तन्त्रालोकः सप्तदशमाह्निकम्
अथ श्रीतन्त्रालोके सप्तदशमाह्निकम्
अथ भैरवतादात्म्यदायिनीं प्रक्रियां ब्रुवे ।
एवं मण्डलकुम्भाग्निशिष्यस्वात्मसु पञ्चसु ॥१॥
गृहीत्वा व्याप्तिमैक्येन न्यस्याध्वानं च शिष्यगम् ।
कर्ममायाणुमलिनत्रयं बाहौ गले तथा ॥२॥
शिखायां च क्षिपेत्सूत्रग्रन्थियोगेन दैशिकः ।
तस्यातद्रूपताभानं मलो ग्रन्थिः स कीर्त्यते ॥३॥
इतिप्रतीतिदार्ढ्यार्थं बहिर्ग्रन्थ्युपकल्पनम् ।
बाहू कर्मास्पदं विष्णुर्मायात्मा गलसंश्रितः ॥४॥
अधोवहा शिखाणुत्वं तेनेत्थं कल्पना कृता ।
नरशक्तिशिवाख्यस्य त्रयस्य बहुभेदताम् ॥५॥
वक्तुं त्रिस्त्रिगुणं सूत्रं ग्रन्थये परिकल्पयेत् ।
तेजोजलान्नत्रितयं त्रेधा प्रत्येकमप्यदः ॥६॥
श्रुत्यन्ते केऽप्यतः शुक्लकृष्णरक्तं प्रपेदिरे ।
ततोऽग्नौ तर्पिताशेषमन्त्रे चिद्व्योममात्रके ॥७॥
सामान्यरूपे तत्त्वानां क्रमाच्छुद्धिं समाचरेत् ।
तत्र स्वमन्त्रयोगेन धरामावाहयेत्पुरा ॥८॥
इष्ट्वा पुष्पादिभिः सर्पिस्तिलाद्यैरथ तर्पयेत् ।
तत्तत्त्वव्यापिकां पश्चान्मायातत्त्वाधिदेवताम् ॥९॥
मायाशक्तिं स्वमन्त्रेणावाह्याभ्यर्च्य प्रतर्पयेत् ।
आवाहने मातृकार्णं मालिन्यर्णं च पूजने ॥१०॥
कुर्यादिति गुरुः प्राह स्वरूपाप्यायनद्वयात् ।
तारो वर्णोऽथ संबुद्धिपदं त्वामित्यतः परम् ॥११॥
उत्तमैकयुतं कर्मपदं दीपकमप्यतः ।
तभ्यं नाम चतुर्थ्यन्तं ततोऽप्युचितदीपकम् ॥१२॥
इत्यूहमन्त्रयोगेन तत्तत्कर्म प्रवर्तयेत् ।
आवाहनानन्तरं हि कर्म सर्वं निगद्यते ॥१३॥
आवाहनं च संबोधः स्वस्वभावव्यवस्थितेः ।
भावस्याहंमयस्वात्मतादात्म्यावेश्यमानता ॥१४॥
शाक्ती भूमिश्च सैवोक्ता यस्यां मुख्यास्ति पूज्यता ।
अभातत्वादभेदाच्च नह्यसौ नृशिवात्मनोः ॥१५॥
जडाभासेषु तत्त्वेषु संवित्स्थित्यै ततो गुरुः ।
आवाहनविभक्तिं प्राक् कृत्वा तुर्यविभक्तितः ॥१६॥
नमस्कारान्ततायोगात्पूर्णां सत्तां प्रकल्पयेत् ।
ततः पूर्णस्वभावत्वं तद्रूपोद्रेकयोगतः ॥१७॥
ध्येयोद्रेको भवेद्ध्यातृप्रह्वीभाववशाद्यतः ।
आवाह्येष्ट्वा प्रतर्प्येति श्रीस्वच्छन्दे निरूपितम् ॥१८॥
अनेनैव पथानेयमित्यस्मद्गुरवो जगुः ।
परत्वेन तु यत्पूज्यं तत्स्वतन्त्रचिदात्मकम् ॥१९॥
अनवच्छित्प्रकाशत्वान्न प्रकाश्यं तु कुत्रचित् ।
