तर्कसङ्ग्रहः/शब्दनिरूपणम्

विकिस्रोतः तः
Jump to navigation Jump to search

अथ शब्दनिरूपणम्[सम्पाद्यताम्]

॥आप्तवाक्यं शब्दः। आप्तस्तु, यथार्थवक्ता। वाक्यं पदसमूहः। यथा गामानयेति। शक्तं पदम्। अस्मात्पदात् अयमर्थो बोद्धव्य इतीश्वरसङ्केतः शक्तिः॥१॥

शब्दं लक्षयति आप्तेति। आप्तं लक्षयति आप्तस्त्विति। वाक्यलक्षणमाह वाक्यमिति। पदलक्षणमाह शक्तमितिअर्थस्मृत्यनुकूलपदपदार्थसम्भन्धः शक्तिः। सा च पदार्थान्तरमिति मीमांसकाः। तन्निरासार्थमाह अस्मादिति। डित्थादीनामिव घटादीनामपि सङ्केत एव शक्तिः न तु पदार्थान्तरमित्यर्थः। ननु गवादिपदानां जातावेव शक्तिः, विशेषणतया जातेः प्रथममुपस्थितत्वात्। व्यक्तिलाभस्तु आक्षेपादिति केचित्। तत् न, गामानयेत्यादौ वृद्धव्यवहारेण सर्वत्रानयनादेर्व्यक्तावेव सम्भवेन, जातिविशिष्टव्यक्तावेव शक्तिकल्पनात्। शक्तिग्रहश्च वृद्धव्यवहारेण। व्युत्पित्सुर्बालो ’गामानय’ इत्युत्तमवृद्धवाक्यश्रवणानन्तरम् मध्यमवृद्धस्य प्रवृत्तिमुपलभ्य गवानयनं च दृष्ट्वा मध्यमवृद्धप्रवृत्तिजनकज्ञानस्यान्वयव्यतिरेकाभ्यां वाक्यजन्यत्वं निश्चित्य ’अश्वमानयगां बधान’ इति वाक्यान्तरे आवापोद्वापाभ्यां गोपदस्य गोत्वविशिष्टे शक्तिः, अश्वपदस्य अश्वत्वविशिष्टे शक्तिरिति व्युत्पद्यते। ननु सर्वत्र कार्यपरत्वाद्व्यवहारस्य कार्यपरवाक्य एव व्युत्पत्तिर्नसिद्धपर इति चेत् न। ’काश्यां त्रिभुवनतिलको भूपतिरास्ते’ इत्यादौ सिद्धेऽपि व्यवहारात्, ’विकसितपद्मे मधुकरस्तिष्ठति’ इत्यादौ प्रसिद्धपदसमभिव्याहारात्सिद्धेऽपि मधुकरादिव्युत्पत्तिदर्शनाच्च। लक्षणापि शब्दवृत्तिः। शक्यसम्बन्धो लक्षणा। गङ्गायां घोष इत्यत्र गङ्गापदवाच्यप्रवाहसम्बन्धादेव तीरोपस्थितौ तीरेऽपि शक्तिर्न कल्प्यते। सैन्धवादौ लवणाश्वयोः परस्परसम्बन्धाभावान्नानाशक्तिकल्पनम्। लक्षणा त्रिविधा - जहलक्षणा, अजहल्लक्षणा, जहदजहल्लक्षणा चेति। यत्र वाच्यार्थस्यान्वयाभावः तत्र जहल्लक्षणा। यथा मञ्चाः क्रोशन्तीति। यत्र वाच्यार्थस्याप्यन्वयः तत्र अजहदिति। यथा छत्रिणो गच्छन्तीति। यत्र वाच्यैकदेशत्यागेन एकदेशान्वयः तत्र जहदजहदिति। यथा तत्वमसीति। गौण्यपि लक्षणैव लक्ष्यमाणगुणसम्बन्धस्वरूपा यथा अग्निर्माणवकः इति। व्यञ्जनापि शक्तिलक्षणान्तर्भूता, शब्दशक्तिमूला अर्थशक्तिमूला च। अनुमानादिना अन्यथासिद्धा। तात्पर्यानुपपत्तिर्लक्षणाबीजम्। तत्प्रतीतीच्छयोच्चरितत्वं तात्पर्यम्। तात्पर्यज्ञानञ्च वाक्यार्थज्ञाने हेतुः नानार्थानुरोधात्। प्रकरणादिकं तात्पर्यग्राहकम्। द्वारमित्यादौ पिधेहीति शब्दाध्याहारः। ननु अर्थज्ञानार्थत्वाच्छब्दस्यार्थमविज्ञाय शब्दाध्याहारसम्भवादर्थाध्याहार एव युक्त इति चेत् न। पदविशेषजन्यपदार्थोपस्थितेः शब्दज्ञाने हेतुत्वात्। अन्यथा ’घटः कर्मत्वमानयनं कृतिः’ इत्यत्रापि शाब्दज्ञानप्रसङ्गात्। पङ्कजादिपदेषु योगरूढिः। अवयवशक्तिर्योगः। समुदायशक्ती रूढिः। नियतपद्मत्वादिज्ञानार्थं समुदायशक्तिः। अन्यथा कुमुदेऽपि प्रयोगप्रसङ्गात्। ’इतरान्विते शक्तिः’ इति प्राभाकराः। अन्वयस्य वाक्यार्थतया भानसम्भवादन्वयांशेऽपि शक्तिर्न कल्पनीया इति गौतमीयाः।

