त्रिपुरसुन्दरीवेदपादस्तोत्रम्
त्रिपुरसुन्दरीवेदपादस्तोत्रम् शङ्कराचार्यः १९१० |
॥ श्रीः॥
॥ त्रिपुरसुन्दरीवेदपादस्तोत्रम् ॥
वेदपादस्तवं वक्ष्ये देव्याः प्रियचिकीर्षया ।
यथामति मतिं देवस्तन्नो दन्तिः प्रचोदयात् ॥ १॥
अकिंचित्करकर्मभ्य: प्रत्याहृत्य कृपावशात् ।
सुब्रह्मण्य: स्तुतावस्यां तन्नः षण्मुखः प्रचोदयात् ॥२॥
अकारादिक्षकारान्तवर्णावयवशालिनी।
वीणापुस्तकहस्ताव्यात्प्रणो देवी सरस्वती ।। ३ ।।
या वर्णपदवाक्यार्थगद्यपद्यस्वरूपिणी ।
वाचि नर्तयतु क्षिप्रं मेधां देवी सरस्वती ।। ४ ।।
उपास्यमाना विप्रेन्द्रैः सन्ध्यासु च तिसृष्वपि ।
सद्यः प्रसीद मे मात: सन्ध्याविधे सरस्वती ॥५॥
मन्दा निन्दालोलुपाहं स्वभावा-
देतत्स्तोत्रं पूर्यते किं मयेति ।
मा ते भीतिर्हे मते त्वादृशाना-
मेषा नेत्री राधसा सूनृतानाम् ॥ ६॥
तरङ्गभ्रुकुटीकोटिभङ्गया तर्जयते जराम ।
सुधामयाय शुभ्राय सिन्धूनां पतये नमः ॥ ७ ॥
तस्य मध्ये मणिद्वीप: कल्पकारामभूषितः ।
अस्तु मे ललितावासः स्वस्तिदा अभयंकरः ॥ ८ ॥
कदम्बमञ्जरीनिर्यद्वारुणीपारणोन्मदैः ।
द्विरेफैर्वर्णनीयाय वनानां पतये नमः ॥ ९॥
तत्र वप्रावली लीला गगनोल्लङ्घिगोपुरम् ।
मातः कौतूहलं दद्यात्सहार्यं नगरं तव ।। १० ॥
मकरन्दझरीमज्जन्मिलिन्दकुलसंकुलाम् ।
महापद्माटवीं वन्दे यशसा संपरीवृताम् ।। ११ ।।
तत्रैव चिन्तामणिधोरणार्चिभि-
र्विनिर्मितं रोपितरत्नशृङ्गम् ।
भजे भवानीभवनावतंस-
मादित्यवर्णं तमसः परस्तात् ॥ १२॥
मुनिभिः स्वात्मलाभाय यच्चक्रं हृदि सेव्यते ।
तत्र पश्यामि बुद्धया तदक्षरे परमे व्योमन् ॥ १३ ॥
पञ्चब्रह्ममयो मञ्चस्तत्र यो बिन्दुमध्यगः ।
तव कामेशि वासोऽयमायुष्मन्तं करोतु माम् ॥ १४ ॥
नानारत्नगुलुच्छालीकान्तिकिम्मीलितोदरम् ।
विमृशामि वितानं तेऽतिश्लक्ष्णमतिलोमशम् ॥ १५ ॥
पर्यङ्कतल्पोपरि दर्शनीयं
सबाणचापाङ्कुशपाशपाणिम् ।
अशेषभूषारमणीयमीडे
त्रिलोचनं नीलकण्ठं प्रशान्तम् ॥ १६॥
जटारुणं चन्द्रकलाललामं
उद्वेललावण्यकलाभिरामम् ।
कामेश्वरं कामशरासनाङ्कं
समस्तसाक्षिं तमसः परस्तात् ॥ १७॥
तत्र कामेशवामाङ्के खेलन्तीमलिकुन्तलाम् ।
सच्चिदानन्दलहरीं महालक्ष्मीमुपास्महे ।। १८॥
चारुगोरोचनापङ्कजम्बालितघनस्तनीम् ।
नमामि त्वामहं लोकमातरं पद्ममालिनीम् ॥ १९ ॥
शिवे नमन्निर्जरकुञ्जरासुर-
प्रतोलिकामौलिमरीचिवीचिभिः ।
इदं तव क्षालनजातसौभगं
चरणं नो लोके सुधितां दधातु ॥ २० ॥
कल्पस्यादौ कारणेशानपि त्री-
न्स्रष्टुं देवि त्रीन्गुणानादधानाम् ।
सेवे नित्यं श्रेयसे भूयसे त्वा-
मजामेकां लोहितशुक्लकृष्णाम् ॥ २१ ॥
केशोद्भूतैरद्भुतामोदपूरै-
राशाबृन्दं सान्द्रमापूरयन्तीम् ।
त्वामानम्य त्वत्प्रसादात्स्वयंभू-
रस्मान्मायी सृजते विश्वमेतत् ॥ २२ ॥
अर्धोन्मीलद्यौवनोद्दामदर्पो
दिव्याकल्पैरर्पयन्ती मयूखान् ।
देवि ध्यात्वा त्वां पुरा कैटभारि-
र्विश्वं बिभर्ति भुवनस्य नाभिः ॥ २३ ॥
कल्हारश्रीमञ्जरीपुञ्जरीतिं
धिक्कुर्वन्तीमम्ब ते पाटलिम्ना ।
मूर्तिं ध्यात्वा शाश्वती भूतिमाय-
न्निन्द्रो राजा जगतो य ईशे ॥ २४ ॥
देवतान्तरमन्त्रौघजपश्रीफलभूतया !
