणो विपाकेन चतुर्षु द्वीपेषु राज्यैश्वर्याधिपत्यं कारितम्।
१४१.०१६. यश्चासौ मुद्गः पात्रकण्टकमाहत्य भूमौ पतितः, तस्य कर्मणो विपाकेन त्रायस्त्रिंशान् देवानधिरूडः।
१४१.०१७. सचेद्भिक्षवः स मुद्गः पात्रे पतितोऽभविष्यन्न भूमौ, स्थाअनमेतद्विद्यते यद्देवेषु च मनुष्येषु च राज्यैश्वर्याधिपत्यं कारितमभविष्यत् ।
१४१.०१८. योऽसौ ओत्करिको वणिक्तेन कालेन तेन समयेन, स एष राजा मूर्धातः।
१४१.०१९. यो मूर्धातो राजा, अहमेव स तेन कालेन तेन समयेन्
१४१.०२०. यस्मादेवं बुद्धे भगवति महाकारुणिके काराः कृता अत्यर्थं महाफला भवन्ति महानुशंशा महाद्युतयो महावैस्तारिका इति, तस्माद्भवबोधिः।
१४१.०२१. किं करणीयम्? बुद्धे धर्मे संघे काराः करणीयाः सम्यक्प्रणिधानानि च करणीयानीति॥
१४१.०२३. इदमवोचद्भगवान्।
१४१.०२३. आत्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥


१४१.०२४. इति श्रीदिव्यावदाने मान्धातावदानं सप्तदशमम्॥


                    • अवदान १८ **********


१४२.००१. दिव्१८ धर्मरुच्यवदानम्।

१४२.००३. एवं मया श्रुतम्।
१४२.००३. एकस्मिन् समये भगवाञ्श्रावस्त्यां विहरति स्म जेतवनेऽनाथपिण्डदस्याराम्
१४२.००४. तेन खलु समयेन पञ्चमात्राणि वणिक्शतानि भाण्डं समुदानीय अनुपूर्वेण ग्रामनिगमपल्लीपत्तनराजधानीषु चञ्चूर्यमाणानि महासमुद्रतटमनुप्राप्तानि।
१४२.००५. तैर्निपुणतः सामुद्रं यानपात्रं प्रतिपादितम्।
१४२.००६. यतो वणिजस्तं महासमुद्रं दृष्ट्वा संभिन्नमनसो न प्रसहन्ते समवतरितुम्।
१४२.००७. पश्चात्तेर्वणिग्भिः कर्णधार उक्तह्--उद्धोषय नः पुरुषो महासमुद्रस्य भूतं वर्णम्।
१४२.००८. यतो वर्णधार उद्धोषयितुं प्रवृत्तह्--शृण्वन्तु भवन्तो जम्बुद्वीपका मनुष्याः, सन्त्यस्मिन्महासमुद्रे एवंविधानि रत्नानि, तद्यथा--मणयो मुक्ता वैडूर्यशङ्खशिला प्रवालो रजतं जातरूपमश्मगर्भो मुसारगल्वो लोहितिका दक्षिणावर्ताः।
१४२.०१०. य इच्छति एवम्रूपै रत्नैरात्मानं सम्यक्सुखेन प्रीणयितुं मातापितरौ पुत्रदारं दासीदासकर्मकरपौरुषेयं मित्रामात्यज्ञातिसालोहितम्, कालेन च कालं दक्षिणीयेभ्यः श्रमणब्राह्मणेभ्यो दक्षिणां प्रतिष्ठापयितुमूर्ध्वगामिनीं सौभाग्यकरीं सुखविपाकामायत्यां स्वर्गसंवर्तनीम्, सोऽस्मिन्महासमुद्रे अवतरतु धनहेतोः।
१४२.०१४. एवमुक्ते च पुनः सर्व एव सत्त्वाः संपत्तिकामा विपत्तिप्रतिकूलास्तं श्रुत्वा तस्मिन्महासमुद्रे व्यवसिताः समवतरितुम्।
१४२.०१५. यतस्तद्वहनमतिप्रभूतैर्मनुष्यैरतिभारेण च आक्रान्तत्वात्तत्रैवावसीदति।
१४२.०१६. ततः कर्णधारेणोक्तम्--असह्यं वहनम्।
१४२.०१६. यतो वणिजः कथयन्ति--कस्येदानीं वक्ष्यामो वहनात्प्रत्यवतरस्वेति।
१४२.०१७. तैर्वणिग्भिः कर्णधारस्योक्तम्--महासमुद्रस्य भूतं वर्णमुद्घोषयत्
१४२.०१८. ततः स उद्घोषयितुं प्रवृत्तह्--शृण्वन्तु भवन्तो जम्बुद्वीपका मनुष्याः, सन्त्यस्मिन्महासमुद्रे इमानि एवम्रूपाणि महान्ति महाभयानि, तद्यथा तिमिभयं तिमिंगिलभयमूर्मिभयं कूर्मभयं स्थले उत्सीदनभयं जले संसीदनभयमन्तर्जलगतानां पर्वतानामाघट्टनभयं कालिकावातभयम्।
१४२.०२१. चौरा अपि आगच्छन्ति नीलवाससो धनहारिणः।
१४२.०२१. येन चात्मनो जीवितपरित्यागो व्यवास्थितो मातापितरौ पुत्रदारं दासीदासकर्मकरपौरुषेयं मित्रामात्यज्ञातिसालोहितं चित्रं च जम्बुद्वीपं परित्यक्तुम्, स महासमुद्रमवतरतु।
१४२.०२३. अल्पाः शूरा बहवः कातराः।
१४२.०२३. तं श्रुत्वा तथोद्घुष्य तु तस्माद्यानपात्रादवतीर्णा बहवः, केचिदवशिष्टाः।
१४२.०२४. ततस्तैर्वणिग्भिर्वहनस्यैकं वरत्रं छिन्नम्।
१४२.०२५. पश्चाद्द्वौ त्रयो यावदनुपूर्वेण सर्वे वरत्राश्छिन्नाः।
१४२.०२५. तासु च्छिन्नासु तद्वहनं महाकर्णधारसम्प्रेरितं गगने महावातसम्प्रेरितो मेघ इव बलवद्वायुसम्प्रेरितं क्षिप्रमेव संप्रस्थितम्।
१४२.०२७. यावद्रत्नद्वीपमनुप्राप्तः।
१४२.०२७. स तं प्रदेशमनुप्राप्तानां कर्णधारः कथयति--सन्त्यस्मिन् रत्नद्वीपे काचमणयो रत्नसदृशाः, ते भवद्भिरुपपरीक्ष्योपपरीक्ष्य गृहीतव्याः।
१४२.०२८. मा वः पश्चाज्जम्बुद्वीपगतानां ताप्यं भविष्यति।
१४२.०२९. तत्रैव च क्रोञ्चकुमारिका नाम स्त्रियो भवन्ति।
१४२.०२९. ताः पुरुषं लब्ध्वा तथोपलांस्ताडयन्ति, यथा अत्रैवानयेन व्यसनमापद्यत्
