तत्त्वचिन्तामणिः/शब्दप्रामाण्यवादः

विकिस्रोतः तः
Jump to navigation Jump to search
तत्त्वचिन्तामणिः
[[लेखकः :|]]
शब्दाकाङ्क्षावादः →

अथ शब्दो निरूप्यते । प्रयोगहेतुभूतार्थतत्त्वज्ञानजन्य: शब्द: प्रमाणम् । करणञ्च तत् यस्मिन् सति क्रिया भवत्येव ।

न च शब्दे सति प्रमा भवत्येवेति नायं शब्द: प्रामणम् । न च शब्दो न प्रमाणमिति वाक्यस्य प्रामाण्याप्रमाण्ययोव्र्याघात: , अस्याप्रामाण्येऽपि एतदुत्थाप्यमानाविसंवादादिति चेत् न, आकाङ्क्षादिमतः पदार्थस्मरणादिव्यापारवत: प्रमाणत्वेन तथाभूतात् प्रमोत्पत्तेरावश्यकत्वात् अतथाभूतत्वे च फलाजनकत्वस्य करणान्तरसाम्यात् । तथापि शब्दो न प्रमाणान्तरं पदार्थसंसर्गस्यानुमानादेव सिद्धे: । तथापि गामाभ्याज दण्डेति पदानि वैदिकपदानि वा तात्पय्र्यविषयस्मारितपदार्थसंसर्गज्ञानपूर्वकाणि आकाङ्क्षादिमत्पदकदम्बत्वात् घटमानयेतिवत् । योग्यतासत्तिमत्त्वे सति संसृष्टार्थपरत्वात् तत्परसन्निमत्त्वाद्देति न हेतु:, संसृष्टोहि योऽर्थस्तत्परत्वं तत्परसन्निधिमत्त्वं वा असिद्धं संसंर्गस्य प्रागप्रतीते:। संसृंष्टत्वप्रकारकप्रतीतिपरत्वं तत्प्रकारकप्रतीतिपरसन्निधिमत्त्वं वा अनाप्तोक्ते निराकाङ्क्षे च व्यभिचारि । संसर्गस्य बहुप्रकारकत्वेऽपि नानाभिमतसंसर्गसिद्धिस्तस्य तात्पय्र्याविषयत्वात् । अन्यथा शब्दादप्यभिमतान्वयबोधो न स्यात् । अत एव विशेषण-विशेष्यभाववदर्थकानि तद्बोधपूर्वकाणि वेति न साध्यम् ।

यत्तु स्मारितार्थसंसर्गवन्तोति साध्यं, मत्वर्थश्र्च लिङ्गतया ज्ञापकत्वं । न चान्योन्याश्रय:, पूर्वपूर्वानुमितिहेतुत्वेन अनादित्वात् । तन्न । ज्ञापकत्वमात्रेणार्थासिद्धे: । प्रमापकत्वे तेनैव व्यभिचारात् । ज्ञानावच्छेदकतया च संसर्गसिद्धि: ज्ञानज्ञानस्य तद्विषयविषयकत्वनियमात् ।

संसर्गे च सम्बन्धिन एव विशेषकत्वात् । पक्षधर्मताबलात् व्यपकत्वेनागृहीतस्यापि संसर्गविशेषस्य सिद्धि: । अथैवं भ्रान्तिज्ञानमपि भ्रम: स्यात् । न चेष्टापत्ति:., ईश्वरस्यापि भ्रान्तत्वापत्ते: । इदं रजतमिति भ्रमादिव शुक्तौ रजतज्ञानवानयमिति भ्रमस्य ज्ञानात् भ्रान्तिज्ञप्रवृत्त्यापत्तेश्र्च । यत्तु भ्रमविषयकत्वेन न प्रमत्वं भ्रमविषयाणां सिद्ध्य्यसिद्धिपराहतत्वात् इति, तच्च वक्ष्याम: । मैवं, असद्विषयकत्वेन न भ्रमत्वं भ्रमविषयाणां सत्त्वात् किन्तु व्यधिकरणप्रकारकतत्वेन । न च भ्रमस्य ज्ञाने व्यधिकरणं प्रकार:, रजतत्वप्रकारकत्व भ्रमेऽपि सत्त्वात् अन्यथा भआन्त्युच्छेद: प्रमाणाभावात् । ननु प्रकारकवाक्ये व्यभिचार: विशेषदर्शनेन तच्च संसर्गज्ञानाभावात् । न च संसर्गमप्रतीत्य वाक्यरचना न सम्भवतीत्याहाय्र्यं तस्य संसर्गज्ञानं सम्भवतीति वाच्यम् । तावत्पदज्ञानादेव एकस्येव वाक्यरचनोपपत्ते: । अन्यच्चापि