जापकस्तव देव्यन्ते विद्यया विन्दतेऽमृतम् ॥ २५ ॥
पुंस्कोकिलकलकाणकोमलालापशालिनि ।
भद्राणि कुरु मे मातर्दुरितानि परासुव ॥ २६ ।।
अन्तेवासिन्नस्ति चेत्ते मुमुक्षा
वक्ष्ये युक्तिं मुक्तसर्वैषणः सन् ।
सद्भ्यः साक्षात्सुन्दरी ज्ञप्तिरूपां
श्रद्धाभक्तिध्यानयोगादवेहि ॥ २७ ॥
षोढान्यासादिदेवैश्च सेविता चक्रमध्यगा |
कामेशमहिषी भूयः षोडशी शर्म यच्छतु ॥ २८ ॥
शान्तो दान्तो देशिकेन्द्रं प्रणम्य
तस्यादेशात्तारकं मन्त्रतत्त्वम् ।
जानीते चेदम्ब धन्य: समानं
नात: परं वेदितव्यं हि किंचित् ॥ २९ ॥
त्वमेव कारणं कार्यं क्रिया ज्ञानं त्वमेव च ।
त्वामम्ब न विना किंचित्त्वयि सर्वं प्रतिष्ठितम् ।। ३० ॥
परागमद्रीन्द्रसुते तवाङ्घ्रि-
सरोजयोरम्ब दधामि मूर्ध्ना ।
अलंकृतं वेदवधूशिरोभि-
र्यतो जातो भुवनानि विश्वा ॥ ३१ ॥
दुष्टान्दैत्यान्हन्तुकामां महर्षी-
न्शिष्टानन्यान्पातुकामां कराब्जैः ।
अष्टाभिस्त्वां सायुधैर्भासमानां
दुर्गां देवीं शरणमहं प्रपद्ये ॥ ३२ ॥
देवि सर्वानवद्याङ्गि त्वामनादृत्य ये क्रियाः ।
कुर्वन्ति निष्फलास्तेषामदुग्धा इव धेनवः ॥ ३३ ॥
नाहं मन्ये दैवतं मान्यमन्य-
त्वत्पादाब्जादम्बिके कुम्भजाद्या: ।
ये ध्यातारो भक्तिसंशुद्धचित्ता:
परामृतात्परिमुच्यन्ति सर्वे ।। ३४ ॥
कुर्वाणोऽपि दुरारम्भांस्तव नामानि शांभवि ।
प्रजपन्नेति मायान्तमति मृत्युं तराम्यहम् ॥ ३५ ॥
कल्याणि त्वं कुन्दहासप्रकाशै-
रन्तर्ध्वान्तं नाशयन्ती क्षणेन ।
हन्तास्माकं ध्यायतां त्वत्पदाब्ज-
मुच्चतिष्ठ महते सौभगाय ।। ३६ ।।
तितीर्षया भवाम्भोधेर्हयग्रीवादयः पुरा ।
अप्रमत्ता भवत्पूजां सुविद्वाँसो वितेनिरे ॥ ३७॥
मद्वश्या ये दुराचारा ये च सन्मार्गगामिनः ।
भवत्या: कृपया सर्वे सुवर्यन्तु यजमानाः ॥ ३८ ॥
श्रीचक्रस्थां शाश्वतैश्वर्यदात्रीं
पौण्ड्रं चापं पुष्पबाणान्दधानाम ।
बन्धूकाभां भावयामि त्रिनेत्रां
तामग्निवर्णां तपसा ज्वलन्तीम ।। ३९ ।।
भवानि तव पादाब्जनिर्णेजनपवित्रता: ।
भवामयप्रशान्त्यै त्वामपो याचामि भेषजम् ॥ ४० ॥
चिदानन्दसुधाम्भोधेस्तवानन्दलवोऽस्ति यः ।
कारणेशैस्त्रिभिः साकं तद्विश्वमुपजीवति ।। ४१ ॥
नो वा यागैर्नैव पूर्तादिकृत्यै-
र्नो वा जप्यैर्नो महद्भिस्तपोभिः ।
नो वा योगैः क्लेशकृद्भिः सुमेधा
