सामग्री पर जाएँ

दर्पदलनम् (मूलप्रतिसहितम्)

विकिस्रोतः तः
दर्पदलनम् (मूलप्रतिसहितम्)
क्षेमेन्द्रः
१९३०

महाकविक्षेमेन्द्रविरचितं
दर्पदलनम्
प्रथमो विचारः

प्रशान्ताशेषविघ्नाय दर्पसर्पापसर्पणात् ।
सत्यामृतनिधानाय स्वप्रकाशविकासिने ॥१॥
संसारव्यतिरेकाय हृतोत्सेकाय चेतसः ।
प्रशमामृतसेकाय विवेकाय नमो नमः ॥२॥ (युग्मम्)

क्षेमेन्द्रः सुहृदां प्रीत्या दर्पदोषचिकित्सकः ।
स्वास्थ्याय कुरुते यत्नं मधुरैः सूक्तिभेषजैः ॥३॥

कुलं वित्तं श्रुतं रूपं शौर्यं दानं तपस्तथा ।
प्राधान्येन मनुष्याणां सप्तैते मदहेतवः ॥४॥

अहंकाराभिभूतानां भूतानामिव देहिनाम् ।
हिताय दर्पदलनं क्रियते मोहशान्तये ।। ५ ॥

कुलं कुलं कलयतां मोहान्मिथ्याभिमानिनाम् ।
लग्नः कोऽयं न जानीमः स्तब्धग्रीवाग्रहग्रहः ॥६॥

कुलस्य कमलस्येव मूलमन्विष्यते यदि ।
दोषपङ्कप्रसक्तान्तस्तदावश्यं प्रकाशते ॥ ७॥

यथा जात्यतुरंगस्य न शक्यज्जात्यमुच्यते ।
तथा गुणवतः सूनुनिर्गुणस्तत्कुलोद्भवः ॥ ८॥

एकश्चेत्पूर्वपुरुषः कुले यज्वा बहुश्रुतः ।
अपरः पापकृन्मूर्खः कुलं कस्यानुवर्तताम् ॥ ९॥

लोके कुलं कुलं तावद्यावत्पूर्वसमन्वयः ।
गुणप्रभावे विच्छिन्ने समाप्तं सकलं कुलम् ॥ १० ॥

कुंलाभिमानः कस्तेषां जघन्यस्थानजन्मनाम् ।
कुलकूलंकषा येषां जनन्यो निम्नगाः स्त्रियः ॥ ११ ॥

कुलीनस्य कुलीनस्य नवदारिद्र्यलज्जया ।
किं कुलेनाकुलीनाग्रे याच्ञादैन्यालापिनः ॥ १२ ॥

गुणवत्कुलजातोऽपि निर्गुणः केन पूज्यते ।
दोग्ध्रीकुलोद्भवा धेनुर्वन्ध्या कस्योपयुज्यते ॥ १३ ॥

स्वयं कुलकृतस्तस्माद्विचार्य त्यज्यतां मदः ।
गुणाधीनं कुलं ज्ञात्वा गुणेष्वाधीयतां मतिः ॥ १४॥

मूलान्वेषणचिन्त्यमानमनिशं नास्त्येव पुंसां कुलं
स्त्रीणां यत्र परम्परैव तनुते संतानतन्तुक्रमम् ।
एतासां कृतकप्रपञ्चरचनालज्जावतीनां पुरः
संसक्तस्मररूढगूढचरितं तत्त्वेन जानाति कः ॥ १५ ॥

कुलाभिमानाभरणस्य माता पितामही वा प्रपितामही वा ।
योधित्स्वभावेन यदि प्रदुष्टा तदेष दोषः कुलमूलघातः ॥ १६ ॥

सूर्यवंशे त्रिशङ्कुर्यश्चण्डालोऽभून्महीपतिः ।
दिलीपरघुरामाद्याः क्षितिपास्तत्कुलोद्भवाः ॥ १७ ॥

भूभुजां सोमवंश्यानां यः पूर्वपुरुषो बुधः ।
गुरुतल्पे स चन्द्रस्य जातो जगति विश्रुतः ॥ १८ ॥

कन्यायास्तनयः कर्णः क्षेत्रजाः पाण्डुनन्दनाः।
सामान्यकुलचर्चाभिः किमन्याभिः प्रयोजनम् ॥ १९ ॥

मथुरायामभूत्पूर्वं ब्राह्मणः श्रीमतां वरः ।
यज्वा श्रुतनिधिर्नाम श्रुतिमान्विश्रुतश्रुतः ॥ २० ॥

तस्य मुक्तालता नाम प्रांशुवंशसमुद्भवा ।
बभूव बल्लभा पत्नी लावण्यललिताकृतिः ॥ २१ ॥

तस्यां तस्वाभवत्कान्तः सुवृत्तः सगुणाग्रणीः ।
पुत्रस्तेजोनिधिर्नाम विद्याविमलदर्पणः ॥ २२ ॥

स धीमान्वेदविद्वादी कविः सर्वकलालयः ।
सभासु विदुषां चक्रे लज्जयावनतं शिरः ॥ २३ ॥

तं दर्पदोषज्वरितं ग्रीवास्तम्भयुतं रहः ।
प्रशमाय पिता स्नेहात्पथ्यं वक्तुं प्रचक्रमे ॥ २४ ॥

पुत्र मिथ्याभिमानेन किं प्रयातोऽसि मूढताम् ।
यन्मदद्विरदारूढः पूज्यपूजासु लज्जसे ॥ २५ ॥

नास्त्युपायः स संसारे दर्पश्वभ्रनिपातिनाम् ।
मूढानां क्रियते येन क्षणं हस्तावलम्बनम् ॥ २६ ॥

कष्टं केनोपदिष्टस्ते विनष्टविनयस्मृतेः ।
मदः साधुजनानिष्टः कुलविद्याधनोद्भवः ॥ २७ ॥

अस्थिरः कुलसंबन्धः सदा विद्याविवादिनी ।
मैदो मोहाय मिथ्यैव मुहूर्तनिधनं धनम् ॥ २८ ॥

एतदेव कुलीनत्वमेतदेव गुंणार्जनम् ।
यत्सदैव सतां सत्सु विनयावनतं शिरः ॥ २९ ॥

देयैव विदिता विद्या सत्यमेवाक्षयं धनम् ।
अकलङ्कविवेकानां शीलमेवामलं कुलम् ॥ ३० ॥

अभोगसुभगा भूतिरदैन्यधवलं कुलम् ।
अदर्पविशदा विद्या भवत्युन्नतचेतसाम् ॥ ३१ ॥

द्वेषः कस्य न दोषाय प्रीतिः कस्य न भूतये ।
दर्पः कस्य न पाताय नोन्नत्यै कस्य नम्रता ॥ ३२ ॥

त्यागिना किं दरिद्रेण किं कुलीनेन पापिना ।
तुष्टेन किं कदर्येण दर्पान्धेन बुधेन किम् ॥ ३३ ॥

वैरायते सुहृद्भावः प्रदानं हरणायते ।
दर्पभूताभिभूतस्य विद्या मौर्व्यशतायते ॥ ३४ ॥

गुणिनां मत्सरः शत्रुर्लुब्धानामतियाचकः ।
सर्व एव सदर्पाणां न कश्चित्प्रियवादिनाम् ॥ ३५ ॥

तस्मात्कार्यस्त्वया पुत्र नाहंकारः कदाचन ।
दर्पोद्ग्रीवः किलोग्रेण मोहग्राहेण गृह्यते ॥ ३६ ॥

वंशेनोन्नतिशालिना गुणगणेनान्तश्चमत्कारिणा
रूपेणातिमनोहरेण महता वित्तेने वृत्तेन वा ।
रोहन्मोहमहातरुर्मदमयः संजायते यः सदा
तस्यादौ दृढरूढमूलदलने कार्योऽभियोगस्त्वया ॥ ३७ ॥

गुणेष्वनादरं पुत्र प्राप्तश्रीरपि मा कृथाः ।
संपूर्णोऽपि घटः कूपाद्गुणच्छिन्नः पतत्यधः ॥ ३८ ॥

कुलाभिमानं त्यज संवृताग्रं धनाभिमानं त्यज दृष्टनष्टम् ।
विद्याभिमानं त्यज पण्यरूपं रूपाभिमानं त्यज काललेह्यम् ॥ ३९ ॥

पुत्र प्रयत्नेन विबोधितोऽसि न मुञ्चसि त्वं यदि दर्पमोहम् ।
तदेष ते यास्यति शल्यभावं तीव्राभितापप्रसवोऽभिमानः ॥ ४० ॥

विभूतिनलिनीगजः सुजनमानभङ्गाशनि-
र्निपातपथदैशिकः सुकृतचित्रधूमोद्गमः ।

पराशयनवज्वरश्चरितचन्द्रबिम्बाम्बुदः
सदा समदचेतसां गुणविनाशहेतुर्मदः ॥४१॥

अनित्यतेयं यदि नित्यता स्यात्सर्वं न पाके विरसं यदि स्यात् ।
कुलार्थविद्यादिकृतोऽभिमानस्तदैष ते स्यान्न विडम्बनीयः ॥ ४२ ॥

अहं वादी विद्यापरिचयगुरुः सर्वविदुषा-
महं मानी वाणीप्रसरपरिपाकेन सुकविः ।
अहं लीलाहंसः कुवलयदृशां मानसचरः
करोत्यन्तः पुंसामिति मदपिशाचः परिचयम् ॥ ४३ ॥

लक्ष्मीः क्षणक्षयवती परिरक्षितापि
कायोऽप्यपायनिचयस्य निकाय एव ।
संभोगयोगसुखसंगतिरप्यतथ्या
मिथ्याभिमानकलनाधन एष शापः ।। ४४ ॥

इत्युक्तोऽप्यसकृत्पित्रा लीलामीलितलोचनः ।
स ययौ मत्तहस्तीव वेगादगणिताङ्कुशः ॥ ४५ ॥

पादेन क्षितिमालिखन्ति समदाः कोपोष्णनिःश्वासिन-
स्तिर्यग्जिह्मनिरीक्षणैर्विदधति भ्रूभङ्गभीमं मुखम् ।
सखेदाङ्गुलिकन्दलीनिकषणैस्ताम्यल्ललाटत्वचः
कम्पन्ते हितमन्त्रवादसमये भूताभिभूता इव ॥ १६ ॥

स कदाचिद्वराश्वेषु स्थितेषु जवकौतुकात् ।
प्रतस्थे खरमारुह्य वयस्यगृहमुत्सवे ॥ १७ ॥

तेन तीक्ष्णप्रतोदेन चोद्यमानः पुनः पुनः ।
खरस्तीव्रव्यथातोऽभूत्प्रक्षरत्क्षतजोक्षितः ।। ४८ ॥

स्रुताश्रुः कथितक्लेशः स्वस्वनोचितसंज्ञया ।
सोऽवदत्संमुखायातां गर्दभी जननी निजाम् ॥ १९ ॥

मातर्ब्राह्मणपुत्रोऽयं पश्य मामधमाशयः ।
विदारयन्प्रतोदेन वहन्तं हन्तुमुद्यतः ।। ५० ।।

किं करोमि यमेनाहं लब्धोऽनेन दुरात्मना ।
अवटे पातयाम्येनं तनुं श्वभ्रे क्षिपामि वा ॥ ५१ ॥

इत्यार्तराविणं पुत्रं साश्रुनेत्राथ गर्दभी।
तमुवाच ससंतापं स्नेहसंक्रान्ततद्व्यथा ॥ ५२ ।।

वहैनं दुर्मदं पुत्र सहस्व विषमां व्यथाम् ।
अस्य नास्त्येव हृदये दारुणे करुणाकणः ॥ ५३ ॥

रौद्रः शूद्रेण जातोऽयं ब्राह्मण्यां ब्रह्मवर्जितः ।
परदुःखं न जानाति चण्डं चण्डालचेष्टितः ।। ५४ ॥

दयादरिद्रं हृदयं वचः क्रकचकर्कशम् ।
योनिसंकरजातानामेतत्प्रत्यक्षलक्षणम् ॥ ५५ ॥

नवनीतोपमा वाणी करुणाकोमलं मनः ।
एकबीजप्रजातानां भवत्यवनतं शिरः ॥ ५६ ॥

रटति कटुकाटोपं कोपादकारगवैस्वा-
न्स्पृशति न दयां दैन्यापन्ने विजातितया शठः ।
क्षणरसिकतालोलः सेवाश्रितानवमन्यते
गुणिषु कुरुते गर्वोद्गारानखवर्गलः खलः ॥ ५७ ।।

इति दुःसहमाकर्ण्य गर्दभीवचनं द्विजः ।
सर्वप्राणिखनाभिज्ञः संमोहाभिहतोऽपतत् ।। ५८ ॥

स लब्धसंज्ञः सुचिरान्मेरुशृङ्गादिव च्युतः ।
तत्याज सहसा दर्पं नष्टाखिलकुलोन्नतिः ॥ ५९ ॥

संमूर्च्छितो विषेणेव स गत्वा मातुरन्तिकम् ।
यथाश्रुतं निवेद्यास्यै सर्व पप्रच्छ ता रहः ॥ ६० ॥

तनुत्यागप्रवृत्तेन पृष्टा सा तेन शापिता।
अधोमुखी तमवदद्वैलक्ष्यलुलिताक्षरैः ।। ६१ ॥

लज्जाकरमसत्कर्म कथं तत्कथयामि ते ।
संसारादपि साश्चर्यं गहनं स्त्रीविचेष्टितम् ॥ ६२ ।।

अपि कुञ्जरकर्णाग्रादपि पिप्पलपल्लवात् ।
अपि विद्युद्विलसिताद्विलोलं ललनामनः ॥ ६३ ॥

न बाध्यन्ते गुणैः पत्युर्न लक्ष्यन्ते परीक्षकैः ।
न धनेन निवार्यन्ते शीलत्यागोद्यताः स्त्रियः ॥ ६४ ॥

धनयौवनसंजातदर्पकालुष्यविप्लवाः ।
केनोन्नतपरिभ्रष्टा वार्यन्ते निम्नगाः स्त्रियः ।। ६५ ।।

देहप्रदाः प्राणहरा नराणां भीरुखभावाः प्रविशन्ति वह्निम्।
क्रूराः परं पल्लवपेशलाङ्ग्यो मुग्धा विदग्धानपि वञ्चयन्ति ।। ६६ ॥

अहं पुरा रजःस्नाता काले कुसुमलाञ्छने ।
एकाकिनी पुष्पवने यौवनोन्मादिनी स्थिता ॥ ६७ ।।

व्रतदीक्षापरे पत्यौ सेर्ष्येव विनतानना ।
उन्नतस्तनविन्यस्तहस्ता चिरमचिन्तयम् ॥ ६८ ॥

एताः श्वसनसोत्कम्पाः सजृम्भाः षट्पदखनैः !
सोत्कण्ठमिव गायन्ति लताः पुष्परजस्वलाः ॥ ६९ ॥

उद्भिन्यौवनाक्रान्ता प्रियभोगवियोगिनी ।
व्रतशेषजुषः पत्युर्दोषेणैवास्मि निष्फला ॥ ७० ॥

इति चिन्ताक्षणे तस्मिंल्लग्नाभिमुखदर्पणः ।
नापितः परिहासाख्यः शीलशत्रुरिवाययौ ।। ७१ ॥

स मामेकाकिनीं दृष्ट्वा नष्टसंवृतिकातराम् ।
पस्पर्शोत्कम्पिनीं पादनखग्रहणलीलया ॥ ७२ ॥

तत्राहं वृत्तकर्तव्या नीचसंगमलज्जया ।
अधोमुखी च्युतं शीलं वीक्षमाणेब मूर्च्छिता ।। ७३ ।।

अविदूरे चरन्ती सा खरी सर्वं ददर्श तत् ।
गूढगर्भप्रदं चैतत्कर्म मे कुलपातकम् ॥ ७४ ॥

आस्तां किमनया पुत्र गुप्तवृत्तान्तचर्चया
संवृतान्येव शोभन्ते शरीराणि कुलानि च ॥ ७५ ।।

