तन्त्रालोकः षष्ठममाह्निकम्

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ

तन्त्रालोकः

अथ श्रीतन्त्रालोके षष्ठममाह्निकम्

स्थानप्रकल्पाख्यतया स्फुटस्तु बाह्योऽभ्युपायः प्रविविच्यतेऽथ ॥१॥

स्थानभेदस्त्रिधा प्रोक्तः प्राणे देहे बहिस्तथा ।
प्राणश्च पञ्चधा देहे द्विधा बाह्यान्तरत्वतः ॥२॥

मण्डलं स्थण्डिलं पात्रमक्षसूत्रं सपुस्तकम् ।
लिङ्गं तूरं पटः पुस्तं प्रतिमा मूर्तिरेव च ॥३॥

इत्येकादशधा बाह्यं पुनस्तद्बहुधा भवेत् ।
तत्र प्राणाश्रयं तावद्विधानमुपदिश्यते ॥४॥

अध्वा समस्त एवायं षड्विधोऽप्यतिविस्तृतः ।
यो वक्ष्यते स एकत्र प्राणे तावत्प्रतिष्ठितः ॥५॥

अध्वनः कलनं यत्तत्क्रमाक्रमतया स्थितम् ।
क्रमाक्रमौ हि चित्रैककलना भावगोचरे ॥६॥

क्रमाक्रमात्मा कालश्च परः संविदि वर्तते ।
काली नाम परा शक्तिः सैव देवस्य गीयते ॥७॥

सैव संविद्बहिः स्वात्मगर्भीभूतौ क्रमाक्रमौ ।
स्फुटयन्ती प्ररोहण प्राणवृत्तिरिति स्थिता ॥८॥

संविन्मात्रं हि यच्छुद्धं प्रकाशपरमार्थकम् ।
तन्मेयमात्मनः प्रोज्झ्य विविक्तं भासते नभः ॥९॥

तदेव शून्यरूपत्वं संविदः परिगीयते ।
नेति नेति विमर्शेन योगिनां सा परा दशा ॥१०॥

स एव खात्मा मेयेऽस्मिन्भेदिते स्वीक्रियोन्मुखः ।
पतन्समुच्छलत्त्वेन प्राणस्पन्दोर्मिसंज्ञितः ॥११॥

तेनाहुः किल संवित्प्राक्प्राणे परिणता तथा ।
अन्तःकरणतत्त्वस्य वायुराश्रयतां गतः ॥१२॥

इयं सा प्राणनाशक्तिरान्तरोद्योगदोहदा ।
स्पन्दः स्फुरत्ता विश्रान्तिर्जीवो हृत्प्रतिभा मता ॥१३॥

सा प्राणवृत्तिः प्राणाद्यै रूपैः पञ्चभिरात्मसात् ।
देहं यत्कुरुते संवित्पूर्णस्तेनैष भासते ॥१४॥

प्राणनावृत्तितादात्म्यसंवित्खचितदेहजाम् ।
चेष्टां पश्यन्त्यतो मुग्धा नास्त्यन्यदिति मन्वते ॥१५॥

तामेव बालमूर्खस्त्रीप्रायवेदितृसंश्रिताम् ।
मतिं प्रमाणीकुर्वन्तश्चार्वाकास्तत्त्वदर्शिनः ॥१६॥

तेषां तथा भावना चद्दार्ढ्यमेति निरन्तरम् ।
तद्देहभङ्गे सुप्ताः स्युरातादृग्वासनाक्षयात् ॥१७॥

तद्वासनाक्षये त्वेषामक्षीणं वासनान्तरम् ।
बुद्धं कुतश्चित्संसूते विचित्रां फलसम्पदम् ॥१८॥

अदार्ढ्यशङ्कनात्प्राच्यवासनातादवस्थ्यतः ।
अन्यकर्तव्यशैथिल्यात्संभाव्यानुशयत्वतः ॥१९॥

अतद्रूढान्यजनताकर्तव्यपरिलोपनात् ।
नास्तिक्यवासनामाहुः पापात्पापीयसीमिमाम् ॥२०॥

अलमप्रस्तुतेनाथ प्रकृतं प्रविविच्यते ।
यावान्समस्त एवायमध्वा प्राणे प्रतिष्ठितः ॥२१॥

द्विधा च सोऽध्वा क्रियया मूर्त्या च प्रविभज्यते ।
प्राण एव शिखा श्रीमत्त्रिशिरस्युदिता हि सा ॥२२॥

बद्धा यागादिकाले तुं निष्कलत्वाच्छिवात्मिका ।
यतोऽहोरात्रमध्येऽस्याश्चतुर्विंशतिधा गतिः ॥२३॥

प्राणविक्षेपरन्ध्राख्यशतैश्चित्रफलप्रदा ।
क्षपा शशी तथापानो नाद एकत्र तिष्ठति ॥२४॥

जीवादित्यो न चोद्गच्छेत्तुट्यर्धं सान्ध्यमीदृशम् ।
ऊर्ध्ववक्त्रो रविश्चन्द्रोऽधोमुखो वह्निरन्तरे ॥२५॥

माध्याह्निकी मोक्षदा स्याद्व्योममध्यस्थितो रविः ।
अनस्तमितसारो हि जन्तुचक्रप्रबोधकः ॥२६॥

बिन्दुः प्राणो ह्यहश्चैव रविरेकत्र तिष्ठति ।
महासन्ध्या तृतीया तु सुप्रशान्तात्मिका स्थिता ॥२७॥

एवं बद्धा शिखा यत्र तत्तत्फलनियोजिका ।
अतः संविदि सर्वोऽयमध्वा विश्रम्य तिष्ठति ॥२८॥

अमूर्तायाः सर्वगत्वान्निष्क्रियायाश्च संविदः ।
मूर्तिक्रियाभासनं यत्स एवाध्वा महेशितुः ॥२९॥

अध्वा क्रमेण यातव्ये पदे संप्राप्तिकारणम् ।
द्वैतिनां भोग्यभावात्तु प्रबुद्धानां यतोऽद्यते ॥३०॥

इह सर्वत्र शब्दानामन्वर्थं चर्चयेद्यतः ।
उक्तं श्रीमन्निशाचारे संज्ञात्र त्रिविधा मता ॥३१॥

