तैत्तिरीयारण्यकम्(विस्वर)/प्रपाठकः ३

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ

3.1 अनुवाक १

[१]ॐ चित्तिः स्रुक् । चित्तमाज्यम् । वाग्वेदिः । आधीतं बर्हिः । केतो अग्निः । विज्ञातमग्निः । वाक्पतिर्होता । मन उपवक्ता । प्राणो हविः । सामाध्वर्युः, इति । वाचस्पते विधे नामन् । विधेम ते नाम । विधेस्त्वमस्माकं नाम । वाचस्पतिः सोमं पिबतु । आऽस्मासु नृम्णं धात्स्वाहा ( १), इति ।। अध्वर्युः पञ्च च ।।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके तृतीयप्रपाठके प्रथमोऽनुवाकः ।। १ ।।

3.2 अनुवाक २

[२]पृथिवी होता । द्यौरध्वर्युः । रुद्रोऽग्नीत् । बृहस्पतिरुपवक्ता, इति । वाचस्पते वाचो वीर्येण । संभृततमेनाऽऽयक्ष्यसे । यजमानाय वार्यम् । आ सुवस्करस्मै । वाचस्पतिः सोमं पिबति । जजनदिन्द्रमिन्द्रियाय स्वाहा ( १), इति ।। पृथिवी होता दश ।।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके तृतीयप्रपाठके द्वितीयोऽनुवाकः ।। २ ।।

3.3 अनुवाक ३

[३]अग्निर्होता । अश्विनाऽध्वर्यू । त्वष्टाऽग्नीत् । मित्र उपवक्ता , इति । सोमः सोमस्य पुरोगाः । शुक्रः शुक्रस्य पुरोगाः । श्रातास्त इन्द्र सोमाः । वातापेर्हवनश्रुतः स्वाहा ( १), इति ।। अग्निर्होताऽष्टौ ।।
इति कृप्णयजुर्वेदीयतैत्तिरीयारण्यके तृतीयप्रपाठके तृतीयोऽनुवाकः ।। ३ ।।

3.4 अनुवाक ४

[४]सूर्यं ते चक्षुः । वातं प्राणः । द्यां पृष्ठम् । अन्तरिक्षमात्मा । अङ्गैर्यज्ञम् । पृथिवीꣳ शरीरैः, इति । वाचस्पतेऽच्छिद्रया वाचा । अच्छिद्रया जुह्वा । दिवि देवावृधꣳ होत्रामेरयस्व स्वाहा ( १), इति ।। सूर्यं ते नव ।।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके तृतीयप्रपाठके चतुर्थोऽनुवाकः ।। ४ ।।

3.5 अनुवाक ५

[५]महाहविर्होता । सत्यहविरध्वर्युः, अच्युतपाजा अग्नीत् । अच्युतमना उपवक्ता । अनाधृष्यश्चाप्रतिधृष्यश्च यज्ञस्याभिगरौ[६] । अयास्य उद्गाता, इति । वाचस्पते हृद्विधे नामन् । विधेम ते नाम । विधेस्त्वमस्माकं नाम । वाचस्पतिः सोममपात् । मा दैव्यस्तन्तुश्छेदि मा मनुष्यः । नमो दिवे । नमः पृथिव्यै स्वाहा (१), इति ।
अपात्रीणि च ।।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके तृतीयप्रपाठके पञ्चमोऽनुवाकः ।। ५ ।।

3.6 अनुवाक ६

[७]वाग्घोता । दीक्षा पत्नी । वातोऽध्वर्युः । आपोऽभिगरः । मनो हविः । तपसि जुहोमि, इति । भूर्भुवः सुवः । ब्रह्म स्वयंभु । ब्रह्मणे स्वयंभुवे स्वाहा (१), इति ।
वाग्घोता नव ।।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके तृतीयप्रपाठके षष्ठोऽनुवाकः ।। ६ ।।