तस्य ह्येतत्प्रपूज्यत्वध्येयत्वादि यदुल्लसेत् ॥२०॥
तस्यैव तत्स्वतन्त्रत्वं यातिदुर्घटकारिता ।
संबोधरूपे तत्तस्मिन् कथं संबोधना भवेत् ॥२१॥
प्रकाशनायां न स्यात्प्रकाशस्य प्रकाशता ।
संबोधनविभक्त्यैव विना कर्मादिशक्तिताम् ॥२२॥
स्वातन्त्र्यात्तं दर्शयितुं तत्रोहमिममाचरेत् ।
देवमावाहयामीति ततो देवाय दीपकम् ॥२३॥
प्राग्युक्त्या पूर्णतादायि नमःस्वाहादिकं भवेत् ।
नुतिः पूर्णत्वमग्नीन्दुसंघट्टाप्यायता परम् ॥२४॥
आप्यायकं च प्रोच्छालं वौषडादि प्रदीपयेत् ।
तत्र बाह्येऽपि तादात्म्यप्रसिद्धं कर्म चोद्यते ॥२५॥
यदि कर्मपदं तन्नो गुरुरभ्यूहयेत्क्वचित् ।
अनाभासिततद्वस्तुभासनाय नियुज्यते ॥२६॥
मन्त्रः किं तेन तत्र स्यात्स्फुटं यत्रावभासि तत् ।
तेन प्रोक्षणसंसेकजपादिविधिषु ध्रुवम् ॥२७॥
तत्कर्माभ्यूहनं कुर्यात्प्रत्युत व्यवधातृताम् ।
बहिस्तथात्मताभावे कार्यं कर्मपदोहनम् ॥२८॥
तृप्तावाहुतिहुतभुक्पाशप्लोषच्छिदादिषु ।
यत्रोद्दिष्टे विधौ पश्चात्तदनन्तैः क्रियात्मकैः ॥२९॥
अंशैः साध्यं न तत्रोहो दीक्षणादिविधिष्विव ।
ततः शिष्यस्य तत्तत्त्वस्थानेऽस्त्रेण प्रताडनम् ॥३०॥
कृत्वाथ शिवहस्तेन हृदयं परिमर्शयेत् ।
ततः स्वनाडीमार्गेण हृदयं प्राप्य वै शिशोः ॥३१॥
शिष्यात्मना सहैकत्वं गत्वादाय च तं हृदा ।
पुटितं हंसरूपाख्यं तत्र संहारमुद्रया ॥३२॥
कुर्यादात्मीयहृदयस्थितमप्यवभासकम् ।
शिष्यदेहस्य तेजोभी रश्मिमात्रावियोगतः ॥३३॥
स्वबन्धस्थानचलनात् स्वतन्त्रस्थानलाभतः ।
स्वकर्मापरतन्त्रत्वात्सर्वत्रोत्पत्तिमर्हति ॥३४॥
तेनात्महृदयानीतं प्राक्कृत्वा पुद्गलं ततः ।
मायायां तद्धरातत्त्वशरीराण्यस्य संसृजेत् ॥३५॥
तत्रास्य गर्भाधानं च युक्तं पुंसवनादिभिः ।
गर्भनिष्क्रामपर्यन्तैरेकां कुर्वीत संस्क्रियाम् ॥३६॥
जननं भोगभोक्तृत्वं मिलित्वैकाथ संस्क्रिया ।
ततोऽस्य तेषु भोगेषु कुर्यात्तन्मयतां लयम् ॥३७॥
ततस्तत्तत्त्वपाशानां विच्छेदं समुपाचरेत् ।
संस्काराणां चतुष्केऽस्मिन्नपरां च परापराम् ॥३८॥
मन्त्राणां पञ्चदशकं परां वा योजयेत्क्रमात् ।
पिवन्याद्यष्टकं शस्त्रादिकं षट्कं परा तथा ॥३९॥
इति पञ्चदशैते स्युः क्रमाल्लीनत्वसंस्कृतौ ।
अपरामन्त्रमुक्त्वा प्रागमुकात्मन इत्यथ ॥४०॥
