तप्तचक्राङ्ककविध्वंसनम्

विकिस्रोतः तः
Jump to navigation Jump to search


। ॐ ।
श्रीरस्तुः
श्री ज्ञानप्रसूनाम्बबासनाथाय
श्रीकाळहस्तीस्वरायनमः
तप्तचक्रांकविध्वंसनं
गायत्रीप्रणवाद्याश्रुतिनिचयायंप्रचक्षतेपरमं।
शिवमद्वयमुखिलेशंविधिहरिमुखविबुधवंन्द्यमीडेतं।।
ध्यात्वाश्रीशंकराचार्यानद्वैतामृतदायकान्।
तप्तचक्रांकविध्वंसंवितनूमिसतांमुदे।।
इहखलुकेचिदवैदिकाः पांचरात्रागमं प्रमाणंमन्वानाः लोकव्यामोहनार्थं पवित्रंन्तंइत्यादिप्रत्यक्षश्रुतिपठितमंन्त्राण् तदागमकल्पितवेदभावैः कैश्चिम्नंन्त्रैस्सहयोजयित्वातन्मंन्त्रार्थवशात्तप्तचक्रांकनविधिस्सिध्यतीतिमन्यन्ते।।
तन्मृगतृष्णीकांभः पिपासावद्विफलमेव।
तथाहि। तैत्तिरीयारण्य केदशमासुवाके।। पवित्रंतेविततंम्ब्रह्मणस्पतेप्रभुर्गात्राणिपर्येषिविश्वतः। अतप्ततनूर्नतदामोअश्नुतेश्रितासइद्वहन्तस्तमाशत" इति।।
तथातैत्तिरीयोपनिषदिनारायणानुवाके। चरणंपवित्रंविततम्पुरणम्येनपूत स्तरतिदुष्कृतानि। तेनपवित्रेणशुध्देनपूतातिपाम्पानमरातिन्तरेम" इति।।
तथातत्रैव। लोकस्यद्वारमर्चिमत्पवित्रंज्योतिष्माद्भ्राजमानंमहस्वत्। अमृतस्यधाराबहुधादोहमानंचरणंनोलोकेसुधितांददातु" इति।।
तथाऋग्वेदेसप्तमाष्टकेचतुर्थाद्यायेऽष्टमवर्गेचमूषच्च्येनाश्शकुनोविभृत्वागोविन्दुर्द्रप्सआयुधानिभ्रत्। अपामूर्मिंसचमानस्समुद्रंतुरीयंधाममहिषोविवक्ति।।
इतिच।। चत्वारः प्रत्यक्षश्रुतिपठितमन्त्राः।
तत्त्रपवित्रंन्त इति मन्त्रः" तेषूद्गातारोद्रोणकलशम्प्रतिष्ठाप्यत स्मिन्नु दीचिनदशंपवित्रंवितन्वन्तिपवित्रंतेविततं ब्रह्मणस्पत इति वितत्यमानभिमन्त्रयतेयजमानः" इत्यनेनवितत्य मानपवित्रानुमन्तणेविनियुक्तः। पांचरात्रेतु "ततस्स्थापनलेतुतत्तत्संज्ञामनुंजपे" दित्यादिनाचक्रप्रतिष्ठापनेविनियोगोदृश्यते।

चरणंपवित्रं। लोकस्वद्वारमितीमौमंन्त्राकाठकगतापाघनामकेष्टिंपंचकेचरणं पंचमीमितिचरणदेवताकपंचमेष्टौयाज्यापुरोनुवाक्ये। तत्रचरणंनामानुयंकर्म। नचकर्मणोदेवतात्वभावश्शंकनीयः। पार्वणहोमे।। ऋषभंवाजिनंवयंपूर्णमासंयजामहेसोनोदोहतांग् सुवीर्यं रायस्पोषंग् संहस्रिणंप्राणायनुराधसेपूर्णमासयोर्देवतात्वदर्शनात्। अत्रापि "तपः प्रथमांग्रक्षतिश्रद्धाद्वितीयांसत्यंतृतीयांमनश्चतुर्थी" मितीष्टिचतुष्टयेतपआदीनां देवतात्वदर्शनेनतत्समभिव्याहारवशाच्चरणशब्देनअनुष्टेयंकरैवविवक्षणीयं। दिवश्श्येनेषु। यज्ञश्चतुर्थीमितिचतुर्थ्यामिष्टौयज्ञस्यदेवतात्वदर्शनाच्च। यज्ञनमस्तेयज्ञ। यज्ञशंचमइत्यादौयज्ञस्यप्रार्थनीयत्वंवंन्द्यत्वंचदृश्यते। तस्माच्चरणमन्त्रानुष्ठेयंकर्मैव। तद्देवताकेष्टिश्चरणेष्टिः। तस्यांयाज्यानुवाक्यात्वेनअनयोर्मंन्त्रयोर्विनियोगः। पांचरात्रेस्नपनाद्याये। पौरुषेणतुसूक्तसमस्तेनशनैश्शनै। रित्यादिना "चरणंपवित्रंविततमितिसोमगतेनतु। लोकस्यद्वारमर्चिमदितिरुद्रगतेनतु। दिक्षिणेतुभुजेविप्रइतिप्राक्संस्थितेनतु। निचिक्षेपसुषणमितिवह्निगतेनतु। धृतोर्ध्वंपुन्ड्रमन्त्रेणयाम्यदिक्संस्थितेनतु। दक्षिणेतुभुजेविप्रोयातुदानींगतेनवै। विष्णुनातप्तमश्नन्तिवारुणीदिग्गतेनतु। ततस्स्थापनकालेतुतत्तस्तंज्ञामनुंजपेदित्यं तेनततस्स्थापनकालेत्वित्यादिना" विद्याङ्गदामित्याद्यन्तुपाठयेतद्विजोत्तमान्। च मूषच्छ्येनाः प्रतेविष्टोपाठयेद्बहृचान्पुनः। धृतोर्ध्वपुन्ड्रःकृतचक्रेतिमंन्त्रंकठान्परम्। पवित्रंतेविततंत्वेतन्मन्त्रंयजुर्मयान्। क्षुमाहुवेतिसामज्ञान्पवित्रमित्यग्निरित्यपि। येभिर्वयमुरुक्रमस्वेत्याधर्वणिकान्द्विजा" नित्यं तेनच।। क्रमेणस्नपनेस्थापनेचविनियोगउक्तः। एवंचस्थापनेकालेसंज्ञामनुंजपेदित्यादिवचनैः स्थापनकालेषुपवित्रं तइत्यादिमन्त्राणांजपएवविधीयते। ततश्चजपविनियुक्तानांमन्त्राणामनुष्टेयकर्मतस्ताधनतद्देवताप्रकाश नद्वारातत्ततत्कर्मविधिशेषत्वमेवेति मीमांसकानामन्तं। ततश्च तादृशमंन्त्रार्थपर्यालोचनवशादप्रकृततप्तचक्रांकनविधिर्लभ्यतइत्याशामात्रं।।