नैमित्तिकी प्रसिद्धा च तथान्या पारिभाषिकी ।
पूर्वत्वे वा प्रधानं स्यात्तत्रान्तर्भावयेत्ततः ॥३२॥

अतोऽध्वशब्दस्योक्तेयं निरुक्तिर्नोदितापि चेत् ।
क्वचित्स्वबुद्ध्या साप्यूह्या कियल्लेख्यं हि पुस्तके ॥३३॥

तत्र क्रियाभासनं यत्सोऽध्वा कालाह्व उच्यते ।
वर्णमन्त्रपदाभिख्यमत्रास्तेऽध्वत्रयं स्फुटम् ॥३४॥

यस्तु मूर्त्यवभासांशः स देशाध्वा निगद्यते ।
कलातत्त्वपुराभिख्यमन्तर्भूतमिह त्रयम् ॥३५॥

त्रिकद्वयेऽत्र प्रत्येकं स्थूलं सूक्ष्मं परं वपुः ।
यतोऽस्ति तेन सर्वोऽयमध्वा षड्विध उच्यते ॥३६॥

षड्विधादध्वनः प्राच्यं यदेतत्त्रितयं पुनः ।
एष एव स कालाध्वा प्राणे स्पष्टं प्रतिष्ठितः ॥३७॥

तत्तवमध्यस्थितात्कालादन्योऽयं काल उच्यते ।
एष कालो हि देवस्य विश्वाभासनकारिणी ॥३८॥

क्रियाशक्तिः समस्तानां तत्त्वानां च परं वपुः ।
एतदीश्वरतत्त्वं तच्छिवस्य वपुरुच्यते ॥३९॥

उद्रिक्ताभोगकार्यात्मविश्वैकात्म्यमिदं यतः ।
एतदीश्वररूपत्वं परमात्मनि यत्किल ॥४०॥

तत्प्रमातरि मायीये कालतत्त्वं निगद्यते ।
शिवादिशुद्धविद्यान्तं यच्छिवस्य स्वकं वपुः ॥४१॥

तदेव पुंसो मायादिरागान्तं कञ्चुकीभवेत् ।
अनाश्रितं यतो माया कलाविद्ये सदाशिवः ॥४२॥

ईश्वरः कालनियती सद्विद्या राग उच्यते ।
अनाश्रितः शून्यमाता बुद्धिमाता सदाशिवः ॥४३॥

ईश्वरः प्राणमाता च विद्या देहप्रमातृता ।
अनाश्रयो हि शून्यत्वं ज्ञानमेव हि बुद्धिता ॥४४॥

विश्वात्मता च प्राणत्वं देहे वेद्यैकतानता ।
तेन प्राणपथे विश्वाकलनेयं विराजते ॥४५॥

येन रूपेण तद्वच्मः सद्भिस्तदवधीयताम् ।
द्वादशान्तावधावस्मिन्देहे यद्यपि सर्वतः ॥४६॥

ओतप्रोतात्मकः प्राणस्तथापीत्थं न सुस्फुटः ।
यत्नो जीवनमात्रात्मा तत्परश्च द्विधा मतः ॥४७॥

संवेद्यश्चाप्यसंवेद्यो द्विधेत्थं भिद्यते पुनः ।
स्फुटास्फुटत्वाद्द्वैविध्यं प्रत्येकं परिभावयेत् ॥४८॥

संवेद्यजीवनाभिख्यप्रयत्नस्पन्दसुन्दरः ।
प्राणः कन्दात्प्रभृत्येव तथाप्यत्र न सुस्फुटः ॥४९॥

कन्दाधारात्प्रभृत्येव व्यवस्था तेन कथ्यते ।
स्वच्छन्दशास्त्रे नाडीनां वाय्वाधारतया स्फुटम् ॥५०॥

तत्रापि तु प्रयत्नोऽसौ न संवेद्यतया स्थितः ।
वेद्ययत्नात्तु हृदयात्प्राणचारो विभज्यते ॥५१॥

प्रभोः शिवस्य या शक्तिर्वामा ज्येष्ठा च रौद्रिका ।
सतदन्यतमावात्मप्राणौ यत्नविधायिनौ ॥५२॥

प्रभुशक्तिः क्वचिन्मुख्या यथाङ्गमरुदीरणे ।
आत्मशक्तिः क्वचित्कन्दसंकोचस्पन्दने यथा ॥५३॥

प्राणशक्तिः क्वचित्प्राणचारे हार्दे यथा स्फुटम् ।
त्रयं द्वयं वा मुख्यं स्याद्योगिनामवधानिनाम् ॥५४॥

अवधानाददृष्टांशाद्बलवत्त्वादथेरणात् ।
विपर्ययोऽपि प्राणात्मशक्तीनां मुख्यतां प्रति ॥५५॥

वामा संसारिणामीशा प्रभुशक्तिर्विधायिनी ।
ज्येष्ठा तु सुप्रबुद्धानां बुभुत्सूनां च रौद्रिका ॥५६॥

वामा संसारवमना ज्येष्ठा शिवमयी यतः ।
द्रावयित्री रुजां रौद्री रोद्ध्री चाखिलकर्मणाम् ॥५७॥

सृष्ट्यादितत्त्वमज्ञात्वा न मुक्तो नापि मोचयेत् ।
उक्तं च श्रीयोगचारे मोक्षः सर्वप्रकाशनात् ॥५८॥

उत्पत्तिस्थितिसंहारान् ये न जानन्ति योगिनः ।
न मुक्तास्ते तदज्ञानबन्धनैकाधिवासिताः ॥५९॥

सृष्ट्यादयश्च ते सर्वे कालाधीना न संशयः ।
स च प्राणात्मकस्तस्मादुच्चारः कथ्यते स्फुटः ॥६०॥

हृदयात्प्राणचारश्च नासिक्यद्वादशान्ततः ।
षट्त्रिंशदङ्गुलो जन्तोः सर्वस्य स्वाङ्गुलक्रमात् ॥६१॥

क्षोदिष्ठे वा महिष्ठे वा देहे तादृश एव हि ।
वीर्यमोजो बलं स्पन्दः प्राणचारः समं ततः ॥६२॥

षट्त्रिंशदङ्गुले चारे यद्गमागमयुग्मकम् ।
नालिकातिथिमासाब्दतत्सङ्घ्रोऽत्र स्फुटं स्थितः ॥६३॥