तस्यैव तन्त्रत्वादिति चेत् , न, एतद्वाक्यमेतस्य पदार्थसंसर्गं बोधयिष्यतीत्याशयेन वाक्यप्रयोगात् तस्यापि संसर्गज्ञानात् योग्यताविरहाच्च । अत एव विसम्बादिवाक्ये एकवदुच्चरिते न व्यभिचार: । शब्दात् संसर्गप्रत्ययस्तु योग्यताभ्रमात् । अथ संसर्गज्ञानं विना एकस्यान्यस्य वा सम्बादिवाक्ये भ्रान्तप्रकारकवाक्ये च व्यभिचार: कथं वा तच्च संसर्गप्रमा वक्तृज्ञानानुमानासम्भवादिति चेत् न । यदि तच्च संसर्गप्रमा तदा वेदतुल्यतेत्युक्तम् । आकाङ्क्षा - योग्यतासत्तिश्र्च ज्ञातोपयुज्यते, अन्यथा शाब्दभ्रमानुपपत्तेरिति । उच्यते । अर्थज्ञानं प्रवत्र्तकं न तु तज्ज्ञानज्ञानं गौरवात् व्यभिचाराच्च, अतो रजतविषयकमिति चेत् सत्यं, न तु रजतत्वप्रकारकं प्रवत्र्तकञ्च तथा, तदुभयसङ्करापत्तिश्र्च । एतेन लक्षणाद्यनुरोधात्तात्पय्र्यग्रहो वाक्यर्थधीहेतु: तात्पर्यञ्च पदार्थसंसर्गविशेषप्रतीत्युद्धेश्यकत्वं, तथाच तद्ग्राहकानुमानादेव तात्पर्यज्ञानावच्छेदकतया संसर्गसिद्धिरित्यपास्तम् । किञ्च व्यापकतावच्छेदकप्रकारिकानुमितिरत: स्मारिपदार्थसंसर्गज्ञानपूर्वकाणीति तस्मात् प्रवत्र्तकं ज्ञानं शब्दादेव। अत एव प्रवृत्त्यर्थमनुवादकता शब्दस्येत्यपास्तं । शाब्दानुमित्योर्भिन्नप्रकारकत्वात् एकविषयत्वाभावेन स्तात्पर्यविषयमिथःसंसर्गवन्त: आकाङ्क्षादिमत्पदस्मारितत्वात् योग्यतासत्तिमत्त्वे सति ससंर्गपरपदस्मारितत्वाद्वा, अनाप्तोक्ते योग्यताविरहात् न व्यभिचार:, तच्च बाधकसत्त्वात्, तज्जन्यज्ञानस्य भ्रमत्वात् एकाकारवाक्यस्यापि बाधकसत्त्वासत्त्वाभ्यां योग्यायोग्यत्वात् । अथ प्रतिपत्तुर्जिज्ञासां प्रति योग्यता सा च श्रोतरि तदुत्पाद्यसंसर्गावगमप्रागभावरूपाकाङ्का बाधकप्रमाविरहा योग्यता अव्यवहितसंसर्गप्रतियोगिज्ञानमासत्ति: ताश्र्च स्वरूपसत्यो हेतवो । न तु ज्ञाता: गौरवात् तद्बोधं विनाऽन्वयानुभवे विलम्बाभावात् संसर्गनिरूप्यत्वेन प्रथमं दुरवधारणत्वाच्चेति न तानि लिङ्गविशेषणानेति चेत्, न, योग्यतादिशून्यत्वेऽपि तदभिमानेन संसर्गप्रत्ययादन्यथा शाब्दभासोच्छेदप्रसङ्ग: । राजा पुत्रमाकाङ्क्षति पुरुषं वेति संशये विपर्यये च वाक्यार्थधीप्रतिबन्धाच्च, योग्यतायाश्र्च संशयसाधारणं ज्ञानमात्रं हेतु:, स्व- परबाधकप्रमाविरह: क्वचित् निश्र्चीयतेऽपि यथेह घटो नस्तीत्यच्च स्वयोग्यानुपलब्धा घटाभावनिश्र्चयेनान्यसस्यापि घटप्रमाविरहो निश्र्चीयते । क्वचिद्बाधकप्रमामात्रविरहसंशयेऽप्यन्वयबोध: बाधसंशयस्यादूषणत्वात् । किञ्च तवापि योग्यतादिकं प्रमाण्ये प्रयोजकं आप्तोक्तत्वस्य तथात्वे गौरवात् अनाप्तोऽक्तेऽपि संवादेन प्रमाण्याच्च । एवञ्च ज्ञायमानकरणे प्रमाण्यप्रयोजनकतया ज्ञानमावश्यकमिति तासां ज्ञानं हेतु:, तच्च समभिव्याहारविशेषादिनेति । मैवं । यत्र