तैत्तिरीयारण्यकम्(विस्वर)/प्रपाठकः २
2.1 अनुवाक १
ॐ सह वै देवानां चासुराणां च यज्ञौ प्रततावास्तां वयँ स्वर्गं लोकमेष्यामो वयमेष्याम इति तेऽसुराः संनह्य सहसैवाऽऽचरन्ब्रह्मचर्येण तपसैव देवास्तेऽसुरा अमुह्यँस्ते न प्राजानँस्ते पराभवन्ते न स्वर्गं लोकमायन्प्रसृतेन वै यज्ञेन देवाः स्वर्गं लोकमांयन्नप्रसृतेनासुरान्पराभावयन्, इति । प्रसृतो ह वै यज्ञोपवीतिनो यज्ञोऽप्रसृतोऽनपवीतिनो यत्किंच ब्राह्मणो यज्ञोपवीत्यधीते यजत एव तत्-, इति ।
तस्माद्यज्ञोपवीत्येवाधीयीत याजयेद्यजेत वा यज्ञस्य प्रसृत्यै इति । अजिनं वासो वा दक्षिणत उपवीय-, इति । दक्षिणं बाहुमुद्धरतेऽवेधत्ते सव्यमिति यज्ञोपवीतमेतदेव विपरीतं प्राचीनावीतँ संवीतं मानुषम् ।। १ ।।, इति ।।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके द्वितीयप्रपाठके प्रथमोऽनुवाकः ।। १ ।। 2.1
2.2 अनुवाक २
रक्षांसि ह वा पुरोनुवाके तपोग्रमतिष्ठन्त तान्प्रजापतिर्वरेणोपामन्त्रयत तानि वरमवृणीताऽऽदित्यो नो योद्धा इति तान्प्र जापतिरब्रवीद्योधयध्वमिति तस्मादुत्तिष्ठन्तं ह वा तानि रक्षांस्यादित्यं योधयन्ति यावदस्तमन्वगात्तानि ह वा एतानि रक्षांसि गायत्रियाऽभिमन्त्रितेनाम्भसा शाम्यन्ति-, इति । तदु ह वा एते ब्रह्मवादिनः पूर्वाभिमुखाः संध्यायां गायत्रियाऽभिमन्त्रिता आप ऊर्ध्वं विक्षिपन्ति ता एता आपो वज्रीभूत्वा तानि रक्षांसि मन्देहारुणे द्वीपे प्रक्षिपन्ति-, इति । यत्प्रदक्षिणं प्रक्रमन्ति तेन पाप्मानमवधून्वन्ति-, इति । उद्यन्तमस्तं यन्तमादित्यमभिध्यायन्कुर्वन्ब्राह्मणो विद्वान्त्सकलं भद्रमश्नुतेऽसावादित्यो ब्रह्मेति-, इति । ब्रह्मैव सन्ब्रह्माप्येति य एवं वेद ।। २ ।।, इति । इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके द्वितीयप्रपाठके द्वितीयोऽनुवाकः ।। २ ।।
2.3 अनुवाक ३
यद्देवा देवहेळनं देवासश्चकृमा वयम् । आदित्यास्तस्मान्मा मुञ्चतर्तस्यर्तेन मामित, इति । देवा जीवनकाम्या यद्वाचाऽनृतमूदिम । तस्मान्न इह मुञ्चत विश्वे देवाः सजोषसः, इति । ऋतेन द्यावापृथिवी ऋतेन त्वं सरस्वति । कृतान्नः पाह्येनसो यत्किंचानृतमूदिम, इति । इन्द्राग्नी मित्रावरुणौ सोमो धाता बृहस्पतिः । ते नो मुञ्चन्त्वेनसो यदन्यकृतमारिम, इति । सजातशँसादुत जामिशंसाज्ज्यायसः शंसादुत वा कनीयसः । अनाधृष्टं देवकृतं यदेनस्तस्मात्त्वमुस्माञ्जातवेदो मुमुग्धि, इति ।
यद्वाचा यन्मनसा बाहुभ्यामूरुभ्यामष्ठीवद्भ्यां शिश्नैर्यदनृतं चकृमा वयम् । अग्निर्मा तस्मादेनसो गार्हपत्यः प्रमुञ्चतु चकृम यानि दुष्कृता, इति । येन त्रितो अर्णवान्निर्बभूऽव येन सूर्ये तमसो निर्मुमोच । येनेन्द्रो विश्वा अजहादरातीस्तेनाहं ज्योतिषा ज्योतिरानशान आक्षि, इति । यत्कुसीदमप्रतीत्तं मयेह येन यमस्य निधिना चरामि । एतत्तदग्ने अनृणो भवामि जीवन्नेव प्रति तत्ते दधामि, इति ।