१४२.०३०. अत्रैव च मदनीयानि फलानि भवन्ति।
१४२.०३१. तानि यो भक्षयति, स सप्त रात्रिंदिवसान् सुप्तस्तिष्ठति।
१४२.०३१. अस्मिन्नेव च रत्नद्वीपे सप्ताहात्परेण अमनुष्या न सहन्ते, तावद्विधान् विपरीतान् वायूनुत्पादयन्ति यैर्वहनमपह्रियते यथापि तदकृतकार्याणाम्।
१४२.०३३. तानि भवद्भिर्लब्धानि न भक्षयितव्यानि।

१४३.००१. <१४३>तच्छ्रुत्वा वणिजोऽवहितमनसोऽप्रमादेनावस्थिताः।
१४३.००१. प्राप्य च तं रत्नद्वीपं प्रयत्नमास्थाय रत्नान्वेषणं कृत्वा अनुपूर्वेणोपपरीक्ष्य रत्नानां तद्वहनं पूरितं तद्यथा यवानां वा यवसस्यानां वा मुद्गानां वा भाषाणां वा।
१४३.००३. वहनं पूर्यित्वा तेऽनुकूलं जम्बुद्वीपाभिमुखेन वायुना संप्रस्थिताः।
१४३.००४. महासमुद्रे च त्रिभिः स्कन्धैः प्राणिनः संमिश्रिताः।
१४३.००४. प्रथमे योजनशतिका आत्मभावाः, द्विस्त्रियोजनशतिका आत्मभावः।
१४३.००५. द्वितीये स्कन्धेऽष्टयोजनशतिका आत्मभावा नवदशयावच्चतुर्दशयोजनशतिका आत्मभावाः।
१४३.००६. तृतीये स्कन्धे पञ्चदशयोजनशतिका आत्मभावाः, षोडशयोजनशतिका यावदेकविंशतिका आत्मभावाः।
१४३.००७. तत्र च महासमुद्रे ता मत्स्यजातयः परस्परान्योन्यभक्षणपराः।
१४३.००८. ये प्रथमायां भूमौ अवस्थिताः, ते द्वितीयभूमिस्थैर्भक्ष्यन्त्
१४३.००८. ये द्वितीयभूमिस्थाः, ते तृतीयभूमिस्थैर्भक्ष्यन्त्
१४३.००९. तत्र तिमिंगिलो नाम मत्स्यास्तृतीयादुदकस्कन्दधादभ्युद्गम्य उपरिमन्दकस्कन्धमादाय चरति।
१४३.०१०. स यस्यां वेलायां मुखमावृणोति, तस्यां वेलायां महासमुद्रात्पानीयं महता वेगेनाक्षिप्तं मुखद्वारं यतो धावति।
१४३.०११. तेनैवोदकस्कन्धेनाक्षिप्ता मत्स्यकच्छपवल्लभकशुशुमारमकराद्या मत्स्यजातयो मुखद्वारेणोदरे पतन्ति।
१४३.०१२. तस्यैवं चरत आत्मभावाच्छिर एवं लक्ष्यते दूरत एव, तद्यथा--पर्वतो नभःप्रमाणः।
१४३.०१३. अक्षीणि चास्य दुरत एव संलक्ष्यन्ते नभसीवादित्यौ।
१४३.०१४. यतस्तैर्वणिग्भिर्दूरत एवोपधारितम्।
१४३.०१४. तन्महार्णवरूपमुपधार्य चिन्तयितुं प्रवृत्ताह्--किमेतद्भवन्त आदित्यद्वयस्योदयनम्? तेषामेवं चिन्तयतां तद्वहनं तस्य मुखद्वारं यतो वेगेनोपहर्तुमारब्धम्।
१४३.०१६. तेषां वहनं वेगेनापह्रियमाणं दृष्ट्वा आदोतुअद्वयोत्पादनं च संलक्ष्य संवेग उत्पन्नह्--किं भवन्तो यत्तच्छ्रूयते सप्तादित्याः कल्पसंवर्तन्यां समुदागमिष्यन्तीति, तदेवेदानीं प्रोदिताः स्युः।
१४३.०१८. यतः कर्णधारेण तेषां विमर्शजातानामुक्तम्--यत्तद्भवन्तः श्रूयते तिमितिमिंगिल इति, तिमितिमिंगिलभयमिदम्।
१४३.०१९. तत्पश्यन्तु भवन्तः।
१४३.०२०. पानीयादभ्युद्गतपर्वतवदालोक्यते एतत्तस्य शिरः।
१४३.०२०. पश्यथ चैषा तस्य परा दन्तमाला।
१४३.०२२. पश्यथ एतौ दूरत एव सूर्यवदवलोक्येते एतौ अक्षितारकौ।
१४३.०२२. पुनससौ कर्णधारो वणिजां कथयति--शृण्वन्तु भवन्तः, नास्माकमिदानीं जीवितोपायः कश्चिद्येन वयमस्माद्भयात्मुच्येम्
१४३.०२४. सर्वोषामेवास्माकं मरणं प्रत्युपस्थितम्।
१४३.०२४. तदिदानीं भवद्भिः किं करणीयम्? यस्य वो यस्मिन् देवे भक्तिः स तमायाचतु।
१४३.०२५. यदि तेनापि तावदायाचनेन काचिद्देवता अस्माकमस्मान्महाभयाद्विमोष्कणं कुर्यात् ।
१४३.०२६. न चान्योऽस्ति कश्चिदुपायो जीवितस्य्
१४३.०२७. यतस्तैर्वणिग्भिर्मरणभयभीतैः शिववरुणकुबेरमहेन्द्रोपेन्द्रादयो देवा जीवितपरित्राणार्थमायाचितुमारब्धाः।
१४३.०२८. नैव च तेषामायाचतां तस्मान्मरणभयात्जीवितपरित्राणविशेषः कश्चित् ।
१४३.०२९. तथैव तद्वहनं सलिलवेगात्भिक्षिप्तं तिमिंगिलमुखद्वारं यतोऽपह्रियत्
१४३.०२९. तत्र चोपासकोऽभिरूढः।
१४३.०३०. तेनोक्तम्--भवन्तः, नास्माकमस्मान्मरणभयान्मोक्षः कश्चित् ।
१४३.०३०. सर्वैरेवास्माभिर्मर्तव्यम्।
१४३.०३१. किं तु सर्व एवैकरवेण नमो बुद्धायेति वदामः।
१४३.०३१. सति मरणे बुद्धावलम्बनया स्मृत्या कालं करिष्यामः।
१४३.०३२. सुगतिगमनं भविष्यति।
१४३.०३२. यतस्तैर्वणिग्भिरेकरवेण नमो बुद्धायेति <१४४>प्रणामः कृतः सर्वैरेव्

१४४.००१. भगवता च जेतवनस्थेन स वादः श्रुतो दिव्येन श्रोत्रेण विशुद्धेन अतिक्रान्तमानुषेण्
१४४.००२. श्रुत्वा च पुनर्भगवता स नादस्तथा अधिष्ठितो यथा तेन तिमिंगिलेन श्रुतम्।