इति मातुर्वचः श्रुत्वा यातः स सहसान्धताम् ।
जातिमानावपतनान्निर्जीवित इवाभवत् ।। ७६ ॥

अथ गत्वा निराहारः स कैलासाट्टहासिनीम् ।
आशां ब्राह्मण्यबद्धाशश्चचार सुचिरं तपः ।। ७७ ॥

तस्योग्रतपसा तुष्टः स्वयमेव शतक्रतुः ।
ब्राह्मण्यं याचमानस्य न ददौ दुर्लभं भुवि ॥ ७८ ।।

पुनः पुनः स तपसा संतापितजगत्त्रयः ।
सहस्राक्षवरात्प्राप देवत्वं न तु विप्रताम् ॥ ७१ ।।

छन्दोदेवाभिधानोऽथ सोऽभवद्भुवि विश्रुतः ।
प्रत्यब्दमेकदिवसे खर्चनीयो मृगीदृशाम् ॥ ८० ॥

संमोहपातालविशालसर्पस्तस्मान्न कार्यः कुलजातिदर्पः ।
शमक्षमादानदयाश्रयाणां शीलं विशालं कुलमामनन्ति ॥ ८१ ॥

माता न यस्वास्त्यविवेकराशिः पुनर्भवाब्धिर्जनको न यस्य ।
यस्य प्रसक्ता दयिता न तृष्णा स एव लोके कुशली कुलीनः ।। ८२ ।।

इति श्रीव्यासदासापराख्यक्षेमेन्द्रविहिते दर्पदलने कुलविचारः प्रथमः ।

द्वितीयो विचारः।

धनेन दर्पः किमयं नराणां लक्ष्मीकटाक्षाञ्चलचञ्चलेन ।
यत्कंधराबद्धमपि प्रयाति नैकं पदं कालगतस्य पश्चात् ॥ १॥

सुरक्षितं तिष्ठति निर्निमित्तमरक्षितं तिष्ठति दैवयोगात् ।
स्थितं कदर्यस्य न चोपयुक्तमुन्मत्तनृत्तोपममेव वित्तम् ॥ २ ॥

कर्मोक्तिनर्मनिर्माणैः प्रातः प्रातः प्रधावताम् ।
धनं धनं प्रलपतां निधनं विस्मृतं नृणाम् ।। ३ ।।

विच्छाययोर्निर्व्यययोः कष्टक्लिष्टकलत्रयोः ।
विशेषः क्लेशदोषस्य कः कदर्यदरिद्रयोः ॥ ४॥

ये धनादानसंनद्धा नेक्षन्ते निधनावधिम् ।
निन्दन्तो लुब्धतां तेषामन्तेऽन्ये भुञ्जते धनम् ॥ ५ ॥

उक्तं परस्यामिषतामनुक्तं यात्यदृश्यताम् ।
हृदये शल्यतां धत्ते निधने धनिनां धनम् ॥ ६ ॥

धनेन जीवितेनेव कण्ठस्थेन निरीक्षते ।
पर्यन्तेऽप्यप्रकाशेन बन्धूनां मुखमातुरः ॥ ७ ॥

यदर्जितं परिक्लेशैरर्जितं यन्न भुज्यते ।
विभज्यते यदन्तेऽन्यः कस्यचिन्मास्तु तद्धनम् ॥ ८ ॥

विद्या विवादाय धनं मदाय प्रज्ञाप्रकर्षः परवञ्चनाय ।
अत्युन्नतिलोकपराभवाय येषां प्रकाशस्तिमिरं हि तेषाम् ॥ ९ ॥

अशान्तान्तस्तृष्णा धनलवणवारिव्यतिकरै-
र्गतच्छायः कायश्चिरविरसरूक्षाशनतया ।
अनिद्रा मन्दोऽग्निर्नृपसलिलचौरानलमया-
त्कदर्याणां कष्टं स्फुटमधनकष्टादपि परम् ।। १० ।।

श्रावस्त्यां सार्थवाहोऽभूदर्थनाथ इवापरः ।
नन्दो नाम निरानन्दः कीर्तनेनार्थिनामपि ॥ ११ ॥

स कदर्यः सदा सर्वजनस्योद्वेगदुःसहः ।
मूर्घशायी निधानानां कालव्याल इवाभवत् ॥ १२ ॥

कृत्वा समस्तं दिवसं धनानां निधानकुम्भीगणना- विधानम् ।
स लाजपेयापलमानशीलमश्नाति रात्रावुदरं सशूलम् (१) ॥ १३ ॥

निर्व्यञ्जनं निर्लवणं विनष्टममृष्टयाकं विनिविष्टकष्टम् ।
अदृष्टहासं व्ययसंनिरोधात्तस्याभवद्वेश्म संशोकमूकम् ॥ १४ ॥

विच्छायं निःसुखानन्दं निर्दीपं जलवर्जितम् ।
तस्य कष्टं कदर्यस्य परलोकमभूद्गृहम् ॥ १५ ॥

स भक्तसंचये नित्यमभक्तः संततामयैः ।
सुवर्णवान्विवर्णोऽभूत्संपूर्णश्चिन्तया कृशः ॥ १६ ॥

पुण्यप्राप्या मतिर्नाम धनर्द्धिरिव रूपिणी ।
भार्याभूत्तदयोग्यस्य तस्य दैवविपर्ययात् ॥ १७ ॥

सदा प्रच्छाद्य सा भर्तुश्चकारातिथिसत्क्रियाम् ।
तेन व्ययविवादेषु शोषिता कलहाग्निना ॥ १८ ॥

तस्यां तस्याभवत्सूनुः सगुणश्चन्दनाभिधः ।
पित्रा लोभान्धकारेण नीतः पद्म इवान्यताम् ॥ १९ ॥

कदाचित्स्वगृहद्वारि दृष्ट्वा लब्धान्नमर्थिनम् ।
चकार कलहं नन्दः पत्न्या शोणितपातनम् ॥ २० ॥

सोऽवदत्कोपदष्टौष्ठः श्वसन्भार्यामधोमुखीम् ।
तत्स्पर्शपापं स्तनयोः क्षालयन्तीमिवाश्रुभिः ॥ २१ ॥

मम दास्यति को भिक्षां त्वत्पाणिक्षीणसंपदः ।
दारिद्र्यजननी यस्य स्थिता त्वं दुर्भगा गृहे ॥ २२ ॥

स्त्रियो यत्र प्रगल्भन्ते भर्तुराच्छाद्य कर्तृताम् ।
गृहं भवत्यवश्यं तदास्पदं परमापदाम् ।। २३ ।।

गृहमेकं गृहस्थस्य गृहाणां शतमर्थिनः ।
भार्याभर्जितवित्तस्य नष्टा गृहपतेर्गतिः ॥ २४ ॥

तृप्तिदं दर्शनेनापि जन्तोर्जीवितजीवितनम् ।
द्रविणं येन रक्षन्ति खकायं भक्षयन्ति ते ॥ २५ ॥

जीवन्नप्यक्रियो निःस्वः शवोऽप्यर्थेन सक्रियः ।।
दारिद्र्यं मरणं लोके धनमायुः शरीरिणाम् ॥ २६॥

एतदेवार्थसामर्थ्यं प्रत्यक्षेणोपलक्ष्यते ।
यत्स्कन्धबन्धे जीवद्भिः शवः शिबिकयोह्यते ।। २७ ॥

प्रयच्छसि किमर्थिभ्यस्त्वमन्नं क्लेशसंचितम् ।
दीयते यकिल प्रास्त्यै तत्प्राप्तं किं न रक्ष्यते ॥ २८ ॥

पुत्रदारादिसंबन्धः पुंसां धननिबन्धनः ।
क्षीणात्पुत्राः पलायन्ते दारा गच्छन्ति चान्यतः ॥ २९ ॥

पण्डिताः कवयः शूराः कलावन्तस्तपस्विनः ।
वैद्यस्येव सवित्तस्य वीक्षन्ते मुखमातुराः ॥ ३० ॥

इति तस्य वचः श्रुत्वा कृपणस्यार्थनिष्कृपम् ।
सा तमूचे समुचितं सत्त्वस्याभिजनस्य च ॥ ३१॥

सन्तः कुर्वन्ति यत्नेन धर्मस्यार्थे धनार्जनम् ।
धर्माचारविहीनानां द्रविणं मलसंचयः ॥ ३२ ॥

यत्करोत्यरुचिं क्लेशं तृष्णां मोहं प्रजागरम् ।
न तद्धनं कदर्याणां हृदयव्याधिरेव तत् ॥ ३३ ॥

वर्धते यो धनव्याधिः सुखभोगवियोगकृत् ।
तस्याशु शमनं पथ्यं राजवैद्यचिकित्सया ॥ ३४ ॥

लोभान्नाभूद्गृहे यस्य कदाचित्कश्चिदुत्सवः ।
नृत्यन्ति पटहैस्तस्य निधने धनभागिनः ॥ ३५ ॥

कणाचामतुषाङ्गारान्यत्नेन परिरक्षसि ।
मूषकापहृतं कोषे रत्नराशिं न पश्यसि ॥ ३६ ॥

धनेन दर्पः को नाम यत्क्षणेन विनश्यति ।
रक्ष्यमाणं व्ययेनैव भक्ष्यमाणमुपप्लवैः ।। ३७ ॥

विचार्यमाणस्तत्त्वेन दैवाधीनतया नृणाम् ।
न कस्याञ्चिदवस्थायां धनलोभः प्रशस्यते ॥ ३८॥

कलौ काले खले मित्रे पुत्रे दुर्व्यसनान्विते ।
तस्करेषु प्रवृद्धेषु लुब्धे राज्ञि धनेन किम् ॥ ३९ ॥

ऋणिकैः कलहैर्नित्यमच्छिन्नगणनागतेः।
दानद्विषोऽनपत्यस्य मन्दामेश्च धनेन किम् ।। ४० ॥

सहसासादितार्थस्य राजद्रोहादिपातकैः ।
भयादव्ययशीलस्य शल्येनेव धनेन किम् ॥ ४१॥

घोरप्रतिग्रहग्रामप्रस्तोदग्रगुणौजसः ।
तद्विभागानभिज्ञस्य धूर्ताप्तस्य धनेन किम् ॥ ४२ ॥

रात्रिसेवावसन्नस्य शीतवातातपस्थितः ।
प्रभुदृष्टिप्रहृष्टस्य कष्टार्हस्य धनेन किम् ॥ ४३ ॥

प्रभूतलामलोमेन प्रयुक्तार्थस्य सर्वतः ।
भूर्जदृष्टेन तुष्टस्य नष्टबुद्धेर्धनेन किम् ॥ ४४ ॥

मलशीलस्य वणिजत्कृतस्य जुगुप्सया ।
लसुनस्याशुचेः पाकगन्धेनेव धनेन किम् ॥ ४५ ॥

कौड़ितेनाध्यलब्धेन भोगाहें नवयौवने।
जराजीर्णशरीरस्य गन्धेनेव धनेन किम् ॥ ४६॥

प्रवज्यात्यक्तगेहस्य जनगौरवपूजया ।
धनसंघटितार्थस्य बन्धेनेव धनेन किम् ॥ ४७ ॥

शिशोरङ्कुशशून्यस्य पातितस्यापथे विटैः ।
क्षणक्षयोपयोगेन स्वप्नेनेव धनेन किम् ॥ १८ ॥

भार्यया स्वैरचारिण्या प्रामस्थस्य नियोगिनः ।
प्रसभं भुज्यमानेन पापाप्तेन धनेन किम् ॥ ४९ ॥

शिष्यसंपादिताशेषभोगवस्त्रादिसंपदः ।
गुरोर्दम्भेन सिद्धस्य संचितेन धनेन किम् ।। ५० ॥

राजकोषनियुक्तस्य चौर्यचिह्नेन केवलम् ।
व्ययेन शङ्कनीयस्य वधेनेव धनेन किम् ॥ ५१ ॥

अज्ञातभाविचौरादिदोषैनित्यविनाशिना ।
हास्यैकहेतुना लोके गणकस्य धनेन किम् ॥ ५२ ।।

पिटकस्येव पूर्णस्य पीडनीयस्य भूभुजा ।
निष्पाकशाकभोज्यस्य ग्रामीणस्य धनेन किम् ॥ ५३ ।।

कलमाक्रान्तविश्वस्य मषीकृष्णस्य भोगिनः ।
आसन्नबन्धनस्यान्ते दिविरस्य धनेन किम् ।। ५४ ॥

गृहिणीविग्रहोग्रस्य मुँहुस्तृण उपेक्षया (१) ।
कोपोपवासनिःश्वाससंतप्तस्य धनेन किम् ॥ ५५ ॥

मलिनस्य कुबस्त्रस्य स्वल्पाशनपरस्य च ।
दारिद्र्याधिककष्टस्य कदर्यस्य धनेन किम् ।। ५६ ।।

निर्धनाः सुखिनो दृष्टाः सधनाश्चातिदुःखिताः ।
सुखदुःखोदये जन्तोर्दैवाधीने धनेन किम् ॥ ५७ ॥

समानेषु व्यतीतेषु स्वजने शून्यचेतसः ।
विरसासारसंसारविरक्तस्य धनेन किम् ॥ ५८ ॥

यथावाप्तोपयुत्तार्थनिश्चिन्तस्य विपश्चितः ।
अत्यल्पपरितुष्टस्य संतुष्टस्य धनेन किम् ।। ५९ ॥

बालस्तृणे च कनके च समानदृष्टि-
रिष्टं न वेत्ति विषयेष्वविशेषबुद्धिः ।
वित्तेन कोषपरिपोषसहेन तस्मि-
न्काले विवेकविकलो वद किं करोति ॥ ६०॥

प्राणाधिकस्य सुहृदस्तरुणीजनस्य
पुत्रस्य वा गुणनिधेः सहसा वियोगे ।
शोकेन शोचति यदा विवशः शरीरी
रत्नाचलैरपि तदा वद किं करोति ।। ६१ ॥

नार्थं शृणोति न पुनः स्थितिमीहते वा
स्पर्शं न वेत्ति न रसं न तथाधिवासम् ।
वृद्धः प्रयाति पवनेन यदा जडत्वं
भोगैर्धनेन च तदा वद किं करोति ॥ ६२ ।।

रोगार्दितः स्पृशति नैव दृशापि भोज्यं
तीव्रव्यथः स्पृहयते मरणाय जन्तुः ।
सर्वौषधेषु विफलेषु यदा विरौति
धान्यैर्धनेन च तदा वद किं करोति ॥ ६३ !!