गर्भाधानं करोमीति पुनर्मन्त्रं तमेव च ।
स्वाहान्तमुच्चरन्दद्यादाहुतित्रितयं गुरुः ॥४१॥
परं परापरामन्त्रममुकात्मन इत्यथ ।
जातस्य भोगभोक्तृत्वं करोम्यथ परापराम् ॥४२॥
अन्ते स्वाहेति प्रोच्चार्य वितरेत्तिस्र आहुतीः ।
उच्चार्य पिवनीमन्त्रममुकात्मन इत्यथ ॥४३॥
भोगे लयं करोमीति पुनर्मन्त्रं तमेव च ।
स्वाहान्तमाहुतीस्तिस्रो दद्यादाज्यतिलादिभिः ॥४४॥
एष एव वमन्यादौ विधिः पञ्चदशान्तके ।
पूर्वं परात्मकं मन्त्रममुकात्मन इत्यथ ॥४५॥
पाशाच्छेदं करोमीति परामन्त्रः पुनस्ततः ।
हुं स्वाहा फट् समुच्चार्य दद्यात्तिस्रोऽप्यथाहुतीः ॥४६॥
संस्काराणां चतुष्केऽस्मिन्ये मन्त्राः कथिता मया ।
तेषु कर्मपदात्पूर्वं धरातत्त्वपदं वदेत् ॥४७॥
ततो धरातत्त्वपतिमामन्त्र्येष्ट्वा प्रतर्प्य च ।
शिवाभिमानसंरब्धो गुरुरेवं समादिशेत् ॥४८॥
तत्त्वेश्वर त्वया नास्य पुत्रकस्य शिवाज्ञया ।
प्रतिबन्धः प्रकर्तव्यो यातुः पदमनामयम् ॥४९॥
ततो यदि समीहेत धरातत्त्वान्तरालगम् ।
पृथक् शोधयितुं मन्त्री भुवनाद्यध्वपञ्चकम् ॥५०॥
अपरामन्त्रतः प्राग्वत्तिस्रस्तिस्रस्तदाहुतीः ।
दद्यात्पुरं शोधयामीत्यूहयुक्तं प्रसन्नधीः ॥५१॥
एवं कलामन्त्रपदवर्णेष्वपि विचक्षणः ।
तिस्रस्तिस्रो हुतीर्दद्यात् पृथक् सामस्त्यतोऽपिवा ॥५२॥
ततः पूर्णाहुतिं दत्त्वा परया वौषडन्तया ।
अपरामन्त्रतः शिष्यमुद्धृत्यात्महृदं नयेत् ॥५३॥
यदा त्वेकेन शुद्धेन तदन्तर्भावचिन्तनात् ।
न पृथक् शोधयेत्तत्त्वनाथसंश्रवणात्परम् ॥५४॥
तदा पूर्णां वितीर्याणुमुत्क्षिप्यात्मनि योजयेत् ।
तात्स्थ्यात्मसंस्थ्ययोगाय तयैवापरयाहुतीः ॥५५॥
सकर्मपदया दद्यादिति केचित्तु मन्वते ।
अन्ये तु गुरवः प्राहुर्भावनामयमीदृशम् ॥५६॥
नात्र बाह्याहुतिर्देया दैशिकस्य पृथक् पुनः ।
दद्याद्वा यदि नो दोषः स्यादुपायः स भावने ॥५७॥
एवं प्राक्तनतात्स्थ्यात्मसंस्थत्वे योजयेद्गुरुः ।
ततः शिष्यहृदं नेयः स आत्मा तावतोऽध्वनः ॥५८॥
शुद्धस्तद्दार्ढ्यसिद्ध्यै च पूर्णा स्यात्परया पुनः ।
महापाशुपतं पूर्वं विलोमस्य विशुद्धये ॥५९॥
जुहोमि पुनरस्त्रेण वौषडन्त इति क्षिपेत् ।
पुनः पूर्णां ततो मायामभ्यर्च्याथ विसर्जयेत् ॥६०॥
धरातत्त्वं विशुद्धं सज्जलेन शुद्धरूपिणा ।