विमलं जलं इत्यश्रुत्वैव नद्या: कच्छे महिषश्र्चरतीति श्रृणोति तत्राकाङ्कादिकमस्ति । न च नदौ-कच्छयो: संसर्ग इति, व्यभिचारात् । अत एव तन्मात्रं प्रयोजकं प्रमाण्ये । अथ यावात्समभिव्याह्मतेत्यपि लिङ्गविशेषणं कतिपयपदस्मारिणस्तु संसर्गप्रत्ययोलिङ्गाभिमानादिति चेत् । न । तत्सन्देहेऽपि वाक्यार्थावगमात् । तत्र संसर्गभ्रान्तिरिति चेत् न । अन्यकारणाभावेन पदमेव भ्रान्तिजनकं तथाचादुष्टं सत्तदेवाभ्राÏन्त जनयत् केन वारणी#ायम् । असंसर्गाग्रहस्तचेति चेत् । न । संसर्गे बाधकाभावात् । अथाप्तोक्तत्वं लिङ्गविशेषणं तदेव वा लिङ्गम् । न च नदी- कच्छयो: संसर्गे आप्तोक्तत्वं, आप्तोक्तत्वञ्च प्रमाण्ये तन्त्रमिति तद्धत्तया ज्ञायमानस्य हेतुत्वेन तत्र ज्ञानमावशयकं व्याप्तिमत्तया ज्ञातस्येव लिङ्गस्य, तदवगमश्र्च लोके भ्रमाद्यमूलकतया महाजनपरिग्रहेण वेदे स्मृतौ चेति चेत् । न । यत्र कुत्रचिदाप्तत्वमनाप्तस्यापि सर्वचाप्तमप्रमितं, भ्रान्ते: पुरुषधर्मत्वात् प्रकृतवाक्यार्थयथार्थज्ञानवत्त्वञ्चाप्तत्वं प्रथमं दुग्रॅहं, भ्रमाद्यमूलकत्वस्य प्रवृत्तिसंवादादेश्र्च तद्ग्राहस्याज्ञानात् प्रवृत्तिश्र्च सन्देहादपि । किञ्च पकृतसंसर्गे अयमाभ्रान्तो यथार्थज्ञानवान्वेति संसर्गमप्रतीत्य ज्ञातुमशक्यं वाक्यार्थस्यापूर्वत्वात् । वयन्तु बूम: बाधकप्रमाणाभावो योग्यता सा च न लिङ्गविशेषणं बाधकप्रमाणमात्रविरहस्य सर्वत्र निश्र्चातुमशक्यत्वात् , तत्संशयेऽपि शब्दादन्वयबोधाच्च, शब्दप्रामाण्ये तु योग्यताया: संशय-निश्र्चयसाधारणं ज्ञानमात्रं प्रयोजकमिति शब्द: प्रमाणमिति ।

जरन्मीमांसकास्तु लोके वक्तृज्ञानानुमानात्तदुपजीवसंसर्गानुमानाद्वा वाक्यर्थसिद्धो#ै शब्दस्यानुवादकत्वं वेदे तु तदभावात् स्वातन्त्र्#ेण प्रामाण्यमिति वदन्ति । तन्न । वेदे क्तृप्तसामग्री#ातो लोकेऽपि संसर्गप्रत्ययादन्यथानुवादकतापि न स्यात् लिङ्गस्य पूर्वत्वेऽपि व्याप्तिस्मृतिविलम्बेन तद्विलम्बात् । अनाप्तोक्तौ व्यभिचारात् वेदतुल्यापि सामग्रौ न निश्र्चायिकेति चेत् । न । चक्षुरादेस्तथात्वेन तच्छङ्कायामपि प्रमापकत्वात् । ज्ञायमानं करणं सन्देहे न निश्र्चायकं लिङ्गवदिति चेत् । न । संशयो हि न वाक्ये तस्य निश्र्चयात्, न तज्जनयज्ञानप्रमाण्ये तस्य तदुत्तरकालीनत्वात् , नाप्तोक्तत्वे तन्निश्र्चयस्यानङ्गत्व् । ननु लोके आप्तोक्तत्वसन्देहे वाक्यार्थधीर्नेति तन्निश्र्चयोहेतु: तथा च वाक्यार्तगोचरयथार्थज्ञानअन्यत्वग्राहकात् । तदुपजीविनोऽनुमानात् वाक्यर्थधीरिति चेत् । न । वेदेतद्रहितस्यापि सामथ्र्यावधारणात् तदनिश्र्चयेऽपि वेदानुकारेण पठमानमन्वादिवाक्येऽपौरुषेयत्वाभिमानि नोगौडमीमांसकस्यार्थनिश्र्चयात् । न चासौ भ्रान्ति:, बाधकाभावात् पौरुषेयत्वनिश्र्चयदशायामपि तस्य तथात्वात् ।