तुटिः सपादाङ्गुलयुक्प्राणस्ताः षोडशोच्छ्वसन्।
निःश्वसंश्चात्र चषकः सपञ्चांशेऽङ्गुलेऽङ्गुले ॥६४॥

श्वासप्रश्वासयोर्नाली प्रोक्ताहोरात्र उच्यते ।
नवाङ्गुलाम्बुधितुटौ प्रहरास्तेऽब्धयो दिनम् ॥६५॥

निर्गमेऽन्तर्निशेनेन्दू तयोः संध्ये तुटेर्दले ।
केतुः सूर्ये विधौ राहुर्भौमादेर्वारभागिनः ॥६६॥

प्रहरद्वयमन्येषां ग्रहाणामुदयोऽन्तरा ।
सिद्धिर्दवीयसी मोक्षोऽभिचारः पारलौकिकी ॥६७॥

ऐहिकी दूरनैकट्यातिशया प्रहराष्टके ।
मध्याह्नमध्यनिशयोरभिजिन्मोक्षभोगदा ॥६८॥

नक्षत्राणां तदन्येषामुदयो मध्यतः क्रमात् ।
नागा लोकेशमूर्तीशा गणेशा जलतत्त्वतः ॥६९॥

प्रधानान्तं नायकाश्च विद्यातत्त्वाधिनायकाः ।
सकलाद्याश्च कण्ठ्योष्ठ्यपर्यन्ता भैरवास्तथा ॥७०॥

शक्तयः पारमेश्वर्यो वामशा वीरनायकाः ।
अष्टावष्टौ ये य इत्थं व्याप्यव्यापकताजुषः ॥७१॥

स्थूलसूक्ष्माः क्रमात्तेषामुदयः प्रहराष्टके ।
दिने क्रूराणि सौम्यानि रात्रौ कर्माण्यसंशयम् ॥७२॥

क्रूरता सौम्यता वाभिसन्धेरपि निरूपिता ।
दिनरात्रिक्षये मुक्तिः सा व्याप्तिध्यानयोगतः ॥७३॥

ते चोक्ताः परमेशेन श्रीमद्वीरावलीकुले ।
सितासितौ दीर्घह्रस्वौ धर्माधर्मौ दिनक्षपे ॥७४॥

क्षीयेते यदि तद्दीक्षा व्याप्त्या ध्यानेन योगतः ।
अहोरात्रः प्राणचारे कथितो मास उच्यते ॥७५॥

दिनं कृष्णो निशा शुक्लः पक्षौ कर्मसु पूर्ववत् ।
याः षोडशोक्तास्तिथयस्तासु ये पूर्वपश्चिमे ॥७६॥

तयोस्तु विश्रमोऽर्धेऽर्धे तिथ्यः पञ्चदशेतराः ।
सपादे द्व्यङ्गुले तिथ्या अहोरात्रो विभज्यते ॥७७॥

प्रकाशविश्रमवशात्तावेव हि दिनक्षपे ।
संवित्प्रतिक्षणं यस्मात्प्रकाशानन्दयोगिनी ॥७८॥

तौ क्लृप्तौ यावति तया तावत्येव दिनक्षपे ।
यावत्येव हि संवित्तिरुदितोदितसुस्फुटा ॥७९॥

तावानेव क्षणः कल्पो निमेषो वा तदस्त्वपि ।
यावानेवोदयो वित्तेर्वेद्यैकग्रहतत्परः ॥८०॥

तावदेवास्तमयनं वेदितृस्वात्मचर्वणम् ।
वेद्ये च बहिरन्तर्वा द्वये वाथ द्वयोज्झिते ॥८१॥

सर्वथा तन्मयीभूतिर्दिनं वेत्तृस्थता निशा ।
वेदिता वेद्यविश्रान्तो वेत्ता त्वन्तर्मुखस्थितिः ॥८२॥

पुरा विचारयन्पश्चात्सत्तामात्रस्वरूपकः ।
जाग्रद्वेदितृता स्वप्नो वेत्तृभावः पुरातनः ॥८३॥

परः सुप्तं क्षये रात्रिदिनयोस्तुर्यमद्वयम् ।
कदाचिद्वस्तुविश्रान्तिसाम्येनात्मनि चर्वणम् ॥८४॥

वेद्यवेदकसाम्यं तत् सा रात्रिदिनतुल्यता ।
वेद्ये विश्रान्तिरधिका दिनदैर्घ्याय तत्र तु ॥८५॥

न्यूना स्यात्स्वात्मविश्रान्तिर्विपरीते विपर्ययः ।
स्वात्मौत्सुक्ये प्रबुद्धे हि वेद्यविश्रान्तिरल्पिका ॥८६॥

इत्थमेव दिवारात्रिन्यूनाधिक्यक्रमं वदेत् ।
यथा देहेष्वहोरात्रन्यूनाधिक्यादि नो समम् ॥८७॥

तथा पुरेष्वपीत्येवं तद्विशेषेण नोदितम् ।
श्रीत्रैयम्बकसन्तानवितताम्बरभास्करः ॥८८॥

दिनरात्रिक्रमं मे श्रीशंभुरित्थमपप्रथत् ।
श्रीसन्तानगुरुस्त्वाह स्थानं बुद्धाप्रबुद्धयोः ॥८९॥

हृद आरभ्य यत्तेन रात्रिन्दिवविभाजनम् ।
तदसत्सितपक्षेऽन्तः प्रवेशोल्लासभागिनि ॥९०॥

अबुद्धस्थानमेवैतद्दिनत्वेन कथं भवेत् ।
अलं वानेन नेदं वा मम प्राङ्मतमत्सरः ॥९१॥

हेये तु दर्शिते शिष्याः सत्पथैकान्तदर्शिनः ।
व्याख्यातः कृष्णपक्षो य स्तत्र प्राणगतः शशी ॥९२॥

आप्यायनात्मनैकैकां कलां प्रतितिथि त्यजेत् ।
द्वादशान्तसमीपे तु यासौ पञ्चदशी तुटिः ॥९३॥

सामावस्यात्र स क्षीणश्चन्द्रः प्राणार्कमाविशेत् ।
उक्तं श्रीकामिकायां च नोर्ध्वेऽधः प्रकृतिः परा ।
अर्धार्धे क्रमते माया द्विखण्डा शिवरूपिणी ॥९४॥