3.7 अनुवाक ७

[८]ब्राह्मण एकहोता । स यज्ञः । स मे ददातु प्रजां पशून्पुष्टिं यशः । यज्ञश्च मे भूयात् इति । अग्निर्द्विहोता । स भर्ता । स मे ददातु प्रजां पशून्पुष्टिं यशः । भर्ता च मे भूयात्, इति । पृथिवी त्रिहोता । स प्रतिष्ठा ( १) । स मे ददातु प्रजां पशून्पुष्टिं यशः । प्रतिष्ठा च मे भूयात्, इति । अन्तरिक्षं चतुर्होता । स विष्ठाः । स मे ददातु प्रजां पशून्पुष्टिं यशः । विष्ठाश्च मे भूयात्, इति । वायुः पञ्चहोता । स प्राणः । स मे ददातु प्रजां पशू न्पुष्टिं यशः । प्राणश्च मे भूयात् ( २), इति । चन्द्रमाः षड्ढोता । स ऋतून्कल्पयाति । स मे ददातु प्रजां पशून्पुष्टिं यशः । ऋतवश्च मे कल्पन्ताम्, इति । अन्नꣳ सप्तहोता । स प्राणस्य प्राणः । स मे ददातु प्रजां पशून्पुष्टिं यशः । प्राणस्य च मे प्राणो भूयात्, इति । द्यौरष्टहोता । सोऽनाधृष्यः ( ३) । स मे ददातु प्रजां पशून्पुष्टिं यशः । अनाधृष्यश्च भूयासम्, इति । आदित्यो नवहोता । स तेजस्वी । स मे ददातु प्रजां पशून्पुष्टिं यशः । तेजस्वी च भूयासम्, इति । प्रजापतिर्दशहोता । स इदꣳ सर्वम् । स मे ददातु प्रजां पशून्पुष्टिं यशः । सर्वं च मे भूयात् ( ४), इति । प्रतिष्ठा प्राणश्च मे भूयादनाधृश्यः सर्वं च मे भूयात् ।। ब्राह्मणो यज्ञोऽग्निर्भर्ता पृथिवी प्रत्रिष्ठाऽन्तरिक्षं विष्ठा वायुः प्राणश्चन्द्रमा स ऋतूनन्नꣳ स प्राणस्य प्राणो द्यौरनाधृष्य आदित्यः स तेजस्वी प्रजापतिः स इदꣳ सर्वं च मे भूयात् ।।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके तृतीयप्रपाठके सप्तमोऽनुवाकः ।। ७ । ।

3.8 अनुवाक ८

[९]अग्निर्यजुर्भिः । सविता स्तोमैः । इन्द्र उक्थामदैः । मित्रावरुणावाशिषा । अङ्गिरसो धिष्णियैरग्निभिः । मरुतः सदोहविर्धानाभ्याम् । आपः प्रोक्षणीभिः । ओषधयो बर्हिषा । अदितिर्वेद्या । सोमो दीक्षया ( १) । त्वष्टेध्मेन । विष्णुर्यज्ञेन । वसव आज्येन । आदित्या दक्षिणाभिः । विश्वे देवा ऊर्जा । पूषा स्वगाकारेण । बृहस्पतिः पुरोधया । प्रजापतिरुद्गीथेन । अन्तरिक्षं पवित्रेण । वायुः पात्रैः । अहꣳ श्रद्धया (२), इति ।। दीक्षया पात्रैरेकं च ।।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके तृतीयप्रपाठकेऽष्टमोऽनुवाकः ।। ८ ।।

3.9 अनुवाक ९

सेनेन्द्रस्य । धेना बृहस्पतेः । पथ्या पूष्णः । वाग्वायोः । दीक्षा सोमस्य । पृथिव्यग्नेः । वसूनां गायत्री । रुद्राणां त्रिष्टुक् । आदित्यानां जगती । विष्णोरनुष्टुक् (१) । वरुणस्य विराट् । यज्ञस्य पङ्क्तिः । प्रजापतेरनुमतिः । मित्रस्य श्रद्धा । सवितुः प्रसूतिः । सूर्यस्य मरीचिः । चन्द्रमसो रोहिणी । ऋषीणामरुन्धती । पर्जन्यस्य विद्युत् । चतस्रो दिशः । चतस्रोऽवान्तरदिशाः । अहश्च रात्रिश्च । कृषिश्च वृष्टिश्च । त्विषिश्चापचितिश्च । आपश्चौषधयश्च । ऊर्क् च सूनृता च देवानां पत्नयः ( २), इति । अनुष्टुग् दिशः षट् च ।।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके तृतीयप्रपाठके नवमोऽनुवाकः ।। ९ ।।

