तर्कसङ्ग्रहः/उपमाननिरूपणम्

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ

॥अथ उपमाननिरूपणम्॥[सम्पाद्यताम्]

॥ उपमितिकरणमुपमानम्। संज्ञासंज्ञिसम्बन्धज्ञानमुपमितिः। तत्करणं सादृश्यज्ञानम्। अतिदेशवाक्यार्थस्मरणमवान्तरव्यापारः। तथा हि कश्चिद्गवयशब्दार्थमजानन् कुतश्चित् आरण्यकपुरुषाद्गोसदृशो गवय इति श्रुत्वा वनं गतो वाक्यार्थं स्मरन् गोसदृशं पिण्डं पश्यति। तदनन्तरमसौ गवयशब्दवाच्य इत्युपमितिरुत्पद्यते॥१॥

उपमानं लक्षयति उपमितिकरणमिति