अर्थपर्यालोचना यामपिपवित्रं तइत्यादिमन्त्राणांचक्रांकनविधायकत्वंनसम्भवति। तथाहिपवित्रंतइतिमंन्त्रेब्रहणस्पतिशब्दः प्रजपत्यर्थकः। ब्राह्मणस्पत्यांम्बभ्रुकर्णीमालभेताभिचरन्वारुणदशकपालंम्पुरास्तान्निर्वपेद्वरुणेनैवभ्रातृव्यंग्राहयित्वाब्राह्मणास्तृणुतेबभ्रृकर्णीभवत्येततद्वैब्रब्मणोरूपमितिश्रुतौब्राह्मतणास्तृणुतेएतद्वैब्रह्मणोरूपमितिवाक्यशेषेण ब्राह्मणस्पत्यामित्यत्रप्रकृतिभूतब्रह्मणस्पतिशब्दार्थस्यपरामृष्टत्वात्। ब्राह्मणस्पत्यमेकादशपालंनिर्वपेद्ग्रामकामोब्राह्मणस्पतिमेवस्वेनभागधेयोनोपधापतिसएवास्मैसजातान्प्रयच्छतिग्राम्येवभवतिगणवती याज्यानुवाक्येभवतइतिवाक्येगणानांत्वा।। सइज्जनेनेतिद्वौमन्त्रौ याज्यानुवाक्यात्वेनविहितौ। तत्रपुरोनुवाक्यायांज्येष्ठराजंब्रह्मणांब्र्मणस्पतइतित्यत्रब्रह्माणं स्रष्टॄणांवेदानाम्ब्राह्मणानांवाज्येष्ठराजमितिब्रह्मैवब्रह्मणस्पतिशब्दार्थत्वेननिश्चितः। सइज्जनेनेतियाज्यायामपिदेवानांयः पितरमाविवासतीत्यत्रदेवादिस्रष्टत्वेनप्रसिद्धः ब्रह्मैवब्रह्मणस्पतिशब्दार्थत्वेननिश्चितः। पवित्रशब्दः पवनसाधनेव्युत्पन्नः। अतएवप्राजापत्यम्पवित्रं। पवित्रंवैहिरण्यं। पवित्रंवाआज्यं। पवित्रंवैदर्भाः। पवित्रेस्तेवैष्णवी। अग्निः पवित्रगम् समापुनातु। सोमः पवित्रगम् समापुनातु। सर्ववेदपवित्राणिप्रवक्ष्यामिततः परं। पवित्राणाम्पवित्रंयोमंगळानांचमंगळं। इत्यादिस्थलेषुअनेकपदार्थेषुशक्तिभेदकल्पनांविनैववृत्तिरुपपद्यते। श्रौतकर्मांगतपसः" यदास्यत्वचास्थिसंधीयतेथमेद्योभवति। इत्यादिश्रृत्यातापहेतुत्वंसिद्धं चक्रप्रतिष्ठारूपस्मार्तकर्मणोपिउपवासाधश्शयनादिरूपनियमात्माकतपसः तापहेतुत्वमस्तेवक। मंन्त्राणांदेवताकर्मतत्साधनान्यत मप्राकशनमेवप्रयोजनसमितिमीमांसाराद्धान्तः। ततश्चश्रौतस्मार्तविनियोगद्वयानुकूलः एवार्थोवर्णनीयः। लाघवात्। एवंच। अयमर्थः। ब्रह्मणस्पतेहेब्रब्मन्प्रभुस्त्वंविश्वतः सर्वाणिगात्राणिपर्येषिसमष्टिरूपतयाव्यष्टिशरीराखणिवाप्नोषि तेतवसम्बन्धित्वस्त्पृष्टतयापवित्रं सोमशुद्धिहेतुभूतंश्रौतेविवक्षितंवासःस्मार्तेप्रतिष्ठाकर्मणिदेवतारूपंवा। प्रतिष्ठाकर्मरूपंवा। तत्साधनद्रव्यरूपंवा। यजामानशुद्धिहेतुभूतंविविक्षितं। वितन्तिविस्तृतंव्याप्तंवानर्तते। एतत्पवित्रंनिर्वर्त्यप्रकृतकर्मसम्बन्धिनातपसाअतप्ततनूः अतप्तशरीरः। अतएवआमः। अपक्वः असम्पादिताधिकारः। तत्प्रकृतकर्मफलंनाश्नुते। इद्वहन्तः। प्रकृतकर्मनिर्वर्त्यतत्प्रकृतकर्मफलंसमाशत। प्राप्नुवंतीत्यर्थः। तथाच। चक्रधारणविध्यनुकूलार्थस्तैवाभावात्। अनेनमन्त्रेणचक्रधारणविधिसिद्धिर्दूरावास्ता। एवंचरणंपवित्रमित्यादिमन्त्त्राणामपिश्रौतस्मार्तविनियोगद्वयानुकूलः एकएवार्थोवर्णनीयः। चरणंविहितंश्रौतेइष्टिरूपंस्मार्तेचक्रादिस्नपनरूपंकर्मतत्कीदृशंपवित्रंशोधकं। नित्यनैमित्तिकैरेवकुर्वाणोदुरितक्षयमिति स्मृत्याकर्मणांपापनिवर्तकत्वस्यप्रसिद्धत्वात्। सर्वजनैरनुष्ठीयमानत्वाच्च। कर्मफलाननुभवस्यसार्वत्रिकत्वाद्वापुराणं आनादिवेदसम्बन्धित्वात्। प्रवाहनादित्वाद्वायेनकर्मणापूतःदुष्कृतानितरतिनित्यनैमित्तिकप्रायश्चित्तानां दुष्कृतनिवर्तकत्वस्यसर्वसंम्प्रतिपन्नत्वात्। तेनपवित्रेणशोधकेनशुद्धनस्वतः प्रामाणभूतवेदावगतत्वान्निष्कळं केनपूताः पाप्मानंअरातिंअतितरेम। प्रकृतकर्मणानिष्पापास्संत्तः पापफलंदुःखंनानुभवेन। लोकस्यद्वारंस्वर्गस्यउपायभूतंअर्चिष्मत् प्रकरृतकर्मणः अग्निसाध्यत्वात्। अतएवमहस्वत् प्रकाशसंपन्नंमाहात्म्यसंपन्नंवा। ज्येतिष्मत् साध्यभूतस्वर्गयुक्तं। आपामसोमममृताथअभूमादर्श्मज्योतिरित्यादौस्वर्गस्यज्येतिश्शब्देनोक्तत्वात् अथवायदेवविद्ययाकरोतितदेववीर्यवत्तरम्भवतीत्युक्तत्वात् कर्मांगज्ञानयुक्तंज्योतिषत्। अतएवभ्राजमानंशोभमानं। अथवाचरणंकीदृशंलोकस्यद्वारंस्वर्गद्वारस्यतेजोमयत्वात्देवतानमूहनिवासत्वात् एतानिविशेषणानिसम्भवति। नचकर्मणोद्वारत्वनिरूपणात्। स्वर्गद्वारमपावृतं। सुखनःक्षत्रियाः पार्थलभंतेयुद्धमीदृशमितिभगवद्गीतासुयुद्धकर्मणोपिस्वर्गद्वारत्वनिरूपणात्। अमृतन्यसमुद्रमथनोत्पन्नस्यबहुधाधारादोहमानन्दुहानं। अथवाअमृतस्यस्वर्गसुखस्यधारास्संन्ततीः अविच्छिन्नस्वर्गसुखानिबहुदाबहुप्रकारैः दुहानं। युक्तंचैतत्स्वर्गलोकेबहुविधसुखानांसम्बवात्। एवंविधंचरणंप्रकरृतंश्रौतइष्टिरूपंकर्मस्मार्तेचक्रस्नपनरूपंकर्मच। नः अस्मान्। लोकेप्रकृतकर्मसाध्येसुथितान् सुप्रतिष्ठितान्करोतु। नन्वेवमर्थकरणेदेवताप्रकाशनंनास्तीतिचेन्नमंन्त्राणांदेवताकर्मतत्साधनान्य तमप्रकाशेनेनैवविनियोगसाफल्योक्तत्वेन कर्मप्रकाशनेनैवात्रसाफल्यसम्भवात्। कर्मणएवात्रदेवततात्वस्यसमर्थितत्वाच्च। तथाच एतन्मंन्त्रार्थबलात्तप्तचक्रांकनविधिर्लभ्यतइतिवक्तुमशक्यं।

एवंचमूषदित्यादिमन्त्रस्यापिचक्राभिषेकविनियोगानुगुणोर्थोवर्णनीयः। सचैवंप्रकारः शकुनश्श्येनः पक्षीगुरुत्मान्। च मूषत् द्यावापृथिव्योस्संचन्। संचरणंपक्षिणांस्वभावः। विशेषतोगरुडस्य। अव्याहतिगतित्वात्। गोविन्दुर्विभृत्वाविष्णोर्वोढा। विष्णुवाहनत्वंगरुढस्यप्रसिध्दमेव। अथवागोविन्दुरितिव्यत्ययेनद्वितीयार्थेषष्ठीविभृत्वेतित्वान्तः। गोविन्दवहन्नित्यर्थः। द्रप्सः गोविन्दुरंशः। अथवाद्रवदुदकसन्निकर्षेणवर्तमानः। अधवातेजस्संपत्त्यासूर्यः। असावादित्योद्रप्सइतिश्रुतेः। आयुधानिबिभ्रत्। निरुपदंआयुधपदंस्वायुधमेववक्ति। पक्षिणांहिनखमुखादीन्यायुधानिस्वभावसिद्धानिग्ररुडस्यत्वन्यान्यपिसन्ति। तानिबिभ्रत्धारयन्। अथवाविष्णुनास्वस्वामिनास्वायुधानिप्रयाणसमयेस्वस्मिन्निक्षिप्तानि। तानिबिभ्रत्। प्रयातारोहिप्रयाणसमयेस्वायुधानिस्ववाहनेस्थापयन्ति। इहचप्रयाणमेवउत्तरार्थेवर्ण्यते। अपामूर्मिंसमुद्रं। ऊर्मिप्रयुरत्वादूर्मित्वं। सचमानः। प्राप्नुवन्। यत्तुरीयम्धाम। तत्समुद्रस्यपारेवर्तमानश्वेतद्वीपाख्यं। महिषोमहान्। स्वरूपतोमाहात्म्याच्च। विवक्तिप्राप्नोति। जुषतइतिपर्यायप्रयोगात् प्राप्त्यर्थत्वं। अत्रसमुद्रंसचमानः तुरीयंधामप्राप्नोतीत्युक्त्यासमुद्रोपरिगमनंगम्यते। तत्रापिगोविन्दुर्ब्विभृतत्वेतिस्वारूढेनगोविन्देनतदायधेनचसहागमनंगम्यते। द्रप्सवधूर्मिंसचमानइत्युदकसन्निकर्षोगम्यते। धामप्राप्नोतीतिस्वस्थानवस्थानंगम्यते। एवंचदोविन्दायुधस्यचक्रस्यसमुद्रोर्मिसदृशैः कलशोदकैस्स्नपनरूपसम्बन्धपूर्वकं स्वस्थानेप्रतिष्टापनंप्रकाशितम्भवति। अनुष्टेयार्थप्रकाशनस्यैवमन्त्रकृत्यत्वात्। नचप्राधान्येनगोविन्दाभिषेकस्थापनमेवप्रकासितम्मन्त्रेण। अतश्चक्राभिषेकस्थापन प्रकाशानुगुण्यमन्त्रस्य कथंभवतीतिवाच्यं। चक्राभिषेकेविनियुक्तयोः पुरुषसूक्तनारायणानुवाकयोस्तदानुगुण्यस्यसच्चरित्रराक्षायान्तप्तमुद्रावादिभिरेवोक्तत्वेनतथैवात्रापिसम्भवात्।।

