सामग्री पर जाएँ

तन्त्रालोकः चतुर्थमाह्निकम्

विकिस्रोतः तः

तन्त्रालोकः

अथ श्रीतन्त्रालोके चतुर्थमाह्निकम्

अथ शाक्तमुपायमण्डलं कथयामः परमात्मसंविदे ॥१॥

अनन्तराह्निकोक्ते ऽस्मिन्स्वभावे पारमेश्वरे ।
प्रविविक्षुर्विकल्पस्य कुर्यात्संस्कारमञ्जसा ॥२॥

विकल्पः संस्कृतः सूते विकल्पं स्वात्मसंस्कृतम् ।
स्वतुल्यं सो ऽपि सो ऽप्यन्यं सो ऽप्यन्यं सदृशात्मकम् ॥३॥

चतुर्ष्वेव विकल्पेषु यः संस्कारः क्रमादसौ ।
अस्फुटः स्फुटताभावी प्रस्फुटन्स्फुटितात्मकः ॥४॥

ततः स्फुटतरो यावदन्ते स्फुटतमो भवेत् ।
अस्फुटादौ विकल्पे च भेदो ऽप्यस्त्यान्तरालिकः ॥५॥

ततः स्फुटतमोदारताद्रूप्यपरिवृंहिता ।
संविदभ्येति विमलामविकल्पस्वरूपताम् ॥६॥

अतश्च भैरवीयं यत्तेजः संवित्स्वभावकम् ।
भूयो भूयो विमृशतां जायते तत्स्फुटात्मता ॥७॥

ननु संवित्पराम्रष्ट्री परामर्शमयी स्वतः ।
परामृश्या कथं ताथारूप्यसृष्टौ तु सा जडा ॥८॥

उच्यते स्वात्मसंवित्तिः स्वभावादेव निर्भरा ।
नास्यामपास्यं नाधेयं किंचिदित्युदितं पुरा ॥९॥

किं तु दुर्घटकारित्वात्स्वाच्छन्द्यान्निर्मलादसौ ।
स्वात्मप्रच्छादनक्रीडापण्डितः परमेश्वरः ॥१०॥

अनावृत्ते स्वरूपे ऽपि यदात्माच्छादनं विभोः ।
सैव माया यतो भेद एतावान्विश्ववृत्तिकः ॥११॥

तथाभासनमेवास्य द्वैतमुक्तं महेशितुः ।
तद्द्वयापासनेनायं परामर्शो ऽभिधीयते ॥१२॥

दुर्भेदपादपस्यास्य मूलं कृन्तन्ति कोविदाः ।
धारारूढेन सत्तर्ककुठारेणेति निश्चयः ॥१३॥

तामेनां भावनामाहुः सर्वकामदुघां बुधाः ।
स्फुटयेद्वस्तु यापेतं मनोस्थपदादपि ॥१४॥

श्रीपूर्वशास्त्रे तत्प्रोक्तं तर्को योगाङ्गमुत्तमम् ।
हेयाद्यालोचनात्तस्मात्तत्र यत्नः प्रशस्यते ॥१५॥

मार्गे चेतः स्थिरीभूतं हेये ऽपि विषयेच्छया ।
प्रेर्य तेन नयेत्तावद्यावत्पदमनामयम् ॥१६॥

मार्गो ऽत्र मोक्षोपायः स हेयः शास्त्रान्तरोदितः ।
विषिणोति निबध्नाति येच्छा नियतिसंगतम् ॥१७॥

रागतत्त्वं तयोक्तं यत् तेन तत्रानुरज्यते ।
यथा साम्राज्यसंभोगं दृष्ट्वादृष्ट्वाथबाधमे ॥१८॥

भोगे रज्येत दुर्बुद्धिस्तद्वन्मोक्षे ऽपि रागतः ।
स एवांशक इत्युक्तः स्वभावाख्यः स तु स्फुटम् ॥१९॥

सिद्ध्यङ्गमिति मोक्षाय प्रत्यूह इति कोविदाः ।
शिवशासनमाहात्म्यं विदन्नप्यत एव हि ॥२०॥

वैष्णवाध्येषु रज्येत मूढो रागेण रञ्जितः ।
यतस्तावति सा तस्य वामाख्या शक्तिरैश्वरी ॥२१॥

पाञ्चरात्रिकवैरिञ्चसौगतादेर्विजृम्भते ।
दृष्टाः साम्राज्यसंभोगं निन्दन्तः के ऽपि वालिशाः ॥२२॥

न तु संतोषतः स्वेषु भोगेष्वाशीःप्रवर्तनात् ।
एवंचिद्भैरवावेशनिन्दातत्परमानसाः ॥२३॥

भवन्त्यतिसुघोराभिः शक्तिभिः पातिता यतः ।
तेन शांभवमाहात्म्यं जानन्यः शासनान्तरे ॥२४॥

आश्वस्तो नोत्तरीतव्यं तेन भेदमहार्णवात् ।
श्रीकामिकायां प्रोक्तं च पाशप्रकरणे स्फुटम् ॥२५॥

वेदसांख्यपुराणज्ञाः पाञ्चरात्रपरायणाः ।
ये केचिदृषयो धीराः शास्त्रान्तरपरायणाः ॥२६॥

बौद्धार्हताद्याः सर्वे ते विद्यारागेण रञ्जिताः ।
मायापाशेन बद्धत्वाच्छिवदीक्षां न विन्दते ॥२७॥

रागशब्देन च प्रोक्तं रागतत्त्वं नियामकम् ।
मायीये तच्च तं तस्मिञ्छास्त्रे नियमयेदिति ॥२८॥

मोक्षो ऽपि वैष्णवादेर्यः स्वसंकल्पेन भावितः ।
परप्रकृतिसायुज्यं यद्वाप्यानन्दरूपता ॥२९॥

विशुद्धचित्तमात्रं वा दीपवत्संततिक्षयः ।
स सवेद्यापवेद्यात्मप्रलयाकलतामयः ॥३०॥

तं प्राप्यापि चिरं कालं तद्गोगाभोगभुक्ततः ।
तत्तत्त्वप्रलयान्ते तु तदूर्ध्वां सृष्टिमागतः ॥३१॥

मन्त्रत्वमेति संबोधादनन्तेशेन कल्पितात् ।
एतच्चाग्रे तनिष्याम इत्यास्तां तावदत्र तत् ॥३२॥

तेनाज्ञजनताक्लृप्तप्रवादैर्यो विडम्बितः ।
असद्गुरौ रूढचित्स मायापाशेन रञ्जितः ॥३३॥

सो ऽपि सत्तर्कयोगेन नीयते सद्गुरुं प्रति ।
सत्तर्कः शुद्धविद्यैव सा चेच्छा परमेशितुः ॥३४॥