१४४.००३. तस्य तं नमो बुद्धायेति रावं श्रुत्वा मनसोऽमर्ष उत्पन्नो विक्लवीभूतश्च--बुद्धो बत लोक उत्पन्नः।
१४४.००४. न मम प्रतिरूपं स्यात्यदहं बुद्धस्य भगवतो नामोद्घोषं श्रुत्वा आहारमाहरेयम्।
१४४.००५. स चिन्तयितुं प्रवृत्तह्--यद्यहमिदनीं सहसैव मुखद्वारं पिधास्यामि, सलिलवेगप्रत्याहतस्य वहनस्य विनाशो भविष्यति, एतेषां चानेकानां जीवितविनाशः।
१४४.००६. यन्न्वहं मृदुनोपक्रमेण स्वैरं स्वैरं मुखद्वारं संपिदध्याम्।
१४४.००७. ततस्तेन तिमिंगिलेनात्मीयं मुखद्वारं मृदुनोपक्रमेण स्वैरं स्वैरं पिहितम्।
१४४.००८. पश्चात्तद्वहनं तस्मान्महाग्राहमुखाद्विनिर्मुक्तमनुगुणं वायुमासाद्य तीरमनुप्राप्तम्।
१४४.००९. अथ ते वणिजस्तीरमासाद्य तद्भाण्डं शकटोष्ट्रगोगर्दभादिभिः पुरयित्वा अनुपूर्वेण ग्रामनिगमपल्लीपत्तनादिषु चञ्चूर्यमाणाः श्रावस्तीमनुप्राप्ताः।
१४४.०१०. ते तत्र गत्वा संलक्षयन्ति--धर्मतैषा यस्य नांना वहनं संसिद्धयानपात्रमागच्छति, तस्यैव तानि रत्नानि गम्यानि भवन्ति।
१४४.०१२. यन्नु वयमेतानि रत्नानि बुद्धस्य भगवतो दद्यामः।
१४४.०१२. ते तानि रत्नानि संगृह्य भगवतः सकाशमुपगताः।
१४४.०१३. अनुपूर्वेण भगवतः पादौ शिरसा वन्दित्वा भगवतः कथयन्ति--भगवन्, अस्माकं समुद्रे यानपात्रेणावतीर्णानां तिमिंगिलग्राहेण तस्मिन् यानपारेऽपह्रियमाणे जीवितविनाशे प्रत्युपस्थिते भगवतः स्मरणपरायणानां नामग्रहणं तस्मात्महाग्राहमुखाद्विनिर्मुक्तम्, ततो वयं भगवन् संसिद्धयानपाराः क्षेमस्वस्तिना इहागताः।
१४४.०१६. धर्मता चैषा यस्य नांना वहनं संसिद्धयानपात्रा आगच्छन्ति, तस्य तद्गम्यं भवति।
१४४.०१७. तद्वयं भगवतो नामग्रहणेन मरणभयादूत्तीर्णाः।
१४४.०१८. तदस्माकमेतानि रत्नानि भगवान् गृह्णातु।
१४४.०१८. भगवानाह--येन मयेन्द्राय(?) बलबोध्यङ्गरत्नान्यधिगतानि, किं तथागतस्य भूयः प्राकृतरत्नैः करणीयम्? यदि चेच्छत अस्मच्छासने वत्साः प्रव्रजितुम्, आगच्छथ्
१४४.०२०. यतस्ते संलक्षयन्ति वणिजह्--यदस्माकं किंचित्जीवितम्, तत्सर्वं बुद्धस्य भगवतस्तेजसा।
१४४.०२१. यद्वयमेतानि रत्नानि त्यक्त्वा भगवतोऽन्तिके प्रव्रजेम इति।
१४४.०२२. पश्चात्ते तानि रत्नानि मातापितृभ्यः पुत्रदारदासीदासकर्मकरमित्रामात्यज्ञातिसालोहितेभ्यो यथान्यायतः संविभज्य प्रव्रजिताः।
१४४.०२३. प्रव्रज्य तैर्युज्यद्भिर्घटद्भिर्व्यायच्छद्भिर्यावदर्हत्त्वं साक्षात्कृतम्॥
१४४.०२४. यतो भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पृच्छन्ति--कीदृशानि कर्माणि भगवन्, एभिर्वणिग्भिः कृतान्युपचितानि, येषां कर्मणां विपाकेन भगवानारागितो न विरागितह्? भगवानाह--
१४४.०२७. भूतपूर्वं भिक्षवः काश्यपः सम्यक्सम्बुद्धो लोक उत्पन्नोऽभूत् ।
१४४.०२७. तस्य च शासने एत एव च प्रव्रजिता अभूवन्।
१४४.०२८. तत्र प्रव्रज्य च न कश्चित्तद्रूपो गुणगणोऽधिगतो नान्यत्र सब्रह्मचारिणामुद्दिष्टमधीतं स्वाध्यायितं च्
१४४.०२९. मरणकालसमये प्रणिधानं कृतवन्तह्--यदस्माभिः काश्यपं सम्यक्सम्बुद्धमासाद्योद्दिष्टमधीतं स्वाध्यायितं च, न कश्चित्गुणगणोऽधिगतोऽस्ति, अस्य कर्मणो विपाकेन वयं योऽसौ अनागतोऽध्वनि काश्यपेन सम्यक्सम्बुद्धेन शाक्यमुनिनर्मा सम्यक्सम्बुद्धो व्याकृतः, तं वयमारागयेमो न विरागयेमः॥

१४५.००१. <१४५>भगवानाह--किं मन्यध्वे भिक्षवो यानि तानि पञ्चभिक्षुशतान्यतीतेऽध्वन्यासन् काश्यपस्य सम्यक्सम्बुद्धस्य शासने प्रव्रजितानि, एतावन्त्येतानि पञ्चभिक्षुशतानि।
१४५.००२. तदा चैषामिन्द्रियाणि परिपाचितानि, एतर्हि अर्हत्त्वं साक्षात्कृतम्।
१४५.००३. यश्चासौ महासमुद्रे तिमिस्तिमिंगिलो नाम मत्स्यो बुद्धशब्दं श्रुत्वा अनाहारतायां व्यवस्थितः, स स्वभावेनैव तीक्ष्णाग्नितया क्षुद्दुःखस्यासहत्वाच्च्युतः कालगतः।
१४५.००५. तेन श्रावस्त्यां षट्कर्मनिरते ब्राह्मणकुले प्रतिसंघिर्गृहीतः।
१४५.००६. तस्य तच्छरीरं कलेवरं महासमुद्रे उत्प्लुतम्।
१४५.००६. नागैश्च तस्य स्वभवनसमीपस्थस्य गन्धमसहद्भिरन्यतो विक्षिप्तम्।
१४५.००७. यत्र च विक्षिप्तं तत्रापि समीपे नागस्यैव भवनम्।
१४५.००८. तेनापि गन्धमसहता अन्यतः क्षिप्तम्।
१४५.००८. एवं क्षिप्तेन पारम्पर्येण तत्कलेवरं महासमुद्रतटं समुदानीतम्।
१४५.००९. यतोऽनन्तरं स्मुद्रवेलयोत्सार्य स्थले प्रक्षिप्तम्।
