तन्त्रालोकः सप्तममाह्निकम्

विकिस्रोतः तः
Jump to navigation Jump to search

तन्त्रालोकः

अथ श्रीतन्त्रालोके सप्तममाह्निकम्

अथ परमरहस्योऽयं चक्राणां भण्यतेऽभ्युदयः ॥१॥

इत्ययत्नजमाख्यातं यत्नजं तु निगद्यते ।
बीजपिण्डात्मकं सर्वं संविदः स्पन्दनात्मताम् ॥२॥

विदधत्परसंवित्तावुपाय इति वर्णितम् ।
यथारघट्टचक्राग्रघटीयन्त्रौघवाहनम् ॥३॥

एकानुसंधियत्नेन चित्रं यन्त्रोदयं भजेत् ।
एकानुसंधानबलाज्जाते मन्त्रोदयेऽनिशम् ॥४॥

तन्मन्त्रदेवता यत्नात्तादात्म्येन प्रसीदति ।
खे रसैकाक्षि नित्योत्थे तदर्धं द्विकपिण्डके ॥५॥

त्रिके सप्त सहस्राणि द्विशतीत्युदयो मतः ।
चतुष्के तु सहस्राणि पञ्च चैव चतुःशती ॥६॥

पञ्चार्णेऽब्धिसहस्राणि त्रिशती विंशतिस्तथा ।
षट्के सहस्रत्रितयं षट्शती चोदयो भवेत् ॥७॥

सप्तके त्रिसहस्रं तु षडशीत्यधिकं स्मृतम् ।
शतैस्तु सप्तविंशत्या वर्णाष्टकविकल्पिते ॥८॥

चतुर्विंशतिशत्या तु नवार्णेषूदयो भवेत् ।
अधिषष्ट्येकविंशत्या शतानां दशवर्णके ॥९॥

एकान्नविंशतिशतं चतुःषष्टिः शिवार्णके ।
अष्टादश शतानि स्युरुदयो द्वादशार्णके ॥१०॥

त्रयोदशार्णे द्वाषष्ट्या शतानि किल षोडश ।
त्रिचत्वारिंशता पञ्चदशेति भुवनार्णके ॥११॥

चतुर्दशशती खाब्धिः स्यात्पञ्चदशवर्णके ।
त्रयोदशशती सार्धा षोडशार्णे तु कथ्यते ॥१२॥

शतद्वादशिका सप्तदशार्णे सैकसप्ततिः ।
अष्टादशार्णे विज्ञेया शतद्वादशिका बुधैः ॥१३॥

चतुर्विंशतिसंख्याके चक्रे नवशती भवेत् ।
सप्तविंशतिसंख्याते तूदयोऽष्टशतात्मकः ॥१४॥

द्वात्रिंशके महाचक्रे षट्शती पञ्चसप्ततिः ।
द्विचतुर्विंशके चक्रे सार्धां शतचतुष्टयीम् ॥१५॥

उदयं पिण्डयोगज्ञः पिण्डमन्त्रेषु लक्षयेत् ।
चतुष्पञ्चाशके चक्रे शतानां तु चतुष्टयम् ॥१६॥

सप्तत्रिंशत्सहार्धेन त्रिशत्यष्टाष्टके भवेत् ।
अर्धमर्धत्रिभागश्च षट्षष्टिर्द्विशती भवेत् ॥१७॥

एकाशीतिपदे चक्रे उदयः प्राणचारगः ।
चक्रे तु षण्णवत्याख्ये सपादा द्विशती भवेत् ॥१८॥

अष्टोत्तरशते चक्रे द्विशतस्तूदयो भवेत् ।
क्रमेणेत्थमिदं चक्रं षट्कृत्वो द्विगुणं यदा ॥१९॥

ततोऽपि द्विगुणेऽष्टांशस्यार्धमध्यर्धमेककम् ।
ततोऽपि सूक्ष्मकुशलैरर्धार्धादिप्रकल्पने ॥२०॥

भागषोडशकस्थित्या सूक्ष्मश्चारोऽभिलक्ष्यते ।
एवं प्रयत्नसंरुद्धप्राणचारस्य योगिनः ॥२१॥

क्रमेण प्राणचारस्य ग्रास एवोपजायते ।
प्राणग्रासक्रमावाप्तकालसंकर्षणस्थितिः ॥२२॥

संविदेकैव पूर्णा स्याज्ज्ञानभेदव्यपोहनात् ।
तथा हि प्राणचारस्य नवस्यानुदये सति ॥२३॥

न कालभेदजनितो ज्ञानभेदः प्रकल्पते ।
संवेद्यभेदान्न ज्ञानं भिन्नं शिखरिवृत्तवत् ॥२४॥