भावयेन्मिश्रितं वारि शुद्धियोग्यं ततो भवेत् ॥६१॥
तथा तत्तत्पुरातत्त्वमिश्रणादुत्तरोत्तरम् ।
सर्वा शिवीभवेत्तत्त्वावली शुद्धान्यथा पृथक् ॥६२॥
पृथक्त्वं च मलो मायाभिधानस्तस्य संभवे ।
कर्मक्षयेऽपि नो मुक्तिर्भवेद्विद्येश्वरादिवत् ॥६३॥
ततोऽपि जलतत्त्वस्य वह्नौ व्योम्नि चिदात्मके ।
आह्वानाद्यखिलं यावत्तेजस्यस्य विमश्रणम् ॥६४॥
एवं क्रमात्कलातत्त्वे शुद्धे पाशं भुजाश्रितम् ।
छिन्द्यात्कला हि सा किंचित्कर्तृत्वोन्मीलनात्मिका ॥६५॥
कर्माख्यमलजृम्भात्मा तं च ग्रन्थिं स्रुगग्रगम् ।
पूर्णाहुत्या समं वह्निमन्त्रतेजसि निर्दहेत् ॥६६॥
मन्त्रो हि विश्वरूपः सन्नुपाश्रयवशात्तथा ।
व्यक्तरूपस्ततो वह्नौ पाशप्लोषविधायकः ॥६७॥
प्लुष्टो लीनस्वभावोऽसौ पाशस्तं प्रति शम्भुवत् ।
परमेशमहातेजःशेषमात्रत्वमश्नुते ॥६८॥
कर्मपाशेऽत्र होतव्ये पूर्णयास्य शुभाशुभम् ।
अशुभं वा भवद्भूतं भावि वाथ समस्तकम् ॥६९॥
दहामि फट्त्रयं वौषडिति पूर्णां विनिक्षिपेत् ।
एवं मायान्तसंशुद्धौ कण्ठपाशं च होमयेत् ॥७०॥
पूर्णस्य तस्य मायाख्यं पाशभेदप्रथात्मकम् ।
दहामि फट्त्रयं वौषडिति पूर्णां क्षिपेद्गुरुः ॥७१॥
निर्बीजा यदि कार्या तु तदात्रैवापरां क्षिपेत् ।
पूर्णां समयपाशाख्यबीजदाहपदान्विताम् ॥७२॥
गुरौ देवे तथा शास्त्रे भक्तिः कार्यास्य नह्यसौ ।
समयः शक्तिपातस्य स्वभावो ह्येष नो पृथक् ॥७३॥
मायान्ते शुद्धिमायाते वागीशी या पुराभवत् ।
माया शक्तिमयी सैव विद्याशक्तित्वमश्नुते ॥७४॥
तच्छुद्धविद्यामाहूय विद्याशक्तिं नियोजयेत् ।
एवं क्रमेण संशुद्धे सदाशिवपदेऽप्यलम् ॥७५॥
शिखां ग्रन्थियुतां छित्त्वा मलमाणवकं दहेत् ।
यतोऽधिकारभोगाख्यौ द्वौ पाशौ तु सदाशिवे ॥७६॥
इत्युक्त्याणवपाशोऽत्र मायीयस्तु निशावधिः ।
शिष्यो यथोचितं स्नायादाचामेद्दैशिकः स्वयम् ॥७७॥
आणवाख्ये विनिर्दग्धे ह्यधोवाहिशिखामले ।
ततः प्रागुक्तसकलप्रमेयं परिचिन्तयन् ॥७८॥
शिष्यदेहादिमात्मीयदेहप्राणादियोजितम् ।
कृत्वात्मदेहप्राणादेर्विश्वमन्तरनुस्मरेत् ॥७९॥
उक्तप्रक्रियया चैवं दृढबुद्धिरनन्यधीः ।
प्राणस्थं देशकालाध्वयुगं प्राणं च शक्तिगम् ॥८०॥
तां च संविद्गतां शुद्धां संविदं शिवरूपिणीम् ।
शिष्यसंविदभिन्नां च मन्त्रवह्न्याद्यभेदिनीम् ॥८१॥