एवंचविनियोगद्वयानुगुणार्थसम्भवेविनियोगा ननुगुणम् लक्षणाथ्याहारादिप्रयुक्तगौरवादिदोषदुष्टमर्थं परिकल्प्यतादृशार्थबलाच्चक्रांकनिविधिर्लभ्यत इति प्रत्याशादूरापास्तात्रथाहि। पवित्रन्तइतिमन्त्रस्यतप्तमुद्रावादाभिरेवमर्थोवर्ण्यते। ब्रह्मस्पतेचतुर्मुखस्यापिनायकविष्थणोप्रभुस्त्वंविश्वतस्सर्वेषांगात्रणिपर्येषिव्याप्नोषि। तेव्यापकस्यतव। विततम्पवित्रंचक्रंयदस्तीत्यथ्याहर्तव्यंतेनतप्तेनचक्रेणअतप्तनूरतएवआमः। अपक्वः अदग्धपापइतियावत्। तच्चप्रसिद्धंमोक्षलक्षणंसुखविशेषंनाश्नुतइतिपवित्रदाहंवहन्तः। अतएवश्रुतासः परिपक्वाः तत्सुखंसमाशतअश्नुवन्तीत्यर्थइति।।

अत्रपवित्रशब्दस्यचक्राभिधायकत्वंकल्पत्वं। वाक्यशेषवशाद्देवताविशेषव्युत्पन्नस्यब्रह्मणस्पतिशब्दस्यविष्णुवाचकत्वमप्रसिद्धं परिकल्पनीयं। यदस्तितेनेतिपदत्रयाध्याहारः कल्पनीयः। अतप्ततनूरित्यत्रकृत्स्नदेहवाचकतनुशब्दस्य भुजमूलेलक्षणाकल्प्या। तेन अतप्तनूरित्यात्रपूर्वपरामृष्टचक्रमात्र वाचकतच्छब्देनवह्नितप्तचक्रंलक्षणीयं। केवलस्यतापहेतुत्वाभावात्वह्नितप्तेनेतिविशेषणपदंवाऽथ्याहर्तप्यं। तच्छब्दयोरसन्निहितमोक्षसुखपरत्वंकल्पनीयं। मन्त्रस्ययस्मिन्कर्मणिविनियोगस्तदनुगुणार्थकत्वंवक्तव्यं। अयंमत्रश्चक्रस्थापनेविनियुक्तः तदानुगुण्यंचतुद्देवताप्रकाशनेनस्थापनक्रिया प्रकाशनेनतस्ताधनप्रकाशनेनवावक्तव्यं। भवदुक्तार्थवर्णनेतुतन्नसम्भवति। किन्तुय। स्यकस्यचित्पुंसः भुजदाहाभावेमोक्षोनास्तिभुजदागेमोक्षोस्तीत्येवम्भवताप्रतिपाद्यते। सचार्थः प्रकृतकर्माननुगुणएव। किञ्च। एकस्यैवार्थस्यश्रौतस्मार्तोभयानुगुणस्त्वाभिमतसिद्धयेस्व्रोक्षितार्थवर्णनस्यउक्त बहुदोषदुष्टत्वादश्रद्धेयत्वेनपरोक्तार्थवर्णनबलाच्चक्रधारणविधिर्नसिध्यति।।

नापिचरणंपवित्रंलोकस्यद्वारमितिमन्त्रद्वयार्थबलाद्वाचक्रधारणविधिस्सम्भवति। तथाहि। तप्तमुद्रावादिनातन्मन्त्रद्वयस्यैवमर्थोवर्ण्यते। येनचरणेनपूतः यदंकनेनपूतः। दुष्कृतानि। सर्वाणिपापानितरति। तद्विततं। विस्तृतं। पुराणं। सनातनं। चरणं। चक्रंथचरणशब्दस्यार्थोक्त्यापवित्रंचरणंचक्रमितिनिधघंन्टुपाठाद्वाचरणशब्दस्सुदर्शसपरः। पवित्रंपापनंयतस्त्वसम्बन्धिनस्सकलमपिपापंनिवारयति। अतश्शुद्धेनस्वतश्शुद्धेन। पवित्रेणस्वसम्बन्धिनामपिशुद्धिहेतुभूतेनतेसचरणेनपूतास्तदंकनेनशुद्धाः। पाप्मानं। पापरूपं। अरातिं। शत्रुं। अतितरेम। अतिक्रम्यवर्तिषीमहि। अर्चिमत्। ज्योतिष्मत्। महस्वत्। इतिज्वालाकिरणप्रकाशभेदस्यविवक्षितत्वादपौनरुक्त्यं। सुदर्शनस्यस्वतोदेदीप्यमानतयाधारणदशायान्तप्ततयावा अर्चिष्म त्वादिकमुपपद्यते। अतएवभ्राजमानंपवित्रंपापनिवर्तकत्वात्। लोकस्यद्वारंस्वर्गादिलोकोपायत्वात्। अमृतस्यधाराबहुधादोहमानं। मोक्षोपायत्वात्। मोक्षानुभवान्नानाविधोपायैर्दोहमान्दुहानं। एतादृशंचरणंचक्रंनः अस्मान्। अस्मिन्लोकेसुधितान् सुप्रतिष्ठितान्। दधातुकरोतुस्वस्त्यैवसकलपुरुषार्थसाधनतयापुरुषार्थोपायेषु अस्मानचंचलान्करोत्वित्यर्थः। एवंचस्वदेहेवर्तमानं चक्रमेवंकरोत्वित्यर्थावगमात् चक्रांक संकर्तव्यमितिविधिरुन्नीयतथ इति तप्तमुद्रा वादिनामभिमानः।। अत्रोच्यते।।

तत्रमन्त्र द्वयेचरणशब्दस्यचक्रांकनेव्युत्पत्तिः कथंरूढ्यायोगेनलक्षणयावा। नाद्यः। तद्ग्राहकप्रमाणाभावात्। नद्वितीयः। चक्रार्थकत्वोपयोगिनोयोगस्याभावात्। नच पवित्रम्चरणंचक्रमितिरूढिर्निश्चीयतइतिवाच्यं। वैदिकनिघन्टावदर्शनात्। लौकिकेष्वपिनामलिंगानुशासनादावदर्शनात्। स्वाभिमतपञ्चरात्रगतन्यवहारमात्रहेतुतयापवित्रं चरणंचक्रंलोकद्वारंसुदर्शनं। पर्यायवाचकाह्येतेचक्रस्यपरमात्मन इत्यदिनिघन्ठुवचनानांकल्पितत्वात्। अन्यधाप्रथममन्त्रेचरणंपवित्रमितितेन पवित्रेणेतिपर्यायप्रयोगप्रसंगात्। द्वितीयनुन्त्रेपिलोकद्वारं पवित्रं चरणमितिपर्यायप्रयोगप्रसञ्घात्।। नहिघटमानयेतिवक्तव्येघटकंलशमानयेतिप्रेक्षावान्वदति। किञ्चिनिघंटूनांनरूढिनिश्चायकत्वं। गुणेशुक्लास्यनिघन्टुसिद्धत्वेपिगुणिशक्तत्वेशक्य तावच्छेदकगौरवात् गुणशक्तत्वंलक्षथणयागुणिबोधकत्वमितिनैयायिकैर्व्यवस्थापितत्वात्। नचानादिवृद्धव्यवहारादेवशक्तिर्निश्चीयतइतिवाच्यं तदावकत्यवहारादर्शनात्।

