याज्ञवल्क्यस्मृतिः/व्यवहाराध्यायः/दण्डपारुष्यप्रकरणम्

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ

असाक्षिकहते चिह्नैर्युक्तिभिश्चागमेन च ।
द्रष्टव्यो व्यवहारस्तु कूटचिह्नकृतो भयात् । । २.२१२ । ।

भस्मपङ्करजःस्पर्शे दण्डो दशपणः स्मृतः ।
अमेध्यपार्ष्णिनिष्ठ्यूत स्पर्शने द्विगुणस्ततः । । २.२१३ । ।

समेष्वेवं परस्त्रीषु द्विगुणस्तूत्तमेषु च ।
हीनेष्वर्धदमो मोह मदादिभिरदण्डनम् । । २.२१४ । ।

विप्रपीडाकरं छेद्यं अङ्गं अब्राह्मणस्य तु ।
उद्गूर्णे प्रथमो दण्डः संस्पर्शे तु तदर्धिकः । । २.२१५ । ।

उद्गूर्णे हस्तपादे तु दशविंशतिकौ दमौ ।
परस्परं तु सर्वेषां शस्त्रे मध्यमसाहसः । । २.२१६ । ।

पादकेशांशुककरोल् लुञ्चनेषु पणान्दश ।
पीडाकर्षांशुकावेष्ट पादाध्यासे शतं दमः । । २.२१७ । ।

शोणितेन विना दुःखं कुर्वन्काष्ठादिभिर्नरः ।
द्वात्रिंशतं पणान्दण्ड्यो द्विगुणं दर्शनेऽसृजः । । २.२१८ । ।

करपाददतो भङ्गे छेदने कर्णनासयोः ।
मध्यो दण्डो व्रणोद्भेदे मृतकल्पहते तथा । । २.२१९ । ।

चेष्टाभोजनवाग्रोधे नेत्रादिप्रतिभेदने ।
कन्धराबाहुसक्थ्नां च भङ्गे मध्यमसाहसः । । २.२२० । ।

एकं घ्नतां बहूनां च यथोक्ताद्द्विगुणो दमः ।
कलहापहृतं देयं दण्डश्च द्विगुणस्ततः । । २.२२१ । ।

दुःखं उत्पादयेद्यस्तु स समुत्थानजं व्ययम् ।
दाप्यो दण्डं च यो यस्मिन्कलहे समुदाहृतः । । २.२२२ । ।

अभिघाते तथा छेदे भेदे कुड्यावपातने ।
पणान्दाप्यः पञ्च दश विंशतिं तद्व्ययं तथा । । २.२२३ । ।

दुःखोत्पादि गृहे द्रव्यं क्षिपन्प्राणहरं तथा ।
षोडशाद्यः पणान्दाप्यो द्वितीयो मध्यमं दमम् । । २.२२४ । ।

दुःखे च शोणितोत्पादे शाखाङ्गच्छेदने तथा ।
दण्डः क्षुद्रपशूनां तु द्विपणप्रभृतिः क्रमात् । । २.२२५ । ।

लिङ्गस्य छेदने मृत्यौ मध्यमो मूल्यं एव च ।
महापशूनां एतेषु स्थानेषु द्विगुणो दमः । । २.२२६ । ।

प्ररोहिशाखिनां शाखा स्कन्धसर्वविदारणे ।
उपजीव्यद्रुमाणां च विंशतेर्द्विगुणो दमः । । २.२२७ । ।

चैत्यश्मशानसीमासु पुण्यस्थाने सुरालये ।
जातद्रुमाणां द्विगुणो दमो वृक्षे च विश्रुते । । २.२२८ । ।

गुल्मगुच्छक्षुपलता प्रतानौषधिवीरुधाम् ।
पूर्वस्मृतादर्धदण्डः स्थानेषूक्तेषु कर्तने । । २.२२९ । ।