चन्द्रसूर्यात्मना देहं पूरयेत्प्रविलापयेत् ।
अमृतं चन्द्ररूपेण द्विधा षोडशधा पुनः ॥९५॥

पिवन्ति च सुराः सर्वे दशपञ्च पराः कलाः ।
अमा शेषगुहान्तःस्थामावास्या विश्वतर्पिणी ॥९६॥

एवं कलाः पञ्चदश क्षीयन्ते शशिनः क्रमात् ।
आप्यायिन्यमृताब्रूपतादात्म्यात्षोडशी न तु ॥९७॥

तत्र पञ्चदशी यासौ तुटिः प्रक्षीणचन्द्रमाः ।
तदूर्ध्वगं यत्तुट्यर्धं पक्षसंधिः स कीर्तितः ॥९८॥

तस्माद्विश्रमतुट्यर्धादामावस्यं पुरादलम् ।
परं प्रातिपदं चार्धमिति संधिः स कल्प्यते ॥९९॥

तत्र प्रातिपदे तस्मिंस्तुट्यर्धार्धे पुरादलम् ।
आमावस्यं तिथिच्छेदात्कुर्यात्सूर्यग्रहं विशत् ॥१००॥

तत्रार्कमण्डले लीनः शशी स्रवति यन्मधु ।
तप्तत्वात्तत्पिबेदिन्दुसहभूः सिंहिकासुतः ॥१०१॥

अर्कः प्रमाणं सोमस्तु मेयं ज्ञानक्रियात्मकौ ।
राहुर्मायाप्रमाता स्यात्तदाच्छादनकोविदः ॥१०२॥

तत एव तमोरूपो विलापयितुमक्षमः ।
तत्संघट्टाद्वयोल्लासो मुख्यो माता विलापकः ॥१०३॥

अर्केन्दुराहुसंघट्टात् प्रमाणं वेद्यवेदकौ ।
अद्वयेन ततस्तेन पुण्य एष महाग्रहः ॥१०४॥

अमावस्यां विनाप्येष संघट्टश्चेन्महाग्रहः ।
यथार्के मेषगे राहावश्विनीस्थेऽश्विनीदिने ॥१०५॥

आमावास्यं यदा त्वर्धं लीनं प्रातिपदे दले ।
प्रतिपच्च विशुद्धा स्यात्तन्मोक्षो दूरगे विधौ ॥१०६॥

ग्रासमोक्षान्तरे स्नानध्यानहोमजपादिकम् ।
लौकिकालौकिकं भूयःफलं स्यात्पारलौकिकम् ॥१०७॥

ग्रास्यग्रासकताक्षोभप्रक्षये क्षणमाविशन् ।
मोक्षभाग्ध्यानपूजादि कुर्वंश्चन्द्रार्कयोर्ग्रहे ॥१०८॥

तिथिच्छेद ऋणं कासो वृद्धिर्निःश्वसनं धनम् ।
अयत्नजं यत्नजं तु रेचनादथ रोधनात् ॥१०९॥

एवं प्राणे विशति चित्सूर्य इन्दुं सुधामयम् ।
एकैकध्येन बोधांशु कलया परिपूरयेत् ॥११०॥

क्रमसंपूरणाशालिशशाङ्कामृतसुन्दराः ।
तुट्यः पञ्चदशैताः स्युस्तिथयः सितपक्षगाः ॥१११॥

अन्त्यायां पूर्णमस्तुट्यां पूर्ववत्पक्षसन्धिता ।
इन्दुग्रहश्च प्रतिपत्सन्धौ पूर्वप्रवेशतः ॥११२॥

ऐहिकं ग्रहणे चात्र साधकानां महाफलम् ।
प्राग्वदन्यदयं मासः प्राणचारेऽब्द उच्यते ॥११३॥

षट्सु षट्स्वङ्गुलेष्वर्को हृदयान्मकरादिषु ।
तिष्ठन्माघाढिकं षट्कं कुर्यात्तच्चोत्तरायणम् ॥११४॥

संक्रान्तित्रितये वृत्ते भुक्ते चाष्टादशाङ्गुले ।
मेषं प्राप्ते रवौ पुण्यं विषुवत्पारलौकिकम् ॥११५॥

प्रवेशे तु तुलास्थेऽर्के तदेव विषुवद्भवेत् ।
इह सिद्धिप्रदं चैतद्दक्षिणायनगं ततः ॥११६॥

गर्भता प्रोद्बुभूषिष्यद्भावश्चाथोद्बुभूषुता ।
उद्भविष्यत्त्वमुद्भूतिप्रारम्भोऽप्युद्भवस्थितिः ॥११७॥

जन्म सत्ता परिणतिर्वृद्धिर्ह्रासः क्षयः क्रमात् ।
मकरादीनि तेनात्र क्रिया सूते सदृक्फलम् ॥११८॥

आमुत्रिके झषः कुम्भो मन्त्रादेः पूर्वसेवने ।
चतुष्कं किल मीनाद्यमन्तिकं चोत्तरोत्तरम् ॥११९॥

प्रवेशे खलु तत्रैव शान्तिपुष्ट्यादिसुन्दरम् ।
कर्म स्यादैहिकं तच्च दूरदूरफलं क्रमात् ॥१२०॥

निर्गमे दिनवृद्धिः स्याद्विपरीते विपर्ययः ।
वर्षेऽस्मिंस्तिथयः पञ्च प्रत्यङ्गुलमिति क्रमः ॥१२१॥

तत्राप्यहोरात्रविधिरिति सर्वं हि पूर्ववत् ।
प्राणीये वर्ष एतस्मिन्कार्तिकादिषु दक्षतः ॥१२२॥

पितामहान्तं रुद्राः स्युर्द्वादशाग्रेऽत्र भाविनः ।
प्राणे वर्षोदयः प्रोक्तो द्वादशाब्दोदयोऽधुना ॥१२३॥

खरसास्तिथ्य एकस्मिन्नेकस्मिन्नङ्गुले क्रमात् ।
द्वादशाब्दोदये ते च चैत्राद्या द्वादशोदिताः ॥१२४॥

चैत्रे मन्त्रोदितिः सोऽपि तालुन्युक्तोऽधुना पुनः ।
हृदि चैत्रोदितिस्तेन तत्र मन्त्रोदयोऽपि हि ॥१२५॥

