तत्त्वोपदेशः (समूलम्)

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
तत्त्वोपदेशः (समूलम्)
शङ्कराचार्यः
१९१०

तत्त्वपदार्थशुद्ध्यर्थं गुरुः शिष्यं वचोऽब्रवीत् ।
वाक्ये तत्त्वमसीत्यत्र त्वपदार्थं विवेचय ।। १ ॥
न त्वं देहोऽसि दृश्यत्वादुपजात्यादिमत्त्वतः ।
भौतिकत्वादशुद्धत्वादनित्यत्वात्तथैव च ॥ २ ॥
अदृश्यो रूपहीनस्त्व जातिहीनोऽप्यभौतिकः ।
शुद्धनित्योऽसि दृग्रूपो घटो यद्वन्न दृग्भवेत् ॥ ३ ॥
न भवानिद्रियाण्येषा करणत्वेन या श्रुतिः ।
प्रेरकस्त्व पृथक्तेभ्यो न कर्ता करण भवेत् ॥ ४ ॥
नानैतान्येकरूपस्त्व भिन्नस्तेभ्यः कुतः शृणु ।
न चैकेंद्रियरूपस्त्व सर्वत्राहप्रतीतितः ॥ ५ ॥
न तेषा समुदायोऽसि तेषामन्यतमस्य च ।
विनाशेऽप्यात्मधीस्तावदस्ति स्यान्नैवमन्यथा ॥ ६ ।
प्रत्येकमपि तान्यात्मा नैव तत्र नय शृणु ।
नानास्वामिकदेहोऽय नश्येद्भिन्नमताश्रय ॥ ७ ॥
नानात्माभिमतं नैव विरुद्धविषयत्वतः ।-
स्वाम्यैक्ये तु व्यवस्था स्यादेकपार्थिवदेशवत् ॥ ८
न मनस्त्व न वा प्राणो जडत्वादेव चैतयोः ।
गतमन्यत्र मे चित्तमित्यन्यत्वानुभूतित ॥ ९ ॥
क्षुत्तृड्भ्यां पीडित. प्राणो ममाय चेति भेदतः।।
तयोर्द्रष्टा पृथक्ताभ्या घटद्रष्टा घटाद्यथा ।। १० ।।
सुप्तौ लीनास्ति या बोधे सर्वं व्याप्नोति देहकम् ।।
चिच्छायया च सबद्धा न सा बुद्धिर्भवान्द्विज ।।।

नानारूपवती बोधे सुप्तौ लीनातिचंचला ।।
यतो दृगेकरूपस्त्वं पृथक्तस्य प्रकाशकः ॥ १२॥
सुप्तौ देहाद्यभावेऽपि साक्षी तेषां भवान्यतः ।।
स्वानुभूतिस्वरूपत्वान्नान्यस्तस्याति भासकः ।। १३ ।।
प्रमाण बोधयन्तं तं बोधं मानेन ये जनाः ।।
बुभुत्स्यन्ते त एधोभिर्दग्धुं वांछन्ति पावकम् ।। १४ ॥
विश्वमात्मानुभवति तेनासौ नानुभूयते ।।
विश्वं प्रकाशयत्यात्मा तेनासौ.न प्रकाश्यते ।। १५ ।।
ईदृशं तादृश नैतन्न परोक्ष सदेव यत् ।।
तद्ब्रह्मस्त्वं न देहादिदृश्यरूपोऽसि सर्वदृक् ।। १६ ।।
इदंत्वेनैव यद्भाति सर्वं तच्च निषिध्यते ।।
अवाच्यतत्त्वमनिदं न वेद्य स्वप्रकाशतः ।। १७ ॥
सत्यं ज्ञानमनंतं च ब्रह्मलक्षणमुच्यते ॥
सत्यत्वाज्ज्ञानरूपत्वादनंतत्वात्त्वमेव हि ॥ १८॥
सति देहाद्युपाधौ स्याज्जीवस्तस्य नियामकः ॥
ईश्वरः शक्त्युपाधित्वाद्द्वयोर्बाधे स्वयंप्रभ ॥ १९ ॥
अपेक्ष्यतेऽखिलैर्मानैर्न यन्मानमपेक्षते ।।
वेदवाक्य प्रमाणं तद्ब्रह्मात्मावगतौ मतम् ॥ २० ॥
अतो हि तत्त्वमस्यादिवेदवाक्यं प्रमाणतः ।।
ब्रह्मणोऽस्ति यया युक्त्या सास्माभिः सप्रकीर्त्यते ।। २१
शोधिते त्वपदार्थे हि तत्त्वमस्यादि चिंतितम् ।।
संभवेन्नान्यथा तस्माच्छोधनं कृतमादितः ॥ २२ ॥
देहेद्रियादिधर्मान्यः स्वात्मन्यारोपयन्मृषा ।।
कर्तृत्वाद्यभिमानी च वाच्यार्थस्त्वंपदस्य सः ॥ २३ ॥
देहेंद्रियादिसाक्षी यस्तेभ्यो भाति विलक्षणः ॥