॥आकाङ्क्षा योग्यता संनिधिश्च वाक्यार्थज्ञानहेतुः। पदस्य पदान्तरव्यतिरेकप्रयुक्तान्वयाननुभावकत्वम् आकाङ्क्षा। अर्थाबाधो योग्यता। पदानामविलम्बेनोच्चारणं संनिधिः॥२॥

आकाङ्क्षएति। आकाङ्क्षादिज्ञानमित्यर्थः। अन्यथा आकाङ्क्षादिभ्रमाच्छाब्दभ्रमो न स्यात्। आकाङ्क्षां लक्षयति पदस्येति। योग्यता लक्षणमाह अर्थेति। सन्निधिलक्षणमाह पदानामिति। अविलम्बेनपदार्थोपस्थितिः सन्निधिः। उच्चारणं तु तदुपयोगितयोक्तम्।

॥आकाङ्क्षादिरहितं वाक्यमप्रमाणम्। यथा गौरश्वः पुरुषो हस्तीति न प्रमाणामाकाङ्क्षाविरहात्। अग्निना सिञ्चेदिति न प्रमाणं योग्यताविरहात्। प्रहरे प्रहरेऽसहोच्चारितानि गामानयेत्यादिपदानि न प्रमाणं सांनिध्याभावात्॥३॥

गौरश्व इति। घटकर्मत्वमित्यप्यनाकाङ्क्षोदाहरणं द्रष्टव्यम्।

॥वाक्यं द्विविधम्। वैदिकं लौकिकं च। वैदिकमीश्वरोक्तत्वात्सर्वमेव प्रमाणम्। लौकिकं त्वाप्तोक्तं प्रमाणम्। अन्यदप्रमाणम्॥४॥

वाक्यं विभजते वाक्यमिति। वैदिकस्य विशेषमाह वैदिकमीश्वरोक्तमिति। ननु वेदस्यानादित्वात्कथमीश्वरोक्तमिति चेत् न। ’वेदः पौरुषेयः वाक्यसमूहत्वात् भारतादिवत्’ इत्यनुमानेन पौर्षेयत्वसिद्धेः। न च स्मर्यमाणकर्तृकत्वमुपाधिः, गौतमादिभिः शिष्यपरम्परया वेदेऽपि सकर्तृकत्वस्मरणेन साधनव्यापकत्वात्। ’तस्मात्तेपानात्त्रयो वेद अजायन्त’ इति श्रुतेश्च। ननु वर्णा नित्याः, स एवायं गकार इति प्रत्यभिज्ञाबलात्। तथा च कथं वेदस्यानित्यत्वमिति चेत् न, ’उत्पन्नो गकरो विनष्टो ह्गकारः’ इत्यादिप्रतीत्या वर्णानामनित्यत्वात्, ’सोऽयं गकारः’ इति प्रत्यभिज्ञायाः ’सेयं दीपज्वाला’ इतिवत्साजात्यावलम्बनत्वात्, वर्णानां नित्यत्वेऽप्यानुपूर्वीविशिष्टवाक्यस्यानित्यत्वाच्च। तस्मादीश्वरोक्ता वेदाः। मन्वादिस्मृतीनामाचाराणां च वेदमूलकतया प्रामाण्यम्। स्मृतिमूलवाक्यानामिदानीमनध्ययनात्त्न्मूलभूता काचिच्च्खोत्सन्नेति कल्प्यते। ननु पठ्यमानवेदवाक्योत्सादनस्य कल्पयितुमशक्यतया विप्रकीर्णवादस्यायुक्तत्वान्नित्यानुमेयो वेदो मूलमिति चेत् न, तथा सति कदापि वर्णानामानुपूर्वीज्ञानासम्भवेन बोधकत्वासम्भवात्।

॥वाक्यार्थज्ञानं शाब्दज्ञानम्। तत्करणं शब्दः॥५॥

ननु एतानि पदानि स्मारितार्थसंसर्गवन्ति आकाङ्क्षादिमत्पदकदम्बकत्वात् मद्वाक्यवत् इत्यनुमानादेव संसर्गज्ञानसम्भवाच्छब्दो न प्रमाणान्तरमिति चेन्न। अनुमित्यपेक्षया विलक्षणस्य शाब्दज्ञानस्य ’शब्दात्प्रत्येमि’ इत्यनुव्यवसायसाक्षिकस्य सर्वसम्मतत्वात्। नन्वर्थापत्तिरपि प्रमाणान्तरमस्ति ’पीनो देवदत्तो दिवा न भिङ्क्ते’ इति दृष्टे श्रुते वा पीनत्वान्यथानुपपत्या रात्रिभोजनमर्थापत्या कल्पत इति चेन्न। ’देवदत्तो रात्रौ भुङ्क्ते दिवाऽभुञ्जानत्वे सति पीनत्वात्’ इत्यनुमानेनैव रात्रिभोजनस्य सिद्धत्वात्। शते पञ्चाशदिति सम्भवोऽप्यनुमानमेव। ’इह वटे यक्षस्तिष्ठति’ इत्यैतिह्यमपि अज्ञातमूलवक्तृकशब्द एव। चेष्टापि शब्दानुमानद्वारा व्यवहारहेतुरिति न प्रमाणान्तरम्। तस्मात्प्रत्यक्षानुमानोपमानशब्दाश्चत्वार्यैव प्रमाणानि।

