तिथिनिर्णयः

विकिस्रोतः तः
तिथिनिर्णयः
[[लेखकः :|]]


॥ श्रीः ॥

श्रीमदानन्दतीर्थभागवतत्पादप्रणीतसर्वमूलग्रन्थाः
------------------------------

तिथिनिर्णयः
॥ श्रीमद्धनुमद्भीममध्वान्तर्गतरामकृष्णवेदव्यासात्मकश्रीलक्ष्मीहयग्रीवाय नमः ॥

विष्णुं विश्वेश्वरं नत्वा (1)तदुपोषणशुद्धये ।
मूलग्रन्थानुसारेण क्रियते तिथिनिर्णयः ॥ 1 ॥

भूश्रीभिन्नाकिचिन्त्यो नात् (2)कल्यब्दात् कालवर्द्धितात् ।
गरुडध्येयवाक्याप्तं त्यक्त्वा सौरं वृथाफलम् ॥ 2 ॥

राशयाद्यं मद्ध्यमं कुर्याद् गोघ्नाद् धीसूनुनागजाः ।
कलास्त्यक्त्वा ध्रुवं कुर्याद् (3)देशाधारहरार्चकम् ॥ 3 ॥

अनन्तवृद्धाद् बौधाङ्गतुल्ये नेन्दुः शुकाहतात् ।
प्राज्ञाञ्जलिभृदाप्तोनस्तारशोभातिनाकिना(4) ॥ 4 ॥

(5)दिनेभ्यो रागरागाप्तश्चान्द्राच्चः (6)स्यान्निभाहरात् ।
जगत्सेनाङ्गलब्धोनः (7)श्रेष्ठचिन्त्योम्बुनार्चने ॥ 5 ॥

(8)लङ्कासाम्यादिरेखायाः पूर्वपश्चिमदेशयोः ।
ग्रहणां मद्ध्यसंस्कारलिप्ता ऋणधनं क्रमात् ॥ 6 ॥

पापघ्नादध्वसङ्ख्यानादर्क्कलब्धविलिप्तिकाः ।
(9)अर्क्कदोर्ज्योफलाच्छुद्धा यथार्के तत्फला तथा ॥ 7 ॥

अर्कदोर्ज्याफलाच्छुद्धात् यथऽर्के तत्फलात् तथा
(10)गोघ्नदिव्यप्रजाभ्यां च विलिप्ताश्चन्दनाब्जयोः ॥ 8 ॥

देशदोःशुद्धये दानक्ष्विष्णुद्यां स्युर्विलिप्तिकाः ।
उच्चं सूर्यस्य नियतं (11)दृष्टा स्त्रीभागराशयः ॥ 9 ॥

(12)शरीरनुत् धीभवनः कथञ्चनो नळीजनो मानपटुः (13)शुकालयः ।
निरामयो धीःपथिको (14)...बुधोनरः सुप्तपरः (15)कलाविराट् ॥ 10 ॥

महाशरो (16)दूरसरो (17)धमीहरिः हसन्धुरो वेदनगः सुसङ्कुलः ।
(18)तमःखगाः (19)पारबलं रसाबलं धनावलिः (20)कारभृगुर्जगद्भगः ॥ 11 ॥

इमाश्चतुर्विंशतिज्याः स्फुटत्वायार्कसोमयोः ।
चतुर्विंशतिवाक्यानि त्रिराशीनामिमान् विदुः ॥ 12 ॥

शुभाङ्गपरिमाणेन यदि ज्यार्द्धं न पूर्यते ।
वर्त्तमानज्यया हित्वा मुरारुफलसङ्ग्रहः ॥ 13 ॥

राशिचक्रं चतुष्पादयोजनोद्विपादयोः ।
अतीतानागतौ भागौ भुज इत्युच्यते बुधैः ॥ 14 ॥

सोच्चोनार्काब्जयोर्द्दोर्ज्यो गोसद्भ्यां (21)वर्द्धिताः क्रमात् ।
(22)अजलब्धकराः स्वस्वगोळयोः सऋणं धनम् ॥ 15 ॥

तदेकदिनगा लिप्ता ग्रहाणां स्वस्वभुक्तयः ।
(23)कल्यब्दौघो धेनुभवो युक्तः सौरैर्वृथाफलैः ।
एतस्मान्मापतेलब्धं राश्याद्यायनमुच्यते ॥ 16 ॥

प्रभारत्नं धीसवनं (24)गानस्थानं जनेन्धनम् ।
देहिनित्यं सुगप्रायं सावलोक्यं तटिद्वपुः ॥ 17 ॥

नवभार्येति वाक्यानि (25)ज्ञोऽनन्तोऋतुहारकः ।
तद्दोर्ज्यालिप्तिका भानौ (26)युक्त्वा त्यक्त्वाऽथ गोळयोः ॥ 18 ॥

