दशकुमारचरितम्/उत्तरपीटिका/प्रथमोच्छ्वासः

विकिस्रोतः तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
दशकुमारचरितम्
प्रथमोच्छ्वासः
दण्डिनः
द्वितीयोच्छ्वासः →

श्रुत्वा तु भुवनवृत्तान्तमुत्तमाङ्गना विस्मयविकसिताक्षी सस्मितमिदमभाषत-"दयित, त्वत्प्रसादादद्य मे चरितार्था श्रोत्रवृत्तिः ।
अद्य मे मनसि तमोऽपहस्त्वया दत्तो ज्ञानप्रदीपः ।
पक्कमिदानां त्वत्पादपद्मपरिचर्याफलं ।
अस्य च त्वत्प्रसादस्य किमुपकृत्य प्रत्युपकृतवती भवेयं ।
अभवदीयं हि नैव किञ्चिन्मत्संबद्धं ।
अथवास्त्येवास्यापिजनस्य क्वचित्प्रभुत्वं ।
अशक्यं हि मादिच्छया विना सरस्वतीमुखग्रहणोच्छेषणीकृतो दशनच्छद एष चुम्बयितुं ।
अम्बुजासनास्तनतटोपभुक्तमुरःस्थलं चेदमालिङ्गयितुम्ऽ इति प्रियोरसि प्रावृडिव नभस्युपास्तीर्णगुरुपयोधरमण्डला प्रौढकन्दलीकुड्मलमिव रूढरागरूषितं चक्षुरुल्लासयन्ती वर्हिवर्हावलीं विडम्बयता कुसुमचन्द्रकशारेण मधुकरकुलव्याकुलेन केशकलापेन स्फुरदरुणकिरणकेसरकरालं कदम्बमुकुलमिव कान्तस्याधरमणिमधीरमाचुचुम्ब ।
तदारम्भसफरितया च रागवृत्त्या भूयोऽप्यावर्ततातिमात्रचित्रोपचारशीफरो रतिप्रबन्धः ।
सुरतखेदसुप्तयोस्तु तयोः स्वप्ने बिसगुणनिगडितपादो जरठः कश्चिज्जालपादोऽदृश्यत ।
प्रत्यबुध्येतां चौभौ ।
अथ तस्य राजकुमारस्य कमलमूढशशिकिरणरज्जुदामनिगृहीतमिव रजतशृङ्खलोपगूढं चरणयुगलमासीत् ।
उपलभ्यैव च "किमेतत्ऽ इत्यतिपरित्रासविह्वला मुक्तकण्ठमाचक्रन्द राजकन्या ।
यन च तत्सकलमेव कन्यान्तःपुरमग्निपरीतमिव पिशाचोपहतमिव वेपमानमनिरूप्यमाणतदात्वायतिविभागमगण्यमानरहस्यरक्षासमयमवनितलविप्रविध्यमानगात्रमाक्रन्दविदीर्यमाणकण्ठमश्रुस्रोतोऽवगुण्ठितकपोलतलमाकुलीबभूव ।
तुमुले चास्मिन्समयेऽनियन्त्रितप्रवेशाः "किं किम्ऽ इति सहसोपसृत्य विविशुरन्तर्वंशिकपुरुषाः ।
ददृशुश्च तदवस्थं राजकुमारं ।
तदनुभावनिरुद्धनिग्रहेच्छास्तु सद्य एव ते तमर्थं चण्डवर्मणे निवेदयाञ्चक्रुः ।
सोऽपि कोपादागत्य निर्दहन्निव दहनगर्भया दृशा निशाम्योत्पन्नप्रत्यभिज्ञः "कथं स एवाष मदनुजमरणनिमित्तभूतायाः पापाया बालचन्द्रिकायाः पत्युरत्यभिनिविष्टवित्तदर्पस्य वैदेशिकवणिक्पुत्रस्य पुष्पोद्भवस्य मित्रं रूपमत्तः कलाभिमानी नैकविधविपरलम्भोपायपाटवावर्जितमूढपौरजनमिथ्यारोपितवितथदेवतानुभावः कपटधर्मकञ्चुको निगूढपापशीलश्चपलो ब्राह्मणब्रुवः ।
कथमिवैनमनुरक्ता मादृशेष्वपि पुरुषसिंहेषु सावमाना पापेयमवन्तिसुन्दरी ।
पश्यतु पतिमद्यैव शूलावतंसितमियमनार्यशीला कुलपांसनीऽ इति निर्भर्त्सयन्भीषणभ्रुकुटिदूषतललाटः काल इव काललोहदण्डकर्कशेन बाहुदण्डेनावलम्ब्य हस्ताम्बुजे रेखाम्बुजरथाङ्गलाञ्छने राजपुत्रं सरभसमाचकर्ष ।