श्रीपूर्वशास्त्रे तेनोक्तं स यियासुः शिवेच्छया ।
भुक्तिमुक्तिप्रसिद्ध्यर्थं नीयते सद्गुरुं प्रति ॥३५॥

शक्तिपातस्तु तत्रैष क्रमिकः संप्रवर्तते ।
स्थित्वा यो ऽसद्गुरौ शास्त्रान्तरे वा सत्पथं श्रितः ॥३६॥

गुरुशास्त्रगते सत्त्वे ऽसत्त्वे चात्र विभेदकम् ।
शक्तिपातस्य वैचित्र्यं पुरस्तात्प्रविविच्यते ॥३७॥

उक्तं स्वच्छन्दशास्त्रे तत् वैष्णवाद्यान्प्रवादिनः ।
सर्वान्भ्रमयते माया सामोक्षे मोKषलिप्सया ॥३८॥

यस्तु रूढो ऽपि तत्रोद्यत्परामर्शविशारदः ।
स शुद्धविद्यामाहात्म्याच्छक्तिपातपवित्रितः ॥३९॥

आरोहत्येव सन्मार्गं प्रत्यूहपरिवर्जितः ।
स तावत्कस्यचित्तर्कः स्वत एव प्रवर्तते ॥४०॥

स च सांसिद्धिकः शास्त्रे प्रोक्तः स्वप्रत्ययात्मकः ।
किरणायां यदप्युक्तं गुरुतः शास्त्रतः स्वतः ॥४१॥

तत्रोत्तरोत्तरं मुख्यं पूर्वपूर्व उपायकः ।
यस्य स्वतो ऽयं सत्तर्कः सर्वत्रैवाधिकारवान् ॥४२॥

अभिषिक्तः स्वसंवित्तिदेवीभिर्दीक्षितश्च सः ।
स एव सर्वाचार्याणां मध्ये मुख्यः प्रकीर्तितः ॥४३॥

तत्संनिधाने नान्येषु कल्पितेष्वधिकारिता ।
स समस्तं च शास्त्रार्थं सत्तर्कादेव मन्यते ॥४४॥

शुद्धविद्या हि तन्नास्ति सत्यं यद्यन्न भासयेत् ।
सर्वशास्त्रार्थवेत्तृत्वमकस्माच्चास्य जायते ॥४५॥

इति श्रीपूववाक्ये तद् अकस्मादिति-शब्दतः ।
लोकाप्रसिद्धो यो हेतुः सो ऽकस्मादिति कथ्यते ॥४६॥

स चैष परमेशानशुद्धविद्याविजृम्भतम् ।
अस्य भोदाश्च बहवो निर्भित्तिः सहभित्तिकः ॥४७॥

सर्वगो ऽंशगतः सो ऽपि मुख्यामुख्यांशनिष्ठितः ।
भित्तिः परोपजीवित्वं परा प्रज्ञाथ तत्कृतिः ॥४८॥

अदृष्टमण्डलो ऽप्येवं यः कश्चिद्वेत्ति तत्त्वतः ।
स सिद्धिभाग्भवेन्नित्यं स योगी स च दीक्षितः ॥४९॥

एवं यो वेत्ति तत्त्वेन तस्य निर्वाणगामिनी ।
दीक्षा भवेदिति प्रोक्तं तच्छ्रीत्रिंशकशासने ॥५०॥

अकल्पितो गुरुर्ज्ञयः सांसिद्धिक इति स्मृतः ।
यस्तु तद्रूपभागात्मभावनातः परं विना ॥५१॥

शास्त्रवित्स गुरुः शास्त्रे प्रोक्तो ऽकल्पितकल्पकः ।
तस्यापि भेदा उत्कृष्टमध्यमन्दाद्युपायतः ॥५२॥

भावनातो ऽथ वा ध्यानाज्जपात्स्वप्नाद्व्रताद्धुतेः ।
प्राप्नोत्यकल्पितोदारमभिषेकं महामतिः ॥५३॥

श्रीमद्वाजसनीये श्रीवीरे श्रीब्रह्मयामले ।
श्रीसिद्धायामिदं धात्रा प्रोक्तमन्यत्र च स्फुटम् ॥५४॥

तस्य स्वेच्छाप्रवृत्तत्वात्कारणानन्ततेष्यते ।
कदाचिद्भक्तियोगेन कर्मणा विद्ययापि वा ॥५५॥

ज्ञानधर्मोपदेशेन मन्त्रैर्वा दीक्षयापि वा ।
एवमाद्यैरनेकैश्च प्रकारैः परमेश्वरः ॥५६॥

संसारिणो ऽनुगृह्णाति विश्वस्य जगतः पतिः ।
मातृमण्डलसंबोधात्संस्कारात्तपसः प्रिये ॥५७॥

ध्यानाद्योगाज्जपाज्ज्ञानान्मन्त्राराधनातो व्रतात् ।
संप्राप्यं कुलसामान्यं ज्ञानं कौलिकसिद्धिदम् ॥५८॥

तत्त्वज्ञानात्मकं साध्यं यत्र यत्रैव दृश्यते ।
स एव हि गुरुस्तत्र हेतुजालं प्रकल्प्यताम् ॥५९॥

तत्त्वज्ञानादृते नान्यल्लक्षणं ब्रह्मयामले ।
तत्रैव चोक्तं सेवायां कृतायामविकल्पतः ॥६०॥

साधकस्य न चेत्सिद्धिः किं कार्यमिति चोदिते ।
आत्मीयमस्य संज्ञानक्रमेण स्वात्मदीक्षणम् ॥६१॥

सस्फुरत्वप्रसिद्ध्यर्थं ततः साध्यं प्रसिद्ध्यति ।
अनेन स्वात्मविज्ञानं सस्फुरत्वप्रसाधकम् ॥६२॥

उक्तं मुख्यतयाचार्यो भवेद्यदि न सस्फुरः ।
तत्रैव च पुनः श्रीमद्रक्ताराधनकर्मणि ॥६३॥

विधिं प्रोक्तं सदा कुर्वन्मासेनाचार्य उच्यते ।
पक्षेण साधको ऽर्धार्धात्पुत्रकः समयी तथा ॥६४॥

दीक्षयेज्जपयोगेन रक्तादेवी क्रमाद्यतः ।
गुरोरलाभे प्रोक्तस्य विधिमेतं समाचरेत् ॥६५॥

मते च पुस्तकाद्विद्याध्ययने दोष ईदृशः ।
उक्तो यस्तेन तद्दोषाभावे ऽसौ न निषिद्धता ॥६६॥

मन्त्रद्रव्यादिगुप्तत्वे फलं किमिति चोदिते ।
पुस्तकाधीतविद्या ये दीक्षासमयवर्जिताः ॥६७॥

तामसाः परहिंसादि वश्यादि च चरन्त्यलम् ।
न च तत्त्वं विदुस्तेन दोषभाज इति स्फुटम् ॥६८॥

