तर्कसङ्ग्रहः/अनुमाननिरूपणम्

विकिस्रोतः तः
Jump to navigation Jump to search

अथ अनुमाननिरूपणम्[सम्पाद्यताम्]

॥ अनुमितिकरणमनुमानम्॥१॥

अनुमानं लक्षयति अनुमितिकरणमिति

॥ परामर्शजन्यं ज्ञानमनुमितिः॥२॥

अनुमितिं लक्षयति परामर्शेति। ननु संशयोत्तरप्रत्यक्षेऽतिव्याप्तिः स्थाणुपुरुषसंशयानन्तरं पुरुषत्वव्याप्यकरादिमानयम् इति परामर्षे सति पुरुष एव इति प्रत्यक्षजननात्। न च तत्रानुमितिरेवेति वाच्यम्। पुरुषं साक्षात्करोमि इत्यनुव्यवसायिविरोधादिति चेत् न, पक्षतासहकृतपरामर्शजन्यत्वस्य विवक्षितत्वात्। सिषाधयिषाविरहविशिष्टसिद्ध्यभावः पक्षता। साध्यसिद्धिरनुमितिप्रतिबन्धिका। सिद्धिसत्त्वेऽपि अनुमिनुयाम् इतीच्छायामनुमितिदर्शनात् सिषाधयिषोत्तेजिका। ततश्चोत्तेजकाभावविशिष्टमण्यभावस्य दाहकारणत्ववत्सिषाधयिषाविरहविशिष्टसिद्ध्यभावस्याप्यनुमितिकारणत्वम्।

॥ व्याप्तिविशिष्टपक्षधर्मताज्ञानं परामर्शः। यथा वह्निव्याप्यधूमवानयं पर्वत इति ज्ञानं परामर्शः। तज्जन्यं पर्वतो वह्निमानिति ज्ञानमनुमितिः॥३॥

परामर्शं लक्षयति व्याप्तीति। व्याप्तिविषयकं यत्पक्षधर्मताज्ञानं स परामर्श इत्यर्थः। परामर्शमभिनीय दर्शयति यथेति। अनुमितिमभिनीय दर्शयति तज्जन्यमिति। परामर्शजन्यमित्यर्थः। व्याप्तिलक्षणमाह यत्रेति

॥ यत्र यत्र धूमस्तत्र तत्राग्निरिति साहचर्यनियमो व्याप्ति॥४॥

यत्र धूमस्तत्राग्निरिति व्याप्तेरभिनयः। साहचर्यनियमः इति लक्षणम्। साहचयं सामानाधिकरण्यं तस्य नियमः। हेतुसमानाधिकरणात्यन्ताभावाप्रतियोगिसाध्यसामानाधिकरण्यं व्याप्तिरित्यर्थः।

॥ व्याप्यस्य पर्वतादिवृत्तित्वं पक्षधर्मता॥५॥

पक्षधर्मतास्वरूपमाह व्याप्यस्येति

॥ अनुमानं द्विविधं - स्वार्थं परार्थं च॥६॥

अनुमानं विभजते अनुमानमिति

॥ तत्र स्वार्थं स्वानुमितिहेतुः, तथाहि, स्वयमेव भूयोदर्शनेन यत्र यत्र धूमस्तत्र तत्राग्निरिति महानसादौ व्याप्ति गृहीत्वा पर्वतसमीपं गतः, तद्गते चाग्नौ सन्दिहानः पर्वते धूमं पश्यन् व्याप्तिं स्मरति यत्र यत्र धूमस्तत्र तत्राग्निरिति। तदनन्तरं वह्निव्याप्यधूमवानयं पर्वत इति ज्ञानमुत्पद्यते, अयमेव लिङ्गपरामर्शः इत्युच्यते। तस्माद् पर्वतो वह्निमानिति ज्ञानमनुमितिः उत्पद्यते। तदेतत् स्वार्थानुमानम्॥७॥

स्वार्थानुमानं दर्शयति स्वयमेवेति। ननु पार्थिवत्वलोहलेख्यत्वादौ शतशः सहचारदर्शनेऽपि वज्रमणौ व्यभिचारोपलब्धेर्भूयोदर्शेनेन कथं व्याप्तिग्रह इति चेत् न। व्यभिचारज्ञानविरहसहकृतसहचारज्ञानस्य व्याप्तिग्राहकत्वात्। व्यभिचारज्ञानं निश्चयः शङ्का च।तद्विरहः क्वचित्तर्कात्, क्वचित्स्वतः सिद्धः एव। धूमाग्न्योर्व्याप्तिग्रहे कार्यकारणभावभङ्गप्रसङ्गलक्षणस्तर्को व्यभिचारशङ्कानिवर्तकः। ननु सकलवह्निधूमयोरसन्निकर्षात्कथं व्याप्तिग्रह इति चेत् न। वह्नित्वधूमत्वरूपसामान्यप्रत्यासत्त्यासकलवह्निधूमज्ञानसम्भवात्। तस्मादिति। लिङ्गपरामर्शादित्यर्थः।

