दिव्यदृष्टिः (नारायणशास्त्री)

विकिस्रोतः तः
Jump to navigation Jump to search
दिव्यदृष्टिः (नारायणशास्त्री)
नारायणशास्त्री
१९३६

s) | ‘मास्टर'मणिमालाया एकपञ्चाशत्संख्यको मणिः (साहित्यविभागे २) // [ प्रथममध्यमपरीक्षाश्रेणिगतच्छात्रवृन्दस्यानुवादा- भ्यासेऽत्यन्तमुपयोगिनी ] | - --- -- - -- -- --


  • /'

-- --

2

- . --- --


..


ई० . --

->

--

-


- -- दिव्यदृष्टिः


_

_ सन १९३६ __ . 5, 28 ___ [ अद्भुतरसमयी सरला लघुकथा ! ____ _ ____ । ७.

काशौस्थराजकीयसरस्वतीभवनपुस्तकालयोपाध्यक्षेण, साहित्याचार्येण, साहित्यवारिधिना, ‘विद्वञ्चरित- पञ्चक’ ‘अभिज्ञानशाकुन्तलटीकालक्ष्मी' दरेि द्राणां हृदयम्’ ‘अलङ्कारसारमञ्जरी' प्रभृत्य नेकग्रन्थप्रणेत्रा, ‘अमरभारती' सम्पादकेन ‘खिस्ते'इत्युपाख्य नारायणशास्त्रिणा निबद्धा । । काशीस्थ ‘संस्कृतबुकडिपो’ इत्यस्याध्यत्तेः........ ‘मास्टर खेलाडीलाल ऐण्ड सन्स मास्टरप्रिण्टिङ्गवक्र्स’ नाम्नि मुद्रणागारे संमुद्रय प्रकाशिता

| > | { ‘मास्टर'मणिमालाया एकपञ्चाशत्संख्यको मणिः (साहित्यविभागे २) [ प्रथममध्यमपरीक्षाश्रेणिगतच्छात्रवृन्दस्यानुवादा भ्यासेऽत्यन्तमुपयोगिनी ] दिव्यदृष्टिः [ श्रद्रुतरसमयी सरला लघुकथा ] काशीरथराजकीयसरवतीभवनपुस्तकालयोपाध्यक्षेण, साहित्याचार्येण, साहित्यवारिधिना, 'विद्वश्चरित पश्च क’ ‘अभिज्ञानशाकुन्तलटीकालक्ष्मी दुरि द्राणां हृदयम्’ ‘अलङ्कारसारमञ्जरी' प्रभृत्य ! नेकप्रन्थप्रणेत्रा, ‘अमरभारती सम्पाद्केन |‘खिस्ते'इत्युपाख्य नारायणशास्त्रिणा काशीस्थ ‘संस्कृतबुकडिपो’ इत्यस्याध्यचैः ‘मास्टर खेलाड़ीलाल ऐण्ड सन्स् ‘मास्टरप्रिण्टिङ्गवक्र्स नाम्नि मुद्रणागारे संमुद्रय प्रकाशिता मूल्यमाणकचतुष्ट्यम् ई० सन १९३६ दिव्यदृष्टि' रित्याख्यायाः सरलसंस्कृतलघुकथाया उपोद्घातं लिख तामस्माकं महान् प्रमोदो भवति । संस्कृतसाहित्ये किल श्रङ्गुलि परिगणनीया एव त्रिचतुरा गद्यनिबन्धाः सन्ति, दीर्घसमासान्वितश्ले षाद्यलङ्कारगम्भीरप्रौढभाषोपनिबद्धास्ते परिनिष्ठितानां विदुषामुत्तमवर्गी याणां छात्राणां वा मनोरञ्जनाय भाषाभ्यासपाटवाय च प्रभवन्ति । प्रथममध्यमपरीक्षाश्रेणिगतच्छात्राणां कृते नासीत्कोऽपि तथाविधो लघुः सरलश्च गद्यबन्धः, यः किल मनोरञ्जनपुरस्सरं तेषामनुवादाभ्यास पाटवमापादयत् । काशीस्थराजकीयसरस्वतीभवनोपाध्यक्षसाहित्याचार्यामरभारतीसंपा दक-खिस्तेनारायणशास्त्रिभिर्निबद्धा ‘दिव्यदृष्टि' नामान्डुतरसमयाय लघुकथा ऽश्लीलाद्यवद्यवर्जिता सरला संवाद्रूपा चास्तीत्येषा निःशङ्कम ल्पवयसामपरिपकबुद्धीनामपि छात्राणां हस्ते दातुं योग्याऽस्ति । भूयो भूयोऽभ्यस्तयां चानया छात्राणां संस्कृतलेखपाटवं स्फुरिष्यतीति बाढं वयं विमृशामः । यद्यप्यस्मिन् संस्करणे बहवो मुद्रणप्रमादाः सन्ति, तथाऽपि द्वितीय संस्करणे तन्निवारणं भविष्यति, पुस्तकं च कथाप्रसङ्गोपयुक्तचित्रादिभिर्विः भूषयिष्यत इति वयमाशास्महे । गवर्नमेण्ट संस्कृत कालेज सरस्वताभवन्नम् काशा । श्रीत्रिभुवनप्रसादोपाध्यायाः व्याकरणाचार्याः, एम० ए० ) इन्स्पेक्टर आफ संस्कृतपाठशालाजू

यू० पी०, बनारस ।

दिव्यदृष्टिः

"स्यात् कोऽपि पाखण्डी, ईदृशा बहवो धूर्ता द्रव्यमर्जयितुं साधुवेषं विभ्रति लोकान् वञ्चयन्तो विहरन्तिचेतस्ततः !!" 'न हि, इदमेवैकं वैशिष्ट्यं तस्य पाखण्डितायां सन्देहं जनयति स कुतोऽपि द्रव्यं न गृह्णाति किंबहुना द्रव्यं स्पृशत्यपि न सः, केवलं भोज्यवस्तून्येव स गृह्णाति, तान्यपि न सञ्चिनोति स्वोदरपूरणपर्या- प्तानि संस्थाप्य ततोऽधिकानि भिक्षुकेभ्यो विभज्यार्पयति ।”

 किं तस्य वक्तव्यमस्ति, स आत्मनि कं वा विशेषगुणं ख्यापयति ?

 “कमपि न, स आत्मनः किमपि वैशिष्ट्यं न कथयति, तथाऽपि भविष्यद्वक्ता त्रिकालदर्शी सिद्धोऽस्ति, लोकानां मनोगतमशेषं बोद्धुं शक्नोति । असाध्या अपि रोगास्तस्य करस्पशादेव सद्यो नश्यन्ति । तेन यस्मै यद्वरदानं दीयते तदवश्यं पूर्णं भवति ।"

 “तस्यैते विशेषगुणा सन्ति केनाऽपि परीक्षिताः ?

 “तैरसंख्यैः सज्जनैः, ये तं परिवार्य तिष्ठन्तः शतशः प्रश्नान् पृच्छन्ति, विविधान् स्वमनोरथान् तस्य पुरः प्रकटयन्ति च ।”

 ‘स च नाधिकं भाषते केनापि । न च लोकानां पुर आत्मानं सविशेषं प्रदर्शयति । केनापि तस्य भक्तेन गङ्गाकूले तदर्थमेका कुटी निर्मापिता वर्तते, तत्रैव स सन्ततं निवसति । केवलं प्रातरष्टमहोरात एकादशहोरापर्यन्तं होरात्रयमेव स लोकेभ्यो दर्शनं ददाति । तावत्यवसर एव यः कोऽपि यत्किमपि पृच्छति, तदुत्तरं तेन दीयते।”

 अपराह्वसमय आसीत्तदानीम्, अहं मम सुहृदो मेघश्यामस्य गोष्ठी गृहे विशाले वेत्रासनेऽर्द्धशयान आसम् ।

 मम पार्श्ववर्तेि उद्यानोपगं वातायनं विवृतद्वारमासीत् । जलधारासमु- च्छ्वसितभूसुरभिपरिमलेन सह समागच्छन् सुरभिकुसुमामोदो बाढं मद- यतिस्म मे मानसम् । गोष्ठीगृहे तदानीमावां द्वावेव स्थिताबभूव ।

 मयोक्तम्-“सखे ! मेघश्याम ! त्वं ॠजुरसि न जानासि वञ्चका

निमान्। इयमेषां वञ्चनाचातुरी, स खलु वञ्चकः केनाप्युपायेन लोकानां मनोगतमर्थं विदित्वा तेषां पुर आत्मनस्त्रिकालदर्शित्वं नाटयति । यदुच्यते, स लोकेभ्यो वरदानं ददाति, रोगिणां रोगांश्च दूरीकरोतीति, तच्छ्रद्धाजडानां विश्वासभूयिष्ठताविजम्भित मात्रमेव गभीरेण विश्वासेन दुःसाध्या अपि व्याधयो दूरीभवन्ति ! उत्कटा बहवो मनोरथा अपि विश्वासमात्रेणैव पूर्यन्ते । यदि तस्मिन् वास्तविकी कापि लोकोत्तरा शक्तिरभविष्यत् स कदापि लोकालये जनसम्मर्दमध्ये निवासं नाकरिष्यत् । तस्य तु निर्जनं वनमेव समुचितं स्थानम्, यत्र मनुजगन्धोऽपि न भवेत्। मेघश्यामोऽब्रूत-“एकदा केनापिऽपि तस्मै पृष्टमासीत्-“भगवन्! शान्ति- मयमात्मन. एकान्तस्थानं परित्यज्यं लोकालयऽस्मिन् किमर्थमागतं भगवता?" इति । स चाऽत्यन्तगभीराकृतिरपि प्रसन्नवदनो लक्ष्यते । रोषकषायितः सा नाद्यापि केनापि दृष्टः । प्रष्टारस्तु विविधान् कुटिलाननुचितानपि प्रश्नान् तन्वते, परंतु तस्य महात्मनो वदने तैरनुचितानुयोगैरेकाऽपि लघीयस्यपि विकारलखा न दृग्गोचरीभवति । तथाविधेऽवसरे स केवलं तूष्णीमास्ते वचसा न किञ्चिदप्युत्तरयति । लोकालयागमनहेतुं पृच्छते सज्जनाय तेनेत्थमुत्तरितम्--“वत्स ! भगवदिच्छेवास्माकं प्रेरिका शक्तिः तद्वशंवद् एवाहमत्रागतोऽस्मि । विचारितं च चेतसि-कार्तिकेऽस्मिन् पुण्यमासे गङ्गास्नानार्थं काश्यां गङ्गातीरे वसतिः कर्तव्येति । अतीते चास्मिन्मासे स्थानमिदं परित्यज्याऽन्यतो गन्तव्यं भवेदिति सम्भावयामि"

 सोत्कण्ठं मयाऽप्राक्षि--"त्वया सर्वमिदं कथमवगतम् ? एक तव ज्ञातपरिचित कश्चित्सज्जनस्तदन्तिकं गत आसीत् ?' । तेनोत्तरितम्-“न हि, ज्ञातंपरिचितो न कश्चिदूगतस्तत्र । अहं स्वयमेव गत आसम् । लोके- भयस्तत्प्रशंसावादं निशम्य स्वयमपि तं पश्येयमिति विचारितवान् । यदाऽहं तत्रागच्छम्, तदा स महात्मा समुत्तिष्ठन्नेवासीत् प्रणम्य समुपविशन्तं मासबादीत्-“वत्स ! किमिच्छसि ?' मयोत्तरितम्-“केवलं भगवतो दर्शनम् ।' तेनोक्तम् “न हि, न केवलं दर्शनाभिलाषेणागतोऽसि, अन्यद- प्यस्ति किंचित्तव चेतसि' । पुनरहमब्रवम्-“भगवन् ! अहमिदं प्रष्टुमि- च्छामि, यत् प्रातःकालं विहाय कालान्तरेऽपि भगवतो दर्शनं सम्भवति न वा ? मम हि द्वित्राः सन्ति प्रश्ना अनुयोक्तुम्’ । महात्मा ऽब्रूत- “इदानीं तु नाहं स्थातुं शक्रोमि अतिक्राम्यति समयः, नियमानुसारं तु

मया कालान्तरे कस्यापि केपि प्रश्ना न समाधीयन्ते। प्रश्रोत्तराणां तु कथैव

का, तदानीमहं कुट्या बहेिरपि नायामि । तथाऽपि किञ्चित्प्रष्टुं चेत्तव समुत्कटो ऽभिलाषः, अद्य सायंसमये संमेहि, यतोऽचिरादेव स्थानमिदं मया परित्यक्ष्यते' । निशम्यैवं मनस्येव प्रसीदन्नह्रं तत. प्रत्यागमम्, सविस्मयं च चेतसि चिन्तितवान्-किमिति महात्मना मम कृते. स्वनिय- मेष्वीदृक् परिवर्त्तनमनुमतम्’ इतेि।

 मया पृष्टम्-“किमद्य सायं त्वं तमेव महात्मानं द्रष्टुं गमिष्यसि' ?॥  मेघश्याम ऊचे-“आम्, अहं तु गमिष्याम्येव, त्वयापि मया साकम- वश्यमागन्तव्यम्। त्वमीदृग्विधेषु विषयेषु न विश्वसिषि । सर्वानेव मिथ्या- वादिना पाखण्डिनः कथयसि । सर्वत्रैव त्वं चिन्तयसि यदसौ द्रव्यमर्ज- यितुं लोकवञ्चनां तनोतीति । इमां तव भ्रान्तिमपहर्तुमेव ममायमुद्यमः?"। महात्मनस्तस्य सिद्धिचमत्कारमनुभूय बाढमह विश्वसिमि यत् स निश्चयेन त्रिकालदर्शी सिद्धो महात्माऽस्तीति । ईदृशा विरला एव सत्पुरुषाः कदाचिदेव नगरेष्वायान्ति । तं वीक्ष्य तवापि ज्ञातं भवेत् . यत् अद्यापि ध्रियन्ते सिद्धा वसुन्धरायाम् । इत्थमत्यन्तमल्पाल्पा एव सन्ति तथा- विधाः। सौभाग्येनैव समुपनम्यते तथाविधानां पावनं दर्शनम् ।"

 अहमुच्चैः प्रहस्यावदम्--“मेघश्याम ! त्वं सर्वथा ॠजुप्रकृतिर्मूर्खोऽसि, त्वमिव सरलप्रकृतिः सर्वत्रैव विश्वासी मया विरल एव “दृष्टोऽस्मिन् वञ्चनामये संसारे। अन्ततो गत्वा मम सुहृन्मण्डले त्वमेवैकस्तथा- विधोऽसि, य ईदृशेषु विषयेषु त्वरितमेव विश्वासमावहेत् । कुत्र साधुः कुत्र महात्मा ? सर्वोऽयं केवलः पाखण्डः, लोकान् वञ्चयितुं प्रयुक्तेयं धूर्तानां युक्तिः । स्यादेतेन तस्य कोऽप्यर्थः । अत एव लोकानां चेतःसु स आत्मनो विषये विश्वासमाधातुं प्रयतते । यद्यहं तस्य पुरो गच्छेयम्, सद्यस्तस्य पाखण्डमुद्घाटयेयम् । यद्यनेन तस्य महात्मनश्चेतोऽन्यथा भावं न भजेत्, नाऽपि च त्वं चेत्प्रतीपतां भावयेः । कथय, किमस्ति स्वीकृत?