पूर्वं पदयुगं वाच्यमन्योन्यं हेतुहेतुमत् ।
यस्तु शास्त्रं विना नैति शुद्धविद्याख्यसंविदम् ॥६९॥

गुरोः स शास्त्रमन्विच्छुस्तदुक्तं क्रममाचरेत् ।
येन केनाप्युपायेन गुरुमाराध्य भक्तितः ॥७०॥

तद्दीक्षाक्रमयोगेन शास्त्रार्थं वेत्त्यसौ ततः ।
अभिषेकं समासाद्य यो भवेत्स तु कल्पितः ॥७१॥

सन्नप्यशेषपाशौघविनिवर्तनकोविदः ।
यो यथाक्रमयोगेन कस्मिंश्चिच्छास्त्रवस्तुनि ॥७२॥

आकस्मिकं ब्रजेद्बोधं कल्पिताकल्पितो हि सः ।
तस्य यो ऽकल्पितो भागः स तु श्रेष्ठमः स्मृतः ॥७३॥

उत्कर्षः शुद्धविद्यांशतारतम्यकृतो यतः ।
यथा भेदेनादिसिद्धाच्छिवान्मुक्तशिवा ह्यधः ॥७४॥

तथा सांसिद्धिकज्ञानादाहृतज्ञानिनो ऽधमाः ।
तत्संनिधौ नाधिकारस्तेषां मुक्तशिवात्मवत् ॥७५॥

किं तु तूष्णीं-स्थितिर्यद्वा कृत्यं तदनुवर्तनम् ।
यस्त्वकल्पितरूपो ऽपि संवाददृढताकृते ॥७६॥

अन्यतो लब्धसंस्कारः स साक्षाद्भैरवो गुरुः ।
यतः शास्त्रक्रमात्तज्ज्ञगुरुप्रज्ञानुशीलनात् ॥७७॥

आत्मप्रत्ययितं ज्ञानं पूर्णत्वाद्भैरवायते ।
तेन श्रीकिरणोक्तं यद्गुरुतः शास्त्रतः स्वतः ॥७८॥

त्रिप्रत्ययमिदं ज्ञानमिति यच्च निशाटने ।
तत्संघातविपर्यासविग्रहैर्भासते तथा ॥७९॥

करणस्य विचित्रत्वाद्विचित्रामेव तां छिदम् ।
कर्तुं वासीं च टङ्कं च क्रकचं चापि गृह्णते ॥८०॥

तावच्च छेदनं ह्येकं तथैवाद्याभिसंधितः ।
इत्थमेव मितौ वाच्यं करणस्य स्वकं वपुः ॥८१॥

न स्वतन्त्रं स्वतो मानं कुर्यादधिगमं हठात् ।
प्रमात्राश्वासपर्यन्तो यतो ऽधिगम उच्यते ॥८२॥

आश्वासश्च विचित्रो ऽसौ शक्तिपातवशात्तथा ।
प्रमिते ऽपि प्रमाणानामवकाशो ऽस्त्यतः स्फुटः ॥८३॥

दृष्ट्वा दृष्ट्वा समाश्लिष्य चिरं संचर्व्य चेतसा ।
प्रिया यैः परितुष्येत किं ब्रूमः किल तान्प्रति ॥८४॥

इत्थं च मानसंप्लुत्यामपि नाधिगते गतिः ।
न व्यर्थता नानवस्था नान्योन्याश्रयतापि च ॥८५॥

एवं योगाङ्गमियति तर्क एव न चापरम् ।
अन्तरन्तः परामर्शपाटवातिशयाय सः ॥८६॥

अहिंसा सत्यमस्तेयब्रह्मचर्यापरिग्रहाः ।
इति पञ्च यमाः साक्षात्संवित्तौ नोपयोगिनः ॥८७॥

तपःप्रभृतयो ये च नियमा यत्तथासनम् ।
प्राणायामाश्च ये सर्वमेतद्बाह्यविजृम्भितम् ॥८८॥

श्रीमद्वीरावलौ चोक्तं बोधमात्रे शिवात्मके ।
चित्तप्रलयबन्धेन प्रलीने शशिभास्करे ॥८९॥

प्राप्ते च द्वादशे भागे जीवादित्ये स्वबोधके ।
मोक्षः स एव कथितः प्राणायामो निरर्थकः ॥९०॥

प्राणायामो न कर्तव्यः शरीरं येन पीड्यते ।
रहस्यं वेत्ति यो यत्र स मुक्तः स च मोचकः ॥९१॥

प्रत्याहारश्च नामायमर्थेभ्यो ऽक्षधियां हि यः ।
अनिबद्धस्य बन्धस्य तदन्तः किल कीलनम् ॥९२॥

चित्तस्य विषये क्वापि बन्धनं धारणात्मकम् ।
तत्सदृग्ज्ञानसंतानो ध्यानमस्तमिता परम् ॥९३॥

यदा तु ज्ञेयतादात्म्यमेव संविदि जायते ।
ग्राह्यग्रहणताद्वैतशून्यतेयं समाहितिः ॥९४॥

तदेषा धारणाध्यानसमाधित्रितयी पराम् ।
संविदं प्रति नो कंचिदुपयोगं समश्नुते ॥९५॥

योगाङ्गता यमादेस्तु समाध्यन्तस्य वर्ण्यते ।
स्वपूर्वपूर्वोपायत्वादन्त्यतर्कोपयोगतः ॥९६॥

अन्तः संविदि रूढं हि तद्द्वारा प्राणदेहयोः ।
बुद्धौ वार्प्यं तदभ्यासान्नैष न्यायस्तु संविदि ॥९७॥

अथ वास्मद्दृशि प्राणधीदेहादेरपि स्फुटम् ।
सर्वात्मकत्वात्तत्रस्थो ऽप्यभ्यासो ऽन्यव्यपोहनम् ॥९८॥

देह उत्प्लुतिसंपातधर्मोज्जिगमिषारसात् ।
उत्प्लाव्यते तद्विपक्षपाताशङ्काव्यपोहनात् ॥९९॥

गुरुवाक्यपरामर्शसदृशे स्वविमर्शने ।
प्रबुद्धे तद्विपक्षाणां व्युदासः पाठचिन्तने ॥१००॥

नह्यस्य गुरुणा शक्यं स्वं ज्ञानं शब्द एव वा ।
धियि रोपयितुं तेन स्वप्रबोधक्रमो ध्रुवम् ॥१०१॥

अत एव स्वप्नकाले श्रुते तत्रापि वस्तुनि ।
तादात्म्यभावनायोगो न फलाय न भण्यते ॥१०२॥

संकेतानादरे शब्दनिष्ठमामर्शनं पठिः ।
तदादरे तदर्थस्तु चिन्तेति परिचर्च्यताम् ॥१०३॥

तदद्वयायां संवित्तावभ्यासो ऽनुपयोगवान् ।
केवलं द्वैतमालिन्यशङ्कानिर्मूलनाय सः ॥१०४॥