॥ यत्तु स्वयं धूमादग्निमनुमाय परंप्रति बोधयितुं पञ्चावयववाक्यं प्रयुज्यते तत् परार्थानुमानम्। यथा पर्वतो वह्निमान्, धूमवत्वात्, यो यो धूमवान् स वह्निमान् यथा महानसः, तथा चायं, तस्मात्तथेति। अनेन प्रतिपादितात् लिङ्गात् परोऽप्यग्निं प्रतिपद्यते॥८॥

परार्थानुमानमाह यत्त्विति। यच्छब्दस्य ’तत्परार्थानुमानम्’ इति तच्छब्देनान्वयः। पञ्चावयववाक्यमुदाहरति यथेति

॥ प्रतिज्ञा-हेतु-उदाहरण-उपनय-निगमनानि पञ्चावयवाः। पर्वतो वह्निमानिति प्रतिज्ञा। धूमवत्वात् इति हेतुः। यो यो धूमवान् स वह्निमान् यथा महानस इत्युदाहरणम्। तथा च अयमिति उपनयः। तस्मात्तथेति निगमनम्॥९॥

अवयवस्वरूपमाह प्रतिज्ञेति। उदाहृतवाक्ये प्रतिज्ञादिविभागमाह पर्वतो वह्निमानिति॥ साध्यवत्तया पक्षवचनं प्रतिज्ञा। पञ्चम्यन्तं लिङ्गप्रतिपादकं हेतुः। व्याप्तिप्रतिपादकं उदाहरणम्। व्याप्तिविशिष्टलिङ्गप्रतिपादकं वचनमुपनयः। हेतुसाध्यवत्तया पक्षप्रतिपादकं वचनं निगमनम्। अबाधितत्वादिकं निगमनप्रयोजकम्।

॥ स्वार्थानुमितिपरार्थानुमित्योः लिङ्गपरामर्श एव करणम्। तस्मात् लिङ्गपरामर्शोऽनुमानम्॥१०॥

अनुमितिकरणमाह स्वार्थेति। ननु व्याप्तिस्मृतिपक्षधर्मताज्ञानाभ्यामेव अनुमितिसम्भवे विशिष्टपरामर्शः किमर्थमङ्गीकर्तव्यः इति चेत् न, ’वह्निव्यप्यवानयम्’ इति शाब्दपरामर्शस्थले परामर्शस्यावश्यकता लाघवेन सर्वत्र परामर्शस्यैव कारणत्वात्।लिङ्गं न कारणम्, अतीतादौव्यभिचारात्। ’व्यापारवत्कारणं करणम्’ इति मते परामर्शद्वारा व्याप्तिज्ञानं करणम्। तज्जन्यत्वे सति तज्जन्यजनको व्यापारः। अनुमानमुपसंहरति तस्मादिति

॥ लिङ्गं त्रिविधम्। अन्वयव्यतिरेकि, केवलान्वयि, केवलव्यतिरेकि चेति। अन्वयेन व्यतिरेकेण च व्याप्तिमदन्वयव्यतिरेकि। यथा वह्नौ साध्ये धूमवत्वम्। यत्र धूमस्तत्राग्निर्यथा महानस इत्यन्वयव्याप्तिः। यत्र वह्निर्नास्ति तत्र धूमोऽपि नास्ति यथा महाहृद इति व्यतिरेकव्याप्तिः॥११॥

लिङ्गं विभजते लिङ्गमिति। अन्वयव्यतिरेकिणं लक्षयति अन्वयेति। हेतुसाध्ययोर्व्याप्तिरन्वयव्याप्तिः

॥ अन्वयमात्रव्याप्तिकं केवलान्वयि। यथा घटः अभिधेयः प्रमेयत्वात् पटवत्। अत्र प्रमेयत्वाभिधेयत्वयोः व्यतिरेकव्याप्तिर्नास्ति, सर्वस्यापि प्रमेयत्वात् अभिधेयत्वाच्च॥१२॥

केवलान्वयिनो लक्षणमाह अन्वयेति। केवलान्वयिसाध्यकं लिङ्गं केवलान्वयि। (वृत्तिमत्) अत्यन्ताभावाप्रतियोगित्वं केवलान्वयित्वम्। ईश्वरप्रमाविषयत्वं सर्वपदाभिधेयत्वं च सर्वत्रास्तीति व्यतिरेकाभावः।