 मेघश्यामो गम्भीरभावेनाह-“आम्, अस्ति स्वीकृतम्, त्वं यथेच्छं प्रश्वाननु योक्तुमर्हसि महात्मनःपुर, यथेच्छसि तथा तं परीक्षय, किन्तु सर्वमिदं सभ्यतामनतिक्रम्यैव कर्तव्यम् । संयतचेतसा सज्जनोचितमेव तस्य पुरो व्यवहर्तव्यम् । अन्ततोगत्वा बहिर्भवता महात्मनो विषये समादर एव दर्शयितव्यः । अहं बाढं विश्वसिमि, यत्स महात्मा भवतः प्रश्नानानां यथार्थमेवोत्तरं दास्यति । परन्त्वत्र भवताऽप्येका प्रतिज्ञाकर्तुमुचिता” ।

 मयोक्तम्-“कीदृशी प्रतिज्ञा ?"

 स आहस्म--’इयमेव, यदि स महात्मा तव प्रश्नानां यथार्थमुत्तरं दास्यति, तर्हि त्वयाऽपि ततः परं तथाविधानां महात्मनां परिहासकरणं परित्यक्तव्यं भवेत् । 'सर्वस्याऽप्यतीन्द्रियस्य वस्तुन स्तत्साक्षात्कर्तॄणां च वञ्चकत्वं च न ततः परं त्वया वक्तुमुचितम् । सर्वथा परिवर्जयितव्य एवायं भवेत् दुरभ्यासो नूनं त्वया । ईदृशेषु विषयेषु यन्मम परिहासा- धिक्षेपादि च त्वया क्रियते तदपि ततः परं परित्याज्यं भवेत् ।'

 मयोक्तम्- आम् स्वीकरोमि, प्रतिजाने च । किन्तु तथाविधमेवाहं प्रश्नं करिष्यामि, यस्य यथार्थमुत्तरं तेन कृतकसिद्धेन दातुं नैव पार्येत । किञ्च स यदुत्तरं दास्यति, तद्विलिख्य तवान्तिकमेव सुरक्षित' स्थापयि- ष्यामि, येन समुचितसमये तस्यासत्यत्वं प्रमाणीक्रियेत । यदि तस्य महात्मनामधारिण उत्तरमसत्यमिति प्रमाणीकर्तुं शक्येत, तर्हि त्वयाऽपि ततः परमीदृशानां वञ्चकानां सङ्गतिर्विश्वासश्च परित्याज्यः स्यात् । निश्चितं तर्हीदम् । कथय, अद्य सायं कदा तदन्तिकं गन्तव्यम् ?

 मेघश्यामोऽवदत्-“सायं सप्त होरावसरेऽत्रैव स्रंमेहि । आवां सम्भू- यैव गमिष्यावः । तस्मिन्नवसरे गङ्गातटेऽपि कोऽपि नायाति । महात्मन: कुटीरेपि निर्जनतैव स्यात्तदानीम् । आवामेकान्ते तेन साकं यथेच्छं व्याहर्तुं शक्नुयाव ।'

( २ )

 अहं हि काश्यामेव वसामि । मम पितुरत्र महानापणोऽस्ति महार्घ वस्त्राणाम् तत्सम्भूतेन प्रचुरेण लाभेनास्माकं गार्हस्थ्यं सुखेन चलति । न जाने केन हेतुना, तातेनाहमात्मनो वस्राव्यवसार्य न शिक्षितोऽस्मि । तातसुहृद्भिः साग्रहमनुरोधे कृतेऽपि तातेन तेषां वचनेषु कर्णमद्त्वैव सनिर्बन्धमहमांग्लविद्यामेव समध्यापितः । मया काशीविश्वविद्यालये समधीत्य एम् एस् सी. परीक्षा स-सम्मानं समुत्तीर्णा । पश्चात्तत्रत्ये ‘इञ्जिनियरिंग कालेज' नामके स्थापत्यविद्यालये पश्चवर्षाणि समधीत्य सा विद्याऽपि मया सम्पादिता । ततः परं तातस्य प्रयत्नैः कतिपयमान्य- धनिकानुरोधैश्च कर्णपुरे प्रसिद्धवस्रयन्त्रालय पञ्चशतमासिकवेतने मम नियुक्तिः सञ्जाता । आङ्ग्लविद्याप्रभावात् काशीविश्वविद्यालयीय स्वतन्त्रतावायुमण्डलविहाराञ्च घोरनास्तिकमतोऽहमभवम् । चार्वाका स्याप्युपरि मम नास्तिक्यमासीत् । अविरतं धर्मकर्मनिरतान् विधिनिषेध प्रतिपालकान् काशिकान् शास्त्रिणो दैन्यमग्नान् दृष्ट्वा, धर्मकर्मसु श्रद्धारहितानां स्वैराचारिणां मादृशामहरहरभ्युन्नतिं च विभाव्य मम नास्तिक्य- विचारा बद्धमूला अभूवन् । वर्णाश्रमव्यवस्थां स्पृश्यास्पृश्यविवेकं, धर्ममीश्वरं वेदान्, शास्त्राणि चाहं सर्वथा पाखण्डमेवाकलयन्नासम् । इन्द्रियतृप्तिरेव मम मते मुख्यो धर्म आसीत् । मम मातुः प्रबलेयमिच्छा- सीत्, यन्मम विवाहस्त्वरितं भवतु । मया तु यावच्छक्यमस्माद् बन्धनात् दूर एव स्थातुं प्रयतितम्। बहुषु स्थलेषु मम विवाहवार्ता प्रचलिता तथापि सा मम दुराग्रहात् दोषाविष्करणकौशलाञ्च न लब्धास्पदाऽभूत् । सम्प्रत्य- हमेकमासिकमवकाशमवाप्य कर्णपुरात्काश्यां यदा समागतस्तदा मम जनन्या स्पष्टमेवाहमभिहितः–“ललित! अस्मिन् वारे तव विवाह: कर्तव्य एव भवेत्, तव किमपि कैतवं विवाहकार्य ' रोद्धु' न प्रभवेत् । कर्णपुरे त्वं स्थातुमिच्छसि चेत् परिणीता तव भार्याऽपि सहैव त्वया तत्र यास्यति'। मातुराग्रहवचनैर्मया समवगतम्, यदयं न केवलं मातुरेवाऽभिनिवेशः तातस्याऽप्यत्राऽस्ति साहाय्यमाभ्यन्तरीणमिति । मम हि बहुवारकृतै- र्विवाहविघटनोद्योगैस्तातस्य चित्ते भूयानसन्तोषः कृतपदो मया लक्षितः यद्यपि स तातेन बहिः स्पष्टं न प्रकाशित: । मयापि चित्ते चिन्तितम इत- परं मम दुराग्रहो न शोभेतेति । कथितं च मातु पुरः –“अम्ब ! यद्येतावती प्रबला तवेच्छा वधूमुखं द्रष्टुम् तर्हिं ममाऽपि सा नूनं शिरोधार्यैव” ।

 ततः परं मद्विवाहप्रबन्ध प्रकाशंत्वरितं च प्रारभ्यते स्म । शीघ्रतायाः कारणन्त्विदमासीत् यत् दैवज्ञैः कथितम्-यदि विवाहः कर्तव्यस्तर्हि अस्मिन्नेव मासे स भवितुमर्हति । तत परं वर्षमेकं यावद्विवाहमुहूर्तो नोपलभ्यते । आगामिनि वर्षेऽस्मिन्नेव मासे पुनर्विवाहमुहूर्तो भवेत् । मम मातुरियान् विलम्बो दुःसह आसीत् । तातस्तु काश्यां प्रसिद्धो वस्त्र- व्यवसायी धनिकः, अहं च सुशिक्षितः पञ्चशतमासिकायो युवा सुन्दरश्चा समिति मम विवाहप्रबन्धे न किमपि प्रतिबन्धकं विलम्बकारणं चासीत् । बहुषु स्थलेषु विचार्या परीक्ष्य च तिस्रः कन्यका मम कृते विचार्यताया- मुपस्थापिताः । तासां जन्मपत्राण्यपि समानायितानि । तिस्रोऽपि कुमार्यः साक्षराः सुशीलाः सुन्दयश्चासन्निति पुरोहितमुखादवगतम्। एतास्वेव कयाचिन्मम विवाहो निश्चितप्राय आसीत् । कया सह विवाहो निश्चेतिव्य इति तु जन्मपत्रविवेचकस्य हस्तगतमासीत् ।

विवाहसम्भारास्त्वरितं संग्रहीतुमारब्धाः । अहं हि नवशिक्षितः स्वतन्त्रप्रकृतिश्चासमिति जनन्या तिसॄणामपि तासां कुमारीणां चित्रफलकानि समानाय्य मम पुरः स्थापितानि । अहं हि कृतकलज्जां परित्यज्य तास्वन्यतमां परिणेयां निर्द्धारयितुमिच्छन्नपि कां निर्द्धारयोयमिति नावगतवान् । यतस्तास्वेकाऽपि कुरूपा नासीत् । यद्येकस्या बिम्बफलो- पमोऽधरो मम मनो लोभयति, तर्ह्यन्यस्यास्तिलपुष्पसन्निभा नासा चेतसि निखातेव लक्ष्यते । अपरस्याः खञ्जनमञ्जुले भावपूर्णे नयने न मामन्यतो गन्तुं दन्तः । अस्मिन्नेवानिश्चयावर्ते पतितोहमचिन्तयम्–“किं क्रियताम्, तिस्रोऽपि स्वस्वविशेषगुणैर्मां लोभयन्ति । कस्मिन्निकषे एताः परीक्ष्य परिणेतव्यां निर्द्धारयेयम्’ इति ।

 इत्थं चिन्ताकुलस्यैव मे सुहृदा मेघश्यामेन तस्य त्रिकालदर्शिनो महात्मनो वृत्तान्तः कथितः । यः खलु महात्मा कार्तिके गङ्गास्न्नानपुण्य- मुपार्जयितुं काश्यां गङ्गातीरे निर्जने कुटीं निर्माय स्थित आसीत् । मया मेघश्यामेन सह महात्मनो निकटे गन्तुं तु प्रतिज्ञातम्, व्यचारयञ्च कं वा तथाविधं प्रक्षं महात्मनः पुर समुपस्थापयेयम्, येन तस्य महात्मनाम- धारिणः कृत्स्ना वैदुषी त्रिकालदर्शिता चापाऽर्था भवेत् । पाखण्डिता च तस्य प्रकटीकर्ते शक्येत । यदि मया स मृषावादी पाखण्डीति न प्रमाणी- कर्तुं शक्येत तर्ह्यहमात्मनो नामापि परिवर्त्तयेयम् ।

( ३ )

 सायं सप्तहोरावादनात्पूर्वमेवाहं मेघश्यामस्य गोष्टीगृहे,समुपस्थितो- ऽभवम् । सोऽपि सन्नद्ध एवासीत् । मां दृष्ट्वैवोवाच–“किं भोः समागत- स्त्वम् चिन्तितो वा तथाविधः प्रश्नः, यस्त्वया महात्मनः पुरः प्रष्टव्यः ।'

 मयोत्तरितम्-“आम्, निश्चितं मया किं प्रष्टव्यमिति । परंतु तदहं ते नाधुना वक्ष्यामि, महात्मनः पुर एव श्रोष्यसि” । आवां ततः परमनु गङ्गा- तटं प्रस्थितौ, यत्र:सा महात्मनः कुटी आसीत् ।'निशामुखे प्रवहन् तुहि नजडः पवन आवयोर्हस्तपादं बधिरयतिस्म । भगवति भास्वति वर्तमाने सति कुत्राऽपि निलीय निवसन् दोषाकरस्तमन्तर्हितं विभाव्य सम्प्रति स्वानुयायिना ॠक्षगणेन सह गगनमण्डलमधिरुह्य विराजमानो दृश्यतेस्म । पतितपावनी जाह्नवी धीरगत्या प्रवहन्ती पश्यतां नेत्राणि मानसानि च शीतलयति स्म । अहं मनस्येवाचिन्तयम्-पश्यत, अयं महात्माऽस्मिन् प्रचण्डशीते समये गङ्गातटे निवसति शीतवारणाय पर्याप्ता कम्बलादिसामग्री तस्यान्तिकेऽवश्यमेव न भवेत् । किमसौ


शीतेन न बाध्यते ? । इत्थं तर्हि किमर्थमनेनदृशमुन्मुक्तं पचुरशीतं स्थानं स्वनिवासाय क्लृप्तम्? । कदाचिदयमस्याभिसन्धिः स्यात् यदी- दृशेनाचरणेन लोके स्वस्य शीतातपसहत्वं निर्द्बन्द्वत्वं च प्रथितं भवेत् ।

 कुटीरस्य समीपमुपगम्य आवां क्षणं तूष्णीं स्थितौ । उभयपार्श्वेऽपि कोपि नासीत् । सर्वथा शान्तिमयता लक्ष्यतेस्म । यत्र दिवसे महान् जनसम्मर्दो भवति तत्रैवेदानीं सर्वधा निर्जनतां दृष्ट्वा किञ्चिदिव साश्च- र्योहमभवम् । किन्तु तत्क्षणमेव स्मृतं मया यत्सार्य समयो महात्मा न कैरपि मिलति, न च किंचिदपि भाषते, सर्वेपि महात्मनो नियममेनं जानन्ति अत एवात्रेदानीं न कोपि लक्ष्यते । ईदृशेऽपि समये आवाभ्यां सह वक्तुमवकाशदानं दर्शनानुमोदनं च नूनमावयोरुपरि महात्मनो विशेषानुग्रह एवास्ति ।

 पुराणं फलकद्वयमूर्ध्वमुखमवस्थाप्य कुटीनिर्मात्रा कुट्यां सामान्यमेकं प्रवेशद्वारं निर्मापितम । कदाचित् शीतवायुप्रवेशपतिबन्धाय, श्वमार्जारागमनवारणाय वा द्वारस्योपयोगश्चिन्तितो भवेत् । मेघश्यामेन तदेव द्वारं किञ्चिदवघट्य शनकैरुक्तम्-“भगवन् ! आवामुपस्थितौ स्वः ।"

कदाचित् स महात्मा तदानीं निरुद्योगः अस्मात्प्रतीक्षापरो वाऽऽसीत् । त्वरितमेवोत्तरमागतम् । “आगच्छत' वत्सौ ! अभ्यन्तरमुपागच्छतम्" ।

कपाटमुद्घाट्य आवामन्तः पूविष्टौ । कपाटं च पुनः पूर्ववत् संवृतम्। मेघश्यामेन भक्तिपूर्वकं महात्मने प्रणामः कृतः । मया तु मेघश्याममनस्तोषं रक्षता तदनुकरणं कृतम् । हस्तावुद्यम्य शुभाशीरभिदधता महात्मना कुटीरैककोणस्थितान्यासनानि निर्दिष्टानि । आवां तत्रोपविष्टौ ।

 मया सामान्यदृशा सा कुटी सत्कृपर्यवेक्षिता । त्वरया निर्मितेव सा प्रतीयतेस्म, तथाऽपि नासुखावहाऽऽसीत् । पञ्चषा जनास्तत्र सुखेनोषितं शक्नुवन्ति स्म । तार्णं छादनम् प्राच्यां दिश्येकं वातायनम्, तस्यैव समीपे महात्मन आसनमास्तीर्णमासीत् । पुरस्तादग्निकुण्डम् दक्षिणपार्श्वे दारुमयी त्रिपादी तदुपरि वेष्टनबद्धं किमपि पुस्तकमासीत् । मया परीक्षकदृशा महात्मन आकृतिरवलोकिता । षष्ठ्यधिकमेव वयः प्रतीतम् । केशाः सर्वेऽपि पलितशुक्ला आसन् । आनाभिलम्बमानं श्वेतकूर्च नितरां शोभते म । आकारो गम्भीर.

