दशरूपकम्/चतुर्थः परिच्छेदः

विकिस्रोतः तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
← तृतीयः परिच्छेदः दशरूपकम्
चतुर्थः परिच्छेदः
[[लेखकः :|]]

विभावैरनुभावैश्च सात्त्विकैर्व्यभिचारिभिः ।
आनीयमानः स्वाद्यत्वं स्थायी भावो रसः स्मृतः ॥ ४.१ ॥

ज्ञायमानतया तत्र विभावो भावपोषकृत् ।
आलम्बनोद्दीपनत्वप्रभेदेन स च द्विधा ॥ ४.२ ॥

अनुभावो विकारस्तु भावसंसूचनात्मकः ।
हेतुकार्यात्मनोः सिद्धिस्तयोः संव्यवहारतः ॥ ४.३ ॥

सुखदुःखादिकैर्भावैर्भावस्तद्भावभावनम् ।
पृथग् भावा भवन्त्यन्येऽनुभावत्वेऽपि सात्त्विकाः ।
सत्त्वादेव समुत्पत्तेस्तच् च तद्भावभावनम् ॥ ४.४ ॥

स्तम्भप्रलयरोमाञ्चाः स्वेदो वैवर्ण्यवेपथू ।
अश्रुवैस्वर्यमित्यष्टौ स्तम्भोऽस्मिन् निष्क्रियाङ्गता ।
प्रलयो नष्टसञ्ज्ञत्वं शेषाः सुव्यक्तलक्षणाः ॥ ४.५ ॥

विशेषादाभिमुख्येन चरन्तो व्यभिचारिणः ।
स्थायिन्युन्मग्ननिर्मग्नाः कल्लोला इव वारिधौ ॥ ४.६ ॥

निर्वेदग्लानिशङ्काश्रमधृतिजडताहर्षदैन्यौग्र्यचिन्तास्
त्रासेर्ष्यामर्षगर्वाः स्मृतिमरणमदाः सुप्तनिद्राविबोधाः ।
व्रीडापस्मारमोहाः समतिरलसतावेगतर्कावहित्था
व्याध्युन्मादौ विपादोत्सुकचपलयुतास्त्रिंशदेते त्रयश्च ॥ ४.७ ॥

तत्त्वज्ञानापदीर्ष्यादेर्निर्वेदः स्वावमाननम् ।
तत्र चिन्ताश्रुनिःश्वासवैअवर्ण्योच्छ्वासदीनताः ॥ ४.८ ॥

रत्याद्यायासतृट्क्षुद्भिर्ग्लानिर्निष्प्राणतेह च ।
वैवर्ण्यकम्पानुत्साहक्षामाङ्गवचनक्रियाः ॥ ४.९ ॥

अनर्थप्रतिभा शङ्का परक्रौर्यात् स्वदुर्नयात् ।
कम्पशोषाभिवीक्षादिरत्र वर्णस्वरान्यता ॥ ४.१० ॥

श्रमः खेदोऽध्वरत्यादेः स्वेदोऽस्मिन् मर्दनादयः ।
सन्तोषो ज्ञानशक्त्यादेर्धृतिरव्यग्रभोगकृत् ॥ ४.११ ॥

अप्रतिपत्तिर्जडता स्यादिष्टानिष्टदर्शनश्रुतिभिः ।
अनिमिषनयननिरीक्षणतूष्णीम्भावादयस्तत्र ॥ ४.१२ ॥

प्रसत्तिरुत्सवादिभ्यो हर्षोऽश्रुस्वेदगद्गदाः ।
दौर्गत्याद्यैरनौजस्यं दैन्यं कार्ष्ण्याभृजादिमत् ॥ ४.१३ ॥

दुष्टेऽपराधदौर्मुख्यक्रौर्यैश्चण्डत्वमुग्रता ।
तत्र स्वेदशिरःकम्पतर्जनाताडनादयः ॥ ४.१४ ॥

ध्यानं चिन्तेहितानाप्तेः शून्यताश्वासतापकृत् ।
गर्जितादेर्मनःक्षोभस्त्रासोऽत्रोत्कम्पितादयः ॥ ४.१५ ॥