प्रत्यङ्गुलं तिथीनां तु त्रिशते परिकल्पिते ।
सपञ्चांशाङ्गुलेऽब्दः स्यात्प्राणे षष्ट्यब्दता पुनः ॥१२६॥

शतानि षट् सहस्राणि चैकविंशतिरित्ययम् ।
विभागः प्राणगः षष्टिवर्षाहोरात्र उच्यते ॥१२७॥

प्रहराहर्निशामासऋत्वब्दरविषष्टिगः ।
यश्छेदस्तत्र यः सन्धिः स पुण्यो ध्यानपूजने ॥१२८॥

इति प्राणोदये योऽयं कालः शक्त्येकविग्रहः ।
विश्वात्मान्तःस्थितस्तस्य बाह्ये रूपं निरूप्यते ॥१२९॥

षट् प्राणाश्चषकस्तेषां षष्टिर्नाली च तास्तथा ।
तिथिस्तत्त्रिंशता मासस्ते द्वादश तु वत्सरः ॥१३०॥

अब्दं पित्र्यस्त्वहोरात्र उदग्दक्षिणतोऽयनात् ।
पितॄणां यत्स्वमानेन वर्षं तद्दिव्यमुच्यते ॥१३१॥

षष्ट्यधिकं च त्रिशतं वर्षाणामत्र मानुषम् ।
तच्च द्वादशभिर्हत्वा माससंख्यात्र लभ्यते ॥१३२॥

तां पुनस्त्रिंशता हत्वाहोरात्रकल्पना वदेत् ।
हत्वा तां चैकविंशत्या सहस्रैः षट्शतेन च ॥१३३॥

प्राणसंख्यां वदेत्तत्र षष्ट्याद्यब्दोदयं पुनः ।
उक्तं च गुरुभिः श्रीमद्रौरवादिस्ववृत्तिषु ॥१३४॥

देवानां यदहोरात्रं मानुषाणां स हायनः ।
शतत्रयेण षष्ट्या च नॄणां विबुधवत्सरः ॥१३५॥

श्रीमत्स्वच्छन्दशास्त्रे च तदेव मतमीक्ष्यते ।
पितॄणां तदहोरात्रमित्युपक्रम्य पृष्ठतः ॥१३६॥

एवं दैवस्त्वहोरात्र इति ह्यैक्योपसंहृतिः ।
तेन ये गुरवः श्रीमत्स्वच्छन्दोक्तिद्वयादितः ॥१३७॥

पित्र्यं वर्षं दिव्यदिनमूचुर्भ्रान्ता हि ते मुधा ।
दिव्यार्काब्दसहस्राणि युगेषु चतुरादितः ॥१३८॥

एकैकहान्या तावद्भिः शतैस्तेष्वष्ट संधयः ।
चतुर्युगैकसप्तत्या मन्वन्तस्ते चतुर्दश ॥१३९॥

ब्रह्मणोऽहस्तत्र चेन्द्राः क्रमाद्यान्ति चतुर्दश ।
ब्रह्माहोऽन्ते कालवह्नेर्ज्वाला योजनलक्षिणी ॥१४०॥

दग्ध्वा लोकत्रयं धूमात्त्वन्यत्प्रस्वापयेत्त्रयम् ।
निरयेभ्यः पुरा कालवह्नेर्व्यक्तिर्यतस्ततः ॥१४१॥

विभुरधःस्थितोऽपीश इति श्रीरौरवं मतम् ।
ब्रह्मनिःश्वासनिर्धूते भस्मनि स्वेदवारिणा ॥१४२॥

तदीयेनाप्लुतं विश्वं तिष्ठेत्तावन्निशागमे ।
तस्मिन्निशावधौ सर्वे पुद्गलाः सूक्ष्मदेहगाः ॥१४३॥

अग्निवेगेरिता लोके जने स्युर्लयकेवलाः ।
कूष्माण्डहाटकाद्यास्तु क्रीडन्ति महदालये ॥१४४॥

निशाक्षये पुनः सृष्टिं कुरुते तामसादितः ।
स्वकवर्षशतान्तेऽस्य क्षयस्तद्वैष्णवं दिनम् ॥१४५॥

रात्रिश्च तावतीत्येवं विष्णुरुद्रशताभिधाः ।
क्रमात्स्वस्वशतान्तेषु नश्यन्त्यत्राण्डलोपतः ॥१४६॥

अबाद्यव्यक्ततत्त्वान्तेष्वित्थं वर्षशतं क्रमात् ।
दिनरात्रिविभागः स्यात् स्वस्वायुःशतमानतः ॥१४७॥

ब्रह्मणः प्रलयोल्लाससहस्रैस्तु रसाग्निभिः ।
अव्यक्तस्थेषु रुद्रेषु दिनं रात्रिश्च तावती ॥१४८॥

तदा श्रीकण्ठ एव स्यात्साक्षात्संहारकृत्प्रभुः ।
सर्वे रुद्रास्तथा मूले मायागर्भाधिकारिणः ॥१४९॥

अव्यक्ताख्ये ह्याविरिञ्चाच्छ्रीकण्ठेन सहासते ।
निवृत्ताधःस्थकर्मा हि ब्रह्मा तत्राधरे धियः ॥१५०॥

न भोक्ता ज्ञोऽधिकारे तु वृत्त एव शिवीभवेत् ।
स एषोऽवान्तरलयस्तत्क्षये सृष्टिरुच्यते ॥१५१॥

सांख्यवेदादिसंसिद्धाञ्छ्रीकण्ठस्तदहर्मुखे ।
सृजत्येव पुनस्तेन न सम्यङ्मुक्तिरीदृशी ॥१५२॥

प्रधाने यदहोरात्रं तज्जं वर्षशतं विभोः ।
श्रीकण्ठस्यायुरेतच्च दिनं कञ्चुकवासिनाम् ॥१५३॥

तत्क्रमान्नियतिः कालो रागो विद्या कलेत्यमी ।
यान्त्यन्योन्यं लयं तेषामायुर्गाहनिकं दिनम् ॥१५४॥

तद्दिनप्रक्षये विश्वं मायायां प्रविलीयते ।
क्षीणायां निशि तावत्यां गहनेशः सृजेत्पुनः ॥१५५॥

एवमव्यक्तकालं तु परार्धैर्दशभिर्जहि ।
मायाहस्तावती रात्रिर्भवेत्प्रलय एष सः ॥१५६॥