स तु स्वभावधीरः सर्वपौरुषातिभूमिः सहिष्णुतैकप्रतिक्रियां दैवीमेव तामापदमवधार्य "स्मर तस्या हंसगामिनि, हंसकथायाः ।
सहस्व वासु, मासद्वयम्ऽइति प्राणपरित्यागरागिणीं प्राणसमां समाश्वास्यारिवश्यतामयासीत् ।
अथ विदितवार्तावार्तौ महादेवीमालवेन्द्रौ जामातरमाकारपक्षपातिनावात्मपरित्यागोपन्यासेनारिणा जिघांस्यमानं ररक्षतुः ।
न शेकतुस्तु तमपरभुत्वादुत्तारयितुमापदः ।
स किल चण्डशीलश्चण्जवर्मा सर्वमिदमुदन्तजातं राजराजगिरौ तपस्यते दर्पसाराय संदिश्य सर्वमेव पुष्पोद्भवकुटुम्बकं सर्वस्वहरणपूर्वकं सद्य एव बन्धने क्षिप्त्वा कृत्वा च राजवाहनं राजकेसरिकिशोरकमिव दारुपञ्जरनिबद्धं मूर्धजजालवलीनचूढामणिप्रभावविक्षिप्तक्षुत्पिपासादिखेदं च तमवधूतदुहितृप्रार्थनस्याङ्गराजस्योद्धरणायाङ्गानभियास्यन्न्यविश्वासान्निनाय ।
रुरोध च बलभरदत्तकम्पश्चम्पां ।
चम्पेश्वरोऽपि सिंहवर्मा सिंह इवासह्यविक्रमः प्राकारं भेदयित्वा महता बलसमुदायेन निर्गत्य स्वप्रहितदूतव्राताहूतानां साहाय्यदानायातिसत्वरमापततां धरापतीनामचिरकालभाविन्यपि संनिधावदत्तापेक्षःस साक्षादिवावलेपो वपुष्मानक्षमापरीतः प्रतिबलं प्रतिजग्राहः ।
जगृहे च महति संपराये क्षीणसकलसैन्यमण्डलः प्रचण्डप्रहरणशतभिन्नमर्मा सिंहवर्मा करिणः करिणमवप्लुत्यातिमानुषप्राणबलेन चण्डवर्मणा ।
स च तद्दुहितर्यम्बालिकायामबलारत्नसमाख्यातायामतिमात्राभिलाषः प्राणैरेनं न व्ययूयुजत् ।
अवपि त्वनीनयदपनीताशेषशल्यमकल्यसंधो बन्धनं ।
अजीगणच्च गणकसंघैः "अद्यैव क्षपावसाने विवाहनीया राजदुहिताऽ इति ।
कृतकौतुकमङ्गले च तस्मिन्नेकपिङ्गाचलात्प्रतिनिवृत्त्यैणजङ्घो नाम जङ्घाकरिकः प्रभवतो दर्पसारस्य प्रतिसंदेशमावेदयत्--"अयि मूढ, किमस्ति कन्यान्तःपुरदूषकेऽपि कश्चित्कृपावसारः ।
स्थविरः स राजा जराविलुप्तमानावमानचित्तो दुश्चरितदुहितृपक्षपाती यदेव किञ्चित्प्रलपति त्वयापि किं तदनुमत्या स्थातव्यं ।
अविलम्बितमेव तस्य कामोन्मत्तस्य चित्रवधवार्ताप्रेषणेन श्रवणोत्सवोऽस्माकं विधेयः ।
सा च दुष्टकन्या सहानुजेन कीर्तिसारेण निगडितचरणा चारके निरोद्धव्याऽ इति ।
तच्चाकर्ण्य "प्रातरेव राजभवनद्वारे स च दुरात्मा कन्यान्तःपुरदूषकः संनिधापयितव्यः ।
चण्डपोतश्च मातङ्गपतिरुपचितकल्पनोपपन्नस्तत्रैव समुपस्थापनीयः ।
कृतविवाहकृत्यश्चोत्थायाहमेव तमनार्यशीलं तस्य हस्तिनः कृत्वा क्रीडनकं तदधिरूढ एव गत्वा शत्रसाहाय्यकाय प्रत्यासीदतो राजन्यकस्य सकोशवाहनस्यावग्रहणं करिष्यामिऽ इति पार्श्वचरानवेक्षाञ्चक्रे ।
निन्ये चासावहन्यन्यस्मिन्नुन्मिषत्येवोषारोगे राजपुत्रो राजाङ्गणं रक्षिभिः ।
उतस्थे च क्षरितगण्डश्चण्डपोतः ।
क्षणे च तस्मिन्मुमुचे तदङ्घ्रियुगलं रजतशृङ्खलया ।