3.10 अनुवाक १०

[१०]देवस्य त्वा सवितुः प्रसवे । अश्विनोर्बाहुभ्याम् । पूष्णो हस्ताभ्यां प्रतिगृह्णामि । राजा त्वा वरुणो नयतु । देवि दक्षिणेऽग्नये हिरण्यम् । तेनामृतत्वमश्याम् । वयो दात्रे । मयो मह्यमस्तु प्रतिग्रहीत्रे । क इदं कस्मा अदात् । कामः कामाय । कामो दाता ( १) । कामः प्रतिग्रहीता । कामꣳ समुद्रमाविश । कामेन त्वा प्रतिगृह्णामि । कामैतत्ते । एषा ते काम दक्षिणा । उत्तानस्त्वाऽऽङ्गीरसः प्रतिगृह्णातु, इति । सोमाय वासः । रुद्राय गाम् । वरुणायाश्वम् । प्रजापतये पुरुषम् ( २) । मनवे तल्पम् । त्वष्ट्रेऽजाम् । पूष्णेऽ विम् । निर्ऋत्या अश्वतरगर्दभौ । हिमवतो हस्तिनम् । गन्धर्वाप्सराभ्यः स्रगलंकरुणे । विश्वेभ्यो देवेभ्यो धान्यम् । वाचेऽन्नम् । ब्रह्मण ओदनम् । सुमुद्रायापः ( ३) । उत्तानायाऽऽङ्गीरसायानः । वैश्वानराय रथम्, इति । वैश्वानरः प्रत्नथा नाकमारुहत् । दिवः पृष्ठं भन्दमानः समन्मभिः । स पूर्ववज्जनयज्जन्तवे धनम् । समानमज्मा परियाति जागृविः, इति । राजा त्वा वरुणो नयतु देवि दक्षिणे वैश्वानराय रथम् । तेनामृतत्वमश्याम् । वयो दात्रे । मयो मह्यमस्तु प्रतिग्रहीत्रे ( ४) । क इदं कस्मा अदात् । कामः कामाय । कामो दाता । कामः प्रतिग्रहीता । कामꣳ समुद्रमाविश । कामेन त्वा प्रतिगृह्णामि । कामैतत्ते । एषा ते काम दक्षिणा । उत्तानस्त्वाऽऽङ्गीरसः प्रतिगृह्णातु ( ५), इति ।। दाता पुरुषमापः प्रतिग्रहीत्रे नव च ।।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके तृतीयप्रपाठके दशमोऽनुवाकः ।। १० ।।