द्वैतशङ्काश्च तर्केण तर्क्यन्त इति वर्णितम् ।
तत्तर्कसाधनायास्तु यमादेरप्युपायता ॥१०५॥

उक्तं श्रीपूर्वशस्त्रे च न द्वैतं नापि चाद्वयम् ।
लिङ्गपूजादिकं सर्वमित्युपक्रम्य शंभुना ॥१०६॥

विहितं सर्वमेवात्र प्रतिषिद्धमथापि वा ।
प्राणायामादिकैरङ्गैर्योगाः स्युः कृत्त्रिमा यतः ॥१०७॥

तत्तेनाकृतकस्यास्य कलां नार्घन्ति षोडशीम् ।
किं त्वेतदत्र देवेशि नियमेन विधीयते ॥१०८॥

तत्त्वे चेतः स्थिरं कार्यं तच्च यस्य यथास्त्विति ।
एवं द्वैतपरामर्शनाशाय परमेश्वरः ॥१०९॥

क्वचित्स्वभावममलमामृशन्ननिशं स्थितः ।
यः स्वभावपरामर्श इन्द्रियार्थाद्युपायतः ॥११०॥

विनैव तन्मुखो ऽन्यो वा स्वातन्त्र्यात्तद्विकल्पनम् ।
तच्च स्वच्छस्वतन्त्रात्मरत्ननिर्भासिनि स्फुटम् ॥१११॥

भावौघे भेदसंधातृ स्वात्मनो नैशमुच्यते ।
तदेव तु समस्तार्थनिर्भरात्मैकगोचरम् ॥११२॥

शुद्धविद्यात्मकं सर्वमेवेदमहमित्यलम् ।
इदं विकल्पनं शुद्धविद्यारूपं स्फुटात्मकम् ॥११३॥

प्रतिहन्तीह मायीयं विकल्पं भेदभावकम् ।
शुद्धविद्यापरामर्शो यः स एव त्वनेकधा ॥११४॥

स्नानशुद्ध्यर्चनाहोमध्यानजप्यादियोगतः ।
विश्वमेतत्स्वसंवित्तिरसनिर्भरितं रसात् ॥११५॥

आविश्य शुद्धो निखिलं तर्पयेदध्वमण्लम् ।
उल्लासिबोधहुतभुग्दग्धविश्वेन्धनोदिते ॥११६॥

सितभस्मनि देहस्य मज्जनं स्नानमुच्यते ।
इत्थं च विहितस्नानस्तर्पितानन्तदेवतः ॥११७॥

ततो ऽपि देहारम्भीणि तत्त्वानि परिशोधयेत् ।
शिवात्मकेष्वप्येतेषु बुद्धिर्या व्यतिरेकिणी ॥११८॥

सैवाशुद्धिः पराख्याता शुद्धिस्तद्धीविमर्दनम् ।
एवं स्वदेहं बोधैकपात्रं गलितभेदकम् ॥११९॥

पश्यन्संवित्तिमात्रत्वे स्वतन्त्रे तिष्ठति प्रभुः ।
यत्किंचिन्मानसाह्लादि यत्र क्वापीन्द्रियस्थितौ ॥१२०॥

योज्यते ब्रह्मसद्धाम्नि पूजोपकरणं हि तत् ।
पूजा नाम विभिन्नस्य भावौघस्यापि संगतिः ॥१२१॥

स्वतन्त्रविमलानन्तभैरवीयचिदात्मना ।
तथाहि संविदेवेयमन्तर्बाह्योभयात्मना ॥१२२॥

स्वातन्त्र्याद्वर्तमानैव परामर्शस्वरूपिणी ।
स च द्वादशधा तत्र सर्वमन्तर्भवेद्यतः ॥१२३॥

सूर्य एव हि सोमात्मा स च विश्वमयः स्थितः ।
कलाद्वादशकात्मैव तत्संवित्परमार्थतः ॥१२४॥

सा च मातरि विज्ञाने माने करणगोचरे ।
मेये चतुर्विधं भाति रूपमाश्रित्य सर्वदा ॥१२५॥

शुद्धसंविन्मयी प्राच्ये ज्ञाने शब्दनरूपिणी ।
करणे ग्रहणाकारा यतः श्रीयोगसंचरे ॥१२६॥

ये चक्षुर्मण्डले श्वेते प्रत्यक्षे परमेश्वरि ।
षोडशारं द्वादशारं तत्रस्थं चक्रमुत्तमम् ॥१२७॥

प्रतिवारणवद्रक्ते तद्बहिर्ये तदुच्यते ।
द्वितीयं मध्यगे ये ते कृष्णश्वेते च मण्डले ॥१२८॥

तदन्तर्ये स्थिते शुद्धे भिन्नाञ्जनसमप्रभे ।
चतुर्दले तु ते ज्ञेये अग्नीषोमात्मके प्रिये ॥१२९॥

मिथुनत्वे स्थिते ये च चक्रे द्वे परमेश्वरि ।
संमीलनोन्मीलनं ते अन्योन्यं विदधातके ॥१३०॥

यथा योनिश्च लिङ्गं च संयोगात्स्रवतो ऽमृतम् ।
तथामृताग्निसंयोगाद्द्रवतस्ते न संशयः ॥१३१॥

तच्चक्रपीडनाद्रात्रौ ज्योतिर्भात्यर्कसोमगम् ।
तां दृष्ट्वा परमां ज्योत्स्नां कालज्ञानं प्रवर्तते ॥१३२॥

सहस्रारं भवेच्चक्रं ताभ्यामुपरि संस्थितम् ।
ततश्चक्रात्समुद्भूतं ब्रह्माण्डं तदुदाहृतम् ॥१३३॥

तत्रस्थां मुञ्चते धारां सोमो ह्यग्निप्रदीपितः ।
सृजतीत्थं जगत्सर्वमात्मन्यात्मन्यनन्तकम् ॥१३४॥

षोडशद्वादशाराभ्यामष्टारेष्वथ सर्वशः ।
एवं क्रमेण सर्वत्र चक्रेष्वमृतमुत्तमम् ॥१३५॥

सोमः स्रवति यावच्च पञ्चानां चक्रपद्धतिः ।
तत्पुनः पिबति प्रीत्या हंसो हंस इति स्फुरन् ॥१३६॥

सकृद्यस्य तु संश्रुत्या पुण्यपापैर्न लिप्यते ।
पञ्चारे सविकारो ऽथ भूत्वा सोमस्रुतामृतात् ॥१३७॥

धावति त्रिरसाराणि गुह्यचक्राण्यसौ विभुः ।
यतो जातं जगल्लीनं यत्र च स्वकलीलया ॥१३८॥

तत्रानन्दश्च सर्वस्य ब्रह्मचारी च तत्परः ।
तत्र सिद्धिश्च मुक्तिश्च समं संप्राप्यते द्वयम् ॥१३९॥