निद्राच्छेदसखेदबान्धवजनः सोद्वेगवैद्योज्झितः
पाकक्वाथकदर्थितः परिजनैस्तन्द्रीभयात्क्षोभितः ।
भग्नस्वास्थ्यमनोरथः प्रियतमावष्टब्धपादद्वयः
पर्यन्ते वपुषः करोति पुरुषः किं शल्यतुल्यैर्धनैः ।। ६४ ॥

अलंकृतः काञ्चनकोटिमूल्यैर्महार्हररत्नैर्गजवाजिवाहैः ।
निमेषमात्रं लभते न जीवं कालेन काले शिखया गृहीतः ॥६५॥

निश्चेतनः काष्ठसमानकायस्त्यक्तः क्षणात्पुत्रकलत्रमित्रैः ।
शुभाशुभप्राक्तनकर्मभागी यत्नाप्तरत्नैर्वद किं करोति ॥६६॥

तस्माप्रभूतविभवोद्भवविभ्रमेण
भूताभिभूत इव मा भव साभिमानः ।
एताः श्रियः प्रबललोभघनान्धकार-
विद्युल्लतापरिचिताः सहसैव यान्ति ॥ ६ ॥

नष्टे लज्जितवित्तनाथविभवे साम्राज्यभोगे पुरा
श्रूयन्ते नलरामपाण्डुतनयाः कष्टं प्रविष्टा वनम् ।
शक्रः श्रीविरहे विवेश नलिनीनालान्तरालं हिया
कस्यास्था विविधावधानविधिना निःसंनिधाने धने ।। ६८॥

इत्युक्तोऽप्यसकृत्पल्या खलोभान्न चचाल सः।
स्वभावः सर्वभूतानां सहजः केन वार्यते ॥ ६९ ॥

ततः स काले लोभेन भिषग्भैषज्यवर्जितः ।
कोषे निधानकुम्भेषु लीनपृष्ठो व्यपद्यत ।। ७० ।।

अदत्तभुक्तमुत्सृज्य धनं सुचिररक्षितम् ।
मूषका इव गच्छन्ति कदर्याः स्वक्षये क्षयम् ॥ ७१ ॥

तस्य यातस्य निरयं निनाय नृपतिर्धनम् ।
पर्यन्ते राजगामिन्यो लुब्धानां धनसंपदः ॥ ७२ ॥

तत्सूनोश्चन्दनस्याथ शेषार्थेनापि भूयसा ।
बभूव भूरिसंभारभोगव्ययमहोत्सवः ।। ७३ ।।

मा कश्चिन्नाम नन्दस्य मन्दाग्नेरिह भाषताम् ।
भोगभङ्गभयेनेति प्रातस्तत्राब्रवीज्जनः ॥ ७४ ॥

धिग्धिग्धनं कुनिधनं नन्दस्येवात्मबाधनम् ।
दीयतां भुज्यतां सर्वमित्यूचुः पुरवासिनः ।। ७५ ॥

ततः काले मते बाह्यकोष्ठेद्वारान्तवासिनी ।
वृद्धान्धा सुषुवे पुत्रं चण्डाली खण्डिकाभिधा ॥ ७६ ॥

अन्धः कुब्जः कृशः खञ्जः कुष्ठी स्थूलगलग्रहः ।
समूह इव दुःखानां स तस्यास्तनयोऽभवत् ॥ ७७॥

तदपुण्यैः परिक्षीणे मातुः क्षीरे स निश्चलः ।
कृपया बान्धवस्त्रीभिः शुनीक्षीरेण वर्धितः ॥ ७८ ।।

एतदेव विरुद्धानां वैचित्र्यं पूर्वकर्मणानम् ।
कृच्छ्रावसन्ना जीवन्ति विपद्यन्ते यदीश्वराः ॥ ७९ ॥

व्रणैः स पूतिकलिलक्लाम्यत्कृमिकुलैर्वृतः ।
पक्वणे कुणपाकारस्तस्थौ क्लिनतॄणारतरे ॥ ८० ॥

तस्मिन्नप्यतिबात्सल्यात्पुत्रास्थां जननी स्थिराम् ।
बबन्ध वासनालीनः लेहमोहो हि दुःसहः ।। ८१॥

स वर्धमानः शनकैः स्मशानाङ्गारधूसरः ।
पक्वणोग्रपिशाचानामप्युद्वेगकरोऽभवत् ।। ८२ ॥

यष्टीनिषण्णगमनः कुष्ठक्लेदजुगुप्सितः ।
स जगाम पथा येन प्रययौ तेन नापरः।। ८३ ॥

अत्रान्तरे चन्दनस्य पितुः श्राद्धदिने महान् ।
बभूवार्थिसमूहान्नदाने कलकलस्वनः ।। ८४ ।।

ततः कर्परमादाय स चण्डालशिशुः शनैः ।
आचामयाचकः कृच्छ्राद्द्वाराप्रभुवमाययौ ।। ८५ ॥

तं दृष्ट्वा चन्दनः सौधाद्विप्राणां मार्गदूषणम् ।
निवार्यतामयं प्राप्तस्तूर्णमित्यवदत्क्रुधा ॥ ८६ ॥

प्रभुभ्रूभङ्गभीतेन लगुडेनाहतस्ततः ।
द्वारपालेन साबर्तः स कपोत इवाभवत् ।। ८७ ॥

स निर्भिन्नललाटास्थिप्रक्षरत्क्षतजोक्षितः ।
क्षणं संमूर्च्छितः पाप क्लेशभोगाय जीवितम् ॥ ८८ ॥

अदूरवर्तिनी श्रुत्वा चण्डाली तद्यथारवम् ।
उपसृत्य शुशोचार्ता स्पृशन्ती तस्य शोणितम् ॥ ८९ ।।

केन निष्करुणेनेदं दर्शितं बत पौरुषम् ।
प्रक्लिन्नकायविकले येनास्मिन्सुभटायितम् ॥ ९० ॥

कायापापमयीं दुःखदशां दृष्ट्वास्य दुःसहाम् ।
वैराग्यावसरे केन क्रौर्यमेवंविधं कृतम् ॥ ९१ ॥

आर्तिमेवंविधामस्य हृदयक्लेदिनीमिमाम् ।
विलोक्य कुर्यात्कः पापं पापं हि पदमापदाम् ॥ ९२ ॥

यद्यनेन महत्पापं न कृतं पूर्वजन्मनि ।
तदुच्यतां स्फुरत्कष्टा दृष्टा कस्येदृशी दशा ।। ९३ ।।

ये दृश्यन्ते विपत्क्लेशविशेषविषमव्यथाः।
त एव गुरवः पापवापस्य (?) करणे नृणाम् ॥ ९४ ॥

करुणार्हेषु शूराणामुपकारिषु वैरिणाम् ।
वञ्चकानामपापेषु पापसंख्यां करोति कः ॥ ९५ ।।

तारं रोदिषि किं पुत्र सहस्वाघातजां रुजम् ।
अशर्मकर्मनिर्माणं मर्मच्छेदि शरीरिणाम् ॥ ९६ ॥

इति तस्यां प्रलापिन्यां प्रेक्षवाप्ते जने जिनः ।
अनाथबन्धुः करुणासिन्धुस्तेनाययौ पथा ॥ ९७ ।।

भवभ्रमासक्तपरिश्रमाणां रागादिदोषैरुपतापितानाम् ।
आश्वासनेनामृतसोदरेण लिम्पन्निव द्यां श्रुतिचन्दनेन ॥ ९८ ॥

दृष्ट्वा तमापद्गतमुग्ररोगभग्नं निमग्नं व्यसने विविग्नम् ।
व्यलम्वतार्द्रः करुणारसेन तत्तापशान्त्यै भगवाञ्जिनेन्द्रः ॥ ९९ ॥

तत्संनिधानेन मुहूर्तमात्रं स निर्व्यथः स्वास्थ्यमिवाससाद ।
निहन्ति पापं कुशलं प्रसूते संदर्शनं सत्त्वहिताशयानाम् ।। १००॥

ज्ञात्वाथ चन्दनः प्राप्तं भगवन्तं तथागतम् ।
विकसत्कुसुमस्मेरां पूजामादाय निर्ययौ ॥ १०१ ॥

भगवानपि साश्चर्यप्रभावादुद्गतं भुवः ।
हैमं कमलमारुह्य तस्थौ पर्यङ्कलीलया ॥ १० ॥

प्रणतं चरणालीनं पूजाव्यग्रकरं पुरः ।
बभाषे भगवान्प्रीतो भिक्षुसंसदि चन्दनम् ।। १०३ ।।

किमयं याचमानोऽपि वराकस्ताडितः क्रुधा ।
कृतं न कृपणे कस्मात्करुणाकोमलं मनः ।। १०४ ।।

दयाः सर्वसत्त्वेषु भवन्ति विमलाशयाः ।
एवंविधानां दुःखानां कारणं कलुषं मनः ॥ १०५ ॥

कृतक्रूरापकारेषु विद्वेषयरुषेष्वपि ।
भवन्ति सन्तः क्लेशोष्मशोषितेषु न कर्कशाः ॥१०६॥

क्लिष्टः कष्टं कदर्योऽयं लोभेनापरजन्मनि ।
अप्रदानोद्यतेनाद्य कायक्लेशेन पीडितः ॥ १०७ ॥

एष नन्दस्तव पिता पूर्णार्थमलसंचयात् ।
आवृतः पापरोगेण चण्डालत्वमुपागतः ॥ १०८॥

जन्मान्तरेऽप्यतोऽन्यस्मिन्रोगयोगान् मुमूर्षणा।
सुवर्णं दत्तमेतेन तेनायं सधनोऽभवत् ।। १०९ ॥

अन्त्यक्लेशदशायां यन्मुमूर्षुः संप्रयच्छति ।
तच्चाभोग्यं भवत्यस्य लोभादन्येषु जन्मसु(?) ।। ११० ॥

दत्तं न वित्तं करुणानिमित्तं लोभप्रवृत्तं कृतमेव चित्तम् ।
यैः संचयोत्साहरसैः प्रनृतं शोचन्ति ते पातकमात्मवृत्तम् ॥१११॥

इत्युक्त्वा भगवान्पुण्यां विदधे धर्मदेशनाम् ।
यया क्लेशप्रहाणार्हमहत्त्वं प्राप चन्दनः ।। ११२ ।।

तस्मान्न दर्पः पुरुषेण कार्यः प्रवर्धमानेन धनोदयेन ।
अदानभोगोपहतं हि वित्तं पुंसां परत्रेह च दुर्निमित्तम् ॥ ११३ ।।

इति श्रीव्यासदासापराख्योमेन्द्रविहिते दर्पदलने धनविचारो द्वितीयः ।

तृतीयो विचारः

संसारदोषप्रशमैकहेतुः करोति विद्या यदि दर्पमोहम् ।
तदन्धकाराय भवत्यवश्यं साभ्रे नभस्यंशुमतोंऽशुमाला ॥१॥

शिक्षाभ्यासेन सुव्यक्तं पठन्त्यपि विहंगमाः ।
क एष विद्यया दर्पः कष्टप्राप्तैकदेशया ॥२॥

सा विद्या या मदं हन्ति सा श्रीर्यार्थिषु वर्षति ।
धर्मानुसारिणी या च सा बुद्धिरभिधीयते ॥ ३ ॥

यो विद्यागुरुरायाति लघुतां शीलविप्लवात् ।
तस्मै पण्डितमूर्खाय विपरीतात्मने नमः ॥ ४ ॥

विद्यां प्राप्य कृतं येन विद्वेषकलुषं मनः ।
तेनात्मा हेन्त मूर्खेण स्नात्वा पांसूत्करैर्वृतः ।। ५ ॥

विद्या श्रीरिव लोभेन द्वेषेणायाति निन्द्यताम् ।
भाति नम्रतयैवैषा लज्जयेव कुलाङ्गना ॥६॥

स्पृहणीया सतां तावद्विद्या संतोषशालिनी ।
यावन्न पार्थिवास्थानपण्यस्थाने प्रसारिता ॥७॥

सद्गुणाः शुचयस्तावद्यावद्वादेन शोधकैः ।
प्रक्षाल्य न परीक्ष्यन्ते खलैर्भूपालसंसदि ॥ ८ ॥

अश्माप्यहृदयो यस्य गुणसारं परीक्षते ।
उचितैव सुवर्णस्य तस्याभिपतने रुचिः ॥ ९॥

कविभिनृसेवासु चित्रालंकारहारिणी ।
वाणी वेश्येव लोभेन परोपकरणीकृता ॥१०॥

वादिभिः कलहोदर्कतर्कसंपर्ककर्कशा।
वाणी त्रकचधारेव धर्ममूले निपातिता ॥ ११ ॥

साधुतेजोवधायैव तार्किकैः कर्कशीकृता ।
वाणी विवादिभिः क्रूरैः सौनिकैरिव कर्तरी ॥ १२॥

शीलं नैव बिभर्ति कीर्तिविमले धत्ते न धर्मे धियं
मात्सर्वेण मनीषिणां प्रतनुते पारुप्यदोषं गिरा ।
तर्कोक्त्या परलोककर्म नयति प्रायेण संदिग्धतां
यस्तस्याफलशास्त्रपाटनपटोर्मूढस्य किं विद्यया ।। १३ ।।

ये संसत्सु विवादिनः परयशःशल्येन शूलाकुलाः
कुर्वन्ति स्वगुणस्तवेन गुणिनां यत्नाद्गुणाच्छादनम् ।
तेषां रोषकपायितोदरदृशां द्वेषोष्णनिःश्वासिनां
दीप्ता रत्नशिखेव कृष्णफणिनां विद्या जनोद्वेगभूः ॥ १४ ॥

शोच्यतां यात्यशीलेन विद्वेषणापवित्रताम् ।
दर्पशापहता विद्या नश्यत्येव सहायुषा ॥ १५॥

तपोवने मुनिवरौ मान्यौ मुनिमनीषिणाम् ।
पुरा रैभ्यभरद्वाजौ सुहृदौ चक्रतुः स्थितिम् ॥ १६ ॥

पुत्रावभूतां रैभ्यस्य विद्याविमलदर्पणौ ।
स्पृहणीयौ गुणज्ञानां सर्वावसुपरावसू ॥ १७ ॥

भरद्वाजस्य पुत्रोऽभूद्यवक्रीताभिधः सुताः ।
भवन्त्यविद्याः प्रायेण पितृप्रणयलालिताः ॥१८॥

स युवा रैभ्यतनयौ सर्वत्र श्रुतिविश्रुतौ ।
पश्यन्नात्मनि सासूयः पश्चात्तापाकुलोऽभवत् ॥ १९ ॥

स गत्वा जाह्नवीतीरं निराहारकृशश्चिरम् ।
चचार निश्चलतनुस्तीव्रं विद्याप्तये तपः ॥ २०॥

तं तपस्तापितात्मानं स्वयमेत्य शतक्रतुः ।
उवाच मिथ्यानिर्बन्धः कोऽयं ते मुनिपुत्रक ।। २१ ।।

अनधीता गुरुमुखात्कथं विद्याधिगम्यते ।
अनभ्यासेन पाण्डित्यं नभःकुसुमशेखरः ॥ २२ ॥

अधुना विद्यया किं ते विद्यार्हं शैशवं गतम् !
यत्फलं किल विद्यायास्तस्मिन्नवहितो भव ।। २३ ।।

शीलं परहितासक्तिरनुत्सेकः क्षमा धृतिः ।
अलोभश्चेति विद्यायाः परिपाकोज्वलं फलम् ॥ २४ ॥

विवेकरहिता विद्या द्वेषरोषोप्मशोषिता ।
दर्पाशनिनिपातेन हता वल्लीव निष्फला ॥ २५ ॥

एतदर्थं श्रुते बुद्धिं करोति द्वेषदूषितः ।
यद्विवादैः करिष्यामि मानम्लानिं मनीषिणाम् ॥ २६ ॥

त्यक्त्वा प्रशमसंतोषौ विद्यायाः प्रथमं फलम् ।
नानाविपर्ययपथैर्गच्छन्त्यर्थफलार्थिनः ।। २७ ।।

उपकाराय या पुंसां न परस्य न चात्मनः ।
पत्रसंचयसंभारैः किं तया भारविद्यया ।। २८ ॥

अन्यायः प्रौढवादेन नीयते न्यायतां यया ।
न्यायश्चान्यायतां लोभात्किं तया क्षुद्रविद्यया ॥ २९ ॥

स्वजिह्वास्तुतिभिर्नित्यं पत्नीवोद्घाटितांशुका ।
क्रियते या सभामध्ये किं तया धृष्टविद्यया ।। ३०॥

अनुष्ठानेन रहिता पाठमात्रेण केवलम् ।
रञ्जयत्येव या लोकं किं तया शुकविद्यया ॥ ३१ ॥

गोप्यते या श्रुतज्ञस्य मूर्खस्याने प्रकाश्यते ।
न दीयते च शिष्येभ्यः किं तया शठविद्यया ॥ ३२ ॥

परोत्कर्षं समाच्छाद्य विक्रयाय प्रसार्यते ।
या मुहुर्धनिनामग्रे किं तया पण्यविद्यया ॥ ३३ ॥

न तीर्यते यया घोरः संसारमकराकरः ।
नित्यं चित्तानुबन्धिन्या किं तया मोहाविद्यया ॥ ३४ ॥

नित्याभ्यासप्रयासेन जीवितं क्षीयते यया ।
त्रिवर्गस्योपरोधेन किं तया कष्टविद्यया ॥ ३५ ॥

न विवेकोचितां बुद्धिं न वैराग्यमयं मनः ।
संपादयति या पुंसां किं तया जडविद्यया ॥ ३६॥