3.11 अनुवाक ११

[११]सुवर्णं घर्मं परिवेद वेनम् । इन्द्रस्याऽऽत्मानं दशधा चरन्तम् । अन्तः समुद्रे मनसा चरन्तम् । ब्रह्माऽन्वविन्दद्दशहोतारमर्णे । अन्तः प्रविष्टः शास्ता जनानाम् । एकः सन्बहुधा विचारः । शतꣳ शुक्राणि यत्रैकं भवन्ति । सर्वे वेदा यत्रैकं भवन्ति । सर्वे होतारो यत्रैकं भवन्ति । स मानसीन आत्मा जनानाम् ( १) । अन्तः प्रविष्टः शास्ता जनानाꣳ सर्वात्मा । सर्वाः प्रजा यत्रैकं भवन्ति । चतुर्होतारो यत्र संपदं गच्छन्ति देवैः । स मानसीन आत्मा जनानाम्, इति । ब्रह्मेन्द्रमग्निं जगतः प्रतिष्ठाम् । दिव आत्मानꣳ सवितारं बृहस्पतिम् । चतुर्होतारं प्रदिशोऽनुक्लृप्तम् । वाचो वीर्यं तपसाऽन्वविन्दत्, इति । अन्तः प्रविष्टं कर्तारमेतम् । त्वष्टारꣳ रूपाणि विकुर्वन्तं विपश्चिम् ( २) । अमृतस्य प्राणं यज्ञमेतम् । चतुहोंतृणामात्मानं कवयो निचिक्युः, इति । ब्रह्मेन्द्रमग्निं जगतः प्रतिष्ठाम् । दिव आत्मानꣳ सवितारं बृहस्पतिम् । चतुर्होतारं प्रदिशोऽनुक्लृप्तम् । वाचो वीर्यं तपसाऽन्वविन्दत्, इति । अन्तः प्रविष्टं कर्तारमेतम् । त्वष्टारꣳ रूपाणि विकुर्वन्तं विपश्चिम् ( २) । अमृतस्य प्राणं यज्ञमेतम् । चतुहोंतृणामात्मानं कवयो निचिक्युः, इति । इन्द्रꣳ राजानꣳ सवितारमेतम् । वायोरात्मानं कवय्रो निचिक्युः । रश्मिꣳ रश्मीनां मध्ये तपन्तम् । ऋतस्य पदे कवयो निपान्ति, इति । य आण्डकोशे भुवनं बिभर्ति । अनिर्भिण्णः सन्नथ लोकान्विचष्टे । यस्याऽऽण्डकोशꣳ शुष्ममाहुः प्राणमुल्बम् । तेन क्लृप्तोऽमृतेनाहमस्मि, इति । सुवर्णं कोशꣳ रजसा परीवृतम् । देवानां वसुधानीं विराजम् ( ४) । अमृतस्य पूर्णां तामु कलां विचक्षते । पादꣳ षड्ढोतुर्न किलाऽऽविवित्से, इति । येनर्तवः पञ्चधोत क्लृप्ता । उत वा षड्धा मनसोत क्लृप्ताः । तत् षड्ढोतारमृतुभिः कल्पमानम् । ऋतस्य पदे कवयो निपान्ति, इति । अन्तः प्रविष्टं कर्तारमेतम् । अन्तश्चन्द्रमसि मनसा चरन्तम् । सहैव सन्तं न विजानन्ति देवाः । इन्द्रस्याऽऽत्मानꣳ शतधा चरन्तम् ( ५), इति । इन्द्रो राजा जगतो य ईशे । सप्तहोता सप्तधा विक्लृप्तः, इति । परेण तन्तुं परिषिच्यमानम् । अन्तरादित्ये मनसा चरन्तम् । देवानाꣳ हृदयं ब्रह्माऽन्वविन्दत्, इति । ब्रह्मैतद्ब्रह्मण उज्जभार । अर्कꣳ श्चोतन्तꣳ सरिरस्य मध्ये, इति । आ यस्मिन्त्सप्त पेरवः । मेहन्ति बहुलाꣳ श्रियम् । बह्वश्वामिन्द्र गोमतीम् (६), इति । अच्युतां बहुलाꣳ श्रियम् । स हरिर्वसुवित्तमः । पेरुरिन्द्राय पिन्वते, इति । बह्वश्वामिन्द्र गोमतीम् । अच्युतां बहुलाꣳ श्रियम् । मह्यमिन्द्रो नियच्छतु, इति । शतꣳ शता अस्य युक्ता हरीणाम् । अर्वाङायातु वसुभी रश्मिरिन्द्रः ।