परोत्कर्षाक्षमासूया गर्वदौर्जन्यमन्युजा ।
दोषोक्त्यवज्ञे स्रुकुटिमन्युक्रोधेङ्गितानि च ॥ ४.१६ ॥

अधिक्षेपापमानादेरमर्षोऽभिनिविष्टता ।
तत्र खेदशिरःकम्पतर्जनाताडनादयः ॥ ४.१७ ॥

गर्वोऽभिजनलावण्यबलैश्वर्यादिभिर्मदः ।
कर्माण्याधर्पणावज्ञा सविलासाङ्गवीक्षणम् ॥ ४.१८ ॥

सदृशज्ञानचिन्ताद्यैः संस्कारात् स्मृतिरत्र च ।
ज्ञातत्वेनार्थभासिन्यां भ्रूसमुन्नयनादयः ।
मरणं सुप्रसिद्धत्वादनर्थत्वाच् च नोच्यते ॥ ४.१९ ॥

हर्षोत्कर्षो मदः पानात् स्खलदङ्गवचोगतिः ।
निद्रा हासोऽत्र रुदितं ज्येष्ठमध्याधमादिषु ।
सुप्तं निद्रोद्भवं तत्र श्वासोच्छासक्रिया परम् ॥ ४.२० ॥

मनःसम्मीलनं निद्रा चिन्तालस्यक्लमादिभिः ।
तत्र जृम्भाङ्गभङ्गाक्षिमीलनोत्स्वप्नतादयः ।
विवोधः परिणामादेस्तत्र जृम्भाक्षिमर्दने ॥ ४.२१ ॥

दुराचारादिभिर्व्रीडा धार्ष्ट्याभावस्तमुन्नयेत् ।
साचीकृताङ्गावरणवैवर्ण्याधोमुखादिभिः ॥ ४.२२ ॥

आवेशो ग्रहदुःखाद्यैरपस्मारो यथाविधिः ।
भूपातकम्पप्रखेदलालाफेनोद्गमादयः ॥ ४.२३ ॥

मोहो विचित्तता भीतिदुःखावेशानुचिन्तनैः ।
तत्राज्ञानभ्रमाघातघूर्णनादर्शनादयः ॥ ४.२४ ॥

भ्रान्तिच्छेदोपदेशाभ्यां शास्त्रादेस्तत्त्वधीर्मतिः ।
आलस्यं श्रमगर्भादेजह्यजृम्भासितादिमत् ॥ ४.२५ ॥

आवेगः सम्ग्रमोऽस्मिन्नभिसरजनिते शस्त्रनागाभियोगो
वातात् पांसूपदिग्धस्त्वरितपदगतिर्वर्षजे पिण्डिताङ्गः ।
उत्पातात् स्रस्तताङ्गेष्वहितहितकृते शोकहर्षानुभावा
वह्नेर्धूमाकुलास्यः करिजमनुभयस्तम्मकम्पापसाराः ॥ ४.२६ ॥

तर्को विचारः सन्देहाद् भ्रूशिरोङ्गुलिनर्तकः ।
लज्जाद्यैर्विक्रियागुप्ताववहित्थाङ्गविक्रिया ।
व्याधयः सन्निपाताद्यास्तेषामन्यत्र विस्तरः ॥ ४.२७ ॥

अप्रेक्षाकारितोन्मादः सन्निपातग्रहादिभिः ।
अस्स्मिन्नवस्था रुदितगीतहासासितादयः ॥ ४.२८ ॥

प्रारब्धकार्यासिद्ध्यादेर्विषादः सत्त्वसङ्क्षयः ।
निःश्वासोच्छ्वासहृत्तापसहायान्वेषणादिकृत् ॥ ४.२९ ॥

कालाक्षमत्वमौत्मुक्यं रम्येच्छारतिसम्ग्रमैः ।
तत्रोच्छ्वासत्वनिःश्वासहृत्तापस्वेदविभ्रमाः ॥ ४.३० ॥

मात्सर्यद्वेषरागादेश्चापलं त्वनवस्थितिः ।
तत्र भर्त्सनपारुष्यस्वच्छन्दाचरणादयः ॥ ४.३१ ॥