न चासंसर्गाग्रहमात्रं तत् अर्थस्य तथाभावेऽपि असंसर्गाहत्वे संसर्गोच्छेदापत्ते: । न चाप्तोक्तत्वन्निश्र्चयरूपकारणाबाधात् संसर्गज्ञानबाध:, व्यभिचारेण हेतुतायामेव बाधात् लौकिकत्वेन ज्ञाते तदङ्गमिति चेत् । न । मानाभावात् वाक्यार्थस्यापूर्वत्वेन लिङ्गाभावेन तद्ग्रहासम्भात् । यदि चापौरुषेयत्वनिश्र्चये सत्येव वेदादर्थप्रत्यय: तदा दोषवत्पुरुषाप्रणीतत्वे सत्याकाङ्क्षादिमत्पदस्मारितत्वेन वेदे पदार्थसंसर्गसिद्धिरस्त्विति वेदेऽप्युनुवादक: स्यात् । तदुक्तं, व्यस्तपुंदूषणाशङ्कै: स्मारिततत्वात् पदैरमी । अन्विता इति निर्णीते वेदस्यापि न तत् कुत: । न चैवं शब्दस्य प्रमाणत्वमपि, अनुमानादेव वाक्यर्थप्रमोत्पत्तेरिति ।

प्राभाकरास्तु व्यभिचारिशब्दव्यावृत्तमव्यभिचार्यनुगतप्रमाप्रयोजकमुपेयं यदभावादनाप्तोक्तवाक्यादप्रमा अन्यथा कार्यवैचित्र्यं न स्यात्, तच्च ज्ञातमुपयुज्यते ज्ञामानकरणे ज्ञनोपयोगिव्यभिचारिवैलक्षण्यत्वात् प्रमाहेतुत्वाद्वा व्याप्तिवच्छब्दशक्तिवच्चेति, अन्यथा शब्दाभासोच्छेदप्रसङ्ग: । न चाप्तोक्तत्वं तथा, संवादात् प्रमाणे शुकोदीरिते भ्रान्तप्रतारकसंवादिवाक्ये वेदे च तदभावादाप्तोक्तत्वानुमाने व्यभिचारिव्यावृत्तलिङ्गाभावाच्च । भावे वा तद्वत एव शब्दस्य प्रत्यायकत्वात् ।

एतेनाप्रमाहेतुत्वं न भ्रम-पमाद-विप्रलिप्सा -

करणापटवानां परस्परं व्यभिचारात् मिलितस्याव्यापकत्वात् । किन्त्वाप्तोक्तत्वाभावस्याप्रमाहेतुत्वं तदभावश्र्चाप्तोक्तत्वं प्रमाहेतुरित्यपास्तं । आप्तोक्तत्वस्य प्रथमं लिङ्गाभावेन ज्ञातुमशक्यत्वात् । अत एव व्यभिचारशङ्काविरहो हेतु: सा च लोके भ्रमादिमूलेत्याप्तोक्तत्वानुमानादुच्छिद्यते, वेदे च पौरुषेयत्वनिश्र्चयेनेति निरस्तं । अभिमतवाक्यार्थस्यापूर्वत्वेन साध्याप्रसिद्धे: वेदे सदोषपुरुषाप्रणीतपदस्मारितत्वेन संसर्गसिद्धेरनुवादकतापत्तेश्र्च । नापि दोषाभाव: भ्रान्तप्रतारकवाक्यजन्यज्ञाने प्रत्यक्षेणागृहीतसंवादे तदभावात् । दोषभावस्य हेतुत्वात् तत्र वाक्यं मूकमेव व्यवहारस्तु प्रत्यक्षादिति चेत् । न । अनुभवापलापापात् तद्धेतुत्वे विवादात् वेदेऽप्यनुवादकतापत्तेश्र्च । किञ्च दोषाभावस्य प्रमाहेतुत्वेऽप्रमायां दोष: कारणं तस्य च प्रत्येकं हेतुत्वे व्यभिचार: मिलितस्य तत्त्वे एकस्मादप्रमा न स्यात् भ्रमादीनां प्रत्येकं दोषत्वेऽननुगम: मिलितस्य तु तत्त्वे एकस्मादप्रमानुदयप्रसङ्ग: । तस्मात् लाघवात् यथार्थतात्पर्यकत्वं शाब्दप्रमाप्रयोजकं तच्च यथार्थवाक्यर्थवाक्यर्थप्रतीतिप्रयोजनकत्वं लोक-वेदसाधारणं तदभावादप्रमा स एव दोष:, न हि जात्यैव कश्र्चिद्दोष:, तद्विघातकत्वाच्च भ्रमादीनां दोषत्वं । अत एव भ्रान्तप्रतारकवांक्यं शुकादिवाक्यञ्च प्रमाणं संवादात् । अत