ध्यायन् प्राग्वत्प्रयोगेण शिवं सकलनिष्कलम् ।
द्व्यात्मकं वा क्षिपेत्पूर्णां प्रशान्तकरणेन तु ॥८२॥
उक्तं त्रैशिरसे तन्त्रे सर्वसंपूरणात्मकम् ।
मूलादुदयगत्या तु शिवेन्दुपरिसंप्लुतम् ॥८३॥
जन्मान्तमध्यकुहरमूलस्रोतःसमुत्थितम् ।
शिवार्करश्मिभिस्तीव्रैः क्षुब्धं ज्ञानामृतं तु यत् ॥८४॥
तेन संतर्पयेत्सम्यक् प्रशान्तकरणेन तु ।
शून्यधामाब्जमध्यस्थप्रभाकिरणभास्वरः ॥८५॥
आधेयाधारनिःस्पन्दबोधशास्त्रपरिग्रहः ।
जन्माधेयप्रपञ्चैकस्फोटसंघट्टघट्टनः ॥८६॥
मूलस्थानात्समारभ्य कृत्वा सोमेशमन्तगम् ।
खमिवातिष्ठते यावत्प्रशान्तं तावदुच्यते ॥८७॥
उक्तं श्रीपूर्वशास्त्रे च स्रुचमापूर्य सर्पिषा ।
कृत्वा शिष्यं तथात्मस्थं मूलमन्त्रमनुस्मरन् ॥८८॥
शिवं शक्तिं तथात्मानं शिष्यं सर्पिस्तथानलम् ।
एकीकुर्वञ्छनैर्गच्छेद्द्वादशान्तमनन्यधीः ॥८९॥
तत्र कुम्भकमास्थाय ध्यायन्सकलनिष्कलम् ।
तिष्ठेत्तावदनुद्विग्नो यावदाज्यक्षयो भ्वेत् ॥९०॥
एवं युक्तः परे तत्त्वे गुरुणा शिवमूर्तिना ।
न भूयः पशुतामेति दग्धमायानिबन्धनः ॥९१॥
देहपाते पुनः प्रेप्सेद्यदि तत्त्वेषु कुत्रचित् ।
भोगान् समस्तव्यस्तत्वभेदैरन्ते परं पदम् ॥९२॥
तदा तत्तत्त्वभूमौ तु तत्संख्यायामनन्यधीः ।
पुनर्योजनिकां कुर्यात्पूर्णाहुत्यन्तरेण तु ॥९३॥
मुक्तिप्रदा भोगमोक्षप्रदा वा या प्रकीर्तिता ।
दीक्षा सा स्यात्सबीजत्वनिर्बीजात्मतया द्विधा ॥९४॥
बाले निर्ज्ञातमरणे त्वशक्ते वा जरादिभिः ।
कार्या निर्बीजिका दीक्षा शक्तिपातबलोदये ॥९५॥
निर्बीजायां सामयांस्तु पाशानपि विशोधयेत् ।
कृतनिर्बीजदीक्षस्तु देवाग्निगुरुभक्तिभाक् ॥९६॥
इयतैव शिवं यायात् सद्यो भोगान् विभुज्य वा ।
श्रीमद्दीक्षोत्तरे चोक्तं चारे षट्त्रिंशदङ्गुले ॥९७॥
तत्त्वान्यापादमूर्धान्तं भुवनानि त्यजेत्क्रमात् ।
तुटिमात्रं निष्कलं तददेहं तदहंपरम् ॥९८॥
शक्त्या तत्र क्षिपाम्येनमिति ध्यायंस्तु दीक्षयेत् ।
सबीजायां तु दीक्षायां समयान्न विशोधयेत् ॥९९॥
विशेषस्त्वयमेतस्यां यावज्जीवं शिशोर्गुरुः ।
शेषवृत्त्यै शुद्धतत्त्वसृष्टिं कुर्वीत पूर्णया ॥१००॥
अभिन्नाच्छिवसंबोधजलधेर्युगपत्स्फुरत् ।
पूर्णां क्षिपंस्तत्त्वजालं ध्यायेद्भारूपकं सृतम् ॥१०१॥