स्वयं बोधस्वरूपत्वाल्लक्ष्यार्थस्त्वंपदस्य सः ।। २४ ॥
वेदांतवाक्यसंवेद्यविश्वातीताक्षराद्वयम् ।।
विशुद्धं यत्स्वसवेद्यं लक्ष्यार्थस्तत्पदस्य सः ॥ २५ ॥
सामानाधिकरण्यं हि पदयोस्तत्त्वयोर्द्वयोः ।।
संबधस्तेन वेदान्तैर्ब्रह्मैक्य प्रतिपाद्यते ॥ २६ ॥
भिन्नप्रवृत्तिहेतुत्वे पदयोरेकवस्तुनि ॥
वृत्तित्व यत्तथैवैक्य विभक्त्यंतकयोस्तयोः ॥ २७.।।
सामानाधिकरण्य तत्संप्रदायिभिरीरितम् ।।
तथा पदार्थयोरेव विशेपणविशेष्यता |॥ २८ ॥
अयं सः सोऽयमितिवत्सबधो भवति द्वयोः ।।
प्रत्यक्त्व सद्वितीयत्व परोक्षत्व च पूर्णता ।। २९ ।।
परस्परविरुद्ध स्यात्ततो भवति लक्षणा ||
लक्ष्यलक्षणसबध पदार्थप्रत्यगात्मनोः ॥ ३० ॥
मानांतरोपरोधाच्च मुख्यार्थस्यापरिग्रहे ॥
मुख्यार्थस्याविनाभूते प्रवृत्तिर्लक्षणोन्यते ॥ ३१ ॥
त्रिविधा लक्षणा ज्ञेया जहत्यजहती तथा
अन्योभयात्मिका ज्ञेया तत्राद्या नैव सभवेत् ।। ३२
वाच्यार्थमखिल त्यक्त्वा वृत्ति स्याद्या तदन्विते ।।
गंगायां घोष इतिवज्जहती लक्षणा हि सा || ३३ ।।
वान्यार्थस्यैकदेशस्य प्रकृते त्याग इष्यते ।।
जहती सभवेन्नैव सप्रदायविरोधतः ॥ ३४ ॥
वाच्यार्थमपरित्यज्य वृत्तिरन्यार्थके तु या ॥
कथितेयमजहती शोणोऽयं धावतीतिवत् ॥ ३५ ॥
न संभवति.साप्यत्र वाच्यार्थेऽतिविरोधतः ।।
विरोधांशपरित्यागो दृश्यते प्रकृते यतः ॥ ३६॥

वाच्यार्थस्यैकदेशं च परित्यज्यैकदेशकम् ॥
या बोधयति सा ज्ञेया तृतीया भागलक्षणा ।। ३७ ॥
सोऽयं विप्र इदं वाक्यं बोधयत्यादितस्तथा ॥
तत्कालत्वविशिष्टं च तथैतत्कालसयुतम् ॥ ३८ ॥
अतस्तयोविरुद्धं तत्तत्कालत्वादिधर्मंकम् ॥
त्यक्त्वा वाक्यं यथा विप्रपिंडं बोधयतीरितम् ॥ ३९ ॥
तथैव प्रकृते तत्त्वमसीत्यत्र श्रुतौ शृणु ।।
प्रत्यक्त्वादीन्परित्यज्य जीवधर्मांस्त्वमःपदात् ॥ ४० ॥
सर्वज्ञत्वपरोक्षादीन्परित्यज्य ततःपदात् ||
शुद्धं कूटस्थमद्वैतं बोधयत्यादरात्परम् || ४१ ॥
तत्त्वमोः पदयोरैक्यमेव तत्त्वमसीत्यलम् ॥
इत्थमैक्यावबोधेन सम्यग्ज्ञानं दृढं नयैः ॥ ४२ ॥
अहं ब्रह्मेति विज्ञानं यस्य शोकं तरत्यसौ ॥
आत्मा प्रकाशमानोऽपि महावाक्यैस्तथैकता ॥ ४३ ॥
तत्त्वमोर्बोध्यतेऽथापि पौर्वापर्यानुसारतः ॥
तथापि शक्यते नैव श्रीगुरो करुणां विना ।। ४४ ।।
अपरोक्षयितु लोके मूढैः पंडितमानिमिः ।।
अंतःकरणसंशुद्धौ स्वयं ज्ञानं प्रकाशते ।। ४५ ।।
वेदवाक्यैरतः किं स्याद्रुरुणेति न सांप्रतम् ॥
आचार्यवान्पुरुषो हि वेदेत्येवं श्रुतिर्जगौ ।। ४६ ।।
अनादाविह ससारे बोधको गुरुरेव हि ॥
अतो ब्रह्मात्मवस्त्वैक्य ज्ञात्वा दृश्यमसत्तया ।। ४७ ॥
अद्वैते ब्रह्माणि स्थेयं प्रत्यग्ब्रह्मात्मना सदा ॥
तत्प्रत्यक्षात्परिज्ञातमद्वैतब्रह्मचिद्धनम् ॥ ४८ ॥
प्रतिपाद्यं तदेवात्र वेदांतैर्न द्वयं जडम् ॥