एवान्यघटाभिप्रायेण गेहे घटोऽस्तीत्युक्ते यत्र धटान्तरं दृष्ट्वा तमानयति तत्रान्यपरत्वाच्छब्दो न प्रमाणं व्यवारस्तु प्रत्यक्षादेव यष्टी: प्रवेशयेति च मुख्यार्थबोधे तच्च तात्पर्यं ज्ञातमुपयुज्यते ज्ञायमानकरणे ज्ञानोपयोगिव्यभिचारिवैलक्षण्याद्व्याप्तिवच्छक्तिवच्च, अन्यथा अन्यपरादन्यान्वयबोधोन स्यात् इति शब्दाभासोच्छेदप्रसङ्ग:, तदभ्रमाच्च शाब्दभ्रम: । अत एव यष्टी: प्रवेशयेत्यच लक्षणा नानार्थे विनिगमना च तयोस्तात्पर्यग्रहमूलकत्वात् । यदि च यत्र वास्तवं तात्पर्यं तं शाब्दोबोधयति तदा लक्षणानां मुख्यार्थान्वयानुपपत्त्युपयोगो न स्यात् । अत एव पचतीत्युक्तेऽयोक्तेन स्वयं स्मृतेन वा कलायपदेनोपस्थिते कलायं पचतीत्यन्वयबोधो न भवति तात्पर्यानिश्र्चयात् । न च तात्पर्यग्राहकस्य प्रकरणादे: प्राथम्यादावश्यकत्वाच्च शब्दसहकारिता न तु तात्पर्यग्रहस्येति वाच्यम् । तेषामननुगतत्वेन परस्परव्यभिचारादहेतुत्वात् तात्पर्यग्राहकतात्वननुगतानामपि व्याप्यत्वात् धूमादीनामिव । तच्च तात्पर्य वेदे न्यायगम्यं, यत्र न्यायात् तात्पर्यमवधार्यते स एव वेदार्थ:, लोके च न केवलं न्यायानुसारि तात्पर्यं इति न न्यायगम्यं किन्तु पुमभिप्रायनियन्त्रितं, न्यायाविषयेऽपि पुरुषेच्छाविषये प्रतीतिजनकत्वात् पुंवचसां । वक्ता च परकीयवाक्यार्थज्ञानोत्पादनेच्छाया वाक्यमुच्चारयति । सा चेच्छा यदि वक्त्रुर्यथार्थवाक्यार्थज्ञानपूर्विका भवति तदैव परं तदुच्चारणस्य तदैव परं तदुच्चारणस्य पुमभिप्रेतयथार्थवाक्यार्थज्ञानपरत्वं यथार्थज्ञानेच्छाव्याप्यं निर्वहतीति वक्तुर्यथार्थवाक्यार्थज्ञानवत्तामविज्ञाय यथार्थप्रतीतिपरत्वं ज्ञातुं न शक्यत इति प्रथममाप्तवाक्याद्वक्तृज्ञानानुमानपूर्वकमर्थतथात्वमनुसन्धाय यथार्थप्रतीतिपरत्वं ज्ञातुं न शक्यत इति प्रथममाप्तवाक्याद्वक्तृज्ञानानुमानपूर्वकमर्थतथात्वमनुसन्धाय यथार्थतात्पर्यनिश्र्चय: । अनुमानच्चेदं वाक्यं भ्रमादि-विशिष्टज्ञानयोरन्यतरजन्यं वाक्यत्वादिति । ततो भ्रमादिनिरासे सति परिशेषाद्वाक्यार्थज्ञानानुमानं अयं स्वप्रयुक्तवाक्यार्थर्यथार्थज्ञानवान् भ्रमाद्यजन्यवाक्यप्रयोक्तुत्वात् अहमिव, न त्वाप्तत्वात् साध्यविशेषात् । तत एते पदार्था यथोचितसंसर्गवन्त: यथार्थज्ञानविषयत्वात् आप्तोक्तपदस्मारितत्वाद्वा मंदुक्तपदार्थवदिति । ननु वक्तुज्र्ञानविशेषोऽनुमेय: ज्ञाने चार्थ एव विशेष: न त्वर्थाधीनोऽन्य: अर्थेनैव विशेष: इत्यौपचारिको तृतीया तथाच वाक्यार्थज्ञानविशेषोऽनुमेय: तस्य चाप्रसिद्ध्या न व्याप्तिग्रह: । अत एवास्मिन् वाक्यर्थे अयमभ्रान्त आप्तो वेति ज्ञातुमशक्यमिति शब्द एव तमर्यं बोधयेदिति चेत्, न, तात्पर्यावधारणार्थं त्वयाप्यशाब्दा एव संसर्गविशेषप्रतीतेरवश्याभ्युपेयत्वात् अन्यथा