तन्त्रालोकः षड्विंशमाह्निकम्

विकिस्रोतः तः
Jump to navigation Jump to search

तन्त्रालोकः


अथ श्रीतन्त्रालोके षड्विंशमाह्निकम्


अथोच्यते शेषवृत्तिर्जीवतामुपयोगिनी ॥१॥

दीक्षा बहुप्रकारेयं श्राद्धान्ता या प्रकीर्तिता ।
सा संस्क्रियायै मोक्षाय भोगायापि द्वयाय वा ॥२॥

तत्र संस्कारसिद्ध्यै या दीक्षा साक्षान्न मोचनी ।
अनुसंधिवशाद्या च साक्षान्मोक्त्री सबीजिका ॥३॥

तयोभय्या दीक्षिता ये तेषामाजीववर्तनम् ।
वक्तव्यं पुत्रकादीनां तन्मयत्वप्रसिद्धये ॥४॥

बुभुक्षोर्वा मुमुक्षोर्वा स्वसंविद्गुरुशास्त्रतः ।
प्रमाणाद्या संस्क्रियायै दीक्षा हि गुरुणा कृता ॥५॥

ततः स संस्कृतं योग्यं ज्ञात्वात्मानं स्वशासने ।
तदुक्तवस्त्वनुष्ठानं भुक्त्यै मुक्त्यै च सेवते ॥६॥

आचार्यप्रत्ययादेव योऽपि स्याद्भुक्तिमुक्तिभाक् ।
तत्प्रत्यूहोदयध्वस्त्यै ब्रूयात्तस्यापि वर्तनम् ॥७॥

स्वसंविद्गुरुसंवित्त्योस्तुल्यप्रत्ययभागपि ।
शेषवृत्त्या समादेश्यस्तद्विघ्नादिप्रशान्तये ॥८॥

यः सर्वथा परापेक्षामुज्झित्वा तु स्थितो निजात् ।
प्रत्ययाद्योऽपि चाचार्यप्रत्ययादेव केवलात् ॥९॥

तौ सांसिद्धिकनिर्बीजौ को वदेच्छेषवृत्तये ।
क्रमात्तन्मयतोपायगुर्वर्चनरतौ तु तौ ॥१०॥

तत्रैषां शेषवृत्त्यर्थं नित्यनैमित्तिके ध्रुवे ।
काम्यवर्जं यतः कामाश्चित्राश्चित्राभ्युपायकाः ॥११॥

तत्र नित्यो विधिः सन्ध्यानुष्ठानं देवताव्रजे ।
गुर्वग्निशास्त्रसहिते पूजा भूतदयेत्ययम् ॥१२॥

नैमित्तिकस्तु सर्वेषां पर्वणां पूजनं जपः ।
विशेषवशतः किंच पवित्रकविधिक्रमः ॥१३॥

आचार्यस्य च दीक्षेयं बहुभेदा विवेचिता ।
व्याख्यादिकं च तत्तस्याधिकं नैमित्तिकं ध्रुवम् ॥१४॥

तत्रादौ शिशवे व्रूयाद्गुरुर्नित्यविधिं स्फुटम् ।
तद्योग्यतां समालोक्य वितताविततात्मनाम् ॥१५॥

मुख्येतरादिमन्त्राणां वीर्यव्याप्त्यादियोग्यताम् ।
दृष्ट्वा शिष्ये तमेवास्मै मूलमन्त्रं समर्पयेत् ॥१६॥

तच्छास्त्रदीक्षितो ह्येष निर्यन्त्राचारशङ्कितः ।
न मुख्ये योग्य इत्यन्यसेवातः स्यात्तु योग्यता ॥१७॥

साधकस्य बुभुक्षोस्तु साधकीभाविनोऽपिवा ।
पुष्पपातवशात्सिद्धो मन्त्रोऽर्प्यः साध्यसिद्धये ॥१८॥

