सामग्री पर जाएँ

तन्त्रालोकः एकविंशतितममाह्निकम्

विकिस्रोतः तः

तन्त्रालोकः


अथ श्रीतन्त्रालोके एकविंशतितममाह्निकम्


परोक्षसंस्थितस्याथ दीक्षाकर्म निगद्यते ॥१॥

भुक्तिमुक्तिप्रसिद्ध्यर्थं नीयते सद्गुरुं प्रति ।
इत्यस्मिन्मालिनीवाक्ये प्रतिः सांमुख्यावाचकः ॥२॥

सांमुख्यं चास्य शिष्यस्य तत्कृपास्पदतात्मकम् ।
तमाराध्येति वचनं कृपाहेतूपलक्षणम् ॥३॥

तत्संबन्धात्ततः कश्चित्तत्क्षणादपवृज्यते ।
इत्यस्यायमपि ह्यर्थो मालिनीवाक्यसन्मणेः ॥४॥

तत्क्षणादिति नास्यास्ति यियासादिक्षणान्तरम् ।
किंत्वेवमेव करुणानिघ्नस्तं गुरुरुद्धरेत् ॥५॥

गुरुसेवाक्षीणतनोर्दीक्षामप्राप्य पञ्चताम् ।
गतस्याथ स्वयं मृत्युक्षणोदिततथारुचेः ॥६॥

अथवाधरतन्त्रादिदीक्षासंस्कारभागिनः ।
प्राप्तसामयिकस्याथ परां दीक्षामविन्दतः ॥७॥

डिम्बाहतस्य योगेशीभक्षितस्याभिचारतः ।
मृतस्य गुरुणा यन्त्रतन्त्रादिनिहतस्य वा ॥८॥

भ्रष्टस्वसमयस्याथ दीक्षां प्राप्तवतोऽप्यलम् ।
बन्धुभार्यासुहृत्पुत्रगाढाभ्यर्थनयोगतः ॥९॥

स्वयं तद्विषयोत्पन्नकरुणाबलतोऽपि वा ।
विज्ञाततन्मुखायातशक्तिपातांशधर्मणः ॥१०॥

गुरुर्दीक्षां मृतोद्धारीं कुर्वीत शिवदायिनीम् ।
श्रीमृत्युञ्जयसिद्धादौ तदुक्तं परमेशिना ॥११॥

अदीक्षिते नृपत्यादावलसे पतिते मृते ।
बालातुरस्त्रीवृद्धे च मृतोद्धारं प्रकल्पयेत् ॥१२॥

विधिः सर्वः पूर्वमुक्तः स तु संक्षिप्त इष्यते ।
गुर्वादिपूजारहितो बाह्ये भोगाय सा यतः ॥१३॥

अधिवासचरुक्षेत्रं शय्यामण्डलकल्पने ।
नोपयोग्यत्र तच्छिष्यसंस्क्रियास्वप्नदृष्टये ॥१४॥

मन्त्रसंनिधिसंतृप्तियोगायात्र तु मण्डलम् ।
भूयोदिने च देवार्चा साक्षान्नास्योपकारि तत् ॥१५॥

क्रियोपकरणस्थानमण्डलाकृतिमन्त्रतः ।
ध्यानयोगैकतद्भक्तिज्ञानतन्मयभावतः ॥१६॥

तत्प्रविष्टस्य कस्यापि शिष्याणां च गुरोस्तथा ।
एकादशैते कथिताः संनिधानाय हेतवः ॥१७॥

उत्तरोत्तरमुत्कृष्टास्तथा व्यामिश्रणावशात् ।
क्रियातिभूयसी पुष्पाद्युत्तमं लक्षणान्वितम् ॥१८॥

एकलिङ्गादि च स्थानं यत्रात्मा संप्रसीदति ।
मण्डलं त्रित्रिशूलाब्जचक्रं यन्मन्त्रमण्डले ॥१९॥

अनाहूतेऽपि दृष्टं सत्समयित्वप्रसाधनम् ।
तदुक्तं मालिनीतन्त्रे सिद्धं समयमण्डलम् ॥२०॥

येन संदृष्टमात्रेति सिद्धमात्रपदद्वयात् ।
आकृतिर्दीप्तरूपा या मन्त्रस्तद्वत्सुदीप्तिकः ॥२१॥