निचाय्येमां शान्तिमत्यन्तमेति ।। ४२ ॥
प्रात: पाहि महाविद्ये मध्याह्ने तु मृडप्रिये ।
सायं पाहि जगद्वन्द्ये पुनर्नः पाहि विश्वतः ।। ४३ ॥
बन्धूकाभैर्भानुभिर्भासयन्ती
विश्वं शश्वत्तुङ्गपीनस्तनार्धा ।
लावण्याब्धेः सुन्दरि त्वं प्रसादा-
दायुः प्रजां रयिमस्मासु धेहि ॥४४॥
कर्णाकर्णय मे तत्त्वं या चिच्छक्तिरितीर्यते ।
त्रिर्वदामि मुमुक्षूणां सा काष्टा सा परा गतिः ॥४५॥
वाग्देवीति त्वां वदन्त्यम्ब केचि-
ल्लक्ष्मीर्गौरीत्येवमन्येऽप्युशन्ति ।
शश्वन्मातः प्रत्यगद्वैतरूपां
शंसन्ति केचिन्निविदो जना: ॥ ४६॥
ललितेति सुधापूरमाधुरीचोरमम्बिके ।
तव नामास्ति यत्तेन जिह्वा मे मधुमत्तमा ॥ ४७ ।।
ये संपन्नाः साधनस्तैश्चतुर्भिः
शुश्रूषाभिर्देशिकं प्रीणयन्ति ।
सम्यग्विद्वान्शुद्धसत्त्वान्तराणां
तेषामेवैतां ब्रह्मविद्यां वदेत ॥४८॥
अभिचारादिभिः कृत्यां य: प्रेरयति मय्युमे ।
तव हुंकारसंत्रस्ता प्रत्यक्कर्तारमृच्छतु ॥ ४९ ।।
जगत्पवित्रि मामिकामपाहराशु दुर्जराम् ।
प्रसीद मे दयाधुने प्रशस्तिमम्ब न: स्कृधि ।। ५० ।।
कदम्बारुणमम्बाया रूपं चिन्तय चित्त मे ।
मुञ्च पापीयसीं निष्ठां मा गृधः कस्य स्विद्धनम् ।। ५१ ॥
भण्डभण्डनलीलायां रक्तचन्दनपङ्किलः ।
अङ्कुशस्तव तं हन्याद्यश्च नो द्वेषते जन: ।। ५२ ॥
रे रे चित्त त्वं वृधां शोकसिन्धौ
मज्जस्यन्तर्वच्म्युपायं विमुक्त्यै।
देव्याः पादौ पूजयैकाक्षरेण
तत्ते पदं संग्रहेण ब्रवीम्योम ॥ ५३ ।।
चञ्चद्वालातपज्योत्स्नाकलामण्डलशालिने ।
ऐक्षवाय नमो मातर्बाहुभ्यां तव धन्वने ।। ५४ ।।
तामेवाद्यां ब्रह्मविद्यामुपासे
मूतैर्वेदैः स्तूयमानां भवानीम् ।
हन्त स्वात्मत्वेन यां मुक्तिकामो
मत्वा धीरो हर्षशोकौ जहाति ॥ ५५ ॥
शरणं करवाण्यम्ब चरणं तव सुन्दरि ।
शपे त्वत्पादुकाभ्यां मे नान्यः पन्था अयनाय ॥ ५६ ।।
रत्नच्छत्रैश्चामरैर्दर्पणाद्यै-
श्चक्रेशानीं सर्वदोपाचरन्त्यः ।
योगिन्योऽन्या: शक्तयश्चाणिमाद्या
यूयं पातः स्वस्तिभिः सदा नः ॥ ५७ ॥
दरिद्रं मा विजानीहि सर्वज्ञासि यत: शिवे ।
दूरीकृत्याशु दुरितमथा नो वर्धया रयिम् ।। ५८ ।।
महेश्वरि महामन्त्रकूटत्रयकलेबरे ।
कादिविद्याक्षरश्रेणिमुशन्तस्त्वा हवामहे ॥ ५९॥
मूलाधारादूर्ध्वमन्तश्चरन्तीं
भित्त्वा ग्रन्थीन्मूर्ध्नि निर्यत्सुधार्द्राम् ।
