तर्कसङ्ग्रहः/गुणलक्षणप्रकरणम्

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ

॥गुणलक्षणप्रकरणम्॥[सम्पाद्यताम्]

॥ चक्षुर्मात्रग्राह्यो गुणो रूपम्। तच्च शुक्लनीलपीतरक्तहरितकपिशचित्रभेदात्सप्तविधम्। पृथिवीजलतेजोवृत्ति। तत्र पृथिव्यां सप्तविधम्। अभास्वरशुक्लं जले। भास्वरशुक्लं तेजसि॥१॥

रूपं लक्षयति चक्षुरिति। सङ्ख्यादावतिव्याप्तिवारणाय मात्रपदम्। रूपत्वेऽतिव्याप्तिवारणाय गुणपदम्। नन्वव्याप्यवृत्तिनीलादिसमुदाय एव चित्ररूपमिति चेत् न। रूपस्य व्याप्यवृत्तित्वनियमात्। ननु चित्रपटे अवयवरूपस्यैव प्रतीतिरिति चेत् न। रूपरहितत्वेन पटस्याप्रत्यक्षत्वप्रसङ्गात्। न च रूपवत्समवेतत्वं प्रत्यक्षत्वप्रयोजकं गौरवात्। तस्मात्पटस्य प्रत्यक्षत्वान्यथानुपपत्या चित्ररोपसिद्धिः। रूपस्याश्रयमाह पृथिवीति। आश्रयं विभज्य दर्शयति तत्रेति

॥ रसनग्राह्यो गुणो रसः। स च मधुराम्ललवणकटुकशायतिक्तभेदात् षड्विधः। पृथिवीजलवृत्तिः। तत्र पृथिव्यां षड्विधः। जले मधुर एव॥२॥

रसं लक्षयति रसनेति। रसत्वेऽतिव्याप्तिवारणाय गुणपदम्। रसस्याश्रयमाह पृथिवीति। आश्रयं विभज्य दर्शयति तत्रेति

॥ घ्राणग्राह्यो गुणो गन्धः। स द्विविधः सुरभिरसुरभिश्च। पृथिवीमात्रवृत्तिः॥३॥

गन्धं लक्षयति घ्राणेति। गन्धत्वेऽतिव्याप्तिवारणाय गुणपदम्।

॥ त्वगिन्द्रियमात्रग्राह्यो गुणः स्पर्शः। स च त्रिविधः शीतोष्णानुष्णाशीतभेदात्। पृथिव्यप्तेजोवायुवृत्ति। तत्र शीतो जले। उष्णस्तेजसि। अनुष्णाशीतः पृथिवीवाय्वोः॥४॥

स्पर्शं लक्षयति त्वगिति। स्पर्शत्वेऽतिव्याप्तिवारणाय गुणपदम्। संयोगादावतिव्याप्तिवारणाय मात्रपदम्।

॥ रूपादिचतुष्टयं पृथिव्यां पाकजमनित्यं च। अन्यत्र अपाकजं नित्यमनित्यं च नित्यगतं नित्यम् अनित्यगतमनित्यम्॥९॥

पाकजमिति। पाकस्तेजः सयोगः। तेन पूर्वरूपं नश्यति रूपान्तरमुत्पद्यत् इत्यर्थः। तत्र परमाणुष्वेव पाको न द्व्यणुकादौ। आमनिक्षिप्ते घटे परमाणुषु रूपान्तरोत्पत्तौ श्यामघटनाशे पुनर्द्व्यणुकादिक्रमेण रक्तघटोत्पत्तिः। तत्र परमानवः समवायिकारणम्। तेजः संयोगोऽसमवायिकारणम्। अदृष्टादिकं निमित्तकारणम्। द्व्यणुकादिरूपे कारणरूपमसमवायिकारणमिति पीलुपाकवादिनो वैशेषिकाः। पूर्वघटस्य नाशं विनैव अवयविनि अवयवेषु च परमाणुपर्यन्तेषु युगपद्रूपान्तरोत्पत्तिरिति पिठरपाकवादिनो नैयायिकाः। अत एव पार्थिवपरमाणुरूपादिकमनित्यमित्यर्थः। अन्यत्र जलादवित्यर्थः। नित्यगतमिति। परमाणुगतमित्यर्थः। अनित्यगतमिति। द्व्यणुकादिगतमित्यर्थः। रूपादिचतुष्टयं उद्भूतं प्रत्यक्षम्। अनुद्भूतमप्रत्यक्षम्। उद्भूतत्वं प्रत्यक्षत्वप्रयोजको धर्मः। तदभावोऽनुद्भूतत्वम्।

