दक्षिणामूर्तिमानसिकपूजास्तोत्रम्

विकिस्रोतः तः
दक्षिणामूर्तिमानसिकपूजास्तोत्रम्
विज्ञानेन्द्रः
१९५३

॥ श्रीदक्षिणामूर्ति मानसिकपूजास्तोत्रम् ॥

 मुद्राक्षमाला मृतपात्रविद्या व्याघ्राजिनार्धेन्दु- फणींद्रयुक्तम् । योगीन्द्रपर्जन्य मनस्सरोजभृङ्गभजेहं हृदिदक्षिणास्यम् ॥ १

 स्फुटवटनिकटस्थं स्तूयमानावभासं पटुभुजतटबद्ध- व्याघ्रचर्मोत्तरीयम् । चटुलनिटलनेत्रं चन्द्रचूडं मुनीशं स्फटिकपटलदेहं भावये दक्षिणास्यम् ॥ २ आवाहये सुन्दरनागभूषं विज्ञानमुद्राञ्चित पञ्च- शाखम् । भस्माङ्गरागेण विराजमानं श्रीदक्षिणामूर्ति- महात्मरूपम् ॥ ३

 सुवर्णरत्नामलवज्रनीलमाणिक्यमुक्तामणियुक्त- पीठे । स्थिरोभव त्वं वरदो भवत्वं संस्थापयामीश्वर दक्षिणास्यम् ॥ ४

 श्रीजाह्नवीनिर्मलतोयमीश चार्व्यार्थमानीय समर्प- यिष्ये । प्रसन्नवक्त्रान्बुजलोकवन्द्य कालत्रयेहं तव- दक्षिणास्तयम् ॥ ५  कस्तूरिकामिश्रमिदं गृहाण रुद्राक्षमालाभरणाङ्कि ताङ्ग । कालत्रयाबाध्यजगन्निवास पाद्यं प्रदास्ये हृदि दक्षिणास्यम् ॥

 मुदाहमानन्द सुरेन्द्रवन्द्य गङ्गानदीतोयमिदं हिदास्ये । तवाधुना चाचमनं कुरुष्व श्रीदक्षिणामूर्ति गुरुस्वरूप ॥

 सर्पिः पयो दधि मधु शर्कराभिः प्रसेचये ।
 पञ्चामृतमिदं स्नानं दक्षिणास्य कुरु प्रभो ॥ ८

 वेदान्तवेद्याखिलशूलपाणे ब्रह्मामरोपेन्द्रसुरेन्द्र - वन्द्य । स्नानं कुरुष्वामलगाङ्गतोये सुवासितेस्मिन् कुरुदक्षिणास्य ॥

 कौशेयवस्त्रेण च मार्जयामि देवेश्वराङ्गानि तवाम- लानि । प्रज्ञाख्यलोकत्रितयप्रसन्न श्रीदक्षिणास्याखिल- लोकपाल ॥ १०

 सुवर्णतंतूद्भव मग्र्यमीश यज्ञोपवीतं परिधत्स्व देव । विशालबाहूदरपञ्चवक्त्र श्रीदक्षिणामूर्ति सुख- खरूप ॥ ११

 कस्तूरिकाचन्दनकुङ्कुमादिविमिश्रगन्धं मणिपात्र संस्थम् । समर्पयिष्यामि मुदा महात्मन् गौरीमनो- वस्थितदक्षिणास्य ॥ १२

 शुभ्राक्षतैश्शुभ्रतिलैस्सुमिश्रैस्संपूजयिष्ये भवत:- परात्मन्, तदेकनिष्ठेन समाधिनाथ सदाहमानन्द सुदक्षिणास्य ॥ १३

 सुरत्नदाङ्गेय किरीटकुण्डलं हाराङ्गुळीकङ्कणमेख- लावृतम् । खण्डेन्दुचूडामृतपात्रयुक्तं श्रीदक्षिणामूर्ति- महं भजामि ॥ १४

 मुक्तामणिस्थापितकर्बुरप्रसूनैस्सदाहं परिपूज- यिष्ये । कुक्षिप्रपुष्टाखिललोकजाल श्रीदक्षिणामूर्ति- महत्स्वरूपम् ॥ १५

 दशाङ्गधूपं परिकल्पयामि नानासुगन्धान्वितभाज्ययुक्तम् । मेधाख्य सर्वज्ञ बुधेन्द्रपूज्य दिगम्बर स्वीकुरु दक्षिणास्य ॥ १६

 आज्येन संमिश्रमिमं प्रदीपं वर्तित्रयेणान्वितमग्नि- युक्तम् । गृहाण योगीन्द्र मयार्पितं भो श्रीदक्षिणा- मूर्तिगुरो प्रसीद ॥ १७

 शाल्योदनं निर्मलसूपशाकभक्ष्याज्यसंयुक्तदधि- प्रसिक्तम् । कपित्थ सद्राक्ष फलैश्च चूतैस्सापोशनं भक्षय दक्षिणास्य ॥ १८

 गुडाम्बु सत्सैन्धवयुक्ततक्रं कर्पूरपाटीर लवङ्ग- युक्तम् । यज्ञेश कामान्तक पुण्यमूर्ते पिबोदकं निर्मल- दक्षिणास्य ॥ १९

 खमार्गनिर्यज्जलमाशु देव कुरूत्तरापोशनमभ्रकेश । प्रक्षाळनं पाणियुगस्य शर्व गण्डूषमापादय दक्षि- णास्य ॥ २०

 सम्यग्जलेनाचमनं कुरुष्व स्वस्थो भव त्वं ममचाप्रभागे । चिदाकृते निर्मलपूर्णकाम विनिर्मितं पावन दक्षिणास्य ॥ २१

 ताम्बूलमद्य प्रतिसंगृहाण कर्पूरमुक्तामणिचूर्ण- युक्तम् । सुपर्णपर्णान्वितपूगखण्डमनेकरूपाकृति दक्षिणास्य ॥ २२

 नीराजनं निर्मलपात्रसंस्थं कर्पूरसंदीपित मच्छरू- पम् । करोमिवामेश तवोपरीदं व्योमाकृते शङ्कर दक्षि- णास्य ॥ २३

 ततःपरं दर्पणमीश पश्य स्वच्छं जगद्दीपितचक्रभा- स्वत् । माणिक्यमुक्तामणिहेमनील विनिर्मितं पावन- दक्षिणास्य ॥ २४

 मन्दारपङ्केरुहकुन्दजाजीसुगन्धपुष्पाञ्जलिमर्प- यामि । त्रिशूलढक्काञ्चितपाणियुग्म ते दक्षिणामूर्ति- विरूपधारिन् ॥ २५

 प्रदक्षिणं सम्यगहं करिष्ये कालत्रये त्वां करुणाभिरामम् । शिवामनोनाथ ममापराधं क्षमस्व यज्ञेश्वर- दक्षिणास्य ॥ २६

 नमोनमः पापविनाशनाय नमोनमः कञ्जभवा- र्चिताय । नमोनमः कृष्णहृदि स्थिताय श्रीदक्षिणा- मूर्तिमहेश्वराय ॥ २७

इति विज्ञानेन्द्रविरचितं श्रीदक्षिणामूर्ति
मानसिकपूजास्तोत्रम् ॥