तत्त्वचिन्तामणिः/शब्दखण्डः

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
तत्त्वचिन्तामणौ शब्दखण्डः
अथ शब्दो निरूप्यते। प्रयोगहेतुभूतार्थतत्त्वज्ञानजन्यः शब्दः प्रमाणम्।

ननु शब्दो न प्रमाणम्। तथाहि- -करणविशेषः प्रमाणम्। करणञ्च तत् यस्मिन् सति क्रिया भवत्येव। न च शब्दे सति प्रमा भवत्येवेति नायं शब्दः प्रमाणम्। न
च शब्दो न प्रमाणमिति वाक्यस्य प्रामाण्याप्रामाण्ययोर्व्याघातः, अस्याप्रामाण्येऽपि एतदुत्थाप्यमानाविसंवादादिति चेत्, न। आकाङ्क्षादिमतः पदार्थस्मरणादिव्यापारवतः
प्रमाणत्वेन तथाभूतात् प्रमोत्पत्तेरावश्यकत्वात्। अतथाभूतत्वे च फलाजनकत्वस्य करणान्तरसाम्यात्।

तथापि शब्दो न प्रमाणान्तरं पदार्थसंसर्गस्यानुमानादेव सिद्धेः। तथाहि- -गामभ्याज दण्डेनेति पदानि वैदिकपदानि वा तात्पर्यविषयस्मारितपदार्थसंसर्गज्ञानपूर्वकाणि
आकाङ्क्षादिमत्पदकदम्बत्वात् घटमानयेतिवत्। योग्यतासत्तिमत्त्वे सति संसृष्टार्थपरत्वात् तत्परसन्निधिमत्त्वाद्वेति न हेतुः। संसृष्टो हि योऽर्थस्तत्परत्वं तत्परसन्निधिमत्त्वं वा
असिद्धं, संसर्गस्य प्रागप्रतीतेः। संसृष्टत्वप्रकारकप्रतीतिपरत्वं तत्प्रकारकप्रतीतिपरसन्निधिमत्त्वं वा अनाप्तोक्ते निराकाङ्क्षे च व्यभिचारि। संसर्गस्य बहुप्रकारकत्वेऽपि
नानभिमतसंसर्गसिद्धिः तस्य तात्पर्र्यविषयत्वात्। अन्यथा शब्दादप्यभिमतान्वयबोधो न स्यात्। अत एव विशेषणविशेष्यभाववदर्थकानि तद्बोधपूर्वकाणि वेति न साध्यम्।
यत्तु  स्मारितार्थसंसर्गवन्तीति साध्यम्। मत्वर्थश्च लिङ्गतया ज्ञापकत्वम्। न चान्योन्याश्रयः, पूर्वपूर्वानुमितिहेतुत्वेन अनादित्वात्।  तन्न। ज्ञापकत्वमात्रेणार्थासिद्धेः।
प्रमापकत्वे तेनैव व्यभिचारात्। ज्ञानावच्छेदकतया च संसर्गसिद्धिः ज्ञानज्ञानस्य तद्विषयविषयकत्वनियमात्। संसर्गे च सम्बन्धिन एव विशेषकत्वात्। पक्षधर्मताबलात्
व्यापकत्वेनागृहीतस्यापि संसर्गविशेषस्य सिद्धिः।

अथैवं भ्रान्तिज्ञानमपि भ्रमः स्यात्। न चेष्टापत्तिः, ईश्वरस्यापि भ्रान्तत्वापत्तेः। इदं रजतमिति भ्रमादिव शुक्तौ रजतज्ञानवानयमिति भ्रमस्य ज्ञानात् भ्रान्तिज्ञप्रवृत्त्यापत्तेश्च।
यत्तु भ्रमविषयविषयकत्वेन न भ्रमत्वं भ्रमविषयाणां सिद्ध्यसिद्धिपराहतत्वात् इति, तत्र वक्ष्यामः।  मैवम्  , असद्विषयकत्वेन न भ्रमत्वं भ्रमविषयाणां सत्त्वात्। किन्तु
व्यधिकरणप्रकारकत्वेन। न च भ्रमस्य ज्ञाने व्यधिकरणं प्रकारः, रजतत्वप्रकारकत्वस्य भ्रमेऽपि सत्त्वात् । अन्यथा भ्रान्त्युच्छेदः प्रमाणाभावात्।
ननु  प्रतारकवाक्ये व्यभिचारः विशेषदर्शनेन तत्र संसर्गज्ञानाभावात्। न च संसर्गमतीत्य वाक्यरचना न सम्भवतीत्याहार्यं तस्य संसर्गज्ञानं सम्भवतीति वाच्यम्।