प्रमꣳहमाणो बहुलाꣳ श्रियम्। रश्मिरिन्द्रः सविता मे नियच्छतु ( ७), इति । घृतं तेजो मधुमदिन्द्रियम् । मय्ययमग्निर्दधातु, इति । हरिः पतङ्गः पटरी सुपर्णः । दिविक्षयो नभसा य एति । स न इन्द्रः कामवरं ददातु, इति। पञ्चारं चक्रं परिवर्तते पृथु । हिरण्यज्योतिः सरिरस्य मध्ये । अजस्रं ज्योतिर्नभसा सर्पदेति । स न इन्द्रः कामवरं ददातु, इति । सप्त युञ्जन्ति रथमेकचक्रम् ( ८) । एको अश्वो बहति सप्तनामा । त्रिनाभिं चक्रमजरमनर्वम् । येनेमा विश्वा भुवनानि तस्थुः, इति । भद्रं पश्यन्त उपसेदुरग्रे । तपो दीक्षामृषयः सुवर्विदः । ततः क्षत्त्रं बलमोजश्च जातम् । तदस्मै देवा अभिसंनमन्तु, इति । श्वेतꣳ रश्मिं बोभुज्यमानम् । अपां नेतारं भुवनस्य गोपाम् । इन्द्रं निचिक्युः परमे व्योमन् ( ९), इति । रोहिणीः पिङ्गला एकरूपाः । क्षरन्तीः पिङ्गला एकरूपाः । शतꣳ सहस्राणि प्रयुतानि नाव्यानाम्, इति । अयं यः श्वेतो रश्मिः । परि सर्वमिदं जगत् । प्रजां पशून्धनानि । अस्माकं ददातु, इति । श्वेतो रश्मिः परि सर्वं बभूव । सुवन्मह्यं पशून्विश्वरूपान्, इति। पतङ्गमक्तमसुरस्य मायया ( १०) । हृदा पश्यन्ति मनसा मनीषिणः । समुद्रे अन्तः कवयो विचक्षते । मरीचीनां पदमिच्छन्ति वेधसः, इति । पतङ्गो वाचं मनसा बिभर्ति । तां गन्धर्वोऽवदद्गर्भे अन्तः । तां द्योतमानाꣳ स्वर्यं मनीषाम् । ऋतस्य पदे कवयो निपान्ति, इति । ये ग्राम्याः पशवो विश्वरूपाः । विरूपाः सन्तो बहुधैकरूपाः । अग्निस्ताꣳ अग्रे प्रमुमोक्तु देवः (११) । प्रजापतिः प्रजया संविदानः, इति । वीतꣳ स्तुके स्तुके । युवमस्मासु नियच्छतम् । प्र प्र यज्ञपतिं तिर, इति ।
ये ग्राम्याः पशवो विश्वरूपाः । विरूपाः सन्तो बहुधैकरूपाः । तेषाꣳ सप्तानाम्रिह रन्तिरस्तु । रायस्पोषाय सुप्रजास्त्वाय सुवीर्याय, इति । य आरण्याः पशवो विश्वरूपाः । विरूपाः सन्तो बहुधैकरूपाः । वायुस्ताꣳ अग्रे प्रमुमोक्तु देवः । प्रजापतिः प्रजया संविदानः, इति । इडायै सृप्तं घृतवच्चराचरम् । देवा अन्वविन्दन्गुहाहितम्, इति । य आरण्याः पशवो विश्वरूपाः । विरूपा सन्तो बहुधैकरूपाः । तेषाꣳ सप्तानामिह रन्तिरस्तु । रायस्पोषाय सुप्रज्रास्त्वाय सुवीर्याय (१२), इति ।। आत्मा जनानां विकुर्वन्तं विपश्चिं प्रजानां वसुधानीं विराजं चरन्तं गोमतीं मे नियच्छत्वेकचक्रं व्योमन्मायया देव एकरूपा अष्टौ च ।।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके तृतीयप्रपाठक एकादशोऽनुवाकः ।। ११ ।।