नह्युत्तमवृद्धेनसुदर्शनमानयाचक्रमानयेत्युक्तेसुदर्शनचक्रशब्दाभ्यांयमर्थंमद्यमवृद्धः प्रतिपद्यतेतमेवार्थंपवित्रमानयचरणंपश्येत्युक्तेपिपवित्रचरण शब्दाभ्यांप्रतिपद्यते। प्रत्युतशुद्धिसाधनीयभूतद्रव्यविशेषमेवप्रतिपद्यते। नह्यत्र यूपन्तक्षति। आहवनीयेजुहोती। तिवद्वैदिकीव्युत्पत्तिर्दृश्यते। तस्ममात्पवित्रचरणशब्दयोश्चक्रेशक्तिर्नसम्भवति। ननुव्याकरणेपवित्रशब्दस्यसंज्ञापरत्वंसिध्यति। तथाहिपाणि-सू।। अर्तिलूधूसूकनसहचरइत्रः। अरित्रंलवित्रन्धवित्रंसवित्रंखनिर्तंसहित्रंचरित्रं। पुवस्संज्ञायां। पूज्धातोः इत्रस्संज्ञायांपवित्रं। येनाज्यमुत्पूयतेयच्चारनामिकावेष्टनं। सू। कर्तरिचर्षिदेवतयोः। पुवइत्रस्स्यादृषौकरणेदेवतायांकर्तरि। ऋषिर्वेदमन्त्रः। पूयतेऽनेनेतिपवित्रं। देवतायान्तुअग्निः पवित्रगम् समापुनात्वति। एवंचानामिकावेष्टनस्यादज्योत्पवनसाधनस्येवचक्रदेवतायाअपिपवित्रशब्दस्संज्ञास्यादितिचेन्नतर्हिसंज्ञासूत्रेणैव सिद्धेकर्तरिचर्षिदेवतयोरितिसूत्रारम्भोव्यथन्स्स्यात्। अतः उत्पवनसाधनानामिकावेष्टनयोस्सं ज्ञात्वंनियम्यिइति नचक्रदेवतासंज्ञात्वसिद्धिः। ननुपवित्रचरणशब्दयोश्चक्राभिधायकत्वाभावेततस्स्थापनकालेतुतत्तस्तंज्ञानुंजपेदितिपाञ्च रात्रागमवचनात् स्थापनविनियुक्तस्थापनविनियुक्तमन्त्राणाम्संज्ञामनुत्वमवगतंकथसंगच्छतइतिचेन्नविद्यांगदामित्याद्यं तुपाठयेतद्विजोत्तमानित्यादिनाऽन्येषांमन्त्राणामपिविधानात्। तत्रचक्रादिशब्दानामभावाच्छाकुनसूक्तेतदभावच्च। प्रतेविष्टोअब्जचक्रेइत्यादिषुकेषुचिन्मन्त्रेषुसंज्ञायोगोस्तीतितावन्मात्रेणैवसंज्ञामनुत्वस्यसृष्टीरुपदधातीतिवदुपपन्नत्वात्। अस्तुवागौणसंज्ञयातद्योगस्तथापिमन्त्राणांजप्यत्वविधानादर्थविवक्षैवनास्ति। अन्यथा। स्योनंतेसदनंकारोमिघृतस्यधारयासुशेवंकल्पयामि। तस्मिंस्तीदामृतेप्रतितिष्टप्रहीणांमेधस्सुमनस्यमान इत्यादिमन्त्रवशादचेतनपुरोडाशादीनांचेतनधर्णसुमनस्यमानत्वादिसिद्धापत्तेः। नचअपश्यन्पुरोडाशंकूर्मंभूतगं सर्पंन्ततमब्रुवन्निंद्रायद्रियस्वेत्यादिनाचेतनधर्म प्रसर्पस्यपुरोडाशेश्रवणात्तद्वदेवसुमनस्यमानत्वादिकमपिसम्भवतीतिवाच्यन्तस्य यदाग्नेयोऽष्टाकपालोऽमावास्यायांचपौर्णमास्यांच्युतोभवती" तिविधिशेषार्थवादत्वेनस्वार्थतात्पर्याभावात्तादृशवाक्येनपुरोडाशप्रसर्पणस्यासिद्धेः। अन्यधा "देववैदेवयजनमद्यवसायदिशोनप्राजान" न्नतिवाक्येनदेवयजनांविधिस्तावकत्वेन प्रामाण्यव्यवस्थापनस्यासांगत्यापत्तेः। नचवज्रहस्तः पुरंदरइत्याद्यर्‌थवादवशाद्देवानांविग्रहादिसिद्धिवदत्रापिपुरोडाशप्रसर्पणसिद्धौनानुपपत्तिरितिवाच्यं मानान्तरपविरोद्धत्वेनतदसिद्धेः। अन्यधा। तस्यधनुर्विप्रवमाणगं शिरउदवर्तयत्। यद्घ्रांइत्यपतत्। इत्यादिकवाक्याद्यज्ञरूपिणोविष्णोश्शिरः पतनंसारोददीदित्यादिवाक्येनयज्ञाधिपस्यरुद्रस्यरोदनंचसिद्ध्येत्। नच यज्ञरूपत्वंविष्णोः रुद्रस्ययज्ञाधिपत्वंचकमिथिवाच्यं। यज्ञोवैविष्णुः। आपोराजानमध्वरस्कयरुद्रमितिश्रुतिप्रसिद्धत्वेनतस्याऽविप्रतिपन्नत्वात्। तस्माद्विध्यंगभूतार्थवादाभिरर्थांन्तरंसिद्ध्यतीत्येतदश्रयद्धेयं। अतोमन्त्राणामर्थवादवाशाद्विधायकत्वंदूरापास्तमेव। नचान्वैस्सौदर्शनैस्तथेतिपाञ्चरात्रागमवचनादनयोस्सुदर्शनपरत्वमावश्यकमितिवाच्यं। चरणंपवित्रंवितत। मितिसोमगतेनतु। लोकस्यद्वारमर्चिमदितिरुद्रगतेनतु।। मन्त्रैरेतैस्तुचाष्टाभिरन्यैस्सौदर्शनैस्तथा। इतिचरणंपवित्रमित्यादिमन्त्रव्यतिरिक्तानामेवसौदर्शनशब्देनविवक्षितत्वात्। सुदर्शनस्नपनादिसम्बन्धात्पुरुषसूक्तादीनामिवसौदर्शनत्वोपपत्तेश्च।

यत्तुरथचरणशब्दस्यार्धोक्त्याचरणसबद्स्सुदर्शनपरइति। तदप्यसत्। एकदेशोपादानरल्पनायाअन्यायत्वात्तदपेक्षयाविष्णुचरणशब्दैकदेसकल्पनैवज्यायसी। चरणशब्दस्यकेवलस्यैवपादेप्रसिद्धत्वान्मंत्रार्थसमन्वयकाच्च। नचप्रकृतविनियोगानुरात्तथाकल्प्यतइतिवाच्यं। अनयोर्मंत्रयोश्चक्रस्नपनेविनियोगात्तदुपयोगस्यलोकप्रसिद्धार्थकथनेनैवोप पत्तौक्लिष्टकल्पनायाअन्याय्यत्वात्।