तन्मयि माता यदा पिपेष यदन्तरिक्षं यदाशसातिक्रामामि त्रिते देवा दिवि जाता यदाप इमं मे वरुण तत्त्वा यामि त्वं नो अग्ने स त्वं नो अग्ने त्वमग्ने अयासि ( १), इति ।।
मुमुग्धि सप्त च ।।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके द्वितीयप्रपाठके तृतीयोऽनुवाकः ।। ३ ।।
2.4 अनुवाक ४
यददीव्यन्नृणमहं बभूवादित्सन्वा संजगर जनेभ्यः । अग्निर्मा तस्मादिन्द्रश्च संविदानौ प्रमुञ्चताम्, इति । यद्धस्ताभ्यां चकर किल्बिषाण्यक्षाणां वग्नुमुपजिघ्नमानः । उग्रंपश्या च राष्ट्रभृच्च तान्यप्सरसावनुदत्तामृणानि, इति ।
उग्रंपश्ये राष्ट्रभृत्किल्बिषाणि यदक्षवृत्तमनुदत्तमेतत् । नेन्न ऋणानृणव इत्समानो यमस्य लोके अधिरज्जुराय, इति । अव ते हेळ उदुत्तममिमं मे वरुण तत्त्वा यामि त्वं नो अग्ने स त्वं नो अग्ने इति । संकुसुको विकुसुको निर्ऋथो यश्च निस्वनः । तेऽ१स्मद्यक्ष्ममनागसो दूराद्दूरमचीचतम्, इति । निर्यक्ष्ममचीचते कृत्यां निर्ऋतिं च । तेन योऽ१स्मत्समृच्छातै तमस्मै प्रसुवामसि, इति । दुःशंसानुशंसाभ्यां घणेनानुघणेन च । तेनान्योऽ१स्मत्समृच्छातै तमस्मै प्रसुवामसि, इति । सं वर्चसा पयसा सं तनूभिरगन्महि मनसा सं शिवेन । त्वष्टा नो अत्र विदधातु रायोऽनुमार्ष्टु तन्वो१ यद्विलिष्टम् (१),इति ।। कृत्यां निर्ऋतिं च पञ्च च ।।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके द्वितीयप्रपाठके चतुर्थोऽनुवाकः ।। ४ ।।
2.5 अनुवाक ५
आयुष्टे विश्वतो दधदयमग्निर्वरेण्यः । पुनस्ते प्राण आयाति परा यक्ष्मं सुवामि ते, इति । आयुर्दा अग्ने हविषो जुषाणो घृतप्रतीको घृतयोनिरेधि । घृतं पीत्वा मधु चारु गव्यं पितेव पुत्रमभिरक्षतादिमम्, इति । इममग्न आयुषे वर्चसे कृधि तिग्ममोजो वरुण संशिशाधि । मातेवास्मा अदिते शर्म यच्छ विश्वे देवा जरदष्टिर्यथाऽसत्, इति । अग्न आयूँषि पवस आसुवोर्जमिषं च नः । आरे बाधस्व दुच्छुनाम्, इति । अग्ने पवस्व स्वपा अस्मे वर्चः सुवीर्यम् । दधद्रयिं मयि पोषम् ( १), इति । अग्निर्ऋषिः पवमानः पाञ्चजन्यः पुरोहितः । तमीमहे महागयम्, इति । अग्ने जातान्प्रणुदा नः सपत्नान्प्रत्यजाताञ्जातवेदो नुदस्व । अस्मे दीदिहि सुमना अहेळञ्छर्मन्ते स्याम त्रिवरूथ उद्भौ, इति । सहसा जातान्प्रणुदा नः सपत्नान्प्रत्यजाताञ्जातवेदो नुदस्व । अधि नो ब्रूहि सुमनस्यमानो वयं स्याम प्रणुदा नः सपत्नान्, इति । अग्ने यो नोऽभितो जनो वृको वारो जिघांसति । ताँस्त्वं वृत्रहञ्जहि वस्वस्मभ्यमाभर, इति । अग्ने यो नोऽभिदासति समानो यश्च निष्ट्यः । तं वयं समिधं कृत्वा तुभ्यमग्नेऽपिदध्मसि (२), इति । यो नः शपादशपतो यश्च नः शपतः शपात् । उषाश्च तस्मै निम्रुक्च सर्वं पापं समूहताम्, इति । यो नः सपत्नो यो रणो मर्तोऽभिदासति