3.12 अनुवाक १२

सहस्रशीर्षा पुरुषः । सहस्राक्षः सहस्रपात् । स भूमिं विश्वतो वृत्वा । अत्यतिष्ठद्दशाङ्गुलम्, इति । पुरुष एवेदꣳ सर्वम् । यद्भूतं यच्च भव्यम् । उतामृतत्वस्येशानः । यदन्नेनातिरोहति, इति । एतावानस्य महिमा । अतो ज्यायाꣳश्च पूरुषः ( १) । पादोऽस्य विश्वा भूतानि । त्रिपादस्यामृतं दिवि, इति । त्रिपादूर्ध्व उदैत्पुरुषः । पादोऽस्येहाऽभवात्पुनः । ततो विष्वङ्व्यक्रामत् । साशनानशने अभि, इति । तस्माद्विराडजायत । विराजो अधि पूरुषः । स जातो अत्यरिच्यत । पश्चाद्भूमिमथो पुरः (२), इति । यत्पुरुषेण हविषा । देवा यज्ञमतन्वत । वसन्तो अस्याऽऽसीदाज्यम् । ग्रीष्म इध्मः शरद्धविः, इति । सप्तास्याऽऽसन्परिधयः । त्रिःसप्त समिधः कृताः । देवा यद्यज्ञं तन्वानाः । अबध्नन्पुरुषं पशुम्, इति । तं यज्ञं बर्हिषि प्रौक्षन् । पुरुषं जातमग्रतः (३) । तेन देवा अयजन्त । साध्या ऋषयश्च ये, इति । तस्माद्यज्ञात्सर्वहुतः । संभृतं पृषदाज्यम् । पशूꣳस्ताꣳश्चक्रे वायव्यान् । आरण्यान्ग्राम्याश्च ये, इति । तस्माद्यज्ञात्सर्वहुतः । ऋचः सामानि जज्ञिरे । छन्दाꣳसि जज्ञिरे तस्मात् । यजुस्तस्मादजायत (४), इति । तस्मादश्वा अजायन्त । ये के चोभयादतः । गावो ह जज्ञिरे तस्मात् । तस्माज्जाता अजावयः, इति । यत्पुरुषं व्यदधुः । कतिधा व्यकल्पयन् । मुखं किमस्य कौ बाहू । कावूरू पादावुच्येते, इति । ब्राह्मणोऽस्य मुखमासीत् । बाहू राजन्यः कृतः ( ५) । ऊरू तदस्य यद्वैश्यः । पद्भ्याम् शूद्रो अजायत, इति । चन्द्रमा मनसो जातः । चक्षोः सूर्यो अजायत । मुखादिन्द्रश्चाग्निश्च । प्राणाद्वायुरजायत, इति । नाभ्या आसीदन्तरिक्षम् । शीर्ष्णो द्यौः समवर्तत । पद्भ्यां भूमिर्दिशः श्रोत्रात् । तथा लोकाꣳ अकल्पयन् ( ६), इति । वेदाहमेतं पुरुषं महान्तम् । आदित्यवर्णं तमसस्तु पारे । सर्वाणि रूपाणि विचित्य धीरः । नामानि कृत्वाऽभिवदन्यदास्ते, इति । धाता पुरस्ताद्यमुदाजहार । शक्रः प्रविद्वान्प्रदिशश्चतस्रः । तमेवं विद्वानमृतं इह भवति । नान्यः पन्था अयनाय विद्यते, इति । यज्ञेन यज्ञमयजन्त देवाः । तानि धर्माणि प्रथमान्यासन् । ते ह नाकं महिमानः सचन्ते । यत्र पूर्वे साध्याः सन्ति देवाः ( ७), इति । पूरुषः पुरोऽग्रतोऽजायत कृतोऽकल्पयन्नासन्द्वे च ।।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके तृतीयप्रपाठके द्रादशोऽनुवाकः ।। १२ ।।

3.13 अनुवाक १३

[१२]अद्भ्यः संभूतः पृथिव्यै रसाच्च । विश्वकर्मणः समवर्तताधि । तस्य त्वष्टा विदधद्रूपमेति । तत्पुरुषस्य विश्वमाजानमग्रे, इति । वेदाहमेतं पुरुषं महान्तम् । आदित्यवर्णं तमसः परस्तात् । तमेवं विद्वानमृत इह भवति । नान्यः पन्था विद्यतेऽयनाय,इति । प्रजापतिश्चरति गर्भे अन्तः । अजायमानो बहुधा विजायते ( १) । तस्य धीराः परिजानन्ति योनिम् । मरीचीनां पदमिच्छन्ति वेधसः, इति । यो देवेभ्य आतपति । यो देवानां पुरोहितः । पूर्वो यो देवेभ्यो जातः । नमो रुचाय ब्राह्मये, इति । रुचं ब्राह्मं जनयन्तः । देवा अग्रे तदब्रुवन् । यस्त्वैवं ब्राह्मणो विद्यात् । तस्य देवा असन्वशे, इति । ह्रीश्च ते लक्ष्मीश्च पत्न्यौ । अहोरात्रे पार्श्वे । नक्षत्राणि रूपम् । अश्विनौ व्यात्तम्। इष्टं मनिषाण । अमुं मनिषाण । सर्वं मनिषाण ( २), इति ।। जायते वशे सप्त च ।।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके तृतीयप्रपाठके त्रयोदशोऽनुवाकः ।। १३ ।।