नचपवित्रमित्यग्निरित्यादिसामवेदगतत्वेनोदाहृतमन्त्रवशात्पवित्रशब्दस्यचक्रार्थकत्वमितिवाच्यं। ततस्स्थापनकालेतुतत्तस्तंज्ञामनुंजपेदितिप्रकृत्य। क्षुमाहवेतिसामज्ञान् पवित्रमग्निरित्यपीत्यनेनपाञ्चरात्रेऽस्यमन्त्रस्यप्रतिष्टाकालेजपेविनियोगउक्तः। पाञ्चरात्रोदाहरणमात्रेणवेदत्वमेवनिश्चेतुंनशक्यं। तथापिजपविनियुक्तमन्त्राणामर्थविवक्षाभावेनयथाकथंचिच्चक्रप्रकाशनद्वाराचक्रप्रतिष्ठाविथिशेषत्वेनचनानेनमन्त्रेणपनित्रशब्दस्यचक्रसंज्ञात्वसिद्धिः। अन्यथाआपोवा इदग्। सर्वमितिमन्त्रेण अप्छब्दस्यसर्वार्थकत्वं ब्राह्मणोवैसर्वादेवता इतिवाक्येन ब्रह्मणशब्दस्यसर्वदेवतासंज्ञात्वं। अग्निस्सर्वादेवता इति वाक्येनाग्नि शब्दस्यसर्वदेकवातार्थकत्वंचस्यात् तस्मात्तन्मन्त्रेणपवित्रशब्दनिर्वचनंचक्रांकनविधिर्वानसिध्यति। अतोयोगेनरूढ्यावानपवित्रशब्दस्यचक्रसंज्ञात्वं। नतृतीयः। अनुपपत्तेरभावात्। नहिचरणशब्दपवित्रशब्दयोश्चक्रार्थकत्वाभावेगंगायांघोष इति वदन्वयानुपपत्तिर्भवतिय। नवाततात्पर्यानुपपत्तिः। मन्त्रस्यदेवताकर्मतत्साधनान्यतमप्रकाशनेहितात्पर्यं। तादृशार्थस्योक्तरीत्यामुख्यवृत्त्यैवनिर्वाहेलक्षणाकल्पनाया असम्भवात्। श्रौतस्मार्तविनियोगयोरानुगुण्यस्यैकार्थ्येनैव निर्वाहहे अप्रसिद्धभिन्नार्थत्वकल्पनायाअन्याय्यत्वाच्च। नचचरणशब्दस्यकर्मार्थकत्वमप्यप्रसिद्धमेवेति वाच्यंतद्य इहरमणीयचरणारमणीयां योनिमापद्यं तेकपूयचरणाः कपूयांयोनिमापद्यं ते इत्यत्र। चरणापदितिचेन्नोपलक्षणार्थेतिकार्षाजनिः। सुकृतदुष्कृतेएवेतितुबादरिः। इति सूत्राभ्यान्तद्भाष्यादि ग्रंधेषुचरणशब्दस्यकर्मार्थकतायानिर्णीतत्वात्। आचारहीनंपुनंतिवेदाइत्यादिप्रयोगेषुकर्मार्थकत्वस्यातिस्पष्टत्वाच्च। किंचयेनपूतइत्यस्ययदंकनेनपूतइत्यर्थकथ। मयुक्तं। नह्यत्रांकनंधारणंवाशब्दादर्थाद्वाप्रतीयते। पवित्रंपावनंस्वसंबंधेनसकलदुरित निवर्तकमित्यर्थकथनमप्यसंगतं्। चरणस्यपवित्रशब्दवशाद्दुरितनिवर्तकत्वलाभेपि स्वसंबंधरूपार्थस्याप्रतितेः। पवित्रेणस्वसंबंधस्याप्रतीतत्वात्तेनचरणेनपूतास्तदंकनेनशुद्धाइत्यप्यसंगतं। चरणशब्देनतदंकनस्याप्रतीतेः। द्वितीयमंत्रेअर्चिमत्। ज्योतिष्मत्। महस्वत्। इतिविशेषणत्रयंधारणदशायांतप्तत्वादुपपद्यतइतियत्तदप्यसंगतं। धारणशायाः मंत्रादप्रतीतेः। शब्दार्थाद्वातप्तत्वप्रतीतेः। नह्यर्चिमताज्योतिष्मतामहस्वताचक्रेणभुजौदहंतितदनुष्ठातारः। तथासत्यतिदाहेनानिष्टापत्तेः। नचायमर्थस्स्नपनविनियोगानुकूलः। स्नपनकालेदेवतारूपविग्रहयुक्तंचक्रंनताप्यते। अतस्तत्रनार्चींषिनज्योतींषिच। किंचलोकद्वारमितिस्वर्गोपायत्वमुक्तं। तदप्यसंगतंज्योतिष्टोमादावेवस्वर्गोपायत्व प्रसिद्देश्चक्रधारणस्यस्वर्गोपायत्वानभ्युपगमाच्च। अमृतस्यधाराः। मोक्षानुभवनितियदुक्तं। तदप्ययुक्तं। अमृतधाराशब्दस्यसुखसंततिपरत्वमेवस्वरसतः प्रतीयते। तदपहायतदनुभवपरत्वस्यायुक्तत्वात्। बहुधानानाविधोपायसाथ्यत्वाभावात्। नान्यः पंथाविद्यतेयनायेतिश्रुतेर्मोक्षसुखस्कयनित्यत्वेनैकत्वेनचबहुविधत्वबहुप्रवाहत्वयोरसंभवाच्च। अस्मिन्लोकेअस्मान्सुप्रतिष्ठान्करोत्वितिव्याख्यानमप्यसंगतं। चक्रधारणस्यस्वेनमोक्षेकोपायत्वस्वीकारात्। तस्मादयमर्थोनहृद्यः। चमूषदितिमंत्रस्यतप्तमुद्रावादिभिरेवमर्थोवर्ण्यते। द्रप्संद्रप्सवत्कणभूतस्सूक्षभूतः। चमूषत्। कर्मवशेनद्यावापृथिव्योः पर्यायवृत्तानिषीदन्संचरन्। श्येनःशकुनः। श्येनवदात्मानमुन्नेतुंसमर्थः शक्नोत्यात्मानमुपैतुमितिशकुनः विभृत्वासंबंधि नामपिभरणसमर्थः गोविंदुः विष्टोः। आयुधानिबिभ्रत् अपामूर्मिंसमुद्रंसचमानः निस्तरन् महिष्ठोमहनीयः। तुरीयंधाम। उत्कृष्टंस्थानं। विवक्तिऋषभइति। अत्रगोविंदुः आयुधानिबिभ्रदितिचक्रधारणवएवोत्कृष्टस्थानप्राप्तेरुक्तत्वात् चक्रधारणविधिर्लभ्यतइतितप्तमुद्रावादिनामभिमानः। अत्रशकुनिश्येनपदयोः पक्षिसामान्यतद्विशेषवाचकयर्मनुष्यपरत्वमसंगतं। नचगत्यंतराभावात्तथोक्तमितिवाच्यं। रूढ्यपरित्यागेनोक्तरीत्याऽर्थवर्णनस्यसंभवात्। बिभृत्वेतिपदस्यसन्निहितगोविंदुरितिपदेनसहान्वयसंभवेस्वसं बंधिनामपिभरणसमर्थइत्याध्याहारं परिकल्प्यार्थवर्थनमयुक्तं। नचप्रकृतविनियोगानुगुण्यायतथाकल्प्यत इतिवाच्यं। भक्षितेपिलशुनेनशांतोव्याधिरितिन्यायेनतथाकल्पनेपिविनियोगानुगुण्यासिद्धेः। नचगोविंदुरायुधानिबिभ्रदित्युक्त्याप्रकृतकर्मान्वितसुदर्शनप्रकाशनात्प्रकृतानुगुण्यमस्तीतिवाच्यं। प्रकृतकर्मानन्वितस्ययस्यकस्यचित्पुंसः अप्रकृतचक्रायुधधारणपरत्वेनचक्रप्रकाशनस्यतच्छेषत्वेनप्रकृतचक्रस्नपनात्मककर्मानुपयोगात्। तस्मान्नतप्तसमुद्रावाद्युक्तार्थवर्णसंयुक्तं। तथाचोभयविनियोगानुगुणैकार्थसंभवेतपहास्वमनोरथसिद्ध्यर्थं विनियोगाननुगुणक्लिष्टार्थपरिकल्पनंप्रामाणिकैरनादरणीयमेव। ननुतथापि पांचरात्रागमेखिलशाखापठितत्वेनकथितानांचक्रंबिभिर्तीत्यादिमंत्राणामर्थवशेनचक्रधारथणविधिस्सद्ध्यतीतिचेन्न। उत्पत्त्यसंभवादिसूत्रैः पांचरात्रागमस्य वेदविरुद्धत्वेनाप्रामाण्यस्यभगवता व्यासेनैवव्यवस्थापितत्वात्तन्मात्रयविनियुक्तानांमंत्राणामप्रत्यक्षश्रुतिगतत्वेननिश्चितुमशक्यत्वात्। अन्यधाजीवोत्पत्त्यादिकस्यापिखिलशाखा प्रमाणकत्वस्यनिश्चितुंशक्यत्वाद्ब्रह्ममीमांसायांव्यासादिभिः पांचरात्रागमाऽप्रामाण्यव्यवस्थापनस्यअंसांगत्यापत्तेः। धर्मशास्त्रेषुपांचरात्रादीनामवैदिकाधिकारिकत्वव्यवस्थापनासांगत्यापपत्तेश्च। तथाहि। हेमाद्रौप्रायश्चित्तकांडेमरीचिः। कुंडश्चगोळकश्चैवअयाज्यानांचयाजकः। चक्रांकिततनूराजन्तथालिंगांकितोपिच। चारुवाकोदूषकश्चउन्मत्तः कितवस्तथा। एतैरावेष्टितापङ्त्किः पापादासर्वदानृणां। एतेषामन्नभुग्विप्रः पापमेवसमाश्रयेत्। एकत्रभोजनोराजन्चांद्रायणमथाचरेत्। तत्रैववामनपुराणे।। ब्राह्माणोयदिमोहात्मातापयेद्वह्निमुद्रया। नकार्मार्होभवेदत्रसवैषाषंडसंङ्ञितः। तत्रैवनादीये। ब्राह्मणस्यतनुरेयासर्वदेवमयीयतः। साचेत्संतापितायेनकिंवक्ष्यामिमज्ञहैनसः। चक्रांकिततनुर्यत्रराजन्लिंगांकितोपिवा। जपेच्चपौरुषंसूक्तमन्यथारौरवंव्रजेत्। तत्रैवलिंगपुराणे। शंखंचक्रंतापयित्वायत्रदेहेप्रदह्यते। सजीवन्कुणपस्त्याज्यस्सर्वकर्मबहिष्कृतः। तत्रैवादित्यपुराणे। वेदेषुयज्ञभागेषुयस्यनाप्त्यधिकारिता। सतापयित्वाचक्रादीन्थारयेस्त्यभुजद्वये। ब्राह्मणोयदिमोहेनधारयेद्वह्निमुद्रिकाः। तस्यदर्शनमात्रेणकुर्यात्सूर्यावलोकनं। तत्रैववह्निपुराणे। पूर्वजस्यतनुंदग्ध्वाशंखचक्रादिभिः पृथक्। एतस्यनिष्कृतिर्नास्तिस्नानदानजपादिभिः। तस्यनिष्कृतिरुत्पन्नापाराशर्येणभाषिता। केशानां वापयित्वाथपुनः कर्मसमाचरेत्। गर्भकोशात्समुद्धृत्यगर्भाधानादिपूर्वकं। षोढावृत्त्याकृच्छ्राणांप्रायश्चित्तमुदीरितं। तत्रैवकीर्मपुराणे। अज्ञात्वामुखजोयत्रमुद्रादग्धेभ्य आदरात्। सुवर्णमात्रंसंगृह्यप्राजावत्यंसमाचरेत्। तदर्थेर्धंपुनः कृत्वाएकाहंसमुपोषणं। इत्यादिभिः हेमाद्रिप्रभृतिधर्मशास्त्रनिंबंधनकारोदाहृतैः मरीचिस्मृतिवामनपुरानारदीयलिंगपुराणादित्यपुराणवह्निपुराणकूर्मपुराणादिवचनैस्तप्तमुद्रांकितब्राह्मणपङ्त्किप्रवेशतदन्नभोजनतत्सहभोजनतद्दर्शनतद्द्रव्यप्रतिग्रहादिकर्तॄणांप्रायश्चित्तस्योक्तत्वात्। तप्तमुद्राराणंकरृतवतोगर्भाधानादिपुनस्संस्कारपूर्वकषडब्धकृच्छ्रलक्षणप्रायश्चित्तविधानाच्चक्रधारणस्यावैदिकत्वं तद्विधायकरपांचरात्रागमादीनामवैदिकाधिकारिकत्वंचसिद्धं। किंचवैद्यनाथीयेविष्णुस्मृतौ। शंखचक्राद्यंकनंचनृत्तगीतादिकंतथा। एकजातेरयंधर्मोनद्विजातेः कथंचन। यस्तुसंतप्तशंखादिलिंगचिह्नतनुर्ध्विजः। ससर्वयातनाभागीचंडालः कोटिजन्मसु। चक्रांकिततनुर्वापिलिंगांकिततनुस्तथा। नाधिकारीसविज्ञेयश्र्रौतस्मार्तेषुकर्मसु। गोभिलोपि। श्रौतस्मार्तक्रियोविप्रोनांकयेदंगमंकनैः। अपिविष्थ्वादिसंबद्धेस्तप्तैर्वापतितोभवेत्। अज्ञानादथवालोभाद्रागतोवासुदर्शनं। धत्तेकुलघ्नुंतंदृष्ट्वासवासाजलमाविशेत्। भुजाग्रेसलिलेनैवविलिखेद्यस्सुदर्शनं। वेदाग्निज्ञानवान्सोपिदहत्यासप्तमंकुलं। शंखंचक्रंचपद्मंचयोमूढोधारयेत्तनौ। पाषंडस्सहिविज्ञेयस्सर्वकर्मबहिष्कृतः। शातातपः। अंगेषुनांकयेद्विप्रोदेवतायुधलांछनैः। अंकयेद्यदिवामोहात्पतत्येवनसंशयः। मनुः। नांकयेन्नदहेग्दात्रंदेवतायुधलांछनैः। दहनाल्लेखनाद्विप्रः पातित्यंयातितत्क्षणात्। बोधायनः। नांकयेन्नदहेद्देहंदहेच्चेत्कामकारतः। नाधिक्रियेतदग्धांगश्श्रौतस्मार्तेषुकर्मसु। चक्रोपनिषदि। तस्माच्छूद्राणामेवशंखचक्रंद्विभुजेधारयेत्। स्मृतिरत्ने। भूदेवस्तप्तमुद्राभिश्चिह्नंकृत्वाविमूढदीः। इहजन्मनिशूद्रस्स्यात्प्रेत्यचश्वाभविष्यति। स्मृत्यंतरे। शंखंचक्रंमृदायस्तुकुर्यात्तप्तायसेनवा। सशूद्रवद्बहिष्कार्यस्सर्वस्माद्द्विजकर्मणः। यथाश्मशानजंकाष्ठमनर्हंसर्वकर्मसु। तथाचक्रांकितोविप्रोह्यनर्हस्सर्वकर्मसु। ब्राह्मेपुराणे। तप्तमुद्रात्वंत्यजानांहरिणानिर्मितापुरा। गौपीचंदनसंलिप्तफलकाह्यंत्यजातयः। मानवे। आयुधैश्शंखचक्राद्यैर्नदहेच्छकारीकदाचन। दग्धांगश्चतान्राजादेवच्छी। घ्रंप्रवासयेत्। अतीवपतितानांहिश्वापद्यांकनंनृणां। विधीयतेनशुद्धानांततश्शुद्धंनचांकयेत्। अध्यापनेचाध्ययनेश्रौतस्मार्तेषुकर्मसु। संभाषणेसंबंधेनाधिकारीचलांछितः। नारदीये। ब्राह्मणस्यतनुर्ज्ञेयासर्वदेवसमाश्रया। साचेत्संतापिताराजन्किंवक्ष्यामिमहैनसः। अनिमित्तंदहेद्देहेयः पुमान्व्याधिवर्जितः। हव्यकव्यादिदानेषुतंत्यजेदंत्यजंयथा। इत्यादिनाविष्णुगोबिलशातातपमनुबोधायनप्रभृतिभिरुक्तैस्स्मृतिवचनैर्ब्राह्ममानवकौर्मनारदीयादिपुराणवचनैश्चतप्तचक्रांकनंवैदिकानांबहुधादूषयित्वा। एकांतिनोमहाभागामत्स्वरूपविदोऽमलाः। सांतराळान्प्रकुर्वीरन् पुंड्रान्ममपदाकृतीन्। इत्यादिनापांचरात्रागमोक्तशंखचक्रधारणविधायकवचनानांतांत्रिकाधिकारिकत्वंव्यवस्थाप्यतत्रप्रमाणत्वेनय़। वेदश्चवेदमूलानिस्मृत्यादीन्यखिलानिच। स्वतः प्राप्तानिमर्त्यानांभूमावन्यानिसर्वतः। मार्गोवेदविरिद्धोयस्सतुसत्यंतपोधनाः। वेदप्रस्खलितानांतुप्राणिनांवेदमार्गतः। पांचरात्रादयोमार्गाः कालेनैवोपकारकाः। शंखचक्रगदापूर्वैरंकनंनान्यदेहिनां। दीक्षितानांहितंत्रेषुनराणामंकनंद्विजाः। उपकारकमेवोक्तंक्रमेणमुनिपुंगवाः। बाधकंतुविशेषवेदमार्गैकवर्तिनां। इत्यादिस्कंदपुराणादिवचनानिचोपन्यस्तानि। श्रुतिभ्रष्टन्स्मृतिप्रोक्तप्रायश्चिताद्भयंगतः। क्रमेणश्रुतिसिद्ध्यर्थं मनुष्यस्तंत्रमाश्रयेत्। तंत्राणितंत्रनिष्ठानांरक्षकाण्यपिचक्रमात्। बाधकानिविशेषेणवेदमार्गैकवर्तिनां। इत्यादिपराशरादिनतनैस्तंत्राधिकारिणोनिरूपिताः।

