दक्षिणामूर्तिस्तोत्रम् (बृहत्स्तोत्ररत्नाकरान्तर्गतम्-२)

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
दक्षिणामूर्तिस्तोत्रम्
शङ्करभारती
१९५३

॥ श्रीदक्षिणामूर्तिस्तोत्रम् ॥

 उपासकानां यदुपासनीयमुपात्तवासं वटशाखि- मूले । तद्धाम दाक्षिण्यजुषा स्वमूर्त्या जागर्तुं चित्ते मम बोधरूपम् ॥ १

 अद्राक्षमक्षीणदयानिधानमाचार्यमाद्यं वटमूल - भागे । मौनेन मन्दस्मितभूषितेन महर्षिलोकस्य तमो- नुदं तम् ॥ २

 विद्राविताशेषतमोगणेन मुद्राविशेषेण मुहुर्मुनी- नाम् । निरस्य मायां दयया विधत्ते देवो महांस्तत्व- मसीति बोधम् ॥ ३

 अपारकारुण्यसुधातरङ्गैरपाङ्गपातैरवलोकयन्तम् । कठोरसंसारनिदाघतप्तान् मुनीनहं नौमि गुरुं गुरू- णाम् ॥ ४

 ममाद्य देवो वटमूलवासी कृपाविशेषात्कृतसन्नि- धानः । ओंकाररूपामुपदिश्य विद्यामाविद्यकध्वान्त- मपाकरोतु ॥ ५  कळाभिरिन्दोरिव कल्पिताङ्गः मुक्ताकलापैरिव बद्धमूर्तिम् । आलोकये देशिकमप्रमेयमनाद्यविद्या- तिमिरप्रभातम् ॥ ६

 स्वदक्षजानुस्थितवामपादं पादोदरालङ्कृतयोग- पट्टम् । अपस्मृतेराहितपादमङ्गे प्रणौमि देवं प्रणि- धानवन्तम् ॥ ७

 तत्वार्थमन्तेवसतामृषीणां युवापि यस्सन्नुपदेष्टु- मीष्टे । प्रणौमि तं प्राक्तनपुण्यजालैराचार्यमाश्चर्य- गुणाधिवासम् ॥ ८

 एकेन मुद्रां परशु करेण करेण चान्येन मृगं दधानः । स्वजानुविन्यस्तकरः पुरस्तादाचार्यचूडा- मणिराविरस्तु ॥ ९

 आलेपवन्तं मदनाङ्गभूत्या शार्दूलकत्त्त्या परिधान- वन्तम् । आलोकये कञ्चन देशिकेन्द्रमज्ञानवाराकर- बाडबाग्निम् ॥ १०

 चारुस्मितं सोमकळावतंसं वीणाधरं व्यक्तजटाकलापम् । उपासने केचन योगिनस्त्वामुपात्तना- दानुभवप्रमोदम् ॥ ११

 उपासते यं मुनयश्शुकाद्या निराशिषो निर्ममता- धिवासाः । तं दक्षिणामूर्तितनुं महेशमुपास्महे मोह- महार्तिशान्त्यै ॥ १२

 कान्त्या निन्दितकुन्दकन्दळवपुर्न्यग्रोधमूले वसन् कारुण्यामृतवारिभिर्मुनिजनं सम्भावयन् वीक्षितैः । मोहध्वान्तविभेदनं विरचयत् बोधेन तत्तादृशा देव- स्तत्वमसीति बोघयतु मां मुद्रावता पाणिना ॥ १३

 अगौरगात्रैरललाटनेत्रैरशान्तवेषैरभुजङ्गभूषैः । अबोधमुद्रै रनपास्तनिद्रै रपूरकामै रमरैरलं नः ॥ दैवतानि कति सन्ति नावनौ नैव तानि मनसो मतानि मे । दीक्षितं जडधियामनुग्रहे दक्षिणाभि- मुखमेव दैवतम् ॥ १५

 मुदिताय मुग्धशशिनावतंसिने भसितावलेपरमणीयमूर्तये । जगदिन्द्रजालरचनापटीयसे महसे नमोस्तु वटमूलवासिने ॥ १६

 व्यालम्बिनीभिः परितो जटाभिः कलावशेषेण कलाधरेण । पश्यल्ललाटेन मुखेन्दुना च प्रकाशसे चेतसि निर्मलानाम् ॥ १७

 उपासकानां त्वमुमासहायः पूर्णेन्दुभावं प्रकटी- करोषि । यदद्य ते दर्शनमात्रतो मे द्रवत्यहो मानस- चन्द्रकान्तः ॥ १८

 यस्ते प्रसन्नामनुसन्दधानो मूर्तिं मुदा मुग्ध- शशाङ्कमौळे: । ऐश्वर्यमायुर्लभते च विद्यामन्ते च वेदान्तमहारहस्यम् ॥ १९

इति श्रीमच्छङ्करभारतीस्वाभिविरचितं दक्षिणामूर्तिस्तोत्रम् ॥