शौचाशौचविवादेन त्यक्ता (१) श्रोत्रियता यया ।
मिथ्याभिमानयोगिन्या किं तया दम्भविद्यया ॥ ३७॥

परमात्सर्यशल्येन व्यथा संजायते यया ।
सुखनिद्रापहारिण्या किं तया शूलविद्यया ॥ ३८ ॥

परसूक्तापहारेण स्वसृभाषितवादिना ।
उत्कर्षः ख्याप्यते यस्याः किं तया चौरविद्यया ॥ ३९ ॥

अनभ्यासहतोत्साहा परेण परिभूयते ।
या लज्जाजननी जाड्यात्किं तया मन्दविद्यया ॥ ४०॥

लोभः प्रभूतवित्तस्य रागः प्रव्रजितस्य च ।
न यया शान्तिमायाति किं तयालीकविद्यया ॥४१॥

यया भूपतिमाश्रित्य परेषां गुणनिन्दकः ।
दानमानोन्नतिं हन्ति किं तया दोषविद्यया ॥ ४२ ॥

गृहे धाराधिरूढापि सभायां न प्रवर्तते ।।
प्रतिभाभङ्गसङ्गाद्या किं तया मूकविद्यया ॥ १३ ॥

चण्डं पिण्डार्थिनां द्वेषपिशुनाना शुनामिव ।
यया संजायते युद्धं किं तया वधविद्यया ॥४४॥

विस्मृता यावलिप्तस्य कण्ठे कृतगतागता ।
जीववृत्तिरिव क्षीणा किं तया मृतविद्यया ।। ४५ ॥

रसायनी जराजीर्णश्चिररोगी यया भिषक् ।
धातुवादी दरिद्रश्च किं तया हास्यविद्यया ॥ ४६॥

यया मुग्धमृगाः कूटैः पीड्यन्ते तीव्रमार्गणैः ।
आशापाशावलम्बिन्या किं तया लुब्धविद्यया ।। ४७ ॥

परोपतापः क्रियते वैश्यादिकुहकैर्यया ।
यन्त्रतन्त्रानुसारिण्या किं तया व्याजविद्यया ॥ ४८॥

गुरुर्गर्वात्कविर्द्वेषाद्यतिर्भोगपरिग्रहात् ।
नृपः पापाद्विजः क्रोधात्सा विद्या वार्यते यया ॥४९॥

विद्यागुणास्ते विदुषां ये विवेकनिबन्धनम् ।
स्वल्पशिल्पकलातुल्याः शेषा जीवितहेतवः ॥ ५० ॥

वीणेव श्रोत्रहीनस्य लोलाक्षीव विचक्षुषः ।
व्यसोः कुसुममालेव विद्या स्तब्धस्य निष्फला ॥ ५१ ।।

द्वेषदर्पहता विद्या कामक्रोधहता मतिः ।
लोभमोहहता वृत्तिर्येषां तेषां किमायुषा ॥ ५२ ।।

दूरे व्याकरणं कुरुष्व विषमं धातुक्षयक्षोभितं
मीमांसा विरसा न शोषयति किं तर्कैरलं कर्कशैः।
न क्षीबः पतति स्मरभ्रमकरैः किं नव्यकाव्यासवै-
स्तस्मान्नित्यहिताय शान्तमनसां वैराग्यमारोग्यदम् ॥ ५३ ॥

इत्युक्तः सुरराजेन निश्चयान्न चचाल सः ।
अभिमानगृहीतानां दुर्निवारो हि दुर्ग्रहः ॥ ५४ ॥

अथ वृद्धद्विजो भूत्वा सिकतामुष्टिभिः शनैः ।
शक्रः प्रचक्रमे कर्तुं गङ्गायां सेतुबन्धनम् ॥ ५५ ॥

तं दृष्ट्वा निष्फलक्लेशविफलोद्योगनिश्चलम् ।
मुनिसूनुः कृपाविष्टः पप्रच्छाभ्येत्य सस्मितः ॥ ५६ ॥

ब्रह्मन्क एष निर्बन्धस्तव वन्ध्यसमुद्यमे ।
निष्फलं विपुलायासं न प्राज्ञाः कर्म कुर्वते ।। ५७ ॥

अ‌स्मानकुटिलकल्लोलदोलाविक्षोभितेऽम्भसि ।
हास्यहेतुः कथं सेतुः सिकतामुष्टिभिर्भवेत् ।। ५८ ॥

इत्युक्ते मुनिपुत्रेण ब्राह्मणस्तमभाषत ।
अहो परोपदेशेषु सर्वो भवति पण्डितः ॥ ५९ ।।

अनधीतां बलाद्विद्यां तपसा प्राप्तुमिच्छसि ।
यथा त्वं निष्फलारम्भस्तथाहमपरो जडः ।। ६० ।।

एतद्विजवचः श्रुत्वा यथार्थ स्थगितोत्तरः ।
तथापि दृढसंकल्पः स्वकृत्यान्न चचाल सः ॥ ६१ ।।

अथास्य तीव्रतपसा शक्रः प्रादाद्वरं वरम् ।
सर्वविद्यानिधिर्येन सहसैव बभूव सः ॥ ६२ ।।

प्राप्तविद्यः स सोत्साहस्तूर्णं गत्वा स्वमाश्रमम् ।
निजां तपःफलावाप्तिकथां पित्रे न्यवेदयत् ॥ ६३ ॥

तं मदाक्रान्तमश्रान्तवृत्तसंस्कृतवादिनम् ।
भरद्वाजः प्रमोदेऽपि खेदाकुल इवावदत् ॥ ६४ ॥

पुत्र प्राप्ता त्वया विद्या तपस्तापात्किमुच्यते ।
किं त्वागामिभयादेतन्न युक्तं प्रतिभाति मे ॥ ६५ ।।

इतः समीपे रैभ्यस्य कोपनस्य तपोवनम् ।
विद्यामदान्धौ तत्पुत्रावर्वावलुपरावसू ॥ ६६ ॥

तावश्रान्तश्रुतोन्मादौ त्वं चाभिनवपण्डितः ।
तत्संगमे द्वेषमयः सदा संनिहितः कलिः ॥ ६७ ॥

ग्रीवास्तम्भभृतः परोन्नतिकथामात्रे शिरःशूलिनः
सोद्वेगभ्रमणप्रलापविपुलक्षोभाभिभूतस्थितेः ।
अन्तर्द्वेषविषप्रवेशविषमक्रोधोष्णनिःश्वासिनः
कष्टा नूतनपण्डितस्य विकृतिर्भीमज्वरारम्भभूः ॥ ६८ ॥

तव तत्र प्रयातस्य युक्तायुक्तविवादिनः ।
भविष्यति मुनेः शापादवश्यं मदनिग्रहः ॥ ६९ ।।

शुक्तिकारजतज्ञाननीलपीतादिदर्शनैः।
उन्मादं जनयत्येव विद्यादर्पपिशाचिका ॥ ७० ॥

एष विद्योपदेशेन विनाशः प्रार्थितस्त्वया ।
रैम्याश्रमो न गन्तव्यः कर्तव्यं यदि मद्वचः ॥ ७१ ।।

इत्युक्तोऽप्यसकृत्पित्रा स गत्वा रैभ्यपुत्रयोः ।
व्यधाद्विवादनिर्वेदैः सदा विद्यामदक्षितिम् ।। ७२ ॥

तं दर्पमत्तं साकोपभीमभ्रूमङ्गदुर्मुखौ ।
तावूचतुर्मनःसक्तविद्याविद्वेषशूलिनौ ।। ७३ ।।

कनीयानावयोर्यस्माद्वयसा त्वं श्रुतेन च ।
करोषि बादराक्षेपं तस्मादायुःक्षयोऽस्तु ते ॥ ७४ ।।

इत्युक्तोऽपि क्रुधा ताभ्यां न दर्पाद्विरराम सः ।
न प्रसन्नं न च क्रुद्धं गणयन्ति मदोद्धताः ।। ७५ ।।

अत्रान्तरे भ्रमद्भृङ्गमालाभ्रूभङ्गविभ्रमः ।
कालः प्रोषितकान्तानां पुष्पकालः समाययौ ।। ७६ ।।

क्षिप्तपत्राः सुमनसां रजःकलुषितेक्षणाः ।
सद्वेषा इव विद्वांसश्चेरुर्मलयमारुताः ॥ ७७ ॥

माधुर्यललितोदारवाणीविलसितैर्मूहुः ।
कवीनामिव संघर्षः कोकिलानामजायत ॥ ७८ ॥

रैभ्ये प्रयाते पुत्राभ्यां सह स्नातुं सरित्तटम् ।
भरद्वाजात्मजोऽभ्येत्य प्रविवेश तदाश्रमम् ॥ ७९ ॥

तत्र पुष्पोच्चयव्यग्रां धर्मपत्नीं परावसोः ।
सोऽपश्यत्सुप्रभां नाम रूपदर्पापहां रतेः ॥ ८० ॥

उटजाङ्गनसक्तानां हरिणीनां विलोकने ।
विलासदीक्षां कुर्वाणां तरलापाङ्गभङ्गिमिः ॥ ८१ ॥

तां दृष्ट्वा चन्द्रवदनां मदनानन्ददेवताम् ।
बभूवोत्क्रान्तमर्यादः सहसैव मुनेः सुतः ॥ ८२ ॥

स ब्रह्मचारी कामेन नवेन तरलीकृतः ।
अभिलाषोचितं वक्तुमनभिज्ञोऽप्युवाच ताम् ।। ८३ ॥

उन्मादनमिदं रूपमनुरूपं मनोभुवः ।
समुत्सिक्तमिवासक्तं करोति मम मानसम् ॥ ८४ ॥

विद्याविनयमुत्सृज्य संत्यज्य गुरुयन्त्रणाम् ।
त्वयि प्रवृत्तं चित्तं मे प्राग्जन्मप्रेमबन्धनम् ।। ८५ ॥

जानामि यत्कृतस्यास्य विपाके कर्मणः फलम् ।
तथाप्यभिमतं धर्तुं न शक्नोमि करोमि किम् ।। ८६ ॥

न श्रुतेन न वित्तेन न वृत्तेन न कर्मणा ।
प्रवृत्तं शक्यते रोढुं मनोभवपथे मनः ॥ ८७ ॥

इत्युक्त्वा तां भयोद्भ्रान्तनयनामाश्रमोन्मुखीम् ।
गन्तुं प्रवृत्तां सोऽभ्येत्य जग्राहांशुकपल्लवे ॥ ८८ ॥

कदली कुञ्जरेणेव तरसा तेन निर्जने ।
कृष्यमाणा तमवदत्सा निषेधचलाङ्गुलिः ॥ ८९ ।।

मा मा मलिनय स्वच्छं शीलं मम तथात्मनः ।
विद्यायाः निरवद्यायाः किमेतदुचितं फलम् ॥ ९० ॥

शीलशुक्लांशुकां त्यक्त्वा लज्जां निजवधूमिव ।
गृह्णासि परनारीणां पाणिना पटपल्लवम् ।। ९१ ।।

किमेतदित्यनुचितं दृष्ट्वा नूनं कमण्डलुः ।
उद्ग्रीवः कौतुकेनेव मुखं तव निरीक्षते ॥ ९२ ॥

बिभ्रतोऽन्तर्गतरसां कुसुमेषुरुचिं नवाम् ।
जटावल्कलभारस्ते तरोरिव न शान्तये ॥ ९३ ।।

पापसंकल्पमात्रेण त्रपयाधोमुखी तव ।
पतिता स्पर्शमीत्येव कम्पलोलाक्षमालिका ॥ ९४ ।।

आसनाब्जे सरस्वत्या जपलोलरदच्छदे ।
दुर्नयोक्तिर्न युक्तेयं मुखे तव मनीषिणः ।। ९५ ॥

इयं तपोवनमही विवेकजननी कथम् ।
जनयत्यभिलाषं ते जननीवाजितात्मनः ॥ ९६ ॥

दुर्मदो(दुर्दमो) यौवनभरस्तुरङ्ग इव हारकः ।
सर्वथा शिथिलात्मानमवटे क्षिपति क्षणात् ॥ ९७ ॥

धिग्धियं किं विवेकेन दूरे विश्राम्यतु श्रुतम् ।
धार्यते यैर्न संस्कारविकारस्खलितं मनः ।। ९८ ।।

क्व विद्या विदिताशेषकार्याकार्यविमर्शधीः ।
मूढता क्व च दुष्कर्ममहापापकुटुम्बिनी ॥ ९९ ।।

इत्युच्यमानोऽपि यदा न स तत्याज दुर्ग्रहम् ।
शीलापहारसंत्रस्ता सा तदा समचिन्तयत् ॥१०० ॥

किं करोम्यजने लब्धा विवशाहं प्रमादिना ।
उत्सृष्टधर्मनियमाः किं न कुर्वन्त्यवारिताः ॥ १०१॥

अयं स्मरातुरस्तावद्वचसा न निवर्तते ।
वञ्च्यन्ते सान्त्ववादेन कामक्रोधमदोद्धताः ॥ १०२ ॥

इति ध्यात्वा तमवदत्सा शनैर्मृदुवादिनी ।
गच्छ त्वं स्वयमेष्यामि निशि शून्यलतागृहे ॥ १०३ ॥

स्नात्वा सपुत्रः कालेऽस्मिन्नायाति श्वशुरो मम ।
ज्वलज्ज्वलनतुल्यस्य तस्याग्रे किं करिष्यसि ॥ १०४॥

इत्युक्तः स तथा प्रायात्सत्यं विज्ञाय तद्वचः।
दुष्प्रापमपि मन्यन्ते सुलभं काममोहिताः ॥ १०५ ॥

रैभ्यं ततः समायातमग्न्यागाराग्रतः स्थितम् ।
स्नुषा प्रोवाच कोपाग्निधूमेनेवाश्रुवर्षिणी ॥ १०६ ॥

भरद्वाजात्मजस्तात पापस्तव सुहृत्सुतः ।
ममाद्य विजने शीलविप्लवेऽभ्यर्थितां गतः ॥ १०७ ।।

स मया दुर्ग्रहग्रस्तः समेष्यामीति वञ्चितः ।
विमुच्ये नान्यथा हस्तात्तस्य स्वस्तिमती सती ॥ १०८।।

एतदाकर्ण्य सहसा प्रज्वलन्मन्युना मुनिः ।
बभूव दुर्निमित्तोल्कापातक्रूर इवांशुमान् ॥ १०९ ॥

विद्यावतां स्फुरत्यन्तर्विवेकः स्वस्थचेतसाम् ।
विकारकाले संमोहश्चित्ते विद्या च पुस्तके ।। ११० ॥

स निःश्वसन्नथ क्रोधज्वरारम्भारुणेक्षणः ।
अभिचारजपेनेव कम्पमानाधरोऽभ्यधात् ।। १११ ॥

अहो बत भरद्वाजः पुत्रस्याध्ययने व्यधात् ।
धर्मोपदेशं योन नग्नीकर्तुं पराङ्गनाः ।। ११२ ॥

इत्युक्त्वामर्षसंरम्भादपरं वक्तुमक्षमः ।
स प्रविश्याग्निसदनं प्रतीकारपरोऽभवत् ॥ ११३ ॥

उत्पाट्य विकटाटोपकोपः प्रौढाग्निपिङ्गलाम् ।
स जुहाव जटां वह्नौ क्रूरक्रोधसटामिव ।। ११४ ।।

द्वितीयायां हुतायां च शूलभृद्धोरराक्षसः ।
कृत्यासखः सभुद्भूतः प्रोवाच प्रणतो मुनिम् ॥ ११५ ॥

किं करोमि मुने कस्य विनाशायास्मि निर्मितः ।
त्रैलोक्यमपि निर्दग्धुं, संनद्धोऽहं त्वदाज्ञया ॥ ११६ ॥

इति ब्रुवाणं तं रैभ्यः क्रूराकारमभाषत ।
भरद्वाजसुतं गच्छ कवलीकुर्वपण्डितम् ॥ ११७ ॥

इति तेन समादिष्टः स व्रजन्कम्पितावलिः ।
अर्धशौचं मुनिसुतं दृष्ट्वा दूरात्समाद्रवत् ॥ ११८ ॥

