तन्त्रालोके पञ्चत्रिंशमाह्निकम्

विकिस्रोतः तः
Jump to navigation Jump to search

तन्त्रालोकः


अथ श्रीतन्त्रालोके पञ्चत्रिंशमाह्निकम्


अथोच्यते समस्तानां शास्त्राणामिह मेलनम् ।
इह तावत्सम स्तोऽयं व्यवहारः पुरातनः ॥१॥

प्रसिद्धिमनुसन्धाय सैव चागम उच्यते ।
अन्वयव्यतिरेकौ हि प्रसिद्धेरुपजीवकौ ॥२॥

स्वायत्तत्वे तयोर्व्यक्तिपूगे किं स्यात्तयोर्गतिः ।
प्रत्यक्षमपि नेत्रात्मदीपार्थादिविशेषजम् ॥३॥

अपेक्षते तत्र मूले प्रसिद्धिं तां तथात्मिकाम् ।
अभितःसंवृते जात एकाकी क्षुधितः शिशुः ॥४॥

किं करोतु किमादत्तां केन पश्यतु किं व्रजेत् ।
ननु वस्तुशताकीर्णे स्थानेऽप्यस्य यदेव हि ॥५॥

पश्यतो जिघ्रतो वापि स्पृशतः संप्रसीदति ।
चेतस्तदेवादाय द्राक् सोऽन्वयव्यतिरेकभाक् ॥६॥

हन्त चेतःप्रसादोऽपि योऽसावर्थविशेषगः ।
सोऽपि प्राग्वासनारूपविमर्शपरिकल्पितः ॥७॥

न प्रत्यक्षानुमानादिबाह्यमानप्रसादजः ।
प्राग्वासनोपजीव्येतत् प्रतिभामात्रमेव न ॥८॥

न मृदभ्यवहारेच्छा पुंसो बालस्य जायते ।
प्राग्वासनोपजीवी चेद्विमर्शः सा च वासना ॥९॥

प्राच्या चेदागता सेयं प्रसिद्धिः पौर्वकालिकी ।
नच चेतःप्रसत्त्यैव सर्वो व्यवहृतिक्रमः ॥१०॥

मूलं प्रसिद्धिस्तन्मानं सर्वत्रैवेति गृह्यताम् ।
पूर्वपूर्वोपजीवित्वमार्गणे सा क्वचित्स्वयम् ॥११॥

सर्वज्ञरूपे ह्येकस्मिन्निःशङ्कं भासत पुरा ।
व्यवहारो हि नैकत्र समस्तः कोऽपि मातरि ॥१२॥

तेनासर्वज्ञपूर्वत्वमात्रेणैषा न सिद्ध्यति ।
बहुसर्वज्ञपूर्वत्वे न मानं चास्ति किंचन ॥१३॥

भोगापवर्गतद्धेतुप्रसिद्धिशतशोभितः ।
तद्विमर्शस्वभावोऽसौ भैरवः परमेश्वरः ॥१४॥

ततश्चांशांशिकायोगात्सा प्रसिद्धिः परम्पराम् ।
शास्त्रं वाश्रित्य वितता लोकान्संव्यवहारयेत् ॥१५॥

तयैवाशैशवात्सर्वे व्यवहारधराजुषः ।
सन्तः समुपजीवन्ति शैवमेवाद्यमागमम् ॥१६॥

अपूर्णास्तु परे तेन न मोक्षफलभागिनः ।
उपजीवन्ति यावत्तु तावत्तत्फलभागिनः ॥१७॥

बाल्यापायेऽपि यद्भोक्तुमन्नमेष प्रवर्तते ।
तत्प्रसिद्ध्यैव नाध्यक्षान्नानुमानादसम्भवात् ॥१८॥

नच काप्यत्र दोषाशाशङ्कायाश्च निवृत्तितः ।
प्रसिद्धिश्चाविगानोत्था प्रतीतिः शब्दनात्मिका ॥१९॥

मातुः स्वभावो यत्तस्यां शङ्कते नैष जातुचित् ।
स्वकृतत्ववशादेव सर्ववित्स हि शङ्करः ॥२०॥

यावत्तु शिवता नास्य तावत्स्वात्मानुसारिणीम् ।
तावतीमेव तामेष प्रसिद्धिं नाभिशङ्कते ॥२१॥

अन्यस्यामभिशङ्की स्याद्भूयस्तां बहु मन्यते ।
एवं भाविशिवत्वोऽमूं प्रसिद्धिं मन्यते ध्रुवम् ॥२२॥