वितते गुणभूते वा विधौ दिष्टे पुनर्गुरुः ।
ज्ञात्वास्मै योग्यतां सारं संक्षिप्तं विधिमाचरेत् ॥१९॥

तत्रैष नियमो यद्यन्मान्त्रं रूपं न तद्गुरुः ।
लिखित्वा प्रथयेच्छिष्ये विशेषादूर्ध्वशासने ॥२०॥

मन्त्रा वर्णात्मकास्ते च परामर्शात्मकाः सच ।
गुरुसंविदभिन्नश्वेत्संक्रामेत्सा ततः शिशौ ॥२१॥

लिपिस्थितस्तु यो मन्त्रो निर्वीर्यः सोऽत्र कल्पितः ।
संकेतबलतो नास्य पुस्तकात्प्रथते महः ॥२२॥

पुस्तकाधीतविद्याश्चेत्युक्तं सिद्धामते ततः ।
ये तु पुस्तकलब्धेऽपि मन्त्रे वीर्यं प्रजानते ॥२३॥

ते भैरवीयसंस्काराः प्रोक्ताः सांसिद्धिका इति ।
इति ज्ञात्वा गुरुः सम्यक् परमानन्दघूर्णितः ॥२४॥

तादृशे तादृशे धाम्नि पूजयित्वा विधिं चरेत् ।
यथान्यशिष्यानुष्ठानं नान्यशिष्येण बुध्यते ॥२५॥

तथा कुर्याद्गुरुर्गुप्तिहानिर्दोषवती यतः ।
देवीनां त्रितयं शुद्धं यद्वा यामलयोगतः ॥२६॥

देवीमेकामथो शुद्धां वदेद्वा यामलात्मिकाम् ।
तत्र मन्त्रं स्फुटं वक्त्राद्गुरुणोपांशु चोदितम् ॥२७॥

अवधार्या प्रवृत्तेस्तमभ्यस्येन्मनसा स्वयम् ।
ततः सुशिक्षितां स्थानदेहान्तःशोधनत्रयीम् ॥२८॥

न्यासं ध्यानं जपं मुद्रां पूजां कुर्यात्प्रयत्नतः ।
तत्र प्रभाते संबुध्य स्वेष्टां प्राग्देवतां स्मरेत् ॥२९॥

कृतावश्यककर्तव्यः शुद्धो भूत्वा ततो गृहम् ।
आश्रित्योत्तरदिग्वक्त्रः स्थानदेहान्तरत्रये ॥३०॥

शुद्धिं विधाय मन्त्राणां यथास्थानं निवेशनम् ।
मुद्राप्रदर्शनं ध्यानं भेदाभेदस्वरूपतः ।३१॥

देहासुधीव्योमभूषु मनसा तत्र चार्चनम् ।
जपं चात्र यथाशक्ति देवायैतन्निवेदनम् ॥३२॥

तन्मयीभावसिद्ध्यर्थं प्रतिसन्ध्यं समाचरेत् ।
अन्ये तु प्रागुदक्पश्चाद्दशदिक्षु चतुष्टयीम् ॥३३॥

सन्ध्यानामाहुरेतच्च तान्त्रिकीयं न नो मतम् ।
यासौ कालाधिकारे प्राक् सन्ध्या प्रोक्ता चतुष्टयी ॥३४॥

तामेवान्तः समाधाय सान्ध्यं विधिमुपाचरेत् ।
सन्ध्याचतुष्टयीकृत्यमेकस्यामथवा शिशुः ॥३५॥

कुर्यात्स्वाध्यायविज्ञानगुरुकृत्यादितत्परः ।
सन्ध्याध्यानोदितानन्ततन्मयीभावयुक्तितः ॥३६॥

तत्संस्कारवशात्सर्वं कालं स्यात्तन्मयो ह्यसौ ।
ततो यथेष्टकालेऽसौ पूजां पुष्पासवादिभिः ॥३७॥

स्थण्डिलादौ शिशुः कुर्याद्विभवाद्यनुरूपतः ।
सुशुद्धः सन्विधिं सर्वं कृत्वान्तरजपान्तकम् ॥३८॥

