तन्त्रालोकः अष्टादशमाह्निकम्
अथ श्रीतन्त्रालोके अष्टादशमाह्निकम्
अथ संक्षिप्तदीक्षेयं शिवतापत्तिदोच्यते ।
न रजो नाधिवासोऽत्र न भूक्षेत्रपरिग्रहः ।
यत्र तत्र प्रदेशे तु पूजयित्वा गुरुः शिवम् ॥१॥
अध्वानं मनसा ध्यात्वा दीक्षयेत्तत्त्वपारगः ।
जननादिविहीनां तु येन येनाध्वना गुरुः ॥२॥
कुर्यात्स एकतत्त्वान्तां शिवभावैकभावितः ।
परामन्त्रस्ततोऽस्येति तत्त्वं संशोधयाम्यथ ॥३॥
स्वाहेति प्रतितत्त्वं स्याच्छुद्धे पूर्णाहुतिं क्षिपेत् ।
एवं मन्त्रान्तरैः कुर्यात्समस्तैरथवोक्तवत् ॥४॥
परासंपुटितं नाम स्वाहान्तं प्रथमान्तकम् ।
शतं सहस्रं साष्टं वा तेन शक्त्यैव होमयेत् ॥५॥
ततः पूर्णेति संशोध्यहीनमुत्तममीदृशम् ।
दीक्षाकर्मोदितं तत्र तत्र शास्त्रे महेशिना ॥६॥
प्रत्येकं मातृकायुग्मवर्णैस्तत्त्वानि शोधयेत् ।
यदि वा पिण्डमन्त्रेण सर्वमन्त्रेष्वयं विधिः ॥७॥
यथा यथा च स्वभ्यस्तज्ञानस्तन्मयतात्मकः ।
गुरुस्तथा तथा कुर्यात् संक्षिप्तं कर्म नान्यथा ॥८॥
श्रीब्रह्मयामले चोक्तं संक्षिप्तेऽपि हि भावयेत् ।
व्याप्तिं सर्वाध्वसामान्यां किंतु यागे न विस्तरः ॥९॥
अतन्मयीभूतमिति विक्षिप्तं कर्म सन्दधत् ।
क्रमात्तादात्म्यमेतीति विक्षिप्तं विधिमाचरेत् ॥१०॥
संक्षिप्तो विधिरुक्तोऽयं कृपया यः शिवोदितः ।
दीक्षोत्तरे कैरणे च तत्र तत्रापि शासने ॥११॥