दक्षिणामूर्त्यष्टकम् (बृहत्स्तोत्ररत्नाकरान्तर्गतम्)

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
दक्षिणामूर्त्यष्टकम्
शङ्कराचार्यः
१९५३

श्रीदक्षिणामूर्त्यष्टकम्

मन्दस्मितं स्फुरितमुग्धमुखारविन्दं
कन्दर्पकोटिशतसुन्दरदिव्यमूर्तिम् ।
आतास्रकोमलजटाघटिर्तेन्दुरेख-
मालोकये वटतटीनिलयं दयालुम् ॥१
विश्वं दर्पणदृश्यमाननगरीतुल्यं निजान्तर्गतं
पश्यन्नात्मनि मायया बहिरिवोद्भूतं यथा निद्रया ।
यस्साक्षात्कुरुते प्रबोधसमये स्वात्मानमेवाद्वयं
तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥ २
बीजस्यान्तरिवाङ्कुरो जगदिदं प्राङ्निर्विकल्पं शनै-
र्मायाकल्पितदेशकालकलना वैचित्र्यचित्रीकृतम् ।
मायावीव विजृम्भयत्यपि
महायोगीव यस्स्वेच्छया तस्मै... ॥ ३
यस्यैव स्फुरणं सदात्मकमसत्कल्यार्थकं भासते
साक्षात्तत्त्वमसीति वेदवचसा यो बोधयत्याश्रिताम् ।

मस्साक्षात्करणाद्भवेन्न पुन-
रावृत्तिर्भवाम्भोनिधौ तस्मै ...॥ ४
नानाछिद्रघटोदरस्थितमहादीपप्रभाभास्वरं
ज्ञानं यस्य तु चक्षुरादिकरणद्वारा बहिः स्पन्दते ।
जानामीवि तमेव मान्तमनुमा-
त्येतत्समस्तं जगत्तस्मै ...॥ ५
देहं प्राणमपीन्द्रियाण्यपि चलां
बुद्धिं च शून्यं विदुः
स्त्रीबालान्धजडोपमास्त्वहमिति
भ्रान्ता भृशं वादिनः।
मायाशक्तिविलासकल्पितमहा-
व्यामोहसंहारिणे तस्मै ...॥ ६
राहुग्रस्तदिवाकरेन्दुसदृशो
मायासमाच्छादना
त्सन्मात्र: करणोपसंहरणतो
योऽभूत्सुषुप्तः पुमान् ।

प्रागस्वाप्समिति प्रबोधसमये
यः प्रत्यभिज्ञायते तस्मै ...॥ ७
बाल्यादिष्वपि जामदादिषु
तथा सर्वास्खवस्थास्वपि
व्यावृत्तास्वनुवर्तमानमहमि-
त्यन्तं स्फुरन्तं सदा।
स्वात्मानं प्रकटीकरोति भजता
यो मुद्रया भद्रया तस्मै ...॥ ८
विश्वं पश्यति कार्यकारणतया
स्वखामिसम्बन्धत-
श्शिष्याचार्यतया तथैव पितृ-
पुत्राद्यात्मना भेदतः।
स्वप्ने जाग्रतिं वा य एष पुरुषो
मायायरिभ्रामिततस्मै ...॥ ९
भूरम्भांस्यनलोऽनिलोऽम्बरमह-
र्नाथो हिमांशुः पुमा-

नित्याभाति चराचरात्मकमिदं यस्यैव मूर्त्यष्टकम् ।
नान्यत्किञ्चन विद्यते विमृशतां
यस्मात्परस्माद्विभोस्तस्मै ॥१०
सर्वात्मत्वमिति स्फुटीकृतमिदं यस्मादमुष्मिंस्तवे
तेनास्य श्रवणात्तदर्थमननाद्ध्यानाच्च सङ्कीर्तनात् ।
सर्वात्मत्वमहाविभूतिसहितं स्यादीश्वरत्वं स्वत:
सिध्येत्तत्पुनरष्टधा परिणतं चैश्वर्यमव्याहतम् ॥११
वटविटपिसमीपे भूमिभागे निषण्णं
सकलमुनिजनानां ज्ञानदातारमारात् ।
त्रिभुवनगुरुमीशं दक्षिणामूर्तिदेवं
जननमरणदुःखच्छेददक्षं नमामि ॥१२
चित्रं वटतरोर्मूले वृद्धाश्शिष्या गरुर्युवा ।
गुरोस्तु मौनं व्याख्यानं शिष्यास्तु छिन्नसंशयाः ॥
मौनव्याख्याप्रकटितपरब्रह्मतत्त्वं युवानं
वर्षिष्टान्तेवसदृषिगणैरावृतं ब्रह्मनिष्ठैः ।
आचार्येन्द्रं करकलितचिन्मुद्रमानन्दमूर्तिं
स्वात्मारामं मुदितवदनं दक्षिणामूर्तिमीडे॥ १४

सुनिर्मलज्ञानसुखैकरूपं
प्रज्ञानहेतुं परमार्थदायिनम् ।
चिदम्बुधौ तं विहरतमाद्य-
मानन्दमूर्तिं गुरुराजमीडे॥ १५
यस्यान्तर्नादिमध्यं न हि
करचरणं नाम गोत्रं न सूत्रं
नो जातिर्नैव वर्णा न भवति
पुरुषो ना नपुंसं न च स्त्री।
नाकारं नैवकारं न हि जनि
मरणं नास्ति पुण्यं न पापं
तत्वं नो तत्त्वमेकं सहज-
समरसं सद्गुरुं तं नमामि ॥ १६
अलं विकल्पैरहमेव केवलं
मयि स्थितं विश्वमिदं चराचरम् ।
इदं रहस्यं मम येन दर्शितं
स वन्दनीयो गुरुरेव केवलम् ॥ १७

॥ इति श्रीमच्छङ्कराचार्यविरचितं दक्षिणामूर्त्यष्टकं सम्पूर्णम् ॥