विरुद्धैरविरुद्धैर्वा भावैर्विच्छिद्यते ।
आत्मभावं नयत्यन्यान् स स्थायी लवणाकरः ॥ ४.३२ ॥

रत्युत्साहज्गुप्साः क्रोधो हासः स्मयो भयं शोकः ।
शममपि केचित् प्राहुः पुष्टिर्नाट्येषु नैतस्य ॥ ४.३३ ॥

निर्वेदादिरताद्रूप्यादस्थायी स्वदते कथम् ।
वैरस्यायैव तत्पोषस्तेनाष्टौ स्थायिनो मताः ॥ ४.३४ ॥

वाच्या प्रकरणादिभ्यो बुद्धिस्था वा यथा क्रिया ।
वाक्यार्थः कारकैर्युक्ता स्थायी भावस्तथेतरैः ॥ ४.३५ ॥

रसः स एव स्वाद्व्यत्वाद् रसिकस्यैव वर्तनात् ।
नानुकार्यस्य वृत्तत्वात् काव्यस्यातत्परत्वतः ॥ ४.३६ ॥

द्रष्टुः प्रतीतिर्व्रीडेर्ष्यारागद्वेषप्रसङ्गतः ।
लौकिकस्य स्वरमणीसंयुक्तस्येव दर्शनात् ॥ ४.३७ ॥

धीरोदात्ताद्यवस्थानां रामादिः प्रतिपादकः ।
विभावयति रत्यादीन् स्वदन्ते रसिकस्य ते ॥ ४.३८ ॥

क्रीडतां मृन्मयैर्यद्वद् बालानां द्विरदादिभिः ।
स्वोत्साहः स्वदते तद्वच्छ्रोतृणामर्जुनादिभिः ॥ ४.३९ ॥

काव्यार्थभावनास्वादो नर्तकस्य न वार्यते ।
स्वादः काव्यार्थसम्भेदानात्मानन्दसमुद्भवः ॥ ४.४० ॥

विकाशविस्तरक्षोभविक्षेपैः स चतुर्बिधः ।
शृङ्गारवीरबीभत्सरौद्रेषु मनसः क्रमात् ॥ ४.४१ ॥

हास्याद्भुतभयोत्कर्षकरुणानां त एव हि ।
अतस्तज्जन्यता तेषामत एवावधारणम् ॥ ४.४२ ॥

शमप्रकर्षो निर्वाच्यो मुदितादेस्तदात्मता ।
पदार्थैरिन्दुनिर्वेदरोमाञ्चादिस्वरूपकैः ।
काव्याद् विभावसञ्चार्यनुभावप्रख्यतां गतैः ॥ ४.४३ ॥

भावितः स्वदते स्थायी रसः स परिकीर्तितः ।
लक्षणैक्यं विभावैक्यादभेदाद् रसभावयोः ॥ ४.४४ ॥

रम्यदेशकलाकालवेषभोगादिसेवनैः ।
प्रमोदात्मा रतिः सैव यूनोरन्योन्यरक्तयोः ।
प्रहृष्यमाणा शृङ्गारो मधुराङ्गविचेष्टितैः ॥ ४.४५ ॥

ये सत्त्वजाः स्थायिन् एव चाष्टौ
त्रिंशत् त्रयो ये व्यभिचारिणश्च ।
एकोनपञ्चाशदमी हि भावाः
युक्त्या निबद्धाः परिपोषयन्ति ।
आलस्यमौग्र्यं मरणं जुगुप्सा
तस्याश्रयाद्वैतविरुद्धमिष्टम् ॥ ४.४६ ॥

तत्रायोगोऽनुरागेऽपि नवयोरेकचित्तयोः ।
पारतन्त्र्येण दैवाद् वा विप्रकर्षादसङ्गमः ॥ ४.४७ ॥

दशावस्थः स तत्रादावभिलाषोऽथ चिन्तनम् ।
स्मृतिर्गुणकथोद्वेगप्रलापोन्मादसञ्ज्वराः ।
जडता मरणं चेति दुरवस्थं यथोत्तरम् ॥ ४.४८ ॥