प्रशान्तश्च । सांसारिकदुःखसुखादिवासनातीतत्वमाकृतौ प्रतीयतेस्म । नेत्रयोः किमपि विद्युद्विलसितनिभं तेजो

लक्ष्यते म । येनाहं क्षणं चित्रितोऽभवम्-व्यचिन्तयञ्च-इमे नेत्रे यदुपरि पतेताम् तदभ्यन्तरस्य गुप्तातिगुप्ततममपि हस्यमवश्यमवगच्छेतामिति ।

 ममतु विशेषतश्चिन्तितुमवसर एव नासीत् । उपविष्टं मामवलोक्य स महात्मा मेघश्यामं सद्योऽब्रूत-“वत्स ! त्वया सह समेतः कोऽयं सज्जन ? किमर्थं वाऽत्रागतः ?"

 मेघश्यामेनोक्तरितम्--"भगवन् ! अयं मम सखा ललितकुमारो नाम । वदतो मम मुखाद्भगवतो नामधामनी श्रुत्वा दर्शनार्थमयमायातः"।

 मयाऽपि प्रणम्याभिहितम्-“श्रुतं मया यदचिरादेव भगवता इतः प्रस्थास्यत इति, अत स्वनयने सफलीकर्तुमहमप्युपस्थितोऽस्मि ।"

 मया एते शब्दा महात्मनो विषये समादरं प्रदर्शयितुम्, तस्य चेतसि मद्विषये कापि विपरीतभावना च नोपतिष्ठतामित्यर्थ च सविनयमुच्चारिता आसन् । परन्तु मया दृष्टम्, ममैतैश्चाटुवचनैर्महात्मा न प्रसीदति स्म । स यथा पूर्वमेव गभीरः प्रशान्ताकृतिश्चालक्ष्यत । सोऽब्रूत-“भवादृशां विदुषामनुग्रहोऽयम यद्भवद्भिर्ममकुटी पवित्रीक्रियते । कथयत,भवतां कीदृशी सेवा मया कर्तुं' शक्यते?"

 कदाचिदस्मदागमनेन महात्मनः प्रसन्नता नासीत् । सम्भवतः स शीघ्रतयैव किञ्चिद्वार्तालापं विधाय आवां प्रस्थापयितुमैच्छत् । व्यर्थमधिक वागाडम्बरस्तस्याप्रिय आसीत् । प्रायः संसारविरक्तानां साधूनामीदृशः स्वभावो भवति । मयाऽपि विचारितम्-यद्येवम् तर्हि व्यर्थं चाटु वचनैः को लाभः ? स्वप्रयोजनं साधयितव्यम् । इदमेवात्र परीक्षणीयम्, यदसौ वास्ताविको महात्मा, काषायवस्रान्तरितः कोऽपि पाखण्डी वा ? वस्तुस्वरूपं परीक्ष्येतः प्रस्थातव्यम्, आवाभ्यामपि किमर्थमधिकं कालक्षेप क्रियताम् ?

 भूनिहितशिरसा साञ्जलिना मयोक्तम्-“भगवन्! मदागमन कारणमत्यन्तं क्षुद्रं स्वार्थमयं चास्ति । श्रुतमस्ति मया, यद्भगवता इहागमनात्प्रभृति बहूनां भाग्यवतामिच्छाः पूरिताः, कठिनाः शङ्काश्च समाहिता । ममापि चेतसि लोभः प्रादुरभूत् यदहमपिं भगवतसमीपमुपस्थाय निजभविष्यदर्थेषु कतिपयानर्थानवगन्तुं द्वित्रान् प्रश्नान् पृच्छेयम् ।

लभेय च तेषामुत्तराणि, यद्यनुमन्येत सानुकम्पं भगवता ।”

महात्मनो वदने न प्रसत्तिर्न विरक्तिश्च ददशे । स निर्विकारेणाकारे आह-“वत्स ! यदुक्त भवता, ‘मया बहूनामिच्छाः पूरिता’ इति, तत्सर्वथा मिथ्यैव । नाहमात्मनि किमपि तथाविधमलौकिकं सामर्थ्यं कलयामि, येन लोकानां कष्ट दूरीकरणे वाञ्छापूरणे च प्रभवेयम्, अहं तु लोकानापद्ग्रस्तान् दृष्ट्वां बाढमन्तरुत्पीडितो भवामि केवलं जगन्निय- न्तारं परमात्मान प्रार्थये यत् ‘दयासागर! भगवन् ! हरे ! दुःखितानां दुःखानि त्वरितं हरेति'। मम हि सा प्रार्थना स्वीकृता भवतु न वा, दुःखि तानां दुःखान्यपयान्तु न वा, सर्वमेतदहं न चिन्तयामि । एवं चिन्तनं किलाऽनधिकारचेष्टति मे मतम् । यच्च भविष्यदर्थप्रकाशनचेष्टामुद्देिश्य भवतोक्तम् तत्राऽपि केवलं तथाविधार्थावगमाय प्रयतनमेव ममायत्तम्। इयानेवात्र विशेषः, भवादृशां सांसारिकाणां स्थितेरपेक्षया मम स्थितावस्ति किंचिद्वैशिष्ट्यम् ।"

 महात्मां वदन्नेव मध्ये किञ्चिद्विरमतिस्म, आवां तत्कथनं सावधान- माकर्णयावो न वेति ज्ञातुमेव तेन तथा कृतं स्यात् । मयाऽपाङ्गप्रेक्षितैर्मे- घश्यामो दृष्टः, स एकाग्रचित्तो महात्मनो वचनं श्रृण्वन्नासीत् । अहमपि महात्मनो वचनश्रवणे एकाग्रताऽभिनयमकरवम् ।

 पुनरब्रूत महात्मा-- "पश्यत, व्यापकोऽयं विषय तथाऽप्यहं परिमितै- रेव शब्दैः स्वाभिप्रायं कथयामि, अधिकं प्रपञ्चयितुं' न ममावकाशोऽस्ति, नापि

भवतोरपि। संसारोऽयं दुःखसागर इति कथ्यते—तेषां कृते ये तत्र समासक्ता वर्तन्ते। विविधानां वाञ्छानां भावनानां मोहजनितस्वार्थानां लालसानां च युद्धस्थलमेव किल संसारः। सर्वेऽपि मिथः प्रतीपाः स्वाकाङ्क्षाः पूरयितुं प्रयतन्ते। सर्वोऽपि वाञ्छति यदमुकं वस्तु मया लभ्यताम्, ममायं स्वार्थः पूर्णो भवतु, तत्रान्यस्य कियदनिष्टं भवतीति न कोपि चिन्तयति। अत एव परस्परमिच्छानां वासनानां च भूयान् संघर्षों भवति, यः खलु दुःखस्य निदानम् । कामक्रोधलोभमोहात्मिका यवनिका सर्वस्यैव दृक्शक्तिं तिरोधत्ते । अत एव प्राय: सर्वोऽपि जानन्नपि, शान्तेन चेतसा स्वार्थहीनेन हृदयेन च, कमपि विषयं विवेचयितुं न शक्नोति । अनेनैव हेतुना भविष्यतोऽर्थस्य वास्तवं रूपमवगन्तुं न शक्नोति सांसारिको जन:। यश्च कश्चित् किंचिद्वगच्छति सोऽपि मृषाभूतमेव सत्यमिति विपर्यस्यति । यदि सांसारिकेष्वेव कोऽपि निरपेक्षदृशा विवेकयुक्तेन हृदयेन,गम्भीरेण चेतसा वासनाश्चेतसो दूरमपसार्य, निःस्वार्थेन मनसा भवि

ष्यदर्थमन्वेष्टुं पूयतेत, तर्हि तस्य भविष्यदर्थावगमे न किञ्चिदपि प्रतिब- न्धकं पश्यामि, अवश्यं तथाविधेन भविष्यदर्थज्ञानं सुलभम् । सांसारिक जनापेक्षया सर्वथा विपरीतैवास्माकं संसारत्यागिनां साधूनां स्थितिः । अस्माकं तु कस्यापि शुभेनाशुभेन वा न कोऽप्यर्थ, कस्यापि प्रसाद् विषादाभ्यां नास्माकं सुखं दुःखं वा सम्भवति । संसारे च नास्माकं काऽपीच्छा, न च कुत्राऽपिलालसा, क्वापि च वयं नासक्ताः स्मः, अस्माकं विवेके न किमपि मालिन्यं भवति, अतो वयं भविष्यतोऽर्थस्य वास्तविकं रूपं द्रष्टुं पभवामः । यदि भवादृशेष्वस्मादृशेषु चास्ति कोऽपि विभेद, तर्हि अयमेव स । भवतु कथयतु भवान् केनार्थेन समुद्विग्नं भवतश्चेतः, कं वा भविष्यदर्थं ज्ञातुमिच्छति भवान् । यद्यहं प्रभवेयं वक्तुम, तर्हि ध्रुवं वक्ष्यामि"।

 एवमुक्त्वा महात्मा तूष्णीं बभूव । मेघश्यामो मां साकूतमपश्यत् । अहं व्यचिन्तयम-मम प्रश्नं केन रूपेण महात्मनः पुर उपस्थापयेयम् । यथा मम प्रश्नस्योत्तरणमहात्मनो दुष्करं भवेत् यथा च महात्मनो वास्तविकी वैदुषी च प्रकटिता भवेत्। एतावता संलापेनेदं तु निश्चितमासीत् यत्स महात्मा विचारशीलो विद्वानप्यस्तीति । तेनैतावदुक्तमशेष यथार्थ चित्तप्रत्यययोग्यं चासीत् । शनैः शनैर्ममापि चेतसि महात्मनो विषयो श्रद्धावृत्तिरुदेतुमारभत । महात्मानं पाखण्डिनं प्रमाणयितुं परीक्षितुं, तस्य मिथ्यावादित्वं समर्थयितुं, ‘सम्प्रति वास्तविका- महात्मानो द्वलभाः सन्तीति’ तत्वं मेघश्यामस्य चेतसि प्रवेशयितं च ममात्रागमनमभूत् । महात्मनो वचनश्रवणमात्रेणैव तत्र श्रद्धाभावोद्वहनं तावतैव तस्य महात्मतायाः समर्थनं च ममेच्छायाः स्वार्थस्य च प्रतीपमासात् ।

 मां विचारयन्त दृष्टा महात्माऽब्रूत-“पश्य वत्स ! ममात्रागतस्यैौको मासो व्यतीतः । अत्रान्तरे सहस्रशो जना मम समीपमुपागताः तेषु प्रायः पत्येकं विभिन्नार्था श्रासन् । कश्चित् सरलचेतसा सदुपदेशं श्रोतुम्, दुखितः कोऽपि व्यथितं स्वहृद्यमाश्वासयितुं, कोऽपि केवलं मां परीक्षितं मेव समागत आसीत् । तेषु कास्याप्युपरि कोपं कर्तुं, सन्तोषं च प्रदर्शयितं न किमपि निदानमस्ति मदन्तिके । अहं हि लोकस्य भावना यावज्जीवना- भ्यस्तान् दुरभिनिवेशांश्च क्षणिकेन सहवासेन परिवर्त्तयितुं सर्वथाऽसमर्थ एवाऽस्मि । यः खलु येन रूपेण समागतः मया स तेनैव रूपेण ((rule}}

तथैव परिगृहीत. । विचारेण यच्चेतसि समायातं तत्तस्मै कथितम् । केनाप्यहं वास्तविको ज्ञातेति गृहीतोऽस्मि । केनापि च धूर्तः पाखण्डीति, मम दृष्टौ तु तावुभावपि समानावेव । यदि भवानपि मां परीक्षितुमेव समायात स्तर्हि तत्स्पष्टमभिधीयताम, न ममात्रेषदपि क्रोधो वैरूप्यं वा भवेत् । प्रत्युत भवतः सत्यानुरक्तिं दृष्टा बाढमहं प्रसीदेयम् । तथागतेपि व्यतिकरे यथासम्भवमहं भवतः शङ्काः समाधातुं पयतिष्ये ।’  महात्मनो वचनानि यथार्थानि हृदयं प्रविशन्ति चासन् । अश्वासितं चासीन्महात्मना-यत्कस्यामप्यवस्थायां तेनास्मच्छङ्काः समाधा- स्यन्त इति । इत्थमवस्थायाम्, एवं स्फुटमभिहिते सत्यपि, मनोगतगोपन- मसत्यभाषणं वा न मे रोचतेस्म । मया विनीतभावेनोक्तम्---

 “अहमेकमर्थं ज्ञातुमिच्छामि, येन मम भविष्यजीवनस्य प्रगाढः सम्बन्धोऽस्ति । यदि भगवता स्वकीयस्थिरविचारशक्तिद्वारा तद्विषये यथार्थमुत्तरं दीयते, तर्ह्यहमुपकृतो भवेयम्। इदमपि च नाहं गोपयामि, यद्भगवता मम प्रश्नानां यथार्थमुत्तरं दातुं शक्यते न वेत्यपि परीक्षितु- महमिच्छामि । पर्यवसाने भगवतः कथनानुसारमेव यदि फलं घटेत, तर्हि मम महात्मनां त्रिकालदर्शित्वे विश्वासो भवेत् । यन्मम मनोगत- मासीत् तन्मया स्पष्टं कथितम् । एवं कुर्वता मया यदि धार्ष्ट्यमनुष्टि- तम्, तर्हि तत्क्षम्यतां भगवता ।"

 महात्मा मन्दं मन्दं जहास । मदागमनात्प्रभृति पथम् एवायमवसरो मम महात्मनो निर्विकारे वदने मन्दस्मितरेखादर्शनस्य । स आह “वत्स ! निश्छलं सर्वं मनोगतं स्पष्टमभिदधानं त्वां दृष्ट्वा प्रसीदामि । मम त्वेतेन महान् परितोषोऽस्ति, यत्त्वया स्वमनोगतो वास्तविको भावो न निह्न तः । किन्तु त्वयेदमूवश्यमवगन्तव्यमू, यन्मयाऽऽत्मन एकान्तजीवने मनननिदिध्यासनादिभिर्यद्यपि हिरण्यगर्भसर्गस्य बहूनि दुर्ज्ञेयानि रहस्या- ण्यवगतानि सन्ति, तथाऽपि सवोपरिष्टद्वर्तमानस्य लीलामयस्य परमा- त्मनोऽद्भुतानां लीलानां शतममप्यं शमवगन्तुमहं न पारयामि । इच्छा- शक्तिमहिम्ना सिद्धा महात्मानो यत्कर्तुं पृभवन्ति, तदहमंशतो जानामि, स्वयमपि च समुचितेऽवसरे विराडिच्छाशक्त्या सह सङ्कुचितां निजेच्छा- शक्तिं संयोजयितुं चेष्टे च । तथाऽप्येतावतैव सामर्थ्यकणलाभेन नाहमा त्मानं सिद्धं मन्ये, न च कथमपि गर्वं करोमि । भवतः पुरः परीक्षाप्रदा-

नेऽपि न ममाधिकारोऽस्ति । भगवता शतवर्षमितमेव परमायुर्मानवेभ्य:

कल्पितम्, तावत्यल्पीयसि समये यदि मानवोऽहर्निशं प्रकृतिरहस्यान्वेषणे प्र्यतेत, तर्हि तस्य रहस्यस्याल्पतमांशमप्यवगन्तुं न शक्नुयात् । इत्थमपि त्वयाऽनुयुज्यताम्, तव द्वयोः प्रश्नयोरुत्तरमहं पदास्ये । यदिं ममोद्योगोन तव किञ्चिदपि भविष्यदर्थरहस्य'विदितं भवेत्तर्हि बाढमहं प्रसीदेयम् ।"