मायाकालं परार्धानां गुणयित्वा शतेन तु ।
ऐश्वरो दिवसो नादः प्राणात्मात्र सृजेज्जगत् ॥१५७॥

तावती चैश्वरी रात्रिर्यत्र प्राणः प्रशाम्यति ।
प्राणगर्भस्थमप्यत्र विश्वं सौषुम्नवर्त्मना ॥१५८॥

प्राणे ब्रह्मविले शान्ते संविद्याप्यवशिष्यते ।
अंशांशिकातोऽप्येतस्याः सूक्ष्मसूक्ष्मतरो लयः ॥१५९॥

गुणयित्वैश्वरं कालं परार्धानां शतेन तु ।
सादाशिवं दिनं रात्रिर्महाप्रलय एव च ॥१६०॥

सदाशिवः स्वकालान्ते बिन्द्वर्धेन्दुनिरोधिकाः ।
आक्रम्य नादे लीयेत गृहीत्वा सचराचरम् ॥१६१॥

नादो नादान्तवृत्त्या तु भित्त्वा ब्रह्मबिलं हठात् ।
शक्तितत्त्वे लयं याति निजकालपरिक्षये ॥१६२॥

एतावच्छक्तितत्त्वे तु विज्ञेयं खल्वहर्निशम् ।
शक्तिः स्वकालविलये व्यापिन्यां लीयते पुनः ॥१६३॥

व्यापिन्या तद्दिवारात्रं लीयते साप्यनाश्रिते ।
परार्धकोट्या हत्वापि शक्तिकालमनाश्रिते ॥१६४॥

दिनं रात्रिश्च तत्काले परार्धगुणितेऽपि च ।
सोऽपि याति लयं साम्यसंज्ञे सामनसे पदे ॥१६५॥

स कालः साम्यसंज्ञः स्यान्नित्योऽकल्यः कलात्मकः ।
यत्तत्सामनसं रूपं तत्साम्यं ब्रह्म विश्वगम् ॥१६६॥

अतः सामनसात्कालान्निमेषोन्मेषमात्रतः ।
तुट्यादिकं परार्धान्तं सूते सैवात्र निष्ठितम् ॥१६७॥

दशशतसहस्रमयुतं लक्षनियुतकोटि सार्बुदं वृन्दम् ।
खर्वनिखर्वे शंखाब्जजलधिमध्यान्तमथ परार्धं च ॥१६८॥

इत्येकस्मात्प्रभृति हि दशधा दशधा क्रमेण कलयित्वा ।
एकादिपरार्धान्तेष्वष्टादशसु स्थितिं ब्रूयात् ॥१६९॥

चत्वार एते प्रलया मुख्याः सर्गाश्च तत्कलाः ।
भूमूलनैशशक्तिस्थास्तदेवाण्डचतुष्टयम् ॥१७०॥

कालाग्निर्भुवि संहर्ता मायान्ते कालतत्त्वराट् ।
श्रीकण्ठो मूल एकत्र सृष्टिसंहारकारकः ॥१७१॥

तल्लयो वान्तरस्तस्मादेकः सृष्टिलयेशिता ।
श्रीमानघोरः शक्त्यन्ते संहर्ता सृष्टिकृच्च सः ॥१७२॥

तत्सृष्टौ सृष्टिसंहारा निःसंख्या जगतां यतः ।
अन्तर्भूतास्ततः शाक्ती महासृष्टिरुदाहृता ॥१७३॥

लये ब्रह्मा हरी रुद्रशतान्यष्टकपञ्चकम् ।
इत्यन्योन्यं क्रमाद्यान्ति लयं मायान्तकेऽध्वनि ॥१७४॥

मायातत्त्वलये त्वेते प्रयान्ति परमं पदम् ।
मायोर्ध्वे ये सिताध्वस्थास्तेषां परशिवे लयः ॥१७५॥

तत्राप्यौपाधिकाद्भेदाल्लये भेदं परे विदुः ।
एवं तात्त्वेश्वरे वर्गे लीने सृष्टौ पुनः परे ॥१७६॥

तत्साधकाः शिवेष्टा वा तत्स्थानमधिशेरते ।
ब्राह्मी नाम परस्यैव शक्तिस्तां यत्र पातयेत् ॥१७७॥

स ब्रह्मा विष्णुरुद्राद्या वैष्णव्यादेरतः क्रमात् ।
शक्तिमन्तं विहायान्यं शक्तिः किं याति नेदृशम् ॥१७८॥

छादितप्रथिताशेष शक्तिरेकः शिवस्तथा ।
एवं विसृष्टिप्रलयाः प्राण एकत्र निष्ठिताः ॥१७९॥

सोऽपि संविदि संविच्च चिन्मात्रे ज्ञेयवर्जिते ।
चिन्मात्रमेव देवी च सा परा परमेश्वरी ॥१८०॥

अष्टात्रिंशं च तत्तत्त्वं हृदयं तत्परापरम् ।
तेन संवित्त्वमेवैतत्स्पन्दमानं स्वभावतः ॥१८१॥

लयोदया इति प्राणे षष्ट्यब्दोदयकीर्तनम् ।
इच्छामात्रप्रतिष्ठेयं क्रियावैचित्र्यचर्चना ॥१८२॥

कालशक्तिस्ततो बाह्ये नैतस्या नियतं वपुः ।
स्वप्नस्वप्ने तथा स्वप्ने सुप्ते संकल्पगोचरे ॥१८३॥

समाधौ विश्वसंहारसृष्टिक्रमविवेचने ।
मितोऽपि किल कालांशो विततत्वेन भासते ॥१८४॥

प्रमात्रभेदे भेदेऽथ चित्रो विततिमाप्यसौ ।
एवं प्राणे यथा कालः क्रियावैचित्र्यशक्तिजः ॥१८५॥

तथापानेऽपि हृदयान्मूलपीठविसर्पिणि ।
मूलाभिधमहापीठसङ्कोचप्रविकासयोः ॥१८६॥

ब्रह्माद्यनाश्रितान्तानां चिनुते सृष्टिसंहृती ।
शश्वद्यद्यप्यपानोऽय मित्थं वहति किंत्वसौ ॥१८७॥

अवेद्ययत्नो यत्नेन योगिभिः समुपास्यते ।
हृत्कन्दानन्दसंकोचविकासद्वादशान्तगाः ॥१८८