॥ एकत्वादिव्यवहारहेतुः सङ्ख्या। सा नवद्रव्यवृत्तिः एकत्वादिपरार्धपर्यन्ता। एकत्वं नित्यमनित्यं च। नित्यगतं नित्यम्। अनित्यगतमनित्यम्। द्वित्वादिकं तु सर्वत्राऽनित्यमेव॥६॥

सङ्ख्यां लक्षयति एकेति

॥ मानव्यवहारासाधारणकारणं परिमाणम्। नवद्रव्यवृत्तिः। तच्चतुर्विधम्। अणु महत् दीर्घं हृस्वं चेति॥७॥

परिमाणं लक्षयति मानेति। परिमाणं विभजते तच्चेति। भावप्रधानो निर्देशः। अणुत्वं, महत्त्वं, दीर्घत्वं, ह्रस्वत्वं चेत्यर्थः।

॥ पृथग्व्यवहारासाधारणकारणं पृथक्त्वम्। सर्वद्रव्यवृत्तिः॥८॥

पृथक्त्वं लक्षयति पृथगिति। इदमस्मात्पृथक् इति व्यवहारकारणं पृथक्त्वमित्यर्थः।

॥ संयुक्तव्यवहारहेतुः संयोगः। सर्वद्रव्यवृत्तिः॥९॥

संयोगं लक्षयति संयुक्तेति। इमौ संयुक्तौ इति व्यवहारहेतुरित्यर्थः। सङ्ख्यादिलक्षणे सर्वत्र दिक्कालादावतिव्याप्तिवारणाय असाधारणेति विशेषणीयम्। संयोगो द्विविधः, कर्मजः संयोजश्चेति। आद्यो हस्तक्रियया हस्तपुस्तकसंयोगः। द्वितीयो हस्तपुस्तकसंयोगात्कायपुस्तकसंयोगः। अव्याप्यवृत्तिः संयोगः। स्वात्यन्ताभावसमानाधिकरणत्वमव्याप्यवृत्तित्वम्।

॥ संयोगनाशको गुणो विभागः। सर्वद्रव्यवृत्तिः॥१०॥

विभागं लक्षयति संयोगेति। कालादावतिव्याप्तिवारणाय गुण इति। रूपादावतिव्याप्तिवारणाय संयोगनाशक इति। विभागोऽपि द्विविधः, कर्मजः विभागजश्चेति। आद्यो हस्तपुस्तकविभागः। द्वितीयो हस्तपुस्तकविभागात्कायपुस्तकविभागः।

॥ परापरव्यवहारासाधारणकारणे परव्तापरत्वे। पृथिव्यादिचतुष्टयमनोवृत्तिनी। ते द्विविधे दिक्कृते कालकृते च। दूरस्थे दिक्कृतं परत्वम्। समीपस्थे कालकृतमपरत्वम्। ज्येष्ठे कालकृतं परत्वम्। कनिष्ठे कालकृतमपरत्वम्॥११॥

परत्वापरत्वयोर्लक्षणमाह परापरेति। परव्यवहारासाधारणकारणं परत्वम्। अपरव्यवहारासाधारणकारणमपरत्वमित्यर्थः। ते विभजते ते द्विविधे इति। दिक्कृतयोरुदाहरणमाह दूरस्थ इति। कालकृते उदाहरति ज्येष्ठ इति

॥ आद्यपतनासमवायिकारणं गुरुत्वम्। पृथिवीजलवृत्ति॥१२॥

गुरुत्वं लक्षयति आद्येति। द्वितीयादिपतनस्य वेगासमवायिकारणत्वाद्वेगेऽतिव्याप्तिवारणाय आद्येति।

॥ आद्यस्यन्दनासमवायिकारणं द्रवत्वम्। पृथिव्यप्तेजोवृत्ति। तद्द्विविधं, सांसिद्धिकं नैमित्तिकं च। सांसिद्धिकं जले। नैमित्तिकं पृथिवीतेजसोः। पृथिव्यां घृतादावग्निसंयोगजं द्रवत्वम्। तेजसि सुवर्णादौ॥१३॥