 मया महात्मानं प्रणम्य, आवरणादुन्मोच्य त्रीणि चित्राणि महात्मनः पुरो निहृितानि । उक्तं च--“भगवन् ! दृश्यताम्, भगवान् किल मम पितृकल्पः, अतो भगवतः पुरो न मम लज्जाकरणमुचितम् नापि च किंचिन्निह्नोतुमुचितम् । अचिरादेव ममोद्वाहो भविता । प्रायः पक्षाभ्य- न्तर एव मुहूर्तनिश्चयो भवेत् । तिस्रः कन्यका मम तातेन मदर्थे विचार- योग्या इति निर्द्धारिताः । दैवज्ञैरद्याऽपि तासु कतमा निद्धरणीयेति नोपदिष्टम् । श्वः प्रातर्दैवज्ञाः स्वनिश्चयं वक्ष्यन्ति । भगवता चूित्रत्रयमिदं वीक्ष्य सविचारमभिधीयताम् आसु कतमा मे भाविनी भार्या । कस्या जीवनसूत्रं मम जीवनसूत्रेण साकं संलग्नमस्ति । विधात्रा मम भार्या भवितुं का ललना सृष्टा वर्तते” ? ।

 कुट्या एकस्मिन् कोणे एको दीपकः प्रज्वलन्नासीत् । यस्य साधारणं ज्योतिः कुटीगतं तमो दूरयितुं चेष्टते स्म । मया शनकैः स दीप अनीय महात्मनः पुरो न्यधायि । तेन तानि चित्राणि सावधानं निरीक्षितानि । मया चिन्तितं, कदाचिदसौ महात्मा वय माङ्गलशिक्षादीक्षिता नवयुवका इव सौवर्णशलाकाङ्कितमुपनेत्रमपेक्षेतेति । परन्तु ममेयं चिन्ता निम्= लाऽऽसीत् । तस्मिन् साधारणेऽपि प्रकाशे महात्मनो नयनज्योतिस्तानि चित्राणि तदधः सूक्ष्मतमाक्षरलिखितानि कन्यकानामान्यपि स्पष्टमवगन्तु मपारयत् । महात्मना क्षणं चित्राणि निरीक्ष्य तानि मम हस्ते ददताऽभि- हितम् “वत्स ! दृष्टानि मया चित्राणि, अवगतं चावगन्तव्यम्, दीपं यथास्थानं निधेहेि' इति ।

 अहं च समुच्छलता चेतसा दीपं यथास्थानं निधाय पुनर्महात्मनं समीपमागत्योपाविशम् । महात्मा जगाद् “वत्स ! अवधेहि त्वया कंथितम्, एतानि तासां तिसॄणां कन्यानां चित्राणि यासु कयाचित्तव विवाहो भवेितेति । किमेतदेव त्वया कथितमन्यद्वा किमपि ? ।

 मयोक्तम्-“इदमेवोक्तं मया भगवन्!'।

 मेघश्यामेन मम ईदृशप्रश्नकरणस्य गूढोऽभिसन्धिरवगतो वा नवेत्यहं

न जाने । बुद्धिपूर्वकमेव मयेदृशः प्रश्न उपन्यस्त आसीत् । एतासु तिसृषु

कन्यासु कया साकं परिणयः शुभो भवेदिति प्रश्नश्चेदभिष्यत्, तदा तु महात्मनस्तदुत्तरदानमतिसरलमभविष्यत् “अमुकया साकं तव विवाह: शुभ” इति । परन्तु "कृत मया सह मम विवाहो भविष्यति" इति मया पृष्टमासीत् । बाढं जटिलोऽयं प्रश्न । एतदुत्तरश्रवणोत्तरं महात्मनो मृषावादित्वमक्लेशेन समर्थयितुं सुशकम् । महात्मा स्वबुद्धिनिकषे परीक्ष्य यया. साकं मम विवाहनिश्चयं वक्ष्यति, तया सह विवाहमकृत्वैव महात्मनः सिद्धिपाखण्ड प्रकटयितं शक्यः । इत्थं च मेघश्यामोऽपि महात्मनः सिद्धिमत्वे विश्वासं त्यक्ष्यति । अयमेव ममात्रागमनस्य हेतुः । ॠजुस्वभावो मेघश्याम ईदृशेषु पाखण्डिषु विश्वसिति, स त य विश्वासो मयाऽवश्यं दूरीकरिष्यते !

 मम प्रश्नस्तु सत्यमेव महात्मान्न सम्भ्रमे पातयामास । स नेत्रे निमील्य मुहूर्तं तूष्णीमास । अथोन्मील्य चक्षुषी तेन शनैः शनैरभिहितम्– “वत्स ! त्वया प्रदर्शितचित्रासु तिसृष्वप्येतासु कन्यासु नैकाऽपि ते भार्या भविष्यतीति विधिलिखितं पश्यामि ।"

 उत्तरं श्रुत्वा चकितोऽहमभवम् । नेदृगुत्तरं मया प्रतीक्षितमासीत् । निमिषादेवात्मानं प्रकृतिस्थं विधाय सस्मितमहमवोचम्–“महात्मन् ! भवदुक्तेरभिप्रायो मया नावगतः, किं न स्मर्यते भगवता, यन्मया कथित- मासीत् । एतास्वन्यतमया: पक्षाभ्यन्तरे मम परिणयोऽवश्यं भावी, सर्वोऽपि विवाहसम्भारः सन्नद्धप्रायोऽस्तीति' । महात्मा ऽबूत– ‘वत्स ! स्पष्टार्थमेव मयोक्तम्, पुनरधिकं विशद्यामि शृणु । इतः प्रभृत्येकवर्षा- भूयन्तरे तव विवाहयोगो न दृश्यते । न च दूर्शितचित्रासु कन्यासु काऽपि ते भार्या भविष्यति । इदं हि निश्चितं विधेर्विधानम् । एतत्प्रतीपगामी प्रबलोऽपि चेत्प्रयत्नस्त्वया क्रियेत, न सफलो भविष्यति सः” ।

 यदि काऽपि विशाला शिला सहसा मम शिरस्यपतिष्यत् ततोऽप्य- धिकमाश्चर्यं ममाभूत् निशम्य महात्मनस्तथाविधमुत्तरम् । मया साश्चर्य- मभिहितम्--'भगवन् ! किं मम परिणयः पक्षाभ्यन्तरे न भविष्यति ? किं भगवता सम्यग्विचार्येदमभिधीयते ? विवाहोपस्करसम्पादनादौ यद्बहवो मम कुटुम्बिनः सम्प्रति व्याप्रियन्ते, यचात्र तैः परिश्रम्यते, किं तत्सर्वमेकपदे विफलं भवेत् ?” ।

 महात्मा दृढगम्भीरस्वरेण जगाद्–“आम्, सर्वमेकपदे व्यथे स्यात्।

मंया सम्यग्विचा कथ्यत इदम्। नाधुना ते विवाहयोगः सम्प्राप्तः” ।

 मेघश्यामस्य पुरो मया प्रतिज्ञातमासीत् यन्महात्मनः पुरः सभ्यता- मनतिक्रम्यैव वर्तेय इति । अत एव मया कथंचिदात्मानमवरुद्धय मुखाग्र- मागतोऽप्यट्टहासप्रवाहो बलान्निवर्तितः । मया मनसि चिन्तितम्-नूनं विक्षिप्त एवाय महात्मा । किमिदं सम्भवति, यदागामिनि पक्षे मम विवाहो न भवेत् । कुतो न भवेत् ? सर्वः प्रबन्धः सनद्धः । कन्यका श्रपि निश्चिताः । मुहूर्तोऽपि निश्चितप्रायः किं तर्हि प्रतिबन्धकं विवाहे ? महामनेदृशी शिरःपादरहिता भविष्यदर्था वाक्कथमभिहिता ? निश्चित- रूपेणासत्या वागियम्। मयाऽपि सयत्नमेषाऽसत्या विधास्यते । कृतक- गम्भीराकृतिर्भूत्वाऽहमवोचम् -“भगवन् ! कृपया भगवतां यथेदमभिहितम्, तथाऽन्यदपि किंचिदुच्यताम् । मम विवाहः कदा भविष्यति ? कुत्रत्या कीदृशी का च भवेन्मम भार्या ? भगवतो वचनं श्रुत्वा सत्यम- हमाश्चर्यसागरे मज्जामि । वाञ्छामि च भगवदनुग्रहेण मम विवाहविषये सर्वमपि भविष्यदर्थमवगन्तुम् !'

 महात्मना मम प्रश्नस्योत्तरं त्वरितं न प्रदत्तम् । प्रश्नं निशम्य स किञ्चित्सम्भ्रमे पतित इव लक्ष्यतेस्म । नेत्रे निमील्य क्षणं विचारयान्नासीत् । अहमेकाग्रदृशा तन्मुखं निरवर्णयम् । मेघश्याममनु दृशौ प्रेर्य मया निभालितम् यत्सोऽपि महात्मनो वदने दत्तैकाग्रदृष्टिरासीत् ।

 महात्मा मामपृच्छत्-“वत्स ! तव भाविन्या भार्याया रूपमाकृतिं चाहं वर्णयेयम्, तस्या नाम निवासस्थानं चाहं कथयेयमिति त्वमभिप्रैषि किम् ?"

 मयोक्तम्-“आम् भगवन् ! भवादृशां दिव्यदृशां सिद्धपुरुषाणां सर्वमेवाऽपरोक्षं किल । अस्माकं तु भविष्यदर्थं सर्वोऽपि तिमिराच्छन्नः प्रतीयते । भगवान् दिव्यदृशा सर्वं ज्ञातुं समथ इति पृच्छामि । यदुक्तं भगवता, तथैव ममाभिप्रायोऽस्ति ।’’

 ततः परं स महात्मा न किञ्चिदब्रूत । स्थिरासनो नासाग्रदृष्टिः सन विचारयामास । तदानीं महात्मनः शरीरमेव तत्रासीत्, मनस्तु कुत्राप्यन्यत्र विचरितुं गतमिव प्रतीयतेस्म । आवयोरेव श्वासप्रश्वासशब्दः प्रचलन्नासीत् । कुटीरस्य बहिः भगवती जह्नु तनया निःशब्दं प्रवहतिस्म । सर्वतः शान्तमासीद्वातावरणम् । महात्मानमित्थं भूतं दृष्ट्रा मम मनसि विविधा विकल्पाः प्रादुरभूवन्-“किमसौ महात्मा मम अस्य किमुत्तरं देयमिति

चिन्तयति । यद्यसौ मम प्रश्नस्य सम्यगुत्तरं दास्यति तर्हि विश्वसनीया

भवेदस्य सिद्धता । परन्तु एतत्प्रश्नोत्तरसत्यता कथं परीक्ष्येत ? उत्तरप्रथ- मांशपरीक्षा तु आगामिनि पक्ष एव भविष्यति । द्वितीयांशपरीक्षा त्वेक- वर्षानन्तरम् । यद्यनेन मम भाविन्याः पत्न्याः नामधामस्वरूपादिकं व्रक्ष्यते, तर्हि तदप्येकवर्षानन्तरं सुपरीक्षितं भवेत् । यद्येकवर्षानन्तरं महात्मन उक्तिर्वितथा प्रमाणिता भवेत्, तदाऽहं किं कुर्याम् ? तदानीं कुत्र भविष्यत्यसौ महात्मा । संसारविरक्तो महात्मा मम भाविन्याः पत्न्या रूपमाकृतिं च कथं वर्णयितुं प्रभवेदित्यपि महत्कौतुकास्पदम् । अद्याप्यसौ तूष्णीमेवास्ति । मन्ये उत्तरं कथं देयमित्येव चिन्तयति ।"

 सहसा महात्मनः शरीरं किञ्चिञ्चलितमभूत् । दीर्घः श्वासो विसृष्ट- स्तेन । मत्प्रश्नस्योत्तरमवधारितमिति प्रतीयते स्म । मामनु नयने प्रेर्यं स माह-“वत्स ! किं त्वमात्मनः प्रश्नस्य कृत्स्नमुत्तरमधिजिगमिषसि ?

 मयोक्तम्-“यदि भगवानपरिचितेऽपि मयि द्यां विधाय प्रभोत्तर- प्रदानायासं न गणयिष्यति---"

 सोऽब्रूत---“यद्येवम्, तर्हि पश्य तस्मिन् कोणे भूयानस्ति मृत्तिका- राशिः, तत एक महान्तं खण्डमादाय मत्समीपमानय’ ।

 अहं मनस्येव व्यतर्कयम्--किं करिष्यति महात्मा मृत्तिकाखण्डेन । अहं मृत्खण्डमुपानयम् । स जगाद्-"इमां त्रिपादीमात्मनः पुरः स्थापथित्वा तदुपरि मृत्खण्डं निधेहि" ।

 मया तथाऽनुष्ठाय स्वस्थाने समुपावेशि ।

 अथ महात्मा वदति स्म-"अवधेहि वत्स ! कुत्रत्या कीदृशी का च कदा ते भार्या भविष्यतीति तव प्रश्नोऽस्ति । यदि त्वं स्थिरया धिया शान्तेन चेतसा च चिन्तयितुं शक्नोषि, तर्हि सम्भवतः स्वप्रश्नस्य स्वयमेवोत्तरं दातुं प्रभविष्यसि । यतः प्रत्येकं मनुष्यः स्वेच्छाशक्तिमहिम्ना ऽद्भुतादुतान्यपि कर्माणि कर्तुं शक्रोति । आत्मशक्तेः परं किञ्चिदपि नास्ति । त्वमात्मनश्चित्तमेकाग्रं कृत्वा सावधानममुं मृत्खण्डम्पश्य, सम्भवत आत्मनो भाविन्याः पत्न्याश्चित्रमत्र द्रक्ष्यसि ।"

 "किमसौ महात्मा विक्षिप्तोऽस्ति ! मृत्खण्डे कस्याऽपि चित्रं कथमहं द्रष्टुं शक्नुयाम्' इत्यहं साश्चर्यमविश्वासपूर्णेया दृशा महात्मानमनु निरवर्णयम्।

|

 सोऽब्रूत–-“किं मृत्खण्डे कस्यापि चित्रस्य दर्शनमसम्भवि मन्यसे । त्वं मद्वचनेन ‘नायं मृत्खण्डः, किन्तु पारदर्शि काचमिद' मिति किञ्चित्कालं मन्यस्व ।"

 अहमगादिषम्--"किं भगवता परिहासः क्रियते ? मृत्खण्डं काच- त्वेन कथमहं भावयेयम्, तदन्तरे चित्रं च कथं पश्येयम्, किमीदृक कदाऽपि सम्भवति ?"