सुखरूपं चिदद्वैतं दुःखरूपमसज्जडम् ॥ ४९ ॥
वेदातैस्तद्द्वयं सम्यङ् निर्णीत वस्तुतो नयात् ।
अद्वैतमेव सत्य त्वं विद्धि द्वैतमसत्सदा ॥५०॥
शुद्धे कथमशुद्ध' स्याद्दृश्यं मायामय ततः ।
शुक्तौ रूप्यं मृषा यद्वत्तथा विश्व परात्मनि ॥५१॥
विद्यते न स्वत' सत्व नासतः सत्त्वमस्ति वा ।
बाध्यत्वान्नैव सद्द्वैत नासत्प्रत्यक्षभानतः ॥५२॥
सदसन्न विरुद्धत्वादतोऽनिर्वाच्यमेव तत् ।
यः पूर्वमेक एवासीत्सृष्ट्वा पश्चादिद जगत् ॥५३॥ .
प्रविष्टो जीवरूपेण स एवात्मा भवान्परः ।
सच्चिदानद एव त्व विस्मृत्यात्मतया परम् ॥५४॥
जीवभावमनुप्राप्तः स एवात्मासि बोधतः।
अद्वयानदचिन्मात्रः शुद्धः साम्राज्यमागत॥५५॥
कर्तृत्वादीनि यान्यासस्त्वयि ब्रह्माद्वये परे ।
तानीदानीं विचार्य त्व किंस्वरूपाणि वस्तुतः ॥५६॥
अत्रैव शृणु वृत्तातमपूर्वं श्रुतिभाषितम् ।
कश्चिद्गाधारदेशीयो महारत्नविभूषितः ॥५७॥
स्वगृहे स्वागणे सुप्त. प्रमत्तः सन्कदाचन ।
रात्रौ चौर. समागत्य भूषणाना प्रलोभितः ॥५८॥
बद्ध्वा देशांतर चौरैर्नीतः सन्गहने वने ।
भूषणान्यपहृत्यापि बद्धाक्षकरपादक. ॥५९॥
निक्षिप्तो विपिनेऽतीव कुशकटकवृश्चिकै ।।
व्यालव्याघ्रादिभिश्चैव सकुले तरुसकटे ॥६०॥
व्यालादिदुष्टसत्त्वेभ्यो महारण्ये भयातुर ।
शिलाकटकदर्भाद्यैर्देहस्य प्रतिकूलकैः ॥६॥