सा चैनं चन्द्रलेखाच्छविः काचिदप्सरा भूत्वा प्रदक्षिणीकृत्य प्राञ्जलिरंव्यजिज्ञपत्--"देव, दीयतामनुग्रहार्द्रं चित्तं ।
अहमस्मि स्ॐअरश्मिसंभवा सुरतमञ्जरी नाम सुरसुन्दरी ।
तस्या मे नभसि नलिनलुब्ध मुग्धकलहंसानुबद्धवक्त्रायास्तन्निवारणक्षोभविच्छिन्नविगलिता हारयष्टिर्यदृच्छया जातु हैमवते मन्दोदके मग्नोन्मग्नस्य महर्षेर्मार्कण्डेयस्य मस्तके मणिकिरणद्विगुणितपलितमपतत् ।
पातितश्च कोपितेन कोऽपि तेन मयि शापः--"पापे, भजस्व लोहजातिमजातचैतन्या सतीऽ इति ।
स पुनः प्रसाद्यमानस्त्वत्पादपद्मद्वयस्य मासद्वयमात्रं संदानतामेत्य निस्तरणीयामिमामापदमपरिक्षीणशक्तित्वं चेन्द्रियाणामकल्पयत् ।
अनल्पेन च पाप्मना रजतशृङ्खलीभूतां मामैक्ष्वाकस्य राज्ञो वेगवतः पौत्रः, पुत्रो मानसवेगस्य, वीरशेखरो नाम विद्याधरः शङ्करगिरौ समध्यगमत् ।
आत्मसात्कृता च तेनाहमासं ।
अथासौ पितृप्रयुक्तवैरे प्रवर्तमाने विद्याधरचक्रवर्तिनि वत्सराजवंशवर्धने नरवाहनदत्ते विरसाशयस्तदपकारक्षमोऽयमिति तपस्यता दर्पसारेण सह समसृज्यत ।
प्रतिश्रुतं च तेन तस्मै स्वसुरवन्तिसुन्दर्याः प्रदानं ।
अन्यदा तु वियति व्यवदायमानचन्द्रिके मनोरथप्रियतमामवन्तिसुन्दरीं दिदृक्षुरवशेन्द्रियस्तदिन्द्रमन्दिरद्युति कुमारीपुरमुपासरत् ।
अन्तरितश्च तिरस्करिण्या विद्यया ।
स च तां तदा त्वदङ्कापाश्रयां सुरतखेदसुप्तगात्रीं त्रिभुवनसर्गयात्रासंहारसंबद्धाभिः कथाभिरमृतस्यन्दिनीभिः प्रत्यानीयमानरागपूरां न्यरूपयत् ।
स तु प्रकुपितोऽपि त्वदनुभावप्रतिबद्धनिप्रहान्तराध्यवसायः समालिङ्ग्येतरेतरमत्यन्तसुखसुप्तयोर्युवयोर्दैवदत्तोत्साहः पाण्डुलोहशृङ्खलात्मना मया पादपद्मयोर्युगलं तव निगडयित्वा सरोषरभसमपासरत् ।
अवसितश्च ममाद्य शापः ।
तच्च मासद्वयं तव पारतन्त्र्यं ।
प्रसीदेदानीं ।
किं तव करणीयम्ऽ इति प्रणिपतन्ती "वार्तयानया मत्प्राणसमां समाश्वासयऽ इति व्यादिश्य विससर्ज ।
तस्मिन्नेव क्षणान्तरे "हतो हतश्चण्डवर्मा सिंहवर्मदुहितुरम्बालिकायाः पाणिस्पर्शरागप्रसारिते बाहुदण्ड एव बलवदलम्ब्य सरभसमाकृष्य केनापि दुष्करकर्मणा तस्करेण नखप्रहारेण राजमन्दिरोद्देशं च शवशतमयमापादयन्नचकितगतिरसौ विहरतिऽ इति वाचः समभवन् ।
श्रुत्वा चैतत्तमेव मत्तहस्तिनमुदस्ताधोरणो राजपुत्रोऽधिरुह्य रंहसोत्तमेन राजभवनमभ्यवर्तत ।
स्तम्बेरमरयावधूतपदातिदत्तर्त्मा च प्रविश्य वेश्याभ्यन्तरमदभ्राभ्रनिर्घोषगम्भीरेण स्वरेणाभ्यधात्--"कः स महापुरुषो यैनैतन्मानुषमात्रदुष्करं महत्कर्मानुष्ठितं ।
आगच्छतु ।
मया सहेमं मत्तहस्तिनमारोहतु ।
अभयं मदुपकण्ठवर्तिनो देवदानवैरपि विगृह्णानस्यऽ इति ।