 स उवाच-“किमिति न, संसारे ऽस्मिन्नसम्भाव्यं नाम किमपि नास्ति, मानवः स्वां प्रबलामिच्छाशक्तिं यदि व्यापारयितुं नेहते तर्ह्यन्य- देतत् । त्वं मद्वचनेन तथा कर्तुं चेष्टस्व, ततो द्रक्ष्यसि फलं भवति न वेति" ।

 महात्मनः कथने गम्भीरता ऽऽसीत. अतस्तद्वचसां परिहासालाप- प्रायता न कल्पयितुं योग्या । इत्थमपि मम तद्वचने नाल्पीयानपि विश्वासो ऽभूत् । किं कुर्याम्, किं वा न कुर्याम् तद्वचांसि यथार्थानि परि- हास प्रायाणि वा ऽवगच्छेयम् । न किमपि निश्चेतुमहमपारयम्।

 पुनरभ्यधायि महात्मना–“वत्स ! त्वं स्थिरचेता भूत्वा सर्वा अपि मनोवृत्तीरस्मिन मृत्खण्ड एव सन्धेहेि। अन्यत्सर्वमस्मिन् क्षणे विस्मर । इममशान्तिमयं संसारं, यत्र त्वं संसरसि, तवेमं सखायं, इमां कुर्टी , मां च तव पुरःस्धितमस्थिमांसपिण्डं सर्वथा विस्मर । आन्तरेण कल्पनामयेन चक्षुषाऽपि मृत्खण्डमेव पश्य, भाविन्याः स्वभार्यायाश्चित्रमत्राहं दिदृक्षामीति सर्वात्मना भावय । ततो द्रक्ष्यसि किं दृश्यत इति ।”

 मया चिन्तितम्-महात्मनः कथनानुसारं प्रयतने को दोषः, यदि मया स्थिरचेतसा ध्यानपूर्वकं दृष्टेऽपि न किंचिद्दृश्यं पुरः समुपतिष्ठेत तदा ध्रुवमवधारयेयं धूर्तीऽयं महात्मेति । मत्प्रश्श्रोत्तरं दातुमपारयन्नसौ मां वचनेषु व्यामोहयतीति । मुहूर्ते महात्मनो वचसि विश्वासमाधाय किमपि कौतुकं मया ऽवश्यं द्रक्ष्यते इत्यप्यवधाय तं मृत्खण्डमनु दृष्टिं स्थिरां कृत्वा ऽहमुपाविशम् । कुटीराभ्यन्तरे सर्वथा शान्तिरासीत् । मेघश्यामो मम पाश्र्वे स्थितः सन् कदाचित् आरूढमृत्खण्डां त्रिपादिकां, कदाचिन्मां च निर्वर्णयन्नासीत्। कुट्यामागमनात्परं तेनैकोऽपि शब्दो नोच्चरित आसीत् । महात्मना सह मम संवादे कौतूहलमनुभवता तेन मध्ये किमपि कथनमनुचितमिव विभावितं भवेत् । महात्मना च स्थिरया

दशा मामेव पश्यन्नासीत्, तदानीं तस्य नयनाभ्यां क्षणे क्षणे किमपि

विद्युद्विलसितनिभं तेजः प्रकटीभवल्लक्ष्यते स्म । अहं किल महात्मन आदेशानुसारं तस्मिन् मृत्खण्डे चित्तं स्थिरीकर्तुं सर्वभावेन चेष्टामकरवम्। अत्रान्तरे समयः कथमतीयायेति नाहं विस्पष्टमवागच्छम् । शनैः शनै: कुटीराभ्यन्तरे गाढं तमः प्रसृतमिव प्रतीतम्, दीपज्योतिरपि लुप्तमभूत् । अन्तर्बहिः सर्वत्र काऽपि विचित्रा पूर्वाननुभूता स्तिमितता लक्ष्यतेस्म । यथा यथा मम चित्तमेकाग्रं बभूव तथा तथा मम हृत्स्पन्दनमपि मन्द- मन्दं बभूवेव । अथ कयाऽपि प्रबलया शक्त्या मम चेतसि "सिद्धोऽयं महात्मा स्वेच्छाशक्तिमहिम्ना मम पुरः किमप्यद्भुतं दृश्यमवश्यमुपस्था- पयिष्यति” इति विश्वासो दृढमाहित इव । सहसा मया तस्मिन् मृत्खण्डे किमपि परिवर्तनमनुभूतम् । महात्मनः कथनानुसारमेव तस्य मृत्खण्डस्य पारदर्शककाचवात्मना शनैः शनैः परिणतिरनुभूयते स्म । यावदहं मन्त्र- मुग्ध इव कौतुकमिदं पश्यन् “किमसौ मे दृग् भ्रमः" इति वितर्कयामि, तावदेव मया दष्टम् स मृत्खण्डः काप्यन्तर्हित आसीत् तत्स्थाने तावदा- कार एकः काचगोलः पुरः स्थितः । अन्तर्निर्मले तस्मिन् तदाधार- त्रिपादिकाकाष्ठमालिन्यमपि प्रतिफलितं व्यलोकि । किं मम नयने मां वञ्चयतः, विकृतं वा मे शिरः, यदहं वस्तूनि विकृतानि पश्यामि । सकृ न्नयने निमील्य पुनरुन्मील्य च दृष्टम्, तदेव दृश्यम् । चिन्तितं च–“किं स महात्मा मम सखा मेघश्यामश्चेमं मृत्खण्डमहमिव काचगोलं पश्यतो वा ” परन्तु चेष्टमानेनापि मया तयोर्मुखावलोकनार्थं नयने प्रेरितुं न पारितम् । काचगोलान्नयने अपसारयितुं न मे शक्तिरासीत् । कापि प्रबला शक्तिर्मम नयने काचगोलादपसारयितुं न ददातिस्म । तस्मा- त्काचगोलात्किमपि पीताभं मन्दमन्दं ज्योतिरपि निःसरत्प्रतीतम् । येन स काचगोलस्तदन्तर्गतं च दृश्यमेव केवलं प्रकाशितं भवेत् तथाविधं मन्दं ज्योतिस्तदासीत् । सहसा मया चिन्तितम्-“नूनमिदमिन्द्रजालम् , ऐन्द्रजालिकोऽयं महात्मा मां वञ्चयितुं चेष्टते । उच्चैरुद्घोष्य बाढमस्य पाखण्डमहं प्रकटयेयम् ।” इत्थं विचिन्त्य उच्चैरुद्घोषयितुं चेष्टमानस्य मे कण्ठनलिका केनाऽप्यवरुद्धेव जाता । नैकोऽपि शब्दः कण्ठाद्बहिरुद्गच्छ- तिस्म । बलादिव केनापि प्रेरिता मम दृक्शक्तिश्चिन्ताशक्तिश्च पुनरपि तस्मिन काचगोले एव दृढमेकाग्रतामगाहतं । निमेषानन्तरमपश्यम्- तत्र काचगोलाभ्यन्तरे धूम इव समुद्गच्छतिस्म । स एव धूमस्तदन- न्तरं विशालकुट्टिमात्मतां गृहस्वरूपं च दधार । यथा कश्चिच्चलचित्रपटेषु

विविधानि दृश्यानि स्पष्टं पश्यति, तथैवाहं तत्र कस्यापि धूमशकटीविश्रा

मस्थलस्य (रेलवे स्टेशन) स्पष्टं चित्रमवालोकयम्। विशाला धूमशकटी पुरःस्थिताऽस्ति । यात्रिण श्रारोहन्ति, अवरोहन्ति च । भारवाहका इत स्ततो धावन्ति । एकतः पंक्तिशः प्रकोष्ठा दृश्यन्ते । किञ्चिदन्तरं गत्वा पंक्त्यन्तरगामी सेतूरस्ति । किमभिधानमिदं धूमशकटीविश्रामस्थलम् ? अपरिचितमिव प्रतीयते । नूनं न दृष्टपूर्वं मयेदम्, अतो न स्मर्यते । चल- च्चित्रपट इवात्रापि सर्वं स्पष्टं लक्ष्यते ।

 अहं चकित इव भीत इव विक्षिप्त इव च निरुद्धनिःश्वासं यावदिदं दृश्यं पश्यामि, तावदेवैकस्यास्तरुण्याश्चलच्चित्रं पुरः समुपस्थितम् । यथा यथा सा तरुणी पुरः समुपसर्पति, तथा तथा तचित्रं स्पष्टतरं भवति । षोडशहायनावस्थायास्तस्यास्तरुण्याः शरीरे पीतवर्णा महार्घा शाटी, तदु- पंरि सूक्ष्मतरं श्वेतवर्णमुपरिधानीय च विराजते । हंसगतेस्तस्या गमन- सौष्ठवं सौकुमार्यातिशयं पुष्णाति । तस्या वदने विलसन्ती-मुग्धता, विशाले मदिरे च तदीक्षणे, रसाप्लुतः संवर्तिकारुणो बिम्बाधरः, शुकच- ञ्चुनिभा नासा, तप्तकार्तस्वरविजित्वरी देहद्युतिश्च मां सविशेषमाचकर्ष। ईदृशी सुन्दरी न मया दृष्टपूर्वा ऽऽसीत् । दर्शनं तु दूरे ईदशरूपवर्णन मपि न मया कुत्रापि पठितमाकर्णितं च । भूतलवृत्तमवगन्तुमागता काऽपि सुरसुन्दरीव सा प्रतीयतेस्म । अहं तु तदानीं सर्वमप्यन्यत्-तां कुटीं, तं महात्मानं, तत्प्रसादान्मया मृत्तिकाखण्डे दृश्यमानं चित्रं धूम- शकटीविश्रामधामादि सर्वमेकपदे विस्मृत्य तामेव सुन्दरीं पश्यन्नासम् । किमीदृशं सौन्दर्यं मर्त्यलोके सम्भवति ? अथवा महात्मन इच्छाशक्ति- सम्भूता सेयं रूपसम्पत् ? किमेषा ममू भार्याः भवेत् ? किमीदृशं मम सौभाग्यमस्ति ? मम तातेन मदर्थं पूर्वं निश्चितास्तिस्रः कन्याः किला- ऽस्याः पद्धूलितुलनामपि कर्तु नेशते । किं वात्र प्रमाणम्, यदेषा सुन्दरी मया लब्धुं शक्येत । मन्ये विकृतं मे शिरः । अहं किंकर्तव्यविमढ इवं यावात्तं सुन्दरीं पश्यन्नित्थं विचिन्तयामि, तावदेव सहसा सा ऽन्तर्दधे । अहमितस्ततो दत्तदृष्टिस्तामन्वेषयामि यावत्, तावत्स विशालः कुट्टिमः, ते प्रकोष्ठाः सा धूमशकटीत्यादि सकलमपि तद्दृश्यमव्यक्तच्छायं भव- च्छनैः शनैरन्तर्दधे । यथा कश्चिदालेख्यलेखकः स्वयं निर्मितं चित्रमप्री- तिकरं मत्वा श्वेतवर्णतूलिकया तदृशेषं विलोपयति , तथैव तत्सर्वं दृश्य- मन्तर्हितम् अभ्रखण्डानीवेतस्ततो धूमपुञ्जः केवल ददृशे, सोऽपि शनैः शनैरन्तर्हितः, केवलं काचगोलोऽवशिष्टः, निमेषानन्तरं पूर्ववदेव मृत्खण्ड

एव दृग्गोचरोऽभूत् ।

 अहं हि निसर्गतो निर्भीको हृष्टपुष्टसर्वाङ्गो युवाऽपि तत्क्षणं कम्प- मानसर्वाङ्गः केनापि भयेनाभिभूयमान आसमिति कथनं यद्यपि लज्जा- स्पदम्, तथाऽपि सर्वथा सत्यम् । उच्चैराक्रोश्य इन्द्रजालमयात्तस्मा- त्कुटीरात् तत्क्षणं पलायितुमिच्छन्नपि गिरः शरीरस्य चाऽप्रभुतामनुभूय न किंचिदपि कर्तुमपारयम् ।

 शनैः शनैर्मम शरीरे चलनशक्तिः प्रत्यावृत्तेव प्रतीयतेस्म । कथं- चिन्नेत्रे उन्नमय्य यावत्कुट्यां पश्यामि, तावत् सर्वत्र गाढं तमः प्रसृतं प्रतीतम् । निमेषानन्तरं कुटीकोणे निर्वाणप्रायस्य दीपस्य ज्योतिरमा- वास्यानिशि प्रकाशमानमेकनक्षत्रमिव सुदूरव्यवहितं विभातिस्म । महात्मनः पुरः प्रज्वलतोऽग्निकुण्डस्य मन्देन तेजसा महात्मनः शरीरम- प्यस्पष्टं लक्षितम् । पाश्र्वे उपविशन् मेघश्यामस्तु चित्रलिखित इव तूष्णी- मासीत् । कशाऽभिहत इव सद्यः प्रकृतिस्थो ऽहमभवम् ।

((gap}} यथा कश्चित् सुखस्वप्नं दृष्ट्राऽकस्माज्जागर्ति, तस्येव मम दशाऽभूत् । शनैः शनैर्मम सर्वाः शक्तयः परावृत्तः । “वत्स ! निर्वाणोन्मुखे दीपेतैलं देहि' इति महात्मनो गभीरा वाक् श्रवणपथमुपगता । तदाकर्ण्य मेघश्यामः सुप्तोस्थित इव गत्वा दीपे तैललं ददौ । तैलनिषेकालब्धबलो दीपः कुटीगतेन तमसा योद्धुमारभत । प्रकाशाऽभूत्कुटी । मया दृष्टम्, महात्मा तथैव गम्भीरनिर्विकाराकृति यथास्थानं स्थितोऽस्ति । मया कम्पमानगिरा पृष्टम्–“भगवन् ! केयं लीला ? कीदृशोऽयमदुतो व्यापारः, यद्दृश्यं मया दृष्टम्, तत्किमंशतोऽपि सत्यम् ? उत विकारविलसितम् ? कथ्यतां भगवता । छेिद्यतां त्वरितमसौ मम संशयः” ।

 महात्मा सस्मितं जगाद्–“वत्स ! यत्त्वया दृष्टम्, तत्सर्वथा सत्यमेव यत्त्वया द्रष्टुमिष्टम् , यcच पृष्टम्, “कीदृशीं भार्यामहं कुत्र लभेय” इति मया तस्यैवोत्तरं दत्तम् । अपि सम्पन्नस्ते सन्तोषः ?"

 अहमवदम्–“सन्तोषः, न हि भगवन् ! भूयानसन्तोषो मयाऽधि- गतः, पूर्वापेक्षया शतगुणिता मे चिन्ता संजाता । इदमभिधीयतां भग- वता-कुतः सर्वमिदं सम्पन्नम् ? ईदृकू चित्रं मया कथं द्रष्टुं पारितम्, यत्र सर्वाणि पात्राणि जीवन्तीव चेष्टन्तेस्म । किमीदृग्विधमिन्द्रजालं सम्भवति ?"

 महात्मा स्थिरगिरा बभाषे–“कुतो न सम्भवति ? न सम्भवति चेत्

कथं दृष्टवानसि । मया पूर्वमेवोक्तमासीत् यदिच्छाशक्तिमहिन्ना सर्वमपि

सम्भवतीति । तदेव इच्छाशक्तिमाहात्म्यं मया तुभ्यं प्रदर्शितम् । अलम, नातः परं तव कोऽप्यर्थः । अहमधुना विश्रान्तिमिच्छामि ।"

 मया प्राऽञ्जलिना सविनयमभिहितम्-“भगवन् ! बाढमुपकृत भग- वता । भगवतः प्रसादादेव इममद्भुतं व्यापारं द्रष्टुमहमपारयम् । इदमेकमे वापरमहमत्र बोद्धुच्छामि, मया तदानीं यद् धूमशकटीविश्रामधाम दृष्टम् यत्र धूमशकटी स्थिरा ऽऽसीत् किं नामधेयं तत् ?"

 महात्मा ऽगादीत्-“वत्स ! नातः परं किंचिदप्यहं विवक्षामि, तव प्रार्थनया यावन्मया कथितं, दर्शितं च तावदेव बहु मन्यस्व । कदाचि- न्ममैतेन व्यापारेण जगन्नियन्तुः संसारचक्रगतेः किञ्चित् प्रयोजनं सम्पा- दितं स्यात्, यदिदमेतावन्मया त्वदर्थं प्रयतितम्, तदपि तव मित्रस्य मेघ- श्यामस्य कारणात् । मेघश्याम ! मया नाद्य यावत् ते कथितम् अद्य प्रातर्यदा त्वमत्रागतः, तदा वदतस्तव मुखात्तव पितुर्नाम श्रुत्वा त्वामहं विज्ञातवान् । तव पिता किल बाल्ये मम सतीर्थ्य आसीत् । आवां पूज्यपादस्य रुक्माङ्गदाचार्यस्य गुरोः पाठशालायां सहैव वेदाभ्यासम करवाव । तव पिता तु गुरुगृहादुपावर्त्य गार्हस्थ्यमाचरत् । अहं हि शाश्वते ब्रह्मणि स्थित्वा गुरोरादेशमनुसरन् तीर्थाटनं करोमि । द्वादश वत्सरेभ्यः पूर्वं यदाहमत्रागमम् तदा तव पिता अष्टवर्षावस्थेन त्वया सह मां द्रष्टुमागत आसीत् । अस्तु । तव सन्तोषायैव मयाऽस्य तव मित्रस्य प्रश्नानामुत्तराणि दत्तानि, दर्शितं च यत्तेन द्रष्टुमिष्टम्” ।

 मेघश्यामः प्रणम्य बभाषे–“भगवन् ! न मम विदितमासीत् स्वर्गवासिना मम तातेन सह भगवतः सौहार्दम् । मम तातः कदाचिद्वा- ताप्रसङ्गे स्वसतीर्थ्यस्य कस्यापि महानन्दब्रह्मचारिणो विषये ऽद्भुतादद्भुत- मितिवृतं कथयतिस्म, किं तद्भगवन्तमधिकृत्यैव भवेत् ?”