अत ऊर्ध्वं पुनर्याति यावद्ब्रह्मात्मकं पदम् ।
अग्नीषोमौ समौ तत्र सृज्येते चात्मनात्मनि ॥१४०॥

तत्रस्थस्तापितः सोमो द्वेधा जङ्घे व्यवस्थितः ।
अधस्तं पातयेदग्निरमृतं स्रवति क्षणात् ॥१४१॥

गुल्फजान्वादिषु व्यक्तं कुटिलार्कप्रदीपिता ।
सा शक्तिस्तापिता भूयः पञ्चारादिक्रमं सृजेत् ॥१४२॥

एवं श्रोत्रे ऽपि विज्ञेयं यावत्पादान्तगोचरम् ।
पादाङ्गुष्ठात्समारभ्य यावद्ब्रह्माण्डदर्शनम् ॥१४३॥

इत्यजानन्नैव योगी जानन्विश्वप्रभुर्भवेत् ।
ज्वलन्निवासौ ब्रह्माद्यैर्दृश्यते परमेश्वरः ॥१४४॥

अत्र तात्पर्यतः प्रोक्तमक्षे क्रमचतुष्टयम् ।
एकैकत्र यतस्तेन द्वादशात्मकतोदिता ॥१४५॥

न व्याख्यातं तु निर्भज्य यतो ऽतिसरहस्यकम् ।
मेये ऽपि देवी तिष्ठन्ती मासराश्यादिरूपिणी ॥१४६॥

अत एषा स्थिता संविदन्तर्बाह्योभयात्मना ।
स्वयं निर्भास्य तत्रान्यद्भासयन्तीव भासते ॥१४७॥

ततश्च प्रागियं शुद्धा तथाभासनसोत्सुका ।
सृष्टिं कलयते देवी तन्नाम्नागम उच्यते ॥१४८॥

तथा भासितवस्त्वंशरञ्जनां सा बहिर्मुखी ।
स्ववृत्तिचक्रेण समं ततो ऽपि कलयन्त्यलम् ॥१४९॥

स्थितिरेषैव भावस्य तामन्तर्मुखतारसात् ।
संजिहीर्षुः स्थितेर्नाशं कलयन्ती निरुच्यते ॥१५०॥

ततो ऽपि संहाररसे पूर्णे विघ्नकरीं स्वयम् ।
शङ्कां यमात्मिकां भागे सूते संहरते ऽपि च ॥१५१॥

संहृत्य शङ्कां शङ्क्यार्थवर्जं वा भावमण्डले ।
संहृतिं कलयत्येव स्वात्मवह्नौ विलापनात् ॥१५२॥

विलापनात्मिकां तां च भावसंहृतिमात्मनि ।
आमृशत्येव येनैषा मया ग्रस्तमिति स्फुरेत् ॥१५३॥

संहार्योपाधिरेतस्याः स्वस्वभावो हि संविदः ।
निरुपाधिनि संशुद्धे संविद्रूपेषस्तमीयते ॥१५४॥

विलापिते ऽपि भावौघे कंचिद्भावं तदैव सा ।
आश्यानयेद्य एवास्ते शङ्का संस्काररूपकः ॥१५५॥

शुभाशुभतया सो ऽयं सोष्यते फलसंपदम् ।
पूर्वं हि भोगात्पश्चाद्वा शङ्केयं व्यवतिष्ठते ॥१५६॥

अन्यदाश्यानितमपि तदैव द्रावयेदियम् ।
प्रायश्चित्तादिकर्मभ्यो ब्रह्महत्यादिकर्मवत् ॥१५७॥

रोधनाद्द्रावणाद्रूपमित्थं कलयते चितिः ।
तदपि द्रावयेदेव तदप्याश्यानयेदथ ॥१५८॥

इत्थं भोग्ये ऽपि संभुक्ते सति तत्करणान्यपि ।
संहरन्ती कलयते द्वादशैवाहमात्मनि ॥१५९॥

कर्मबुद्ध्यक्षवर्गो हि बुद्ध्यन्तो द्वादशात्मकः ।
प्रकाशकत्वात्सूर्यात्मा भिन्ने वस्तुनि जृम्भते ॥१६०॥

अहंकारस्तु करणमभिमानैकसाधनम् ।
अविच्छिन्नपरामर्शी लीयते तेन तत्र सः ॥१६१॥

यथाहि खङ्गपाशादेः करणस्य विभेदिनः ।
अभेदिनि स्वहस्तादौ लयस्तद्वदयं विधिः ॥१६२॥

तेनेन्द्रियौघमार्तण्डमण्डलं कलयेत्स्वयम् ।
संविद्देवी स्वतन्त्रत्वात्कल्पिते ऽहंकृतात्मनि ॥१६३॥

स एव परमादित्यः पूर्णकल्पस्त्रयोदशः ।
करणत्वात्प्रयात्येव कर्तरि प्रलयं स्फुटम् ॥१६४॥

कर्ता च द्विविधः प्रोक्तः कल्पिताकल्पितात्मकः ।
कल्पितो देहबुद्ध्यादिव्यवच्छेदेन चर्चितः ॥१६५॥

कालाग्निरुद्रसंज्ञास्य शास्त्रेषु परिभाषिता ।
कालो व्यवच्छित्तद्युक्तो वह्निर्भोक्ता यतः स्मृतः ॥१६६॥

संसाराक्लृप्तिक्लृप्तिभ्यां रोधनाद्द्रावणात्प्रभुः ।
अनिवृत्तपशूभावस्तत्राहंकृत्प्रलीयते ॥१६७॥

सो ऽपि कल्पितवृत्तित्वाद्विश्वाभेदैकशालिनि ।
विकासिनि महाकाले लीयते ऽहमिदंमये ॥१६८॥

एतस्यां स्वात्मसंवित्ताविदं सर्वमहं विभुः ।
इति प्रविकसद्रूपा संवित्तिरवभासते ॥१६९॥

ततो ऽन्तःस्थितसर्वात्मभावभोगोपरागिणी ।
परिपूर्णापि संवित्तिरकुले धाम्नि लीयते ॥१७०॥

प्रमातृवर्गो मानौघः प्रमाश्च बहुधा स्थिताः ।
मेयौघ इति यत्सर्वमत्र चिन्मात्रमेव तत् ॥१७१॥

इयतीं रूपवैचित्रीमाश्रयन्त्याः स्वसंविदः ।
स्वाच्छन्द्यमनपेक्षं यत्सा परा परमेश्वरी ॥१७२॥

इमाः प्रागुक्तकलनास्तद्विजृम्भोच्यते यतः ।
क्षेपो ज्ञानं च संख्यानं गतिर्नाद इति क्रमात् ॥१७३॥