१४५.००९. तच्चानेकैः काकगृध्रश्वशृगालश्वापदाद्यैः पक्षिभिस्तत्समुच्छ्रितैश्च कृमिभिर्भक्ष्यमाणमस्थिकरङ्कजीर्णमासं श्वेतं श्वेतं व्यवस्थितम्।
१४५.०११. अस्यां च श्रावस्त्यां तस्य ब्राह्मणस्य यदा पत्नी अन्तर्वर्तिनी संवृत्ता, तदेव तस्या गर्भोत्पादादतीव क्षुद्दुःखेन पीड्यमानया गृहस्वाम्यभिहितह्--आर्यपुत्र, क्षुद्दुखेनातीव बाध्य्
१४५.०१३. तस्या एवं वदन्त्या गृहस्वामिनोक्तम्--भद्रे, यदस्मद्गृहेऽन्नपानं तत्सर्वमभ्यवहरस्व्
१४५.०१४. तया अभ्यवहर्तुमारब्धम्।
१४५.०१४. सा च तदन्नपानं सर्वमभ्यवहृत्य नैव तृप्तिमुपयाति।
१४५.०१५. पुनरपि गृहस्वामिन् विज्ञापयति--आर्यपुत्र, नैव तृप्तिमुपगच्छामि।
१४५.०१५. यतस्तेन तिरःप्रातिवेश्यसुहृत्स्वजनादिभ्योऽन्तिकदन्नपानमन्विष्य तस्या अनुप्रदत्तम्।
१४५.०१६. सा तमप्यवहृत्य नैव तृप्तिं गच्छति।
१४५.०१७. भूयो गृहस्वामिनः कथयति--आर्यपुत्र, नैव तृप्तिमुपगच्छामि।
१४५.०१७. यतोऽसौ ब्राह्मणः संविग्नमनाः खेदमापन्नः।
१४५.०१८. किमेतद्भवन्तः स्यात्--अस्याः सत्त्वमुदरे उत्पन्नं यस्योत्पादान्नैव तृप्तिमुपयाति? यतः स ब्राह्मणो नैमित्तकानां दर्शयित्वा संशयनिर्णयनार्थं वैद्यादीन् भूततन्त्रविदश्च--पश्यन्तु भवन्तः, इयं ब्राह्मणी किं महता रोगेणाभिभूता स्यादथ भूतग्रहाविष्टा स्यादन्यद्वा स्याद्रूपं मरणलिङ्गमनेनोपसंक्रमेण प्रत्युपस्थिता स्यात् ।
१४५.०२१. तैः श्रुत्वा तथाविध उपक्रमः कृतः।
१४५.०२२. तस्या ब्राह्मण्यास्ते इन्द्रियाणामन्यथात्वमुपलक्षयन्ति।
१४५.०२२. यदा अस्या इन्द्रियाणामन्यथात्वं नोपलक्षयन्ति, तदा तैर्वैद्यनैमित्तकभूततन्त्रविद्भिश्चिकित्सकैः सा ब्राह्मणीपर्यनुयुक्ता--कस्मात्कालादारभ्य तवैवंविधा दीप्ताग्निता समुत्पन्ना? तया अभिहितम्--गर्भलम्भसमकालमेव स एवंविध उपक्रमः कृतः।
१४५.०२५. यतो नैमित्तकवैद्यचिकित्सकैरभिहितम्--नास्याः कश्चिदन्यस्तद्रूपो रोगो नापि भूतग्रहावेशो बाधाकर उत्पन्नः।
१४५.०२७. अस्यैवैषा गर्भस्यानुभावेनैवंविधा दीप्ताग्निता।
१४५.०२७. यतोऽसौ ब्राह्मण उपलब्धवृत्तान्तः स्वस्थीभूतः।
१४५.०२८. सापि ब्राह्मणी नैव कदाचिदन्नपानस्य तृप्ता।
१४५.०२८. अनुपूर्वेण समकालमेव पुत्रो जातः।
१४५.०२९. तस्य दारकस्य जातमात्रस्य सा ब्राह्मणी विनीतक्षुद्दुःखा संवृत्ता।
१४५.०२९. स दारको जातमात्र एव अत्यर्थं बुभुक्षयोपपीड्यत्
१४५.०३०. तस्य बुभुक्षया पीड्यमानस्य माता स्तनं दातुं प्रवृत्ता।
१४५.०३१. स च दारकः स्तनं पीत्वापि सर्वं नैव तृप्तिमुपयाति।
१४५.०३१. पश्चात्तेन ब्राह्मणेन तया च ब्राह्मण्या तिरस्कृतप्रातिवेश्यस्वजनयुवत्यश्चाभ्यर्थ्य स्तनं तस्य दारकस्य दापयितुं प्रवृत्ताः।

१४६.००१. <१४६>स च दारकः सर्वासामपि स्तनं पीत्वा नैव तृप्तिमभ्युपगच्छत्
१४६.००१. पश्चात्तेन ब्राह्मणेन तयार्थे छगलिका कृत्वा।
१४६.००२. स दारकस्तस्या अपि च्छगलिकायाः क्षीरं पीत्वा जनिकायाश्च स्तनं नैव तृप्यत्
१४६.००३. तत्र कालेन कालं भिक्षवो भिक्षुण्यश्च पिण्डपातं प्रविष्य परिकथां कुर्वन्ति।
१४६.००४. स दारकस्तां परिकथां श्रुत्वा तस्यां वेलायां न रोदिति, अवहितश्रोत्रस्तूष्णीभूत्वा तां धर्मश्रवणकथां शृणोति।
१४६.००५. प्रत्यवासृतेषु भिक्षुभिक्षुणीषु च पुनः पिपासादुःखं प्रतिसंवेदयमानो रोहितुं प्रवृत्तः।
१४६.००६. तैः संलक्षितम्--धर्मे वत्साय रुचिरिति।
१४६.००६. तस्य धर्मरुचीति नाम प्रतिष्ठापितम्।
१४६.००७. स च दारकोऽनुपूर्वेण मासार्धर्मासादीनामत्ययाद्भुञ्जानो नैव कदाचिदन्नपानस्य तृप्यति।
१४६.००८. यदा च विशिष्टे वससि स्थितः, तदा तस्य मातापितृभ्यां भक्षभाजनं दत्तम्।
१४६.००९. गच्छ वत्स, इदं ते भैक्षभाजनम्।
१४६.००९. गृहीत्वा श्रावस्त्यां भिक्षां पर्यटित्वा आहारकृत्यं कुरु।
१४६.०१०. यतः स दारको भैक्षभाजनं गृहीत्वा श्रावस्त्यां भैक्षं पर्यटति।
१४६.०१०. पर्यटन्नेव च भुक्त्वा भुक्त्वा अतृप्यमान एव गृहमागच्छति।
१४६.०११. यतोऽसौ संलक्षयति--किं मया कर्म कृतं यस्य कर्मणो विपाकेन न कदाचित्वितृप्यमान आहारमारागयामि? स विषण्णचेताश्चिन्तयितुं प्रवृत्तह्--किं तावदग्निप्रवेशं करोमि, उत जलप्रवेशमथ तटप्रपातं करोमि? स एवं चिन्तया स्थितः।
१४६.०१४. उपासकेनोपलक्षितः।