3.14 अनुवाक १४

[१३]भर्ता सन्भ्रियमाणो बिभर्ति । एको देवो बहुधा निविष्टः । यदा भारं तन्द्रयते स भर्तुम् । निधाय भारं पुनरस्तमेति, इति । तमेव मृत्युममृतं तमाहुः । तं भर्तारं तमु गोप्तारमाहुः । स भृतो भ्रियमाणो बिभर्ति । य एनं वेद सत्येन भर्तुम्, इति । सद्योजातमुत जहात्येषः । उतो जरन्तं न जहात्येकम् ( १) । उतो बहूनेकमहर्जहार । अतन्द्रो देवः सदमेव प्रार्थः, इति । यस्तद्वेद यत आबभूव । संधां च याꣳ संदधे ब्रह्मणैषः । रमते तस्मिन्नुत जीर्णे शयाने । नैनं जहात्यहस्सु पूर्व्येषु, इति । त्वामापो अनु सर्वाश्चरन्ति जानतीः । वत्सं पयसा पुनानाः । त्वमग्निꣳ हव्यवाहꣳ समिन्त्से त्वं भर्ता मातरिश्वा प्रजानाम् ( २), इति । त्वं यज्ञस्त्वमु वेवासि सोमः । तव देवा हवमायन्ति सर्वे । त्वमेकोऽसि बहूननुप्रविष्टः । नमस्ते अस्तु सुहवो म एधि, इति । नमो वामस्तु शृणुतꣳ हवं मे । प्राणापानावजिरꣳ संचरन्तौ । ह्वयामि वां ब्रह्मणा तूर्तमेतम् । यो मां द्वेष्टि तं जहितं युवाना, इति प्राणापानौ संविदानौ जहितम् । अमुप्यासुना मा संगसाथाम् ( ३) । तं मे देवा ब्रह्मणा संविदानौ । वधाय दत्तं तमहꣳ हनामि, इति । असज्जजान सत आबभूव । यं यं जजान स उ गोपो अस्य । यदा भारं तन्द्रयते स भर्तुम् । परास्य भारं पुनरस्तमेति, इति । तद्वै त्वं प्राणो अभवः । महान्भोगः प्रजापतेः । भुजः करिष्यमाणः । यद्देवान्प्राणयो नव (४ ), इति ।। एकं प्रजानां गसाथां नव ।।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके तृतीयप्रपाठके चतुर्दशोऽनुवाकः ।। १४ ।।

3.15 अनुवाक १५

[१४]हरिꣳ हरन्तमनुयन्ति देवाः । विश्वस्येशानं वृषभं मतीनाम् । ब्रह्म सरूपमनु मेद्-मागात् । अयनं मा विवधीर्विक्रमस्व, इति । मा छिदो मृत्यो मा वधीः । मा मे बलं
विवृहो मा प्रमोषीः । प्रजां मा मे रीरिष आयुरुग्र । नृचक्षसं त्वा हविषा विधेम, इति । सद्यश्चकमानाय । प्रवेपानाय मृत्यवे (१) । प्रास्मा आशा अशृण्वन् । कामेनाजनयन्पुनः, इति । कामेन मे काम आगात् । हृदयाद्धृदयं मृत्योः । यदमीषामदः प्रियम् । तदैतूप मामभि, इति । परं मृत्यो अनुपेरहि पन्थाम् । यस्ते स्व इतरो देवयानात् । चक्षुष्मते शृण्वते ते व्रवीमि । मा न प्रजाꣳ रीरिषो मोत वीरान्, इति । प्र पूर्व्यं मनसा वन्दमानः । नाधमानो वृषभं चर्षणीनाम् । यः प्रजानामेकराण्मानुषीणाम् । मृत्युं यजे प्रथमजामृतस्य (२) इति ।। मृत्यवे वीराँश्चत्वारि च ।।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके तृतीयप्रपाठके पञ्चदशोऽनुवाकः ।। १५ ।।

3.16 अनुवाक १६

[१५]तरणिर्विश्वदर्शतो ज्योतिष्कृदसि सूर्य । विश्वमाभासि रोचनम् । उपयामगृहीतोऽसि सूर्याय त्वा भ्राजस्वत एष ते योनिः सूर्याय त्वा भ्राजस्वते, इति ।।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके तृतीयप्रपाठके षोडशोऽनुवाकः ।। १६ ।।

3.17 अनुवाक १७

[१६]आप्यायस्व मदिन्तम सोम विश्वाभिरूतिभिः । भवा नः सप्रथस्तमः, इति ।।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके तृतीयप्रपाठके सप्तदशोऽनुवाकः ।। १७ ।।

