तन्त्रालोकः चतुर्विंशतितममाह्निकम्
अथ श्रीतन्त्रालोके चतुर्विंशतितममाह्निकम्
अथ शाम्भवशासनोदितां सरहस्यां शृणुतान्त्यसंस्क्रियाम् ॥१॥
सर्वेषामधरस्थानां गुर्वन्तानामपि स्फुटम् ।
शक्तिपातात्पुराप्रोक्तात्कुर्यादन्त्येष्टिदीक्षणम् ॥२॥
ऊर्ध्वशासनगानां च समयोपहतात्मनाम् ।
अन्त्येष्टिदीक्षा कर्तव्या गुरुणा तत्त्ववेदिना ॥३॥
समयाचारदोषेषु प्रमादात्स्खलितस्य हि ।
अन्त्येष्टिदीक्षा कार्येति श्रीदीक्षोत्तरशासने ॥४॥
यत्किंचित्कथितं पूर्वं मृतोद्धाराभिधे विधौ ।
प्रतिमायां तदेवात्र सर्वं शवतनौ चरेत् ॥५॥
श्रीसिद्धातन्त्रकथितो विधिरेष निरूप्यते ।
अन्तिमं यद्भवेत्पूर्वं तत्कृत्वान्तिममादिमम् ॥६॥
संहृत्यैकैकमिष्टिर्या सान्त्येष्टिर्द्वितयी मता ।
पूजाध्यानजपाप्लुष्टसमये नतु साधके ॥७॥
पिण्डपातादयं मुक्तः खेचरो वा भवेत्प्रिये ।
आचार्ये तत्त्वसंपन्ने यत्र तत्र मृते सति ॥८॥
अन्त्येष्टिर्नैव विद्येत शुद्धचेतस्यमूर्धनि ।
मन्त्रयोगादिभिर्ये च मारिता नरके तु ते ॥९॥
कार्या तेषामिहान्त्येष्टिर्गुरुणातिकृपालुना ।
न मण्डलादिकं त्वत्र भवेच्छमाशानिके विधौ ॥१०॥
केचित्तदपि कर्तव्यमूचिरे प्रेतसद्मनि ।
पूजयित्वा विभुं सर्वं न्यासं पूर्ववदाचरेत् ॥११॥
संहारक्रमयोगेन चरणान्मूर्धपश्चिमम् ।
तथैव बोधयेदेनं क्रियाज्ञानसमाधिभिः ॥१२॥
बिन्दुना रोधयेत्तत्त्वं शक्तिबीजेन वेधयेत् ।
घट्टयेन्नाददेशे तु त्रिशूलेन तु ताडयेत् ॥१३॥
सुषुम्नान्तर्गतेनैव विसर्गेण पुनः पुनः ।
ताडयेत कलाः सर्वाः कम्पतेऽसौ ततः पशुः ॥१४॥
उत्क्षिपेद्वामहस्तं वा ततस्तं योजयेत्परे ।
प्रत्ययेन विना मोक्षो ह्यश्रद्धेयो विमोहितैः ॥१५॥
तदर्थमेतदुदितं नतु मोक्षोपयोग्यदः ।
इत्यूचे परमेशः श्रीकुलगह्वरशासने ॥१६॥
साध्योऽनुमेयो मोक्षादिः प्रत्ययैर्यदतीन्द्रियः ।
दीक्षोत्तरे च पुर्यष्टवर्गार्पणमिहोदितम् ॥१७॥
तद्विधिः श्रुतिपत्रेऽब्जे मध्ये देवं सदाशिवम् ।
ईशरुद्रहरिब्रह्मचतुष्कं प्राग्दिगादितः ॥१८॥
पूजयित्वा श्रुतिस्पर्शौ रसं गन्धं वपुर्द्वयम् ।
ध्यहंकृती मनश्चेति ब्रह्मादिष्वर्पयेत्क्रमात् ॥१९॥
एतेषां तर्पणं कृत्वा शतहोमेन दैशिकः ।
एषा सांन्यासिकी दीक्षा पुर्यष्टकविशोधनी ॥२०॥
पुर्यष्टकस्याभावे च न स्वर्गनरकादयः ।
तथा कृत्वा न कर्तव्यं लौकिकं किंचनापि हि ॥२१॥
उक्तं श्रीमाधवकुले शासनस्थो मृतेष्वपि ।
पिण्डपातोदकास्र्वादि लौकिकं परिवर्जयेत् ॥२२॥
शिवं संपूज्य चक्रार्चां यथाशक्ति समाचरेत् ।
क्रमात्त्रिदशमत्रिंशत्रिंशवत्सरवासरे ॥२३॥
इत्युक्तोऽन्त्येष्टियागोऽयं परमेश्वरभाषितः ॥२४॥