अभिलापः स्पृहा तत्र कान्ते सर्वाङ्गसुन्दरे ।
दृष्टे श्रुते वा तत्रापि विस्मयानन्दसाध्वसाः ॥ ४.४९ ॥

साक्षात् प्रतिकृतिस्वप्नच्छायामायासु दर्शनम् ।
श्रुतिर्व्याजात् सखीगीतमागधादिगुणस्तुतेः ॥ ४.५० ॥

सानुभावविभावास्तु चिन्ताद्याः पूर्वदर्शिताः ।
दशावस्थत्वमाचार्यैः प्रायो वृत्या निदर्शितम् ।
महाकविप्रबन्धेषु दृश्यते तदनन्तता ॥ ४.५१ ॥

दृष्टे श्रुतेऽभिलाषाच् च किं नौत्सुक्यं प्रजायते ।
अप्राप्तौ किं न निर्वेदो ग्लानिः किं नातिचिन्तनात् ॥ ४.५२ ॥

विप्रयोगस्तु विश्लेषो रूढविभ्रम्भयोर्द्विधा ।
मानप्रवासभेदेन मानोऽपि प्रणयेर्ष्ययोः ॥ ४.५३ ॥

तत्र प्रणयमानः स्यात् कोपावसितयोर्द्वयोः ।
स्त्रीणामीर्ष्याकृतो मानः कोपोऽन्यासङ्गिनि प्रिये ।
श्रुते वानुमिते दृष्टे श्रुतिस्तत्र सखीमुखात् ॥ ४.५४ ॥

उत्स्वप्नायितभोगाङ्कगोत्रस्खलनकल्पितः ।
त्रिधानुमानिको दृष्टः साक्षादिन्द्रियगोचरः ॥ ४.५५ ॥

यथोत्तरं गुरुः षड्भिरुपायैस्तमुपाचरेत् ।
साम्ना भेदेन दानेन नत्युपेक्षारसान्तरैः ॥ ४.५६ ॥

तत्र ओरियवचः साम भेदस्तत्सख्युपार्जनम् ।
दानं व्याजेन भूषादेः पादयोः पतनं नतिः ॥ ४.५७ ॥

सामादौ तु परिक्षीणे स्यादुपेक्षावधीरणम् ।
रभसत्रासहर्षादेः कोपभ्रंशो रसान्तरम् ।
कोपचेष्टाश्च नारीणां प्रागेव प्रतिपादिताः ॥ ४.५८ ॥

कार्यतः सम्भ्रमाच्छापात् प्रवासो भिन्नदेशता ।
द्वयोस्तत्राश्रुनिःश्वासकार्श्यलम्बालकादिता ॥ ४.५९ ॥

द्वितीयः सहसोत्पन्नो दिव्यमानुपविप्लवात् ।
स्वरूपान्यत्वकरणाच्छापजः सन्निधावपि ॥ ४.६० ॥

मृते त्वेकत्र यत्रान्यः प्रलपेच्छोक एव सः ।
व्याश्रयत्वान् न शृङ्गारः प्रत्यापन्ने तु नेतरः ॥ ४.६१ ॥

प्रणयायोगयोरुत्का प्रवासे प्रोषितप्रिया ।
कलहान्तरितेर्ष्यायां विप्रलव्धा च खण्डिता ॥ ४.६२ ॥

अनुकूलौ निषेवेते यत्रान्योन्यं विलासिनौ ।
दर्शनस्पर्शनादीनि स सम्भोगो मुदान्वितः ॥ ४.६३ ॥

चेष्टास्तत्र प्रवर्तन्ते लीलाद्या दश योषिताम् ।
दाक्षिण्यमार्दवप्रेम्णामनुरूपाः प्रियं प्रति ॥ ४.६४ ॥

रमयेच् चाटुकृत् कान्तः कलाक्रीडादिभिश्च ताम् ।
न ग्राम्यमाचरेत् किञ्चिन् नर्मभ्रंशकरं न च ॥ ४.६५ ॥