3.18 अनुवाक १८

[१७]ईयुष्टे ये पूर्वतरामपश्यन्व्युच्छन्तीमुषसं मर्त्यासः । अस्माभिरू नु प्रतिचक्ष्याऽभूदो ते यन्ति ये अपरीषु पश्यान्, इति ।।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके तृतीयप्रपाठकेऽष्टादशोऽनुवाकः ।। १८ ।।

3.19 अनुवाक १९

[१८]ज्योतिष्मतीं त्वा सादयामि ज्योतिष्कृतं त्वा सादयामि ज्योतिर्विदं त्वा सादयामि भास्वतीं त्वा सादयामि ज्वलन्तीं त्वा सादयामि मल्मला भवन्तीं त्वा सादयामि दीप्यमानां त्वा सादयामि रोचमानां त्वा सादयाम्यजस्रां त्वा सादयामि बृहज्ज्योतिषं त्वा सादयामि बोधयन्तीं त्वा सादयामि जाग्रतीं त्वा सादयामि, इति ।।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके तृतीयप्रपाठक एकोनविंशोऽनुवाकः ।। १९ ।।

3.20 अनुवाक २०

[१९]प्रयासाय स्वाहाऽऽयासाय स्वाहा वियासाय स्वाहा संयासाय स्वाहोद्यासाय स्वाहाऽवयासाय स्वाहा शुचे स्वाहा शोकाय स्वाहा तप्यत्वै स्वाहा तपते स्वाहा ब्रह्महत्यायै स्वाहा सर्वस्मै स्वाहा, इति ।।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके तृतीयप्रपाठके विंशोऽनुवाकः ।। २० ।।

3.21 अनुवाक २१

[२०]चित्तꣳ संतानेन भवं यक्ना रुद्रं तनिम्ना पशुपतिꣳꣳ स्थूलहृदयेनाग्निꣳ हृदयेन रुद्रं लोहितेन शर्वं मतस्नाभ्यां महादेवमन्तःपार्श्वेनौषिष्ठहनꣳ शिङ्गीनिकोश्याभ्याम् (१), इति ।। चित्तमेकम् ।।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके तृतीयप्रपाठक एकविंशोऽनुवाकः ।। २१ ।।

चित्तिः पृथिव्यग्निः सूर्यं ते चक्षुर्महाहविर्होता वाग्घोता ब्राह्मण एकहोताऽग्निर्यजुर्भिः सेनेन्द्रस्य देवस्य सुवर्णं घर्मꣳ सहस्रशीर्षाऽद्भ्यो भर्ता हरिं तरणिराप्यायस्वेयुष्टे ये ज्योतिष्मतीं प्रयासाय चित्तमेकविꣳशतिः ।। २१ ।।

चित्तिरग्निर्यजुर्भिरन्तःप्रविष्टः प्रजापतिः प्रजया संविदा नस्तस्य धीरा ज्योतिष्मतीं त्रिपञ्चाशत् ।। ५३ ।।

तच्छं योरावृणीमहे । गातुं यज्ञाय । गातुं यज्ञपतये । दैवी स्वस्तिरस्तु नः । स्वस्तिर्मानुषेभ्यः । ऊर्ध्वं जिगातु भेषजम् । शं नो अस्तु द्विपदे । शं चतुष्पदे ।।
ॐ शान्तिः शान्तिः शान्तिः ।।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके तृतीयः प्रपाठकः समाप्तः ।। ३ ।।


  1. दशहोतृमन्त्र
  2. चतुर्होतृमन्त्र
  3. पञ्चहोतृमन्त्र
  4. षड्ढोतृमन्त्र
  5. सप्तहोतृमन्त्र(उपरिष्टात् प्राञ्चं सप्तहोतारम्)
  6. प्रस्तोतृप्रतिहर्तारौ
  7. द्वितीयः षड्ढोतृमन्त्र
  8. चातुर्मास्येषु केशनिवर्तनेषु
  9. संभारयजूंषि
  10. प्रतिग्रहमन्त्राः
  11. होतृहृदयाख्यामन्त्राः
  12. उत्तरनारायणः
  13. भर्तृसूक्तः
  14. मृत्युसूक्तः
  15. सूर्योपस्थाने विनियुक्तं मन्त्रम्
  16. प्रेतदाहस्थाने...
  17. अवगाहने
  18. उपोषणे दाहे
  19. स्रुवाहुतिमन्त्राः
  20. राजगवीहविषः..