१४६.०१४. तस्य तेनोक्तम्--किं चिन्तापर एवं तिष्ठसि? गच्छ त्वम्।
१४६.०१५. महान्तं बुद्धशासनं महर्द्धिकं महानुभावम्।
१४६.०१५. तत्र प्रव्रज्
१४६.०१५. तत्र च त्वं प्रव्रजितः कुशलानां धर्माणां संचयं करिष्यसि।
१४६.०१६. अकुशलाश्च ते धर्मा येऽस्मिन्नपि जन्मनि संचिता भविष्यन्ति, ते तन्वीभविष्यन्ति।
१४६.०१७. यदि तावद्गुणगणानधिगमिष्यसि, पर्यतीकृतस्ते संसारो भविष्यति।
१४६.०१८. अथ स महात्मा उपासकेन चोदितो जेतवनं गतः।
१४६.०१८. जेतवनं गत्वा तत्र भिक्षून् पाठस्वाध्यायमनसिकारोद्युक्तान् दृष्ट्वा अतीव प्रसादजातः।
१४६.०१९. भिक्षुमुपसंक्रम्यैवं वदति--अर्य, प्रव्रजितुमिच्छामि।
१४६.०२०. यतो भिक्षुभिरुक्तह्--मातापितृभ्यामनुज्ञातोऽसि? स कथयति--नाहं मातापितृभ्यामनुज्ञातः।
१४६.०२१. तैरुक्तह्--गच्छ वत्स, मातापितृभ्यामनुज्ञां मार्गस्व्
१४६.०२१. यतः स मातापितृभ्यां सकाशादनुज्ञां मार्गितुं प्रवृत्तः।
१४६.०२२. स मातापितृभ्यामभिहितह्--गच्छ वत्स, यथाभिप्रेतं कुरु।
१४६.०२३. स लब्धानुज्ञो भिक्षुसकाशं गतः।
१४६.०२३. पश्चाद्भिक्षुणा प्रव्राजितः।
१४६.०२४. तत्र च भिक्षूणां कदाचित्पिण्डपातो भवति, कदाचित्निमन्त्रणं भवति।
१४६.०२४. स च यस्मिन् दिवसे पिण्डपातो भवति, तत्रोपाध्यायेनोच्यते--वत्स, किं तृप्तोऽसि उत न? स उपाध्यायस्य कथयति--नास्ति तृप्तिः।
१४६.०२६. यत उपाध्यायेनास्य संलक्षितह्--तरुणवयसा प्रव्रजितो दीप्ताग्नितया न तृप्तिमुपयाति।
१४६.०२७. स आत्मीयादपि पिण्डपतात्तस्य संविभागं प्रारब्धः कर्तुम्।
१४६.०२८. पुनश्च पृच्छति--वत्स, किमिदानीं तृप्तोऽसि? अथ स तमुपाध्यायं वदति--न तृप्तोऽस्मि।
१४६.०२९. यत उपाध्यायस्तं श्रुत्वा सप्रेमान् भिक्षूनन्यांश्च सार्धविहारिणः प्रारब्धो वक्तुम्।
१४६.०३०. यतः समानोपाध्यायैः समानाचार्यैरन्यैश्च सप्रेमकैर्भिक्षुभिरुपसंहार आरब्धः कर्तुम्।
१४६.०३१. तेषामन्तिकाल्लभमानो नैव तृप्तिमुपयाति।
१४६.०३१. यदा च निमन्त्रणं भवति, तदापि ते तथैव तस्योपसंहारं कुर्वन्ति।
१४६.०३२. दानपतिरपि विदित्वा यद्यदधिकं तत्तदस्मै दत्वा आगच्छति।

१४७.००१. <१४७>अथ पानकं भवति तदपि तथैव यदधिकं भवति तत्तस्यानुप्रदीयत्
१४७.००१. तस्य च यतः प्रव्रजितस्य न कदाचिदन्नपानेन कुक्षिः पूणः।
१४७.००२. तेन खलु समयेन अन्यतमेन गृहपतिना बुद्धप्रमुखो भिक्षुसंघ उपनिमन्त्रितः।
१४७.००३. भगवान् भिक्षुसंघेन सार्धमन्तर्गृहं प्रविष्टः पूर्वाह्णे निवास्य पात्रचीवरमादाय्
१४७.००४. धर्मरुचिर्विहारे उपधिवारिको व्यवस्थापितः॥
१४७.००५. तत्र च श्रावस्त्यामन्यतमो गृहपतिः प्रतिवसति।
१४७.००५. तेन चैवमुपलब्धं योऽसंविदितमेव बुद्धप्रमुखं भिक्षुसंघं भोजयति स सहसैव भोगैरभ्युद्गच्छति।
१४७.००६. यतस्तेन पञ्चमात्राणां भिक्षुशतानामाहारः समुदानीतः।
१४७.००७. स तस्याहारस्य शकटं पूरयित्वा प्रणीतप्रणीतस्य शुचिनः सार्धं सर्वरूपैर्मित्रस्वजनसहायो बुद्धप्रमुखं भिक्षुसंघं भोजयिष्यामीति विहारं निर्गतः।
१४७.००९. स पश्यति तस्मिञ्जेतवने भिक्षव एव न सन्ति।
१४७.००९. तेन तत्रान्वाहिण्डता उपधिवारिको धर्मरुषिर्दृष्टः।
१४७.०१०. तस्य तेन गृहपतिनोक्तम्--आर्य, क्व गता भिक्षवह्? स कथयति--अन्तर्गृहे उपनिमन्त्रिताः प्रविष्टाः।
१४७.०११. स गृहपतिस्तच्छुत्वा दुर्मना व्यवस्थितह्--कष्टम्, एवमस्माकं विफलः परिश्रमो जातः।
१४७.०१२. संचिन्त्य च तस्य धर्मरुचेः कथयति--आर्य, भक्ष त्वमपि तावत् ।
१४७.०१२. स कथयति--यदि ते महात्मन् परित्यक्तं भवति।
१४७.०१३. ततस्तेन गृहपतिना संलक्षयित्वा येनाहारेणैकस्य भिक्षोः पर्याप्तं भवति, तावदन्नपानं शकटं गृहीत्वा तं धर्मरुचिं परिवेषयितुं प्रवृत्तः।
१४७.०१४. तेन धर्मरुचिना भोक्तुमारब्धं तन्निरवशिष्टम्।
१४७.०१५. नैव तृप्तः।
१४७.०१५. गृहपतिः संलक्सयति--नायं तृप्तः।
१४७.०१६. तेन उच्यते--आर्य, पुनर्भोक्ष्यसे? स कथयति--महात्मन्, यदि ते परित्यक्तम्।
१४७.०१६. ततस्तेन गृहपतिना भूयस्तस्मात्शकटाद्येन भिक्षुद्वयस्याहारेण पर्याप्तं स्यात्, तावदन्नपानं शकटं गृहीत्वा भोजयितुं प्रवृत्तः।
१४७.०१८. यतो धर्मरुचिस्तदपि भुक्त्वा नैव तृप्तः।
१४७.०१८. गृहप्तिना भूयः संलक्षितम्--नायं तृप्तः।
