त्रिपुरसुन्दरीमानसपूजनस्तोत्रम् (सामराजदीक्षितविरचितम्)

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
त्रिपुरसुन्दरीमानसपूजनस्तोत्रम्
सामराजदीक्षितः

श्रीसामराजदीक्षितविरचितं त्रिपुरसुन्दरीमानसपूजनस्तोत्रम् । अमृतजलधिमध्योल्लासिरत्नान्तरीष- प्रसृमरकिरणालीकल्पितोद्यानशोभे । सुरतरुनिकुरम्बस्पृष्टवातायनान्त- श्चलदलिपटलीभिः क्लृप्तधूपादिकृत्ये ।। १॥ मणिमयभवनेऽन्तःप्रौढमाणिक्यशाला- मधिवसति विशाला कापि ते रत्नवेदी । १ अस्य कवेः स्थानं श्रीमथुरा समयश्च विस्तीयषोडशशतकोत्तरार्धम् अनेन च पूजारत्नादयोऽनेके ग्रन्थाः कृताः एतस्य पुत्रपौत्रादयोऽपि दीक्षितकामराजव्रजराजा- दयो महाकवयो ग्रन्थकर्तारश्वासन्. एतस्य वंश्यो दीक्षितबालकृष्णशर्माद्यावधि मथुन सची वर्तते, एतत्सर्वं तत्कृतग्रन्थेभ्योऽवगम्यते. त्रिपुरसुन्दरीमानसपूजनस्तोत्रम् । तदुपरि कृतवासं दत्तबालार्कहासं दिशतु शुभमनन्ते देवि सिंहासनं ते ॥ २ ॥ तदुपरि धृतनानाहेतिभूषाश्मरश्मि- व्यतिकरपुनरुक्तीभूतरम्योत्तरीयाम् । गलदमलदयाम्भःसिक्तभक्तप्ररोहां प्रणवनलिनभृङ्गीं भावये ज्ञानभङ्गीम् ॥ ३ ॥ द्रुहिणहरिहराणां मौलिसंचारशीलं मणिघटितविभूषारश्मिनिर्णेजितं च । निजमतिदृषदाहं भक्तिगङ्गापयोभिः पदयुगममलं ते देवि निर्णेजयामि ॥ ४ ॥ गरुडमणिमयूखस्पर्धिदुर्वासनाथैः कुशशिशुपरिजुष्टैः स्फीतसिद्धार्थसार्थैः । उपहितसितगन्धैः साक्षतैर्वारिभिस्ते जननि चरणपद्मे पाद्यमाद्यं ददामि ॥ ५ ॥ फलकुसुमसनाथं नूत्नरत्नप्ररोहं मलयजरसदिग्धं स्निग्धमुग्धाक्षतं च । दरनियमितभक्तानीकवाञ्छाप्रदाने करसरसिरुहेऽस्मिन्नर्ध्यमर्ध्ये ददामि ॥ ६॥ शिशिरकिरणजातीपत्रदेवप्रसून- स्फुटितदलनवैलाक्रान्तकक्कोलगन्धम् । शिशिरममलमेतद्बद्धपीयूषसख्यं सलिलमखिलमातस्त्वं प्रसन्नाचमेथाः ॥ ७ ॥ नवमणिहयपीठे प्रेतपद्मस्थितापि प्रपदतरलशोभास्पृष्टसद्विष्टरश्रि । दधिमधुघृतमिश्रं त्रिर्विराजोपनीतं शशिमुखि मधुपर्के त्वं मुखान्तर्नयेथाः ॥ ८ ॥ १. कुशशिशंबो नूतना दर्भाः, नव गु० १३ काव्यमाला। पुनराचमनं कार्यं जगज्जननि सुव्रते । त्वच्छिक्षितेन मार्गेण यतो लोकः प्रवर्तते ॥९॥ त्वरितसहचरीभिर्दत्तहस्तावलम्बं चरणनलिनमेतत्पादुकास्थं विधाय । प्रविश विविधशालं स्नानगेहान्तरालं पशुपतिसहितैवाभ्यङ्गमङ्गीकुरुष्व ॥ १० ॥ अपि रसिकविगीतं भक्तचित्तानुमत्यै सदयहृदयभावे स्नाहि पञ्चामृतेन । शशिमृगमदमुस्तागौरसिद्धार्थचूर्णैः कुसुमजलविमिश्रैः स्वैरमुदूर्तयाङ्गम् ॥ ११ ॥ परिजनपरिमृष्टे त्वच्छरीरे न याव- च्छिशिरसलिलधारां कापि चिक्षेप तावत् । उदयिनि जनमातः सीत्कृते बद्धभावै- स्त्रिपुरमथनहासैर्व्रीडितं क्रीडितं ते ॥ १२ ॥ अथ विमलितरत्नस्वर्णदुर्वर्णकुम्भै- त्रिभुवनगततीर्थानीतपानीयपूर्णैः । स्नपयति सुरनारीवृन्दमेतत्तथापि प्रणयजलमिदं नः स्नानकृत्यं करोतु ॥ १३ ॥ विमलधवलचीनप्रच्छदप्राकृताङ्ग्या- स्तव शिरसिरुहेभ्यो निर्हरेऽम्बाम्बुबिन्दून् । अगरुशकलधूपैर्धूप्यतां चाङ्गमङ्गं सह पशुपतिना त्वं याहि वासोगृहान्तः ॥ १४ ॥ नवविमलविचित्रे वाससी नूतरत्न- द्युतिकृतपुनरुक्तायामसंशोभिनी ते । अथ कुचपरिणाहाच्छादिनीं शंभुनेत्र- त्रितयभवदसूयां कञ्चुकीमर्पयामि ॥ १५ ॥ १४३ त्रिपुरसुन्दरीमानसपूजनस्तोत्रम् । नहनमपि कचानां कङ्कतीभिर्विधाय ग्रथितमणिविभूषां देवि वेणीं करोमि । निहितनवकिरीटालम्बिमुक्तालताभि- स्ततबहलमयूखां चन्द्रलेखां विदध्याम् ॥ १६ ॥ अलिकतलविलम्बिस्फीतसीमन्तमुक्ता- सरणिघटितहीरास्पष्टचन्द्रात्ततन्द्रे । विविधमणिगणाङ्कोत्तंससंश्लिष्यदश्मा श्रवणयुगविभूषा देवि तोषाय भूयात् ।। १७ ॥ विविधविरचनाभिर्भिन्नभिन्ना विभूषा जनयतु तव कण्ठे देवि कामप्यभिख्याम् । गुणिनमपि गिरीशश्लेषदत्तान्तरायं कठिनकुचयुगाग्रे हारमारोपयामि ॥ १८॥ दरतरलविलम्बिस्वर्णसूत्रान्तगुच्छे जननि तव दिशेतामङ्गदे शर्मकर्म । अथ वलयमणीनां रश्मिसंभिन्नमुद्रां जनयतु पुनरुक्तां शृङ्खलामन्तरीणाम् ॥ १९ ॥ मणिमयरशनाधःक्षुद्रघण्टानिनादा मणितगुणनिकानां स्मारकाः स्युः शिवस्य । मरकतमणिजातं मञ्जुमञ्जीरयुग्मं रचयतु शशिमौले रञ्जनं सिञ्जितेन ।। २० ।। अरुणमणिकृतानामङ्गुलीभूषणानां प्रभवतु पदमुस्रैर्लाक्षया रञ्जितं ते । भृगमदरचितायां पत्रभङ्गीलताया- मनुभवतु दृगन्तो बन्धनं भूतभर्तुः ॥ २१ ॥ भज जननि हरिद्रां दत्तहारिद्रमुद्रां कुसुमसलिलतैलाक्रान्तकाश्मीरकोशाम् । काव्यमाला । अथ नसि कुरु मुक्तां दन्तवासोनुषक्तां स्मितरुचिपुनरुक्तां नन्दितानेकभक्ताम् ॥ २२ ॥ सहजनलिननीले खञ्जने खञ्जनानां भवनिगडगतानां मोचने लोचने ते । जननि गिरिशचेतोरञ्जने मन्दमन्दं मसृणिमसृणितैस्तैरञ्जनैरञ्जनेयम् ॥ २३ ॥ प्रणतिभिरुपनीतं दीप्तलालाटनेत्र- प्रतिभटमिव शंभोर्मृत्युबाधाविरोधि । शशिन इव मुखेन्दोर्भेदकः कोऽपि धर्मो जनयतु मुदमुच्चैः कुङ्कुमं रङ्कुनेत्रे ॥ २४ ॥ युगपदुपगतेन्द्रोपेन्दरुद्रादिमौलि- स्थलमुकुटविघट्टच्चण्डदण्डाभिघातैः । कृतसरणिरजस्रक्रुद्धदौवारिकैस्ते जननि भव विभूषा प्रेतपद्मासनस्य ।। २५ ॥ अहमहमिकयाधः पातुकानां सुराणां प्रपदमपि शरीरे देवि संयोज्य शीघ्रम् । करुणरसमयीनां लोचनान्तश्छटानां कतिपयवलनाभिर्देहि पूजावकाशम् ॥ २६ ॥ अगुरुघृसृणचोरीशीरगोरोचनाभि- र्मलयजमृगनामिस्फीतकर्पूरपूरैः। कुसुमसलिलघृष्टैः कल्पयित्वाङ्गरागं पटुतरपटवासैर्वासये तेऽङ्गकानि ।। २७ ॥ कमलकुमुदमल्लीमालतीकुन्दजाती- बकुलकनकनीपाशोकचाम्पेयकाद्यैः । मरुवकतुलसीभिः केतकीबिल्वपत्रै- र्दमनकशतपत्रैरर्चये त्वत्पदाब्जम् ॥ २८ ॥ १ मृगविशेषनयने. त्रिपुरसुन्दरीमानसपूजनस्तोत्रम् । हारशेखरवतंसशाटिकाप्रच्छकातुलितकञ्चुकीमुखैः । मण्डपैर्जवनिकाभिरुच्चकैः कौसुमैस्तव मुदं कदम्बये ॥ २९ ॥ कनकमयहसन्तीकोटिमध्यस्थितानां मृदुपवनधुतानां दीप्तवैश्वानराणाम् । अगरुमुपरि हुत्वा गुग्गुलुं सर्जखण्डा- न्घृतजतुपरिमिश्रं त्वां शिवे धूपयामि ॥ ३० ॥ धूपवर्तितरुमन्तरान्तरा गन्धतैलपरिपूर्णदीपिकाः । आवहन्तु तव पार्श्वयोस्तरामम्बिके जवनिकापटश्रियम् ॥ ३१॥ सुरसुरभिजसर्पिःपूरिते रत्नपात्रे हिमकिरणरजोमिर्लोडितां तूलवर्तीम् । तरुणदहनयुक्तामम्ब कृत्वा ददेयं निरयनिरसनाय प्रस्फुरन्तं प्रदीपम् ।। ३२ ।। रजतकनकहीराद्यश्मपान्नेषु मात- र्विविधरससनाथैश्चोष्यलेह्यप्रपेयैः । उपहितबहुभक्ष्यैर्व्यञ्जनैश्चारुखाद्यै- र्जठरदहनतृप्तिं नित्यतृप्ते चरेथाः ॥ ३३ ॥ परस्परकुतूहलैः कवलदानरूपैः शिवे पुराणतरुणौ युवां चरतमत्र लीलाशितम् । सुगन्धि सलिलं तथा पिबतमेणनाभीरसैः सकेसरनिशाकरै रचयतं करोद्वर्तनम् ॥ ३४ ॥ पनसकदलजम्बूकर्कटीहारहूरा- मलकबदरनिम्बूदुम्वरैर्बीजपूरैः अमृतलकुचबिल्वैर्दाडिमीनालिकेरै रुचिरुचित्तफलैस्ते वर्धतां बद्धरागा ॥ ३५ ॥ शशिकरधवलानां नागवल्लीदलानां ऋमुककदरजातीचन्द्रसंयोगभाजाम् । काव्यमाला। मृगमदसुरसूनुस्फीतचूर्णावृतानां भजतु जननि रागं त्वन्मुखाम्भोजमेतत् ।। ३६ ॥ कनकभरितपृथ्वीं मानुषानन्दमाहु- स्तदुपरि शतकोटिकामुकानन्दमाहुः । जननि, तव ददेयं दक्षिणां कां तथापि प्रथय मयि दृगन्तं दक्षिणावीक्षणेन ॥ ३७ ।। त्रिभुवनकुहरेऽस्मिन्पूरिते वेणुवीणा- पटुपटहकझिल्लीतालघण्टानिनादैः । उरगसुरवधूभिर्गीयमानं समन्ता- ज्जनयतु पदमुच्चैर्देवि नीराजनं ते ॥ ३८ ॥ प्राणेषु पञ्चसु निधाय षडात्मवृत्ति- वर्तीश्चिदग्निपरिचुम्बितजातशोभाः । नीराजयामि भवतीं भवतीव्रताप- निर्वापहेतुमधुना मधुनालसाक्षि ।। ३९ ।। उरगतुरगहंसीकेकिशालूरभृङ्गी- मदकलकलविङ्कीश्येनपारावतानाम् । गतिमिरूपचितोऽयं मौलितः पादमूलं हरतु दुरितजातं देवि कपुरदीपः ॥ ४० ॥ जय देवि जय देवि जय विश्वाधारे दीनानाथोद्धरणप्रवणे जनसारे । त्वत्पदपद्मे पद्मे विधृतव्यापारे मयि दीने कुरु करुणां करुणामृतपारे ॥ ४१ ॥ अमृतोदधिमध्यस्थितनवरत्नद्वीपे विष्वग्विकसितसुरतरुनवचम्पकनीपे नानाकुसुमामोदिनि विधुतागरुधूपे चिन्तामणिभवनेऽङ्गनतिष्ठरसुरभूपे ॥ ४२ ॥ त्रिपुरसुन्दरीमानसपूजनस्तोत्रम् ।। माणिक्योज्ज्वलचत्वरसिंहासनशोभे शवपञ्चकमञ्चेऽञ्चितजनलोचनलोभे । सुश्वेतातपवारणचलचामरदम्भे ध्याये भवतीमनिशं कृतजगदारम्भे ॥ ४३ ॥ दलितजपाकुसुमोपमवसनच्छन्नाङ्गीं तरुणारुणकरुणप्रदकिरणावलिभङ्गीम् । दधतीं रचनां नयने यमुनातारङ्गीं कलयन्ती कुचकोशे सुषमां नारङ्गीम् ।। ४४ ॥ शरपञ्चकबाणासनसृणिपाशोल्लसितां मलयानिलपरिवाददमुखपद्मश्वसिताम् । बालामृतकरमण्डितचूडातटमहितां ज्योतिस्त्रितयालंकृतनयनत्रयसहिताम् ॥ ४५ ॥ पशुपतियन्त्रणपटुतररोमावलियूपां मन्मथतस्करगुप्तिक्षमनाभीकूपाम् प्रपदालम्बिशिखामणिवृन्दारकभूपां कमलासनरिहरमुखचिन्त्यामितरूपाम् ॥ ४६॥ काली बगला बाला तारा भुवनेशी वाराही मातङ्गी कमला वचनेशी। छिन्ना दुर्गा गङ्गा काशी कामेशी त्वत्तो नान्यत्किंचित्त्वं चिद्रसपेशी ॥ ४७॥ त्वं भूमिस्त्वं सलिलं त्वं तेजः प्रबलं त्वं वायुस्त्वं व्योम त्वं चित्तं विमलम् । त्वं जीवस्त्वं चेशस्त्वं ब्रह्मास्यमलं सत्यानृतयोरन्यत्त्वत्तः किं सकलम् ॥ ४८ ॥ कुलकुण्डे त्वं कुरुषे शयने प्रस्वायं स्वाधिष्ठाने मिहिरायुतदीधितितापम् । काव्यमाला। नीला नाभौ कण्ठे शशिमा हृतपापं वर्षस्यमृतं बिन्दावानन्दावापम् ॥ ४२ ॥ त्वत्पदपद्मे चित्तं त्रिपुरे मे रमतां तत्रैव प्रतिवेलं भौलिर्मे नमताम् । यातायातक्लेशः सद्यः संशमतां याचे भूयो भूयो भवता मे भवताम् ॥ ५० ॥ नृत्यति गायति सुरसं सुरनारीवृन्दे करतालीदानोत्सुकसुरविततानन्दे । नीराजनकाले तव मुनिजननुतवेदे चरणानतसम्राजः परिहृतभवखेदे ।। ५१ ॥ मिलदलिपटलीभिः केवलं घ्रातपूर्वः स्फुटितकुसुमगर्भः स्वैरसंचारिणीभिः । उपहितपटवासः पुष्पधूलीकदम्बैः प्रभवतु पदपाती देवि पुष्पाञ्जलिस्ते ।। ५२ ।। सकृदपि बिनताङ्घ्रिस्त्वां परिक्रम्य मात- र्भवति मखफलेषु क्षीणलोभं मनो नः । सरसिजमकरन्दास्वादतृप्तो मिलिन्दः क्वचिदपि पिचुमन्दे चित्तवृत्ति तनोतिं ॥ ५३ ॥ जननि खलकपोतन्यायतः पातुकाना- मधिपदकमलं ते मन्दवृन्दारकाणाम् । भवतु नयनयोस्ते गोचरः क्वानतिर्मे न लसति पुनरुच्चैः स्वैरमुद्रीविका चेत् ॥ ५४॥ विमलमुकुरबिम्बं पुण्डरीकातपत्रं शिशिरकरसमाने चामरे चामरेशि । करितुरगकदम्बं शक्तिभिर्दिश्यमानं जनय सफलमञ्चल्लोचनालोचनाभिः ॥ ५५ ॥ १. शिवता. त्रिपुरसुन्दरीमानसपूजनस्तोत्रम् । अथ कृतपरिवाराभ्यर्चनं ते समर्प्य स्तुतिभिरनुपमाभिः पावये स्वां रसज्ञाम् । यदपि न रविरश्मिः स्वोपकारं विधत्ते तदपि कमलमालाम्लानहानिं तनोति ॥ ५६ ।। श्रवसि विशति यस्य वन्मनोरेकवर्णः सकृदपि विधियोगादम्बिके मानवस्य । लघुतरफलमेतद्यत्रिवर्गाश्रयत्वं परिचरति पुरस्तात्पूरुषार्थश्चतुर्थः ॥ ५७ ॥ हृदयकमलमध्ये त्वां समानीय मातः पवनभरितनाडीरन्ध्रमुद्राविधिज्ञाः । दधति परमधन्याः कुण्डलीस्पर्शहृष्य- च्छशिगलदमृतौघप्लावजन्यप्रमोदम् ॥ ५८ ॥ वदति विधिकलत्रं त्वां शिवे कोऽपि कश्चि- त्रिपुरमथनपुण्यं श्रीपतेः कोऽपि भाग्यम् । प्रकृतिमिति परेऽपि प्रौढविज्ञानमेके निखिलनिगममूलं मन्महे बोधमेव ॥ ५९ ।। कदा तव पदाम्बुजस्मरणजातरोमोदमः सदाशिवमदालसे जननि मातरित्युद्गिरन् । निलीनकरणक्रियस्त्रिदशगर्वसर्वेकषा- मखर्वपदवीं भजे हरिहरादिभिर्भाविताम् ॥ ६० ॥ त्वदीयमुखचन्दिरे चलितलोचनेन्दिन्दिरे प्रसादकुलमन्दिरे स्थगितपद्मचन्द्रेन्दिरे । प्रभापटलतन्तुरे ललितहावकेलीपुरे हृतस्मरहरान्तरे धृतमतिर्भवं संतरे ।। ६१ ॥ त्वदीयं यद्रूपं जनजननि बिन्दुत्रययुतं स्मरन्नन्तर्योगात्रिदिवपतितामाय सुरपः । काव्यमाला। इदं को जानीते क्षणमपि हरार्धे प्रजपतां हंसार्धे व्यालम्ब्य प्रतिफलति हंसः परिणतिः ।। ६२ ।। जननि निभृतं यत्ते रूपं वदत्यतिशाश्वतं लसतु हृदि नो दीपप्रायः स कोऽपि हसात्मकः स्मरणविषये येन स्वैरं स्वरेण विजृम्भता त्रिपुरमथनः प्रापेशत्वं तदात्मकतां गतः ।। ६३ ।। ऋचामाचार्यासि स्तुतिशतजुषां चापि यजुषां महाधाम्नां साम्नां प्रथितयशसोऽथर्वशिरसः । हरिब्रह्मेशाद्याः प्रपदकिरणोत्तंसमुकुटा- स्तवातस्त्वां स्तोतुं जनजननि को वा प्रभवतुः॥ ६४ ॥ त्रस्यत्खञ्जनगञ्जनव्यसनिनीमुन्माथिनीं भाद्यतो जीवंजीवकुलस्य भृङ्गपटलीन्यक्कारबद्धव्रताम् । रङ्कूच्छङ्कुविधायिनी च नलिनश्रीगर्वसर्वेकषां कारुण्यामृतवर्षिणीं मयि शिवे दृष्टिं मनाङ्मोटय ।। ६५ ।। रिङ्गद्भृङ्गकदम्बडम्बरपरिप्वङ्गप्रसङ्गाकुल- प्रत्यूषस्फुरमाणपङ्कजवनीसौभाग्यसर्वंकषः । दृक्कोणः करुणाङ्कुराङ्किततनुः कोऽप्यद्रिजे मद्वपु:- पान्थत्वे तरसा भवेत्परिकरी धन्यस्तदा स्यां न किम् ॥६६॥ समुद्यन्मार्तण्डप्रसृमरकरालीमसृणया पदद्वन्द्वानन्दप्रणयिजनरिङ्गत्करुणया। ललल्लीलाभाजा परशिवपरिष्वङ्गपरया धिया चेतः कालं नय गतनय त्वं क्षणमपि ।। ६७ ।। वेदैरङ्घ्रिभिरुज्ज्वलोपनिषदां वृन्दैरवःकल्पितैः शास्त्राद्यैरपि तिर्यगूर्ध्वकलितैरोंकारमार्गेण च । विष्वङ्मात्रनिबन्धनैः परिचितेऽस्मिन्वाङ्मये पञ्जरे कीरी काचन चेतनैकविभवा चित्ते चकास्ताच्चिरम् ॥ ६८ ।। चतुःषष्ट्युपचारमानसपूजास्तोत्रम् । तरुणारुणप्रतिमरम्यरुचिं कुसुमेषुचापसृणिपाशकराम् । त्रिगुणात्परां त्रिगुणरूपमयीं भवतीमहर्निशमहं कलये ॥ ६९ ॥ इति निजमतिवैभवानुरूपामकृत कविर्भुवि सामराजनामा । समयिजनमुदेऽम्बिकासपर्याममृतसुखात्मकताविकासपर्याम् ॥ ७० ॥ इति श्रीसत्यानन्दनाथापरनामधेयसामराजदीक्षितविरचिते पूजारत्ने स्थितं त्रिपुरसुन्दरीमानसपूजनस्तोत्रम् ।