द्रवत्वं लक्षयति आद्येति। स्यन्दनं प्रस्रवणम्। तेजःसयोगजं नैमित्तिकम्। तद्भिन्नं सांसिद्धिकम्। पृथिव्यां नैमित्तिकमुदाहरति घृतादाविति। तेजसि तदाह सुवर्णादाविति

॥ चूर्णादिपिण्डीभावहेतुर्गुणः स्नेहः। जलमात्रवृत्तिः॥१४॥

स्नेहं लक्षयति चूर्णेति। कालादावतिव्याप्तिवारणाय गुणपदम्। रूपादावतिव्याप्तिवारणाय पिण्डीभावेति।

॥ श्रोत्रग्राह्यो गुणः शब्दः, आकाशमात्रवृत्तिः। स द्विविधः, ध्वन्यात्मकः वर्णात्मकश्च। तत्र ध्वन्यात्मकः भेर्यादौ। वर्णात्मकः संस्कृतभाषादिरूपः॥१५॥

शब्दं लक्षयति श्रोत्रेति। शब्दत्वेऽतिव्याप्तिवारणाय गुणपदम्। रूपादावतिव्याप्तिवारणाय श्रोत्रेति। शब्दास्त्रिविधः - संयोगजः, विभागजः, शब्दजश्चेति। त्यत्र आद्यो भेरीदण्डसंयोगजन्यः। द्वितीयो वंशे पाट्यमाने दलद्वयविभागजन्यश्चटचटाशब्दः। भेर्यादिदेशमारभ्य श्रोत्रदेशपर्यन्तं द्वितीयादिशब्दाः शब्दजाः।

॥ सर्वव्यवहारहेतुर्गुणो बुद्धिर्ज्ञानम्। सा द्विविधा स्मृतिरनुभवश्च॥१६॥

बिद्धेर्लक्षणमाह सर्वव्यवहारेति। कालादावतिव्याप्तिवारणाय गुण इति। रूपादावतिव्याप्तिवारणाय सर्वव्यवहार इति। जानामीत्यनुव्यवसायगम्यं ज्ञानमेव लक्षणमिति भावः। बुद्धिं विभजते सेति

॥ संस्कारमात्रजन्यं ज्ञानं स्मृतिः॥१७॥

स्मृतेर्लक्षणमाह संस्कारेति। भावनाख्यः संस्कारः। संस्कारध्वंसेऽतिव्याप्तिवारणाय ज्ञानमिति। घटादिप्रत्यक्षेऽतिव्याप्तिवारणाय संस्कारजन्यमिति।प्रत्यभिज्ञायाम् अतिव्याप्तिवारणाय मात्रपदम्।

॥ तद्भिन्नं ज्ञानमनुभवः। स द्विविधः, यथार्थोऽयथार्थश्च॥१७॥

अनुभवं लक्षयति तद्भिन्नमिति। स्मृतिभिन्नं ज्ञानमनुभव इत्यर्थः। अनुभवं विभजते स द्विविध इति

॥ तद्वति तप्रकारकोऽनुभवो यथार्थः। यथा रजते इदं रजतमिति ज्ञानम्। सैव प्रमेच्युते॥१९॥

यथार्थानुभवस्य लक्षणमाह तद्वतीति। ननु घटे घटत्वमिति प्रमायामव्याप्तिः, घटत्वे घटाभावादिति चेत् न, यत्र ब्यत्सम्बन्धोऽस्ति तत्र तत्सम्बन्धानुभवः इत्यर्थाद्घटत्वे घटसम्भन्धोऽस्तीति नाव्याप्तिः। सैवेति। यथार्थानुभव एव शास्त्रे प्रमेत्युच्यते इत्यर्थः।

॥ तदभाववति तत्प्रकारकोऽनुभवोऽयथार्थः। यथा शुक्ताविदं रजतमिति। सैव अप्रमा इत्युच्यते॥२०॥

अयथार्थानुभवं लक्षयति तदभाववतीति। नन्विदं संयोगीति प्रमायामतिव्याप्तिरिति चेत् न। यदवच्छेदेन यत्सम्बन्धाभावास्तदवच्छेदेन तत्सम्बन्धज्ञानस्य विवक्षितत्वात्। संयोगाभावावच्छेदेन संयोगज्ञानस्य भ्रमत्वात्संयोगावच्छेदेन संयोगसम्बन्धस्य सत्त्वान्नतिव्याप्तिः।