क्व तात्पर्यनिरूपणं । अत एव आप्तोत्कत्वभ्रमाद्यन्यत्वनिरूपणमपि सुकरं । शाब्दन्तु संसर्गज्ञानं प्रथमं न भवति ज्ञानान्तरन्तु भवत्येव। न चैवं शब्दो न प्रमाणं तदर्थस्य प्रागेव सिद्धेरिति वाच्यम् । तवापि तुल्यत्वात् । ननु तथापि कथमर्थविशेषसिद्धि: विशेषेण व्याप्त्यग्रहादिति चेत्#्#् । न । यथा यो यत्र प्रवत्र्तते स तज्ज्ञानातीति सामान्यतोव्याप्तिज्ञाने पाकादौ प्रवृत्तिदर्शनात् पाकविषयकार्यताज्ञानानुमानं, यथा चेष्टाविशेषदर्शनात् दशसंख्याभिप्रायमात्रज्ञाने घटे तच्चेष्टादर्शनात् घटे दशत्वज्ञानं तथा सामान्यतोव्याप्त्यावापि विशेषसिद्धि: ।

यद्वा इदं वाक्यं साकाङ्क्षैवतदर्थविषयकैकज्ञानहेतुकं आप्तोक्तत्वे सति एतदर्थप्रतिपादकत्वात् मद्वाक्यवत्, तत एते पदार्था: परस्परसंसर्गवन्त: साकाङ्कत्वे सत्येकज्ञानविषयत्वात् सत्यरजतज्ञानविषयवत्, एवं वक्तुर्यथार्थवाक्यार्थज्ञानेऽनुमिते प्रकरणादिना वक्त्रभिप्रेतयथार्थवाक्यार्थज्ञानेऽनुमिते प्रकरणादिना वक्त्रभिप्रेतयथार्थप्रतीतिपरत्वज्ञानं ततो वेदतुल्यतया शब्दादर्थप्रत्यय इत्यनुवादक शब्द: वक्तृज्ञानावच्छेदकतया संसर्गज्ञानानुमानात् तदुपजीविसंसर्गानुमानाद्वा वाक्यार्थस्य प्रागेव सिद्धे: । यत्तु संसर्गाग्रहो भ्रम: तदभावश्र्च संसर्गग्रह एवेति भमाभावेऽनुमीयमाने संसर्गज्ञानमेवानुमितं इत्याप्तत्वानुमानान्तर्गतमेव वक्तृज्ञानानुमानं न तु वक्तृज्र्ञानानुमाने तलिङ्गं इति । तन्न, भ्रमोहि ज्ञानद्वयं अगृहीतभेदं तदभावश्र्च गृहीतभेदज्ञानं, न हि ज्ञानाभावे सुषुप्तौ भ्रमव्यवहार:, ततो भ्रमाभावनिश्र्चयानन्तरं वक्तृज्ञानानुमानं, तर्हि यादृशं लिङ्गं तादृशमेव गमकमस्त्विति ।

अत्रोच्यते । यथार्थवाक्यर्थदीपरत्वं न ज्ञातं प्रमोत्पादकं गौरवात् वाक्यर्थनिरूप्यत्वेन प्रथमं ज्ञातमशक्यत्वाच्च तस्यापूर्वत्वात् । यच्च लोके भ्रमादि निरासानन्तरं वक्तृज्ञानाच्छेदकतया तदग्रे स्वातन्त्र्#ेण वा पुमभिप्रेतवाक्यार्थज्ञाने तत्प्रतीतिपरत्वं प्रकरणादिना ज्ञायत इत्युक्तं, तन्न, वाक्यार्थमज्ञात्वा अत्रायभ्रान्त इति ज्ञातुं पुरुषत्वाद्वक्तुभ्र्रम - प्रमादसम्भवेन प्रथमं भ्रमाद्यजन्यत्वस्य ग्रहीतुमशक्यत्वात् प्रवृत्तिसंवादादेज्र्ञानोत्तरकालीनत्वात् भ्रमादिजन्यविलक्षणत्वेन च शब्दस्याज्ञानात् ज्ञाने वा यादृशोलिङ्गत्वं तस्यैव प्रत्यायकत्वं अव्यभिचारात् वेदेऽपि वाक्यार्थमविज्ञाय तद्यथार्थप्रतीतिपरत्वं न्यायेनापि ज्ञातुमशक्यं विषयनिरूप्यत्वात् प्रतीते: लोके तात्पर्यनिरूपणार्थमशाब्दवाक्यार्थप्रतीते: प्रथमं त्वयापि स्वीकारात् । अन्यथा वक्तृज्ञानानुमानं न स्यात् । न च लोकवत्मानान्तरात्तदवगम:, वेदार्थस्य तदविषयत्वात् वेदस्य प्रथमं मूकत्वत्, न च न्यायसिद्धे वेदार्थे