तन्त्रालोकः सप्तविंशतितममाह्निकम्

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ

तन्त्रालोकः


अथ श्रीतन्त्रालोके सप्तविंशतितममाह्निकम्


अथोच्यते लिङ्गपूजा सूचिता मालिनीमते ॥१॥

एतेषामूर्ध्वशास्त्रोक्तमन्त्राणां न प्रतिष्ठितम् ।
बहिष्कुर्यात्ततो ह्येते रहस्यत्वेन सिद्धिदाः ॥२॥

स्ववीर्यानन्दमाहात्म्यप्रवेशवशशालिनीम् ।
ये सिद्धिं ददते तेषां बाह्यत्वं रूपविच्युतिः ॥३॥

किंच चोक्तं समावेशपूर्णो भोक्त्रात्मकः शिवः ।
भोगलाम्पट्यभाग्भोगविच्छेदे निग्रहात्मकः ॥४॥

शान्तत्वन्यक्क्रियोद्भूतजिघत्सावृंहितं वपुः ।
स्वयं प्रतिष्ठितं येन सोऽस्याभोगे विनश्यति ॥५॥

उक्तं ज्ञानोत्तरायां च तदेतत्परमेशिना ।
शिवो यागप्रियो यस्माद्विशेषान्मातृमध्यगः ॥६॥

तस्माद्रहस्यशास्त्रेषु ये मन्त्रास्तान्बुधो बहिः ।
न प्रतिष्ठापयेज्जातु विशेषाद्व्यक्तरूपिणः ॥७॥

अत एव मृतस्यार्थे प्रतिष्ठान्यत्र योदिता ।
सात्र शास्त्रेषु नो कार्या कार्या साधारणी पुनः ॥८॥

आ तन्मयत्वसंसिद्धेरा चाभीष्टफलोदयात् ।
पुत्रकः साधको व्यक्तमव्यक्तं वा समाश्रयेत् ॥९॥

पुत्रकैर्गुरुरभ्यर्थ्यः साधकस्तु स्वयं विदन् ।
यदि तत्स्थापयेन्नो चेत्तेनाप्यर्थ्यो गुरुर्भवेत् ॥१०॥

गुरुश्चात्र निरोधाख्ये काल इत्थं विभौ वदेत् ।
जीवत्यस्मिन्फलान्तं त्वं तिष्ठेर्जीवावधीति वा ॥११॥

लिङ्गं च बाणलिङ्गं वा रत्नजं वाथ मौक्तिकम् ।
पौष्पमान्नमथो वास्त्रं गन्धद्रव्यकृतं च वा ॥१२॥

नतु पाषाणजं लिङ्गं शिल्प्युत्थं परिकल्पयेत् ।
धातूत्थं च सुवर्णोत्थवर्जमन्यद्विवर्जयेत् ॥१३॥

न चात्र लिङ्गमानादि क्वचिदप्युपयुज्यते ।
उदारवीर्यैर्मन्त्रैर्यद्भासितं फलदं हि तत् ॥१४॥

तस्यापि स्थण्डिलाद्युक्तविधिना शुद्धिमाचरेत् ।
मन्त्रार्पणं तथैव स्यान्निरोधस्तूक्तयुक्तितः ॥१५॥

अग्नौ च तर्पणं भूरिविशेषाद्दक्षिणा गुरोः ।
दीनादितृप्तिर्विभवाद्याग इत्यधिको विधिः ॥१६॥

सर्वेष्वव्यक्तलिङ्गेषु प्रधानं स्यादकल्पितम् ।
तथा च तत्र तत्रोक्तं लक्षणे पारमेश्वरे ॥१७॥

सूत्रे पात्रे ध्वजे वस्त्रे स्वयम्भूबाणपूजिते ।
नदीप्रस्रवणोत्थे च नाह्वानं नापि कल्पना ॥१८॥

पीठप्रसादमन्त्रांशवेलादिनियमो नच ।
व्यक्तं वा चित्रपुस्तादौ देवदारुसुवर्णजम् ॥१९॥