तस्मिन्नभिद्रुते वेगाद्दीप्तशूले निशाचरे ।
भयभग्नगतिः प्राप शरणं न मुनेः सुतः ॥ ११९ ॥

पलायमानः संप्राप्तः स जवात्पितुराश्रमम् ।
अश्यागारं विशन्रुद्धः शूद्रेणाशौचदूषितः ॥ १२० ॥

दासस्पृष्टः स निःशौचः पतितः संभ्रमात्क्षितौ ।
रक्षः शूलहतः पश्चात्सहसा भस्मसादभूत् ।। १२१।।

अत्रान्तरे भरद्वाजः प्रविशन्निजमाश्रमम् ।
विध्वस्तच्छायमालोक्य सोद्वेगः समचिन्तयत् ॥ १२२ ॥

मम पुष्पफलादानप्रत्यावृत्तस्य वह्नयः।
सदोत्तिष्ठन्ति पुरतस्तेऽद्य किं निश्चला इव ॥ १२३ ॥

इति संचिन्त्य दृष्ट्वाग्रे भस्मीभूतं सुतं मुनिः ।
श्रुत्वा च दासकथितं वृत्तान्तं न्यपतद्भुवि ।। १२४ ॥

स लब्धसंज्ञः शनकैरवदद्वाष्पगद्गदम् ।
रैभ्योऽपि विद्वान्कालेन प्राप्नोतु स्वसुताद्वधम् ॥ १२५ ।।

हा पुत्र रक्षितेनापि क्षणक्षयनिपातिना ।
न जीवामि सदोषेण कायेनेव लया विना ॥ १२६ ॥

इत्युक्त्वा पुत्रशोकेन चितामिमविशन्मुनिः।
महत्स्वपि नवोत्सेकादभग्नप्रसराः शुचः ॥ १२७ ।।

अथ याते शनैः काले वृहद्युम्नस्य भूपतेः ।
याजकौ जग्मतुर्गेहमर्वावसुपरावसू ॥ १२८ ।।

प्रवृत्ते विधिवत्तस्य दीर्घसत्रे पृथुश्रियः ।
दानमानोदयः कोऽपि तयोर्याजकयोरभूत् ।। १२९ ॥

कदाचिद्दिन्हर्यन्तसंध्यायां निजमाश्रमम् ।
परावसुः समागच्छन्दृष्ट्वा पितरमग्रतः ॥ १३० ॥

कृष्णाजिनोत्तरासङ्गं दण्डेन मृगशङ्कया।
जघान शापविवशः स तेनाभूद्विचेतनः ॥ १३१ ।।

जनकं हतमालोक्य ब्रह्महत्याभयाकुलः।
गत्वा यज्ञभुवं भ्रात्रे स तमर्थं न्यवेदयत् ॥ १३२॥

अर्वावसुस्तमवदद्भ्रातः किं क्रियते विधेः ।
भवन्ति यस्य संकल्पादेवंरूपा विपर्ययाः ॥ १३३ ॥

धर्मार्थी पापमाप्नोति शीलार्थी शीलविप्लवम् ।
विधौ विधुरतां याते द्रविणार्थी दरिद्रताम् ।। १३४ ॥

ब्रह्महत्याव्रतं तीनं भवतोऽर्थे चराम्यहम् ।
त्वमस्य कुरु भूभर्तुः संपूर्णा याजनक्रियाम् ॥ १३५ ।।

उक्त्वेत्यर्वावसुर्भ्रातुः पापशान्त्यै धृतवतः।
चकार सर्वतीर्थेषु तीब्रनिष्कृतिपारणम् ॥ १३६ ।।

तं समाप्तव्रतं प्राप्तं राज्ञो यज्ञवसुंधराम् ।
दूरात्परावसुर्ज्ञात्वा पितृघ्नः समचिन्तयत् ॥ १३७ ।।

अयं मे दक्षिणाकाले भागहर्ता समागतः ।
मदभाग्यैश्चिरं तीव्रतक्लिष्टोऽपि जीवति ॥ १३८॥

इति संचिन्त्य सोऽभ्येत्य प्रोवाच पृथिवीपतिम् ।
लोभमात्सर्ययोरङ्के पतितः पातकेच्छया ।। १३९॥

राजन्यज्ञमहीमेष किल्बिषी ब्रह्महत्यया ।
प्रविशत्यविकल्पेन मद्भ्राता वार्यतामितः ॥ १४० ।।

इत्युक्तस्तेन नृपतिः कृतघ्नेन विपर्ययात् ।
तस्य प्रवेशमज्ञानान्निष्पापस्य न्यवारयत् ।। १४१ ॥

अन्धा इव न पश्यन्ति योग्यायोग्यं हिताहितम् ।
पथा तेनैव गच्छन्ति नीयन्ते येन पार्थिवाः ॥ १४२ ।।

मिथ्यापवाददानेन नैव भ्राने चुकोप सः ।
निकारे कारणं दैवं मन्यन्ते हि मनीषिणः ॥ १४३ ।।

तेन तस्यानृशंस्येन निर्विकारतया तया ।
तुष्टाः ऋतुसमासीनास्तमूचुस्त्रिदिवौकसः ॥ १४४ ।।

प्रशमेन तवानेन प्रसन्नास्ते वयं मुने ।
वरार्होऽसि वराचार गृह्यतां प्रवरो वरः ।। १४५ ॥

इत्युक्तः स सुरैः प्रीत्या तानुवाच कृताञ्जलिः ।
यदि युष्मद्वरार्होऽहं दीयतां यन्ममेप्सितम् ॥ १४६ ॥

मत्पित्रा योऽभिचारेण भरद्वाजात्मजो हतः ।
स जीवत्वस्मृतक्रूरनिकारः स च तत्पिता ॥ १४७ ॥

अस्मत्पिता मृगधिया यः परावसुना हतः ।
सोऽपि विस्मृततत्कोपः स्वस्थः प्राप्नोतु जीवितम् ॥ १४८॥

इत्यर्थिते बरे तेन तथेत्याख्यायि तैः सुरैः ।
यवक्रीतभरद्वाजरैभ्याः प्रापुः स्वजीवितम् ॥ ११९ ।।

इत्येते मुनयोऽपि दर्पविफले याते श्रुते शोच्यतां
क्रोधान्ध्येन पुनः प्रनष्टविमलालोके विवेके च्युते ।
शीले रागमहोष्मणां विगलिते द्वेषेणे नाशं गताः
कस्यान्यस्य धनाभिमानमलिना विद्या विधत्ते गुणम् ॥ १५०॥

चेतः शान्त्यै द्वेषदर्पोज्झितेन यत्नः कार्यः सर्वथा पण्डितेन ।
विद्यादीपः कामकोपाकुलाक्ष्णां दर्पान्धानां निष्फलालोक एव ॥१५१॥

अलोभः परमं वित्तमहिंसा परमं तपः ।
अमाया परमा विद्या निरवद्या मनीषिणाम् ।। १५२ ॥

शुक्रस्य विद्या धनदार्थहर्तुर्मायाप्रपञ्चोपचितस्य शोच्या ।
कवस्य वाचस्पतिजन्मनोऽपि व्याजेन विद्या विफलीबभूव ।।१५३॥

स्पृशति मति नहि तेषां द्वेषविषः कलिसर्पः ।
यदि शमविमलमतीनां स्वमनसि भवति न दर्पः ।। १५४ ॥

इति श्रीव्यासदासापराख्यक्षेमेन्द्रविहिते दर्पदलने विद्याविचारस्तृतीयः ।

चतुर्थो विचारः ।

पद्मोपमानानां दिनसुन्दराणां कोऽयं नृणामस्थिररूपदर्पः ।
रूपेण कान्तिः क्षणिकैव येषां हारिद्ररागेण यथांशुकानाम् ॥ १॥

पर्यन्तरेखाङ्गविभागहीनचित्रोपमं बालवपुः प्रकृत्या ।
तद्यौवनेनैव विकासमेति चैत्रोत्सवेनेव शिरीषपुष्पम् ॥ २ ॥

अलोमशं पूर्णशशाङ्कशोभं मुखं तु यूनां कतिचिद्दिनानि ।
जाते ततः श्मश्रुविशालजाले शेवाललीनाब्जतुलां विभर्ति ॥ ३ ॥

धूमेन चित्रं तुहिनेन पद्मं तमिस्रपक्षे‌ण सुधांशुबिम्बम् ।
शीतं निदाघेन न भाति तोयं जरावतारेण च चारुरूपम् ॥ ४ ॥

रूपं क्षणस्वी‌कृतरक्तमांसग्रासप्रसक्ताकृतकामदोषा ।
केशग्रहेणैव जरा जनानां वेश्येव वित्तं कवलीकरोति ॥५॥

पाकक्रमेणैव विचित्रकर्मा प्रतिक्षणं देहभृतामलक्ष्यः ।
करोति कालः परिणामशक्त्या रूपं विरूपं चतुरप्रवाहः॥ ६॥

न लक्ष्यते कालगतिः सवेगचक्रभ्रमभ्रान्तिविधायिनीयम् ।
ह्यो यः शिशुः स स्फुटयौवनोऽद्य प्रातर्जराजीर्णतनुः स एव ॥ ७॥

पुंसामवस्थात्रितयत्रिभागे रूपप्रदं यौवनमेव नान्यत् ।
तस्मिन्मदोन्मादगदाङ्गभङ्गव्यङ्ग्यादिदोषोपहते क्व रूपम् ॥ ८ ॥

यदा नरः शोचति दुःखतप्तस्त्यक्ताशनः शोकविवर्णवक्त्रः ।
न स्नाति नोत्तिष्ठति नैव शेते तदा क्व रूपं क्व च यौवनश्रीः ॥९॥

यदा स्थितः प्रेत इवास्थिशेषः कारागृहे धूसरितोर्ध्वकेशः ।
प्रकीर्णयूकामलकालकायस्तदा क्व रूपस्य गतोऽभिमानः॥ १० ॥

यदा सदाङ्गीकृतदैन्यदुःखसेवाप्रवासेन विनष्टकायः ।
नित्यप्रवासभ्रमभग्नजानुर्न रूपलुब्धस्य तदास्ति रूपम् ॥ ११ ॥

यदा प्रहारैर्दलिताखिलाङ्गः खण्डोष्ठनासः स्फुटिताक्षिदन्तः ।
युवा पिशाचत्वमिवोपयाति तदापि रूपं विगतस्वरूपम् ॥ १२ ॥

यदा न धीमानरिषु प्रमाथी न वाक्पटुश्चित्रमनुष्यतुल्यः ।
तदा सुरूपादविचाररम्याद्वरं विरूपः स्पृहणीयरूपः ॥ १३ ॥

यदा दरिद्रः परिधानहीनस्त्रपानिलीनः कुरुतेऽतियाच्ञाम् ।
कपोलसंजातवलीविकारस्तदा सुरूपोऽपि परं विरूपः ॥ १४ ॥

विद्वत्संसदि वादिभिः कविवरैर्भाषानभिज्ञः परं
मूर्खः शंकरवाहनस्तुतिपदैर्यः संज्ञया हस्यते ।
विक्रीतः परदेशपण्यसदने धूर्तैरिवानुत्तरः
पुंसश्चित्रमयूरचारुवपुषः किं तस्य रूपश्रिया ॥ १५ ॥

कालं मुहूर्ताङ्गुलिमण्डलेन दिनत्रियामाञ्जलिना पिबन्तम् ।
रूपं विलोक्यैव वपुश्च केषां भङ्गेन नाङ्गान्यलसीभवन्ति ॥ १६ ॥

रूपं वयः शौर्यमनङ्गभोगं प्रज्ञाप्रभाव विभवं वपुश्च ।
अश्नाति कालभ्रमरः समन्तात्पुंसां हि किंजल्कमिवाम्बुजानाम्॥१७॥

कदाचित्सह गन्धर्वैः सभास्थाने शचीपतिम् ।
नृत्तेनाप्सरसः सर्वा गीतेन च सिषेविरे ॥ १८ ॥

तासां मध्ये बभौ कान्ता वृत्तीनामिव कैशिकी ।
उर्वशी खमुखे मैत्रीं वदन्तीवेन्दुपद्मयोः ॥ १९ ॥

शक्रसेवागतास्तत्र तां दृष्ट्वेन्दुमुखीं सुराः।
मेनिरे धन्यमात्मानं शृङ्गारस्याङ्गतां गतम् ॥ २० ॥

नृत्यन्ती सा बभौ हारमध्यरत्नेषु विम्बिता ।
युगपत्प्रविशन्तीव हृदयानि दिवौकसाम् ॥ २१ ॥

लीना देवविमानेषु हंसास्तद्गतिनिर्जिताः।
तत्कटाक्षजितश्चक्रे निद्रां चैन्द्रे मृगः क्षणम् ॥ २२ ॥

तस्याः सेर्ष्याप्सरोनेत्रमालोक्य पतिता बभौ ।
स्तनयोः शेखरस्रस्ता नीलोत्पलदलावली ।। २३ ।।

उत्साहोद्धतविभ्रमभ्रमरकव्यावृत्तहारान्तर-
त्रुट्यूत्सूत्रविमुक्तमौक्तिकभरः सक्तः स्तनोत्सङ्गयोः ।
वक्त्रेन्दुच्युतसंततामृतकणाकारश्चकार क्षणं
तस्या नृत्तरसश्रमोदितघनखेदाम्बुबिम्बश्रियम् ॥ २४ ॥

तस्या नृत्तविलोकने पुलकितं दृष्ट्वा रतिर्मन्मथं
निःश्वासाञ्चितचारुरूप(?)रजसा चक्रे पुरस्तात्पटम् ।
उद्वीक्ष्याक्षिपरम्परामपि हरेस्तत्रावसन्ना शची
कोपान्दोलितकेलिपद्ममधुपैर्मध्येऽन्धकारं व्यधात् ॥ २५ ॥

विघ्नं न चक्रुर्ननु नृत्तलीलासंदर्शने पुण्यवतां नराणाम् ।
तत्रोर्वशीरूपवशीकृतानां निमेषशून्यानि विलोचनानि ॥ २६ ॥

देवयोरश्विनोस्तत्र रूपमाधुर्यधुर्ययोः ।
मिथः कथा समभवत्तद्गुणाकृष्टचित्तयोः ॥ २७ ॥

एकोऽब्रवीदहो रूपमस्यास्तरलचक्षुषः ।
निमीलन्नियमा येन मुनयोऽप्याकुलीकृताः ॥ २८॥

अस्यां संसदि कस्यास्ये पतन्त्येताः सुजन्मनः ।
सरसंभोगसंवादलज्जाकुटिलिता दृशः ॥ २९ ।।

वृत्तसंगमयोरेव परस्परविलोकने ।
न्यासं शृङ्गारसर्वस्वमनङ्गेनार्पितं‌ रहः ॥ ३० ॥

रणोत्सृष्टतनोः कण्ठे सोत्कण्ठा भुजबन्धनम् ।
कस्येयं तरलापाङ्गा रङ्गोत्तीर्णा करिष्यति ॥ ३१ ॥

इति ब्रुवाणमपरः समितस्तमभाषत ।
अहो नु विस्मृतः किं ते भूतलेन्दुः पुरूरवाः ॥ ३२ ॥

विक्रमाभरणं दिक्षु लावण्यतिलकं भुवः ।
उर्वशीभोगसुभगं यस्यैतदीयते यशः ॥ ३३ ॥

तेन रूपगुणोत्साहैरुर्वशीयं‌ वशीकृता ।
पुरः स्थितापि शक्रस्य मनसा तत्र तिष्ठति ॥ ३४ ॥

रूपसाम्येन शीतांशुवंशे जातः स लज्जते ।
न करोति रतेरग्रे तत्कथां मत्सरी स्मरः ।। ३५ ।।

न जाने बेत हेवाकः कोऽयं कुसुमधन्वनः ।
नैवार्पयति यत्पाणौ तस्यैव शरपञ्चकम् ॥ ३६ ।।

भुवः समस्ताम्बुधिमेखलाया वोढारमाजानुविलम्बिबाहुम् ।
लीलागुरुं तं हृदये वहन्ती तन्वी कथं नृत्यति नैव विद्मः ॥ ३७