एक एवागमश्चायं विभुना सर्वदर्शिना ।
दर्शितो यः प्रवृत्ते च निवृत्ते च पथि स्थितः ॥२३॥

धर्मार्थकाममोक्षेषु पूर्णापूर्णादिभेदतः ।
विचित्रेषु फलेष्वेक उपायः शाम्भवागमः ॥२४॥

तस्मिन्विषयवैविक्त्याद्विचित्रफलदायिनि ।
चित्रोपायोपदेशोऽपि न विरोधावहो भवेत् ॥२५॥

लौकिकं वैदिकं साङ्ख्यं योगादि पाञ्चरात्रकम् ।
बौद्धार्हतन्यायशास्त्रं पदार्थक्रमतन्त्रणम् ॥२६॥

सिद्धान्ततन्त्रशाक्तादि सर्वं ब्रह्मोद्भवं यतः ।
श्रीस्वच्छन्दादिषु प्रोक्तं सद्योजातादिभेदतः ॥२७॥

यथैकत्रापि वेदादौ तत्तदाश्रमगामिनः ।
संस्कारान्तरमत्रापि तथा लिङ्गोद्धृतादिकम् ॥२८॥

यथाच तत्र पूर्वस्मिन्नाश्रमे नोत्तराश्रमात् ।
फलमेति तथा पाञ्चरात्रादौ न शिवात्मताम् ॥२९॥

एक एवागमस्तस्मात्तत्र लौकिकशास्त्रतः ।
प्रभृत्यावैष्णवाद्बौद्धाच्छैवात्सर्वं हि निष्ठितम् ॥३०॥

तस्य यत्तत् परं प्राप्यं धाम तत् त्रिकशब्दितम् ।
सर्वाविभेदानुच्छेदात् तदेव कुलमुच्यते ॥३१॥

यथोर्ध्वाधरताभाक्सु देहाङ्गेषु विभेदिषु ।
एकं प्राणितमेवं स्यात् त्रिकं सर्वेषु शास्त्रतः ॥३२॥

श्रीमत्कालीकुले चोक्तं पञ्चस्रोतोविवर्जितम् ।
दशाष्टादशभेदस्य सारमेतत्प्रकीर्तितम् ॥३३॥

पुष्पे गन्धस्तिले तैलं देहे जीवो जलेऽमृतम् ।
यथा तथैव शास्त्राणां कुलमन्तः प्रतिष्ठितम् ॥३४॥

तदेक एवागमोऽयं चित्रश्चित्रेऽधिकारिणि ।
तथैव सा प्रसिद्धिर्हि स्वयूथ्यपरयूथ्यगा ॥३५॥

सांख्यं योगं पाञ्चरात्रं वेदांश्चैव न निन्दयेत् ।
यतः शिवोद्भवाः सर्व इति स्वच्छन्दशासने ॥३६॥

एकस्मादागमाच्चैते खण्डखण्डा व्यपोद्धृताः ।
लोके स्युरागमास्तैश्च जनो भ्राम्यति मोहितः ॥३७॥

अनेकागमपक्षेऽपि वाच्या विषयभेदिता ।
अवश्यमूर्ध्वाधरतास्थित्या प्रामाण्यसिद्धये ॥३८॥

अन्यथा नैव कस्यापि प्रामाण्यं सिद्ध्यति ध्रुवम् ।
नित्यत्वमविसंवाद इति नो मानकारणम् ॥३९॥

अस्मिन्नंशेऽप्यमुष्यैव प्रामाण्यं स्यात्तथोदितेः ।
अन्यथाव्याकृतौ कॢप्तावसत्यत्वे प्ररोचने ॥४०॥

अतिप्रसङ्ग सर्वस्याप्यागमस्यापबाधकः ।
अवश्योपेत्य इत्यस्मिन्मान आगमनामनि ॥४१॥

अवश्योपेत्यमेवैतच्छास्त्रनिष्ठानिरूपणम् ।
प्रधानेऽङ्गे कृतो यत्नः फलवान्वस्तुतो यतः ॥४२॥

अतोऽस्मिन् यत्नवान् कोऽपि भवेच्छंभुप्रचोदितः ।
तत्र तत्र च शास्त्रेषु न्यरूप्यत महेशिना ॥४३॥

एतावत्यधिकारी यः स दुर्लभ इति स्फुटम् ।
इत्थं श्रीशम्भुनाथेन ममोक्तं शास्त्रमेलनम् ॥४४॥