पश्यन्तस्त्वां ये च तृप्तिं लभन्ते
तेषां शान्तिः शाश्वती नेतरेषाम् ॥ ६० ॥
मह्यं दुह्यन्ति ये मातस्त्वद्धयानासक्तचेतसे ।
तानम्ब सायकैरेभिरव ब्रह्मद्विषो जहि ।। ६१॥
त्वद्भक्तानामम्ब शान्तैषणानां
ब्रह्मिष्ठानां दृष्टिपातेन पूतः ।
पापीयानप्यावृतः स्वर्वधूभिः
शोकातिगो मोदते स्वर्गलोके ॥ ६२ ॥
सन्तु विद्या जगत्यस्मिन्संसारभ्रमहेतवः ।
भजेऽहं त्वां यया विद्वान्विद्ययामृतमश्नुते ॥ ६३ ॥
विद्वन्मुख्यैर्विद्रुमाभं विशाल-
श्रोणीशिञ्जन्मेखलाकिङ्किणीकम् ।
चन्द्रोत्तंसं चिन्मयं वस्तु किंचि-
द्विद्धि त्वमेतन्निहितं गुहायाम् ।। ६४ ।।
न विस्मरामि चिन्मूर्तिमिक्षुकोदण्डशालिनीम् ।
मुनयः सनकप्रेष्ठास्तामाहुः परमां गतिम् ।। ६५ ।।
चक्षुःप्रेङ्खत्प्रेमकारुण्यधारां
हंसज्योत्स्नापूरह्रष्यच्चकोराम् ।
यामाश्लिष्यन्मोदते देवदेवः
सा नो देवी सुहवा शर्म यच्छतु ॥६६॥
मुञ्च वञ्चकतां चित्त पामरं चापि दैवतम् ।
गृहाण पदमम्बाया एतदालम्बनं परम् ॥ ६७ ॥
का मे भीति: का क्षतिः किं दुरापं
कामेशाङ्कोत्तुङ्गपर्यङ्कसंस्थाम् ।
तत्वातीतामच्युतानन्ददात्रीं
देवीमहं निर्ऋतिं वन्दमानः ॥ ६८॥
चिन्तामणिमयोत्तंसकान्तिकञ्चुकितानने ।
ललिते त्वां सकृन्नत्वा न बिभेति कुतश्चन ॥ ६९ ।।
तारुण्योत्तुङ्गितकुचे लावण्योल्लासितेक्षणे ।
तवाज्ञायैव कामाद्या मास्मान्प्रापन्नरातयः ॥ ७० ॥
आकर्णाकृष्टकामास्त्रसंजातं तापमम्ब मे।
आचामतु कटाक्षस्ते पर्जन्यो वृष्टिमानिव ।। ७१ ॥
कुर्वे गर्वेणापचारानपारा-
न्यद्यप्यम्ब त्वत्पदाब्जं तथापि ।
मन्ये धन्ये देवि विद्यावलम्बं
मातेव पुत्रं बिभृतास्वेनम् ॥ ७२ ॥
यथोपास्तिक्षतिर्न स्यात्तव चक्रस्य सुन्दरि ।
कृपया कुरु कल्याणि तथा मे स्वस्तिरायुषी ॥ ७३ ॥
चक्रं सेवे तारकं सर्वसिध्यै
श्रीमन्मातः सिद्धयश्चाणिमाद्याः ।
नित्या मुद्रा शक्तयश्चाङ्गदेव्यो
यस्मिन्देवा अधि विश्वे निषेदुः ॥ ७४ ।।
सुकुमारे सुखाकार सुनेत्रे सूक्ष्ममध्यमे ।
सुप्रसन्ना भव शिवे सुमृडीका सरस्वती ।। ७५ ।।
विद्युद्वल्लीकन्दलीं कल्पयन्तीं
मूर्तिं स्फूर्त्या पङ्कजं धारयन्तीम् ।
ध्यायन्हि त्वां जायते सार्वभौमो
विश्वा आशा: पृतना: संजयञ्जयन् ।। ७६ ॥
अविज्ञाय परां शक्तिमात्मभूतां महेश्वरीम् ।
अहो पतन्ति निरयेष्वेके चात्महनो जना: ॥ ७७ ।।