114

तावत्पदज्ञानादेव शुकस्येव वाक्यरचनोपपत्तेः। अन्यत्रापि तस्यैव तन्त्रत्वादिति चेत्, न। एतद्वाक्यमेतस्य पदार्थसंसर्गं बोधयिष्यतीत्याशयेन वाक्यप्रयोगात् तस्यापि
संसर्गज्ञानात् योग्यताविरहाच्च। अत एव विसम्वादिवाक्ये शुकवदुच्चरिते न व्यभिचारः । शब्दात् संसर्गप्रत्ययस्तु योग्यताभ्रमात्।
अथ संसर्गज्ञानं विना शुकस्यान्यस्य वा सम्वादिवाक्ये भ्रान्तप्रतारकवाक्ये च व्यभिचारः कथं वा तत्र संसर्गप्रमा वक्तृज्ञानानुमानासम्भवादिति चेत्, न। यदि तत्र
संसर्गप्रमा तदा वेदतुल्यतेत्युक्तम्। आकाङ्क्षा योग्यता आसत्तिश्च ज्ञातोपयुज्यते। अन्यथा शाब्दभ्रमानुपपत्तेरिति।

उच्यते। अर्थज्ञानं प्रवर्र्तकम्। न तु तज्ज्ञानज्ञानम्, गौरवात् व्यभिचाराच्च। अतो रजतज्ञानवानयमिति ज्ञानं न प्रवर्र्तकम् । किन्त्विदं रजतमिति ज्ञानम्। इदमपि
ज्ञानं रजतविषयकमिति चेत् , सत्यम्। न तु रजतत्वप्रकारकं प्रवर्तकञ्च तथा। अन्यथा भ्रान्तस्येव भ्रान्तिज्ञस्यापि प्रवृत्तिप्रसङ्गः तदुभयसङ्करापत्तिश्च ।  एतेन
लक्षणाद्यनुरोधात्तात्पर्यग्रहो वाक्यार्थधीहेतुः। तात्पर्यञ्च पदार्थसंसर्गविशेषप्रतीत्युद्देश्यकत्वम्। तथाच तद्ग्राहकानुमानादेव तात्पर्यज्ञानावच्छेदकतया संसर्गसिद्धिरित्यपास्तम्।
किञ्च व्यापकतावच्छेदकप्रकारिका अनुमितिः। अतः स्मारितपदार्थसंसर्गज्ञानपूर्वकाणीत्यनुमितिः स्यात् , न तु रजतज्ञानपूर्वकाणीति । तस्मात् प्रवर्तकं ज्ञानं शब्दादेव।
अत एव प्रवृत्त्यर्थमनुवादकता शब्दस्येत्यपास्तम्। शाब्दानुमित्योर्भिन्नप्रकारकत्वात् एकविषयत्वाभावेन अननुवादकत्वात् तस्यैव प्रमाणत्वात्।
नन्वेते पदार्थास्तात्पर्यविषयमिथःसंसर्गवन्तः आकाङ्क्षादिमत्पदस्मारितत्वात् योग्यतासत्तिमत्वे सति संसर्गपरपदस्मारितत्वाद्वा। अनाप्तोक्ते योग्यताविरहात् न
व्यभिचारः। तत्र बाधकसत्त्वात्, तज्जन्यज्ञानस्य भ्रमत्वात् एकाकारवाक्यस्यापि बाधकसत्त्वासत्त्वाभ्यां योग्यायोग्यत्वात्। अथ प्रतिपत्तुर्जिज्ञासां प्रति योग्यता। सा च
श्रोतरि तदुत्पाद्यसंसर्गावगमप्रागभावरूपाकाङ्क्षा। बाधकप्रमाविरहो योग्यता। अव्यवहितसंसर्गप्रतियोगिज्ञानमासत्तिः। ताश्च स्वरूपसत्यो हेतवो न तु ज्ञाताः, गौरवात् ।
तद्बोधं विनाऽन्वयानुभवे विलम्बाभावात् संसर्गनिरूप्यत्वेन प्रथमं दुरवधारणत्वाच्चेति न तानि लिङ्गविशेषणानीति चेत् , न। योग्यतादिशून्यत्वेऽपि तदभिमानेन