स्वात्मनो भेदनं क्षेपो भेदितस्याविकल्पनम् ।
ज्ञानं विकल्पः संख्यानमन्यतो व्यतिभेदनात् ॥१७४॥

गतिः स्वरूपारोहित्वं प्रतिबिम्बवदेव यत् ।
नादः स्वात्मपरामर्शशेषता तद्विलोपनात् ॥१७५॥

इति पञ्चविधामेनां कलनां कुर्वती परा ।
देवी काली तथा कालकर्षिणी चेति कथ्यते ॥१७६॥

मातृसद्भावसंज्ञास्यास्तेनोक्ता यत्प्रमातृषु ।
एतावदन्तसंवित्तौ प्रमातृत्वं स्फुटीभवेत् ॥१७७॥

वामेश्वरीति-शब्देन प्रोक्ता श्रीनिशिसंचरे ।
इत्थं द्वादशधा संवित्तिष्ठन्ती विश्वमातृषु ॥१७८॥

एकैवेति न को ऽप्यस्याः क्रमस्य नियमः क्वचित् ।
क्रमाभावान्न युगपत्तदभावात्क्रमो ऽपि न ॥१७९॥

क्रमाक्रमकथातीतं संवित्तत्त्वं सुनिर्मलम् ।
तदस्याः संविदो देव्या यत्र क्वापि प्रवर्तनम् ॥१८०॥

तत्र तादात्म्ययोगेन पूजा पूर्णैव वर्तते ।
परामर्शस्वभावत्वादेतस्या यः स्वयं ध्वनिः ॥१८१॥

सदोदितः स एवोक्तः परमं हृदयं महत् ।
हृदये स्वविमर्शो ऽसौ द्राविताशेषविश्वकः ॥१८२॥

भावग्रहादिपर्यन्तभावी सामान्यसंज्ञकः ।
स्पन्दः स कथ्यते शास्त्रे स्वात्मन्युच्छलनात्मकः ॥१८३॥

किंचिच्चलनमेतावदनन्यस्फुरणं हि यत् ।
ऊर्मिरेषा विबोधाब्धेर्न संविदनया विना ॥१८४॥

निस्तरङ्गतरङ्गादिवृत्तिरेव हि सिन्धुता ।
सारमेतत्समस्तस्य यच्चित्सारं जडं जगत् ॥१८५॥

तदधीनप्रतिष्ठत्वात्तत्सारं हृदयं महत् ।
तथा हि सदिदं ब्रह्ममूलं मायाण्डसंज्ञितम् ॥१८६॥

इच्छाज्ञानक्रियारोहं विना नैव सदुच्यते ।
तच्छक्तित्रितयारोहाद्भैरवीये चिदात्मनि ॥१८७॥

विसृज्यते हि तत्तस्माद्बहिर्वाथ विसृज्यते ।
एवं सद्रूपतैवैषां सतां शक्तित्रयात्मताम् ॥१८८॥

विसर्गं परबोधेन समाक्षिप्यैव वर्तते ।
तत्सदेव बहीरूपं प्राग्बोधाग्निविलापितम् ॥१८९॥

अन्तर्नदत्परामर्शशेषीभूतं ततो ऽप्यलम् ।
खात्मत्वमेव संप्राप्तं शक्तित्रितयगोचरात् ॥१९०॥

वेदनात्मकतामेत्य संहारात्मनि लीयते ।
इदं संहारहृदयं प्राच्यं सृष्टौ च हृन्मतम् ॥१९१॥

एतद्रूपपरामर्शमकृत्रिममनाबिलम् ।
अहमित्याहुरेषैव प्रकाशस्य प्रकाशता ॥१९२॥

एतद्वीर्यं हि सर्वेषां मन्त्राणां हृदयात्मकम् ।
विनानेन जडास्ते स्युर्जीवा इव विना हृदा ॥१९३॥

अकृत्रिमैतद्धृदयारूढो यत्किंचिदाचरेत् ।
प्राण्याद्वा मृशते वापि स सर्वो ऽस्य जपो मतः ॥१९४॥

यदेव स्वेच्छया सृष्टिस्वाभाव्याद्बहिरन्तरा ।
निर्मीयते तदेवास्य ध्यानं स्यात्पारमार्थिकम् ॥१९५॥

निराकारे हि चिद्धाम्नि विश्वाकृतिमये सति ।
फलार्थिनां काचिदेव ध्येयत्वेनाकृतिः स्थिता ॥१९६॥

यथा ह्यभेदात्पूर्णे ऽपि भावे जलमुपाहरन् ।
अन्याकृत्यपहानेन घटमर्थयते रसात् ॥१९७॥

तथैव परमेशाननियतिप्रविजृम्भणात् ।
काचिदेवाकृतिः कांचित् सूते फलविकल्पनाम् ॥१९८॥

यस्तु संपूर्णहृदयो न फलं नाम वाञ्छति ।
तस्य विश्वाकृतिर्देवी सा चावच्छेदवर्जनात् ॥१९९॥

कुले योगिन उद्रिक्तभैरवीयपरासवात् ।
घूर्णितस्य स्थितिर्देहे मुद्रा या काचिदेव सा ॥२००॥

अन्तरिन्धनसंभारमनपेक्ष्यैव नित्यशः ।
जाज्वलीत्यखिलाक्षौघप्रसृतोग्रशिखः शिखी ॥२०१॥

बोधाग्नौ तादृशे भावा विशन्तस्तस्य सन्महः ।
उद्रेचयन्तो गच्छन्ति होमकर्मनिमित्तताम् ॥२०२॥

यं कंचित्परमेशानशक्तिपातपवित्रितम् ।
पुरोभाव्य स्वयं तिष्ठेदुक्तवद्दीक्षितस्तु सः ॥२०३॥

जप्यादौ होमपर्यन्ते यद्यप्येकैककर्मणि ।
उदेति रूढिः परमा तथापीत्थं निरूपितम् ॥२०४॥

यथाहि तत्र तत्राश्वः समनिम्नोन्नतादिषु ।
चित्रे देशे वाह्यमानो यातीच्छामात्रकल्पिताम् ॥२०५॥

तथा संविद्विचित्राभिः शान्तघोरतरादिभिः ।
भङ्गीभिरभितो द्वैतं त्याजिता भैरवायते ॥२०६॥

यथा पुरःस्थे मुकुरे निजं वक्त्रं विभावयन् ।
भूयो भूयस्तदेकात्म वक्त्रं वेत्ति निजात्मनः ॥२०७॥

तथा विकल्पमुकुरे ध्यानपूजार्चनात्मनि ।
आत्मानं भैरवं पश्यन्नचिरात्तन्मयीभवेत् ॥२०८॥

तन्मयीभवनं नाम प्राप्तिः सानुत्तरात्मनि ।
पूर्णत्वस्य परा काष्ठा सेत्यत्र न फलान्तरम् ॥२०९॥