सिन्दूराभैः सुन्दरैरंशुबुन्दै-
र्लाक्षालक्ष्म्यां मज्जयन्तीं जगन्ति ।
हेरम्बाम्ब त्वां हृदा लम्बते य-
स्तस्मै विशः स्वयमेवानमन्ते ।। ७८ ॥
तव तत्त्वं विमृशतां प्रत्यगद्वैतलक्षणम् ।
चिदानन्दघनादन्यन्नेह नानास्ति किंचन ॥ ७९ ॥
कण्ठात्कुण्डलिनींं नीत्वा सहस्रारं शिवे तव ।
न पुनर्जायते गर्भे सुमेधा अमृतोक्षितः ।। ८० ॥
त्वत्पादुकानुसंधानप्राप्तसर्वात्मतादृशि ।
पूर्णाहंकृतिमत्यस्मिन्न कर्म लिप्यते नरे ॥ ८१ ।।
तवानुग्रहनिर्भिन्नहृदयग्रन्थिरद्रिजे ।
स्वात्मत्वेन जगन्मत्वा ततो न विजुगुप्सते ॥ ८२ ।।
कदा वसुदलोपेते त्रिकोणनवकान्विते ।
आवाहयामि चक्रे त्वां सूर्याभां श्रियमैश्वरीम् ।। ८३ ॥
ह्लमित्येकं तावकं वाचकार्णं
यज्जिह्वाग्रे देवि जागर्ति किंचित् ।
को वायं स्यात्कामकामस्त्रिलोक्यां
सर्वेऽस्मै देवा बलिमावहन्ति ॥ ८४ ॥
नाकस्त्रीणां किन्नरीणां नृपाणा- .
मप्याकर्षी चेतसा चिन्तनीयम् ।
त्वत्पाणिस्थं कुङ्कुमाभं शिवे यं
द्विष्मस्तस्मिन्प्रति मुञ्चामि पाशम् ॥ ८५ ।।
नूनं सिंहासनेश्वर्यास्तवाज्ञां शिरसा वहन् ।
भयेन पवमानोऽयं सर्वां दिशोऽनुविधावति ।। ८६ ॥
त्रिकलाढ्यां बिह्रल्लेखां द्विहंसस्वरभूषिताम् ।
यो जपत्यम्ब ते विद्यां सोऽक्षर: परमः स्वराट् ।। ८५ ॥
दारिद्र्याब्धौ देवि मग्नोऽपि शश्व-
द्वाचा याचे नाहमम्ब त्वदन्यम् ।
तस्मादस्मद्वाञ्छितं पूरयैत-
दुषा सा नक्ता सुदुघेव धेनुः ।। ८८ ।।
यो वा यद्यत्कामनाकृष्टचित्तः
स्तुत्वोपास्ते देवि ते चक्रविद्याम् ।
कल्याणानामालय: कालयोगा-
त्तं तं लोक जयते तांश्च कामान् ।। ८९॥
साधक: सततं कुर्यादैक्यं श्रीचक्रदेहयोः ।
तथा देव्यात्मनोरैक्यमेतावदनुशासनम् ॥ १० ॥
हस्ताम्भोजप्रोल्लसच्चामराभ्यां
श्रीवाणीभ्यां पार्श्वयोर्वीज्यमानाम् ।
श्रीसंम्राज्ञि त्वां सदालोकयेयं
सदा सद्भिः सेव्यमानां निगूढाम् ॥ ९१ ।।
इष्टानिष्ठप्राप्तिविच्छित्तिहेतुः
स्तोतुं वाचां क्लृप्तिरित्येव मन्ये ।
त्वद्रूपं हि स्वानुभूत्यैकवेद्यं
न चक्षुषा गृह्यते नापि वाचा ॥ ९२ ॥
हरस्वरैश्चतुर्वर्गपदं मन्त्रं सबिन्दुकम् ।
देव्या जपत विप्रेन्द्रा अन्या वाचो विमुञ्चथ ।। ९३ ॥
यस्ते राकाचन्द्रबिम्बासनस्थां
पीयूषाब्धिं कल्पयन्तीं मयूखैः ।
मूर्तिं भक्त्या ध्यायते हृत्सरोजे
