दत्तकमीमांसा

विकिस्रोतः तः

॥ कोटिलिङ्गराजेन गोदवर्मणा विरचितं दत्तकमीमांसासिद्धान्तसंग्रम् ॥

           अथ दत्तकमीमांसाप्रोक्तसिद्धान्तसंग्रः ।
           क्रियते पद्यरूपेण विदुषा गोदवर्मणा ॥
           
           प्रणिपत्य परं तत्वं साम्बं रुद्रादिसंज्ञितम् ।
           गोदवर्मा व्याकुरुते स्वीयसिद्धान्तसंग्रहम् ॥
           
           अनुत्पत्याऽथवा मृत्या पुत्रशून्यः प्रयत्नतः ।
           पुत्रप्रतिनिधिं कुर्यादन्यथा प्रत्यवायतः ॥
           
           अपुत्रेणैव कर्तव्यः पुत्रप्रतिनिधिस्सदा ।
           पिण्डोदकक्रियाहेतोः यस्मात्कस्मात् प्रयत्नतः ॥
           
           इत्यत्रिवाक्यघटकस्यैवकारस्य वैभवात् ।
           पुत्रयुक्तस्याधिकारो नास्मिन्नित्यवगम्यते ॥
           
           सपुत्रविश्वामित्रादेः पुत्रान्तरपरिग्रहात् ।
           यदि पुत्रवतोऽप्यस्मिन्नधिकार इतीर्यते ॥
"https://sa.wikisource.org/w/index.php?title=दत्तकमीमांसा&oldid=270316" इत्यस्माद् प्रतिप्राप्तम्