फलं सर्वमपूर्णत्वे तत्र तत्र प्रकल्पितम् ।
अकल्पिते हि पूर्णत्वे फलमन्यत्किमुच्यताम् ॥२१०॥

एष यागविधिः को ऽपि कस्यापि हृदि वर्तते ।
यस्य प्रसीदेच्चिच्चक्रं द्रागपश्चिमजन्मनः ॥२११॥

अत्र यागे गतो रूढिं कैवल्यमधिगच्छति ।
लोकैरालोक्यमानो हि देहबन्धविधौ स्थितः ॥२१२॥

अत्र नाथः समाचारं पटले ऽष्टादशे ऽभ्यधात् ।
नात्र शुद्धिर्न चाशुद्धिर्न भक्ष्यादिविचारणम् ॥२१३॥

न द्वैतं नापि चाद्वैतं लिङ्गपूजादिकं न च ।
न चापि तत्परित्यागो निष्परिग्रहतापि वा ॥२१४॥

सपरिग्रहता वापि जटाभस्मादिसंग्रहः ।
तत्त्यागो न व्रतादीनां चरणाचरणं च यत् ॥२१५॥

क्षेत्रादिसंप्रवेशश्च समयादिप्रपालनम् ।
परस्वरूपलिङ्गादि नामगोत्रादिकं च यत् ॥२१६॥

नास्मिन्विधीयते किंचिन्न चापि प्रतिषिध्यते ।
विहितं सर्वमेवात्र प्रतिषिद्धमथापि च ॥२१७॥

किं त्वेतदत्र देवेशि नियमेन विधीयते ।
तत्त्वे चेतः स्थिरीकार्यं सुप्रसन्नेन योगिना ॥२१८॥

तच्च यस्य यथैव स्यात्स तथैव समाचरेत् ।
तत्त्वे निश्चलचित्तस्तु भुञ्जानो विषयानपि ॥२१९॥

न संस्पृश्येत दोषैः स पद्मपत्रमिवाम्भसा ।
विषापहारिमन्त्रादिसंनद्धो भक्षयन्नपि ॥२२०॥

विषं न मुह्यते तेन तद्वद्योगी महामतिः ।
अशुद्धं हि कथं नाम देहाद्यं पाञ्चभौतिकम् ॥२२१॥

प्रकाशतातिरिक्ते किं शुद्ध्यशुद्धी हि वस्तुनः ।
अशुद्धस्य च भावस्य शुद्धिः स्यात्तादृशैव किम् ॥२२२॥

अन्योन्याश्रयवैयर्थ्यानवस्था इत्थमत्र हि ।
पृथिवी जलतः शुद्ध्येज्जलं धरणितस्तथा ॥२२३॥

अन्योन्याश्रयता सेयमशुद्धत्वे ऽप्ययं क्रमः ।
अशुद्धाज्जलतः शुद्ध्येद्धरेति व्यर्थता भवेत् ॥२२४॥

वायुतो वारिणो वायोस्तेजसस्तस्य वान्यतः ।
बहुरूपादिका मन्त्राः पावनात्तेषु शुद्धता ॥२२५॥

मन्त्राः स्वभावतः शुद्धा यदि ते ऽपि न किं तथा ।
शिवात्मता तेषु शुद्धिर्यदि तत्रापि सा न किम् ॥२२६॥

शिवात्मत्वापरिज्ञानं न मन्त्रेषु धरादिवत् ।
ते तेन शुद्धा इति चेत्तज्ज्ञप्तिस्तर्हि शुद्धता ॥२२७॥

योगिनं प्रति सा चास्ति भावेष्विति विशुद्धता ।
ननु चोदनया शुद्ध्यशुद्ध्यादिकविनिश्चयः ॥२२८॥

इत्थमस्तु तथाप्येषा चोदनैव शिवोदिता ।
का स्यात्सतीति चेदेतदन्यत्र प्रवितानितम् ॥२२९॥

वैदिक्या बाधितेयं चेद्विपरीतं न किं भवेत् ।
सम्यक्चेन्मन्यसे बाधो विशिष्टविषयत्वतः ॥२३०॥

अपवादेन कर्तव्यः सामान्यविहिते विधौ ।
शुद्ध्यशुद्धी च सामान्यविहिते तत्त्वबोधिनि ॥२३१॥

पुंसि ते बाधिते एव तथा चात्रेति वर्णितम् ।
नार्थवादादिशङ्का च वाक्ये माहेश्वरे भवेत् ॥२३२॥

अबुद्धिपूर्वं हि तथा संस्थिते सततं भवेत् ।
व्योमादिरूपे निगमे शङ्का मिथ्यार्थतां प्रति ॥२३३॥

अनवच्छिन्नविज्ञानवैश्वरूप्यसुनिर्भरः ।
शास्त्रात्मना स्थितो देवो मिथ्यात्वं क्वापि नार्हति ॥२३४॥

इच्छावान्भावरूपेण यथा तिष्ठासुरीश्वरः ।
तत्स्वरूपाभिधानेन तिष्ठासुः स तथा स्थितः ॥२३५॥

अर्थवादो ऽपि यत्रान्यविध्यादिमुखमीक्षते ।
तत्रास्त्वसत्यः स्वातन्त्र्ये स एव तु विधायकः ॥२३६॥

विधिवाक्यान्तरे गच्छन्नङ्गभावमथापि वा ।
न निरर्थकं एवायं संनिधेर्गजडादिवत् ॥२३७॥

स्वार्थप्रत्यायनं चास्य स्वसंवित्त्यैव भासते ।
तदपह्नवनं कर्तुं शक्यं विधिनिषेधयोः ॥२३८॥

युक्तिश्चात्रास्ति वाक्येषु स्वसंविच्चाप्यबाधिता ।
या समग्रार्थमाणिक्यतत्त्वनिश्चयकारिणी ॥२३९॥

मृतदेहे ऽथ देहोत्थे या चाशुद्धिः प्रकीर्तिता ।
अन्यत्र नेति बुद्ध्यन्तामशुद्धं संविदश्च्युतम् ॥२४०॥

संवित्तादात्म्यमापन्नं सर्वं शुद्धमतः स्थितम् ।
श्रीमद्वीरावलौ चोक्तं शुद्ध्यशुद्धिनिरूपणे ॥२४१॥

सर्वेषां वाहको जीवो नास्ति किंचिदजीवकम् ।
यत्किंचिज्जीवरहितमशुद्धं तद्विजानत ॥२४२॥

तस्माद्यत्संविदो नातिदूरे तच्छुद्विमावहेत् ।
अविकल्पेन भावेन मुनयो ऽपि तथाभवन् ॥२४३॥

लोकसंरक्षणार्थं तु तत्तत्त्वं तैः प्रगोपितम् ।
बहिः सत्स्वपि भावेषु शुद्ध्यशुद्धी न नीलवत् ॥२४४॥