देवाः । इध्मस्येव प्रक्षायतो मा तस्योच्छेषि किंचन, इति । यो मां द्वेष्टि जातवेदो यं चाहं द्वेष्मि यश्च माम् । सर्वाँस्तानग्ने संदह यांश्चाहं द्वेष्मि ये च माम्, इति । यो अस्मभ्यमरातीयाद्यश्च नो द्वेषते जनः । निन्दाद्यो अस्मान्दिप्साच्च सर्वांस्तान्मष्मषा कुरु, इति । संशितं म्रे ब्रह्म संशितं वीर्यां१ बलम् । संशितं क्षत्त्रं मे जिष्णु यस्याहमस्मि पुरोहितः, इति । उदेषां बाहू अतिरमुद्वर्चो अथो बलम् । क्षिणोमि ब्रह्मणाऽमित्रानुन्नयामि स्वाँ १ अहम्, इति । पुनुर्मनः पुनरायुर्म आगात्पुनश्चक्षुः पुनः श्रोत्रं म आगात्पुनः प्राणः पुनराकूतं म आगात्पुनश्चित्तं पुनराधीतं म आगात् । वैश्वानरो मेऽदब्धस्तनूपा अवबाधतां दुरितानि विश्वा ( ३), इति ।। पोषं दध्मसि पुरोहितश्चत्वारि च ।।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके द्वितीयप्रपाठके पञ्चमोऽनुवाकः ।। ५ ।।
2.6 अनुवाक ६
वैश्वानराय प्रतिवेदयामो यदीनृणं संगरो देवतासु । स एतान्पाशान्मुमुचन्प्रवेद स नो मुञ्चातु दुरितादवद्यात्, इति । वैश्वानरः पवयान्नः पवित्रैर्यत्संगरमभिधावाम्याशाम् । अनाजानन्मनसा याचमानो यदत्रैनो अव तत्सुवामि, इति । अमी ये सुभगे दिवि विचृतौ नाम तारके । प्रेहामृतस्य यच्छतामेतद्बद्धकमोचनम, इति । विजिहीर्ष्व लोकान्कृधि बन्धान्मुञ्चासि बद्धकम् । योनेरिव प्रच्युतो गर्भः सर्वान्पथो अनुष्व, इति । स प्रजानन्प्रतिगृभ्णीत विद्वान्प्रजापतिः प्रथमजा ऋतस्य । अस्माभिर्दत्तं जरसः परस्तादच्छिन्नं तन्तुमनुसंचरेम (१), इति । ततं तन्तुमन्वेके अनुसंचरन्ति येषां दत्तं पित्र्यमायनवत् । अबन्ध्वेके ददतः प्रयच्छाद्दातुं चेच्छक्नवांस स्वर्ग एषाम्, इति । आरभेथामनुसंरभेथां समानं पन्थामवथो घृतेन । यद्वां पूर्तं परिविष्टं यदग्नौ तस्मै गोत्रायेह जायापती संरभेथाम्, इति । यदन्तरिक्षं पृथिवीमुत द्यां यन्मातरं पितरं वा जिहिंसिम । अग्निर्मा तस्मादेनसो गार्हपत्य उन्नो नेषद्दुरिता यानि चक्रम, इति । भूमिर्माताऽदितिर्नो जनित्रं भ्राताऽन्तरिक्षमभिशस्त एनः । द्यौर्नः पिता पितृयाच्छं भवासि जामिमित्वा मा विवित्सि लोकात्, इति । यत्र सुहार्दः सुकृतो मदन्ते विहाय रोगं तन्वां१ं स्वायाम् । अश्लोणाङ्गैरह्रुताः स्वर्गे तत्र पश्येम पितरं च पुत्रम्, इति । यदन्नमद्म्यनृतेन देवा दास्यन्नदास्यन्नुत वाऽकरिष्यन् । यद्देवानां चक्षुष्यागो अस्ति यदेव किंच प्रतिजग्राहमग्निर्मा तस्मादनृणं कृणोतु, इति । यदन्नमद्मि बहुधा विरूपं वासो हिरण्यमुत गामजामविम्। यद्देवानां चक्षुष्यागो अस्ति यदेव किंच प्रतिजग्राहमग्निर्मा तस्मादनृणं कृणोतु, इति । यन्मया मनसा वाचा कृतमेनः कदाचन । सर्वस्मात्तस्मान्मेळितो मोग्धि त्वं हि वेत्थ यथातथम् ( २), इति ।।