द्रष्टव्यः स नृपस्तावदप्रस्तावेऽपि यत्नतः ।
को वेति तद्विधं रत्नं पुण्यैरास्ते कियच्चिरम् ॥ ३८ ॥

इत्युक्त्वा तौ कृतक्षोणीपतिदर्शननिश्चयौ ।
नृत्ते निवृत्ते जम्भारिं प्रणम्य ययतुर्भुवम् ॥ ३९ ॥

राजधानीं समासाद्य तौ पुरूरवसः क्षणात् ।
अवारितौ विविशतुर्वेत्रिभिः सुरगौरवात् ।। ४० ॥

तौ तं ददृशतुः स्नानविहिताभ्यङ्गसंगमम् ।
पीयूषनवनीतेन लग्नस्नेहमिवोडुपम् ॥ ११ ॥

स्नानोत्तारितकेयूरमहार्हमणिकंकणम् ।
लावण्याभरणं तस्य विरराजोर्जितं वपुः ॥ ४२ ॥

शून्यश्रवणपाशस्य तस्य कण्ठः समाययौ ।
निर्भूषणनिवेशोऽपि विशेषरमणीयताम् ॥ ४३ ॥

विचार्य तस्या मर्यादं सौन्दर्योदार्यमश्विनौ ।
प्रशशंसतुराश्चर्यनिर्माणातिशयं विधेः ॥ ४ ॥

स तौ कृताञ्जलिः प्रीत्या कृतासनपरिग्रहौ ।
पप्रच्छ स्वच्छहृदयस्त्वरागमनकारणम् ॥ ४५ ॥

तावूचतुः क्षितिपते महीकुसुमधन्वनः ।
त्रैलोक्याभरणं रूपं तवावां द्रष्टुमागतौ ॥ ४६ ॥

निर्संगेंण जगत्सर्गनिरर्गलगुणादरात् ।
कौतुकालोकसारेव दृष्टा सृष्टिः प्रजापतेः ॥ १७ ॥

विलोकितस्त्वं वसुधासुधांशुः पूर्णमण्डलः ।
रूपपीयूषपानेन प्राप्ता प्रीतिः किमुच्यते ॥ १८ ॥

इत्युक्तः प्रणयात्ताभ्यां किंचित्कुसुमितस्मितः ।
ताबूचे नृपतिर्मान्यमानेनाभ्यधिकादरः॥ ४९ ॥

भवत्संदर्शनेनाहमस्म्यनुग्रहभाजनम् ।
द्रष्टव्या द्रष्टुमायान्ति पुण्येन केवलम् ॥ ५० ॥

तीर्थाप्तिः साधुसंपर्कः पूज्यपूजामहोत्सवः
अस्मिन्विरसनिःसारे संसारे सारसंग्रहः ॥ ५१॥

स्नानाभ्यक्तेन न मया युवयोरुचितः कृतः ।
पुण्यसाफल्यनिःशल्यकल्याणायार्चनादरः ।। ५२ ॥

अग्न्यागारान्तरे तावन्मुहूर्तं क्रियतां स्थितिः ।
कृतस्तानः समेष्यामि पूजाप्रणयपात्रताम् ।। ५३ ॥

इत्युक्तौ तेन ययतुस्तौ हुताशनमन्दिरम् ।
स्नातं विभूषितं भूपं द्रक्ष्याव इति कौतुकात् ।। ५४ ।।

अथ राजा कृतस्नानः सर्वाभरणभूषितः ।
पुरोहितेन सहितस्तत्समीपमुपाययौ ॥ ५५ ॥

तौ दृष्ट्वा पृथिवीपालं तारहार किरीटिनम् ।
क्षणं नैवोचतुः किंचिद्विषण्णौ विनताननौ ।। ५६ ॥

कृतार्चने नरपतौ तौ पप्रच्छ पुरोहितः ।
अकस्माद्युवयोः कस्मादप्रसाद इवेक्ष्यते ॥ ५७ ।।

विनयातिक्रमोऽस्माकं यातः कञ्चिन्न हेतुताम् ।
पृष्टौ पुरोहितेनेति तौ शनैस्तमभाषताम् ॥ ५८ ।।

आवयोर्नाप्रसन्नत्वं न युष्माकमतिक्रमः ।
किं तु कालगलत्सर्वभावालोकनविस्मयः ।। ५९ ॥

अधुनैव नरेन्द्रोऽयं दृष्टोऽभ्यङ्गेऽपि यादृशः ।
क्षणपाकेन कालस्य दृश्यते नैव तादृशः ॥ ६० ॥

दिनेन्धनवने नित्यं दह्यमानेऽर्कबह्नीना ।
नीयते कालधूमेन रूपचित्रमचित्रताम् ॥ ६१ ॥

निश्चित्य सर्वभावानां नित्यमेतामनित्यताम् ।
रूपेऽभिमानं कः कुर्यात्स्वप्नचित्रपटोपमे ॥ ६२ ।।

जराजीर्णानि रूपाणि रोगार्तानि वपूंषि च ।
आयूंषि काललीढानि दृष्ट्वा कस्य भवेन्मदः ॥ ६३ ॥

योऽयं विलोक्यते लोकः स्फाराकारविकारवान् ।
उच्छूनतामुपगतास्त एते शुक्रबिन्दवः ॥ ६४ ॥

अहो कालस्य सूक्ष्मोऽयं कोऽप्यलक्ष्यक्रमः क्रमः ।
यत्पाकपरिणामेन सर्व यात्यन्यरूपताम् ॥ ६५ ।।

राज्ञः स्नानक्षणे याभूल्लावण्यलहरी तनोः ।
पीता क्षणेन सा तेन प्रवृत्तान्यक्षणोचिता ।। ६६ ॥

संपूर्णस्यायुषो मात्रा रूपस्य विभवस्य च ।
होरायन्नाम्बुधारेव गलत्येवानिशं नृणाम् ॥ ६७ ॥

कलाकाष्ठामुहूर्तानां कालस्य बजतां जवात् ।
न लक्ष्यते विभागेन दीपस्येवार्चिषां गतिः ॥ ६८ ॥

बालः प्रभाते मध्याहे तरुणः स्थविरोऽस्तगः ।
दिने दिने दिनेशोऽपि क्रियते काललीलया ॥ ६९ ।।

शुष्यन्त्यम्बुधयस्तरङ्गगहनैरालिङ्गिताशाङ्गना
गच्छन्त्युद्गततुङ्गशृङ्गमुकुटोदग्रा गिरीन्द्राः क्षयम् ।

भ्रश्यत्येव वसुंधरापि सहिता दिग्दन्तिभिर्यदशा-
त्सर्वाशी सततं प्रधावति महाकालः स कोऽप्याकुलः ॥ ७० ॥

इत्युक्त्वा नृपमामन्य दिवं जग्मतुरश्विनौ ।
नृपश्च तद्वचश्चिन्ताशान्तरूपमदोऽभवत् ।। ७१ ।।

तस्मान्न कार्यः सुधिया विचार्य साश्चर्यसौन्दर्यविलासर्पः।
संसारमोहप्रसरे धनेऽस्मिन्विद्युल्लताविस्फुरितं हि रूपम् ॥ ७२ ।।

प्रातर्बालतरोऽथ कुङ्मलतया कान्ताकुचाभः शनै-
हेलाहासविकाससुन्दररुचिः संपूर्णकोषस्ततः ।
पश्चान्म्लानवपुर्विलोलशिथिलः पद्मः प्रकीर्णोऽनिलै-
स्तस्मिन्नेव दिने स पङ्ककलिलक्लिन्नस्तटे शुष्यति ॥ ७३ ।।

बैरूप्यं सहजं जराहृतरुचिर्यातो ययातिः पुरा
कान्त्या तर्जितकामकीर्तिरभवद्दुर्दर्शमूर्तिनलः ।
सौदासस्य मनोहरं वपुरभूत्संत्रासनं देहिनां
रूपे कस्य भविष्यति प्रतिदिनम्लायिन्यनित्ये धृतिः ॥ ७४ ।।

तस्मादस्थिररूपं विचार्य रूपं भवखरूपं च ।
अनुरूपमदनशमनं स्थिरपदसंप्राप्तये सुधियाम् ॥ ७५ ॥

इति श्रीव्यासदासापराख्यक्षेमेन्द्रविहिते दर्पदलने रूपविचारश्वतुर्थः ।

पञ्चमो विचारः।

अहं शूरः क्रूरप्रतिभटघटापाटनपटु-
स्तरखी सेनायां हर्यंगजघटानामधिपतिः।
इति प्रौढः पुंसां निजभुजबलाक्रान्तजगतां
भवत्यँन्तर्दर्पः परिभवपदं कालगलितः ॥ १॥

शौर्येण दर्पः पुरुषस्य कोऽयं दृष्टस्तिरश्चामपि शूरभावः ।
औचित्यहीनं विनयव्यपेतं दयादरिद्रं न वदन्ति शौर्यम् ॥ २ ॥

बालस्य शौर्य कुसुमोपमस्य मातुः प्रहारे प्रणयस्मितेषु ।
वृद्धस्य शौर्य शिथिलागसंधेः वश्लाघया पूर्वकथापथेषु ॥ ३ ॥

चयस्त्रिभागे तरुणस्य शौर्य यदेव दर्पप्रभवाभिभूतम् ।
तचित्तवृत्तेविविधस्वभावात्पर्यायशो यात्यतिवैपरीत्यम् ॥ ४ ॥
.
चित्तस्य जात्यनिलचञ्चलस्य नानागुणत्वास्क्रियते किमस्य ॥ ५॥

हो येन भन्नाः पुरतोऽरिसेना भीतः स एवाद्य भवत्यधीरः ।
वृत्रेण शक्रः समरे निगीर्णः फेनेन शक्रः स जघान वृत्रम् ॥ ६॥

एक समालिङ्गति दर्पलोला क्षीवेव वेश्या नहि राजलक्ष्मीः ॥७॥

यः कार्तवीर्यस्य च दोःसहस्रं चिच्छेद वीरो युधि जामदयः ।
स सायके रामकराधिरूढे ब्राह्मण्यदैन्यप्रणयी बभूव ॥ ८॥

रामोऽपि साहायकलाभलोभाञ्चके कपः संश्रयदैन्यसेवाम् ।
शूरप्रतापः शिशिरर्तुनेव कालेन लीडस्तनुतामुपैति ॥ ९॥

बाली प्रसह्य प्लवगः करेण सोल्लासकैलाससहं दशास्यम् ।
निक्षिप्य कक्षाञ्चलसंधिवन्धे सताब्धिसंध्याविधिमन्वतिष्ठत् ।। १०॥

युद्धोद्धता भूपतयः प्रसिद्धा बद्धा जरासंधनृपेण पूर्वम् ।
सभीमसेनेन भुजायुधेन द्विधा कृतः संधिविदारणेन ॥ ११ ॥

भीमोऽपि कर्णेन विकीर्णधैर्यः प्रमूढशक्तिः कृपया विमुक्तः ।
कर्णोऽर्जुनस्थाततकाच्कस्य क्षणाक्षणं याचकता प्रयातः ॥ १२ ॥

त्यक्त्वार्जुनः कृष्णकलत्रवर्ग जगाम गोपालबलाभिभूतः ।
न ज्ञायते दैवपथानुयाता शौर्यस्य वृत्तिः करिकर्णलोला ॥ १३ ॥

भीरुः शूरत्वमायाति शूरोऽप्यायाति भीरुताम् ।
न कचिच्चपलस्यास्य शौर्यस्य नियता स्थितिः ॥१४॥

बाणज्यक्षेण कंसारिचक्रधारापथातिथिः ।
आजन्मभक्तिप्रणयी रक्षणार्हो न रक्षितः॥१५॥

वेगाप्ते कालयवने मुचुकुन्दमशिश्रियत् ।
शौरिः शयनपर्यङ्कतलसंकुचिताकृतिः ॥ १६ ॥

शिशुपालस्य शिरसि च्छिन्ने चक्रेण चक्रिणा ।
दृष्टिः कृता न चापेषु नृपैस्तत्पक्षपातिभिः ॥ १७ ॥

भीमनिष्पीयमाणासृग्दृष्टो दुर्योधनानुजः ।
अशस्त्राभिरिव स्त्रीमिद्रोणकर्णकृपादिभिः ॥ १८ ॥

स्फाराजगरसंरुद्धभुजद्वन्द्वो वृकोदरः ।
जननीकरुणाक्रन्दनिनादमुखरोऽभवत् ॥ १९ ॥

महतामपि पूर्वेषामेबंरूपा मदक्षितिः ।
सामान्यविक्रमोद्दामश्लाघा केनाभिनन्द्यते ॥२०॥

अशक्ते रौद्रतातैक्ष्ण्यं तीव्रपापेषु धीरता ।
छद्मधीर्वाचि पारुष्यं नीचानां शौर्यमीदृशम् ॥ २१ ॥

निष्कारणनृशंसस्य शौर्यं हिंस्रत्वमुच्यते ।
यः सर्प इव संनद्धः प्राणबाधाय देहिनाम् ॥ २२ ॥

एतदेव परं शौर्यं यत्परप्राणरक्षणम् ।
नहि प्राणहरः शूरः शूरः प्राणप्रदोऽर्थिनाम् ।। २३ ।।

न कश्चिद्बुद्धिहीनस्य शौर्येण क्रियते गुणः ।
पर्जन्यगर्जितामर्षी श्वःभ्रे पतति केसरी ॥ २४ ॥

किं शौर्येण सरागस्य मदक्षीबस्य दन्तिनः ।
बन्धकीलाभलोमेन यः क्षिपत्यवटे तनुम् ॥ २५ ॥

शौर्यं विक्रीतकायस्य सेवकस्य किमद्भुतम् ।
मेषस्येव वधो यस्य सूनाबद्धस्य निश्चितः ।। २६॥

न दर्पविकृतं शौर्यं न मायामलिनं मनः ।
न द्वेषोष्ण श्रुतं येषां गण्यन्ते तद्गुणा बुधैः ॥ २७ ॥

कुलं कुतनयेनेव लोभेनेव गुणोदयः ।
ऐश्वर्यं दुर्नयेनेव शौर्यं दर्पेण नश्यति ॥ २८॥

प्रभावभवनस्तम्भ इव दम्भोद्भवोऽभवत् ।
सप्ताब्धिपरिखालेखामेखलायाः प्रभुर्भुवः ॥ २९ ॥

तस्य निःशेषितारातेः सदा युद्धमनोरथः ।
अप्राप्तप्रतिमल्लस्य ययौ हृदयशल्यताम् ॥ ३० ॥

स सुरासुरयुद्धाप्तदर्पदर्पितमानसः ।
कः कोऽस्ति शूरः संरम्भादित्यपृच्छत्सदाजनम् ॥ ३१ ॥

दर्पकण्डूलदोर्दण्डं पृच्छन्तं रभसेन तम् ।
सर्वावमानसंनद्धं जगादाभ्येत्य नारदः ॥ ३२ ॥

नास्ति त्वत्सदृशः शूरस्त्रैलोक्ये सत्यमुच्यते ।
किं तु जाने रणाही ते नरनारायणावृषी ।। ३३ ।।

बदर्याश्रमसंसक्तौ तीव्रे तपसि निष्ठितौ ।
युद्धेच्छौ तौ यदि स्यातां तत्पूर्णस्ते मनोरथः ॥ ३४ ॥

नारदेनेत्यभिहिते स बदर्याश्रमं ययौ ।
विलोकयन्निजमुजौ प्रत्यासन्नरणोत्सवौ ॥ ३५ ॥

दृष्ट्वा तेजोनिधी तत्र नरनारायणौ नृपः ।
मनोरथपथाभ्यस्तं ययाचे युद्धमुद्धतः ॥ ३६॥

तं युद्धकामुकं तिर्यग्द्रिशा गम्भीरधीरया ।
विलोक्योवाच सावज्ञस्मितदिग्धाधरं नरः ॥ ३७॥

महीपते निवर्तस्व न वयं युद्धकोविदाः ।
युक्तरतैरेव सङ्ग्रामस्तव ये भूम्यनन्तराः ॥ ३८ ॥