अर्घपात्रं पुरा यद्वद्विधाय स्वेष्टमन्त्रतः ।
तेन स्थण्डिलपुष्पादि सर्वं संप्रोक्षयेद्बुधः ॥३९॥

ततस्तत्रैव संकल्प्य द्वारासनगुरुक्रमम् ।
पूजयेच्छिवताविष्टः स्वदेहार्चापुरःसरम् ॥४०॥

ततस्तत्स्थण्डिलं वीध्रव्योमस्फटिकनिर्मलम् ।
बोधात्मकं समालोक्य तत्र स्वं देवतागणम् ॥४१॥

प्रतिबिम्बतया पश्येद्बिम्बत्वेन च बोधतः ।
एतदावाहनं मुख्यं व्यजनान्मरुतामिव ॥४२॥

सर्वगोऽपि मरुद्यद्वद्व्यजनेनोपजीवितः ।
अर्थकृत्सर्वगं मन्त्रचक्रं रूढेस्तथा भवेत् ॥४३॥

चतुष्कपञ्चाशिकया तदेतत्तत्त्वमुच्यते ।
श्रीनिर्मर्यादशास्त्रे च तदेतद्विभुनोदितम् ॥४४॥

देवः सर्वगतो देव निर्मर्यादः कथं शिवः ।
आवाह्यते क्षम्यते वेत्येवंपृष्टोऽब्रवीद्विभुः ॥४५॥

वासनावाह्यते देवि वासना च विसृज्यते ।
परमार्थेन देवस्य नावाहनविसर्जने ॥४६॥

आवाहितो मया देवः स्थण्डिले च प्रतिष्ठितः ।
पूजितः स्तुत इत्येवं हृष्ट्वा देवं विसर्जयेत् ॥४७॥

प्राणिनामप्रबुद्धानां सन्तोषजननाय वै ।
आवाहनादिकं तेषां प्रवृत्तिः कथमन्यथा ॥४८॥

कालेन तु विजानन्ति प्रवृत्ताः पतिशासने ।
अनुक्रमेण देवस्य प्राप्तिं भुवनपूर्विकाम् ॥४९॥

ज्ञानदीपद्युतिध्वस्तसमस्ताज्ञानसञ्चयाः ।
कुतो वानीयते देवः कुत्र वा नीयतेऽपि सः ॥५०॥

स्थूलसूक्ष्मादिभेदेन स हि सर्वत्र संस्थितः ।
आवाहिते मन्त्रगणे पुष्पासवनिवेदनैः ॥५१॥

धूपैश्च तर्पणं कार्यं श्रद्धाभक्तिबलोचितैः ।
दीप्तानां शक्तिनादादिमन्त्राणामासवैः पलैः ॥५२॥

रक्तैः प्राक् तर्पण पश्चात् पुष्पधूपादिविस्तरैः ।
आगतस्य तु मन्त्रस्य न कुर्यात्तर्पणं यदि ॥५३॥

हरत्यर्धशरीरं स इत्युक्तं किल शम्भुना ।
यद्यदेवास्य मनसि विकासित्वं प्रयच्छति ॥५४॥

तेनैव कुर्यात्पूजां स इति शम्भोर्विनिश्चयः ।
साधकानां बुभुक्षूणां विधिर्नियतियन्त्रितः ॥५५॥

मुमुक्षूणां तत्त्वविदां स एव तु निरर्गलः ।
कार्ये विशेषमाधित्सुर्विशिष्टं कारणं स्पृशेत् ॥५६॥

रक्तकर्पासतूलेच्छुस्तुल्यतद्बीजपुञ्जवत् ।
सन्ति भोगे विशेषाश्च विचित्राः कारणेरिताः ॥५७॥

देशकालानुसन्धानगुणद्रव्यक्रियादिभिः ।
स्वल्पा क्रिया भूयसी वा हृदयाह्लाददायिभिः ॥५८॥