प्रमातृधर्म एवायं चिदैक्यानैक्यवेदनात् ।
यदि वा वस्तुधर्मो ऽपि मात्रपेक्षानिबन्धनः ॥२४५॥

सौत्रामण्यां सुरा होतुः शुद्धान्यस्य विपर्ययः ।
अनेन चोदनानां च स्ववाक्यैरपि बाधनम् ॥२४६॥

क्वचित्संदर्शितं ब्रह्महत्याविधिनिषेधवत् ।
भक्ष्यादिविधयो ऽप्येनं न्यायमाश्रित्य चर्चिताः ॥२४७॥

सर्वज्ञानोत्तरादौ च भाषते स्म महेश्वरः ।
नरर्षिदेवद्रुहिणविष्णुरुद्राद्युदीरितम् ॥२४८॥

उत्तरोत्तरवैशिष्ट्यात् पूर्वपूर्वप्रबाधकम् ।
न शैवं वैष्णवैर्वाक्यैर्बाधनीयं कदाचन ॥२४९॥

वैष्णवं ब्रह्मसंभूतैर्नेत्यादि परिचर्चयेत् ।
बाधते यो वैपरीत्यात्समूढः पापभाग्भवेत् ॥२५०॥

तस्मान्मुख्यतया स्कन्द लोकधर्मान्न चाचरेत् ।
नान्यशास्त्रसमुद्दिष्टं स्रोतस्युक्तं निजे चरेत् ॥२५१॥

यतो यद्यपि देवेन वेदाद्यपि निरूपितम् ।
तथापि किल संकोचभावाभावविकल्पतः ॥२५२॥

संकोचतारतम्येन पाशवं ज्ञानमीरितम् ।
विकासतारतम्येन पतिज्ञानं तु बाधकम् ॥२५३॥

इदं द्वैतमिदं नेति परस्परनिषेधतः ।
मायीयभेदक्लृप्तं तत्स्यादकाल्पनिके कथम् ॥२५४॥

उक्तं भर्गशिखायां च मृत्युकालकलादिकम् ।
द्वैताद्वैतविकल्पोत्थं ग्रसते कृतधीरिति ॥२५५॥

सिद्धान्ते लिङ्गपूजोक्ता विश्वाध्वमयताविदे ।
कुलादिषु निषिद्धासौ देहे विश्वात्मताविदे ॥२५६॥

इह सर्वात्मके कस्मात्तद्विधिप्रतिषेधने ।
नियमानुप्रवेशेन तादात्म्यप्रतिपत्तये ॥२५७॥

जटादि कौले त्यागो ऽस्य सुखोपायोपदेशतः ।
व्रतचर्या च मन्त्रार्थतादात्म्यप्रतिपत्तये ॥२५८॥

तन्निषेधस्तु मन्त्रार्थसार्वात्म्यप्रतिपत्तये ।
क्षेत्रपीठोपपीठेषु प्रवेशो विघ्नशान्तये ॥२५९॥

मन्त्राद्याराधकस्याथ तल्लाभायोपदिश्यते ।
क्षेत्रादिगमनाभावविधिस्तु स्वात्मनस्तथा ॥२६०॥

वैश्वरूप्येण पूर्णत्वं ज्ञातुमित्यपि वर्णितम् ।
समयाचारसद्भावः पाल्यत्वेनोपदिश्यते ॥२६१॥

भेदप्राणतया तत्तत्त्यागात्तत्त्वविशुद्धये ।
समयादिनिषेधस्तु मतशास्त्रेषु कथ्यते ॥२६२॥

निर्मर्यादं स्वसंबोधं संपूर्णं बुद्ध्यतामिति ।
परकीयमिदं रूपं ध्येयमेतत्तु मे निजम् ॥२६३॥

ज्वालादिलिङ्गं चान्यस्य कपालादि तु मे निजम् ।
आदिशब्दात्तपश्चर्यावेलातिथ्यादि कथ्यते ॥२६४॥

नाम शक्तिशिवाद्यन्तमेतस्य मम नान्यथा ।
गोत्रं च गुरुसंतानो मठिकाकुलशब्दितः ॥२६५॥

श्रीसंततिस्त्र्यम्बकाख्या तदर्धामर्दसंज्ञिता ।
इत्थमर्धचतस्रो ऽत्र मठिकाः शांकरे क्रमे ॥२६६॥

युगक्रमेण कूर्माद्या मीनान्ता सिद्धसंततिः ।
आदिशब्देन च घरं पल्ली पीठोपपीठकम् ॥२६७॥

मुद्रा छुम्मेति तेषां च विधानं स्वपरस्थितम् ।
तादात्म्यप्रतिपत्त्यै हि स्वं संतानं समाश्रयेत् ॥२६८॥

भुञ्जीत पूजयेच्चक्रं परसंतानिना नहि ।
एतच्च मतशास्त्रेषु निषिद्धं खण्डना यतः ॥२६९॥

अखण्डे ऽपि परे तत्त्वे भेदेनानेन जायते ।
एवं क्षेत्रप्रवेशादि संताननियमान्ततः ॥२७०॥

नास्मिन्विधीयते तद्धि साक्षान्नौपयिकं शिवे ।
न तस्य च निषोधो य न्न तत्तत्त्वस्य खण्डनम् ॥२७१॥

विश्वात्मनो हि नाथस्य स्वस्मिन्रूपे विकल्पितौ ।
विधिर्निषेधो वा शक्तौ न स्वरूपस्य खण्डने ॥२७२॥

परतत्त्वप्रवेशे तु यमेव निकटं यदा ।
उपायं वेत्ति स ग्राह्यस्तदा त्याज्यो ऽथ वा क्वचित् ॥२७३॥

न यन्त्रणात्र कार्येति प्रोक्तं श्रीत्रिकशासने ।
समता सर्वदेवानामोवल्लीमन्त्रवर्णयोः ॥२७४॥

आगमनां गतीनां च सर्वं शिवमयं यतः ।
स ह्यखण्डितसद्भावं शिवतत्त्वं प्रपश्यति ॥२७५॥

यो ह्यखण्डितसद्भावमात्मतत्त्वं प्रपद्यते ।
केतकीकुसुमसौरभे भृशं भृङ्ग एव रसिको न मक्षिका ।
भैरवीयपरमाद्वयार्चने को ऽपि रज्यति महेशचोदितः ॥२७६॥

अस्मिंश्च योगे विश्रान्तिं कुर्वतां भवडम्बरः ।
हिमानीव महाग्रीष्मे स्वयमेव विलीयते ॥२७७॥

अलं वातिप्रसङ्गेन भूयसातिप्रपञ्चिते ।
योग्यो ऽभिनवगुप्तो ऽस्मिन्को ऽपि यागविधौ बुधः ॥२७८॥

इत्यनुत्तरपदप्रविकासे शाक्तमौपयिकमद्य विविक्तम् ॥२७९॥