कालस्तु भेदकस्तस्य स तु सूक्ष्मः क्षणो मतः ।
सौक्ष्म्यस्य चावधिर्ज्ञानं यावत्तिष्ठति स क्षणः ॥२५॥

अन्यथा न स निर्वक्तुं निपुणैरपि पार्यते ।
ज्ञानं कियद्भवेत्तावत्तदभावो न भासते ॥२६॥

तदभावश्च नो तावद्यावत्तत्राक्षवर्त्मनि ।
अर्थे वात्मप्रदेशे वा न संयोगविभागिता ॥२७॥

सा चेदुदयते स्पन्दमयी तत्प्राणगा ध्रुवम् ।
भवेदेव ततः प्राणस्पन्दाभावे न सा भवेत् ॥२८॥

तदभावान्न विज्ञानाभावः सैवं तु सैव धीः ।
न चासौ वस्तुतो दीर्घा कालभेदव्यपोहनात् ॥२९॥

वस्तुतो ह्यत एवेयं कालं संविन्न संस्पृशेत् ।
अत एकैव संवित्तिर्नानारूपे तथातथा ॥३०॥

विन्दाना निर्विकल्पापि विकल्पो भावगोचरे ।
स्पन्दान्तरं न यावत्तदुदितं तावदेव सः ॥३१॥

तावानेको विकल्पः स्याद्विविधं वस्तु कल्पयन् ।
ये त्वित्थं न विदुस्तेषां विकल्पो नोपपद्यते ॥३२॥

स ह्येको न भवेत्कश्चित् त्रिजगत्यापि जातुचित् ।
शब्दारूषणया ज्ञानं विकल्पः किल कथ्यते ॥३३॥

सा च स्यात्क्रमिकैवेत्थं किं कथं को विकल्पयेत् ।
घट इत्यपि नेयान्स्याद्विकल्पः का कथा स्थितौ ॥३४॥

न विकल्पश्च कोऽप्यस्ति यो मात्रामात्रनिष्ठितः ।
न च ज्ञानसमूहोऽस्ति तेषामयुगपत्स्थितेः ॥३५॥

तेनास्तङ्गत एवैष व्यवहारो विकल्पजः ।
तस्मात्स्पन्दान्तरं यावन्नोदियात्तावदेककम् ॥३६॥

विज्ञानं तद्विकल्पात्मधर्मकोटीरपि स्पृशेत् ।
एकाशीतिपदोदारशक्त्यामर्शात्मकस्ततः ॥३७॥

विकल्पः शिवतादायी पूर्वमेव निरूपितः ।
यथा कर्णौ नर्तयामीत्येवं यत्नात्तथा भवेत् ॥३८॥

चक्रचारगताद्यत्नात्तद्वत्तच्चक्रगैव धीः ।
जपहोमार्चनादीनां प्राणसाम्यमतो विधिः ॥३९॥

सिद्धामते कुण्डलिनीशक्तिः प्राणसमोन्मना ।
उक्तं च योगिनीकौले तदेतत्परमेशिना ॥४०॥

पदमन्त्राक्षरे चक्रे विभागं शक्तितत्त्वगम् ।
पदेषु कृत्वा मन्त्रज्ञो जपादौ फलभाग्भवेत् ॥४१॥

द्वित्रिसप्ताष्टसंख्यातं लोपयेच्छतिकोदयम् ।
इति शक्तिस्थिता मन्त्रा विद्या वा चक्रनायकाः ॥४२॥

पदपिण्डस्वरूपेण ज्ञात्वा योज्याः सदा प्रिये ।
नित्योदये महातत्त्वे उदयस्थे सदाशिवे ॥४३॥

अयुक्ताः शक्तिमार्गे तु न जप्ताश्चोदयेन ये ।
ते न सिद्ध्यन्ति यत्नेन जप्ताः कोटिशतैरपि ॥४४॥

मालामन्त्रेषु सर्वेषु मानसो जप उच्यते ।
उपांशुर्वा शक्त्युदयं तेषां न परिकल्पयेत् ॥४५॥

पदमन्त्रेषु सर्वेषु यावत्तत्पदशक्तिगम् ।
शक्यते सततं युक्तैस्तावज्जप्यं तु साधकैः ॥४६॥

तावती तेषु वै संख्या पदेषु पदसंज्ञिता ।
तावन्तमुदयं कृत्वा त्रिपदोक्त्यादितः क्रमात् ॥४७॥

द्वादशाख्ये द्वादशिते चक्रे सार्धं शतं भवेत् ।
उदयस्तद्धि सचतुश्चत्वारिंशच्छतं भवेत् ॥४८॥

षोडशाख्ये द्वादशिते द्वानवत्यधिके शते ।
चारार्धेन समं प्रोक्तं शतं द्वादशकाधिकम् ॥४९॥