चरेम पुत्रं षट् च ।।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके द्वितीयप्रपाठके षष्ठोऽनुवाकः ।। ६ ।।
2.7 अनुवाक ७
वातरशना ह वा ऋषयः श्रमणा ऊर्ध्वमन्थिनो बभूवुस्तानृषयोऽर्थमायंस्ते निलायमचरंस्तेऽनुप्रविशुः कूश्माण्डानि ताꣳस्तेष्वन्वविन्दञ्छ्रद्धया च तपसा च-,इति । तानृषयोऽब्रुवन्कथा निलायं चरथेति त ऋषीनब्रुवन्नमो वोऽस्तु भगवन्तोऽस्मिन्धाम्नि केन वः सपर्यामेति तानृषयोऽब्रुवन्पवित्रं नो ब्रूत येनारेपसः स्यामेति त एतानि सूक्तान्यपश्यन्-,इति। यद्देवा देव हेळनं यददीव्यन्नृणमहं बभूवाऽऽयुष्टे विश्वतो दध-दित्येतैराज्यं जुहुत वैश्वानराय प्रतिवेदयाम इत्युपतिष्ठत यदर्वाचीनमेनो भ्रूणहत्यायास्तस्मान्मोक्ष्यध्व इति-, इति । त एतैरजुहवुस्तेऽरेपसोऽभवन्-, इति । कर्मादिष्वेतैर्जुहुयात्पूतो देवलोकान्समश्नुते ( १), इति ।। इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके द्वितीयप्रपाठके सप्तमोऽनुवाकः ।। ७ ।।
2.8 अनुवाक ८
कूश्माण्डैर्जुहुयाद्योऽपूत इव मन्येत-,इति । यथा स्तेनो यथा भ्रूणहैवमेष भवति योऽयोनौ रेतः सिञ्चति-, इति । यदर्वाचीनमेनो भ्रूणहत्यायास्तस्मान्मुच्यते-,इति ।
यावदेनो दीक्षामुपैति दीक्षित एतैः सतति जुहोति-, इति । संवत्सरं दीक्षितो भवति संवत्सरादेवाऽऽत्मानं पुनीते-,इति । मासं दीक्षितो भवति यो मासः स संवत्सरः संवत्सरादेवाऽऽत्मानं पुनीते चतुर्विꣳशतिꣳ रात्रीर्दीक्षितो भवति चतुर्विꣳशति- रर्धमासाः संवत्सरः संवत्सरादेवाऽऽत्मानं पुनीते द्वादश रात्रीर्दीक्षितो भवतिं द्वादश मासाः संवत्सरः संवत्सरा देवाऽऽत्मानं पुनीते षड्रात्रीर्दीक्षितो भवति षड्वा ऋतवः संवत्सरः संवत्सरादेवाऽऽत्मानं पुनीते तिस्रो रात्रीर्दीक्षितो भवति त्रिपदा गायत्री गायत्रिया एवाऽऽत्मातं पुनीते-,इति । न माꣳसमश्नीयान्न स्त्रियमुपेयान्नोपर्यासीत जुगुप्सेतानृतात् इति । पयो ब्राह्मणस्य व्रतं यवागू राजन्यस्याऽऽमिक्षा वैश्यस्य-, इति। । अथो सौम्येऽप्यध्वर एतद्व्रतं ब्रूयात्-,इति । यदि मन्येतोपदस्यामीत्योदनं धानाः सक्तून्धृतमित्यनुव्रतयेदात्मनोऽनुपदासाय (१), इति ।।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके द्वितीयप्रपाठकेऽष्टमोऽनुवाकः ।। ८ ।।
2.9 अनुवाक ९
अजान्ह वै पृश्नीꣳस्तपस्यमानान्ब्रह्म स्वयंभ्वभ्यानर्षत्त ऋषयोऽभवन्तदृषीणामृषित्वं तां देवतामुपातिष्ठन्त यज्ञकामास्त एतं ब्रह्मयज्ञमपश्यन्तमाहरन्तेनायजन्त- इति । यदृचोऽध्यगीषत ताः पयआहुतयो देवानामभवन्यद्यजूꣳषि घृताहुतयो यत्सामानि सोमाहुतयो यदथर्वाङ्गिरसो मध्वा- हुतयो यद्ब्राह्मणानीतिहासान्पुराणानि कल्पान्गाथा नाराशꣳसीर्मेदाहुतयो देवानामभवन्ताभिः क्षुधं पाप्मा- नमपाघ्नन्नपहतपाप्मानो देवाः स्वर्गं लोकमायन्ब्रह्मणः सायुज्यमृषयोऽगच्छन् ( १), इति ।। इति कृष्णयजुर्वेदीय तैत्तिरीयारण्यके द्वितीयप्रपाठके नवमोऽनुवाकः ।। ९ ।।