बाह्यैः संकल्पजैर्वापि कारकैः परिकल्पिता ।
मुमुक्षोर्न विशेषाय नैःश्रेयसविधिं प्रति ॥५९॥

नहि ब्रह्मणि शंसन्ति बाहुल्याल्पत्वदुर्दशाः ।
चितः स्वातन्त्र्यसारत्वात् तस्यानन्दघनत्वतः ॥६०॥

क्रिया स्यात्तन्मयीभूत्यै हृदयाह्लाददायिभिः ।
शिवाभेदभराद्भाववर्गः श्च्योतति यं रसम् ॥६१॥

तमेव परमे धाम्नि पूजनायार्पयेद्बुधः ।
स्तोत्रेषु बहुधा चैतन्मया प्रोक्तं निजाह्निके ॥६२॥

अधिशय्य पारमार्थिकभावप्रसरप्रकाशमुल्लसति ।
या परमामृतदृक् त्वां तयार्चयन्ते रहस्यविदः ॥६३॥

कृत्वाधारधरां चमत्कृतिरसप्रोक्षाक्षणक्षालितामात्तैर्मानसतः स्वभावकुसुमैः स्वामोदसन्दोहिभिः ।
आनन्दामृतनिर्भरस्वहृदयानर्घार्घपात्रक्रमात् त्वां देव्या सह देहदेवसदने देवार्चयेऽहर्निशम् ॥६४॥

नानास्वादरसामिमां त्रिजगतीं हृच्चक्रयन्त्रार्पितामूर्ध्वाध्यस्तविवेकगौरवभरान्निष्पीड्य निःष्यन्दितम् ।
यत्संवित्परमामृतं मृतिजराजन्मापहं जृम्भते तेन त्वां हविषा परेण परमे संतर्पयेऽहर्निशम् ॥६५॥

इति श्लोकत्रयोपात्तमर्थमन्तर्विभावयन् ।
येन केनापि भावेन तर्पयेद्देवतागणम् ॥६६॥

मुद्रां प्रदर्शयेत्पश्चान्मनसा वापि योगतः ।
वचसा मन्त्रयोगेन वपुषा संनिवेशतः ॥६७॥

कृत्वा जपं ततः सर्वं देवतायै समर्पयेत् ।
तच्चोक्तं कर्तृतातत्त्वनिरूपणविधौ पुरा ॥६८॥

ततो विसर्जनं कार्यं बोधैकात्म्यप्रयोगतः ।
कृत्वा वा वह्निगां मन्त्रतृप्तिं प्रोक्तविधानतः ॥६९॥

द्वारपीठगुरुव्रातसमर्पितनिवेदनात् ।
ऋतेऽन्यत्स्वयमश्नीयादगाधेऽम्भस्यथ क्षिपेत् ॥७०॥

प्राणिनो जलजाः पूर्वदीक्षिताः शम्भुना स्वयम् ।
विधिना भाविना श्रीमन्मीननाथावतारिणा ॥७१॥

मार्जारमूषिकाद्यैर्यददीक्षैश्चापि भक्षितम् ।
तच्छङ्कातङ्कदानेन व्याधये नरकाय च ॥७२॥

अतस्तत्त्वविदा ध्वस्तशङ्कातङ्कोऽपि पण्डितः ।
प्रकटं नेदृशं कुर्याल्लोकानुग्रहवाञ्छया ॥७३॥

श्रीमन्मतमहाशास्त्रे तदुक्तं विभुना स्वयम् ।
स्वयं तु शङ्कासङ्कोचनिष्कासनपरायणः ॥७४॥

भवेत्तथा यथान्येषां शङ्का नो मनसि स्फुरेत् ।
मार्जयित्वा ततः स्नानं पुष्पेणाथ प्रपूजयेत् ॥७५॥

पुष्पादि सर्वं तत्स्थं तदगाधाम्भसि निक्षिपेत् ।
उक्तः स्थण्डिलयागोऽयं नित्यकर्मणि शम्भुना ॥७६॥