ताराशशाङ्कम्

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
ताराशशाङ्कम्
श्रीकृष्णकविः
१९३७

ताराशशाङ्कम् । नारायणसूनुश्रीकृष्णकविप्रणीतं ताराशशाङ्कम् । चञ्चच्चन्द्रमरीचिभिश्चकचकचूडं चलल्लोचना- चारुस्मेरकुचोपभोगघुसृणन्यालिप्तवक्षःस्थलम् । बिभ्राणं धनुरैक्षवं सृणिगुणौ पौष्पं शरं चोदय- त्सूर्यांशुप्रकरद्युतिं गणपतिं वन्दे जगन्मोहनम् ॥ १ ॥ दारुकावनविलोललोचनोदारकामकलनैककौतुकम् । कामिनीकलितवामभागकं वामदेवमनिशं श्रयामहे ॥२॥ राधापयोधरतटीपटुचित्रकार- पाणिं नखांशुचयकन्दलिताग्रवेणुम् । वन्दे कलिन्दतनयाजलकेलिलोल- गोपालिकावसनचौर्यपरं किशोरम् ॥ ३ ॥ श्रुतिपरिसरगुञ्जिह्वम्भरीशिञ्जिनीकं मधुरिमनिधिचापं सौरभाधाररोपम् । दधदरुणिमसंपत्कोषमुन्मादितेशं सुखयतु मम भावं धाम शृङ्गारदेवम् ॥ ४ ॥ ताराधीशरुचिः सेयं तारा जयति संततम् । यद्विभूतिः सरसतां पदेषु तनुते कवेः ॥ ५ ॥ वाञ्छन्नपि कविकीर्ति लोकानां लालनीय एव स्याम् । लोके न हासहेतुश्चन्द्रकलाग्रहणचापलं हि शिशोः ॥ ६ ॥ कृतिर्मम नवीनापि कमनीया भवेदियम् । अप्रौढिमा नवोढेव रसिकानां कलाविदाम् ॥ ७ ॥ १. 'स्वाहासुधाकरप्रबन्ध कर्तुरेव नारायणस्यायं सूनुरिति भाति. २, भ्रम- रीमौर्वाकम्. ३. इक्षुचापम्. ४, पुष्पबाणम्. काव्यमाला। दोषान्निरस्य गृह्णन्तु गुणमस्या मनीषिणः । पांसूनपास्य मञ्जर्या मकरन्दमिवालयः ॥ ८॥ कलशजलधिगेहस्याक्षि यं वाममाहुः प्रथमरसविकासप्रौढिमश्रीनिवासम् । स जयति जगदेकानन्दनोद्दामधामा सकलविभवभूमा देवतासार्वभौमः ॥ ९ ॥ अयं सखायं मम चिन्त्यकायं चकार घोरेक्षणवीक्षणेन । इतीव रोषेण शिरः पुरारेराक्रम्य यो भातितरां कलात्मा ॥१०॥ कुमुदवलयव्यालोलश्रीविलाससुधासरि- द्भ्रमकरकरश्रीकाद्राकाङ्गनासुमकन्दुकात् । अविरहयुवश्रेणीसाम्राज्यसौख्यसुरद्रुमा- त्रिजगति यतो निर्वर्ण्यं वा न वर्ण्यमवेक्ष्यते ॥ ११ ॥ सुरासुरशिरोरत्ननीराजितपदाम्बुजः । स राजसूयं सद्राजो विधातुमुपचक्रमे ॥ १२ ॥ अतिविचित्रतदुत्सववीक्षणोत्सुकहृदः ससतीसुतबान्धवाः । सुरनरोरगलोकनिवासिनः सरयमभ्यगमन्सकला जनाः ॥ १३ ॥ वाणीपाण्याचञ्चव्द्यजनभवमरुन्मृष्टहोमश्रमाम्बौ दिक्कान्तालोचनान्तप्रसृमरसहजप्रेमसाम्राज्यधाम्नि । तस्मिन्सौन्दर्यमन्दीकृतमदनमदनाभवे श्रीसनाभौ सर्वासामङ्गनानां सपदि समपतन्दृष्टयः कामकृष्टाः ॥ १४ ॥ स एव जानाति विलासिनीनां कटाक्षतैक्ष्ण्यं कमनीयमूर्तिः । योऽयं कलङ्कीत्यधुनापि लोकैरालोक्यते तेन गृहीतसारः ॥१५॥ १. दुग्धाब्धिशायिनो विष्णोर्वामनेत्रं चन्द्रम्. २. शृङ्गारः, ताराशशाङ्कम् । ७३ विस्मयस्तिमितनेत्रतारकं विस्मयस्फुरणपक्ष्म काचन । वीक्षते स्म तमतिस्मराकृतिं लक्ष्यसाधनमिवानुकुर्वती ॥ १६ ॥ निमिषद्भिरुन्मिषद्भिस्त्रपया कुतुकेन विकसितानङ्गैः । लावण्यनिधिमपाङ्गैस्तमापिबन्तीव कापि बभौ ॥ १७ ॥ अहो लक्ष्मीरहो रूपमहो लक्षणशालिता। अहो दाक्षायणीपुण्यमिति काचित्समालपत् ॥ १८ ॥ काचिदन्तःप्ररूढस्य कुतूहलमहीरुहः । कुसुमेनोद्भतेनेव स्मितेनाकलिता बभौ ॥ १९ ॥ अर्पयैतमधरं मधुरं ते मत्सखाय शशिने सहसेति । अन्तरङ्गजनुषोन्नमितास्येवोन्मुखी गगनमैक्षत कापि ॥ २० ॥ चकिता मृगीव काचिच्चलनयना वक्रिताननोद्रीवा । व्यलसत्परुषतरस्मरशरागमायनमवेक्षमाणेव ॥२१॥ रेजे काप्यङ्गभङ्गप्रसृतभुजलतालिङ्गितुं संप्रवृत्ते- वैका किंवापि वक्तुं चलितरदपटी चुम्बितुं प्रोद्यतेव । अन्या रोमाञ्चिताङ्गी बहिरिव विगलत्प्रौढमानान्धकारा- प्यन्योद्यन्मन्दहासा विमलरुचि किरन्तीव संमोहचूर्णम् ॥२२॥ निमीलन्निःश्वासा निमिषदरविन्दाभवदना तिरो मीलन्नेत्रा तनुजलकणालंकृततनुः । उदञ्चद्रोमाञ्चा व्यलसदपरिस्पन्दसकल- प्रतीका काप्यन्तःकरणरतितान्तेव तरुणी ॥ २३ ॥ अपसरापसरेति पुरः स्थितं जनमिव ब्रुवती करकम्पितैः । अनुचकार लतामनिलोच्चलत्किसलयामपरा चपलेक्षणा ॥ २४ ॥ काव्यमाला। अयं किल भयंकरं त्रिभुवनासुवातंधयं ससर्ज पुरुषं विषं तदिति पुष्कराक्षो रुषा । चकर्ष कैलशोदधेः सकलभाग्यसारं श्रिया सहामुमिति काचिदन्वलपदेणशावेक्षणा ॥ २५ ॥ काचित्तं हृदयंगमं मनसिजप्रेम्णेव संभावय- न्त्युद्यत्केलिमनोरथोत्सवरसोल्लासा बभासे क्षणम् । सव्रीडेव सकौतुकेव चकितेवाह्लादिनीवोन्मदा संभ्रान्तेव च कोपना व्यसनिनीवानन्दसान्द्रेव च ।। २६ परपुरुषमुखं न वीक्षणीयं कुलभवयेति विचिन्तयामि भूयः । घटयितुमपि पक्ष्म नैव शक्नोम्यहह किमेतदिति स वक्ति कापि ॥२७ किं पश्यामि किमालपामि किमहं ध्यायामि किं चिन्तये किं वाच्छामि वितर्कयामि किमु किं तिष्ठामि कुर्वे च किम् । इत्याकृप्तविकल्पजल्पितशता काचित्कुचोज्जृम्भणा- त्रुट्यन्तीमपि कञ्चुलीं विगलितां नीवी च नावैक्षत ॥ २८ दग्धो मारस्त्रिपुररिपुणेत्यद्य मिथ्या विजाना- म्येतं पश्यन्त्यहमिति सखीं काचिदूचे ब्रुवाणाम् । मुग्धे किं त्वं भ्रमसि स तनुं तस्य हुत्वाक्षिवह्नौ लेभे तस्याप्यतिमदकरश्रीकमेतच्छरीरम् ॥ २९ ॥ अयं नात्रेः पुत्रो नयनमलजातस्य नु कथं भवेल्लावण्यश्रीरियमनुपमा सोऽयमथवा । तपःशक्त्या तेजोनिधिमपि दृगुल्लासकममुं ससर्जार्कं गर्वं तिरयितुमिति स्माह च परा ॥३०॥ १. लोकत्रयप्राणहरम्. २. विष्णुः. ३. क्षीरसागरात्. ताराशशाङ्कम् । ७५ यदा सुमशरः शरं समसृजत्तदा पार्वतीं मनस्यकलयत्परं पुररिपुर्यदासौ शिरः । रुरोह विरहागमव्यसनतस्तदायेकतां तया स विषमेक्षणोऽप्यलभतेति काप्यालपत् ॥३१॥ अत्रेः क्व शक्तिरपि तस्य पितुर्नहीदृ- गाश्चर्यवस्तुकलनेष्विति चिन्तयन्ती । कस्माद्भ्रमामि मनसोऽभवदेष विष्णो- रित्याह नु श्रुतिरितीव जगाद कापि ॥ ३२ ॥ एवं स्मरेणाकुलितासु तासु व्यालोलदृष्टेरुडुनायकस्य । तस्यापि सांक्रामिकबद्बभूव स्मारो विकारः करणापहारी || ३३ ॥ परा लक्ष्मीरेषा प्रथमरसवेणीयमतनो- रियं संपद्यूनामियमपि तपःसंततिफलम् । इयं देवी वात्स्यायनमुनिमतस्येति स तत- स्ततस्तास्ताः पश्यन्किमपि परमं प्रैक्षत महः ॥ ३४॥ किमेतदित्याकुलितान्तरात्मा विमृज्य नेत्रे मुहुरीक्षमाणः। तदन्तरे मानुषरूपमेकं ददर्श नारीत्यपि निश्चिकाय ॥ ३५ ॥ श्यामामुन्मुस्वजानुसंगतभुजं सरव्यङ्गदेशोल्लस- ज्जान्वध्यासितकूर्परं करतलन्यस्तैकगण्डस्थलम् । आसीनां स्खलितांशुकान्तविकसद्वक्षोरुहां वीक्ष्य तां मायामेव मनोहराकृतिधरां मेने स मैनध्वजीम् ।। ३६ ॥ पुनः स रम्भा किमुतोर्वशीयं तिलोत्तमा गौतमसुन्दरी वा । रतिर्नु वाणी गिरिजा रमेति विचार्य वेत्ति स चिराय ताराम् ॥ ३७॥ तस्या गुरुनितम्बिन्या लावण्यं रमणीयताम् । सौन्दर्यमपि संपश्यन्स एवं हृदयेऽकरोत् ॥ ३८ ॥ काव्यमाला। अहह महल्लावण्यं मोहनमूतैर्यतो दृगङ्गेऽस्याः । यत्नेनैव विधेया रत्ने स्निग्धे शलाकेव ।। ३९ ॥ नूनमालोक्य कान्तायाः कान्तिमस्यास्तडिल्लता । लज्जिता जातमात्रैव तत्र तत्र विलीयते ॥ ४०॥ को नाम रामणीयकमेतस्या वर्णयेत्कविर्लोके । एकैकमपि यदङ्गं न विमुञ्चत्यन्यतो दृशं प्राप्ताम् ॥ ४१ ॥ सृष्ट्वा प्रथममहल्यां तिलोत्तमामपि विधिः कृताभ्यासः । एतां ससर्ज नूनं नो चेत्कथमङ्गसौष्ठवमियत्स्यात् ।। ४२ ।। तिरश्चां नो लज्जेत्यभिदधति मिथ्यैव विबुधा- श्चमयों यदृष्ट्वा कचनिचयमस्या वनमगुः । दृशं दृष्ट्वा प्राणेष्वपि विगततृष्णैरविरतं चकोरैरङ्गारग्रसननियमः सोऽपि विधृतः ॥ ४३ ।। श्रुत्वास्या वचनं वनप्रियतया ख्याताः पिका भैव भू- त्खीयानां कलकण्ठतेति करटैः संरक्षयन्ते शिशून् । आस्तामेतदचेतना अपि दिवारात्रं यदालाबुकं धृत्वा पात्रमहो भ्रमन्ति भुवने वीणा विरक्ता इव ॥ ४४ ॥ मृत्वा जितं मनसिजेन मम प्रियैव यः सुन्दरीति भुवनेषु ववल्ग हप्तः । दृष्ट्वाथवा स्त्रियमिमां निपपात भाल- वह्नौ हरस्य सुरकार्यचिकीर्षयेव ॥ ४५ ॥ मनोजेऽनङ्गे तत्करसरसिजानाश्रयशुचा द्विधा जातं चापं यदपि बहुधा तस्य विशिखाः। अमुष्याः संप्राप्य भ्रुकुटिकुटिलापाङ्गरुचितां विवल्गन्त्येते ते सकलजनसंमोहनचणाः ॥ ४६॥ ताराशशाङ्कम् । अस्या मुखेन चलकुन्तललाञ्छितेन मुग्धस्मितेन समतामधिगन्तुमेव । पाथोरुहं परिचयं कुरुते मिलिन्दै- र्हंसार्भकं च वदनेन मुहुर्दधाति ॥ ४७ ॥ कुचावमुष्याः स्मरकुम्भिकुम्भौ न वेद को नाम यतः समीपे । नलित्रयाकल्पितमुष्टिमुद्रा तनूरुहश्रेणिसृणिर्विभाति ॥ ४८ ॥ नामैव न स्यादसतः सतो न स्याददर्शनम् । ब्रह्मेव तत एतस्या वलग्नं वेद्म्यगोचरम् ॥ १९ ॥ सकलभुवनमोहनस्य केलीसदनमिति ब्रुवते यदङ्गजस्य । जधनमिदमृतं मनो विमूढं न पुनरतो विनिवर्तते यतो मे ॥५०॥ तारुण्याङ्कुरवृद्धये मनसिजः सीमन्तकुल्यामुखे लावण्याम्बुमवायज्झरमहो तेनालकान्पार्श्वयोः । कृत्वाधिक्यमितस्ततो विकृषता वक्षोजशैलाग्रतो वेगेनापतता निखातमुदरं श्रोणीभरश्चैधितः ॥ ५१॥ अंशैरियमभून्नूनमिन्दिरापार्वतीगिराम् । यदङ्गेष्वपि सर्वेषु सौन्दर्यसुषमा समा ॥ ५२ ॥ अस्यां ममेव हृदयं मयि नूनमस्याः सक्तं स्मितेन लसितं चलितं कटाक्षैः । उन्मीलितं कररुहैः स्फुरितं करेण खिन्नं हृदा समुदितं हि मनोरथैश्च ॥ ५३ ॥ अतः परमहो सौख्यमैहिकं किमु देहिनाम् । अकृत्रिमतमप्रेमरमणीसंगमादपि ॥ ५४ ।। शृङ्गारो हि रसो मरुन्मलयभूर्मल्लीप्रसूनं वय- स्तारुण्यं समयो मधुर्मनसिजो मित्रं सहायो मनः । काव्यमाला। उत्साहो बलमङ्गना सहृदया दूतः सहासेक्षणं सारल्यं च गुणो रतिर्विहरणं सौख्यं तदैक्यं परम् ॥ ५५ ॥ सन्तु खैरविहारसौभगभुवो वाराङ्गना निर्भर- ब्रीडाविभ्रमबल्गुवल्पितरसाः स्वियाः सुरूपा अपि । निर्व्याजप्रणयानुरागविकसद्वक्षोरुहालिङ्गनै- लोंके का नु पराङ्गनेव सरसं प्रेयांसमुल्लासयेत् ॥ ५६ ॥ निन्दन्तु सुमनसो वा कुर्वन्तु कुलाद्बहिर्वा माम् । सहृदयया परमनया सह वस्तव्यं क्षणं वापि ॥ ५७ ।। योगे भोगेऽपि सक्तानां वस्तुना हृद्गतेन यत् । अद्वैत तत्परानन्दसाभ्राज्यं सुधियो विदुः ॥ ५८ ।। एवं विचिन्तयन्नेव सवनं तत्समापयन् । स दक्षिणीकृतक्षोणीवलयः कमलानुजः ॥ ५९ ॥ अभूदवभृथस्नानं यत्स एव सुधारुचेः । स्मारदीक्षाभिषेकोऽभूत्तारासंसक्तचेतसः ।। ६० ॥ ताराविधू सहृदयावपि मन्मथार्तौ ज्ञातेङ्गितौ सहसितेक्षणविभ्रमेण । तौ नूतनाभिसरणत्रपितान्तरङ्गौ मुग्धाविव प्रभवतः स्म न चोपसर्तुम् ॥ ११ ॥ क्वचन संगतयोर्विजने तयोः कुतुकिनोरपि च त्रपितात्मनोः । हृदयहारि बभूव परस्परं सहसितं क्षणभीक्षणवल्गितम् ॥ ६२ ॥ अन्योन्यवीक्षणपदं मुहुरीक्षमाणौ साकूतमन्न किमितीव ततस्ततस्तौ १. यज्ञम्. ताराशशाङ्कम् । अन्योन्यमीक्षणकलामिव शिक्षयन्तौ ताराविधू व्यलसतां क्षणमात्तलज्जौ ।। ६३ ॥ यदा मदनमार्गणत्रुटितमानबन्धादिव त्रपा हृदयतच्युता निभृतकौतुकोजृम्भणात् । अकम्पत करस्तदा पुलकितः कपोलस्तयो- स्तनुः श्रमजलाङ्किता स्तिमिततारका दृग्बभौ ॥ ६४ ॥ प्रसारय दयामयं मयि कटाक्षमित्याकुलं वदन्गुरुनितम्बिनीमुपससार चन्द्रो यदा । शनैर्गललसत्पदं किमिदमाचरस्यङ्गज- प्रियेति बहुशो वदन्त्यपससार सा कामिनी ।। ६५॥ सरयमपसरन्तीं तां परित्यागशङ्का- कुलमिव पदयोर्यत्प्राग्रहीदन्तरीयम् । स्मरसुहृदपि तेन व्याहरन्तीं च मा मे- त्यमनुत निजचेतःकामनाकल्पवल्लीम् ॥ ६६ ॥ मम दयस्व विलासवतीत्ययं चिबुकसीम्नि चकार करं यदा । त्यजति मामिति रोषवशेन तन्मुखमवक्रयदीषदिव त्रपा ।। ६७ ॥ यदुपविवेश सा दलितकञ्चुलिकाविगल- न्मणिरशनावलग्नकरमीषदपत्रपिता। तदुपदिदेश कामसुहृदे किल कामकलां परवनितारतिक्रमविलासविबोधकरीम् ॥ ६८ ॥ ताराधरसुधासारहारी सोऽयं सुधामयः । अभूदन्नानुरूपा हि तनुरूपविवृद्धयः ॥ ६९॥ १. संगद्गदस्वरं यथा स्यात् . ८० काव्यमाला। दयिताकुचपक्षपातिता परमिन्दोरिति मन्महे वयम् । अधुनापि रथाङ्गपक्षिणौ यदयं तत्सदृशौ विबाधते ॥ ७० ॥ अमन्दानन्दश्रीकरणमुदयच्चाटुवचसो- स्तयोः किंवाप्यासीदसमशरलक्ष्मीविलसनम् । अनिर्वाच्यं कन्याजननयनकौतूहलपदं यदाहुर्घिराणामपि हृदयचापल्यजननम् ॥ ७१ ॥ किमतः परं विचित्रं यदिन्दुनिकटेऽन्धकारमुल्ललति । वल्गति रथाङ्गयुग्मं कुवलयमपि मीलितुं यतते ॥ ७२ ॥ नीलोत्पले वा भ्रमरी तिरो भवेत्पाथोरुहे वापि मरालशावकः । यदेतयोर्मीलनमेकदा भवत्यदस्तु मायां मदनस्य मन्महे ॥ ७३ ॥ को नाम रतिसौख्यं तद्वर्णयेन्मतिमानपि । भवन्ति यत्रोल्लासाय नखदन्तक्षतान्यपि ॥ ७४ ॥ क्वचिद्रम्ये हर्म्ये कचिदपि नदीकूलपुलिने क्वचिन्मञ्जौ कुञ्जे कचिदुपवने मन्दपवने । क्वचिल्लीलाशैले सरसतरसालेऽपि स तया समं सीमन्तिन्या व्यहरदसमश्रीरहरहः ॥ ७५ ॥ तारानुगाः काश्चिदमर्त्यमर्त्य भोगिस्त्रियो भोगरतान्तरङ्गाः। संगत्य ताभी रमते स्म नित्यं कृष्णो यथा गोकुलसुन्दरीभिः ॥ ७६ ॥ योगमार्गप्रवृत्तस्य सुषम्णा नाडिकास्विव । तासु मुख्याभवचारा तस्य भोगरतात्मनः ॥ ७७ ॥ तत्पतीनुपचरन्निव यात श्वः परश्व इति वारयति स्म । स्वां पुरीं जिगमिषून्मधुरोक्त्या सोऽयमङ्गजविलासरतात्मा ॥ ७८ ॥ ताराशशाङ्कम् । राज्ञि सर्वानुकूलेऽपि बाहुल्येन मृगीदृशाम् । सापत्र्यकलहः प्रादुरासीदैकान्त्यवातुकः ॥ ७९ ॥ स्पष्टे किंचित्तदा चौर्ये कामिन्योऽपि यथापुरम् । न शेकुरभिसर्तुं तं चिन्तासंतानयन्त्रिताः ॥ ८०॥ असन्तः कं नु निन्दन्ति सन्तो निन्दन्ति कं पुनः । नूनं रन्तव्यमित्येव काश्चिन्न तममूमुचन् ॥ ८१ ॥ ताराविरहितस्यासन्नन्या नानन्दहेतवः । तस्य लक्ष्मीवियुक्तस्य राज्ञः प्रकृतयो यथा ॥ ८२ ॥ कस्य नाम सुखाय स्यादनेकरमणीकता । तस्य राज्ञोऽपि यचित्तवैक्लव्यमुदपादयत् ।। ८३ ॥ केचिच्चन्द्रं निनिन्दुः कतिचन वनिताः केऽपि शेपुस्तदानीं जेपुः केऽप्याभिचारं मनुशतमसृजन्केऽपि कृत्याः करालाः। तस्मिंस्तेजखिनीदं सकलमपि मुघाभूतमालोक्य दिष्टं जानन्तः केऽपि दुष्टं सह युवतिजनैर्निर्ययुः स्वस्वलोकान् ॥ ८॥ यातासु तासु वनितासु ततः क्रमेण लीलास्थलानि चरितानि च तानि तानि । दृष्ट्वा विचिन्त्य विमना विललाप शश्व- त्ताराविलासरसिकः स सखा स्मरस्य ॥ ८५ ॥ एतत्तदेव भवनं वनमेतदेव शैलोऽप्ययं कुसुमराशिरयं निकुञ्जः। सौधोऽप्यसौ किमु न भान्ति विशोचयन्ति सर्वेऽप्यहो विरहितं प्रियया तयाद्य ॥ ८६ ।। १. चन्द्रे. चतु ६चतु ८२ काव्यमाला। दिशि दिशि नलिनाक्षि लक्ष्यसे त्वं तदपि न मोदयसे मनो मदीयम् । प्रकटयति किमङ्गजः स्वमायामयि हृदयं मम मुह्यति प्रकामम् ॥८७॥ प्रियजनविरहादप्यस्ति दुःखं किमन्य- अयमपि भुवनानां नूनवद्भाति यत्र । किमु हृदयविकारश्चाक्षुषं चापि जाड्यं जगदिदमखिलं वा शून्यतामेत्यकाण्डे ॥ ८८ ॥ वपुरतिकृशमस्तु बाष्पधाराविलमधुनाक्षि तदङ्गसङ्गहीनम् । हृदयदयितया तया क्षणं वा नहि विरहस्तव खिद्यसे किमर्थम् ।। ८९ ॥ इदानीमप्यने मम विचलतीव प्रतिपदो- चलच्चेलप्रान्ता चरणकटकोदारनिनदैः । मरालानाकर्षन्त्यनुपदमुदञ्चत्कुचतटी- पटाकृष्टिक्रीडाविचलितकरा सा स्मितमुखी ।। ९० अद्याप्युल्लसतीव सा मम पुरः पाञ्चालिकेव स्थिता द्वारे केलिनिकेतनस्य कटिविन्यस्तैकहस्ताम्बुजा । अन्येनाददती करेण करतः सख्याः शनैवींटिकां पश्यन्ती मम मार्गमेव विलसन्नीलोत्पलाभेक्षणा ॥ ९१ ॥ अद्यापि मामिव समेति विलासिनी सा माद्यन्मरालमदहारिगतिमंगाक्षी । आच्छादयन्त्यनुपदं च विजृम्भमाणं वक्षोजमंशुकसमीकरणच्छलेन ॥ ९२ ।। अद्यापि प्रविलसतीव मे पुरस्तात्तन्वङ्गी धनकुचभारसंनताङ्गी । वीटी मे सकुतुकमर्पयन्त्युदारमेरास्या दरचलितप्रवालपाणिः ।। ९३ ॥ अधुनापि धुनातीव करं मम कुचस्पृशम् । करेण कङ्कणक्काणकैतवान्मेऽतिशंसता ॥ ९४ ॥ ताराशशाकम् । अद्यापि मामिव परिष्वजतेऽतिवेल- कौतूहलत्रुटितकञ्चकसंधिबन्धा । काञ्चीलतां विगलितामपि नेक्षमाणा मल्ली रसालमिव सा मधुरस्मितास्या ॥ ९५ ।। अद्यापि चिकुरभारप्रचलन्मल्लीमरन्दधाराभिः । अभिषिञ्चतीव सा मां कामकलोल्लाससौरव्यसाम्राज्ये ॥ ९६ ! अद्याप्यग्रे मम विलसत्तीवानिशं सा रतान्त- श्रान्ता कान्ता लुलितकबरीभारचञ्चत्करान्ता । स्वेदार्द्रेण प्रविशदरुचा वाससोल्लासिताङ्गी सद्यो दुग्धाम्बुधिसमुदिता श्रीरिव स्वर्णगौरी ।। ९७ ।। इतः परं च किं दुःखं कामुकस्य न यत्प्रिया । लक्ष्यते नयनोन्मेषे लभ्यते करवल्पिते ॥ ९८॥ तच्चिन्तयामि परिषत्सु पराङ्गनानां सभ्रूविलासमलसैर्वलितैरपाङ्गैः । कंदर्पकार्मुकलतोत्पतितरिवास्त्रै- र्धैर्यं ममापचिनुते स्म हसन्मुखी सा ॥ ९९ ।। तच्चिन्तयामि चिबुकाकलिताङ्गुलिभ्रू- भङ्गाभिरामदरवक्रितवक्त्रमक्ष्णा । संभाव्य मां मनसि पूर्णमनोरथा सा चित्रार्पितेव यदभात्पुलकाचिताङ्गी ।। १००॥ तच्चिन्तयामि मयि चञ्चदपाङ्गमङ्ग- भङ्गोन्नमद्भुजशिरःस्खलदंशुकान्तम् । जृम्भाविरामविकलोक्त्यवदद्रुजेव कान्ते क्षणं कुरु कृपामिति सा यदालीम् ॥ १०१॥ ८४ काव्यमाला । तच्चिन्तयामि रहसि खयमन्तिकं मे प्राप्तापि यन्मम कर चिबुकाग्रलोलम् । मा मेति वल्गु निगदन्त्यरुणप्रकम्प्र- हस्तादृतत्रुटितकञ्चुकनीविबन्धा ॥ १०२ ॥ तच्चिन्तयामि गुरुसाध्वसलोलनेत्र- मुद्यत्रपास्खलितचाटुनिषेधवाक्यम् । ईषत्पराकृतदुकूलमनङ्गचौर्य- विक्रीडितं किमपि भोगिकुलैकभाग्यम् ॥ १०३ ॥ तच्चिन्तयामि सदनं मम सा समाया- न्त्येकाकिनी क चलसीत्यनुयुञ्जता यत् । लीलाशुकेन मृदु लापयति स्म तारा कान्तस्य संनिधिमितीव सयुक्ति भीरुः ॥ १०४॥ तच्चिन्तयामि सततं मयि चूचुकाग्र- चञ्चत्करे पुलकधर्मजलाचिताङ्गी । यत्वाम्बरं विगलदप्यनवेक्षमाणा मञ्चे न्यषीददचिरं विनिमीलिताक्षी ॥ १०५ ।। तञ्चिन्तयामि निजपाणिनखाग्रकान्ति- संछादिते जघनधानि हृतान्तरीये। मामंशुकापनयनाय पुनश्चलाग्र- हस्तं विलोक्य हसितं दरमीलिताक्ष्या ॥ १०६ ।। तच्चिन्तयामि सततं चरितं मनखि- सायुज्यसंपदयनं वचसामभूमिम् । यत्तत्त्वमक्षिपरिपीतमनोजसारो वेत्त्येक एव वनितायितवाममूर्तिः ॥ १०७ ॥ ताराशशाङ्कम् । तच्चिन्तयामि मयि केलिकृतापराधे व्यर्थाशयेऽपि कपटेन निमीलिताक्षे । ईषद्विवृत्य शनकैरधरं ममाशु संदर्श्य यन्निववृते विकसन्मुखी सा ॥ १०८॥ तच्चिन्तयामि सततं शयिता समीपे- ऽप्याकाङ्क्षितार्थसफलीकरणासमर्था । अर्धोन्मिषन्नयनमाननमादरान्मे पश्यन्त्यभाद्विवशितेव यदङ्गजेन ॥ १०९ ॥ तच्चिन्तयामि मनसि स्मितदीपशोभा शोभायमानधनपुष्पकपोलरङ्गम् । उच्चिक्रविभ्रममुदञ्चितकण्ठनाद- मुल्लासकं किमपि कर्णमणीप्रवृत्तम् (?) ॥ १०७ ॥ तच्चिन्तयामि गतमोहमदुःखगन्ध- मन्तर्गतश्वसितमुज्झितनादरूपम् । तत्पूर्वमेव निमिषन्नयनच्छदार्ध- लीनालिकं किमपि कामिकुलैकसौख्यम् ॥ १११ ।। तच्चिन्तयामि सुरतान्तनितान्ततान्त- मास्यान्तरे विनिहितं मम कान्तकान्तम् । यद्विस्मृतस्मितमपि स्फुटतालुगर्भ- ताम्बूलमङ्कुरितहासमिवाननाव्जम् ।। ११२ ॥ तच्चिन्तयामि निजभर्तृसमागमोक्ति- माकर्ण्य पान्थमुखतः परुषां मृगाक्षी। निःश्वस्य दीर्घमसुमारुतमुच्चलन्तं संरुन्धतीव हृदये विदधे करं सा काव्यमाला तच्चिन्तयामि हृदि लग्नमिवोग्रशल्यं तेन द्विजन्महतकेन विनीयमाना । मामश्रुकोरकितपक्ष्मदृशा निरीक्ष्य व्योम्नि व्यकल्पयत यज्जलदश्रियं सा ॥ ११४ ।। इति स्मारं स्मारं बहुविधमुदञ्चजलकणां दृशं वारं वारं दिशि दिशि विवृण्वन्विकलधीः । मुहुर्ध्यायं ध्यायं पुर इव चरन्तीं तत इतः पुनर्भ्रामं भ्रामं व्यलसदसमोन्माद इव सः ॥ ११५ ॥ तारापि नाकं प्रययौ कथंचिद्देशान्तरावासगदातुरेव । श्लथस्तनी क्षामकपोलभागा पाण्ड्युतिश्चन्द्रवियोगखिन्ना ॥ ११६ ॥ तां वेपमानां परिशुष्कवक्रां खिद्यत्तनुं निःश्वसतीं निकामम् । मार्गश्रमेणाकुलितां विदित्वा देस्रौ गुरुः पश्यतमित्युवाच ॥ ११७ ॥ नाडीषु विस्फुरति धर्म तनौ च वायु- श्चिह्नं शरीरजगदोऽयमवाच्यरीतिः । स्वैरस्थितेरुपशमोऽस्य भवेदितीय व्यालोक्य तां जगदतुर्भिषजौ सुराणाम् ॥ ११८ ।। दलति द्विधा न हृदयं भवत्यहो ज्वलति स्फुटं न वपुरेति भस्मताम् । भ्रमतीव दृग्विगलतीव चेतना जगदद्य शून्यमिति सालपन्मुहुः ११९ क्षणमिव पुरः स्थितं तं समीक्ष्यमाणापि सान्द्रमन्दाक्षा । व्यनमयदीषद्वदनं स्तनयसनं सा समीचकारेव ॥ १२०॥ कदा नु दयिताननं तदवलोकये सस्मितं कदा परिरभे च तं त्रुटितकञ्चुली संभ्रमात् । १. बृहस्पतिना. २. 'हे दस्रौ अश्विनीकुमारौ, युवां पश्यतम्' इति गुरुरु- वाचेत्यर्थः ताराशशाङ्कम् । कदा तदुरसि खपिम्यहमनङ्गलीलालसे- त्युदञ्चितमनोरथा न विदधे निमेषं च सा ॥ १२१ ।। नवकिसलयतरूपे बक्रिताङ्गं शयाना निभृतकृशशरीरा दुर्निरीक्ष्यातिपाण्डुः । नवविकसितसंध्यारञ्जिताङ्गी द्वितीया शिशिरकरकलेच प्रेक्षणीया बभूव ।। १२२ ॥ वामाङ्गविस्फुरणमप्यनुभूतपूर्वं सौभाग्यसूचकममंस्त मरुद्गदं सा । शून्यं जगत्सकलमित्यवगच्छतां किं विश्वासपात्रमसमव्यसनाकुलानाम् ।। १२३ ।। क्षणं सव्रीडेव क्षणमिव सकौतूहलभरा क्षणं चिन्ताक्रान्ता क्षणमिव च केलिप्रकुपिता । क्षणं सानन्देव ह्रियमपि च संत्यज्य मदन- ज्वराटोपभ्रान्ता गदितुमसमं प्रारभत सा ॥ १२४ ॥ परिचरता स्वयमालीजनेन शिशिरोपचारेषु । प्रोक्तो हिमकरशब्दो मूर्छालां तामबोधयच्छश्वत् ॥१२५॥ सा सरज्वरसंतापसंभ्रान्तासूनमूमुचत् । तेऽपि तादृक्शरीरस्यालाभात्तां पुनराश्रयन् ।। १२६ ॥ प्रवालतल्पे शफरीमिव स्थले परिस्फुरन्तीं प्रसवेषुणोल्बणम् । अङ्गारभङ्गेष्विव रोपितां रहः समेत प्राणसमावदत्सखी ।।१२७॥ तवेयानिति संतापं के नु निर्णेतुमीशते । ज्वलन्ति सकलाङ्गानि यस्य निर्वर्णनेऽपि नः ॥ १२८ ॥ काव्यमाला। यतेत नित्यं सुमतिः सुखाप्तये दैवं हि साह्यं कुरुते क्रियावताम् । अचेष्टमानस्य कथं स्वयं मुखे पतेयुरन्धःकवलाः शुभेक्षणे ॥१२९॥ तदर्चय त्वं जगदेकमोहनं मनोभवं त्वं नमतामभीष्टदम् । खकीयतापं प्रभवत्यपोहितुं स एव पूषेव कृपाम्बुवृष्टिभिः ॥ १३०॥ इतीदं वचनं सख्याः संमान्य विरहातुरा । शनैः प्रातिष्ठतोद्यानं रहः पूजयितुं समरम् ॥ १३१ ।। यान्ती कथंचिदुद्यानं सह सख्या तया शनैः । पदे पदे विमुह्यन्ती विविधं विललाप सा ॥ १३२ ॥ सुखायागन्तुमीहन्ते सर्वे सुकृतिनो दिवम् । हा हन्त मम पापाया दुःखायाद्य दिवि स्थितिः ॥ १३३ ॥ मन्दमन्दमनुयासि मां सखे गन्धवाह शुभसूचनाकृते । मन्दभाग्यकशिरोमणेरहो कंधरां समुपयान्ति मेऽसवः ।। १३४ ।। कोकिल काकलिकां त्वं मा कुरु यावत्समेति नो कान्तः । दयिते समागते मे कलयेः कोलाहलं सह खीयैः ॥ १३५ ॥ अलिनि नाद्वियसे मम याचनां कलरवैर्विकलां मम चेतनाम् । कलयसे हि समेतु स मे प्रियो निगलितां कलये नलिनोदरे ॥१३६॥ रथाङ्गि पत्या सममग्रतो नटन्त्युदञ्चयस्यद्य मनोव्यथां मम । समागते मे दयितेऽपहास्यतामुपैषि शोचन्त्यनवेक्षितप्रिया ॥ १३७ ।। कः क इति राजहंसि ब्रवीषि किं त्वं न वेत्सि मम कान्तम् । योऽभूदत्रेर्नयनाज्जगदेकानन्दकः श्रीमान् ॥ १३८ ॥ मनोमयस्त्वं मनसो हरेरभूर्मनोजमित्रं जगतां मनोहरः । मनोगतं किं नु न वेत्सि कान्त मे ममैव दौर्भाग्यमहो महत्तरम् ॥१३९॥ १. ओदनप्रासा. ताराशशाकम् । इत्याद्यनुपदं शोचन्त्यनङ्गशरपीडिता । शनैरगमदुद्यानमवलम्ब्य सखीकरम् ॥ १४० ॥ चन्द्रोऽपि मुह्यन्विवशः स्मरार्तो विचिन्त्य नानाविधमाकुलात्मा । न जीवितुं शक्यमपि क्षणं वा प्रियां विना तामिति निश्चिकाय॥१४॥ तां पश्यामि दरस्मितां सहसितं जल्पामि साचीक्षणं पश्यन्त्याश्चिबुकं स्पृशंश्चलकरश्चुम्बामि बिम्बाघरम् । आलिङ्गाम्यतिकौतुकेन कठिनापीनस्तनीं गाढमि- त्युद्यत्केलिमनोरथः स शनकैः प्रातिष्ठदैन्द्रं पुरम् ॥ १४२ ॥ प्रस्थितस्य शुभं तस्य प्रशशंस स्फुरन्भुजः । अनुगोऽभून्मरुत्पोतो मानसं च पुरःसरम् ॥ १४३ ॥ उत्साहे सति किं शक्त्या कामे सुहृदि किं भटैः। किं रथेन च संकल्पहये सति मनोरथे ॥ १४४ ॥ पुरःस्थितां भावनया पुनः पुनस्तिरोभवन्तीं हृदयस्य चापलात् । ग्रहीतुकामो हरिणीमिवाधिकप्लुतप्रयाणामगमन्निशाविटः ॥ १४५ ॥ प्रसीद परिहासस्य नैष कालः शुचिस्मिते । परमार्तं प्रपन्नं मां पाहीत्यनुललाप सः ॥ १४६॥ मुहुर्विमुह्यसन्मुहुरुस्थितो ब्रजम्मुहुर्विशोचन्विहसन्मुहुर्लपन् । उन्मत्तरूपोऽपि स दैवयोगतो वनं तदागात्प्रियया तया स्थितम् ॥१७॥ वसन्तलक्ष्मीनटनैकरङ्गं विमृज्य बाष्पं बहुशो वनं तत् । वियोगिनां प्राणहरं प्रपश्यन्विसिस्मिये सोऽयमचिन्तयच्च ॥१४८॥ नूनमत्र मनःकान्ता वसेन्मम विलासिनी । नान्तरङ्गं हि निर्व्याजं रुचिरेऽपि प्रवर्तते ॥ १४९ ॥ विरहिणां यमकिंकरगर्जितप्रतिममप्यधुना मधुरायते । पिकशिशोरिह कूजितमूर्जितं कुसुमिताग्ररसालविलासिनः ॥ १५०॥ ९० काव्यमाला। उदञ्चयति रोमाञ्चमुल्लासयति मानसम् । उन्मूलयति संतापमनिलोऽम्बुजसौरभः ॥ १५१ ॥ विसृज्य कुसुमानीह विद्रवन्तो मधुव्रताः । प्रदर्शयन्ति मे मार्गमिवैते मधुरस्वराः ॥ १५२ ॥ इदं विकचपङ्कजं सर इमेऽपि मन्दानिलो- ल्लसत्कुसुमलालसभ्रमरपङ्क्तयः स्वर्द्रुमाः । इयं पुलिनविभ्रमोन्मदमरालवामालिरि- त्ययं सहसितेक्षणस्तत इतोऽविशतद्वनम् ॥ १५३ ।। प्रविशंस्तत्र शुश्राव तारायाः करुणां गिरम् । मनीषितफलावाप्त्यै प्रार्थयन्त्या मनोभवम् ॥ १५४ ॥ सांसारिकपरानन्दकन्दं कंदर्पमेव तम् । वन्दामहे किमपरैरदृष्टसुखसाधकैः ॥ १५५ ॥ आसीदर्धं पौरुषं चान्तकारेः शौरेः सद्यो भीरुतैवाविरासीत् । मायावेषाद्यस्य तस्यात्मयोनेर्माहात्म्यं ते को नु विज्ञातुमीष्टे ॥१५६॥ लोकातीतं वस्तु किं वा चकास्तीत्याभाषन्ते शास्त्रविज्ञा महान्तः । जाने तस्याप्यङ्गजातं प्रभुं त्वां मायायोगात्पौरुषं नाम तस्य ॥ १५७ ॥ एकं द्विधा कलयितुं सकलाः समर्थ द्वावेकमारचयितुं त्वदृते न कोऽपि । त्वामर्चयामि तदहं सुचिरं त्वयैव संतापितो घटय नौ भगवन्मनोज ॥ १५८ ॥ श्रुत्वा स मधुरां तस्या वाचं वाचामगोचरम् । आनन्दमन्वभून्नष्टां श्रियं प्राप्येव भूमिपः ॥ १५९ ॥ विधिरमणीपाणिरणन्मणिवीणागुणकलक्वणोदारः । मरुदवनीरमणवनीचरदलिनीमदहरः स्वरः कस्याः ॥ १६०॥ ताराशशाङ्कम् । Be एवमानन्दसाम्राज्यविवशो बहुशः शशी । विचिन्त्यात्रैव तारेति निश्चिकाय चिराय सः ॥ १६१ ॥ आकर्णयन्कर्णसुखानि तस्या वाक्यानि चैतन्यविकासकानि । ईचिक्षिपासंभ्रमलोलदृष्टिर्मुद्गन्करीव व्रततीर्जगाम ॥ १६२ ॥ स तत्र चैकत्र सुरद्रुमस्य प्रगृह्य वामेन करेण शाखाम् । कोषीभवत्पङ्कजसुन्दरेण परेण पुष्पाण्यवचिन्वती ताम् ॥ १६३ ।। वामेतरांसस्खलितोत्तरीयामुत्कंधरामूर्ध्वविलोलदृष्टिम् । कर्णावलम्बिप्रसवाग्रलम्बिरोलम्बशङ्काकरकुन्तलालिम् ॥ १६४ ॥ संकोचिताङ्गं चलनेत्रतारमाकुञ्चितभ्रूकुटिकम्प्रहस्तम् । कचित्कचिद्भृङ्गनिपातभीत्या शनैः प्रसूने करमादधानाम् ॥ १६५ ।। अलं प्रसूनावचयेन भद्रे मनोभवार्चावसरोऽयमायान् । करण्डपाण्येति विबोध्यमानामाल्या मुहुः श्रान्तसमस्तगात्रीम् ॥१६६॥ , नमो नमस्ते भगवन्प्रसीद प्रपन्नकल्पद्रुम मन्मथेति । मुहुर्वदन्तीं मदनाग्नितापविशोषिताङ्गीं स्वरमात्रबोध्याम् ॥ १६७ ॥ अशोचनीयां प्रियदर्शनां च वातेन पत्रावलिशोषणेन । स्पृष्टा लता माधविकेति शङ्कयां प्राणप्रियामैक्षत शीतरोचिः ।।१६८॥ हृष्टः समेत्य पश्चात्कुचतटचलदेकपाणिरेष शनैः । अवटुतटघटितकुसुमं कबरीभरमग्रहीत्तस्याः ॥ १६९ ॥ आकृष्यमाणेव लतातिभीरुर्निवृत्य तं चन्द्रमसं निरीक्ष्य । ईषत्रपावक्रितगात्रयष्टिः स्तब्धा क्षणं सा प्रतिमेव रेजे ॥ १७० ॥ आलिङ्गय निश्चलकरामगलत्मसूना- मादाय सोऽपि तरलाङ्गुलिपल्लवान्तः । १. ईक्षितुमिच्छा. ९२ काव्यमाला। आरोप्य चाङ्कभुवि संकुचिताङ्गयष्टि- माचुम्बति स्म वदनं कुचलोलपाणिः ॥ १७१ ॥ आनन्दसाम्राज्यनिमग्नचेतसोर्यथापुरं पोषमवापतुस्तनु । क्षणात्तयोर्नव्यमिव व्यभाज्जगत्समस्तमासीन्मतिरीदृशी तदा ॥ १७२ ॥ योगानन्दमखण्डं किमिति ब्रुवते महाकवयः । नूनं शास्त्रव्यसनान्नासीद्भोगेषु तेषां धीः ॥ १७३ ।। अनशननियमेन श्रौतचिन्ताकुलाना- मजनि मुनिजनानां नूनमुन्माद एव । परममिति हि किं वा सादरं संगिरन्ते सहृदयजनसङ्गानन्दसाम्राज्यतोऽपि ॥ १७४ ॥ विनाशो दुःखानां विरतिरपि मोहस्य महतः सुखस्यापि स्फूर्तिर्न भवति किमत्रैव सततम् । विशेषः को मोक्षे श्रुतिरपि च भोगैकफलदाः क्रियाः प्रोचे कण्ठादुपरि परमं ब्रह्म तदिति ॥१७॥ तयोश्चिन्तयतोरेवमानन्दाम्बुधिमग्नयोः । प्रययौ सा सखी भोज्यपदार्थादानकैतवात् ॥ १७६ ॥ ततः कृतार्थः स तया समं शशी निषेवमाणो मरुतं ततस्ततः । संप्रस्थितः खं निलयं जगाद तां विलासभूमी रुचिराः प्रदर्शयन् १७७ स्मरसि यदिहारामे रामे सुमान्यवचिन्वती हरति मरुति क्षौमं वासः समीक्ष्य मम स्मितम् । अयमुपसरेदित्यावृत्य द्रुतं जघनस्थलीं त्वमपिदधती सूनं लूनं समस्तमवाकिरः ॥ १७८ ॥ १. अपिदधती आच्छादयन्ती. ताराशशाङ्कम् । स्मरसि विहरतोः पुरावयोः किं सरसि धनस्तनि यत्त्वमीर्ष्ययात्र । नलिनमुकुलसंग्रहप्रवृत्ते मयि जलपूर्णमुखेन फूदकार्षीः ॥ १७९ ॥ स्मरसि च कपोतपोतस्वरमनुकलयेति वदति मयि यदिह । त्रपिता सस्मितमवदः कुपितेव न पौरुषं तवार्हमिति ॥ १८० ।। स्मरसि किमवचिन्वती सुमानि भ्रमरक एष विजृम्भते हृदीति । वदति मयि विधुन्वती दुकूलं सरयमगाः किल चम्पको यदत्र ॥१८१॥ स्मरस्यपि चलेक्षणे प्रतिकृतिं तवाम्भोरुहा- द्रमामिव परिच्युतां सरसि वीक्षमाणे मयि । भृशं किल विशङ्किताद्भुतमुपेत्य दृष्ट्वा सर- स्रपाविवशिता शनैरपससार यत्त्वं पुनः ॥ १८२ ।। सरस्यम्भोजाक्षि त्वमपि सुमनःकन्दुकहता मया मध्ये वक्षोरुहमखिलगात्रोद्गतजला । विमुह्यन्तीवेषन्मुकुलितदृगालम्बति मयि प्रबुद्धा मद्धस्तं रुष इव यदाधूनयदिह ।। १८३॥ स्मरसि किमु चाटुवाक्यं मयि लापयति त्रपाकुला त्वमिह । यत्केलिशारिकायै व्यतरस्तुष्टेव शिखरिवीजानि ॥ १८४ ॥ स्मरस्यप्यक्षकेलौ मां विजित्यापि यथापणम् । अवाप्तुं पौरुषं नालमभूर्यदिह कामिनि ॥ १८५ ॥ इति प्रदर्शयंस्तांस्तान्विलासविषयान्विधुः । शनैः शनैस्तया साकमगारमगमन्निजम् ॥ १८६ ॥ वक्षोजौ मेचकाग्राविव जनितकिणौ रिङ्गणैरङ्गुलीना- मीषपाण्डू कयोलाविव मुषितकलौ डम्बरैश्चुम्बनानाम् । १. दाडिमबीजानि. काव्यमाला चित्रैर्नाभी चपेटैरिव निभृतमुदं मध्ययष्टिं च किंचि- त्पुष्टां चक्रे प्रियायाः कतिपयदिवसैरेव मित्रं स्मरस्य ॥१८॥ तस्यां कदाचिन्निकटस्थितायां मुख्यैः सुहृद्भिः सहितः सितांशुः । दूतं गिरीशस्य गिरोपयातमुवाच मन्दस्मितलाञ्छितास्यः ॥ १८८ ॥ रूपानुरूपगुणविभ्रमलोभनीया- मेतां कथं कथमपि प्रयतो विधाता । निर्माय हन्त निगमाध्ययनालसस्य हस्ते चकार सुरलोकपुरोहितस्य ॥ १८९ ।। संमित्कुसुमपल्लवच्छदपवित्रदर्भाङ्कुर- भ्रमाकुलितचेतनः क सुमनःपुरोधा गुरुः । पटीरहिमवालुकामृगमदनगुल्लासिनी क चेयमसमाशुगागमकृतव्रता कामिनी ॥ १९० ॥ अभिज्ञानामाद्यो निरुपममहाः प्रौढिमनिधि- र्महैश्वर्यावासः सरसहृदयः प्रीतिजननः । तथापि श्रौतार्थव्यसननिरतो मे पतिरिति ध्रुवं शोचन्त्येषा समजनि कृशाङ्गी सुवदना ॥१९१॥ दीपिकेवाकुलदृशो दरिद्रस्य मणीव च । परं परोपभोगाय वैदिकस्य विलासिनी ॥ १९२ ।। तदेतया विलासिन्या तस्य किं नु पुरोधसः । भजेति चेटिकां ब्रूहि कामकण्डूतिशान्तये ॥ १९३ ।। भ्रातुः परिग्रहपरिग्रहणप्रवृत्तो- ऽप्यास्तां गुरुः स विरहार्तिविमूढचेताः। किं दारुकावनवधूं गिरिशोऽप्यहल्या- मिन्द्रो नहि स्मरति गोपसतीरुपेन्द्रः ॥ १९४ ।। ताराशशाङ्कम्। ९५ अस्त्वेतदखिलं लोकः स्वदोषं नैव पश्यति । वदेन्द्रोपेन्द्रसहितं भवभक्तिवशं गुरुम् ॥ १९५ ॥ समानहृदयामिमां श्रितवतः स्वयं संगतां किमत्र मम दुष्कृतं कथमियं विसृज्या च मे । अयुक्तमभिभाषसे यदि तवाद्य कण्डूः परा द्रुतं पशुपते स मे ह्यचलतेजसं मामिति ॥ १९६ ॥ ततस्तस्मिन्गते दूते समीकाय पिनाकिनम् । आह्वयन्तमभिप्रागाच्छुक्रशिष्यैर्वृतः शशी ।। १९७ आसीद्देवासुराणामथ युगविगमादित्यसंभेदशङ्का- कारि क्रूरास्त्रशस्त्रप्रभवहुतवहज्वालजालोल्वणं तत् । घोरं तारामयाख्यं रणमुदधिपरिक्षोभसंभूतवीची- घोषत्रस्यद्दिगन्तद्विरदवरशिरश्चालितक्षोणिचक्रम् ॥ १९८ ।। स्वस्वास्त्राभ्यां रुद्रसोमौ समेतौ दृष्ट्वा धाता तौ जगन्नाशशङ्की । आविर्भूयावार्य युद्धं मृदूक्त्या जीवाय द्राग्दापयामास ताराम् ॥१९९।। पराहितं गर्भमये त्यजेत्यथो तारा घवेनाभिहिताभ्यसूत सा । शिशुं तमालोक्य मनोहरं गुरुः शशी ममेति व्यवजहतुस्तदा ॥२०॥ कस्यैष बाल इति सा बहुभिश्च पृष्टा मौनं यदा न विजहौ स शिशुस्तदात्वे । क्रुद्धो जगाद जननीमयि दुर्विदग्धे घोरं शपामि यदि नो वदसीति शीघ्रम् ॥ २०१ ।। शिशोर्वाक्यं तदाकर्ण्य सर्वे सुमनसस्तदा । विस्मिताः समपद्यन्त साक्षाद्विष्णुं स्म तं विदुः ।। २०२ ।। काव्यमाला। तारा तदनु विधात्रा विजने कस्यैष बाल इति पृष्टा । चन्द्रस्येति शनैः सा मन्दाक्षभरानमन्मुखी न्यगदत् ।। २०३ ॥ शिशुरेष महाबुद्धिर्बुध इत्यभिधीयताम् । इति जल्पन्विरञ्चिस्तं विततार सितांशवे ॥२०४ ।। लब्ध्वा सुतं सितांशुः सतीं च वाचस्पतिस्तदा हृष्टः । स्वं गृह्मगमन्सर्वे सुरासुरास्तत्कथां प्रशंसन्तः ॥ २०५ ॥ श्रीकृष्णराजकरुणैकनिकेतनेन कृष्णेन भागतव इत्यभिशब्दितस्य । नारायणस्य तनयेन समीरितेयं तारासुधाकरकथा विदुषां मुदेऽस्तु ॥ २०६।। इति भागवतनारायणसूनुश्रीकृष्णकधिप्रणीतं ताराशशाङ्कं काव्यं समाप्तम् ।

"https://sa.wikisource.org/w/index.php?title=ताराशशाङ्कम्&oldid=290835" इत्यस्माद् प्रतिप्राप्तम्