ब्रह्मादयोऽनाश्रितान्ताः सेव्यन्तेऽत्र सुयोगिभिः ।
एते च परमेशानशक्तित्वाद्विश्ववर्तिनः ॥१८९॥

देहमप्यश्नुवानास्तत्कारणानीति कामिके ।
बाल्ययौवनवृद्धत्वनिधनेषु पुनर्भवे ॥१९०॥

मुक्तौ च देहे ब्रह्माद्याः षडधिष्ठानकारिणः ।
तस्यान्ते तु परा देवी यत्र युक्तो न जायते ॥१९१॥

अनेन ज्ञातमात्रेण दीक्षानुग्रहकृद्भवेत् ।
समस्तकारणोल्लासपदे सुविदिते यतः ॥१९२॥

अकारणं शिवं विन्देद्यत्तद्विश्वस्य कारणम् ।
अधोवक्त्रं त्विदं द्वैतकलङ्कैकान्तशातनम् ॥१९३॥

क्षीयते तदुपासायां येनोर्ध्वाधरडम्बरः ।
अत्रापानोदये प्राग्वत्षष्ट्यब्दोदययोजनाम् ॥१९४॥

यावत्कुर्वीत तुट्यादेर्युक्ताङ्गुलविभागतः ।
एवं समानेऽपि विधिः स हि हार्दीषु नाडिषु ॥१९५॥

संचरन्सर्वतोदिक्कं दशधैव विभाव्यते ।
दश मुख्या महानाडीः पूरयन्नेष तद्गताः ॥१९६॥

नाड्यन्तरश्रिता नाडीः क्रामन्देहे समस्थितिः ।
अष्टासु दिग्दलेष्वेष क्रामंस्तद्दिक्पतेः क्रमात् ॥१९७॥

चेष्टितान्यनुकुर्वाणो रौद्रः सौम्यश्च भासते ।
स एव नाडीत्रितये वामदक्षिणमध्यगे ॥१९८॥

इन्द्वर्काग्निमये मुख्ये चरंस्तिष्ठत्यहर्निशम् ।
सार्धनालीद्वयं प्राणशतानि नव यत्स्थितम् ॥१९९॥

तावद्वहन्नहोरात्रं चतुर्विंशतिधा चरेत् ।
विषुवद्वासरे प्रातः सांशां नालीं स मध्यगः ॥२००॥

वामेतरोदक्सव्यान्यैर्यावत्संक्रान्तिपञ्चकम् ।
एवं क्षीणासु पादोनचतुर्दशसु नालिषु ॥२०१॥

मध्याह्ने दक्षविषुवन्नवप्राणशतीं वहेत् ।
दक्षोदगन्योदग्दक्षैः पुनः संक्रान्तिपञ्चकम् ॥२०२॥

नवासुशतमेकैकं ततो विषुवदुत्तरम् ।
पञ्चके पञ्चकेऽतीते संक्रान्तेर्विषुवद्बहिः ॥२०३॥

यद्वत्तथान्तः सङ्क्रान्तिर्नवप्राणशतानि सा ।
एवं रात्रावपीत्येवं विषुवद्दिवसात्समात् ॥२०४।
आरभ्याहर्निशावृद्धिह्राससङ्क्रान्तिगोऽप्यसौ ।
रात्र्यन्तदिनपूर्वांशौ मध्याह्नो दिवसक्षयः ॥२०५॥

स शर्वर्युदयो मध्यमुदक्तो विषुतेदृशी ।
व्याप्तौ विषेर्यतो वृत्तिः साम्यं च व्याप्तिरुच्यते ॥२०६॥

तदर्हति च यः कालो विषुवत्तदिहोदितः ।
विषुवत्प्रभृति ह्रासवृद्धी ये दिनरात्रिगे ॥२०७॥

तत्क्रमेणैव संक्रान्तिह्रासवृद्धी दिवानिशोः ।
इत्थं समानमरुतो वर्षद्वयविकल्पनम् ॥२०८॥

चार एकत्र नह्यत्र श्वासप्रश्वासचर्चनम् ।
समानेऽपि तुटेः पूर्वं यावत्षष्ट्यब्दगोचरम् ॥२०९॥

कालसंख्या सुसूक्ष्मैकचारगा गण्यते बुधैः ।
संध्यापूर्वाह्णमध्याह्नमध्यरात्रादि यत्किल ॥२१०॥

अन्तःसंक्रान्तिगं ग्राह्यं तन्मुख्यं तत्फलोदितेः ।
उक्तः समानगः काल उदाने तु निरूप्यते ॥२११॥

प्राणव्याप्तौ यदुक्तं तदुदानेऽप्यत्र केवलम् ।
नासाशक्त्यन्तयोः स्थाने ब्रह्मरन्ध्रोर्ध्वधामनी ॥२१२॥

तेनोदानेऽत्र हृदयान्मूर्धन्यद्वादशान्तगम् ।
तुट्यादिषष्टिवर्षान्तं विश्वं कालं विचारयेत् ॥२१३॥

व्याने तु विश्वात्ममये व्यापके क्रमवर्जिते ।
सूक्ष्मसूक्ष्मोच्छलद्रूपमात्रः कालो व्यवस्थितः ॥२१४॥

सृष्टिः प्रविलयः स्थेमा संहारोऽनुग्रहो यतः ।
क्रमात्प्राणादिके काले तं तं तत्राश्रयेत्ततः ॥२१५॥

प्राणचारेऽत्र यो वर्णपदमन्त्रोदयः स्थितः ।
यत्नजोऽयत्नजः सूक्ष्मः परः स्थूलः स कथ्यते ॥२१६॥

एको नादात्मको वर्णः सर्ववर्णाविभागवान् ।
सोऽनस्तमितरूपत्वादनाहत इहोदितः ॥२१७॥

स तु भैरवसद्भावो मातृसद्भाव एष सः ।
परा सैकाक्षरा देवी यत्र लीनं चराचरम् ॥२१८॥

ह्रस्वार्णत्रयमेकैकं रव्यङ्गुलमथेतरत् ।
प्रवेश इति षड्वर्णाः सूर्येन्दुपथगाः क्रमात् ॥२१९॥

इकारोकारयोरादिसन्धौ संध्यक्षरद्वयम् ।
ए+ओ इति प्रवेशे तु ऐ-औ इति द्वयं विदुः ॥२२०॥