अत्रोदाहृतशातातपस्मृतिवचनेनतप्तचक्रांकनस्यपातित्यहेतुत्वप्रतिपादनात्तप्तमुद्रावाद्युदाहृतशातापश्रुतेः कल्पितत्वंसिद्धं। अत्रोदाहृतपराशरवचनेन वेदमार्गभ्रष्टस्यैवतंत्राधिकारप्रतिपादनात् पराशरस्मृतावुत्तरखंडेचक्रांकनंविहित मितितप्तमुद्रावादिनांप्रवादोऽश्रयेद्धेयः। किंचपराशरस्मृतिव्याख्यातृभिर्माधवाचार्यैः। अनुक्रमणिकाग्रंधेस्मृतिपरिमाणस्यकांडसंख्यायाः अध्यायसंख्यायास्तत्तत्प्रमेयस्यचोक्तत्वेनोत्तरखंडस्यैव शशविषाणसोदरत्वात्प्रक्षेपशंकाकळंकितत्वाच्चनिबंधकारैरनुदाहृतस्मृतिपुराणवचनामाधुनिकैः प्रामाण्यंनिर्णेतुमशक्यमेव। अतिएवकल्पसूत्राकारैर्निर्णीतप्रकारेणैवाधुनिकैर्वेदमंत्राणांविनियोगः क्रियते। नतुबुद्ध्यनुसारेण विनियोगः कल्पयितुंशक्यते। स्मृत्यर्थानुष्ठानेपिमहानिबंधकारैर्निर्णीतप्रकारेणैव व्यवहारः क्रियते। नतुमूलस्मृति मवलोक्यस्वबुद्ध्यनुसारेणार्थंपरिकल्प्यव्यवहारः कर्तुंशक्यते। तस्माद्धेमाद्रिवैद्यनाधीयादि धर्मशास्त्रनिबंधनेषुचक्रांकनविधेर्वेदबाह्यतांत्रिकाधिकारिकत्वस्य व्यस्थापितत्वान्न चक्रांकनस्यवैदिकत्वसिद्धि।।

ननुततापिचक्रंबिभर्तिवपुषाभितप्तंबलंदेवानाममित्यस्यविष्णोः। सएतिनाकंदुरिताविधूयविशंतयद्यतयोवीतरागाः। इत्यधर्वणवेदस्थुमंत्रेण। निचिक्षेपसुषणंभिद्यमानंमध्येबाहुमदधत्सुदर्शनं। विष्णोरिदंभूरितेजः प्रधर्षतिदिवानक्तंभिभृयुस्तज्जनासः। इतिबृहदारण्यकस्थमंत्रेण। प्रतेविष्णोअब्जचक्रेपवित्रेजन्मांबोधिंतर्तवेचर्षणींद्राः। मूलेबाह्वोर्दधतेऽन्येपुराणा लिंगान्यंगे तावकान्यर्पयंति। इतिऋग्वेदस्थितपुष्कलसंहितास्थमंत्रेण। धृतोर्ध्वपुंड्रः कृतचक्रधारीविष्णुंपरंध्यायतियोमहात्मा। स्वरेणमंत्रेथणसदाहृदिस्थंपरात्परंयन्महतोमहांतं। इतिकठवल्लीस्थमंत्रेण। दक्षिणेतुभुजेविप्रोबभृयाद्वैसुदर्शनं। सव्येतुशंखंबिभृयादितिब्रह्मविदोविदुः। इतिमहोपनिषन्निष्ठब्रह्मसूक्तस्थमंत्रेण। एभिर्वयतमुरुक्रमस्यचिह्नेरंकितालोकेसुभगाभवाम। तद्विष्णोः परमंपदंयेगच्छंतिलांछिताः। इत्यधर्वणवेदस्थमंत्रेथणचत्रकप्तचक्राकनविधिर्लभ्यतइतिचेन्न। बृहदारण्यकेनिचिक्षेपनुषणंभिद्यमानमितिमंत्रोनास्ति। अनुपलंभात्। ऋग्वेदेपुष्कलसंहितैवनास्ति। तच्छाखापरिगणनायामदृष्टत्वात्। थृतोर्ध्वपुंड्रइतिमंत्रः कठल्ल्यांनास्ति। अदर्शनात्। नहिपांचरात्रागमोदाहरणेन तन्मात्रावगतकविनियोग स्वरूप प्रामाण्यवतांमंत्राणांवेदत्वंवैदिकैर्निश्चेतुंशक्यं। तथात्वेपितद्विनियोगानुसारेणैवार्थोवर्णनीयः। नतुतदननुसारेण। ततस्थ्सापनकालेतुतत्तत्संज्ञामनुंजपेदित्यादिनाच उक्तमंत्राथणांचकरप्रतिष्ठायांतत्स्नपनादौचविनियोगउक्तः। मंत्राणांकर्मतत्साधनतद्धेवतान्यतमप्रकाशनमेवप्रयोजनं। नान्यत्। अतस्तत्प्रकाशद्वाराप्रकृतचक्रप्रतिष्ठादिविधि शेषत्वमेवेतिनोक्तमंत्रैरप्रकृततप्तचक्रांकनविधिसिद्धिः। अन्यधाशाखाच्छेदनादौविनियुक्तानांइषेत्वेत्यादिमंत्राणामन्नादिप्रकाशकत्वेनभोजनविधिसिद्ध्यापपत्तेः। इष्टापत्तिरितिचेत्तर्हिभोजनस्यापिवैदिकत्वेनतत्परित्यागिनामपिसंध्यावंदनपरित्यागिनामिवप्रायश्चित्तापत्ते। नचभोजनस्यरागप्राप्तत्वेनतत्रविध्यभावेप्यत्रविधिस्संभवतीतिवाच्यंथअत्रापितप्तचक्कांकनंकुर्वतांपुनस्संस्कारपूर्वकंषडब्दकृच्छ्रलक्षण प्रायश्चित्तस्यविधानेन "श्रुतिभिः प्रायश्चित्तंविध्यपराधेविधीयत" इत्यापस्तंबोक्त्याप्रायश्चित्तस्य विध्यपराधहेतुकत्वावगमाच्चक्रांकनस्यविध्यपराधत्वंचक्रांकननिषेधंविनानसिद्ध्यति। अतोनिषेधस्यमानांतरावगतत्वेनमंत्रैः विधिरनामातुंनशक्यते। अन्यधायोगीयपश्वालंभनांगभूतैः "दैव्याश्शमितार" इत्यादिभिर्मंत्रैर्बाह्यपशुहिंसाविद्ध्यापत्तेः प्रायश्चित्तविधानस्योभयत्रतुल्यत्वात्। नचमाहिंस्यादितिप्रत्यक्षनिषेदसद्भावात्तत्रतथानभवतीतिवाच्यं। अत्रापितस्माम्छाद्रस्यैवेत्येवकारश्रुत्याशूद्रव्यतिरिक्तानांतन्निषेधस्यप्रत्ययदर्शनाद्विधिसिद्धिरितिवाच्यं। वसंतायकपिंजलानालभेतेत्यादिमंत्रेषुविधिप्रत्ययसद्भावेपिविधित्वाभावस्यैवकपिंजलाधि करणेव्यवस्थापितत्वेनतद्विरोधापत्तेः। तस्मादुक्तमंत्राणांचक्रदेवताप्रकाशनद्वाराचक्रप्रतिष्ठाविधिशेषत्वमेवेतिनाप्रकृतितप्तचक्रांकनविधिसिद्दिः।