क्रियमाणे विलुठने विशीर्णांगोऽसमर्थकः ।
क्षुत्तृडातपवाय्वग्न्यादिभिस्तप्तोऽतितापकैः ।।६२||
बंधमुक्तौ तथा देशप्राप्तावेव सुदुःखधीः ।
ईदृशे कंचिदाक्रोशनैकं तत्रैव तस्थिवान् ।।६३।।
तथा रागादिभिर्वर्गैः शत्रुभिर्दुःखदायिभिः ।
चौरैर्देहाभिमानाद्यैः स्वानंदधनहारिभिः ।।६४|| .
ब्रह्मानंदे प्रमत्तः स्वाज्ञाननिद्रावशीकृतः ।
बद्धस्त्वं बंधनैर्भोगतृष्णाज्वरादिभिर्दृढम् ।।६५॥
अद्वयानंदरूपात्त्वां प्रच्याव्यातीव धूर्तकैः ।
दूरनीतोऽसि देहेषु ससारारण्यभूमिषु ॥६६||
सर्वदुःखनिदानेषु शरीरादित्रयेषु च ।
नानायोनिषु कर्मांधवासनानिर्मितासु च ||६७||
प्रवेशितोऽसि सृष्टोऽसि बद्धः स्वानंददृष्टितः ।
अनादिकालमारभ्य दुःख चानुभवन्सदा ॥६८||
जन्ममृत्युजरादोषनरकादिपरंपराम् ।।
निरंतरं विषण्णोऽनुभवन्नत्यतशोकवान् ॥६॥
अविद्याभूतबधस्य निवृत्तौ दुःखदस्य च ।
स्वरूपानंदसंप्राप्तौ सत्योपाय न लब्धवान् ॥ ७० ॥
यथा गांधारदेशीयश्चिरं दैवाद्दयालुभिः ।
कैश्चित्पांथैः परिप्राप्तैर्मुक्तद्रुष्ट्यादिबधनः ॥ ७१ ॥
सः स्वस्थैरुपदिष्टश्च पंडितो निश्चितात्मकः ।
ग्रामाद्वामांतरं गच्छेन्मेधावी मार्गतत्परः ॥ ७२ ॥
गत्वा गांधारदेशं सः स्वगृह प्राप्य पूर्ववत् ।।
बांधवैः संपरिष्वक्तः सुखी भूत्वा स्थितोऽभवत् ।। ७
त्वमप्येवमनेकेषु.दुःखदायिषु जन्मसु ।

भ्रातो दैवाच्छुभे मार्गे जातश्रद्धः सुकर्मकृत् ॥ ७४i .
वर्णाश्रमाचारपरोऽवाप्तपुण्यमहोदयः ।
ईश्वरानुग्रहाल्लब्धो ब्रह्मविद्गुरुसत्तमः ॥ ७५ ॥
विधिवत्कृतसन्यासो विवेकादियुतः सुधीः ।
प्राप्तो ब्रह्मोपदेशोऽद्य वैराग्याभ्यासतः परम् ॥ ७६ ॥
पंडितस्तत्र मेधावी युक्त्या वस्तु विचारयन् ।
निदिध्यासनसपन्नः प्राप्तो हि त्व पर पदम् ॥ ७७ ॥
अतो ब्रह्मात्मविज्ञानमुपदिष्ट यथाविधि ।
मयाचार्येण ते धीर सम्यक्त्र प्रयत्नवान् ॥ ७८॥
भूत्वा विमुक्तबंधस्त्व छिन्नद्वैतात्मसशयः ।
निर्द्वन्द्वो निःस्पृहो भूत्वा विचरस्व यथासुखम् ॥ ७९ ॥
वस्तुतो निष्प्रपचोऽसि नित्यमुक्तः स्वभावतः ।
न ते बंधविमोक्षौ स्तः कल्पितौ तौ यतस्त्वयि ॥ ८० ।
न विरोधो न चोत्पत्तिन बद्धो न च साधकः ।
न मुमुक्षुर्न वै मुक्त इत्येषा परमार्थता ॥ ८१ ॥
श्रुतिसिद्धातसारोऽय तथैव त्व स्वया धिया ।
सविचार्य निदिध्यास्य निजानदात्मक परम् ।। ८२ ॥
साक्षात्कृत्वा परिच्छिनाद्वैतब्रह्माक्षरं स्वयम् ।
जीवन्नेव विनिर्मुक्तो विश्रांतः शांतिमाश्रय ॥ ८३ ॥
विचारणीया वेदान्ता वदनीयो गुरुः सदा ।
गुरूणा वचन पथ्य दर्शन सेवन नृणाम् ॥ ८४ ॥
गुरुर्ब्रह्म स्वय साक्षात्सेव्यो वद्यो मुमुक्षुभिः ।
नोद्वेजनीय एवाय कृतज्ञेन विवकिना ॥ ८५ ।।
याबदायुस्त्वया वद्यो वेदांतो गुरुरीश्वरः ।
मनसा कर्मणा वाचा श्रुतिरेवैष निश्चयः ॥ ८६ ॥

भावाद्वैतं सदा कुर्यात्क्रियाद्वैतं न कर्हिचित् ।
अद्वैतं त्रिषु लोकेषु नाद्वैत गुरुणा सह ॥ ८७ ॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविंदभगवत्पूज्यपादशिष्यस्य श्रीशकरभगवतः कृतौ तत्त्वोपदेशः सपूर्णः ॥


---

"https://sa.wikisource.org/w/index.php?title=तत्त्वोपदेशः_(समूलम्)&oldid=289380" इत्यस्माद् प्रतिप्राप्तम्