 महात्मा सस्मितमभाषत-“हुम् , अलमनया प्रसक्तानुप्रसक्तया कथया । अस्ति वा किमप्यन्यत् ते प्रष्टव्यम् ?"

 मेघश्यामः पुनरब्रूत “भगवन् ! भवन्तं दृष्टा सुरलोकान्प्रत्यावृत्तं पितरमहं पश्यामीव । भगवद्नुग्रहान्न किञ्चिदपि मे न्यूनम् । धर्मे मम मतिः स्थिराऽस्त्वित्येव मे प्रार्थनीयम् । अयं मम सखा ललितकुमारः क्वापि न विश्वसिति, धर्मकर्मादिकं सर्वमाप पाखण्डं मन्यते ! प्राय: प्रत्यहं मया सह विवदते । मां च मूर्खं भणति । भगवताऽस्य संशयं छित्वा बहूपकृतम् । चेत्कापि सेवा, समादिश्येत भगवता, नूनमात्मानं

धन्यं मन्येय । श्वः पुनर्भगवतो दर्शनं भविष्यति ?"

 महात्माऽब्रूत-“मम हि सर्वमप्यनिश्चितमेव, कदाचित् श्व एवेतः प्रस्थास्ये । परन्तु युवाभ्यामितः परमत्र नागन्तव्यम् न चैतर्हि दृष्टस्याद्भुतव्यापारस्य विषये क्वापि चर्चा विधेया । एष वृत्तान्तः परेषां कर्णे गतो न मे रोचेत । श्रुत्वाऽपीत्थंविधं वृत्तमश्रद्धालवः परिहासं वितन्वते । अतो ऽश्रद्धालुभ्यो बाढं गोपनीयोऽयं विषयः । अलम्, सम्प्रति युवां गच्छतम् । मङ्गलमयो महेश्वरो युवयोर्मङ्गलं करोतु । इहागतयोर्युवयोर्भूयान् विलम्बो जातः ।”

 अथ महात्मानं साष्टाङ्गं प्रणम्य आवां कुटीराद्बहिरागच्छाव । स्तोकं मार्गमतिक्रम्य मया मेघश्यामो ऽप्राक्षि-“कथय, सखे ! यत्किञ्चिद् दृष्टं तत्र, तद्विषये कीदृगभिप्रैषि” ?

 मेघश्याम उवाच–“मया तु नैव किमपि दृष्टम्, किमहं कथयेयम् ?”

 मया साश्चर्यमभिहितम्-“अरे ! त्वं परिहससि किम् ? तत् धूमशकटीविश्रामधाम दृश्यम, सा च पीताभां शाटीं वसाना युवतिश्च किं त्वया न दृष्टा ?”

 मेघश्यामो गभीरभावेनावदत्–“सत्यमहं वदामि, अहं तव पार्श्र्व एवोपाविशम् मम तु तस्मिन् मन्दप्रकाशे त्रिपादिकावस्थापितं मृत्खण्डं विहाय नान्यत्किमपि दृक्पथमुपगतम् । त्वमेव कथय, किं त्वया दृष्टम् अहमपि तच्छृणुयाम् । तत्र महात्मनः सन्निधौ त्वां किमपि नाप्राक्षम्”

 मया यद्यत्तत्र समवालोकि, तत्तदशेषं मेघश्यामाय सविस्तरं कथितम् । आकर्ण्य सोऽवदत्-“महात्मन एवायं महिमा, तस्यैव कृपया त्वं तद् द्रष्टुमशक्रोः, त्वयाऽवलोकिते दृश्ये सत्यमेव किं सर्वाण्यपि पात्राणि जीवन्तीव चेष्टमानान्यासन्, अथवा तव केवलं सदृग्भ्रमएवा ऽऽसीत् ?”

 मया सनिर्द्धारमुक्तम्-“सर्वाण्यपि पात्राणि जीवन्ति चेष्टमानानि दृष्टानि नात्र संशयावकाशः । सा तरुणी त्वतीवाश्चर्यारपदमासीत् । अहं हि यावज्जीवं तत्स्वरूपं विस्मर्तुं न शक्ष्यामि । अपूर्वं तत्सौन्दर्यम्, अहं बाढं विचारयन्नपि नावगच्छामि, कथमित्थं मया द्रष्टुमपारेि ? महात्मना च केन बलेन तस्मिन् मृत्खण्डे विचित्रं तन्नाटकं प्रदर्शितम् ? अहं मन्ये, स महात्मा सम्भवतः किंचित् 'मेस्मेरिजम’ नामिकां त्राटकविद्यामपि जानाति, तन्मायायामेवाहमपतम्।”

 मेघश्यामो ऽभ्यधात्–“पुनरारूढा संशयपिशाचिका त्वाम् बलवान् खलु संस्कारः, महात्मनो योगशक्तेरीदृशं लोकातिगं चमत्कारं दृष्ट्वाऽपि त्वं कथयसि, स “मेसमेरिजम” नामक त्राटकविद्यां जानातीति । अस्तु स किमपि जानातु न वा, अल्पैरेवाहोभिस्तस्य कथनं सत्यमसत्यं वेति ज्ञास्यसि ।”

  अहमवदम्-“हुम्, सत्यमिदम्, दशपञ्चदिनैरेव तस्यैकं कथनं मृषेति प्रमाणीकृतं भवेदेव ” । तेनोक्तम्-अधुना ते विवाहयोगो नास्तीति, तदपि विवाहे सम्पन्ने वितथं भवेदेव । तदानीं तद् दृश्यं मया सत्यमित्येवावगतम् । परन्तु सम्प्रति सा तस्य मायाविनो मायैवासीदिति चिन्तयामि । कस्यापि पुरः स्वमायाबलेन काल्पनिकं चित्रमेकमुपस्थापयितुं स समर्थोऽस्तीत्यहं मन्ये । परं तु तेन प्रदर्शितं चित्रं सत्यमस्ति, भविष्यज्जीवनेन सह तस्यास्ति सम्बन्ध इति तु नाहं विश्वसिमि । दशपञ्चदिनैरेव तस्य वचसां सत्यत्वमसत्यत्वं वा स्वयमेव ज्ञातं भवेत् । तस्य सिद्धत्वं त्रिकालदर्शित्वं महात्मत्वं च समय एव समर्थयिष्यति । तस्मिन् पुरुषे वर्तते कोऽपि विशेषगुण इति तु स्वीकरोमि ।”

  मेघश्यामो ऽब्रूत- “वरम्, भवता एतावदपि स्वीकृतम्, कदाचित्समय इतोऽप्यधिकं त्वत्तः स्वीकारयिष्यति ।”

 अहं गृहं प्रत्यागमम् । रात्रेर्द्वितीयप्रहर आसीत् । तदानीमपि गृहे सर्वेऽपि विवाहप्रबन्धव्यग्रा जाग्रतिस्म । दैवज्ञैर्निर्णयः श्रावितः । निर्द्धारितायाः कन्यायाः पिताऽपि सूचित आसीत् । शीघ्रातिशीघ्रं प्रथमे मुहूर्त एव विवाहो भवत्विति सर्वेषां मनीषा ऽऽसीत् । मम महात्मनः सन्निधौ गमनम्, तत्र विचित्रदृश्यदर्शनमित्यादिकं किमपि गृहे कस्यापि न कथितम् । तस्मिन् दृश्ये दृष्टां तां तरुणीमेव चिन्तयन्नहं शयनार्थं पर्यङ्कमुपारुहम् । शनैः शनैर्निद्राऽधीनोऽभवम्।

( ४ )

 महति प्रत्यूष एव कस्यापि रटितमाकर्ण्य मम निद्रा भग्ना । “ललित ! ललित ! उतिष्ठ वत्स ! ” अहमुत्थाय पर्यङ्के समुपाविशम् । समीपे स्थितां जननीं चापश्यम् । मया पृष्टम्-“किमम्ब ! किमस्ति ?

 सा जगाद- “वत्स ! तन्त्रीसन्देशवाहकः समागतः, हस्ताक्षरं कृत्वा सन्देशपत्रं गृहाण। ”

 तन्त्रीसन्देशः ! कीदृशस्तन्त्रीसन्देशः ! कुतः समायातः ? केन प्रेषितः ? श्रुत्वैव सम्भ्रमे पतितं हृदयम्। आशङ्कया कृतमास्पदम् । सद्यो महात्मनो वचनं मे स्मृतिपथमायातम् । तेन हि कथितमासीत् –“कृतेऽपि प्रबले समुद्योगे न भवेत्ते विवाहः यतस्तस्यावसरो नाधुना प्राप्तः” इति । तत्किमेष-तन्त्रीसन्देशः किमपि विघ्नरूपं धृत्वा समागतः ?

  इत्थं स्वमनो दौर्बल्यं कलयित्वा ऽहमहसम् । स्वमनोभावान् गोपायन्नेव मातरं पृष्टवांश्च-“किं मातः ! तातो गृहे नास्ति किम् ?”

  साऽब्रवीत्-“नहि वत्स ! महति प्रत्यूषे त्वय्यनुत्थिते एव विवाह मुहूर्तविषये समालपितुं ते दैवज्ञसमीपं गताः सन्ति ।”

  अहमुत्थाय बहिरागमम् । हस्ताक्षरं कृत्वा तन्त्रीसन्देशमादाया ऽवाच यम् । तत्र लिखितमासीत् -

  “पिता गतदिनमारभ्य सविशेषं रुग्णोऽस्ति, रोगमुक्तेराशा नास्त्येव सन्देशं प्राप्यैव त्वरितमागम्यताम् ”

कुबेरप्रसादः ।

  स तन्त्रीसन्देशो मन्नाम्न्ना मम स्वामिनः कर्णपुरवस्त्रयन्त्रालयाध्यक्षस्य धनपतिप्रसादस्य पुत्रेण कुबेरप्रसादेन प्रेषित आसीत् । श्रेष्ठिनो धनपतिप्रसादस्य किमकस्मात्सञ्जातम् ? यदाहं मासिकमवकाशमाप्य ततः प्रातिष्ठे, तदा हृष्टपुष्टो नीरोग आसीन्मम स्वामी उक्तं चासीत्तेन - “ललितकुमार ! यावच्छक्यं शीघ्रमेव परावर्तस्व जानाम्येव नास्ति त्वामृते ऽन्योऽत्र यन्त्रविशेषज्ञ इति । यान्त्रिकी दुर्घटना वा काचित्सञ्जाता ? कस्मिन्नप्यसाध्ये व्याधौ वा ग्रस्तो मम स्वामी ?

  इत्थं विचिन्तयन् शिरोविन्यस्तहस्तोऽहं तत्रैव क्षणमतिष्ठम् । मम स्वामिनो धनपतिप्रसादस्य सौजन्यमनुजीविवत्सलतां दयालुतां गभीरतां कार्यकौशलं शिष्टतां च चिन्तयतो मम नेत्रे बाष्पपूरमवर्षताम् । मां चिरयन्तं वीक्ष्य प्रतीक्षमाणा मे माताऽभ्यन्तरप्रकोष्ठादेव मामुच्चैः प्रपच्छ - “ वत्स ! केन प्रेषितो वैद्युतः सन्देशः ? कुतो वा समागतः ?” अहं गद्गदस्वरेणोत्तरितवान्-“मातः ! अहमभ्यन्तरमागच्छाम्येव ।” अहमात्मानमवष्टभ्य मातुः समीपं गत्वा तस्यै तन्त्रीसान्देशवृत्तं सर्वं न्यवेदयम् । सा साश्चर्यं सचिन्तं च जगाद्-“इदमनवसरं घोरमनिष्टमुपस्थितम्, त्वं त्विदानीं तत्र गन्तुं नार्हसि कमपरं तत्र प्रेषयिष्यसि !” मयोक्तम्- ‘ममैव स्वयं तत्र गन्तुमत्यन्तमावश्यकम् । यन्त्रालये मां स्वामिनं च विहाय नास्ति कोऽपि विशेषज्ञः, अन्येन केनापि तत्र गत्वा किं साधयिष्यते ? किं च स्वामिपुत्रेण कुबेरप्रसादेन चाहमेव तत्राऽऽहूतोस्मि।” माताऽब्रूत-“तर्ह्यत्र किं भवेत् ? विवाहप्रबन्धः सर्वोऽपि सिद्धोऽस्ति,निश्चिते मुहूर्ते न चेद्विवाहः सम्पद्येत, वयमत्र मुखं दर्शयितुं न शक्ष्याम । तव गमनं बाढमावश्यकं चेद्विवाहानन्तरं चतुर्थेऽहनि गमिष्यसि ।”

 मयोक्तम्—“अम्ब ! यथा त्वमादिशसि तथैव चेत्कर्तुं शक्नुयाम् , बाढं प्रमोदेय, परन्तु विचारय, तन्त्रीसन्देशे लिखितमस्ति, “मम स्वामी सातिशयं रुग्णोऽस्ति, रोगमुक्तेराशा नास्ति” इति । इत्थगते व्यतिकरे विवाहार्थमत्रावस्थानं मम शोभेत किम्, यस्य स्वामिनो मयाऽद्य यावल्लवणं खादितम्, मृत्युशय्यां गतेन तेनाऽऽहूतोऽहंचेद्विलम्बेय, उभयलोकभ्रष्टो भवेयम् । त्वमेवेत्थं सकलं विचार्य समुचितं समादिश मे कर्तव्यम् ।” माता तूष्णीमास । किं वा सा भणेत् ? तूष्णीं स्थिताया अपि तस्या वदनविकारैर्मया तन्मनोगतमवगतम् । सा किल चिरान्मम विवाहविषये प्रयतमानाऽऽसीत् । एतावत्पर्यन्तमहमेव विवाहप्रतिबन्धको ऽभूवम् । अथ कथं चिन्मयाऽभ्युपगते विवाहप्रस्तावे सज्जे च सकले सम्भारे इदमपरमतर्कितं प्रबलं प्रतिबन्धकमुपस्थितम् । तस्या अक्ष्णोरश्रूण्युपस्थितानि । अहं कथंचित् हृदयमवष्टभ्य स्वकीयं पूकोष्ठमुपागाम् । तत्र आरामवेत्रासनेऽर्द्धशयानो व्यचिन्तयम् - “पश्यत, कथमाकस्मिकी दुःखदेयं घटना समुपस्थिता। मुहूर्तात्पूर्वं मया इदमित्थं भावीति स्वप्नेऽपि न चिन्तितमासीत् । मेघश्यामेन सह केवलं कौतुकबुद्धया तस्य महात्मनः सन्निधिमुपगम्य यत्तस्माच्छ्रुतम्, तदिदानीं सत्यमिव प्रतीयते । नून तस्मिन्नस्ति कापि विशेषशक्तिः । किमहं तं पुनरुपगम्य मम स्वामिनो विषये पृच्छेयम् । परन्तु तेन पुनर्दर्शनं निषिद्धमस्ति । किं कुर्याम् ?”