षण्ठार्णानि प्रवेशे तु द्वादशान्तललाटयोः ।
गले हृदि च बिन्द्वर्णविसर्गौ परितःस्थितौ ॥२२१॥

कादिपञ्चकमाद्यस्य वर्णस्यान्तः सदोदितम् ।
एवं सस्थानवर्णानामन्तः सा सार्णसन्ततिः ॥२२२॥

हृद्येष प्राणरूपस्तु सकारो जीवनात्मकः ।
बिन्दुः प्रकाशो हार्णश्च पूरणात्मतया स्थितः ॥२२३॥

उक्तः परोऽयमुदयो वर्णानां सूक्ष्म उच्यते ।
प्रवेशे षोडशौन्मुख्ये रवयः षण्ठवर्जिताः ॥२२४॥

तदेवेन्द्वर्कमत्रान्ये वर्णाः सूक्ष्मोदयस्त्वयम् ।
कालोऽर्धमात्रः कादीनां त्रयस्त्रिंशत उच्यते ॥२२५॥

मात्रा ह्रस्वाः पञ्च दीर्घाष्टकं द्विस्त्रिः प्लुतं तु लॄ ।
एकाशीतिमिमामर्धमात्राणामाह नो गुरुः ॥२२६॥

यद्वशाद्भगवानेकाशीतिकं मन्त्रमभ्यधात् ।
एकाशीतिपदा देवी शक्तिः प्रोक्ता शिवात्मिका ॥२२७॥

श्रीमातङ्गे तथा धर्मसंघातात्मा शिवो यतः ।
तथा तथा परामर्शशक्तिचक्रेश्वरः प्रभुः ॥२२८॥

स्थूलैकाशीतिपदजपरामर्शैर्विभाव्यते ।
तत एव परामर्शो यावत्येकः समाप्यते ॥२२९॥

तावत्तत्पदमुक्तं नो सुप्तिङ्नियमयान्त्रितम् ।
एकाशीतिपदोदारविमर्शक्तमबृंहितः ॥२३०॥

स्थूलोपायः परोपायस्त्वेष मात्राकृतो लयः ।
अर्धमात्रा नव नव स्युश्चतुर्षु चतुर्षु यत् ॥२३१॥

अङ्गुलेष्विति षट्त्रिंशत्येकाशीतिपदोदयः ।
अङ्गुले नवभागेन विभक्ते नवमाशकाः ॥२३२॥

वेदा मात्रार्धमन्यत्तु द्विचतुःषङ्गुणं त्रयम् ।
एवमङ्गुलरन्ध्रांशचतुष्कद्वयगं लघु ॥२३३॥

दीर्घं प्लुतं क्रमाद्द्वित्रिगुणमर्धं ततोऽपि हल् ।
क्षकारस्त्र्यर्धमात्रात्मा मात्रिकः सतथान्तरा ॥२३४॥

विश्रान्तावर्धमात्रास्य तस्मिंस्तु कलिते सति ।
अङ्गुलार्धेऽद्रिभागेन त्वर्धमात्रा पुरा पुनः ॥२३५॥

क्षकारः सर्वसंयोगग्रहणात्मा तु सर्वगः ।
सर्ववर्णोदयाद्यन्तसन्धिषूदयभाग्विभुः ॥२३६॥

इत्थं षट्त्रिंशके चारे वर्णानामुदयः फले ।
क्रूरे सौम्ये विलोमेन हादि यावदपश्चिमम् ॥२३७॥

हृद्यकारो द्वादशान्ते हकारस्तदिदं विदुः ।
अहमात्मकमद्वैतं यः प्रकाशात्मविश्रमः ॥२३८॥

शिवशक्त्यविभागेन मात्रैकाशीतिका त्वियम् ।
द्वासप्ततावङ्गुलेषु द्विगुणत्वेन संसरेत् ॥२३९॥

उक्तः सूक्ष्मोदयस्त्रैधं द्विधोक्तस्तु परोदयः ।
अथ स्थूलोदयोऽर्णानां भण्यते गुरुणोदितः ॥२४०॥

एकैकमर्धप्रहरं दिने वर्गाष्टकोदयः ।
रात्रौ च ह्रासवृद्ध्यत्र केचिदाहुर्न केऽपि तु ॥२४१॥

एष वर्गोदयो रात्रौ दिवा चाप्यर्धयामगः ।
प्राणत्रयोदशशती पञ्चाशदधिका च सा ॥२४२॥

अध्यर्धा किल संक्रान्तिर्वर्गे वर्गे दिवानिशोः ।
तदैक्ये तूदयश्चारशतानां सप्तविंशतिः ॥२४३॥

नव वर्गांस्तु ये प्राहुस्तेषां प्राणशती स्वीन्[विः] ।
सत्रिभागैव संक्रान्तिर्वर्गे प्रत्येकमुच्यते ॥२४४॥

अहर्निशं तदैक्ये तु शतानां श्रुतिचक्षुषी ।
स्थूलो वर्गोदयः सोऽयमथार्णोदय उच्यते ॥२४५॥

एकैकवर्णे प्राणानां द्विशतं षोडशाधिकम् ।
बहिश्चषकषट्त्रिंशद्दिन इत्थं तथानिशि ॥२४६॥

शतमष्टोत्तरं तत्र रौद्रं शाक्तमथोत्तरम् ।
यामलस्थितियोगे तु रुद्रशक्त्यविभागिता ॥२४७॥

दिनरात्र्यविभागे तु दृग्वह्न्यब्ध्यसुचारणाः ।
सपञ्चमांशा नाडी च बहिर्वर्णोदयः स्मृतः ॥२४८॥

इति पञ्चाशिका सेयं वर्णानां परिचर्चिता ।
एकोनां ये तु तामाहुस्तन्मतं संप्रचक्ष्महे ॥२४९॥

वेदाश्चाराः पञ्चमांशन्यूनं चारार्धमेकशः ।
वर्णेऽधिकं तद्द्विगुणमविभागे दिवानिशोः ॥२५०॥

स्थूलो वर्णोदयः सोऽयं पुरा सूक्ष्मो निगद्यते ॥२५१॥

इति कालतत्त्वमुदितं शास्त्रमुखागमनिजानुभवसिद्धम् ॥२५२॥