अथ दीक्षितसच्छिल्पिकृतं स्थापयते गुरुः ।
अथवा लक्षणोपेतमूर्धतत्कर्पराश्रितम् ॥२०॥

पङ्क्तिचक्रकशूलाब्जविधिना तूरमाश्रयेत् ।
तल्लक्षणं ब्रुवे श्रीमत्पिचुशास्त्रे निरूपितम् ॥२१॥

तूरे योगः सदा शस्तः सिद्धिदो दोषवर्जिते ।
जालकैर्जर्जरै रन्ध्रैर्दन्तैरूनाधिकै रुजा ॥२२॥

युक्ते च तूरे हानिः स्यात् तद्धीने याग उत्तमः ।
काम्य एव भवेत्तूरमिति केचित्प्रपेदिरे ॥२३॥

गुरवस्तु विधौ काम्ये यत्नाद्दोषांस्त्यजेदिति ।
व्याचक्षते पिचुप्रोक्तं न नित्ये कर्मणीत्यदः ॥२४॥

श्रीसिद्धातन्त्र उक्तं च तूरलक्षणमुत्तमम् ।
एकादिकचतुष्खण्डे गोमुखे पूर्णचन्द्रके ॥२५॥

पद्मगोरोचनामुक्तानीरस्फटिकसंनिभे ।
एकादिपञ्चसद्रन्ध्रविद्यारेखान्विते शुभे ॥२६॥

न रूक्षवक्रशकलदीर्घनिम्नसबिन्दुके ।
श्लक्ष्णया वज्रसूच्यात्र स्फुटं देवीगणान्वितम् ॥२७॥

सर्वं समालिखेत्पूज्यं सर्वावयवसुन्दरम् ।
एतदेवानुसर्तव्यमर्घपात्रेऽपि लक्षणम् ॥२८॥

श्रीब्रह्मयामलेऽप्युक्तं पात्रं गोमुखमुत्तमम् ।
गजकूर्मतलं कुम्भवृत्तशक्तिकजाकृति ॥२९॥

अक्षसूत्रमथो कुर्यात्तत्रैवाभ्यर्चयेत्क्रमम् ।
वीरधातुजलोद्भूतमुक्तारत्नसुवर्णजम् ॥३०॥

अक्षसूत्रं क्रमोत्कृष्टं रौद्राक्षं वा विशेषतः ।
शतं तिथ्युत्तरं यद्वा साष्टं यद्वा तदर्धकम् ॥३१॥

तदर्धं वाथ पञ्चाशद्युक्तं तत्परिकल्पयेत् ।
वक्त्राणि पञ्च चित्स्पन्दज्ञानेच्छाकृतिसंगतेः ॥३२॥

पञ्चधाद्यन्तगं चैक्यमित्युपान्त्याक्षगो विधिः ।
शक्तितद्वत्प्रभेदेन तत्र द्वैरूप्यमुच्यते ॥३३॥

ततो द्विगुणमाने तु द्विरूपं न्यासमाचरेत् ।
ततोऽपि द्विगुणे सृष्टिसंहृतिद्वितयेन तम् ॥३४॥

मातृकां मालिनीं वाथ न्यस्येत्खशरसंमिते ।
उत्तमे तु द्वयीं न्यस्येन्न्यस्य पूर्वं प्रचोदितान् ॥३५॥

दीक्षायां मुख्यतो मन्त्रांस्तान्पञ्चदश दैशिकः ।
यदि वा तत्त्वभुवनकलामन्त्रपदार्णजैः ॥३६॥

संख्याभेदैः कृते सूत्रे तं तं न्यासं गुरुश्चरेत् ।
कृत्वाक्षसूत्रं तस्यापि सर्वं स्थण्डिलवद्भवेत् ॥३७॥

पूजितेन च तेनैव जपं कुर्यादतन्द्रितः ।
विधिरुक्तस्त्वयं श्रीमन्मालिनीविजयोत्तरे ॥३८॥

चक्रवद्भ्रमयन्नेतद्यद्वक्ति स जपो भवेत् ।
यदीक्षते जुहोत्येतद्बोधाग्नौ संप्रवेशनात् ॥३९॥