ज्ञानानां तद्वति तत्प्रकारकत्वं स्वतोग्राह्यं परतो वेति विचार्यते। तत्र विप्रतिपत्तिः - ज्ञानप्रामाण्यं तदप्रामाण्याग्राहकयावज्ज्ञानग्राहकसामग्रीग्राह्यं न वा इति। अत्र विधिकोटिः स्वतस्त्वम्। निषेधकोटिः परतस्त्वम्। अनुमानादिग्राह्यत्वेन सिद्धसाधनवारणाय यावदिति। ’इदं ज्ञानमप्रमा’ इति ज्ञानेन प्रामाण्याग्रहाद्बाधवारणाय - अप्रामाण्यग्राहकेति। इदं ज्ञानमप्रमा इत्यनुव्यवसायनिष्ठप्रामाण्यग्राहकस्यापि अप्रामाण्याग्राहकत्वाभावार्स्वरत्स्त्वं न स्यादतस्तदिति। तस्मिन्ग्राह्यप्रामाण्याश्रयेऽप्रामाण्याग्राहिकेत्यर्थः। उदाहृतस्थले व्यवसायाप्रामाण्यग्राहकस्याप्यनुव्यवसाये तग्राहकत्वात्स्वतस्त्वसिद्धिः। ननु स्वत एव प्रामाण्यं गृह्यते, ’घटमहं जानामि’ इत्यनुव्यवसायेन घटघतत्वयोरिव तत्सम्बन्धस्यापि विषयीकरणात् व्यवसायरूपप्रत्यासत्तेस्तुल्यत्वात्। पुरोवर्तिनि प्रकारसम्बन्धस्यैव प्रमात्वपदार्थत्वादिति चेत् न। स्वतःप्रामाण्यग्रहे ’जलज्ञानं प्रमा न वा’ इत्यनभ्यासदशायां प्रमात्वसंशयो न स्यात्। अनुव्यवसायेन प्रामाण्यस्य निश्चितत्वात्। तस्मात्स्वतोग्राह्यत्वाभावात्परतो ग्राह्यत्वमेव। तथाहि। प्रथमं जलज्ञानानन्तरं प्रवृत्तौ सत्यां जललाभे सति पूर्वोत्पन्नं जलज्ञानं प्रमा सफलप्रवृत्तिजनकत्त्वात् यन्नैव तन्नैव यथा अप्रमा इति व्यतिरेकिणा प्रमात्वं निश्चीयते। द्वितीयादिज्ञानेषु पूर्वज्ञानदृष्टान्तेन तत्सजातीयत्वलिङ्गेनान्वयय्वतिरेकिणापि गृह्यते। प्रमाया गुणजन्यत्वमुत्पत्तौ परतस्त्वम्। प्रमासाधारणकारणं गुणः, अप्रमासाधारणकारणं दोषः। तत्र प्रत्यक्षे विशेषणवद्विशष्यसंनिकर्षो गुणः। अनुमितौ व्यापकवति व्याप्यज्ञानम्। उपमितौ यथार्थसादृश्यज्ञानम्। शाब्दज्ञाने यथार्थयोग्यताज्ञानम्। इत्याद्यूहनीयम्। पुरोवर्तिनि प्रकाराभावस्यानुव्यवसायेनानुपस्थितत्वादप्रमात्वं परत एव गृह्यते। पित्तादिदोषजन्यत्वमुत्पत्तौ परतस्त्वम्। ननु सर्वेषां ज्ञानानां यथार्थत्वादयथार्थज्ञानमेव नास्तीति। न च ’शुक्ताविदं रजतम्’ इति ज्ञानात्प्रवृत्तिदर्शनादन्यथाख्यातिसिद्धिरिति वाच्यम्। रजतस्मृतिपुरोवर्तिज्ञानाभ्यामेवप्रवृत्तिसम्भवात्। स्वतन्त्रोपस्थितेष्टभेदाग्रहस्यैव सर्वत्र प्रवर्तकत्वेन ’नेदं रजतम्’ इत्यादौ अतिप्रसङ्गाभावादिति चेत् न। सत्यरजतस्थले पुरोवर्तिविशेष्यकरजतत्वप्रकारकज्ञानस्य लाघवेन प्रवृत्तिजनकतया शुक्तावपि रजतार्थि प्रवृत्तिजनकत्वेन विशिष्टज्ञानस्यैव कल्पनात्।