2.10 अनुवाक १०
पञ्च वा एते महायज्ञाः सतति प्रतायन्ते सतति संतिष्ठन्ते देवयज्ञः पितृयज्ञो भूतयज्ञो मनुष्ययज्ञो ब्रह्मयत्र इति,इति । यदसौ जुहोत्यपि समिधं तद्देवयज्ञः संतिष्ठते-,इति । यत्पितृभ्यः स्वधा करोत्यप्यपस्तत्पितृयज्ञः संतिष्ठते-,इति ।
यद्भूतेभ्यो बलिꣳ हरति तद्भूतयज्ञः संतिष्ठते-,इति । यद्ब्राह्मणेभ्योऽन्नं ददाति तन्मनुष्ययज्ञः संतिष्ठते-,इति । यत्स्वाध्यायमधीयीतैकामप्यृचं यजुः साम वा तद्ब्रह्मयज्ञः संतिष्ठते-, इति । यदृचोऽधीते पयसः कूल्या अस्य पितॄन्त्स्वधा अभिवहन्ति यद्यजू्ꣳषि घृतस्य कूल्या यत्सामानि सोम एभ्यः पवते यदथर्वाङ्गि-रसो मधोः कूल्या यद्ब्राह्मणानीतिहासान्पुराणानि कल्पान्गाथा नाराशꣳसीर्मेदसः कूल्या अस्य पितॄन्स्वधा अभिवहन्ति-,इति । यदृचोऽधीते पयआहुतिभिरेव तद्देवाꣳस्तर्पयति यद्यजूँषि घृताहुतिभिर्यत्सामानि सोमाहुतिभिर्यदथर्वाङ्गिरसो मध्वाहुतिभिर्यद्ब्राह्मणानीतिहासान्पुराणानि कल्पान्गाथा नाराशꣳसीर्मेदाहुरतिभिरेव तद्देवाँस्तर्पयति त एनं तृप्ता आयुषा तेजसा वर्चसा श्रिया यशसा ब्रह्मवर्चसेनान्नाद्येन च तर्पयन्ति ( १), इति ।। इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके द्वितीयप्रपाठके दशमोऽनुवाकः ।। १० ।।
2.11 अनुवाक ११
ब्रह्मयज्ञेन यक्ष्यमाणः प्राच्यां दिशि ग्रामादछदिर्दर्श उदीच्यां प्रागुदीच्यां वोदित आदित्ये दक्षिणत उपवीयोपविश्य हस्ताववनिज्य त्रिराचामेद्द्विः परिमृज्य सकृदुपस्पृश्य शिरश्चक्षुषी नासिके श्रोत्रे हृदयमालभ्य-, इति । यत्त्रिराचामति तेन ऋचः प्रीणाति यद्द्विः परिमृजति तेन यजूꣳषि यत्सकृदुपस्पृशति तेन सामानि यत्सव्यं पाणिं पादौ प्रोक्षति यच्छिरश्चक्षुषी नासिके श्रोत्रे हृदयमालभते तेनाथर्वा-ङ्गिरसो ब्राह्मणानीतिहासान्पुराणानि कल्पान्गाथां नाराशँसीः प्रीणाति-, इति ।
दर्भाणां महदुपस्तीर्योपस्थं कृत्वा प्राङासीनः स्वाध्यायमधीयीतापां वा एष ओषधीनाम् रसो यद्दर्भाः सरसमेव ब्रह्म कुरुते-, इति । दक्षिणोत्तरौ पाणी पादौ कृत्वा सपवित्रावोमिति प्रतिपद्यत एतद्वै यजुस्त्रयीं विद्यां प्रत्येषा वागेतत्परममक्षरम्-, इति । तदेतदृचाऽभ्युक्तम् , इति । ऋचो अक्षरे परमे व्योमन्यस्मिन्देवा अधि विश्वे निषेदुर्यस्तन्न वेद किमृचा करिष्यति य इत्तद्विदुस्त इमे समासत इति-, इति ।
त्रीनेव प्रायुङ्क्त भूर्भुवुः स्वरित्याहैतद्वै वाचः सत्यं यदेव वाचः सत्यं तत्प्रायुङ्क्त-, इति । अथ सावित्रीं गायत्रीं त्रिरन्वाह पच्छोऽर्धर्चशोऽनवानꣳ सविता श्रियः प्रसविता श्रियमेवाऽऽप्नोत्यथो प्रज्ञातयैव प्रतिपदा छन्दाꣳसि प्रतिपद्यते ( १), इति ।।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके द्वितीयप्रपाठक एकादशोऽनुवाकः ।। ११ ।।
2.12 अनुवाक १२