अर्कपूज्यादिवाक्योक्तदोर्विलिप्ताश्चरोदिताः ।
(27)अर्कः पूज्यः सुधाकारो रतिक्रीडो नुतः प्रभुः ॥ 19 ॥

अलङ्कृष्णो हितोद्देशो गतिभूतः (28)स्मराजितः ।
शशिधातेति वाक्यानि ज्ञोनन्तोऽत्र तु हारकः ॥ 20 ॥

तदेकदिनगा लिप्ता ग्रहाणां स्वस्वभुक्तयः ।
चरार्द्धात् स्वस्वभुक्तिघ्नादनन्ताङ्गहृताः कलाः ।
ऋणं प्रातर्द्धनं सायमुत्तरे दक्षिणेऽन्यथा ॥ 21 ॥

देशान्तरदोर्विवरजसंस्कारविधिर्विधीयते मध्ये ।
चरदलसंस्कारविधिः स्फुटक्रियानन्तरं सद्भिः ॥ 22 ॥

सद्धिः चन्द्रात् पूर्वोक्तसंस्कारकृताद् दिनपतिं त्यजेत् ।
शेषं षष्ट्या घटीभिस्तु (29)विभज्याप्ता गता तिथिः ॥ 23 ॥

(30)वर्त्तमानद्वादशभिर्लिप्रिकाभिहरेत्तिथिम् ।
गातास्तु नाडिका ज्ञेयाः शिष्टा लिप्ताः प्रकीर्तिताः ॥ 24 ॥

एकाऽतिद्वादशीवृद्धौ नो चेद् वृद्धौ तु षोडश ।
द्व्येकलिप्ती समे ह्नासे चतुष्कादुत्तरं त्विदम् ॥ 25 ॥

अतिवृद्धावष्टयुगं वृद्धावष्ट समे चतुः ।
द्व्येकलिप्ती समे ह्नासे चतुष्कादुत्तरं त्विदम्(31) ॥ 26 ॥

(32)उदव्यव्यापिनी दर्शा पौर्ण्णमासी तु वाराहे इति विध्य ।
मद्ध्याहृनव्यापिनी श्रोणा उपोष्या विष्णुतत्परैः ॥ 27 ॥

(33)उपवासफलप्रेप्सुर्ज्जह्याद् भुक्तचतुष्टयम् ।
पूर्वापरे तु सायाह्ने सामयम्प्रतस्तु मद्ध्यमे ॥ 28 ॥

(34)कलार्द्धं द्वादशीं दृष्ट्वा निशीथादूर्ध्वमेव तु ।
आमद्ध्याह्नाः क्रियाः सर्वाः कर्त्तव्याः शम्भुशासनात् ॥ 29 ॥

॥ इति श्रीमदानन्दतीर्थभगवत्पादविरचितः (35)तिथिनिर्णयः समाप्तः ॥

F.N.

1. तदुपोषणसिद्धये (पा.)

2. कल्याहात् (पा.)

3. देशाधारहकार्पकम् (पा.)

4. नाकिनी (पा.)

5. दीनौघात् (पा.)

6. स्यान्निभाहतात् (पा.)

7. श्रेष्ठानोशरानये (पा.)

8. लङ्कास्वाम्यादिरेखायाः (पा.)

9. अर्क्कसेन्दोरनर्कघ्नात् सानुभूलब्धलिप्तिकाः (पा.)

10. गोघ्नाद् दिव्यप्रजाप्यां विलिप्ता लिप्ता इनाब्जयोः (पा.)

11. दुष्टा (पा.)

12. शरीरबुद्धिभवनः (पा.)

13. शुकालपः (पा.)

14. (नृपाधिको)(पा.)

15. कराविराट् (पा.)

16. दरसरो (पा.)

17. समीहरिः (पा.)

18. तमःसमः (पा.)

19. सारबलं (पा.)

20. कालभृगुर्जगद्भगः (पा.)

21. वर्जिताः ( पा.)

22. अजलब्धकलाः (पा.)

23. कल्यब्दाघो (पा.)

24. गाजस्थानाब्जरेधनम् (पा.)

25. ज्ञोऽनन्तोऽत्र तु हारकः (पा.)

26. त्यक्त्वा त्यक्त्वाऽथ ( पा.)

27. अर्कपूज्य सुधाकरः (पा.)

28. स्मर्दितः (पा.)

29. विभज्यास्मिन् हता इति (पा.)

30. वर्त्तमानां द्वादशभिर्लिप्तिकाभिर्हरेत् तिथिम् । (पा.)