 अत्रान्तरे तातेनागतस्य सर्वोऽप्युदन्तः श्रुतः । मम स्वामिना धनपतिप्रसादेन सह तातस्य चिरन्तन सौहार्दमासीत् । स्वामिनो रुग्णतावृत्तान्तेन तातस्य चित्तं परं व्यथितं बभूव । तेन विधूय मोहं, विवाहसम्भारव्यर्थतामप्यविचिन्त्य स्पष्टमेवाहमभिहितः-“वत्स ! ललित ! त्वं जानास्येव, यद्विगतमासद्वयात्प्रभृति तव विवाहविषये प्रयत्यते, पर्याप्तमत्र धावितं परिश्रान्तं च, द्रव्यमपि पुष्कलं व्ययीकृतम् । किञ्च तव माता तव विवाहविषये कीदृगुत्कण्ठितास्तीत्यपि तव नाविदितम् । अस्मिन्वा वारे तच्छुभकर्माऽकृत्वा सा न तूष्णीं स्थास्यति । इत्थमपि तव कर्तव्यमप्यहं वेद्मि । यदि त्वं साम्पतं विवाहविचारं परित्यज्य कर्णपुरं जिगमिषसि तर्हि नाहं त्वां प्रतिरोद्धुं शक्नोमि ।”  मयोक्तम्-“तात ! विवाहस्तु यदा कदाऽपि भवितुं शक्नोति, परंतु मृत्युशय्यां गतो मनुज शुभाशुभकार्यं न प्रतीक्षते । ईश्वरो येन पथा चालयति तेनैव पथा गन्तव्यं भवति । यद्यस्मिन्नवसरे नाहं तत्र गच्छेयम् तर्हि कर्तव्यभ्रष्टो भवेयम्, कदाचिदाजीविकामपि हापयेयं च”।

 तातोऽब्रूत–“एवं तर्हि त्वरितं गम्यताम् । मध्याह्नोत्तरगामिना धूमशकटेन गन्तुमर्हसि । तत्र गत्वैवाखिलमुदन्तं मे सूचय । यदि श्रेष्ठिन आरोग्यलाभो भवेत्तर्हि वरमेव, त्वरितमेव ततः प्रत्यागमिष्यति सः । यद्यन्यथा भवेत्तर्हि तदपि सकलं सूचय ।”

 तस्मिन्नेव दिनेऽहं कर्णपुरं प्रातिष्ठे । यन्त्रालयप्रधानकार्यालयं गत्वैव सर्वं वृत्तमवगतम् । श्रेष्ठी धनपतिप्रसादः कमप्यागन्तुकं सुहृदं यन्त्रालयं दर्शयन्नेव दुर्भाग्यादनवधानतया प्रचलति यन्त्रे पतितः, यद्यपि तत्कालमेव यन्त्रगतिर्न्यरुद्ध्यत, तथाऽपि यन्त्राग्रकरपत्रैस्तस्य द्वावपि चरणौ विच्छिन्नौ । वैद्यैर्जीविताशा परित्यक्ता, श्रेष्ठिनं मां च विहाय न कोपि यन्त्रविशेषज्ञ आसीदित्यग्रिमकार्यनिर्वाहाय श्रेष्ठिपुत्रेणाहं तन्त्रीसन्देशद्वारा समाहूतः । सर्वोऽप्ययं वृत्तान्तो मया ताताय निवेदितः, इदं चापरं लिखितम् , यन्मम शीघ्रं प्रत्यावर्तनं न सम्भवेत् । एकादशदिनानि यावन्मम स्वामी जीवननिधनयोरन्तर्लम्बमान आसीत् ।यावन्मानवबुद्धेर्बलमस्ति विज्ञानेन च यावन्त उपाया आविष्कृताः सन्ति, ते सर्वेऽपि कुबेरकल्पेन कुबेरप्रसादेन निजपितु कृते प्रयोजिता । पानीयमिव द्रव्यं प्रवाहितम् । मृत्युमुखात्तमाच्छेत्तुं काऽपि चेष्टा नावशेषिता । परन्तु दुर्भाग्यं सर्वोपरिष्टादासीत् । द्वादशे दिवसे श्रेष्ठिनः प्राणाः प्रतस्थिरे।

 ततः परं कतिपयदिनानि महता सङ्कटेनातिवाहितानि । कियन्तः कीदृशाः प्रबन्धाः कर्तुमापतिता इत्यादि वर्णनमनुपयुक्तमिति न करोमि । पायः सार्द्धमासात्मकः कालस्तस्मिन्नेव सम्भ्रमेऽतिक्रान्तः । श्रेष्ठिपुत्रो निसर्गतश्चतुर आसीत् । पितरि जीवत्येव तेन कार्यालयस्य बहुलः कार्यभारः स्वायत्तीकृत आसीत् । अथेदानीं मम मन्त्रणानुसारेण तेन सर्वोऽपि प्रबन्ध आमूलान्नवीकृत । अहं च प्रधानाध्यक्षपदे नियुक्तः ।

 अत्रान्तरे मया काश्यां न गतम् । तातस्य तु प्रतिसप्ताहं कुशलपत्राण्यायान्तिस्मैव । मेघश्यामस्य पत्रेण मयाऽवगतम् , यन्मदर्थं निर्द्धारितस्य कन्यात्रयस्याप्यन्यत्र विवाहः संवृत्त इति । न च तेन मम स्वल्पोऽपि विषादः समजनि । मेघश्यामेन स्वपत्रे इदं चान्यल्लिखितमासीत्, यन्मम माता मम विवाहार्थं पुनरपि सर्वात्मना प्रयतमानाऽस्तीति । वर्षानन्तरमागामिनि प्रथमे विवाहमुहूर्त एव मम विवाहस्तयाऽवश्यं कर्तव्यत्वेन निर्द्धरित इति च ।

 महात्मनः कुट्यां मेघश्यामेन सह गमनम्, तत्र महात्मनः प्रभावादद्भुतदृश्यावलोकनं च नाहं व्यस्मार्षम् । न च विस्मर्तुमपारयम् । केवलं कौतुकेनैव मया तदानीं तत्र गतमासीत् । अविश्वासेनैव तदुक्तमाकर्णेितम् । परन्तु यतः प्रभृति महात्मन उक्तिषु एकस्यांशस्य सत्यता बाढमनुभूता, ततः प्रभृति महात्मनो विषये मम हृदये काऽपि श्रद्धा समुद्भूत् । ईदृशाः सिद्धपुरुषाः प्रविरला एव दृश्यन्तेऽस्मिन् संसारे । सौभाग्येनैव तथाविधानां समागमो भवति, सांसारिकेष्वपि विरला एव तथाविधान् सिद्धान् परिचिन्वन्ति। ते हि अकस्मादेव कुतोऽप्याविर्भवन्ति, अकस्मादेव च कुत्रापि प्रगाढे तमसि निलीयन्ते । स गङ्गातटवासी महात्मा इदानीं कुत्राऽस्तीति को वेद ? एवं वर्षानन्तरं या कन्यया सह मम विवाहस्य भावित्वं तेनोक्तमासीत् तत्सत्यं भवेन्नवेत्यनुभवितुं बाढमासीन्ममोत्कण्ठा। तस्य कुटीरे काचतामापन्ने तस्मिन् मृत्खण्डे यद् दृश्यं मया दृष्टमासीत्, जीवन्त इव चेष्टमाना ये वाऽऽकृतिविशेषास्तत्र मया दृष्टपूर्वास्ते खलु मम हृदये निखातप्राया इवासन् । तन्मुखम्, ते नेत्रे, सा शुकचञ्चुनिभा नासा , स च अत्यन्तपाकद्रवद्द्राक्षासमकक्षोऽधरः, किमेतानि विस्मर्तुं शक्यानि ? चतुरादपि चतुरश्चित्रकारो नेदृग रूपं निर्मातुं शक्नोति । किमेतादृशी सुन्दरी कापि ध्रियते, उत महात्मनः कल्पनाविजृम्भितमेवैतत् ? अस्तु द्रष्टव्यम् ! एकवर्षात्मको न भूयान् कालः । यतस्तस्यैकं वचनं सत्यमभूत् तत परमपि सत्यं भवेदिति बहुशः सम्भाव्यते ।

 अतीताः कतिचिन्मासाः । मम विवाहकथाऽवसानस्य, धनपतिप्रसादनिधनस्य, यन्त्रालये प्रधानाध्यक्षपदे च मम कार्यं कुर्वतश्च पञ्चषा मासा व्यतीयुः । मम हृदये च आशानिराशे परस्परमयुद्धयताम्। एवमेव भूयोऽप्यतीतः कश्चित्कालः । परंतु मया मृत्खण्डे दृष्टं तद् दृश्यं, सा सुन्दरी च न मनागपि विस्मृता । ततः परमकस्मादेकस्मिन् दिने निजेन वास्तविकरूपेण तद् दृश्य-महात्मनः प्रसादान्मृत्खण्डे दृष्टम-मम पुर स्वयमुपस्थितम् । कदा-कथं च,-तदेवाहमग्रे वर्णयामि ।

(५)

 यन्त्रालयविशेषकार्यवशान्मम लवपुरे गन्तुमापतितम्। कर्णपुरात्प्र स्थानात्पूर्वमेव मया मातुरेकं पत्रमधिगतम् । तत्र लिखितमासीत्  “चिरायुष्मन्तं वत्सं ललितकुमारं सस्नेहमाश्लिष्य मूर्ध्न्युपाघ्राय च शुभाशीराशिभिरभिवर्द्धयन्ती तन्माता काशीतः प्रतिबोधयति -

 वत्स ! इतो बहुदिनेभ्यो नाधिगता ते कुशलपत्रिका । आशंसामि त्वं कुशली स्या इति । अग्रे-आवश्यकमेकं विषयं स्मारयितुं ते पत्रं लिखामि । त्वं जानास्येव, यदतीते वत्सरे तव विवाहसम्भारेषु सन्नद्धेष्वेव अकस्मात्तव स्वामिनो निधनेन विवाहो विघ्नित इति ।

 अथेदानीमहमिच्छामि, यदागामिनि प्रथमे विवाहमुहूर्त एव कार्यमिदं सम्पादनीयमिति। अस्मिन् वारे तव किमपि प्रतिबन्धकं कैतवं वा न मया मनागपि विचारयिष्यते । अतस्त्वामधुनैव चेतयामि । त्वदर्थं मयैका कुलीना शिक्षिता च सुन्दरी कन्याऽवधारिताऽस्ति । अत्रत्यैव सा । विश्वसिमि चाहं यत्त्वं ममवचनं पूरयिष्यसि। किमपि कैतवं न करिष्यसि । यद्यस्मिन् वारेऽपि किमपि वचनं कपटमुद्भाव्य मम न पूरयिष्यसि, तर्हि मम भूयान् मनस्तापो भवेत् । सत्यवकाशे द्वित्रिदिनार्थमत्रावश्यमागच्छ । मया त्वां दर्शयितुं तस्याः कन्यायाश्छायाप्रतिकृतिरानायिताऽस्ति, सा त्वया द्रष्टव्या । आवामत्र सकुशलौ स्वः । वत्सस्य सर्वतः कुशलमिच्छावः ।

-“तव माता ।”

 इत्थं पत्रं पठित्वा ममाश्चर्यमभूत् । चिन्तितं मया-पश्यत, इयन्ति व्यतीतानि दिनानि, नाधुनाऽपि मातुर्मद्विवाहाभिनिवेशोऽपसृतः। अस्मिन्वा रे तु मातुर्वचनं पूरयितव्यमेव । परंंतु तस्य महात्मनः सा भविष्यदर्थावाक् किमपूर्णैव स्थास्यति ? तेन तु मम भाविनी भार्या ग्रामान्तरीयेव दर्शितेति मम स्मृतिपथमायाति । मात्रा तु कापि काशिकैव कन्याऽवधारिताऽस्ति। भवतु द्रक्ष्यामि किमस्ति भाग्ये लिखितमिति। महात्मनो वचनं मिथ्या भवेदिति तु विश्वासो न भवति ।

 अथाहं लवपुरमुपागमम् । तत्र यन्त्रालयकार्यविशेषसम्पादने प्रयतमानस्य मे पञ्चदश दिनान्यतिजग्मुः । कार्यमपि समपद्यत । ततः परावर्तमानोऽहं मध्ये मार्गे मथुरायामवातरम् । अदृष्टपूर्वेय पुण्यपुरी द्रष्टव्येति चिरान्मम मनीषाऽऽसीत् । दृष्ट्वा च तां भगवतो नन्दनन्दनस्य लीलाविहारभूमिं मथुरां, गोकुलवृन्दावने च, बाढमप्रीयत ममान्तरात्मा । तस्यां पुण्यभुवि कोऽपि विशेषोऽस्ति, यः समृद्धेषु सुन्दरेष्वपि नगरान्तरेषु नोपलभ्यते-इत्यश्रद्धेनापि ममान्तरात्मना ऽनुभूतम् । ‘आगरा' नगरे दिनमेकमुषित्वा पुनरहं कर्णपुरं प्रस्थितवान् । मार्गे ‘जनसम्मर्दपरिहार पुरस्सरं सुखेन यात्रा भवत्विति मया द्वितीयश्रेणिप्रवेशपत्रं क्रीतमासीत् । तत्र व्ययस्तु भूयान् जातः, परन्तु यात्रा सुखेन समपद्यत । एतावत्पर्यन्तं मम प्रकोष्ठ अहमेवैकल आसम् । शकटी ‘टुंडला' स्थानमुपागता, ततः ‘शिकोहाबादम्’ । ‘भिंड' स्थाने क्षणं विश्रम्य ततः परं 'इटावा'माजगाम शराकटी । अत्र विंशतिकलामितं कालं शकटी स्थास्यतीति विदित्वा अहमवातरम् । इतस्ततो दत्तदृष्टिः पुरः प्राङ्गणे पर्यटितुमारभे ! विहङ्गमदृशा एकवारं तत्सकलं धूमशकटीविश्रामधाम सपूर्वापरं पर्यवेक्षे च । इत्थं परिवीक्षमाण एवाहमकस्माच्चकितोऽभवं चेतसि । इदं स्थानं तु मम परिचितमिव प्रतिभाति । अचिरेणैवेदं दृष्टं स्मरामि ।परन्त्वहमनेन पथा न कदापि पूर्वमागत इति तु निश्चितम्। ओः “स्मृतम्, स्मृतम्। स्मृतिमात्र एव मम तादृगपरिमितमाश्चर्यं समुद्भूत् यथा तस्मिन् महति सम्भ्रमे क्षणं मम हृदयमपि निःस्पन्दतामगाहत । मया परिचितम् तदेवेद स्थलं, यन्मया तस्य महात्मनः प्रसादेन काचगोलतामापन्ने मृत्खण्ड दृष्टमासीत् । निःसन्देहं तदेवेदं स्थानम्, पुर: प्राङ्गणे सैवेयं प्रकोष्ठपङ्क्तिः, स एवायं पंक्त्यन्तरगामी सेतुः, तदेवेदं सकलम्, यन्मयातदानीं सकुतूहलमवलोकिमासीत् । अहो कीदृशीय तस्य महात्मनोऽचिन्त्या शक्तिः, सत्यम्, साधुवो हि कर्तुमकर्तुमन्यथाकर्तुं समर्था भवन्तीति । यथेदं दृश्यं सत्यस्वरूपेण मम पुरः समुपस्थितम् ? तथैव तदपि दृश्यं-सा सुन्दरीलोकोत्तरसुषमाशालिनी सा बालाऽपि किं मत्यस्वरूपेण मम पुरः समुप तिष्ठेत ? महात्मनो वचनस्यैकोंऽशस्त्विदानीं पूर्णः, अपरोऽपि किमिति न पूर्णो भवेत् ?