इत्युक्तोऽपि यदा राजा न चचाल रणादरात् ।
तदा तं दृप्तमैषीकनिशितास्त्रैरपूरयत् ॥ ३९ ॥

प्रदीप्तज्वलनाकारैः शरैराकीर्णविग्रहः ।
विनष्टविग्रहरुचिर्नृपस्तत्याज धीरताम् ॥ ४० ॥

अकाण्डखण्डितोच्चण्डदर्पज्वरभरो नृपः ।
कृपणः प्राणरक्षायै तमेव शरणं ययौ ॥ ४१ ॥

वारितास्त्रस्ततस्तेन भग्नमानमनोरथः ।
लज्जाविकुण्ठकण्ठः खां राजधानी ययौ नृपः ।। ४२ ।।

इति मानस्य महतामपि घोराशनिर्मदः ।
लोहस्य स्वमलेनेव क्षयो दण तेजसः ॥ ४३ ॥

तस्मात्सदा मानधनेन पुंसा दर्पः प्रयत्नेन निवारणीयः ।
दर्पोग्रवक्त्रस्य सुहृज्जनोऽपि सर्वात्मना तीव्रनिपातसज्जः ॥ ४४ ॥

अदर्पशौर्यस्पृहणीयसत्त्वा गोविप्ररक्षाक्षपितस्वदेहाः ।
प्रयान्ति वीराः सुकृतामृतार्द्रैर्यशःशरीरैजरामरत्वम् ।। ४५ ॥

इति श्रीव्यासदासापराख्यक्षेमेन्द्रविहिते दर्पदलने शौर्यविचारः पञ्चमः ।

षष्ठो विचारः।

जगत्येको भद्रद्विरद इव दानार्द्रसरणि-
र्यशस्वी निःस्वानामहमभिमताशाफलतरुः ।
इति त्यागोदग्रं वहति किल दर्प मनसि य-
स्तदुद्भूतं सर्वं सुकृतमपहाय ब्रजति सः ॥ १ ॥

खर्गादिसंभोगफलाभिलाषात्पात्राय पूजां प्रतिपद्यते यः ।
धर्मार्थपण्यक्रयविक्रयोऽसौ कस्तेन दानप्रभवोऽभिमानः ॥ २ ॥

यद्विद्यादिगुणोत्कर्षविशेषपरितोषितैः ।
दीयते प्रीतिधनयोः स पण्यक्रयविक्रयः ॥ ३ ॥

लोकप्रसिद्धिसिद्ध्यै यः प्रयच्छति गुणस्तवैः ।
करोति वित्तयशसोः स सदा क्रयविक्रयम् ॥ ४ ॥

अवमानहतं यच्च दत्तमश्रद्धया धनम् ।
ऊषरे निष्फलं बीजं क्षिप्तमक्षिप्तमेव तत् ॥ ५ ॥

त्यागिनोऽन्यस्य संघर्षे कीर्त्युत्कर्षजिगीषया ।
दत्तं कारणभूतस्य तस्यैवान्ते फलप्रदम् ॥ ६॥

परार्तिशमनं वित्तमज्ञातमनुदीरितम् ।
अफलाकाङ्क्षया युक्तं प्रयात्यल्पमनल्पताम् ॥ ७॥

कुरुक्षेत्रादिदेशेषु कालेष्वर्कग्रहादिषु ।
आत्मोपकारमात्रेण पान्ने दानेन किं मदः ॥ ८॥

देशकालक्रियापात्राण्यविचार्येैव केवलम् ।
परेषामार्तिशमनं दया दानमुच्यते ॥ ९॥

रक्षायै संपदां पुत्रकलत्रसुखसिद्धये ।
दीयते यत्प्रयत्नेन लोभदानेन तेन किम् ॥१०॥

वादे खलैः खलीकृत्य वेघद्रुतपरीक्षया ।
दीयते यञ्चिरक्लिष्टं कष्टदानेन तेन किम् ।। ११ ।।

त्यक्त्वाशागतसत्पात्रं पूर्णायाभ्यर्थ्य दीयते ।
यत्तदुच्छ्वाससंतप्तं दग्धदानेन तेन किम् ॥ १२ ॥

अन्यदाभाषितं पूर्व दत्तमन्यत्ततोऽल्पकम् ।
यत्सदोषमयोग्यं वा कूटदानेन तेन किम् ॥ १३ ॥

चिरसेवानुरोधेन लोमकृच्छ्रादनिच्छया ।
अप्रसादेन यद्दत्तं बलादानेन तेन किम् ॥ १४ ॥

यत्पुष्पधूपतिलकप्रतिपत्तिप्रदर्शितम् ।
दत्तमत्यल्पनिःसारं दम्भदानेन तेन किम् ॥ १५॥

प्रभूतभारसंभारं राजचौरादिविप्लवे ।
दत्त्वा यद्दुष्टमुद्धुष्टं शल्यदानेन तेन किम् ॥ १६ ॥

अनाखाद्यमविक्रेयमनादेयमनीप्सितम् ।
दत्तं निरुपकारं यद्वन्ध्यदानेन तेन किम् ॥ १७ ॥

ऋणवच्चिरसंशोध्यं वचसा प्रतिपादितम् ।
यन्नित्ययाचनद्वेषं याच्यदानेन तेन किम् ॥१८॥

एकस्मै पूर्णमन्यस्मै कृशं तुल्यगुणोदये।
भेदाद्यदर्पितं रागद्वेषदानेन तेन किम् ॥ १९ ॥

ऋणदैः खजनैः पुत्रैर्लब्धक्षामप्रतिग्रहः ।
नित्यमायास्यते येन कलिदानेन तेन किम् ॥ २० ॥

न परस्यार्तिशमनं नात्मनः पुण्यकारणम् ।
दत्ताल्पमूल्येनाप्तं यत्खल्पदानेन तेन किम् ॥ २१ ॥

दुर्ग्रहेषु विरुद्धेषु दशापाकेऽतिदारुणे ।
दीयते दोषशान्त्यै यद्भय्दानेन तेन किम् ॥ २२ ॥

मुमूर्षुस्त्यक्तसर्वाशः शयनस्थो ददाति यत् ।
मूर्च्छास्थानेन मनसा मोहदानेन तेन किम् ॥ २३ ॥

दत्तं प्रियवियोगोग्रशोकशल्यार्तचेतसा ।
यत्पश्चात्तापजननं बाष्पदानेन तेन किम् ॥ २४॥

पुरोहिताय गुरवे शान्तिस्वस्तिविधायिने ।
दीयते यत्प्रसङ्गेन भृतिदानेन तेन किम् ॥ २५ ॥

यत्संंत्यक्तफलस्पृहं यदुचितं सर्वस्वभूतं च य-
न्नान्यायेन यदर्जितं परधनस्पर्शेन शप्तं न यत् ।
दत्त्वा दुःखशतं न यत्स्ववचसा पश्चान्न यद्गण्यते
तद्दानं धनबीजवापनिपुणः शेषः प्रकारः कृषः ॥ २६ ॥

प्राप्तुं स्वर्गवराङ्गनास्तनतटस्पर्शातिरिक्तं सुखं
दत्तो मेरुरपि प्रयाति तृणतामात्मोपकारेच्छया ।
आपन्नार्तिविलोकने करुण्या श्रद्धासुधापूरितं
सत्त्वोत्साहसमन्वितं तृणमपि त्रैलोक्यदानाधिकम् ॥ २७ ॥

युधिष्ठिरस्य भूभर्तुः पुरा कनकवर्षिणः ।
अश्वमेधे विधानेन वर्तमाने महाक्रतौ ॥ २८ ॥

सज्जासु राजभोज्यासु विविधास्वन्नपालिषु ।
अनिशं रत्नपात्रेषु भुञ्जानेषुय़ं द्विजन्मसु ॥ २९ ॥

विप्रेषु पूर्यमाणेषु मणिकाञ्चनशासनैः ।
उच्छिष्टभूमिंं नकुलः खबिलात्समुपाययौ ॥ ३० ॥

दीप्तकाञ्चनवर्णेन पार्श्वनैकेन शोभितः।
अपरेणासुवर्णेन वितीर्णजनकौतुकः ॥ ३१ ॥

सोऽभ्येत्य तूर्णमुच्छिष्टहेमपात्रच्युतेऽम्भसि ।
लुलोठ शफरोत्फालपरिवर्तविवर्तनैः ॥ ३२ ॥

सुवर्णपार्श्व नकुलं दृष्ट्वा सर्वे कुतूहलात् ।
मज्जन्तमुच्छिष्टजले क्षितिपाय न्यवेदयन् ॥ ३३ ॥

प्राप्तेन भूभुजा दृेष्ट्वा दृष्ट्या पृष्ट इवेष्टया ।
सोऽवदद्विस्मयमुवा सुस्पष्टाक्षरया गिरा ॥ ३४ ॥

राजन्नस्यातिदानस्य न पश्याम्युचितं फलम् ।
अस्मात्प्रभूतसंभारात्सक्तुपात्रं वरं परम् ॥ ३५ ॥

प्रवृत्तेऽस्मिन्महादाने महतस्ते महीपते ।
वित्ते वृत्ते च चित्ते च शुद्धिं को वेत्ति तत्त्वतः ॥ ३६॥

संभारोऽयं भुवनभवनव्याप्तिपर्याप्तभोगः
सर्वाशासु प्रततजनतापूरणेऽत्यन्ततुच्छः ।
आपन्नार्तिप्रशमनविधौ सत्त्वशुद्धिप्रदाने
संनद्धानामपि तृणकणः काञ्चनाद्रित्वमेति ।। ३७ ॥

श्रूयतां यन्मया दृष्टं भूपते स्वयमद्भुतम् ।
उदेत्युदीरिते यस्मिन्काये रोमाञ्चकञ्चुकः ॥ ३८ ॥

शिलोञ्छवृत्तिना पूर्वं विप्रेण क्षेत्रचारिणा ।
उपवासकृशेनाप्तं यवस्तोक कलत्रिणा ॥ ३९ ॥

सक्तुपात्रे ततः सिद्धे कृतदेवपितृक्रियः ।

जायापुत्रविभागेन स्वं भागं भोक्तुमुद्ययौ ॥ ४० ॥

स प्राणाहुतितोयार्थी ददर्शातिथिमागतम् । क्षुत्क्षामकुक्षिं संक्षिप्तसर्वाङ्गशिथिलाकृतिम् ॥ ४१ ।।

तस्मै विहितसत्कारः सप्रसादेन चेतसा । श्रद्धासुधावसिक्तं तत्स ददौ निजभोजनम् ॥ १२ ॥

निगीर्णेऽतिथिना तस्मिन्नक्षीणक्षुद्विकारिणा । तद्भार्याप्यादरवती तस्मै स्वमशनं ददौ ॥ ४३ ॥

तेनाप्यतृप्तिमालोक्य तत्सूनुः श्रद्धयातिथिम् । स्वभोजनेन विदधे संपूर्णाशननिर्वृतम् ॥ १४ ॥

गते भुक्त्वातिथौ तस्मिन्नुपवासकृशो द्विजः । सत्त्वोत्साहयुतस्तस्थौ क्लान्तोऽपि निशि निर्व्यथः ॥ ४५ ॥

अथाहं सक्तुगन्धेन निर्गतः क्षुधितो बिलात् । प्राप्तस्तत्पर्णकुटिकामुत्सृष्टोच्छिष्टवर्तिनीम् ॥ १६ ॥

तत्राचमनतोयेन स्पृष्टमात्रस्य मे नृप । पश्य मे दक्षिणं पार्श्वं जातं हेममयच्छवि ॥ १७ ॥

ततोऽहं बामपार्श्वस्य हेमच्छायाप्तये सदा। निर्निद्रश्चिन्तया यातः कृशतामेव केवलम् ॥ १८॥

यद्यत्प्राप्नोति पुरुषः कर्मयोगात्समीहितम् । तत्तत्संपूरणायैव याति चिन्ताविधेयताम् ॥ ४९ ॥

अधुना वर्तमानेऽस्मिन्नश्वमेधे तव क्रतौ । हेमपार्श्वाशयायातो विप्रोच्छिष्टामहीमहम् ॥ ५० ॥

रत्नकाञ्चनपात्राम्बुसिक्तस्य लुठतश्चिरम् । मम कान्तिलवोऽप्यङ्गे न कश्चिदिह दृश्यते ॥ ५१ ॥

सर्वथा सत्त्वशुद्धाय दानायातिलघीयसे ।

नमो महाफलायैव न भोगाङ्गप्रसङ्गिने ।। ५२ ॥

इत्युक्त्वा नकुले याते तत्तथेति युधिष्ठिरः।
विचिन्त्य 'संततोच्छ्वासः क्षणं स्तिमिततां ययौ ।। ५३ ।।

तस्मात्सुवर्णाम्बररत्नभूमिदानैर्न दर्पः पुरुषेण कार्यः ।
भवत्युदारं करुणासत्त्वं दानं सदा कस्यचिदेव पुण्यैः ।। ५४ ।

इति श्रीव्यासदासापराख्यक्षेमेन्द्रविहिते दर्पदलने दानविचारः षष्टः ।

सप्तमो विचारः।

तपः सदा रागधनाभिमानमोहप्रहाणाय सतामभीष्टम् ।
तेनैव दर्पो यदि किं वृथैव त्यक्तो निकायः क्षपितश्च कायः ॥ १॥

सर्वात्मना शुद्धधिया विधेयः संसारदोषप्रशमाय यत्नः ।
कोयोपतप्तं धनरागदिग्धं करोति तीव्रं न तपः प्रशान्तिम् ॥ २ ॥

चित्तं विरक्तं यदि किं तपोभिश्चित्तं सरागं यदि किं तपोभिः ।
चित्तं प्रसन्नं यदि किं तपोभिश्चित्तं सकोपं यदि किं तपोभिः ॥ ३ ॥

कोपेन शापस्फुरिताधराणां कामेन कम्पस्फुरिताधराणाम् ।
खेदाम्भसा तुल्यसमुद्भवेन निस्तेजसां किं तपसा मुनीनाम् ॥ ४॥

भार्याप्यहल्या किल गौतमस्य क्रुद्धस्य शापेन शिला बभूव ।
नीतो वसिष्ठेन रुषाभिशप्तश्चण्डालतां भूमिपतिस्निशङ्कुः ॥५॥

भूमग्नमूर्तिर्वररत्नलोभाद्विपाटयन्ती नयने सुकन्याम् ।
तत्पाणिसंस्पर्शसुखादरेण सेहे निकारं च्यवनः सरागः ॥ ६॥

पाण्डुः प्रियाकण्ठविलम्बिबाहुर्ययौ स्तनन्यस्ततनुर्यदस्तम् ।
दग्धः परीक्षित्फणिफूत्कृतैर्यत्तपस्विकोपस्य विजृम्भितं तत् ॥ ७ ॥

विसारसंसारतरोर्न येन निःशेषमुन्मूलितमेव मूलम् ।
शापोपतापप्रभुणा परेषां किं तेन मिथ्यातपसा मुनीनाम् ॥ ८॥

न राजसेवारजसा विलुप्तं न भूमिविद्यादिविवादतप्तम् ।
न दम्भदीक्षाकुहकाकुलं यत्कल्याणमित्रं विमलं व्रतं तत् ॥ ९॥

ससंचयं गुप्तकलत्रपुत्रं पुनर्गृहीतव्यवहारभारम् ।
दम्भाभिमानोद्भवकष्टभूतं मिथ्याव्रतं जीवितवृत्त्युपायः ॥ १०॥

सरागरोगं बहुलप्रमोहं सरोगसंभारमखर्वगर्वम् ।
प्रद्वेषदोषोष्णममेयमायं संसारचिन्हं ब्रतमेतदत्र्यम् ।। ११ ।।

जटाक्षसूत्राजिनयोगपट्टकन्थादृढग्रन्थिनिपीड्यमानम् ।
विवेकहीनं विरतप्रकाशं व्रतं बृहद्वन्धनमामनन्ति ॥ १२ ॥