विशुद्धतत्त्वसृष्टिं वा कुर्यात्कुम्भाभिषेचनात् ।
तथा ध्यानबलादेव यद्वा पूर्णाभिषेचनैः ॥१०२॥
पृथिवी स्थिररूपास्य शिवरूपेण भाविता ।
स्थिरीकरोति तामेव भावनामिति शुद्ध्यति ॥१०३॥
जलमाप्याययत्येनां तेजो भास्वरतां नयेत् ।
मरुदानन्दसंस्पर्शं व्योम वैतत्यमावहेत् ॥१०४॥
एवं तन्मात्रवर्गोऽपि शिवतामय इष्यते ।
परानन्दमहाव्याप्तिरशेषमलविच्युतिः ॥१०५॥
शिवे गन्तृत्वमादानमुपादेयशिवस्तुतिः ।
शिवामोदभरास्वाददर्शनस्पर्शनान्यलम् ॥१०६॥
तदाकर्णनमित्येवमिन्द्रियाणां विशुद्धता ।
संकल्पाध्यवसामानाः प्रकाशो रक्तिसंस्थिती ॥१०७॥
शिवात्मत्वेन यत्सेयं शुद्धता मानसादिके ।
नियमो रञ्जनं कर्तृभावः कलनया सह ॥१०८॥
वेदनं हेयवस्त्वंशविषये सुप्तकल्पता ।
इत्थं शिवैक्यरूढस्य षट्कञ्चुकगणोऽप्ययम् ॥१०९॥
शुद्ध एव पुमान् प्राप्तशिवभावो विशुद्ध्यति ।
विद्येशादिषु तत्त्वेषु नैव काचिदशुद्धता ॥११०॥
इत्येवं शुद्धतत्त्वानां सृष्ट्या शिष्योऽपि तन्मयः ।
भवेद्ध्येतत्सूचितं श्रीमालिनीविजयोत्तरे ॥१११॥
बन्धमोक्षावुभावेताविन्द्रियाणि जगुर्बुधाः ।
निगृहीतानि बन्धाय विमुक्तानि विमुक्तये ॥११२॥
एतानि व्यापके भावे यदा स्युर्मनसा सह ।
मुक्तानि क्वापि विषये रोधाद्बन्धाय तानि तु ॥११३॥
इत्येवं द्विविधो भावः शुद्धाशुद्धप्रभेदतः ।
इन्द्रियाणां समाख्यातः सिद्धयोगीश्वरे मते ॥११४॥
श्रीमान् विद्यागुरुस्त्वाह प्रमाणस्तुतिदर्शने ।
समस्तमन्त्रैर्दीक्षायां नियमस्त्वेष कथ्यते ॥११५॥
मायान्तशुद्धौ सर्वाः स्युः क्रिया ह्यपरया सदा ।
द्व्यात्मया सकलान्ते तु निष्कले परयैव तु ॥११६॥
ईशान्ते च पिवन्यादि सकलान्तेऽङ्गपञ्चकम् ।
इत्येवंविधिमालोच्य कर्म कुर्याद्गुरूत्तमः ॥११७॥
पुराध्वनि हुतीनां या संख्येयं तत्त्ववर्णयोः ।
तामेव द्विगुणीकुर्यात्पदाध्वनि चतुर्गुणाम् ॥११८॥
क्रमान्मन्त्रकलामार्गे द्विगुणा द्विगुणा क्रमात् ।
यावत्त्रितत्त्वसंशुद्धौ स्याद्विंशतिगुणा ततः ॥११९॥
प्रतिकर्म भवेत्षष्टिराहुतीनां त्रितत्त्वके ।
एकतत्त्वे शतं प्राहुराहुतीनां तु साष्टकम् ॥१२०॥
विलोमकर्मणा साकं याः पूर्णाहुतयः स्मृताः ।
तासां सर्वाध्वसंशुद्धौ संख्यान्यत्वं न किंचन ॥१२१॥
इत्येषा कथिता दीक्षा जननादिसमन्विता ॥१२२॥