निशम्यैवं स पुमानुपोढहर्षो निर्गत्य कृता ञ्जलिराक्रम्य संज्ञासंकुचितं कुञ्जरगात्रमसक्तमध्यरुक्षत् ।
आरोहन्तमेवैनं निर्वर्ण्यहर्षोत्फुल्लदृष्टिः "अये, प्रियसखोऽयमपहारवर्मैवऽ इति पश्चान्निषीदतोऽस्य बाहुदण्डयुगलमुभयभुजमूलप्रवेशितमग्रेऽवलम्ब्य स्वमङ्गमालिङ्गयामास ।
स्वयं च पृष्ठतो वलिताभ्यां भुजाभ्यां पर्यवेष्टयत् ।
तत्क्षणोपसंहृतालिङ्गनव्यतिकरश्चापहारवर्मा चापचक्रकणपकर्पणप्रासपट्टिशमुसलत्ॐअरादिप्रहरणजातमुपयुञ्जानान्बलावलिप्तान्प्रतिबलवीरान्बहुप्रकारायोधिनः परिक्षिपतः क्षितौ विचिक्षेप ।
क्षणेन चाद्राक्षीत्तदपिसैन्यमन्येन समन्ततोऽभिमुखमभिधावता बलनिकायेन परिक्षिप्तं ।
अनन्तरं च कश्चित्कर्मिकारगौरः कुरुविन्दसवर्णकुन्तलः कमलक्ॐअलपाणिपादः कर्णचुम्बिदुग्धधवलस्निग्धनीललोचनः कटितटनिविष्टरत्ननखः पट्टनिवसनः कृशाकृशोदरोरःस्थलः कृतहस्ततया रिपुकुलमिषुवर्षेणाभिवर्षन्पादाङ्गुष्ठनिष्ठरावघृष्टकर्णमूलेन प्रजविना गजेन संनिकृष्य पूर्वोपदेशप्रत्ययात्"अयमेव स देवो राजवाहनःऽ ति प्राञ्जलिः प्रणम्यापहारवर्मणि निविष्टदृष्टिराचष्टत्वदादिष्टेन मार्गेण संनिपातितमेतदङ्गराजसहाय्यदानायोपस्थितं राजकं ।
अरिबलं च विहितविध्वस्तं स्त्रीबालहार्यशस्त्रं वर्तते ।
किमन्यत्कृत्यम्ऽ इति ।
हृष्टस्तु व्याजहारापहारंवर्मा--"देव, दृष्टिदानेनानुगृह्यतामयमाज्ञाकारः ।
सोऽयमेव ह्यमुना रूपणे धनमित्राख्यया चान्तरितो मन्तव्यः स एवायं निर्गमप्यबन्धनादङ्गराजमपवर्जितं च कोशवाहनमेकीकृत्यास्मद्गृह्येणामुना सह राजन्यकेनैकान्ते सुखोपविष्टमिह देवमुपतिष्ठतु यदि न दोषःऽ इति ।
देवोऽपि "यथा ते रोचतेऽ इति तमाभाष्य गत्वा च तन्निर्दिष्टेन मार्गेण नगराद्वहिरतिमहतो रोहिणद्रुमस्य कस्यचित्क्ष्ॐआवदातसैकते गङ्गातरङ्गपवनपातशीतले तले द्विरदादवततर ।
प्रथमसमवतीर्णेनापहारवर्मणा च स्वहस्तसत्वरसमीकृते मातङ्ग इव भागीरथीपुलिनमणाडले सुखं निषसाद ।
तथा निषण्मं च तमुपहारवर्मार्थपालप्रमतिमित्र्रगुप्तमन्त्रगुप्तविश्रुतैर्मैथिलेन च प्रहारवर्मणा, काशीभर्त्रा च कामपालेन चम्पेश्वरेण सिंहवर्मणा सहोपागतय धनमित्रः प्रणिपपात ।
देवोऽपि हर्षाविद्धमभ्युत्थितः "कथं समस्त एष मित्रगणः समागतः को नामायमभ्युदयःऽ इति कृतयथोचितोपचारान्निर्भरतरं परिरेभे ।
काशपितिमैथिलाङ्गराजांश्चसुहृन्निवेदितान्पितृवदपश्यत् ।
तैश्च हर्षकम्पितपलितं सरभसोपगूढः परमभिननन्द ।
ततः प्रवृत्तासु प्रीतिसंकथासु प्रियवयम्यगणानुयुक्तः स्वस्य च स्ॐअदत्तपुष्पोद्भेवयाश्चरितमनुवरण्य सुहृदामपि वृत्तान्तं क्रमेण श्रोतुं कृतप्रस्तावस्तांश्च तदुक्तावन्वयुङ्क्त ।
तेषु प्रथमं प्राह स्म किलापहारवर्मा-- ।। २,१ ।।

इति श्रीदण्डिनः कृतौ दशकुमारचरिते राजवाहनचरित नाम प्रथम उच्छ्वासः