तर्कसङ्ग्रहः/कर्मादिलक्षणप्रकरणम्

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ

॥अथ कर्मादिलक्षणप्रकरणम्॥[सम्पाद्यताम्]

॥चलनात्मकं कर्म। ऊर्ध्वदेशसंयोगहेतुरुत्क्षेपणम्। अधोदेशसंयोगहेतुरपक्षेपणम्। शरीरसंनिकृष्टसंयोगहेतुराकुञ्चनम्। विप्रकृष्टसंयोगहेतुः प्रसारणम्। अन्यत् सर्वं गमनम्। पृथिव्यादिचतुष्टयमनोव्त्ति॥१॥

कर्मणो लक्षणमाह चलनेति। उत्क्षेपणादीनां कार्यभेदमाह ऊर्ध्वेति। शरीरेति। वक्रतासम्पादकमाकुञ्चनम्। ऋजुतासम्पादकं प्रसारणमित्यर्थः।

॥नित्यमेकमनेकानुगतं सामान्यं द्रव्यगुणकर्मवृत्ति। तद्विविधं पराऽपरभेदात्। परं सत्ता। अपरं द्रव्यत्वादिः॥२॥

सामान्यं लक्षयति नित्यमिति। संयोगेऽतिव्याप्तिवारणाय नित्यमिति। जलपरमाणुगतरूपेऽतिव्याप्तिवारणाय एकेति। परमाणुपरिमाणादावतिव्याप्तिवारणाय अनेकेति। अनुगतत्वं समवेतत्वम्। तेन नाभावादवतिव्याप्तिः।

॥नित्यद्रव्यवृत्तयो व्यावर्तका विशेषाः॥३॥

विशेषं लक्षयति नित्येति

॥नित्यसम्बन्धः समवायः। अयुतसिद्धवृत्तिः। ययोर्द्वयोर्मध्ये एकमविनश्यदपराऽश्रितमेवावतिष्ठते तावयुतसिद्धौ, यथा अवयवावयविनौ, गुणगुणिनौ, क्रियाक्रियावन्तौ, जातिव्यक्ती, विशेषनित्यद्रव्ये चेति॥४॥

समवायं लक्षयति नित्येति। संयोगेऽतिव्याप्तिवारणाय नित्येति। आकाशादावतिव्याप्तिवारणाय संबन्धेति। अयुतसिद्धलक्षणमाह ययोरिति। ’नीलो घटः’ इति विशिष्टप्रतीतिर्विशेषणविशेष्यसम्बन्धविषया, विशिष्टबुद्धित्वात्, दण्डीति विशिष्टबुद्धिवत् इति समवायसिद्धिः। अवयवावयविनाविति। द्रव्यसमवायिकारणमवयवः जन्यद्रव्यमवयवि।

॥अनादिः सान्तः प्रागभावः। उत्पत्तेः पूर्वं कार्यस्य॥५॥

प्रागभावं लक्षयति अनादिरिति। प्रतियोगिसमवायिकारणवृत्तिः प्रतियोगिजनको भविष्यतीति व्यवहारहेतुः प्रागभावः।

॥सादिरन्तः प्रध्वंसः। उत्पत्यनन्तरं कार्यस्य॥६॥

ध्वंसं लक्षयति सादिरिति। घटादावतिव्याप्तिवारणाय अनन्तेति। आकाशादावतिव्याप्तिवारणाय सादिरिति। प्रतियोगिजन्यः प्रतियोगिसमवायिकारणवृत्तिर्ध्वस्त इति व्यवहारहेतुः ध्वंसः।

॥त्रैकालिकसंसर्गावच्छिन्नप्रतियोगिताकोऽत्यन्ताभावः। यथा भूतले घटो नास्तीति॥७॥

अत्यन्ताभावं लक्षयति त्रैकालिकेति। अन्योन्याभावेऽतिव्याप्तिवारणाय संसर्गेति। ध्वंसप्रागभावयोरतिव्याप्तिवारणाय त्रैकालिकेति।

॥तादात्म्यसम्बन्धावच्छिन्नप्रतियोगिताकोऽन्योन्याभावः। यथा घटः पटो नेति॥८॥

अन्योन्याभावं लक्षयति तादात्म्येति। प्रतियोगितावच्छेदकारोप्यसंसर्गभेदादेकप्रतियोगिकयोरत्यन्तान्योन्याभावयोर्भिन्नत्वम्। केवलदेवदत्ताभावादण्ड्यभावप्रतीत्या विशिष्टाभावः, ’एकसत्वेऽपि द्वौ न स्तः’ इति प्रतीत्या द्वित्वावच्छिन्नाभावः, संयोगेन घटवति समवायेन घताभावः, तत्तद्घटाभावाद्घटत्त्वावच्छिन्नप्रतियोगिताकसामान्याभावातिरिक्तः। एवमन्योन्याभावोऽपि। घटत्वेन पटो नास्तीति प्रतीत्या व्यधिकरणधर्मावच्छिनाभावो नाङ्गीक्रियते। पटे घटत्वं नास्तीति तदर्थः। अतिरिक्तत्वे स केवलान्वयी। सामयिकाभावोऽप्यत्यन्ताभाव एव समयविशेषे प्रतीयमानः। घटाभाववति घटानयने अत्यन्ताभावस्य अन्यत्र गमनाभावेऽपि अप्रतीतेः, घटापसरणे सति प्रतीतेः, भूतलघटसंयोगप्रागभावध्वंसयोर्घटात्यन्ताभावप्रतीतिनियामकत्वं कल्प्यते। घतवति तत्संयोगप्रागभावध्वंसयोरसत्त्वादेवात्यन्ताभावस्याप्रतीतिः। घटापसरणे तु संयोगध्वंसस्य सत्त्वात्प्रतीतिरिति। केवलाधिकरणेनैव नास्तीति व्यवहारोपपत्तौ अभावो न पदार्थान्तरमिति गुरुः। तत् न। अभावानङ्गीकारे कैवल्यस्य निर्वक्तुमशक्यत्वत्। अभावाभावो भाव एव। नातिरिक्त, अनवस्थाप्रसङ्गात्। ध्वंसप्रागभावः प्रागभावध्वंसश्च प्रतियोग्येवेति प्राञ्चः। अभावाभावोऽतिरिक्त एव तृतीयाभावस्य प्रथमाभावरूपत्वान्नावस्थेति नवीनाः।