१४७.०१९. तेनोक्तम्--आर्य, पुनर्भोक्ष्यसे? स कथयति--महात्मन्, यदि ते परित्यक्तम्।
१४७.०२०. यतस्तस्माच्छकटादन्नपानं गृहीत्वा त्रयाणां भिक्षूणां पर्याप्तं स्यादिति पुनर्भोजयितुं प्रवृत्तः।
१४७.०२१. स धर्मरुचिस्तदपि भुक्त्वा नैव तृप्तः।
१४७.०२१. पृष्टह्--आर्य, पुनर्भोक्ष्यसे? स कथयति--यदि ते परित्यक्तम्।
१४७.०२२. यतः स गृहपतिस्तस्मादन्नपानं गृहीत्वा येन चतुर्णां भिक्षूणां पर्याप्तं स्यादिति पुनर्भोजयितुं प्रवृत्तः।
१४७.०२३. स धर्मरुचिस्तदपि भुक्त्वा नैव तृप्तः।
१४७.०२३. पृष्टह्--आर्य, पुनर्भोक्ष्यसे? भूयः स कथयति--यदि ते परित्यक्तम्।
१४७.०२४. यतः पुनस्तस्माच्छकटाद्येन पञ्चभिक्षूणामन्नपानैस्तृप्तिः स्यात्, तावद्गृहीत्वा पुनर्भोजयितुं प्रवृत्तः।
१४७.०२५. तदपि चाभ्यवहृतम्।
१४७.०२५. नैव तृप्तः।
१४७.०२६. विस्तरेण यावद्दशानां भिक्षूणामन्नपानेन पर्याप्तं स्यात्, तावद्भुक्त्वा नैव तृप्यत्
१४७.०२६. यतस्तेन संलक्षितम्--नायं मनुष्यो मनुष्यविकारः।
१४७.०२७. यतः श्रूयते पञ्चभिर्नीलवाससो यक्षशतैर्जेतवनमशून्यमिति तेषां भविष्यत्येव अन्यतमः।
१४७.०२८. इति संचिन्त्य गर्भरूपाणि गृहेऽनुप्रवेशयितुं प्रवृत्तह्--गच्छथ यूयं शीघ्रं गृहमेव, अहमेवैको यदि जीवामि म्रिये वेति।
१४७.०२९. स गृहजनं विसर्ज्य मरणभयभीतस्तस्मात्शकटादन्नपानं गृहीत्वा परिवेषयितुमारब्धः।
१४७.०३०. स च स्वैरं भुञ्जति।
१४७.०३१. गृहपतिना उक्तम्--आर्य, त्वरितत्वरितं प्रतीच्छस्व्
१४७.०३१. यतस्तेन धर्मरुचिना क्षिप्रं प्रतिगृहीत्वा भिक्तुमारब्धम्।
१४७.०३२. स गृहपतिस्त्वरितत्वरितं परिवेषयित्वा निरवशेषतस्तदन्नपानं शकटं दत्त्वा <१४८>दक्षिणादेशनामपि भयगृहीतोऽश्रुत्वा त्वरितत्वरितं वन्दाम्यार्येति पृष्ठमनवलोकयमानो नगरं प्रस्थितः।

१४८.००२. तस्मान्नगरात्पिण्डपातनिर्हारको भिक्षु तस्यैव पिण्डपातं गृहीत्वा गतः।
१४८.००३. तेन तदपि भुक्तम्।
१४८.००३. तस्य धर्मरुचेर्न कदाचिद्यतो जातस्य कुष्किं पूर्णः।
१४८.००३. तद्दिवसं चास्य तेनाहारेण तृप्तिर्जाता।
१४८.००४. तस्य च गृहपतेर्नगरं प्रविशतोऽभिमुखं भगवान् भिक्षुसंघपरिवृतः संप्राप्तः।
१४८.००५. स गृहपतिर्भगवतः कथयति--भगवन्, अहं बुद्धप्रमुखं भिक्षुसंघमुद्दिश्य पञ्चानां भिक्षुशतानां तृप्तितः शकटमन्नपानस्य पूरयित्वा जेतवनं गतो बुद्धप्रम्युखं भिक्षुसंघं भोजयिष्यामीति।
१४८.००७. न च मे तत्र भिक्षवो लब्धाः।
१४८.००७. एको मे भिक्षुर्दृष्टः।
१४८.००७. तेन समाख्यातं बुद्धप्रमुखं भिक्षुसंघमन्तर्गृहमुपनिमन्त्रणं प्रविष्टम्।
१४८.००८. तस्य ममैवं चित्तमुत्पन्नम्--एषोऽपि तावदेको भुङ्क्तामिति।
१४८.००९. यतस्तस्य ममानुपूर्वेण सर्वं तदन्नपानं शकटं दत्तम्।
१४८.००९. तेन सर्वं निपुणतोऽभ्यवहृतम्।
१४८.०१०. किं भगवन्मनुष्योऽथ वा अमनुष्यह्? भगवताभिहितम्--गृहपते, भिक्षुः स धर्मरुचिर्नांना।
१४८.०११. प्रामोद्यमुत्पादय, अद्य स त्वदीयेनान्नपान्नेन तृप्तोऽर्हत्त्वं साक्षात्करिष्यति॥
१४८.०१२. अथ भगवाञ्जेतवनमभ्यागतः।
१४८.०१२. भगवान् संलक्षयति--कोऽसौ दानपतिर्भविष्यति योऽसौ धर्मरुचेरेतावता आहारेण प्रतिदिवसं योगोद्वहनं करिष्यति? यतोऽस्य भगवता अभिहितम्--दृष्टस्त्वया धर्मरुचे महासमुद्रः।
१४८.०१४. स कथयति--नो भगवन्।
१४८.०१४. यतो भगवानाह--गृहाण मदीयं चीवरकर्णिकम्, पश्चात्तेऽहं महासमुद्रं दर्शयामि।
१४८.०१५. यतो धर्मरुचिना भगवतश्चीवरकर्णिकोऽवलम्बितः, पश्चाद्भगवान् विततपक्ष इव हंसराजः सहचित्तोत्पादातृद्ध्या धर्मरुचिं गृहीत्वा समुद्रतटमनुप्राप्तः।
१४८.०१७. यस्मिंश्चास्य स्थाने तिमितिमिंगिलभूतस्यास्थशकला तिष्ठति, तत्र नीत्वा स्थापितः।
१४८.०१८. उक्तं चास्य--गच्छ वत्स, मनसिकारं चिन्तय्
१४८.०१८. यतोऽसौ ध्रमरुचिस्तां समीक्षितुमारब्धः।
१४८.०१९. किमेतत्काष्ठं स्यादथास्थिशकला, अथ फलकिनी स्यात् ।
१४८.०२०. स तस्माद्व्यक्तिमलभमानः पर्यन्तमन्वेषितुं प्रवृत्तः।
१४८.०२०. व्यक्तिं चोपलब्धम्।
१४८.०२०. स इतश्चामुतश्च तस्या अनुपार्श्वनं तां पर्येषमाणः श्रममुपगतः।
१४८.०२१. न चास्य पर्यन्तमासादयति।
१४८.०२२. तस्यैतदभवत्--नाहमस्य व्यक्तिं ज्ञास्यामि किमेतदिति, न च पर्यन्तमासादयिष्य्
१४८.०२२. गच्छामि, अस्मिन्नर्थे भगवन्तमेव पृच्छामि।