न तस्य रोगो न जरा न मृत्युः ॥ ९४ ॥
तुभ्यं मातर्योऽञ्जलिं मूर्ध्नि धत्ते
मौलिश्रेण्या भूभुजस्तं नमन्ति ।
यः स्तौति त्वामम्ब चिद्वल्लिवाचा
तं धीरासः कवय उन्नयन्ति ॥ ९५ ।।
वैरिञ्चोघैर्विष्णुरुद्रेन्द्रवृन्दै-
र्दुर्गाकालीभैरवीशक्तिसंधैः ।
यन्त्रेशि त्वं वर्तसे स्तूयमाना
न तत्र सूर्यो भाति न चन्द्रतारकम् ॥ ९६ ।।
भूत्यै भवानि त्वां वन्दे सुराः शतमखादयः ।
त्वामानम्य समृद्धाः स्युरायो धामानि दिव्यानि ॥९॥
पुष्पवत्पुल्लताटङ्कां प्रातरादित्यपाटलाम् ।
यस्त्वामन्तः स्मरत्यम्ब तस्य देवा असन्वशे ॥ १८ ॥
वश्ये विद्रुमसंकाशां विद्यायां विशदप्रभाम् ।
त्वामम्ब भावयेद्भूत्यै सुवर्णां हेममालिनीम् ॥ ९९ ।
वामाङ्कस्थामीशितुर्दीप्यमानां
भूषावृन्दैरिन्दुरेखावतंसाम् ।
यस्त्वां पश्यन्संततं नैव तृप्तः .
तस्मै च देवि वषडस्तु तुभ्यम् ॥ १० ॥
नवनीपवनीवासलालसोत्तरमानसे।
शृङ्गारदेवते मातः श्रियं वासय मे कुले ॥१०१ ॥
भक्त्याभक्त्या वापि पद्यावसान-
श्रुत्या स्तुत्या चैतया स्तौति यस्त्वाम् ।
तस्य क्षिप्रं त्वत्प्रसादेन मात:
सत्याः सन्तु यजमानस्य कामाः ॥ १०२ ॥
बालिशेन मया प्रोक्तमपि वात्सल्यशालिनोः ।
आनन्दमादिदंपत्योरिमा वर्धन्तु वाङ्गिरः ॥ १०३ ॥
माधुरीसौरभावासचापसायकधारिणीम् ।
देवी ध्यायन्पठेदेतत्सर्वकामार्थसिद्धये ॥ १०४ ॥
स्तोत्रमेतत्प्रजपतस्तव त्रिपुरसुन्दरि ।
अनुद्वीक्ष्य भयाद्दूरं मृत्युर्धावति पञ्चमः ॥ १०५ ।।
यः पठति स्तुतिमेतां
विद्यावन्तं तमम्ब धनवन्तम् ।
कुरु देवि यशस्वन्तं
वर्चस्वन्तं मनुष्येषु ॥ १०६ ।।
ये शृण्वन्ति स्तुतिमिमां तव देव्यनसूयका: ।
तेभ्यो देहि श्रियं विद्यामुद्वर्च उत्तनूबलम् ॥ १०७ ॥
त्वामेवाहं स्तौमि नित्यं प्रणौमि
श्रीविद्येशां वच्मि संचिन्तयामि ।
अध्यास्ते या विश्वमाता विराजो
हृत्पुण्डरीकं विरजं विशुद्धम् ।। १०८॥
शंकरेण रचितं स्तवोत्तमं
यः पठेज्जगति भक्तिमान्नरः ।
तस्य सिद्धिरतुला भवेद्ध्रुवा
सुन्दरी च सततं प्रसीदति ॥ १०९ ।।
यत्रैव यत्रैव मनो मदीयं
तत्रैव तत्रैव तव स्वरूपम् ।
यत्रैव यत्रैव शिरो मदीयं
तत्रैव तत्रैव पदद्वयं ते ॥ ११ ॥
इति श्रीमत्परमहंसपरिवाजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छंकरभगवतः कृतौ
त्रिपुरसुन्दरीवेदपादस्तोत्रं संपूर्णम ।।