संसर्गप्रत्ययात्। अन्यथा शाब्दाभासोच्छेदप्रसङ्गः। राजा पुत्रमाकाङ्क्षति पुरुषं वेति संशये विपर्यये च वाक्यार्थधीप्रतिबन्धाच्च। योग्यतायाश्च संशयसाधारणं ज्ञानमात्रं
हेतुः। स्वपरबाधकप्रमाविरहः क्वचित् निश्चीयतेऽपि। यथेह घटो नास्तीत्यत्र स्वयोग्यानुपलब्ध्या घटाभावनिश्चयेनान्यस्यापि घटप्रमाविरहो निश्चीयते। क्वचित्
बाधकप्रमामात्रविरहसंशयेऽप्यन्वयबोधः बाधसंशयस्यादूषणत्वात्। किञ्च तवापि योग्यतादिकं प्रामाण्ये प्रयोजकम्। आप्तोक्तत्वत्य तथात्वे गौरवात् । अनाप्तोक्तेऽपि
संवादेन प्रामाण्याच्च। एवञ्च ज्ञायमानकरणे प्रामाण्यप्रयोजकतया ज्ञानमावश्यकमिति तासां ज्ञानं हेतुः। तच्च समभिव्याहारविशेषादिनेति।
मैवम्  । यत्र विमलं जलं इत्यश्रुत्वैव नद्याः कच्छे महिषश्चरतीति शृणोति तत्राकाङ्क्षादिकमस्ति। न च नदीकच्छयोः संसर्ग इति, व्यभिचारात्। अत एव न
तन्मात्रं प्रयोजकं प्रामाण्ये। अथ यावत्समभिव्याहृतेत्यपि लिङ्गविशेषणं कतिपयपदस्मारिणस्तु संसर्गप्रत्ययो लिङ्गाभिमानादिति चेत्, न। तत्सन्देहेऽपि वाक्यार्थावगमात्।
तत्र संसर्गभ्रान्तिरिति चेत् , न। अन्यकारणाभावेन पदमेव भ्रान्तिजनकम्। तथाचादुष्टं सत्तदेवाभ्रान्तिं जनयत् केन वारणीयम्। असंसर्र्गाग्रहस्तत्रेति चेत् , न। संसर्गे
बाधकाभावात्। अथाप्तोक्तत्वं लिङ्गविशेषणम्। तदेेव वा लिङ्गम्। न च नदीकच्छयोः संसर्गे आप्तोक्तत्वम्। आप्तोक्तत्वञ्च प्रामाण्ये तन्त्रमिति तद्वत्तया ज्ञायमानस्य
हेतुत्वेन तत्र ज्ञानमावश्यकं व्याप्तिमत्तया ज्ञातस्येव लिङ्गस्य। तदवगमश्च लोके भ्रमाद्यमूलकतया महाजनपरिग्रहेण वेदे स्मृतौै चेति चेत् , न। यत्र कुत्रचिदाप्तत्वमनाप्तस्यापि।
सर्वत्राप्तत्वमप्रमितम्। भ्रान्तेः पुरुषधर्मत्वात् । प्रकृतवाक्यार्थयथार्थज्ञानवत्त्वञ्चाप्तत्वं प्रथमं दुर्ग्रहम्, भ्रमाद्यमूलकत्वस्य प्रवृत्तिसंवादादेश्च तद्ग्राहकस्याज्ञानात् । प्रवृत्तिश्च
सन्देहादपि। किञ्च प्रकृतसंसर्गे अयमभ्रान्तो यथार्थज्ञानवान्वेति संसर्गमप्रतीत्य ज्ञातुमशक्यं वाक्यार्थस्यापूर्वत्वात्।

वयन्तु ब्रूमः- -बाधकप्रमाणाभावो योग्यता सा च न लिङ्गविशेषणं बाधकप्रमाणमात्रविरहस्य सर्वत्र निश्चेतुमशक्यत्वात् । तत्संशयेऽपि शब्दादन्वयबोधाच्च ।
शब्दप्रामाण्ये तु योग्यतायाः संशयनिश्चयसाधारणं ज्ञानमात्रं प्रयोजकमिति शब्दः प्रमाणमिति।