मानान्तरातात्पर्यग्रह:, वेदस्यानुवादकतापत्ते: शब्दस्याप्रमाणत्वापत्तेर्वा । अज्ञाते वाक्यर्थे तर्क - संशययोरप्यभावात् अयं पदार्थोऽपरपदार्थसंसृष्टो न वेति संशये तर्के वा एककोटौ संसर्ग उपस्थित इति चेत्, न, अनिश्र्चिते तात्पर्यानिश्र्चयात् तयोरगृहीततासंसर्गविषत्वेनासदर्थविषयकत्वेन वा वाक्यर्थाविषयत्वाच्च । अन्यथा लाकेऽपि ताभ्यामेवोपस्थितिरिति किं वक्तृज्ञानानुमानेन । वस्तुतस्तु यदि यथार्थतात्पर्यकत्वं ज्ञानं शब्दप्रमोत्पादकं तदा लोक-वेदयास्तादृशपदस्मारितत्वेन पदार्थसंसर्गानुमितिसम्भवात् न शब्द: प्रमाणं स्यात् । अपि च पुंवाक्यस्य दोष-विशिष्टज्ञानान्यतरजन्यत्वेऽनुमिते परिशेषाद्दोषाजन्यत्वनिश्र्चयदशायां वेदतुल्या सामाग्री पुंवाक्येऽपि वृत्तेति तत एवार्थनिश्र्चयात् वेदवत्तस्यापि प्रामाण्यं, अनुमितानुमानस्य व्याप्तिस्मृत्यादिविलम्बितत्वात् । एतेनाबाधितार्थपरत्वं लोके वेदे च प्रमापकं लोके वाक्यर्थो बाधितोऽपि दृष्ट इति श्रोतु: प्रमाणावतारं विना न बाधाभावनिश्र्चय: स च क्वचिच्छृतुरिन्द्रियेण क्वचिद्वक्तुराप्तत्वानुमानेन वेदे तु न्यायात्तन्निश्र्चय: तदर्थस्य प्रमाणान्तराविषयत्वात् न तत्र शङ्केति सामाग्रीभेद इति निरस्तं । प्रथमभ्रमाद्यभावस्याप्तस्य वा निश्र्चेतुमशक्यत्वात् वेदस्यानुवादकतापत्तेश्र्च । तस्मात् भ्रमाद्यजन्यत्वं आप्तोकत्वं अबाधितार्थकत्वं यथार्थतात्पर्यकत्वं निरस्तव्यभिचारशङ्कत्वं अन्यद्वा व्यभिचारिव्यावृत्तं यत्प्रमोत्पादकं तत् स्वरूपसत् न ज्ञातं । अन्यथा तादृशस्य वाक्यार्थाव्यभिचारितया तादृशपदस्मारितत्वात् लिङ्गादेव संसर्गसिद्धि: स्यादिति जितं वैशिषिकै: । अथ व्यवहारानुमितव्यवहत्र्तृकार्यान्वितज्ञाने उपस्थितत्वेन पदानां हेतुत्वग्रहादन्विताभिधायकत्वं तदानीं शब्दस्य लिङ्गत्वेनोनुपस्थितेरिति चेत् । न । लिङ्गाभावेनैव शब्दादन्वितज्ञानोपपत्तेर्नाकाङ्क्षादिमच्छब्देन कारणता गौरवात् । शब्दस्य लिङ्गत्वं सम्भवदपि बालेन न ज्ञातमिति चेत्, सोऽयं बालस्य दोषो न वस्तुन इत्यादि वक्ष्यते । किञ्चैवं लोकवद्वेदेऽपि अनुवादकता स्यात् । एतेन वाक्यार्थतात्पर्यग्राहकानुमानात् तात्पर्यावच्छेदकतया तदुपजीविनोऽनुमानात् स्वातन्त्र्#ेण वाक्यार्थसिद्धेर्न शब्द: प्रमाणमिति वैशेषिकमतपास्तम् । यथार्थतात्पर्यग्रहस्य वाक्यार्थबोधाहेतुत्वात् । यत्तु ज्ञायमानकरणे इति, तन्न, यथार्थतात्पर्यकत्वादे: प्रथमं ज्ञातुमशक्यत्वेनानुमानस्य बाधितत्वात् व्याप्त्यसिद्धेश्र्च । न हि व्याप्ति: शब्दशक्तिश्र्च कारणं, किन्तु तद्धी:, अतीतेऽनुमितिदर्शनात् । अपभ्रंशादौ शक्तिभ्रमादन्वयबोधाच्च । न च सैवापयुज्यत इति साध्यं, प्रथमं तदसम्भवात् । तस्मात् यत् अर्थाव्यभिचारित्वेन ज्ञातं कारणं तत्र व्यभिचारिवैलक्षण्यज्ञानमुपयुजन्यते अन्यथा शब्दस्यार्थव्यभिचारितया ज्ञातस्य ज्ञापकत्वे लिङ्गतापत्तेर्वज्जलेपायमानत्वात् । स्यादेतदनाप्तोक्ते बाधकेनार्थाभावदर्शनात् आकाङ्क्षादिमद्वाक्यत्वेन सदर्थकं बाधितार्थकं वेति संशयान्न तावन्मात्रादर्थनिश्र्चय:, न हि संशायकमेव निश्र्चायकं, इत्यधिकमपेक्षणीयमिति चेत् । न ।