॥ व्यतिरेकमात्रव्याप्तिकं केवलव्यतिरेकि, यथा पृथिवीतरेभ्यो भिद्यते गन्धवत्वात्। यदितरेभ्यो न भिद्यते न तद्गन्धवत् यथा जलम्। न चेयं तथा। तस्मान्न तथेति। अत्र यद्गन्धवत् तदितरभिन्नम् इत्यन्वयदृष्टान्तो नास्ति, पृथिवीमात्रस्य पक्षत्वात्॥१३॥

केवलव्यतिरेकिणो लक्षणमाह व्यतिरेकेति। तदुदाहरति यथेति। नन्वितरभेदः प्रसिद्धो वा नवा। आद्ये यत्र प्रसिद्धस्तत्र हेतुसत्त्वे अन्वयित्वम्, असत्वे असाधारण्यम्। द्वितीये साध्यज्ञानाभावात्कथं तद्विशिष्टानुमितिः। विशेषणज्ञानाभावे विशिष्टज्ञानानुदयात्प्रतियोगिज्ञानाभावाद्व्यतिरेकव्याप्तिज्ञानमपि न स्यादिति चेत् न। जलादित्रयोदशान्योन्याभावानां त्रयोदशसु प्रत्येकं प्रसिद्धानां मेलनं पृथिव्यांसाध्यते। तत्र त्रयोदशत्वावच्छिन्नभेदात्मकसाध्यस्यैकाधिकरणवृत्तित्वाभावान्नान्वयित्वासाधारण्ये। प्रत्येकाधिकरणप्रसिद्ध्या साध्यविशिश्ःटानुमितिः व्यतिरेकव्याप्तिनिरूपणं चेति।

॥ सन्दिग्धसाध्यवान् पक्षः। यथा धूमवत्त्वे हेतौ पर्वतः॥१४॥

पक्षलक्षणमाह सन्दिग्धेति। ननु श्रवणानन्तरभाविमननस्थले अव्याप्तिः। तत्र वेदवाक्यैरत्मनो निश्चितत्वेन सन्देहाभावत्। किञ्च प्रत्यक्षेऽपि वह्नौ ययत्रेच्छयानुमितिस्तत्राव्याप्तिरिति चेत् न, उक्तपक्षताश्रयत्वस्य पक्षलक्षणत्वात्।

॥ निश्चितसाध्यवान् सपक्षः, यथा तत्रैव महानसम्॥१५॥

सपक्षलक्षणमाह निश्चितेति

॥ निश्चितसाध्याऽभाववान् विपक्षः। यथा तत्रैव महाहृदः॥१६॥

विपक्षलक्षनमाह निश्चितेति

॥ सव्यभिचारविरुद्धसत्प्रतिपक्षासिद्धबाधिताः पञ्च हेत्वाभासाः॥१७॥

एवं सद्धेतून्निरूप्य असद्धेतून्निरूपयितुं विभजते सव्यभिचारेति। अनुमितिप्रतिबन्धकयथार्थज्ञानविषयत्वं हेत्वाभासत्वम्।

॥ सव्यभिचारः अनैकान्तिकः। स त्रिविधः साधारणासाधारणानुपसंहारिभेदात्॥१८॥

सव्यभिचारं विभजते स त्रिविध इति।

॥ तत्र साध्याभाववद्वृत्तिः साधारणण् अनैकान्तिकः, यथा पर्वतो वह्निमान् प्रमेयत्वात् इति। प्रमेयत्वस्य वह्न्यभाववति हृदे विद्यमानत्वात्॥१९॥

साधारणं लक्षयति तत्रेति। उदाहरति यथेति

॥ सर्वसपक्षविपक्षव्यावृत्तः पक्षमात्रवृत्तिः असाधारणः। यथा शब्दो नित्यः शब्दत्वात् इति। शब्दत्वं हि सर्वेभ्यो नित्येभ्योऽनित्येभ्यश्च व्यवृत्तं शब्दमात्रवृत्तिः॥२०॥

असाधारणं लक्षयति सर्वेति

॥ अन्वयव्यतिरेकदृष्टान्तरहितिऽनुपसंहारि। यथा सर्वमनित्यं प्रमेयत्वादिति। अत्र सर्वस्यापि पक्षत्वात् दृष्टान्तो नास्ति॥२१॥

अनुपसंहारिणो लक्षणमाह अन्वयेति

॥ साध्याभावव्याप्तो हेतुर्विरुद्धः। यथा शब्दो नित्यः कृतकत्वादिति। कृतकत्वं हि नित्यत्वाभावेनाऽनित्यत्वेन व्याप्तम्॥२२॥

विरुद्धं लक्षयति साध्येति

॥ यस्य साध्याभावसाधकं हेत्वन्तरं विद्यते स सत्प्रतिपक्षः। यथा शब्दो नित्यः श्रावणत्वात् शब्दत्ववत्। शब्दोऽनित्यः कार्यत्वात् घटवत्॥२३॥