शिष्टं स्पष्टमतो नेह कथितं विस्तरात्पुनः ।
कृत्वा मण्डलमभ्यर्च्य तत्र देवं कुशैरथ ॥२२॥

गोमयेनाकृतिं कुर्याच्छिष्यवत्तां निधापयेत् ।
ततस्तस्यां शोध्यमेकमध्वानं व्याप्तिभावनात् ॥२३॥

प्रकृत्यन्तं विनिक्षिप्य पुनरेनं विधिं चरेत् ।
महाजालप्रयोगेण सर्वस्मादध्वमध्यतः ॥२४॥

चित्तमाकृष्य तत्रस्थं कुर्यात्तद्विधिरुच्यते ।
मूलाधारादुदेत्य प्रसृतसुविततानन्तनाड्यध्वदण्डं वीर्येणाक्रम्य नासागगनपरिगतं विक्षिपन् व्याप्तुमीष्टे ।
यावद्धूमाभिरामप्रचिततरशिखाजालकेनाध्वचक्रं संछाद्याभीष्टजीवानयनमिति महाजालनामा प्रयोगः ॥२५॥

एतेनाच्छादनीयं व्रजति परवशं संमुखीनत्वमादौ पञ्चादानीयते चेत्सकलमथ ततोऽप्यध्वमध्याद्यथेष्टम् ।
आकृष्टावुद्धृतौ वा मृतजनविषये कर्षणीयेऽथ जीवे योगः श्रीशंभुनाथागमपरिगमितो जालनामा मयोक्तः ॥२६॥

चिरविघटिते सेनायुग्मेयथामिलिते पुनर्हयगजनरं स्वां स्वां जातिं रसादभिधावति ।
करणपवनैर्नाडीचक्रैस्तथैव समागतैर्निजनिजरसादेकीभाव्यं स्वजालवशीकृतैः ॥२७॥

महाजालसमाकृष्टो जीवो विज्ञानशालिना ।
स्वःप्रेततिर्यङ्निरयांस्तदैवैष विमुञ्चति ॥२८॥

तज्ज्ञानमन्त्रयोगाप्तः पुरुषश्चैष कृत्रिमम् ।
योगीव साध्यहृदयात्तदा तादात्म्यमुज्झति ॥२९॥

स्थावरादिदशाश्चित्रास्तत्सलोकसमीपताः ।
त्यजेच्चेति न चित्रं स एवं यः कर्मणापि वा ॥३०॥

अधिकारिशरीरत्वान्मानुष्ये तु शरीरगः ।
न तदा मुच्यते देहाद्देहान्ते तु शिवं व्रजेत् ॥३१॥

तस्मिन्देहे तु काप्यस्य जायते शाङ्करी परा ।
भक्तिरूहाच्च विज्ञानादाचार्याद्वाप्यसेवितात् ॥३२॥

तद्देहसंस्थितोऽप्येष जीवो जालबलादिमम् ।
दार्भादिदेहं व्याप्नोति स्वाधिष्ठित्याप्यचेतयन् ॥३३॥

योगमन्त्रक्रियाज्ञानभूयोबलवशात्पुनः ।
मनुष्यदेहमप्येष तदैवाशु विमुञ्चति ॥३४॥

सुप्तकल्पोऽप्यदेहोऽपि यो जीवः सोऽपि जालतः ।
आकृष्टो दार्भमायाति देहं फलमयं च वा ॥३५॥

जातीफलादि यत्किंचित्तेन वा देहकल्पना ।
अन्तर्बहिर्द्वयौचित्यात्तदत्रोत्कृष्टमुच्यते ॥३६॥

ततो जालक्रमानीतः स जीवः सुप्तवत्स्थितः ।
मनोविशिष्टदेहादिसामग्रीप्राप्त्यभावतः ॥३७॥

न स्पन्दते न जानाति न वक्ति न किलेच्छति ।
तादृशस्यैव संस्कारान् सर्वान् प्राग्वत्प्रकल्पयेत् ॥३८॥

निर्बीजदीक्षायोगेन सर्वं कृत्वा पुरोदितम् ।
विधिं योजनिकां पूर्णाहुत्या साकं क्षिपेच्च तम् ॥३९॥

दार्भादिदेहे मन्त्राग्नावर्पिते पूर्णया सह ।
मुक्तपाशः शिवं याति पुनरावृत्तिवर्जितः ॥४०॥