॥ यथार्थानुभवः चतुर्विधः प्रत्यक्षानुमित्युपमितिशाब्दभेदात्॥२१॥

यथार्थानुभवं विभजते यथार्थेति

॥ तत् करणमपि चतुर्विधं प्रत्यक्षानिमानोपमानशब्दभेदात्॥२२॥

प्रसङ्गात्प्रमाकरणं विभजते तत्करणमपीति। प्रमाकरणमित्यर्थः। प्रमाकरणं प्रमाणमिति प्रमाणसामान्यलक्षणम्।

॥ (व्यापारवद्) असाधारणं कारणं करणम्॥२३॥

करणलक्षणमाह असाधारणेति। दिक्कालादावतिव्याप्तिवारणाय असाधारणेति।

॥ कार्यनियतपूर्ववृत्ति कारणम्॥२४॥

कारणलक्षणमाह कार्येति। पूर्ववृत्तिकारणमित्युक्ते रासभादावतिव्याप्तिः स्यादतो नियतेति। तावन्मात्रे कृते कार्येऽतिव्याप्तिरतः पूर्ववृत्तीति। ननु तन्तुरूपमपि पटं प्रति कारणं स्यादिति चेत् न, अनन्यथासिद्धत्वे सतीति विशेषणम्। अनन्यथासिद्धत्वमन्यथासिद्धिरहितत्वम्। अन्यथासिद्धिः त्रिविधा - येन सहैव यस्य यं प्रति पूर्ववृत्तित्वमवगम्यते तं प्रति तेन तदन्यथासिद्धम्। यथा तन्तुनां तन्तुरूपं तन्तुत्वं च पटं प्रति। अन्यं प्रति पूर्ववृत्तित्वे ज्ञात एव यस्य यं प्रति पूर्ववृत्तित्वमवगम्यते तं प्रति तदन्यथासिद्धम्। यथा शब्दं प्रति पूर्ववृत्तित्वे ज्ञात एव पटं प्रत्याकाशस्य। अन्यत्र क्लृप्तनियतपूर्ववतिर्न एव कार्यसम्भवे तत्सहभूतमन्यथासिद्धम्। यथा पाकजस्थले गन्धं प्रति रूपप्रागभावस्य। एवञ्च अनन्यथासिद्धनियतपूर्ववृत्तित्वं कारणत्वम्।

॥ कार्यं प्रागभावप्रतियोगि॥२५॥

कार्यलक्षणमाह कार्यमिति

॥ कारणं त्रिविधम् - समाय्यसमवायिनिमित्तभेदात्॥२६॥

कारणं विभजते कारणमिति

॥ यत् समवेतं कार्यम् उत्पद्यते तत् समवायिकारणम्। यथा तन्तवः पटस्य, पटश्च स्वगतरूपादेः॥२७॥

समवायिकारणस्य लक्षणमाह यत्समवेतमिति। यस्मिन् समवेतमित्यर्थः। असमवायिकारणं लक्षयति कार्येणेति। कार्येणेत्येतदुदाहरति तन्तुसंयोग इति

॥ कार्येण कारणेन वा सह एकस्मिन्नर्थे समवेतत्वे सति यत्कारणं तदसमवायिकारणम्। यथा तन्तुसंयोगः पटस्य, तन्तुरूपं पटरूपस्य॥२८॥

कार्येण पटेन सह एकस्मिंस्तन्तौ समवेतत्वात्तन्तुसंयोगः पटस्यासमवायिकारणमित्यर्थः। कारणेनेत्येतदुदाहरति तन्तुरूपमिति। कारणेन पटेन सह एकस्मिंस्तन्तौ समवेतत्वात्तन्तुरूपं पटरूपस्यासमवायिकारणमित्यर्थः।

॥ तदुभयभिन्नं कारणं निमित्तकारणम् । यथा तुरीवेमादिकं पटस्य॥२९॥

निमित्तकारणं लक्षयति तदुभयेति। समवाय्यसमवायिभिन्नकारणं निमित्तकारणमित्यर्थः।

॥ तदेतत्त्रिविधकारणमध्ये यदसाधारणं कारणं तदेव करणम्॥३०॥

करणलक्षणमुपसंहरति तदेतदिति