नन्वेवमप्युक्तश्रुतीनांपांचरात्रोक्तचक्र प्रतिष्ठाविध्यनुगुणार्थकत्वंकथमितिचेदित्थं चक्रंबिभिर्तीत्यादिमंत्रस्यवुपुषास्वरूपापेण। अभितप्तंप्रदीप्तं। देवनांबलंरक्षणहेतुभूतं। अमितस्यसर्वव्याप्तस्यविष्णोस्संबंधि चक्रं योबिभर्तिकलशाभिषेकयुक्तप्रतिष्ठापूर्वकमुपचारैः पूजयति संवर्धयतिसंतोषयति। सः पापंपरितोविधूयनाकंप्रतिष्ठाकर्मफलभूतंविष्थुलोकं। एति प्राप्नोति। यद्यतयोवीतरागाविशंति। एवंप्रकृतकर्मविनियोगानुगुणार्थसंभवेयः कश्चित्पुरुष स्संतप्तंचक्रं स्ववपुषाभिभर्ति। सचक्रधारणेननकंलोकं प्राप्नोतीति प्रकृतप्रतिष्ठाभिषेकविनियोगाननुगुणः तप्तमुद्रावाद्युक्तार्थस्त्वग्राह्यएव।।

एवंनिचिक्षेपनुषणमितिमंत्रस्यापि योमध्येबाहुंबाह्वोर्मथ्येसुदर्शनं। अदधत्। दधार। सः भिद्यमानं। अनेकप्रकारैर्विभज्यमानंनानाविधमितियावत्। यद्वाभिद्यमानंशत्रुजनान्छिंदानं। कर्मणिप्रयोगाश्छांदसः। सुषणंअंतकरंपापं। निचिक्षेपनितरांचिक्षेप। क्षिप्तवान्। यतोभूरिदंबहुफलप्रदं। विष्णोरिदंवैष्णवं। इदंसुदर्शनंभूरितेजः बहुळशत्रुसामर्थ्यं। प्रधिर्षतिपरिभवति। अतः पापराशिंनाशयतीत्यर्थः। तस्माज्जनासः जनाः दिवानक्तंसदाबिभृयुः। इतितप्तमुद्रावाद्युक्तार्थोऽग्राह्यएव। प्रककृतविनियोगाऽननुगुणत्वात्। प्रकृतविनियोगानुगुणार्थस्तुयत्सुदर्शनं विष्णुः मध्येबाहुमदधत्। सुषणंशत्रूणामंतकरं। तस्मिंश्चसमयेभिद्यमानंशत्रुनाशानुरूपस्वरूपाणिधानं। यत्शत्रुषुनिचिक्षेपप्रयुक्तवान्। यत्प्रयुक्तंभूरीणिद्यतीतिभूरिदंभूरितेजः। प्रधर्षति। तत्बहुळशत्रुसामर्थ्यंतिरस्करोति। विष्णोरिदंवैष्णवं। तत्सुदर्शनंजनासः जनाः दिवानक्तं। अह्निरात्रौच। सायंप्रातः कालयोरित्यर्थः। बिभृयुः पुष्णीयुः। पोषणभरणेपर्यायभूते। डुभृञ् धारथणपोषणयोरितिधातुः। प्रयोगश्चकुटुंबंभिभृयाद्भ्रातुः योविद्यामधिगच्छितः। भागंविद्याधनात्तस्मात्सलभेताश्रुतोपिसन्निति।। भरणं चास्यकुर्वीरन् स्त्रीणामाजीवनक्षयादितिच।। इदमेवपोषणापरवर्यायंभरणंपूज्यविषयेपूजनमित्युच्यते। अतएवयज्ञेऋत्विजांवरणभरणेकर्तव्येइतियाज्ञिकानांप्रवादः। तत्रभरणंनामवस्त्राभरणादिभिः पूजनमेव। तथाचअभिषेकप्रतिष्ठापूर्वकंसायंप्रातः कालयोः पूजयेज्यातिथिभृत्यांश्चदंपत्योश्शेषभोजनं।। इत्यत्रभृत्याः भरणीयाः मातापित्रादय इति ग्रंधकर्तृभिर्व्याख्यातं। एवंचक्र प्रतिष्ठानुगुणार्थस्यैवग्राह्यत्वात्तदननुगुणस्तप्तमुद्रावाद्युक्तार्थोऽग्राह्यएव।।

ननुतप्तमुद्रावाद्युक्तरीत्यापि यथाकथंचिच्चक्रप्रकाशनसद्भावात्सोपि प्रकृतानुगुणएवेतिचेन्नयोबाहुमध्येसुदर्शन मदधत् सपापंचिक्षेपयतः वैष्णवं सुदर्शनं बहुळशत्रुसामर्थ्यं प्रधर्शति। अतः पापराशिंनाशयति। तस्माज्जनाःदिवानक्तंसदाबिभृयुरित्यर्थलाभेनपापक्षयार्थं सुदर्शनंसर्वदाधार्यमित्युक्तं भवति। एवंचसतिप्रकृतकर्मानन्वितस्ययस्यकस्यचित्पुंसः अप्रकृतचक्रधारणविधिलाभेनकथं प्रकृतविनियोगानुगुण्यंलभ्यते। चक्रप्रकाशनमात्रेणनप्रकृतानुगुण्यंवक्तुंशक्यं। तत्प्रकाशनस्यधार्खविध्यनुकूलत्वेन प्रकृतोपयोगाभावात्। तस्मात्तप्तमुद्रावाद्युक्तार्थोऽग्राह्यएव।।

एवंप्रतेविष्णोअब्जचक्रेइतिमंत्रस्यापिप्रकृतकर्मविनियोगानुगुणार्थएववर्णनीयः। हेविष्णोकेचिच्छर्षणींद्राः ङ्ञानिनाः। जन्मांभोधिंतर्तवेतरितुं। तद्विग्रहप्रतिष्टाकाले। अंगेबाह्वोर्मूले। पवित्रेअब्जचक्रे। दधतेप्रक्षिपंतीतियावत्। अन्येपुराणाः पुरातनाः। तेअंगेलिंगानिकियंतीत्याकांक्षायांलिंगानियावंतित्वदीयानितानिसर्वाणीत्यर्थः। अर्पयंतिप्रक्षिपंति। अत्रश्रीविष्णुगतत्वेनचक्रस्यप्रतिपादनात्देवतारूपचक्रप्रतिपादसंकृतंभवति। चर्षणींद्रपुराणशब्दाभ्यांऋत्विजः प्रतिष्ठाकालसंबंधित्वंसूचितं। एवंचमंत्रस्यप्रतिष्ठाकालसंबंधि चक्रदेवताप्रतिपादनात्प्रकृतकर्मविनियोगानुगुण्यंसिद्ध्यति। अथवाविष्णोरेवप्रकाशनात्पुरुषसूक्तनारायणानुवाकयोरिप्रकृताऽनुगुण्यंसंभवति। अत्रहेविष्णोतेतवपवित्रेअब्जचक्रेजन्मांभोधिं तर्तुंकेचिच्चर्षणींद्राः ज्ञानपरिपूर्णाः बाह्वोर्मूलेदधते। अन्येपुराणाः ऋषयः तापितानिपंचायुधानि अंगेशरीअर्पयंतीततप्तसमुद्रावादिभिरर्थोवर्ण्यते। तत्रदेवतारूपचक्रप्रकाशनं कृतंभवति। तत्प्रकृताननुगुणमेव। नहिपुरुषधार्यांकनरूपचक्रादिकं प्रकृतकर्मसंबंधिभवति।। तस्मात्तप्तवाद्युक्तार्थोऽग्राह्यएव यथ प्रकृतविनियोगानुगुणोर्थोवर्णनीयः। तस्मात्पांचरात्रोदाहृतश्रुतिबलात्तप्तचक्रांकनविधिर्नसिद्ध्यति।।