सत्प्रतिपक्षं लक्षयति यस्येति

॥ असिद्धस्त्रिविधः - आश्रयासिद्धः, स्वरूपासिद्धो, व्याप्यत्वासिद्धश्चेति॥२४॥

असिद्धं विभजते असिद्ध इति।

॥ आश्रयासिद्धो यथा गगनारविन्दं सुरभि-अरविन्दत्वात् सरोजारविन्दवत्। अत्र गगब्नारविन्दमाश्रयः स च नास्त्येव॥२५॥

आश्रयासिद्धमुदाहरति गगनेति

॥ स्वरूपासिद्धो यथा शब्दो गुणश्चाक्षुषत्वात्। अत्र चाक्षुषत्वं शब्दं नास्ति शब्दस्य श्रावणत्वात्॥२६॥

स्वरूपासिद्धमुद्दहरति यथेति

॥ सोपाधिको हेतुः व्याप्यत्वासिद्धः। साध्यव्यापकत्वे सति साधनाव्यापकत्वम् उपाधिः। साध्यसमानाधिकरनान्त्यन्ताभावाप्रतियोगित्वं साध्यव्यापकत्वम्। साधनवन्निष्ठात्यन्ताभावप्रतियोगित्वं साधनाव्यापकत्वम्।पर्वतो धूमवान्वह्निमत्वादित्यत्र आर्द्रेन्धनसंयोगः उपाधिः। तथाहि। यत्र धूमस्तत्रार्द्रेन्धनसंयोग इति साध्यव्यापकता। यत्र वह्निस्तत्रार्द्रेन्धनसंयोगो नास्ति अयोगोलके आर्द्रेन्धनसंयोगाभावादिति साधनाव्यापकता। एवं साध्यव्यापकत्वे सति साधनाव्यापकत्वादार्द्रेन्धनसंयोगः उपाधिः। सोपाधिकत्वात् वह्निमत्वं व्याप्यत्वासिद्धम्॥२७॥

व्याप्यत्वासिद्धस्य लक्षणमाह सोपाधिक इति। उपाधेर्लक्षणमाह साध्येति। उपाधिश्चतुर्विधः - केवलसाध्यव्यापकः, पक्षधर्मावच्छिन्नसाध्यव्यापकः, साधनावच्छिन्नसाध्यव्यापकः, उदासीनधर्मावच्छिन्नसाध्यव्यापकश्चेति। आद्यः आद्रेन्धनसंयोगः। द्वितीयो यथा वायुः प्रत्यक्षः प्रत्यक्षस्पर्शाश्रयत्वात् इत्यत्र बहिर्द्रव्यत्वावच्छिन्नप्रत्यक्षत्वव्यापकमुद्भूतरूपवत्वम्। तृतीयो यथा - प्रागभावो विनाशी जव्यत्वादित्यत्र जन्यत्वावच्छिन्नानित्यत्वव्यापकं भावत्वम्। चतुर्थो यथा - प्रागभावो विनाशी प्रमेयत्वात् इत्यत्र जन्यत्वावच्छिन्नानित्यत्वव्यापकं भावत्वम्।

॥ यस्य साध्याभावः प्रमाणान्तरेण निश्चितः स बाधितः। यथा वह्निरनुष्णो द्रव्यत्वात् जलवत्। अत्रानुष्णत्वं साध्यं तदभाव-उष्णत्वं स्पर्शनप्रत्यक्षेण गुह्यत इति बाधितत्वम्॥२८॥

बाधितस्य लक्षणमाह यस्येति। अत्र बाधस्य ग्राह्याभावनिश्चयत्वेन, सत्प्रतिपक्षस्य विरोधिज्ञानसामग्रीत्वेन साक्षादनुमितिप्रतिबन्धकत्वम्। इतरेषां तु परामर्शप्रतिबन्धकत्वम्। तत्रापि साधारणस्याव्यभिचाराभावरूपतया, विरुद्धस्य सामानाधिकरण्याभावतया, व्याप्यत्वासिद्धस्य विशिष्टव्याप्त्यभावतया, असाधारणानुपसंहारिणोः व्याप्तिसंशयाधायकत्वेन व्याप्तिज्ञानप्रतिबन्धकत्वम्, आश्रयासिद्धिस्वरूपासिद्धयोः पक्षधर्मताज्ञानप्रतिबन्धकत्वम्। उपाधिस्तु व्यभिचारज्ञानद्वारा व्याप्तिज्ञानप्रतिबन्धकः। सिद्धसाधनं तु पक्षताविघटकतया आश्रयासिद्धावन्तर्भवतीति प्राञ्चः। निग्रहस्थानान्तरमिति नवीनाः।