१४८.०२३. यतोऽसौ भगवतोऽन्तिकं गत्वा भगवन्तं पृच्छति--किं तद्भगवन्? नाहं तस्य व्यक्तिमुपलभामि।
१४८.०२४. यतोऽस्य भगवानाह--वत्स, अस्थिशकलैषा।
१४८.०२५. स कथयति--भगवन्, एवंविधोऽसौ सत्त्वो यस्येदृशी अस्थिशकला? भगवतोक्तम्--तृप्यस्व धर्मरुचे भवेभ्यः, तृप्यस्व भवोपकरणेभ्यः।
१४८.०२६. तवैषा अस्थिशकला।
१४८.०२६. धर्मरुचिस्तं श्रुत्वा भगवद्वचो व्याकुलितचेताः कथयति--ममैषेदृशी अस्थिशकला? तस्योक्तम्--एषा धर्मरुचे तवास्थिशकला।
१४८.०२८. तथाविधमुपश्रुत्य अतीव संविग्नः।
१४८.०२८. यतोऽस्य भगवता अववादो दत्तह्--धर्मरुचे, इदं चेदं मनसिकुरु।
१४८.०२९. इत्युक्त्वा भगवान् विततपक्ष इव राजहंस ऋद्ध्या जेतवनमनुप्राप्तः।
१४८.०३०. अथ धर्मरुचिना चिन्तयता मनसिकारमनुतिष्ठता उष्मगतान्युत्पादितानि मुर्धानः क्षान्तयो लौकिका अग्रधर्मा दर्शनमार्गो भावनामार्गः।
१४८.०३१. स्रोतापत्तिफलं प्राप्तम्।
१४८.०३२. सकृदागमिफलमनागमिफलमर्हत्त्वं प्राप्तम्।
१४८.०३२. अर्हन् संवृत्तस्त्रैधातुकवीतरागः समलोष्टकाञ्चन <१४९>आकाशपाणितलसमचित्तोऽनुनयप्रतिघप्रहीणो विद्याविदारिताण्डकोशो विद्याभिज्ञाप्रतिसंवित्प्राप्तो भवलाभलोभसत्कारपरान्मुखो वासीचन्दनकल्पः।

१४९.००२. सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्योऽभिवाद्यश्च संवृत्तः।
१४९.००३. समन्वाहर्तुमात्मनः पूर्वजातिं प्रवृत्तह्--कुतो ह्यहं च्युतः, कुत्रोपपन्न इति।
१४९.०१४. यतः पश्यति अनेकानि जातिशतानि नरकतिर्यक्प्रेतच्युतश्चोपपन्नश्च्
१४९.०१४. तस्यैतदभवत्--यदहं भगवता न समन्वाहृतोऽभविष्यम्, अनागतास्वपि जातिषु उपसृतोऽभविष्यम्।
१४९.००५. यतः संलक्षयति--अनागताप्यात्मनो जातिसंततिर्निरन्तरमनुपरतप्रबन्धेन नरकप्रेतोपपत्तिः।
१४९.००६. स एवं संलक्ष्य दुष्करकारको बत मे भगवान्।
१४९.००७. यदि च भगवता ममैवैकस्यार्थेऽनुत्तरा सम्यक्सम्बोधिरधिगता स्यात्, तन्महद्धि उपकृतं स्यात्, प्रागेवानेकेषां सत्त्वसहस्राणामपायगतिगमनमपनयति।
१४९.००९. ततोऽसौ धर्मरुचिरृद्ध्या जेतवनमनुप्राप्तो भगवन्तं दर्शनाय्
१४९.००९. तेन खलु समयेन भगवाननेकशताया भिक्षुपर्षदः पुरस्तान्निषण्णोऽभूत् ।
१४९.०१०. धर्मं देशयति।
१४९.०१०. अथासौ धर्मरुचिर्येन भगवांस्तेनोपसंक्रान्तः।
१४९.०११. उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते न्यषीदत् ।
१४९.०१२. एकान्तनिषण्णो भगवता अभिहितह्--चिरस्य धर्मरुचे? धर्मरिचिराह--चिरस्य भगवन्।
१४९.०१३. भगवानाह--सुचिरस्य धर्मरुचे? धर्मरुचिराह--सुचिरस्य भगवन्।
१४९.०१३. भगवानाह--सुचिरचिरस्य ध्रमरुचे? धर्मरुचिरस्य भगवन्॥
१४९.०१५. यतो भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पृच्छन्ति--भगवन् धर्मरुचिरिहैव श्रावस्त्यां जातोऽस्मिन्नेव जेतवने प्रव्रजितो न कुतश्चिदागतो न कुत्रचिद्गतः।
१४९.०१७. इहैव तिष्ठन् भगवता धर्मरुचिरेवमुच्यते--चिरस्य धर्मरुचे, सुचिरस्य धर्मरुचे, सुचिरचिरस्य धर्मरुच्
१४९.०१८. किं संधाय भगवान् कथयति? एवमुक्ते भगवान् भिक्षूनामन्त्रयते स्म--न भिक्षवः प्रत्युत्पन्नं संधाय कथयामि।
१४९.०१९. अतीतं संधाय कथयामि।
१४९.०१९. अतीतं संधाय मयैवमुक्तम्।
१४९.०१९. इच्छथ भिक्षवोऽस्य धर्मरुचेः पूर्विकां कर्मप्लोतिमारभ्य धार्मिकथां श्रोतुम्? एतस्य भगवन् कालः, एतस्य सुगत समयो यद्भगवान् धर्मरुचिमारभ्य भिक्षूणां धार्मिकथां कुर्यात् ।
१४९.०२१. भगवतः श्रुत्वा भिक्षवो धारयिष्यन्ति॥
१४९.०२३. भूतपूर्वं भिक्षवोऽतीतेऽध्वनि प्रथमेऽसंख्येये क्षेमंकरो नाम तथागतो लोक उत्पन्नो विद्याचरणसम्पन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां च बुद्धो भगवान्।
१४९.०२५. स च क्षेमावतीं राजधानीमुपनिश्रित्य विहरति।
१४९.०२५. तस्यां च क्षेमावत्यां क्षेमो नाम राजा राज्यं कारयति।
१४९.०२६. तस्यां च क्षेमावत्यां राजधान्यामन्यतमो वणिक्श्रेष्ठी प्रतिवसति।
१४९.०२७. तेनासौ क्षेमंकरः सम्यक्सम्बुद्धः षष्टिं त्रैमासान् सार्धं भिक्षुसंघेन सर्वोपकरणैरुपस्थितः।
१४९.०२८. यतोऽसौ श्रेष्ठी संलक्षयति--गच्छामि महासमुद्रम्।
१४९.०२८. भाण्डं समुदानीय तस्माच्च रत्नान्यानीय संघे पञ्चवार्षिकं करिष्यामीति।