सप्रत्यया त्वियं यत्र स्पन्दते दर्भजा तनुः ।
तत्र प्राणमनोमन्त्रार्पणयोगात्तथा भवेत् ॥४१॥

साभ्यासस्य तदप्युक्तं बलाश्वासि न तत्कृते ।
मृतोद्धारोदितैरेव यथासंभूति हेतुभिः ॥४२॥

जीवत्परोक्षदीक्षापि कार्या निर्बीजिका तु सा ।
तस्यां दर्भाकृतिप्रायकल्पने जालयोगतः ॥४३॥

संकल्पमात्रेणाकर्षो जीवस्य मृतिभीतितः ।
शिष्टं प्राग्वत्कुशाद्युत्थाकारविप्लोषवर्जितम् ॥४४॥

पारिमित्यादनैश्वर्यात्साध्ये नियतियन्त्रणात् ।
जालाकृष्टिर्विनाभ्यासं रागद्वेषान्न जायते ॥४५॥

परोक्ष एवातुल्याभिर्दीक्षाभिर्यदि दीक्षितः ।
तत्रोत्तरं स्याद्बलवत्संस्काराय त्वधस्तनम् ॥४६॥

भुक्तियोजनिकायां तु भूयोभिर्गुरुभिस्तथा ।
कृतायां भोगवैचित्र्यं हेतुवैचित्र्ययोगतः ॥४७॥

परोक्षदीक्षणे मायोत्तीर्णे भोगाय योजयेत् ।
भोगानीप्सा दुर्लभा हि सती वा भोगहानये ॥४८॥

उक्तं हि स्वान्यसंवित्त्योः स्वसंविद्बलवत्तरा ।
बाधकत्वे बाधिकासौ साम्यौदासीन्ययोस्तथा ॥४९॥

श्रीमान् धर्मशिवोऽप्याह पारोक्ष्यां कर्मपद्धतौ ।
परोक्षदीक्षणे सम्यक् पूर्णाहुतिविधौ यदि ॥५०॥

अग्निश्चिटिचिटाशब्दं सधूमं प्रतिमुञ्चति ।
धत्ते नीलाम्बुदच्छायां मुहुर्ज्वलति शाम्यति ॥५१॥

विस्तरो घोररूपश्च महीं धावति चाप्यधः ।
ध्वांक्षाद्यश्रव्यशब्दो वा तदा तं लक्षयेद्गुरुः ॥५२॥

ब्रह्महत्यादिभिः पापैस्तत्सङ्गैश्चोपपातकैः ।
तदा तस्य न कर्तव्या दीक्षास्मिन्नकृते विधौ ॥५३॥

नवात्मा फट्पुटान्तःस्थः पुनः पञ्चफडन्वितः ।
अमुकस्येति पापानि दहाम्यनु फडष्टकम् ॥५४॥

इति साहस्रिको होमः कर्तव्यस्तिलतण्डुलैः ।
अन्ते पूर्णा च दातव्या ततोऽस्मै दीक्षया गुरुः ॥५५॥

परयोजनपर्यन्तं कुर्यात्तत्त्वविशोधनम् ।
प्रत्यक्षेऽपि स्थितस्याणोः पापिनो भगवन्मयीम् ॥५६॥

शक्तिं प्राप्तवतो ज्येष्ठामेवमेव विधिं चरेत् ।
यदि वा दैशिकः सम्यङ् न दीप्तस्तस्य तत्पुरा ॥५७॥

प्रायश्चित्तैस्तथा दानैः प्राणायामैश्च शोधनम् ।
कृत्वा विधिमिमां चापि दीक्षां कुर्यादशङ्कितः ॥५८॥

सर्वथा वर्तमानोऽपि तत्त्वविन्मोचयेत्पशून् ।
इच्छयैव शिवः साक्षात्तस्मात्तं पूजयेत्सदा ॥५९॥

शाठ्यं तत्र न कार्यं च तत्कृत्वाधो व्रजेच्छिशुः ।
न पुनः कीर्तयेत्तस्य पापं कीर्तयिता व्रजेत् ॥६०॥

निरयं वर्जयेत्तस्मादिति दीक्षोत्तरे विधिः ।
एषा परोक्षदीक्षा द्विधोदिता जीवदितरभेदेन ॥६१॥