षोडशाख्ये षोडशिते भवेच्चतुरशीतिगः ।
उदयो द्विशतं तद्धि षट्पञ्चाशत्समुत्तरम् ॥५०॥

चाराष्टभागांस्त्रीनत्र कथयन्त्यधिकान्बुधाः ।
अष्टाष्टके द्वादशिते पादार्धं विंशतिं वसून् ॥५१॥

उदयः सप्तशतिका साष्टा षष्टिर्यतो हि सः ।
एष चक्रोदयः प्रोक्तः साधकानां हितावहः ॥५२॥

निरुद्ध्य मानसीर्वृत्तीश्चक्रे विश्रान्तिमागतः ।
व्युत्थाय यावद्विश्राम्येत्तावच्चारोदयो ह्ययम् ॥५३॥

पूर्णे समुदये त्वत्र प्रवेशैकात्म्यनिर्गमाः ।
त्रय इत्यत एवोक्तः सिद्धौ मध्योदयो वरः ॥५४॥

आद्यन्तोदयनिर्मुक्ता मध्यमोदयसंयुताः ।
मन्त्रविद्याचक्रगणाः सिद्धिभाजो भवन्ति हि ॥५५॥

मन्त्रचक्रोदयज्ञस्तु विद्याचक्रोदयार्थवित् ।
क्षिप्रं सिद्ध्येदिति प्रोक्तं श्रीमद्द्विंशतिके त्रिके ॥५६॥

द्विस्त्रिश्चतुर्वा मात्राभिर्विद्यां वा चक्रमेव वा ।
तत्त्वोदययुतं नित्यं पृथग्भूतं जपेत्सदा ॥५७॥

पिण्डाक्षरपदैर्मन्त्रमेकैकं शक्तितत्त्वगम् ।
बह्वक्षरस्तु यो मन्त्रो विद्या वा चक्रमेव वा ॥५८॥

शक्तिस्थं नैव तं तत्र विभागस्त्वोंनमोन्तगः ।
अस्मिंस्तत्त्वोदये तस्मादहोरात्रस्त्रिशस्त्रिशः ॥५९॥

विभज्यते विभागश्च पुनरेव त्रिशस्त्रिशः ।
पूर्वोदये तु विश्रम्य द्वितीयेनोल्लसेद्यदा ॥६०॥

विशेच्चार्धर्धिकायोगात्तदोक्तार्धोदयो भवेत् ।
यदा पूर्णोदयात्मा तु समः कालस्त्रिके स्फुरेत् ॥६१॥

प्रवेशविश्रान्त्युल्लासे स्यात्स्वत्र्यंशोदयस्तदा ।
एत्येष कालविभवः प्राण एव प्रतिष्ठितः ॥६२॥

स स्पदे खे स तच्चित्यां तेनास्यां विश्वनिष्ठिअतिः ।
अतः संवित्प्रतिष्ठानौ यतो विश्वलयोदयौ ॥६३॥

शक्त्यन्तेऽध्वनि तत्स्पन्दासंख्याता वास्तवी ततः ।
उक्तं श्रीमालिनीतन्त्रे गात्रे यत्रैव कुत्रचित् ॥६४॥

विकार उपजायेत तत्तत्त्वं तत्त्वमुत्तमम् ।
प्राणे प्रतिष्ठितः कालस्तदाविष्टा च यत्तनुः ॥६५॥

देहे प्रतिष्ठितस्यास्य ततो रूपं निरूप्यते ।
चित्स्पन्दप्राणवृत्तीनामन्त्या या स्थूलता सुषिः ॥६६॥

सा नाडीरूपतामेत्य देहं संतानयेदिमम् ।
श्रीस्वच्छन्देऽत एवोक्तं यथा पर्णं स्वतन्तुभिः ॥६७॥

व्याप्तं तद्वत्तनुर्द्वारद्वारिभावेन नाडिभिः ।
पादाङ्गुष्ठादिकोर्ध्वस्थब्रह्मकुण्डलिकान्तगः ॥६८॥

कालः समस्तश्चतुरशीतावेवाङ्गुलेष्वितः ।
द्वादशान्तावधिं किंचित्सूक्ष्मकालस्थितिं विदुः ॥६९॥

षण्णवत्यामधः षड्द्विक्रमाच्चाष्टोत्तरं शतम् ।
अत्र मध्यमसंचारिप्राणोदयलयान्तरे ॥७०॥

विश्वे सृष्टिलयास्ते तु चित्रा वाय्वन्तरक्रमात् ।
इत्येष सूक्ष्मपरिमर्शनशीलनीयश्चक्रोदयोऽनुभवशास्त्रदृशा मयोक्तः ॥७१॥