सरागकाषायकषायचित्तं शीलांशुकत्यागदिगम्बरं वा ।
लौल्योद्भवद्भस्मभरप्रहासं व्रतं न वेषोद्भटतुल्यवृत्तम् ॥ १३ ॥

निःसङ्गयोग धनभोगसङ्गं विलम्बिकङ्कालकपालमालम् ।
कोपाकुलं स्पर्शविवर्जनीयं भारव्रतं तत्कथयन्ति पापम् ॥ १४ ॥

बालस्तपस्वी किमतोऽस्ति हास्यं युवा बनैषी किमतोऽस्त्ययोग्यम् ।
वृद्धः सरागः किमतोऽस्ति निन्द्यं मूर्खः प्रमाता किमतोऽस्ति शोच्यम् १५

क्षमा शमः शासनमिन्द्रियाणां मनः प्रसिक्तं करुणामृतेन ।
तपोऽर्हमेतत्सजने वने वा कायस्य संशोषणमन्यदाहुः ॥ १६ ॥

हिमाचले श्यामलदेवदारुवने पुरा निर्झरचारुहास्ये ।
तपस्यतां शोषजुषां मुनीनां कालो ययौ वर्षसहस्रसंख्यः ॥ १७॥

ततः कदाचिद्भगवान्भवार्तिहारी विहाराय नमःपथेन ।
समं भवान्या वृषभाधिरूढः समाययौ शीतमयूखमौलिः ॥ १८ ॥

तस्योदितानां वदनप्रभाणां दीर्घाीकृतानेकशशिप्रभाणाम् ।
विलासहास्येन नमो बभूव विभक्तिसंसक्तसितोत्तरीयम् ॥ १९ ।।

देवी विलोक्याथ तपःप्रयत्नतीव्रप्रयासप्रकटास्थिशेषान् ।
मुनीन्कृपावेशविषण्णचित्ता शशाङ्कलेखाभरणं बभाषे ॥ २० ॥

देव त्वदाराधननिश्चलानां संत्यक्तसर्वाग्रहनिग्रहाणाम् ।
तपःक्रियाशोषितविग्रहाणां नाद्यापि मुक्तिः किमहो मुनीनाम् ॥ २१॥

कस्मादमी वर्षसहस्रलग्नक्लेशावलग्नास्तनुशोषमग्नाः ।
भवत्पदं नित्यसुखाय नैव निरामयं तन्मुनयः प्रयान्ति ॥ २२ ॥

पृथुः प्रसादः प्रथमागतेषु निरादरत्वं चिरसंश्रितेषु ।
स्वाच्छन्द्यलीलाविपुलावलेपादेषु स्वभावः सुलभः प्रभूणाम् ॥ २३ ॥

इति प्रियायाः प्रणयोपपन्नमाकर्ण्य वाक्यं गिरिशोऽब्रवीत्ताम् ।
कुर्वन्विषश्यामलकण्ठकान्तिं दन्तप्रभाभिः प्रतिमाविहीनाम् ॥ २४ ॥

देवि त्वयोक्तं दयया मुनीनां भक्तानुरोधादुचितं ममैतत् ।
एषां भवोल्लङ्घनविघ्नभूतौ शान्तिं गतौ किं तु न कामकोपौ ।॥ २५ ॥

वनप्रवेशैर्नियमैरशेषैः क्रियाविशेषैः कृतकायशोषैः ।
न निर्विकारं पदमाप्नुवन्ति कोपेन कामेन च कृष्यमाणाः ॥ २६ ॥

प्रत्यक्षमेषां मनसो विकारं सदर्शयाम्येष निषक्तमन्तः ।
तीव्रव्रतैः शुष्यति काय एव न वासनालीनधनप्रमोहः ॥ २७ ॥

संत्यक्तभोगाः स्पृहया विमुक्ताः स्नेहेऽप्यरागाः सुजनेऽप्यसङ्गाः ।
मजन्त्यविक्लेशतपःप्रसक्ता युक्ताः प्रकामं पदमव्ययं तत् ।। २८ ॥

उक्त्वेति शंभुर्वृषभात्सलीलं गिरेरिवाग्नादवतीर्य भूमिम् ।
क्षणादभूदद्भुतरूपराशिर्नग्नव्रतः कान्तिसुधावदातः ॥ २९ ॥

तस्यामराधीशकिरीटरत्नशोणप्रभार्द्राविव पादपद्मौ ।
प्रचक्रतुर्विद्रुमबालवल्लीनवप्ररोहाद्भुतगर्वमुर्व्याम् ॥ ३० ॥

सुस्पष्टजानु प्रचितोरुशोभि नाभिह्लादावर्तविभक्तमध्यम् ।
तत्तस्य रूपं प्रविलम्बिबाहोः पीनांसमासीन्मुखपूर्णचन्द्रम् ॥ ३१ ॥

अनन्यलावण्यसुधाब्धिमध्यस्नातैरिवाङ्गैः स्फटिकावदातैः ।
चक्रे दशाशाः स पृथुप्रकाशा दिगम्बरत्वादिव जातहासाः ॥ ३२ ॥

पाणिस्थितश्याममयूरपिच्छच्छायाच्छटाविच्छुरितोऽस्य कण्ठः ।
रराज लीनान्तरकालकूटमिषाग्निनेवार्पितधूमलेखः ॥ ३३ ॥

स लोचनाभ्यां पृथुपक्ष्मलाभ्यामारक्तपर्यन्तमनोहराभ्याम् ।
व्यधादिवानङ्गनवाङ्गसङ्गे दिगङ्गनानामनुरागदीक्षाम् ॥ ३४ ॥

दृष्ट्वा त्रिलोकीकलिताभिलाषं वपुः स्मरारेर्जनितस्मरं तत् ।
पूर्वापकारस्मृतिजातलज्जं चक्षुः क्षणं क्वापि ययौ तृतीयम् ॥ ३५ ॥

बभौ स कान्तः कुटिलासितेन स्कन्धस्पृशा कुन्तलसंचयेन ।
अन्वेष्टुमिष्टां मुकुटेन्दुलेखां निशागणेनेव समागतेन ॥ ३६ ॥

लतावधूपल्लवपाणिमुक्तैः स्मितावदातैर्विबभौ स पुष्पैः ।।
रूपान्तरे निह्वुत जन्हुकन्याफेनावशेषैरिव कीर्णकेशः ।। ३७ ॥

तेनान्यरूपेण कृता नवैव कान्तिश्चकाशे निजरूपगुप्त्यै ।
जूटादिवेन्दुर्मृदितः कराभ्यां सर्वाङ्गमभ्यङ्गपदे नियुक्तः ॥ ३८ ॥

रूपं विरूपीकृतमन्मथस्य तत्तस्य कान्त्या कमनीयमासीत् ।
लज्जापहाराद्वनदेवतानां सविस्मयो येन नवामिलाषः ॥ ३९ ॥

विवाससस्तस्य ससङ्गमङ्गे लज्जावतीनां स्पृहयैव पेतुः ।
नेत्राणि विद्याधरसुन्दरीणां लीलारविन्दार्धतिरस्कृतानि ।। ४० ॥

नमःस्थितानां त्रिदशाङ्गनानां तद्गात्रसौन्दर्यवशीकृतानाम् ।
प्रकम्पशिञानविभूषणानां नेत्रोत्सवोऽभूगतिविघ्नभूतः ॥ ११ ॥

सुसिद्धकन्याञ्जलिपल्लवाग्रविमुक्तनीलोत्पलपुष्पकुञ्जम् ।
अङ्गे जगल्लोचनवर्गमस्य सौन्दर्यसंसक्तमिवावभासे ॥ ४२ ॥

तद्दर्शने कौतुकनिश्चलानां कर्णावतंसीकृतलोचनानाम् ।
मृगाङ्गनानामपि सस्पृहाभून्नितान्तमन्तःकरणप्रवृत्तिः ॥४३॥

तस्य प्रवेशे वदनाधिवासलोभभ्रमद्भृङ्गगणाञ्चितानाम् ।
अभूत्सजृम्भश्वसनाकुलानां मुहुर्लतानां कुसुमेषु कम्यः ।। ४४ ॥

शनैः शनैराश्रमसंनिकर्षं तं यौवनं मूर्तमिवापतन्तम् ।
विलोक्य कान्तं मुनिकामिनीनां मनः प्रहर्षोच्छलितं बभूव ।। १५ ।।

तासां तदालोकननिर्निमेषा दृष्टिः परं कर्णपथप्रविष्टा ।
उत्सृष्टलज्जाविपुलाभिलाषादसूचयन्मुग्धमृगीविलासम् ॥ ४६॥

तासां तदर्चाररभसोत्थितानां स्रस्तांशुकोत्कम्पिघनस्तनीनाम् ।
नवेन कामेन खलीकृतानां जृम्भाभवोऽभूद्भुजयोर्विलासः ॥ १७ ॥

तासां वभौ रोमलता मुखेन्दुभीता तमःश्रीः स्तनरक्षितेव ।
रागाग्निधूमग्रसराग्र्यलेखा तनीयसी नाभिविनिर्गतेव ॥ ४८ ॥

तस्याघरे चुम्बनलालसेव कण्ठे हठालिङ्गनसस्पृहेव ।
हृदि स्तनन्याससमुत्सुकेव पपात दृष्टिः सहसैव तासाम् ॥ १९ ॥

भृङ्गस्वनैराहितहुंकृताभिः पुष्प्यत्प्रसूनैः प्रसृतस्मिताभिः ।
वाताञ्चितैः पल्लवपाणिभिस्ता निवार्थमाणा इव मञ्जरीभिः ॥ ५० ॥

संतर्ज्यमाना इव होमधूमलेखावलीभ्रूभ्रमणेन दिग्भिः ।
तस्यान्तिके शीलदुकूलमुक्तिसज्जा विलज्जाः प्रसभं बभूवुः ॥ ५१ ॥

निःश्वासिनीनां स्मरबाणपुङ्खपक्षान्तवातैरिव कम्पितानाम् ।
तासां विलोक्यैव मनोविकारं भ्रूभङ्गभीमा मुनिपर्षदासीत् ॥ ५२ ॥

कोपोत्कटव्याघ्रविदीर्यमाणक्षमामृगीरक्तचितेव तेषाम् ।
आसन्नदोषागमवासरान्तसंध्यानिमाभूत्सहसैव दृष्टिः ॥ ५३ ॥

दष्टाधराः कम्पविधूर्णमानाः खेदार्द्रदेहा विषमं श्वसन्तः ।
ते भेजिरे रागसमुद्गतेर्ष्याः कोपाकुलाः कामुकवृत्तमेव ॥ ५४ ॥

अन्तर्ज्वलत्कोपकृशानुधूमसंकाशकृष्णाजिनबद्धकक्षः ।
त्रिदण्डमुद्यम्य जवेन कश्चिदभ्याद्रवन्नग्नतनुं वृषाङ्कम् ॥ ५५ ॥

वृसीं समुत्क्षिप्य सकम्पबाहुश्चिक्षेप कश्चित्क्षमया विहीनः ।
येनासनात्क्ष्माविरहादिवाशु मोहे निरालम्बतनुः पपात ॥ ५६ ॥

कमण्डलु कश्चिदकाण्डचण्डसंरम्भपिण्डीकृतकोपतुल्यम् ।
आदाय मोहेन पिनाकपाणे: पुरः प्रहाराभिमुखो बभूव ।। ५७ ॥

तेषाममर्षाद्भृशमक्षमाणां सोढुं निकारं क्षणमक्षमाणाम् ।
प्रापुः प्रयाताः क्षितिमक्षमाला भ्रूभङ्गतां तस्य तपोवनस्य ॥ ५८ ॥

तत्संभ्रमादाश्रममञ्जरीणां कम्पाकुलानां कुसुमान्तरोत्थैः ।
आसीत्प्रमोहप्रतिमोऽन्धकारः शापाक्षरामैर्भ्रमरैर्भ्रमद्भिः ॥ ५९ ॥

ते प्रापुरीर्ष्यापदमन्धकारि वक्रं शशाङ्कोपममीक्षमाणाः ।
कण्ठस्थलालोकनकालकूटसंपूरिताक्षा इव मोहमूर्च्छाम् ॥ ६०॥

ते तं स्मितप्रस्फुरिताधराग्रमुदग्रलावण्यविशेषतर्षाः ।
पत्नीविकारोग्रनिकारमूचुः कण्ठान्तरश्वाासविकीर्णवर्णाः ।। ६१ ॥

कोऽयं विजातिर्विगुणः कलावान्नग्नो वृषाङ्कः प्रविशत्यलज्जः ।
प्रदूषिता येन महर्षिजुष्टा गङ्गेव शुद्धा ललनावलीयम् ।। ६२ ॥

अनेन संसूचयता निगूढरूपेण दर्पादकुलीनभावम् ।
नीता पवित्रत्वमियं मुनीनां कापालिकेनेव वनान्तभूमिः ॥ ६३ ॥

अहो बतास्य प्रतिभा प्रसह्य सतीसमालिङ्गनसस्पृहस्य ।
केनापि कामात्कुहकक्रमेण कान्तं कृतं रूपमनेन नूनम् ॥ ६४ ॥

उक्त्वेति तस्सै ससृजुः सकोपास्ते दण्डपाषाणबृसीशतानि ।
द्वेषावृताक्ष्णामविवेकजन्मा मोहः प्रमादे गुरुतामुपैति ।। ६५ ।।

दूरे भवत्यथ शनैः शिशिरांशुमौलौ
तेषां प्रकोपविपुलानलतापितानाम् ।
तद्दर्शनानुसरणप्रसृतस्य यत्नः
पत्नीजनस्य सुतरां विनिवर्तनेऽभूत् ॥ ६६ ॥

अथ स भगवान्भर्गः स्वर्गापगापृथुनिर्झर-
प्रसृतहसितस्तस्माद्देशात्क्रमेण तिरोहितः ।
प्रशमविमलं व्योम व्याप्य प्रियामवदत्स्मय-
स्मितसितमुखीं दृष्टं देवि त्वया मुनिचेष्टितम् ॥ ६७ ॥

भस्मस्मेरशरीरता पृथुजटावन्धः शिरोमुण्डनं
कुण्डी दण्डकमण्डलुप्रणयिता चर्माक्षसूत्रग्रहः ।
काषायव्यसनं निरम्बररुचिः कङ्कालमालाधृतिः
कामक्रोधवशाद्विशेषरुचिरं सर्व वृथैव व्रतम् ॥ ६८ ॥

दर्पात्कोपात्परिणतजटासूत्रबन्धाच्च मोहा-
दन्तःसीदत्सरसविषयास्वादसंवादसङ्गात् ।
आशापाशव्यसननिचयाद्वासनालीनदोषा-
नैषां मुक्तिर्भवति तपसा कायसंशोषणेन ॥ ६९ ॥

इत्युक्तं त्रिपुरारिणा गिरिसुता श्रुत्वा यथार्थ वचो
निश्चित्य व्रतमप्रशान्तमनसां मिथ्यैव कायक्षयन् ।
संसारोपरमाय मोहरजसः शान्त्यै मुनीनां परं
रागद्वेषविमुक्तये चं दयया चके हरस्यार्थनाम् ॥ ७० ॥

देव्यार्थितोऽथ भगवान्कृपया स्मरारि-
स्तेषामनुग्रहमयेन विलोकनेन ।
चक्रे स्मितस् पितदिग्वदनो मुनीनां
लीनस्य मोहरजसः सहसैव शान्तिम् ॥ ७१ ॥

तपोविशेषैनिशितप्रयत्नैस्तरमान्न कार्यः पृथुमोहदर्पः ।
द्वेषेण रागेण महोदयेन तपः क्षयं याति सह स्मयेन ॥ ७२ ॥

प्रशान्तोऽन्तस्तृष्णाविषमपरितापः शमजलै-
रशेषः संतोषामृतविसरपानेन वपुषः ।
असङ्गः संभोगः कमलदलकीलालतुलया
भवारण्ये पुंसां पैरहितभुदारं खलु तपः ॥ ७३ ॥

इति श्रीव्यासदासापराख्यक्षेमेन्द्रविहिते दर्पदलने तपोविचारः सप्तमः ।

समाप्तोऽयं ग्रन्थः ।