अर्थसंशयस्य तद्बाधसंशयस्य वा प्रमाणाप्रतिबन्धकत्वात् । वह्नि-तद्बाधयो: संशयेऽपि प्रत्यक्षानुमानादिना अर्थनिश्र्चयात् अन्यथा प्रमाणमात्रोच्छेद:, तत्पूर्वमर्थ-तद्बाधसंशयात् । विनाप्यर्थं वाक्यरचना

सम्भत्यत एतस्यायमर्थो न वा, एतत्सदर्थकं न वा, एतज्जन्यज्ञानं सद्विषयकं न वेति संशयस्यार्थावगमोत्तरकालीनत्वाच्च । तस्मादाप्तोक्तत्वं भ्रमाद्यजन्यत्वं अबाधितार्थकत्वं यथार्थवाक्यार्थप्रतीतिपरत्वं वा ज्ञातं अनुगतमपि न हेतु: प्रथमं ग्रहीतुमशक्यत्वात्, किन्तु तात्पर्यग्राहकत्वेनाभिमतानां न्यायजन्यज्ञान-प्रकरणादीनामन्यतरत् तात्पर्यव्याप्यत्वेनानुगतं, तथाकाङ्क्षासत्तिनिश्र्चय:, तद्विपर्यये संशये च शाब्दज्ञानाभावात् । योग्यतायाश्र्च ज्ञानमत्रं हेतु: तत्संशये विपर्यये प्रमायाञ्च वाक्यार्थज्ञानात् , तथा विभक्त्#ायदिसमभिव्याहर: सम्भूयोच्चारणञ्च शाब्दज्ञानमात्रे कारणानि नानार्थे श्र्लिष्टे चानेकोपस्थितावपि प्रकरणादिवशादेकमर्थमादयान्वयबोध: । लक्षणा च न तात्पर्यानुपपत्त्या किन्त्वन्वयानुपपत्त्यैव प्रकरणाद्भोजनप्रजनकत्वेनावगतप्रवेशनस्य यष्ट¬न्वयानुपपत्ते: । अजहत्स्वार्थायां प्रकरणादेव छत्रि तदितरस्य यान्तीत्यनेन गमनकत्र्तृत्वमवगतं तदन्वयानुपपत्तिच्छत्रिमात्रे, पचतीत्यस्य कलायमित्यन्योक्तेन समं नार्थप्रत्याकत्वं समभिव्याहाराभावात्, तवापि तस्य तात्पर्यग्राहकत्वात् सहोच्चरितानां सम्भूयार्थप्रत्यायकत्वस्य व्युत्पत्तिसिद्धत्वात् ।

अन्ये तु नानार्थे लक्षणायाञ्च नियतोपस्थित्यर्थं पदार्थे तात्पर्यग्रहापेक्षा तेन विना तदभावात् न वाक्यार्थे, तदज्ञानेऽपि प्रकरणादिना सैन्धवपदं तुरगपरं काकपदं उपघातकपरमिति हि प्रतियन्ति । अन्यत्रान्वयप्रतियोग्युपस्थिति: तात्पर्यग्रहं विनैवेति न तदपेक्षा । वस्तुतस्तु इतरपदस्य इतरपदार्थसंसर्गज्ञानपरत्वं तात्पर्यं तच्च वेदे न्यायादवधार्यते लोके न्यायात् प्रकरणादेर्वा । अत एव शाब्दबोधे नानियतहेतुकत्वं तच्चेतरपदार्थसंसर्गज्ञानं वाक्यर्थज्ञानमेवेति सामान्यकारेण तत्परत्वग्रह: हेतुर्न तु विशिष्य, तच्च स्वपरपदार्थयो: संसर्गानुभवजननं विना अनुपपन्नमिति पदानि सम्भूय जनयन्ति, अत एव नानार्थे विनिगमना, तदनुपपत्तिरेव लक्षणाबीजं तदभावादेव पचतिपदे न स्मृतकलायान्वयबोध इति सिद्धं शब्दस्य प्रमाणान्तरत्वं । तस्य च निराकाङ्क्षादौ संसर्गज्ञानाजनकत्वात् आङ्क्षादिकं सहकारीति ।