१४९.०२९. एवं संचिन्त्य भाण्डं समुदानीय ग्रामनिगमपल्लीपत्तनराजधानीष्वनुपूर्वेण चञ्चूर्यमाणः समुद्रमनुप्राप्तः।
१४९.०३०. घण्टावघोषणं कृत्वा सामुद्रेण यानपात्रेण महासमुद्रमवतीर्णः।
१४९.०३१. अस्य तस्मिन्महासमुद्रेऽवतीर्णस्य क्षेमंकरः सम्यक्सम्बुद्धः सकलम्बुद्धकार्यं कृत्वा निरुपधिशेषे निर्वाणधातौ परिनिर्वृतः।
१४९.०३२. तस्य परिनिर्वृतस्य वशिनो भिक्षवह्<१५०>परिनिर्वृताः।

१५०.००१. सप्ताहपरिनिर्वृतस्य शासनमन्तर्हितम्।
१५०.००१. स च श्रेष्ठी संसिद्धयानपात्रेण देवतामानुष्यपरिगृहीतेन तस्मान्महासमुद्रात्तीर्णः।
१५०.००२. उत्तीर्य च तं भाण्डं शकटैरुष्ट्रैर्गोभिर्गर्दभैश्च चोत्क्षिप्य अनुपूर्वेण संप्रस्थितः।
१५०.००३. स च पन्थानं गच्छन् प्रातिपथिकान् पृच्छति--किं भवन्तो जानीध्वं क्षेमावत्यां राजधान्यां प्रवृत्तिह्? तैरुक्तम्--जानीमः।
१५०.००४. स कथयति--अस्ति कश्चित्क्षेमावत्यां राजधान्यां क्षेमंकरो नाम सम्यक्सम्बुद्धह्? ते कथयन्ति--परिनिर्वृतः स भगवान् क्षेमंकरः सम्यक्सम्बुद्धः।
१५०.००६. स च तच्छ्रुत्वा परं खेदमुपगतः।
१५०.००६. संमूर्छितश्च भूमौ पतितः।
१५०.००७. तस्माच्च जलाभिषेकेण प्रत्यागतप्राणो जीवित उत्थाय भूयः पृच्छति--किं भवन्तो जानीध्वं श्रावका अपि तावत्तस्य भगवतस्तिष्ठन्ति? तैरुक्तह्--तेऽपि वशिनो भिक्षवः परिनिर्वृताः।
१५०.००९. सप्ताहपरिनिर्वृतस्य च बुद्धस्य भगवतः क्षेमंकरस्य सम्यक्सम्बुद्धस्य क्षेमेण राज्ञा चैत्यमल्पेशाख्यं प्रतिष्ठापितम्।
१५०.०१०. तेन च गत्वा श्रेष्ठिना जनपदाः पृष्टाः।
१५०.०१०. अस्ति भवन्तस्तस्य भगवतो बुद्धस्य किंचित्स्तूपं प्रतिष्ठापितम्।
१५०.०११. तैरुक्तम्--अस्ति, क्षेमेण राज्ञा अल्पेशाख्यं चैत्यं प्रतिष्ठपितम्।
१५०.०१२. तस्य एतदभवत्--एतं मया सुवर्णं क्षेमंकरं सम्यक्सम्बुद्धमुद्दिश्यानीतम्।
१५०.०१३. स च परिनिर्वृतः।
१५०.०१३. यन्न्वहमेतेनैव सुवर्णेन तस्यैव भगवतश्चैत्यं महेशाख्यतरं कारयेयम्।
१५०.०१४. एवं विचिन्त्य क्षेमं राजानं विज्ञापयति--महाराज, इदं मया सुवर्णं क्षेमंकरं सम्यक्सम्बुद्धमुद्दिश्यानीतम्।
१५०.०१५. स च भगवान् परिनिर्वृतः।
१५०.०१५. इदानीं महाराज यदि त्वमनुजानीयात्, अहमेतेनैव सुवर्णेनैतत्तस्य भगवतश्चैत्यं महेशाख्यतरं कारयेयम्।
१५०.०१६. स राज्ञा अभिहितह्--यथाभिप्रेतं कुरु।
१५०.०१७. ततो ब्राह्मणा नगरं प्रति निवासिनः संभूय सर्वे तस्य महाश्रेष्ठिनः सकाशं गत्वा कथयन्ति--भो महाश्रेष्ठिन्, यदा क्षेमंकरो बुद्धो लोकेऽनुत्पन्न आसीत्, तदा वयं लोकस्य दक्षिणीया आसन्।
१५०.०१९. यदा तूत्पन्नः, तदा दक्षिणीयो जातः।
१५०.०१९. इदानीं तु तस्य परिनिर्वृतस्य वयमेव दक्षिणीयाः।
१५०.०२०. एतत्सुवर्णमस्माकं गम्यम्।
१५०.०२०. स तेषां कथयति--नाहं युष्माकमेतत्सुवर्णं दास्यामि।
१५०.०२१. ते कथयन्ति--यद्यस्माकं न दास्यसि, न वयं तव कामकारं दास्यामः।
१५०.०२२. ते ब्राह्मणा बहवः, श्रेष्ठी चाल्पपरिवारः।
१५०.०२२. तेषां तथा व्युत्पद्यतां न लेभे तच्चैत्यं यथेप्सितं तेन सुवर्णेन कारयितुम्।
१५०.०२३. अथ स श्रेष्ठी राज्ञः सकाशं गत्वा कथयति--महाराज, तच्चैत्यं न लभे ब्राह्मणानां सकाशाद्यथाभिप्रेतं कारयितुम्।
१५०.०२४. यतोऽस्य राज्ञा स्वपुरुषो दत्तः सहस्रयोधी।
१५०.०२५. एवं च राज्ञा स्वपुरुष आज्ञप्तह्--यद्यस्य महाश्रेष्ठिनः स्तूपमभिसंस्कुर्वतः कश्चिदपनयं करोति, स त्वया महता दण्डेन शासयितव्यः।
१५०.०२६. एवं देवेति सहस्रयोधी पुरुषो राज्ञः प्रतिश्रुत्य निर्गतः।
१५०.०२७. निर्गम्य च तान् ब्राह्मणानेवं वदति--शृण्वन्तु भवन्तः, अहं राज्ञास्य महाश्रेष्ठिनः स्वपुरुषो दत्तह्--यद्यस्य स्तूपमभिसंस्कुर्वतः कश्चिद्विघातं कुर्यात्, स त्वया महता दण्डेन शासयितव्य इति।
१५०.०२९. यदि यूयमत्र किंचिद्विघ्नं करिष्यथ, अहं वो महता दण्डेनानुशासयिष्यामि।
१५०.०३०. ते ब्राह्मणाः सहस्रयोधिनः पुरुषस्यैवं श्रुत्वा भीताः।
१५०.०३०. यतस्तेन महाश्रेष्ठिना संचिन्त्य यथैतत्सुवर्णं तत्रैव गर्भसंस्थं स्यात्तथा कर्तव्यमिति तस्य स्तूपस्य सर्वैरेव चतुर्भिः पार्श्वैः प्रतिकण्ठुकया चत्वारि सोपानानि आरब्धानि कारयितुम्।
१५०.०३२. यावदनुपूर्वेण<१५१> प्रथमा मेढी ततोऽनुपूर्वेण द्वितीया ततस्तृतीया मेढी यावदनुपूर्वेणाण्डम्।