जरन्मीमांसकास्तुलोके वक्तृज्ञानानुमानात्तदुपजीविसंसर्गानुमानाद्वा वाक्यार्थसिद्धौ शब्दस्यानुवादकत्वम्। वेदे तु तद्भावात् स्वातन्त्र्येण प्रामाण्यमिति  वदन्ति।
तन्न। वेदे क्लृप्तसामग्रीतो लोकेऽपि संसर्गप्रत्ययादन्यथानुवादकतापि न स्यात् लिङ्गस्य पूर्वत्वेऽपि व्याप्तिस्मृतिविलम्बेन तद्विलम्बात्। अनाप्तोक्तौ व्यभिचारात्
वेदतुल्यापि सामग्री न निश्चायिकेति चेत् , न। चक्षुरादेस्तथात्वेन तच्छङ्कायामपि प्रमापकत्वात्। ज्ञायमानं करणं सन्देहे न निश्चायकं लिङ्गवदिति चेत् , न। संशयो
हि न वाक्ये तस्य निश्चयात् , न तज्जन्यज्ञानप्रामाण्ये तस्य तदुत्तरकालीनत्वात् , नाप्तोक्तत्वे तन्निश्चयस्यानङ्गत्वात्। ननु लोके आप्तोक्तत्वसन्देहे वाक्यार्थधीर्नेति
तन्निश्चयोहेतुः तथाच वाक्यार्थगोचरयथार्थज्ञानजन्यत्वग्राहकात् तदुपजीविनोऽनुमानात् वाक्यार्थधीरिति चेत् , न। वेदे तद्रहितस्यापि सामर्थ्यावधारणात् तद्निश्चयेऽपि
वेदानुकारेण पठ्यमानमन्वादिवाक्यडपौरुषेयत्वाभिमानिनोगौऽमीमांसकस्यार्थनिश्चयात्। न चासौ भ्रान्तिः, बाधकाभावात् पौरुषेयत्वनिश्चयदशायामपि तस्य तथात्वात्।
न चासंसर्गाग्रहमात्रं तत्, अर्थस्य तथाभावेऽपि असंसर्गाग्रहत्वे संसर्गोच्छेदापत्तेः। न चाप्तोक्तत्वनिश्चयरूपकारणबाधात् संसर्गज्ञानबाधः, व्यभिचारेण हेतुतायामेव
बाधात् लौकिकत्वेन ज्ञाते तदङ्गमिति चेत् , न। मानाभावात् वाक्यार्थस्यापूर्व्वत्वेन लिङ्गाभावेन तद्ग्रहासम्भवात्। ननु अनाप्तोक्तत्वशङ्काव्युदासोऽङ्गं स च
वेदेऽपौरुषेयत्वनिश्चयात् लोके चाप्तोक्तत्वावधारणादिति चेत् , न। तस्याशक्यत्वात्। यदि चापौरुषेयत्वनिश्चये सत्येव वेदादर्थप्रत्ययः तदा दोषवत्पुरुषाप्रणीतत्वे
सत्याकाङ्क्षादिमत्पदस्मारितत्वेन वेदे पदार्थसंसर्गसिद्धिरस्त्विति वेदोऽप्यनुवादकः स्यात्। तदुक्तं, " "व्यस्तपुंदूषणाशङ्कैः स्मारितत्वात् पदैरमी। अन्विता इति निर्णीते
वेदस्यापि न तत्कुतः" " ॥ न चैवं शब्दस्य प्रमाणत्वमपि, अनुमानादेव वाक्यार्थप्रमोत्पत्तेरिति।

प्राभाकरास्तु व्यभिचारिशब्दव्यावृत्तमव्यभिचार्य्यनुगतप्रमाप्रयोजकमुपेयं यदभावादनाप्तोक्तवाक्यादप्रमा अन्यथा कार्यवैचित्र्यं न स्यात् , तत्र ज्ञातमुपयुज्यते
ज्ञायमानकरणे ज्ञानोपयोगिव्यभिचारिवैलक्षण्यत्वात् प्रमाहेतुत्वाद्वा व्याप्तिवच्छब्दशक्तिवच्चेति, अन्यथा शब्दाभासोच्छेदप्रसङ्गः। न चाप्तोक्तत्वं तथा, संवादात् प्रमाणे
शुकोदीरिते भ्रान्तप्रतारकसंवादिवाक्ये वेदे च तदभावादाप्तोक्तत्वानुमाने व्यभिचारिव्यावृत्तलिङ्गाभावाच्च। भावे वा तद्वत एव शब्दस्य प्रत्यायकत्वात्।