  यावदहं सकौतुकं सोत्कण्ठं च प्राङ्गणस्येतस्ततो दत्तदृष्टिः पश्यामि, तावदेव मम दृष्टिः पंक्तयन्तरगामिनः सेतो; सोपानमार्गे सहसा निरुद्धाऽभूत् । तत्र यदृश्यं मया दृष्टं, तेन भूतलात् दूरमहमुच्छलित इवाभवम् । क्षणं मोहो मा मावृणोदिव । सत्यमेव निरुद्धा हृदयगतिः । अक्ष्णोरण्यविश्वासोऽभूत् । मया समुच्छलता चेतसा विस्फार्य नयने च सम्यङ्निर्वर्ख्य दृष्टम्-सैव सुन्दरी मदभिमुखमायान्ती प्रतीयतेस्म, या मया महात्मनः कुट्यां काचगोले दृष्टपूर्वाऽऽसीत् । मया पुनः पुनर्नयने प्रमृज्य विस्फार्य च सा निर्वर्णिता । सैवाऽऽसीदिति निश्चयेनावगतम् । सैव पीताभा शाटी, सैव गजगतिः, ते एव विशाले नयने सैव किश्चित्तिरश्चीना नासा, स एव चात्यन्तपाकद्रवद्द्राक्षासपक्षोऽधरोष्ठः । कुत इयमुपागता ? किमहं स्वप्रवृत्तं पश्यामि, सत्यमेव वाऽसौ सुवर्णप्रतिमा ममाभिमुखमुपागच्छति? सहसा मम सर्वा अपीन्द्रियवृत्तयो नयनपथमवतीर्णा इव । पश्यत एव मे सा युवतिर्मयाऽधिष्ठितपूर्वं द्वितीयश्रेणिकं प्रकोष्ठमेवारोहतिस्म । सा एकला नासीत् तया सह समुज्ज्वलनेपथ्या काऽप्यपरा प्रौढा योषिदपि तमेव प्रकोष्ठमारुरोह । तयोः पश्चादेकोऽनुचरः शिरस्यायसीं मञ्जूषां, करे चर्मपेटिकां च वहन् तत्रैव जगाम । अहं प्रवेशद्वारोपकण्ठं स्थित्वा ते निरवर्णयम् । अनुचरेण लौहमञ्जूषातूपरितनपट्टिकायां निहिता । स्रस्तरं विस्तारितम् । मृत्कुम्भे च पानीयमापूरितम् । दर्शनेन ते उभे अपि सत्कुलीने प्रत्यभाताम्। यतः सा युवतिः परिहृत्यावगुण्ठनदम्भं तत्र निःशङ्कमतिष्ठत्, ततः सा शिक्षिता नव्यमतानुगा चाऽऽसीदिति निर्विवादमेव ।द्वितीयश्रेणिकप्रकोष्ठारोहणात्तस्या धनिकताऽपि निश्चितैवासीत् । अत्रान्तरे धूमशकटीप्रस्थानसूचकः कलचीत्कारः श्रूयतेस्म । अहमपि सलज्जं सभयंच प्रकोष्ठान्तः प्रविश्य स्वस्थाने समुपाविशम् । मम नेत्रे हठात्तामेव सुन्दरीमन्वधावताम्। मृत्खण्डे दृष्टाया आकृतेस्तया सह सर्वात्मना संवादं दृष्ट्वाऽभूतपूर्वमाश्चर्यमहमन्वभवम् । चिराय तन्मुखनिर्वर्णनमसभ्यतास्पदं भवेदिति मया स्वोपबर्हतले निहितं तद्दिनस्य संवादपत्रं मुखाग्रे धृतम् । अत्रान्तरे युवत्याः सहचरी प्रौढा योषिन्मदन्तिकमेत्य मामपृच्छत्-“महाशय ! उपरितनपट्टिकायां निहितं वस्तुजातं भवत एवास्ति किम् ?मया स्वीकारसूचकं शिरःकम्पं विदधता “आम्, तन्ममैवाऽस्ति” इत्युत्तरितम् । भूयः सा पप्रच्छ-“कुत्र गन्तव्यमस्ति भवतः !' तां निःसङ्कोचं भाषमाणां दृष्ट्वा मयाऽपि लज्जाकरणमनुचितमवधार्य निर्भयं प्रतिभाषितुमारब्धम् । कदाचिदस्मिन् संलापे तस्यास्तरुण्या नामधामादिकं विवाहितत्वाविवाहितत्वं च ज्ञातं भवेत्।, मयोत्तरितम्–“कर्णपुरमहं गच्छामि ।”

  साऽबूत-“ओः......तर्हि भवान् प्रथममेवावतरिष्यति। आवयोस्तु काश्यां गन्तव्यमस्ति ।'

 साश्चर्यस्य मम मुखाद्कस्मान्निगतम्-“ किं काश्याम्...!”

  तया पृष्टम्-“काशीनाम श्रुत्वैव किमिति विस्मितो भवान् ?”

  यद्यपि प्रौढयैव साकं ममैष संवादः प्रचलन्नासीत्, तथाऽपि सा युवतिरपि मध्ये मध्ये सलज्जां दृशं मयि क्षिपन्ती संवादे दत्तकर्णऽतिष्ठत् । मयोत्तरितम्--“विस्मयस्य हेतुरयमेव, यदहमपि काश्यामेव वसामि । तत्रैवास्ति ममाऽपि गृहम् ।” ततः परं प्रौढया सह चिराय मम वार्तालापोऽभवत्। संवादे कदाचित्सा युवतिरपि मध्ये मध्ये किंचिद्वभाषे-किन्तु मया साकं न हेि, तयैव प्रौढया साकम्। शिक्षितयाऽपि तया सर्वथाऽपरिचितेन युवकेन सह सहसा सम्भाषणमनुचितमवधारितं स्यात् । अत्रान्तरे तस्या विषये मया प्रायः सर्वमपि ज्ञातम् । ते द्वे अपि काशिके एवा स्ताम् । युवतिः प्रौढाया भागिनेय्यासीत् । प्रौढा च “इटावा”यां निवसति । युवतिश्चिराद् दृष्टां मातृष्वसारं सम्भावयितुं “इटावां”गताऽऽसीत्। “काश्यां तव विवाहो निश्चितः त्वरितमागम्यताम्” इति पित्रा प्रहितं विद्युत्सन्देशमवाप्य मातृष्वस्रा सह काशीं गच्छति । आगामिषु विवाहमुहूर्तेषु तस्या विवाहो भविष्यति । वरः काशिक एव कश्चिन्निर्धारितोऽस्तीति ।

  युवतिं सम्यङनिर्वर्ण्य मया निश्चयेनावगतम्-सैवेयं युवतिर्या मया मृत्खण्डे दृष्टासीत् । मृत्खण्डदृष्टतदाकृत्यपेक्षया वास्तविकीं तदाकृतिं शतगुणसौन्दर्यामवालोकयम् । सर्वभावेन तस्यां समाकृष्टश्चाभवम् ।

  मया मनसि चिन्तितम्-“तस्य महात्मनः कथनानुसारमन्यत्सर्वं सम्पन्नम् । तदेवेदं धूमशकटीविश्रामधाम, सैव चेयं सुन्दरी, परं त्वस्या विवाहः काशिकेनैव केनापि वरेण निश्चितोऽस्तीति श्रृणोमि । किमेतावत्पर्यन्तं सर्वमपि महात्मवचनं सत्यं सम्पन्नम् , मुख्यफलं एव मम दौर्भाग्यात्तद्विसंवदेत किम् ? यद्यनया तरुण्या सह मम विवाहो न सम्पद्येत, निश्चयेनाहं तं महात्मानं पाखण्डिनमाकलयेयम् ।” इति ।

  “इटावा”तः कर्णपुरपयन्तं पन्थाः सुखेनातिक्रान्तः । पुनरहमचिन्तयं चेतसि-अस्याः पितुर्नामधामादिकं मया ज्ञातमेवाऽस्ति । स काश्यामेव वसति । तथा कोऽपि प्रयत्नो विधेयः, यथाऽस्याः पिता मयैव साकमस्या विवाहमारचयेत् । भवतु, मातरं तावदुद्योजयिष्यामि । यथा तस्य महात्मनो वाणी सर्वथा सत्या प्रमाणिता भवेत् तथैव मया प्रयतनीयम् ।

  इत्थं चेतसि चिन्तयन्नेवाहं यथासमयं कर्णपुरे समवातरम् । अवतरणसमये पुनरपि तस्यास्तरुण्याः पितुर्नाम निवासस्थानं च पृष्टा सा प्रौढा निःशङ्कं तत्कथयतिस्म । सा तरुण्यपि सलजैः कटाक्षबीक्षितैर्मां प्रैक्षत । तद्विषयेऽहं कीदृगुत्कण्ठितोऽस्मीति सा कथं जानातु ।

 अस्यापि वृत्तान्तस्य सम्पन्नस्य बहून्यहान्यतीतानि । सा तरुणी सा प्रौढा च न मे स्मृतिपथादपासरताम् । ततः परमेकमासानन्तरमहं स्वगृहं काशीं प्रत्यागमम् । मया विचारितं चेतसि-यन्मार्गे दृष्टायास्तरुण्या विषये सर्वमपि मातुरग्रे प्रकटनीयम् कथनीयं च-यदनयैव साकमहं विवाहं करिष्यामि नान्यया । इत्थं च मम माता येन केनाप्युपायेन ममाभीष्टं विवाहं घटयिष्यतीति । इत्थं विचिन्तयतो मम काश्यागमनाद्परेऽहनि मात्रा सह रहसि वक्तमवसरः समुपनतः ।

 मया साहसपूर्वकमुक्तम्--“मातः ! मम हि विवाहविषये किंचिद्वक्तव्यमस्ति ।”

 सा साश्चर्यं जगाद्–“किं वत्स ! किमस्ति वक्तव्यम् ? ”

 मयोक्तम–“त्वया निश्चितं मम विवाहमुद्दिश्वयैव किंचिद्विवक्षामि । ”

 सा जगाद-“विवाहमुद्दिश्य किं विवक्षसि रे, किं पुनर्नकारपिशाचिका स्वामुपारूढा ?”

 अहमगदम्–“न हि, न हि, नकारपिशाचिका नोपारूढा । इदमहं विवक्षामि, भवत्या निद्धारितया कन्यया सह न मया विवाहः कर्तुमिष्यते ।”

 सा साश्वर्यमपृच्छत्–“किं कारणं वत्स ! किं त्वया तस्या विषये कश्चिद्दोषः श्रुतः ? मया तु तस्याः कुलशीलादिकं सम्यकपरिशीलितमस्ति । सा त्वतीव सुशीला वर्तते । किं कारणं तर्हि तव निषेधस्य ?”

 अहमवद्म्-“ न हि न हि, तस्या न कश्चिदपि दोषो गुणो वा मया श्रुतः । वास्तविकी कथा त्वियम्-मया काऽप्यपरा कन्या स्वयं निश्चिताऽस्ति ।”

 माता ममैतेन कथनेन नभसः पपातेव । सविस्मयं चाहस्म “ वत्स ! ललित ! कथय, कथमिदं सम्पन्नम् । त्वं तु पूर्वं विवाहप्रस्तावमपि नाभ्यन्वजानाः, इदानीं स्वयमेव कन्या निश्चेतुमपि प्रवृत्तोऽसि । साम्प्रतिकानां यूनां पित्रोरपेक्षैव न् भवति पठित्वा लिखित्वा च ते तथा चतुराः सम्पद्यन्ते, यथा पत्नीनिर्वाचनमपि मात्रा पित्रा वा कृतं नानुमन्यन्ते । अस्तु कथय, का कीदृशी च कन्या त्वया निश्चिता ?”

 मया लज्जमानेनोक्तरितम -“अत्रत्यैव सा कन्याऽस्ति । अस्माकं सजातीयैव । मया लवपुरात्परावर्तमानेन धूमशकट्यां सा दृष्टा । दशाश्वमेधवीथ्यां निवसतो नारायणप्रसादस्य सा कन्या किल ।”

 माता मुहूर्तं साश्चर्य' मन्मुखं निरैक्षत । ततः परमुच्चैर्जहास अहं तु मातरमकारणं हसन्तीं दृष्ट्वा बाढं सम्भ्रमे न्यपतम् । मम कथने हि किमपि हासकारणं नासीत् । अथ मम माता ततस्त्वरितमुत्थाय स्वप्रकोष्ठं गत्वा तत एकं चित्रफलकमानीय मम हस्ते दत्वा सस्मितमपृच्छत् - “किमेतां कन्यामुद्दिश्वयैव त्वं ब्रवीषि ! ”

 आश्चर्यातिरेकादहं किञ्चिदपि वक्तुं न प्राभवम्। मया दृष्टम्, तच्चित्रफलकं तस्या एव तरुण्या आसीत्, या मया धूमशकट्यां, महात्मनः कुटीरे मृत्खण्डे च दृष्टाऽऽसीत् । मया कम्पमानस्वरेण पृष्टम्-“मातः ! इदं चित्रफलकं तवान्तिके कुतः समागतम् । किं त्वमेतां कन्यां जानासि ?”

  सा सशिरःकम्पं बभाषे–“आम, अवश्यमहं जानामि, यद्यहं न जानीयाम्, को वाऽपरो जानीयात् । अनयैव सह मया तव विवाहो निश्चितः । त्वां दर्शयितुमेवेदं चित्रफलकं मयाऽऽनायितमस्ति । मया पत्रेऽपीदमेव लिखितमासीत् । किं न स्मरसि ?”

  किमहं वदेयम् कथं वा सर्व वृत्तान्तं निवेदयेयम्-यदेकवर्षादिमां तरुणीमहं हृदये धारयामीति । परन्तु अयमद्भत: संयोगः सम्पन्नः , महात्मनो वाणी कथं सर्वैरङ्गैः सत्या प्रमाणीभूता । किमियं भगवतः कृपा, उत मम सौभाग्यम अथवा महात्मनः सिद्धिप्रभावः ?....

  मम विवाहस्तयैव कन्यया सह सम्पन्नः । मया बाढमवगतम, यन्महात्मना कथितं दर्शितं च सर्वमक्षरशः सत्यमिति । तत्राल्पीयानप्यशो न मिथ्याभूतः। कया शक्तया केन बलेन महात्मनेदं कथितं दर्शितं चेति तु नाहं मनागपि जानामि, स महात्मा च न पुनर्मया दृष्टः । अन्विष्यापि न लब्धः । गङ्गातटं परित्यज्य गतस्य तस्य भूयान् कालोऽतीतः । ततः प्रभृति धर्मकर्मादेः पाखण्डताकथनं मया परित्यक्तम् । साधुषु महात्मसु च मम चेतसि श्रद्धा समुद्भूत् । इदं च मयाऽवगतम् यदस्मिन् संसारे यद्यपि बहवः पाखण्डिनः सन्ति, तथाऽपि केऽपि विरलाः सत्यसिद्धा महा मानोऽपि सन्ति । शास्त्रमीश्वरो धर्मकर्मादि च सर्वमपियथार्थमस्ति ।

  कदाचिन्मेघश्यामः तां घटनामधिकृत्य मां पृच्छति-“किं रे ललित ! अपि विश्वसिषीदानीं साधुमहात्मसिद्धेषु ?”

  अहमुत्तरयामि-‘अवश्यं विश्वसिमि, यदि ते वास्तविका महात्मानो भवेयुः । कृतकसिद्धेषु तु न मे विश्वासः ।”