अथवार्घमहापात्रं कुर्यात्तच्चोत्तरं परम् ।
नारिकेलमथो बैल्वं सौवर्णं राजतं च वा ॥४०॥

तस्याप्येष विधिः सर्वः प्रतिष्ठादौ प्रकीर्तितः ।
तन्निष्कम्परसैः पूर्णं कृत्वास्मिन्पूजयेत्क्रमम् ॥४१॥

अधोमुखं सदा स्थाप्यं पूजितं पूजने पुनः ।
तत्पात्रमुन्मुखं तच्च रिक्तं कुर्यान्न तादृशम् ॥४२॥

पूजान्ते तद्रसापूर्णमात्मानं प्रविधाय तत् ।
अधोमुखं च संपूज्य स्थापयेत् विचक्षणः ॥४३॥

खङ्गं कृपाणिकां यद्वा कर्तरीं मकुरं च वा ।
विमलं तत्तथा कुर्याच्छ्रीमत्कालीमुखोदितम् ॥४४॥

श्रीभैरवकुलेऽप्युक्तं कुलपर्वप्रपूजने ।
स्थण्डिलेऽग्नौ पटे लिङ्गे पात्रे पद्मेऽथ मण्डले ॥४५॥

मूर्तौ घटेऽस्त्रसंघाते धटे सूत्रेऽथ पूजयेत् ।
स्वेन स्वेनोपचारेण सङ्करं वर्जयेदिति ॥४६॥

यथाप्सु शान्तये मन्त्रास्तद्वदस्त्रादिषु ध्रुवम् ।
शत्रुच्छेदादिकर्तारः काम्योऽतः सङ्करोज्झितः ॥४७॥

अकामस्य तु ते तत्तत्स्थानोपाधिवशाद्ध्रुवम् ।
पाशकर्तनसंशुद्धतत्त्वाप्यायादिकारिणः ॥४८॥

अथवा पुस्तकं तादृग्रहःशास्त्रक्रमोम्भितम् ।
सुशुद्धं दीक्षितकृतं तत्राप्येष विधिः स्मृतः ॥४९॥

इत्थं स्वयंप्रतिष्ठेषु यावद्यावत्स्थितिर्भवेत् ।
विभवैस्तर्पणं शुद्धिस्तावद्विच्छेदवर्जनम् ॥५०॥

अत एव यदा भूरिदिनं मण्डलकल्पनम् ।
तदा दिने दिने कुर्याद्विभवैस्तर्पणं बहु ॥५१॥

प्रतिष्ठायां च सर्वत्र गुरुः पूर्वोदितं परम् ।
सतत्त्वमनुसन्धाय संनिधिं स्फुटमाचरेत् ॥५२॥

सिद्धे तु तन्मयीभावे फले पुत्रकसाधकैः ।
अन्यस्मै तद्द्वयादन्यतरस्मै तत्समर्प्यते ॥५३॥

तस्याप्येष विधिः सर्वस्तदलाभे तु सर्वथा ।
अगाधेऽम्भसि तत्क्षेप्यं क्षमयित्वा विसृज्य च ॥५४॥

इत्येष स्वप्रतिष्ठानविधिः शिवनिरूपितः ।
परप्रतिष्ठिते लिङ्गे बाणीयेऽथ स्वयंभुवि ॥५५॥

सर्वमासनपक्षे प्राङ्न्यस्य संपूजयेत्क्रमम् ।
शुद्धाशुद्धाध्वजाः सर्वे मन्त्राः सर्वः शिवान्तकः ॥५६॥

अध्वा चेहासने प्रोक्तस्तत्सर्वत्रार्चयेदिदम् ।
आवाहनविसृष्टी तु तत्र प्राग्वत्समाचरेत् ॥५७॥

उक्तं तन्त्रेऽप्यघोरेशे स्वच्छन्दे विभुना तथा ।
अथवा प्रत्यहं प्रोक्तमानार्धार्धनियोगतः ॥५८॥

कृत्वेष्टं मण्डलं तत्र समस्तं क्रममर्चयेत् ।
बहुप्रकारभिन्नस्य लिङ्गस्यार्चा निरूपिता ॥५९॥