ग्रामे मनसा स्वाध्यायमधीयीत दिवा नक्तं वा - इति। इति ह स्माऽऽह शौच आह्नेयः-, इति । उतारण्येऽबल उत वाचोत तिष्ठन्नुत व्रजन्नुताऽऽसीन उत शयानोऽधीयीतैव स्वाध्यायं तपस्वी पुण्यो भवति य एवं विद्वान्त्स्वाध्यायमधीते-,इति । नमो ब्रह्मणे नमो अस्त्वग्नये नमः पृथिव्यै नम ओषधीभ्यः । नमो वाचे नमो वाचस्पतये नमो विष्णवे बृहते करोमि ( १), इति । इति कृष्णयजुर्वेदीय तैत्तिरीयारण्यके द्वितीयप्रपाठके द्वादशोऽनुवाकः ।। १२ ।।
2.13 अनुवाक १३
मध्यंदिने प्रबलमधीयीतासौ खलु वावैष आदित्यो यद्ब्राह्मणस्तस्मात्तर्हि तेक्ष्णिष्ठं तपति तदेषाऽभ्युक्ता-, इति । चित्रं देवानामुदगादनीकं चक्षुर्मित्रस्य वरुणस्याग्नेः । आप्रा द्यावापृथिवी अन्तरिक्षम् सूर्य आत्मा जगतस्तस्थुषश्चेति-इति ।
स वा एष यज्ञः सद्यः प्रतायते सद्यः संतिष्ठते तस्य प्राक्सायमवभृथः -,इति । नमो ब्रह्मण इति परिधानीयां त्रिरन्वाह-,इति । अप उपस्पृश्य गृहानेति ततो यत्किंच ददाति सा दक्षिणा (१), इति ।।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके द्वितीयप्रपाठके त्रयोदशोऽनुवाकः ।। १३ ।।
2.14 अनुवाक १४
तस्य वा एतस्य यज्ञस्य मेघो हविर्धानं विद्युदग्निर्वर्षꣳ हविस्तनयित्नुर्वषट्कारो यदवस्फूर्जति सोऽनुवषट्कारो वायुरात्माऽमावास्या स्विष्टकृत्-, इति । य एवं विद्वान्मेघे वर्षति विद्योतमाने स्तनयत्यवस्फूर्जति पवमाने वायावमावास्यायाꣳ स्वाध्यायमधीते तप एव तत्तप्यते तपो हि स्वाध्याय इति-, इति । उत्तमं नाकꣳ रोहत्युत्तमः समानानां भवति यावन्तꣳ ह वा इमां वित्तस्य पूर्णां ददत्स्वर्गं लोकं जयति तावन्तं लोकं जयति भूयाꣳस चाक्षय्यं चाप पुनर्मृत्युं जयति ब्रह्मणः सायुज्यं गच्छति ( १ ), इति ।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके द्वितीयप्रपाठके चतुर्दशोऽनुवाकः ।। १ ४ ।
2.15 अनुवाक १५
तस्य वा एतस्य यज्ञस्य द्वावनध्यायौ यदात्माऽशुचिर्यद्देशः-, इति । समृद्धिर्दैवतानि-, इति । य एवं विद्वान्महारात्र उषस्युदिते व्रजꣳस्तिष्ठन्नासीनः शयानोऽरण्ये ग्रामे वा यावत्तरसꣳ स्वाध्यायमधीते सर्वाँल्लोकाञ्जयति सर्वाल्लोकाननृणोऽनुसंचरति तदेषाऽभ्युक्ता--, इति । अनृणा अस्मिन्ननृणाः परस्मिꣳतृतीये लोके अनृणाः स्याम । ये देवयाना उत पितृयाणाः सर्वान्पथो अनृणा आक्षीयेमेति-, इति । अग्निं वै जातं पाप्मा जग्राह तं देवा आहुतीभिः पाप्मानमपाघ्नन्नाहुतीनां यज्ञेन यज्ञस्य दक्षिणाभिर्दक्षिणानां ब्राह्मणेन ब्राह्मणस्य छन्दोभिश्छन्दसाꣳ स्वाध्यायेनापहतपाप्मा स्वाध्यायो देवपवित्रं वा एतत्तं योऽनूत्सृजत्यभागो वाचि भवत्यभागो नाके तदेषाऽभ्युक्ता-, इति । यस्तित्याज सखिविदꣳ सखायं न तस्य वाच्यपि भागो अस्ति । यदीꣳ शृणोत्यलकंꣳ शृणोति न हि प्रवेद सुकृतस्य पन्थामिति-, इति । तस्मात्स्वाध्यायोऽध्येतव्यो