तत्त्वार्थसूत्रम्/चतुर्थोऽध्यायः

विकिस्रोतः तः

<poem> देवाश्चतुर्णिकायाः।।

आदितस्त्रिषु पीतानत्लेश्याः।।

दशाष्टपञ्चद्वादशविकल्पाः कल्पोपपन्नपर्यन्ताः।।

इन्द्रसामानिक त्रायस्त्रिशपारिषदात्मरक्ष लोकपालीनाक प्रकीर्ण काभियोग्य किल्बिषि काश्चैकशः।।

त्रायस्त्रिंशलोकपालवर्ज्या व्यन्तरज्योतिष्काः।।

पूर्वयोर्द्वीन्द्रा।।

कायप्रवीचाराः।।

शेषाः स्पर्शरूपशब्दमनः प्रवचाराः।।

परेऽप्रवचीराः।।

भवनवासिनोऽसुरनाविद्युत्सुपर्णाग्निवातस्तनितोद धिद्वीपदिक्कुमाराः।।

व्यन्तराः किन्नरकिंपुरुष महोरग गन्धर्वयक्षराक्षसभूतपिशाचाः।।

ज्योतिष्काः सूर्याचन्द्रमसौ ग्रहनक्षत्रप्रकीर्णकतारकाश्च।।

मेरुप्रदिक्षिणा नित्यगतयो नृलोके।।

तत्कृतः कालविभागः।।

बहिरवस्थिताः।।

वैमानिकाः।।

कल्पोपपन्नाः कल्पाताताश्च।।

उपर्युपरि।।

सौधर्मैशानसानत्कुमार माहेन्द्र ब्रह्मब्रह्मोत्तर लान्तवकापिष्ठ शुक्रमहाशुक्रशतारसहस्रारेष्वानतप्राणयोरारणाच्युतयोर्नवसुग्रैवेयकेषु विजय वैजयन्त ययन्तापराजितेषु सर्वार्थसिद्धौ च।।

स्थिति प्रभावसुखद्युतलेश्याविशुद्धीन्द्रियावधिविषयतोऽधिकाः।।

गतिशरीरपरिग्रहाभिमानतो हीनाः।।

पीतपद्मशुक्ललेश्या द्वित्रिशेषेषु।।

प्राग्ग्रैवेयकेभ्यः कल्पाः।।

ब्रह्मलोकालया लौकान्तिकाः।।

सारस्वतादित्य व ह्रयरुणगर्दतोयुषिताव्यावाधारिष्टाश्च।।

विजयादिषु द्विचरमाः।।

औपपादिक मनुष्येभ्यः शेषास्तिर्यग्योनयः।।

स्थितिसुरनागसुपर्णद्वीपशेषाणां सागरोपमत्रिपल्योपमार्द्ध हीनमिताः।।

सौधर्मेशालयोः सागरोपमेऽधिके।।

सानत्कुमार माहेन्द्रयो सप्त।।

त्रिसप्तनवैकादशत्रयोदश पञ्चदशभिरधिकानि तु।।

आरणाच्युततादूर्ध्वमेकैकेननवसु ग्रैवेयकेषु विजयादिषु सर्वार्थसिद्धौ च।।

अपरापल्योपममधिकम्।।

परतः परतः पूर्वा पूर्वाऽनन्तरा।।

नारकाणां च द्वितीयादिषु।।

दशवर्षज्ञसहस्राणि प्रथमायाम्।।

भवनेषु च।।

व्यन्तराणां च।।

परापल्योपममधिकम्।।

ज्योतिष्कणां च।।

तदष्टभागोऽपरा।।

लौकान्तिकानामष्टौ सागरोपमाणि सर्वेषाम्।।

इति चतुर्थोऽध्यायः।।