31. अस्यार्थः कथ्यते पूर्वविद्वच्छिक्षानुसारतः ।
एकातिद्वादशीवृद्धो नो चिदित्येकवाक्यता ॥
वृद्धौ तु षोडशेत्येतदपरं तत्परं परम् ।
आदिपादस्यादिवाक्यं द्वितीयस्य द्वितीयकम् ॥
वाक्यं द्वितीयपद्येऽस्मन तृतीयस्य तृतीयकम् ।
षट्पञ्चघटिकावृद्धिरतिवृद्धिरिहोच्यते ॥
एकद्वित्र्यात्मिका वृद्धिः समवृद्धिरिति स्मृता ।
चतुष्कान्मूलवाक्योक्तघटिकानां चतुष्टयात् ॥
उत्तरं पूर्वकाले तु ज्ञेयेत्थं दशमी तिथिः ।
अतिवृद्धौ न चेत्साम्यवृद्धौ तद्वेधवर्जिता ॥
घटिकैका यदि भवेच्छुद्धा सा सकला तिथिः ॥
लिप्तिर्विघटिकाः पञ्चलिप्तयो द्वादशैव तु ॥
घटिकैकेति विज्ञेया ज्योतिःशास्त्राप्रमाणतः ।
पञ्चाशदुत्तरा षष्ठी घटिकैकाऽथ लिप्तयः ॥
चतस्रः पञ्चमीप्रान्तभागात्मकतया स्थिताः ।
एवं षोडश पूर्वोक्ता दशमीवेधवर्जिताः ॥
यदि स्युर्लिप्तियस्तर्हि शुद्धा सा सकला तिथिः ।
समे स्युर्लिप्तिकामात्रं ह्नाये त्वेकैव सा मता ॥
चतुष्कादुत्तरं त्वेतद्दशमीवेधवर्जनम् ।
महाह्नासेऽधिका शुद्विरल्पह्नासे तु विद्धता ॥
अपि स्यादिति सा शङ्का लिप्तिमात्रमशोधयत् ।
एवंसति तदाऽपयुक्ता लिप्तिरेका पराऽपि च ॥
ह्वासत्वावगतेरस्याः साम्यपक्षोपमैव हि ।
अतिवृद्धावष्टयुगमष्टद्वन्द्वं हि षोडश ॥
लिप्तयो वेधहीनाः स्युर्वृद्धौ सत्यां समे दिने ।
सति साम्ये न वृद्धिश्चेदिति यावत्तदष्टकम् ॥
चतुष्टयं च लिप्तीनामेवं द्वादशं लिप्तयः ।
धटिकैका भवेत्सर्वा दशमीवेधवर्जिता ॥
अन्यत्स्पष्टं लिप्तिमात्राश्रयाच्छलोकोऽयमुत्तरः ।
इति श्रीमध्वकृपया हयग्रीवस्य किङ्करः ।
एकादशीं निर्णिनाय वादराजो यतिः स्फुटम् ॥
-इति श्रीवादीराजतीर्थश्रीचरणविरचित-एकादशीनिर्णये 42-55

32. वाराहे इति श्रीविद्याधीशतीर्थकृततिथिनिर्णये; भविष्यत्पुराणे इति स्मृतिमुक्तावल्याम् ।

33. स्कन्दे इति स्मृतिमुक्तावल्याम्; विष्णुभक्तिचन्द्रोदये च । -पाद्मे च

34. स्कान्दे इति स्मृतिमुक्तावल्यां दिनत्रयमीमांसायां च ।

35. श्रीब्रह्मेशवन्द्याय ज्योतिश्चक्रप्रवर्तिने ।
वेदव्यासस्वरूपाय श्रीनिवासाय ते नमः ॥
आनन्दतीर्थगुरवे हनूमद्भीमरूपिणे ॥
स्वभक्तेभ्यो ज्ञानदात्रे भविष्यद्ब्रह्मणे नमः ॥...
रामपूजाकरान्नित्यं गुरुपादप्रपूजकान् ।
सत्यविजयतीर्थाख्यान् प्रपद्ये ज्ञानसिद्धये ॥
आनन्दतीर्थमुखान्निसृतः तिथिनिर्णयः ।
तस्य व्याख्या यथाबोधं करिष्ये तत्कृपाबलात् ॥
सर्वत्र पुस्तकाभावात् पारम्पर्येण लेखनात् ।
इह दोषो नास्ति यतस्ततः क्षाम्यन्तु सज्जनाः ॥
यतिना वटुना चैव स्वप्नेऽहं बोधितो यतः ।
ततो मया कृता टीका भूयात्प्रीत्यै तयोरलम् ॥
-इति श्रीसत्यविजयतीर्थश्रीचरणशिष्यमधुसूदनभिक्षुविरचिते तिथिनिर्णयव्याख्याने

"https://sa.wikisource.org/w/index.php?title=तिथिनिर्णयः&oldid=399700" इत्यस्माद् प्रतिप्राप्तम्