यं यं क्रतुमधीते तेन तेनास्येष्टं भवत्यग्नेर्वायोरादित्यस्य सायुज्यं गच्छति तदेषाऽभ्युक्ता-, इति । ये अर्वाङुत वा पुराणे वेदं विद्वाꣳसमभितो वदन्त्यादित्यमेव ते परिवदन्ति सर्वे अग्निं द्वितीयं तृतीयं च हꣳसमिति-,इति । यावतीर्वै देवतास्ताः सर्वा वेदविदि ब्राह्मणे वसन्ति तस्माद्ब्राह्मणेभ्यो वेदविद्भ्यो दिवे दिवे नमस्कुर्यान्नाश्लीलं कीर्तयेदेता एव देवताः प्रीणाति ( १), इति ।।
इति कृष्णयजुर्वेदीय तैत्तिरीयारण्यके द्वितीयप्रपाठके पञ्चदशोऽनुवाकः ।। १५ ।।
2.16 अनुवाक १६
रिच्यत इह वा एष प्रेव रिच्यते यो याजयति प्रति वा गृह्णाति याजयित्वा प्रतिगृह्य वाऽनश्नन्त्रिः स्वाध्यायं वेदमधीयीत-, इति । त्रिरात्रं वा सावित्रीं गायत्रीमन्वातिरेचयति-,इति । वरो दक्षिणा वरेणैव वरꣳ स्पृणोत्यात्मा हि वरः (१), इति ।। इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके द्वितीयप्रपाठके षोडशोऽनुवाकः ।। १६ ।।
2.17 अनुवाक १७
दुहे हवा एष छन्दाꣳसि यो याजयति स येन यज्ञक्रतुना याजयेत्सोऽरण्यं परेत्य शुचौ देशे स्वाध्यायमेवैनमधीयन्नासीत-, इति । तस्यानशनं दीक्षा स्थानमुपसद आसनꣳ सुत्या वाग्जुहूर्मन उपभृद्धृतिर्ध्रुवा प्राणो हविः सामाध्वर्युः स वा एष यज्ञः प्राणदक्षिणोऽनन्तदक्षिणः समृद्धतरः ( १), इति ।।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके द्वितीयप्रपाठके सप्तदशोऽनुवाकः ।। १७ ।।
2.18 अनुवाक १८
कतिधाऽवकीर्णी प्रविशति चतुर्धेत्याहुर्ब्रह्मवादिनो मरुतः प्राणैरिन्द्रं बलेन बृहस्पतिं ब्रह्मवर्चसेनाग्निमेवेतरेण सर्वेण तस्यैतां प्रायश्चित्तिं विदांचकार सुदेवः काश्यपः-, इति । यो ब्रह्मचार्यवकिरेदमावास्यायाꣳ रात्र्यामग्निं प्रणीयोपसमाधाय द्विराज्यस्योपघातं जुहोति कामावकीर्णोऽस्म्यवकीर्णोऽस्मि काम कामाय स्वाहा कामाभिदुग्धोऽस्म्यभिदुग्धोऽस्मि काम कामाय स्वाहेत्यमृतं वा आज्यममृतमेवाऽऽत्मन्धत्ते - इति । हुत्वा प्रयताञ्जलिः कवातिर्यङ्ङग्निमभिमन्त्रयेत,-इति । सं मांऽऽसिञ्चन्तु मरुतः समिन्द्रः सं बृहस्पतिः । सं माऽयमग्निः सिञ्चत्वायुषा च बलेन चाऽऽयुष्मन्तं करोत मेति-, इति । प्रति हास्मै मरुतः प्राणान्दधति प्रतीन्द्रो वलं प्रति बृहस्पतिर्ब्रह्मवर्चसं प्रत्यग्निरितरः सर्वꣳ सर्वतनुर्भूत्वा सर्वमायुरेति, -इति ।
त्रिरभिमन्त्रयेत त्रिषत्या हि देवाः,-इति । योऽपूत इव मन्येत स इत्थं जुहुयादित्थमभिमन्त्रयेत पुनीत एवाऽऽत्मानमायुरेवाऽऽत्मन्धत्ते, -इति । वरो दक्षिणा वरेणैव वरम् स्पृणोत्यात्मा हि वरः (१), इति ।।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके द्वितीयप्रपाठकेऽष्टादशोऽनुवाकः ।। १८ ।।
2.19 अनुवाक १९
