तन्त्रालोके चतुस्त्रिंशमाह्निकम्

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ

तन्त्रालोकः


अथ श्रीतन्त्रालोके चतुस्त्रिंशमाह्निकम्


उच्यतेऽथ स्वस्वरूपप्रवेशः क्रमसङ्गतः ।
यदेतद्बहुधा प्रोक्तमाणवं शिवताप्तये ।
तत्रान्तरन्तराविश्य विश्राम्येत्सविधे पदे ॥१॥

ततोऽप्याणवसंत्यागाच्छाक्तीं भूमिमुपाश्रयेत् ।
ततोऽपि शाम्भवीमेवं तारतम्यक्रमात्स्फुटम् ॥२॥

इत्थं क्रमोदितविबोधमहामरीचिसंपूरितप्रसरभैरवभावभागी ।
अन्तेऽभ्युपायनिरपेक्षतयैव नित्यं स्वात्मानमाविशति गर्भितविश्वरूपम् ॥३॥

कथितोऽयं स्वस्वरूपप्रवेशः परमेष्ठिना ॥