नन्वेमपि "चक्रमादायाग्नौताप्यब्राह्मणस्यदक्षिणेबाशाधारयेत् प्रांचकजन्यमादायाग्नौताप्य ब्राह्मणस्योत्तरेबाहौधारयेत्। ब्रह्मवादिनोवदंतितदाशादयोनपृथक्त्वेनबाहुनासुदर्शनेनस्वर्गमायन्येनांकितामनवोलोकसृष्टिं वितन्वंतिब्राह्मणास्तर्षवंती" वशट्तविष्णोअर्भकमादायसुदग्धचक्रेणनिऋतिं पराग्घित्वाच। यंचातिमृत्युमेति" तिकैवल्यश्रुत्या"अग्निनासहवैहोत्रासचक्रंचपांचजन्यंनुतप्तंद्विभुजेधार्यतेआत्महितमाचरेत् आचार्यायसम्मखं प्रवद्येततस्माद्वैकुंठोभवति नपुनरागमनंसायज्यंसलोकतामाप्नोतीत्युपनिष" दित्यधर्वणश्रुत्याचतप्तचक्रांकनविधिस्सिद्ध्यत्येवेतिचेन्न आश्वलायनापस्तंबभोधायनकात्यायनप्रभृतिभिः कल्पसूत्रकारैः कर्ममीमांसाकारैर्जैमिन्यादि भिर्ब्रह्ममीमांसाकारैर्व्यासादिभिः कुत्रापिश्रौतेस्मार्तेवाकर्मणि विनियोगार्थमर्थनिर्णयार्थंवाऽनुदाहरणादवैदिकपांचरात्रादावु दाहृतत्वेपिश्रुतित्पत्यस्यतावन्मात्रेणवैदिकैर्निर्णेतुमशक्यत्वात्। अन्यधातदागमप्रतिपादितजीवोत्पत्त्यादीनाम पिश्रौतत्वस्यनिश्चेतुंशक्यत्वेन।। उत्पत्यसंभवादित्यादिसूत्रैर्व्यासकृत तदागमाऽप्रामाण्यव्यवस्थापनासांगत्यापत्तेः। धर्मशास्त्रेषुतप्तचक्रांकितस्यप्रायश्चित्तविधानासांगत्यापत्तेश्चक।

यत्तु तप्तचक्रांकनविधेश्शूद्रविषयत्वप्रतिपादकवचनानांवेदबाह्यत्वप्रतिपादनं। तत्स्वोक्तेरेवतत्प्रकटयति। तस्माच्छूद्रस्यैवशंखचक्रेद्विभुजेधारयेदितिश्रुतेर्धर्मशास्त्रनिबंधनकारैरुदाहृतत्वेनप्रसिद्धवेदभावत्वात्। इतरव्यवच्छेदप्रतिपादकैवकारसहितत्वेनप्रबलत्वाच्च। तदुनुसारेणैवाप्रसिद्धश्रुतेर्नेतुमुचितत्वात्। चक्रमादायाग्नौताप्येत्यादिश्रुतिस्थब्राह्मणपदंश्रैष्ठ्यगुणमादाय अध्येतावह्निरित्यत्रिवह्निपदस्यमाणवकपरत्ववच्छूद्रपरमितिवक्तुंमुचितं। अन्यधाब्राह्मणत्वजातिपरत्वेबृहस्पतिसवादिवत्तद्विधेर्ब्राह्मणमात्रविषयत्वेनशूद्राणामपितदाचारस्यदृष्टत्वेनानुभवविरोधापत्तेः। स्मृतिपुराणादिषुश्रौतस्मार्तकर्मवहीनस्तैव तद्विधिरितिप्रतिपादनासांगत्यापत्तेश्च। तथाधर्मशास्त्रेषुतप्तशंखचक्रांकितब्राह्मस्यपुनस्संस्कारविधानं। षडब्दकृच्छ्रप्रायश्चित्तविधानं। तथाविधब्राह्मणदर्शनस्पर्शनादिकर्तुः प्रायश्चित्तविधानंचासंगतंस्यात्। अथवाब्राह्मणत्वजातिपरत्वेपिनानुपपत्तिः। "तस्माच्छूद्रस्यैवशंखचक्रेद्विभुजेधारयेत्"। इत्यत्रशूद्रपदस्यकर्मानधिकारिपरत्वं स्वीक्रियते। जन्मनाजायतेशूद्रः कर्माणाजायतेद्विजः। इत्यादिषुतधादर्शनात्। तथाचपशुच्छागन्यायेनश्रौतस्मार्तकर्मानधिकारिब्राह्मणस्यैवतप्तचक्रांकनविधिर्लभ्यते। एवंचश्रौतस्मार्तकर्मवीनस्यैवतद्विधिरितिधर्मशास्त्रेप्रतिपादनं। कर्माधिकारिब्राह्मणेनांकनेकृतेपातित्यप्रतिपादनं। अंकितस्यपुनस्संस्कारविधानं। षडब्दकृच्छ्रप्रायश्चित्तविधानं। तथाविधब्राह्मदर्शनस्पर्शनभाषणादीनांप्रायश्चित्तविधानंचेत्येतत्सर्वंगच्छते। एवंचतप्तचक्रांकनस्यशूद्रविषयत्वं प्रतिपादयतांवेदबाह्यत्वंस्पष्टीकृमितिवचनंस्वस्यैवतत्प्रकटयति। श्रौतस्मार्ताचारप्रवर्तकानांधर्शशास्त्रमहानिबंधकर्तॄणा मीश्वरांशसंभूतानांवेदव्यासादिमहामुनीनां कल्पसूत्रकाराणामाश्वलायनापस्तंबभोधायनप्रभृतीनां वेदबाह्यत्वस्वीकारापेक्षयासंदिग्धवेदभावश्रुतेः श्रुतित्वत्यागस्यैवयुक्तत्वात्तादकृशश्रुतिमंगीकृत्याप्युक्तरीत्याउपपत्तेर्वक्तुंशक्यत्वाच्च। नचापशूद्राधिकरणन्यायेनशूद्रपदस्यशुचादुद्रावेतियोगेन ब्राह्मणपरत्वमपिभवतीतिवाच्यं। अपशूद्राधिकरणेजानश्रुतौशूद्रपदश्रवणाच्छूद्रस्यापिब्रह्मविद्याधिकारित्वंसंभवतीत्याक्षिप्य ब्रह्मविद्याय़ावेदध्ययनपूर्वकत्वाद्वेदाधिकारस्योपयनार्हवर्णत्यस्यैवसंभवादुपनयनार्हशूद्रस्यवेदध्ययना संभवात्तत्पूर्वकब्रह्मविद्याधिकारोनसंभवतीतिजानश्रुतौशूद्रपदस्कयौगित्वमुक्तं। अत्रतुतप्तचक्रांकनस्यवेदाध्ययनपूर्वकत्वाभावादुपनयनाहन्शूद्रस्यापि संभवतीति नात्रापशूद्राधिकरणन्यायप्रसक्तिः।

ननुतथापिहारीतस्मृत्यादिषुशंखचक्रांकनविथायकवचनानामुपलंभाच्चक्रांकनंवैदिमेवेतिचेन्न। धर्मशास्त्रनिबंधनकारैरनुदाहृतत्वेनप्रक्षेपशंकाकळंकितत्वेन तेषांप्रामाण्यस्यनिश्चेतुमशक्यत्वाद्वैद्यनाथहेमाद्रिप्रभृतिभिर्धर्मशास्त्रनिबंधनकारैरुदाहृतैर्विष्णुगोबिलशातातपमरीचिमनुबोधायनप्रभृतिस्मृतिवकचनैर्ब्राह्मकौर्ममानवनारदीय वायुपुराणलिंगपुराणवह्निपुराणादित्य पराशरपुराणादिपुराणवचनैश्चविरुद्धत्वेनभूयसांस्याद्बलीयस्त्वमितिन्यायेन तेषामग्राह्यत्वाच्च। नचसमबलत्वाद्ग्रहणाग्रहणवद्विकल्पइतिवाच्यं। यद्वैकिंचमनुरदत्तद्भेजमितिश्रुत्यवगतप्रभावमनुवचनविरोधात्समबलत्वासिद्धेः। वेदार्थोपनिबंधृत्वात्प्रधान्यंहिमनोस्स्मृतं। मन्वर्थविपरीतातुयस्मृतिस्सानशस्यते। यत्पूर्वंमनुनाप्रोक्तंधर्मशास्त्रमनुत्तमं। नहितत्समतिक्रम्यवचनंहितमात्मनः। इतिस्मृतिचंद्रिकाकारोदाहृतबृहस्पत्यंगिरः प्रिभृतिवचनैर्मनुवचनविरिद्धानामप्रामाण्यस्य निर्णीतत्वाच्चसमबलकत्वशंकायाएवाप्रसरात्। तस्मात्कल्पितत्वशंकाकळंकितैर्हारीतप्रभृतिस्मृतिवचनैस्तथाविधैश्रुतिवाक्यैश्चचक्रांनस्यवैदिकत्वसमर्थनेच्छाछिद्रप्लवेनसमुद्रतरणेच्छावदनर्तकरीतिनिश्चित्यतस्यावैदिकत्वमेवांगीकृत्यसुखेनवर्तितव्यं। तस्मात्तप्तचक्रांकनंवेदबाह्यमात्रविषयमितिवैदिकैस्सर्वधैवदूरात्परिहरणीयंकदापिकथंचिदपिमनसापिनादरणीयंचेत्यलंबहुना।।
इतिश्रीमद्वेंकटगिरिसंस्था
स्थानविद्वच्छिरोमणिनाश्रीवेलु
वेंटिवंशजलधिकौस्तुभेन गरुडाचलयज्वना
विरचितं
तप्तचक्रांकनविध्वंसनं
समाप्तं
ॐतत्सत्।