भूः प्रपद्ये भुवः प्रपद्ये स्वः प्रपद्ये भूर्भुवः स्वः प्रपद्ये ब्रह्म प्रपद्ये ब्रह्मकोशं प्रपद्येऽमृतं प्रपद्येऽमृतकोशं प्रपद्ये चतुर्जालं ब्रह्मक्रोशं यं मृत्युर्नावपश्यति तं प्रपद्ये देवान्प्रपद्ये देवपुरं प्रपद्ये परीवृतो वरीवृतो ब्रह्मणा वर्मणाऽहं तेजसा कश्यपस्य,-इति । यस्मै नमस्तच्छिरो धर्मो मूर्धानं ब्रह्मोत्तरा हनुर्यज्ञोऽधरा विष्णुर्हृदयꣳ संवत्सरः प्रजननमश्विनौ पूर्वपादावत्रिर्मध्यं मित्रावरुणावपरपादावग्निः पुच्छस्य प्रथमं काण्डं तत इन्द्रस्ततः प्रजापतिरभयं चतुर्थꣳ-, इति । स वा एष दिव्यः शाक्वरः शिशुमारस्तꣳ ह,-इति । य एवं वेदाप पुनर्मृत्युं जयति जयति स्वर्गं लोकं नाध्वनि प्रमीयते नाग्नौ प्रमीयते नाप्सु प्रमीयते नानपत्यः प्रमीयते लघ्वान्नो भवति,-इति । ध्रुवस्त्वमसि ध्रुवस्य क्षितमसि त्वं भूतानामधिपतिरसि त्वं भूतानाꣳ श्रेष्ठोऽसि त्वां भूतान्युपपर्यावर्तन्ते नमस्ते नमः सर्वं ते नो नमः शिशुकुमाराय नमः (१), इति ।।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके द्वितीयप्रपाठक एकोनविंशोऽनुवाकः ।। १९ ।।
2.20 अनुवाक २०
नमः प्राच्यै दिशे याश्च देवता एतस्यां प्रतिवसन्त्येताभ्यश्च नमः,-इति । नमो दक्षिणायै दिशे याश्च देवता एतस्यां प्रतिवसन्त्येताभ्यश्च नमो नमः प्रतीच्यै दिशे याश्च देवता एतस्यां प्रतिवसन्त्येताभ्यश्च नमो नम उदीच्यै दिशे याश्च देवता एतस्यां प्रतिवसन्त्येताभ्यश्च नमो नम ऊर्ध्वायै दिशे याश्च देवता एतस्यां प्रतिवसन्त्येताभ्यश्च नमो नमोऽधरायै दिशे याश्च देवता एतस्यां प्रतिवसन्त्येताभ्यश्च नमो नमोऽवान्तरायै दिशे याश्च देवता एतस्यां प्रतिवसन्त्येताभ्यश्च नमः,-इति । नमो गङ्गायमुनयोर्मध्ये ये वसन्ति ते मे प्रसन्नात्मानश्चिरं जीवितं वर्धयन्ति नमो गङ्गायमुनयोर्मुनिभ्यश्च नमो नमो गङ्गायमुनयोर्मुनिभ्यश्च नमः ( १), इति ।।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके द्वितीयप्रपाठके विंशोऽनुवाकः ।। २० ।।
सह रक्षाꣳसि यद्देवाः सप्तदश यददीव्यन्पञ्चदशाऽऽयुष्टे चतुस्त्रिशꣳशद्वैश्वानराय षड्विꣳशतिर्वातरशना ह कूश्माण्डैरजान्ह पञ्च व्रह्मयज्ञेन ग्रामे मध्यंदिने तस्य वै मेघस्तस्य वै द्वौ रिच्यते दुहे ह कतिधाऽवकीर्णी भूर्नमः प्राच्यं विꣳशतिः सह वातरशना ह दुहे ह चतुर्विꣳशशतिः ।। नमो ब्रह्मणे नमो अस्त्वग्नये नमः पृथिव्यै नम ओषधीभ्यः । नमो वाचे नमो वाचस्पतये नमो विष्णवे बृहते करोमि ।।
ॐ शान्तिः शान्तिः शान्तिः ।।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके द्वितीयः प्रपाठकः समाप्तः ।। २ ।।
अथ कृष्णयजुर्वेदीयतैत्तिरीयारण्यके तृतीयप्रपाठकस्याऽरम्भः ।
हरिः ॐ ।
तच्छं योरावृणीमहे । गातुं यज्ञाय । गातुं यज्ञपतये । दैवी स्वस्तिरस्तु नः । स्वस्तिर्मानुषेभ्यः । ऊर्ध्वं जिगातु भेषजम् । शं नो अस्तु द्विपदे । शं चतुष्पदे ।।
ॐ शान्तिः शान्तिः शान्तिः ।।