वीरः प्रतापविनयाध्यवसायसत्त्व-
मोहाविषादनयविस्मयविक्रमाद्यैः ।
उत्साहभूः स च दयारणदानयोगात्
त्रेधा किलात्र मतिगर्वधृतिप्रहर्षाः ॥ ४.६६ ॥

बीभत्सः कृमिपूतिगन्धिवमथुप्रायैर्जुगुप्सैकभूर्
उद्वेगो रुधिरान्त्रकीकसवसामांसादिभिः क्षोभणः ।
वैराग्याज् जघनस्तनादिषु घृणाशुद्धोऽनुभावैर्वृतो
नासावक्त्रविकूणनादिभिरिहावेगार्तिशङ्कादयः ॥ ४.६७ ॥

क्रोधो मत्सरवैरिवैकृतमयैः पोषोऽस्य रौद्रोऽनुजः
क्षोभः खाधरदंशकम्पभ्रुकुटिस्वेदास्यरागैर्युतः ।
शत्रोल्लासविकत्थमांसधरणीघातप्रतिज्ञाग्रहैर्
अत्रामर्षमदौ स्मृतिश्चपलतासूयाग्र्यवेगादयः ॥ ४.६८ ॥

विकृताकृतिवाग्वेषैरात्मनोऽथ परस्य वा ।
हासः स्यात् परिपोषोऽस्य हास्यस्त्रिप्रकृतिः स्मृतः ॥ ४.६९ ॥

स्मितमिह विकासिनयनं किञ्चिल्लक्ष्यद्विजं तु हसितं स्यात् ।
मधुरस्वरं विहसितं सशिरःकम्पमिदमुपहसितम् ॥ ४.७० ॥

अपहसितं सास्राक्षं विक्षिप्ताङ्गं भवत्यतिहसितम् ।
द्वे द्वे हसिते चैषां ज्येष्ठे मध्येऽधमे क्रमशः ॥ ४.७१ ॥

निद्रालस्यश्रमग्लानिमूर्छाश्च सहचारिणः ।
अतिलोकैः पदार्थैः स्याद् विस्मयात्मा रसोऽद्भुतः ॥ ४.७२ ॥

कर्मास्य साधुवादाश्रुवेपथुस्वेदगद्गदाः ।
हर्षावेगधृतिप्राया भवन्ति व्यभिचारिणः ॥ ४.७३ ॥

विकृतस्वरसत्त्वादेर्भयभावो भयानकः ।
सर्वाङ्गवेपथुस्वेदशोषवैचित्त्यलक्षणः ।
दैन्यसम्भ्रमसम्मोहत्रासादिस्तत्सहोदरः ॥ ४.७४ ॥

इष्टनाशादनिष्टाप्तौ शोकात्मा करुणोऽनु तम् ।
निःश्वासोच्छ्वासरुदितस्तम्भप्रलपितादयः ॥ ४.७५ ॥

स्वापापस्मारदैन्याधिमरणालस्यसम्भ्रमाः ।
विषादजडयोन्मादचिन्ताद्या व्यभिचारिणः ॥ ४.७६ ॥

प्रीतिभक्त्यादयो भावा मृगयाक्षादयो रसाः ।
हर्षोत्साहादिषु स्पष्टमन्तर्भावान् न कीर्तिताः ॥ ४.७७ ॥

षट्त्रिंशद्भूषणादीनि सामादीन्येकविंशतिः ।
लक्ष्यसन्ध्यन्तराङ्गानि सालङ्कारेषु तेषु च ॥ ४.७८ ॥

रम्यं जुगुप्सितमुदारमथापि नीचम्
उग्रं प्रसादि गहनं विकृतं च वस्तु ।
यद्वाप्यवस्तु कविभावकभाव्यमानं
तन् नास्ति यन् न रसभावमुपैति लोके ॥ ४.७९ ॥

विष्णोः सुतेनापि धनञ्जयेन
विद्वन्मनोरागनिबन्धहेतुः ।
आविष्कृटं मुञ्जमहीशगोष्ठी-
वैदग्ध्यभाजा दशरूपमेतत् ॥ ४.८० ॥

एको चरे खग्गविसाणकप्पो ॥