115

एतेनाप्रमाहेतुत्वं न भ्रम-प्रमाद-विप्रलिप्सा-करणापाटवानां परस्परं व्यभिचारात् मिलितस्याव्यापकत्वात्। किन्त्वाप्तोक्तत्वाभावस्याप्रमाहेतुत्वं तदभावश्चाप्तोक्तत्वं
प्रमाहेतुरित्यपास्तं। आप्तोक्तत्वस्य प्रथमं लिङ्गाभावेन ज्ञातुमशक्यत्वात्।

अत एव व्यभिचारशङ्काविरहो हेतुः सा च लोके भ्रमादिमूलेत्याप्तोक्तत्वानुमानादुच्छिद्यते, वेदे चापौरुषेयत्वनिश्चयेनेति निरस्तम्। अभिमतवाक्यार्थस्यापूर्व्वत्वेन
साध्याप्रसिद्धेः वेदे सदोषपुरुषाप्रणीतपदस्मारितत्वेन संसर्गसिद्धेरनुवादकतापतेश्च। नापि दोषाभावः भ्रान्तप्रतारकवाक्यजन्यज्ञाने प्रत्यक्षेणागृहीतसंवादे तदभावात्। दोषाभावस्य
हेतुत्वात् तत्र वाक्यं मूकमेव व्यवहारस्तु प्रत्यक्षादिति चेत्, न। अनुभवापलापापातात् तद्धेतुत्वे विवादात् वेदेऽप्यनुवादकतापत्तेश्च।
किञ्च दोषाभावस्य प्रमाहेतुत्वेऽप्रमायां दोषः कारणं तस्य च प्रत्येकं हेतुत्वे व्यभिचारः मिलितस्य तत्वे एकस्माद्प्रमा न स्यात् भ्रमादीनां प्रत्येकं दोषत्वेऽननुगमः
मिलितस्य तु तत्वे एकस्मादप्रमानुदयप्रसङ्गः। तस्मात् लाघवात् यथार्थतात्पर्यकत्वं शाब्दप्रमाप्रयोजकं तत्र यथार्थवाक्यार्थप्रतीतिप्रयोजकत्वं लोकवेदसाधारणं तदभावादप्रमा
स एव दोषः, न हि जात्यैव कश्चिद्दोषः, तद्विघातकत्वाच्च भ्रमादीनां दोषत्वं। अतएव भ्रान्तप्रतारकवाक्यं शुकादिवाक्यञ्च प्रमाणं संवादात्। अतएवान्यघटाभिप्रायेण गेहे
घटोऽस्तीत्युक्ते यत्र घटान्तरं दृष्ट्वा तमानयति तत्रान्यपरत्वाच्छब्दो न प्रमाणं व्यवहारस्तु प्रत्यक्षादेव यष्टीः प्रवेशयेति च मुख्यार्थबोधे न प्रमाणं यत्परः शब्दः स शब्दार्थ
इति न्यायात्। तच्च तात्पर्य्यं ज्ञातमुपयुज्यते ज्ञायमानकरणे ज्ञानोपयोगिव्यभिचारिवैलक्षण्याद्व्याप्तिवच्छक्तिवच्च, अन्यथा अन्यपरादन्यान्वयबोधोन स्यात् इति शब्दाभासोच्छेदप्रसङ्गः,
तद्भ्रमाच्च शाब्दभ्रमः। अतएव यष्टीः प्रवेशयेत्यत्र लक्षणा नानार्थे विनिगमना च तयोस्तात्पर्यग्रहमूलकत्वात्। यदि च यत्र वास्तवं तात्पर्यं तं शब्दोबोधयति तदा
लक्षणायां मुख्यार्थान्वयानुपपत्त्युपयोगो न स्यात्। अतएव पचतीत्युक्तेऽन्योक्तेन स्वयं स्मृतेन वा कलायपदेनोपस्थिते कलायं पचतीत्यन्वयबोधो न भवति तात्पर्य्यानिश्चयात्।
न च तात्पर्य्यग्राहकस्य प्रकरणादेः प्राथम्यादावश्यकत्वाच्च शब्दसहकारिता न तु तात्पर्य्यग्रहस्येति वाच्यम्। तेषामननुगतत्वेन परस्परव्यभिचारादहेतुत्वात्
तात्पर्य्यग्राहकतात्वननुगतानामपि व्याप्यत्वात् धूमादीनामिव। तच्च तात्पर्यम् वेदे न्यायगम्यं, यत्र न्यायात् तात्पर्यमवघार्यते स एव वेदार्थः, लोके च न केवलं
न्यायानुसारि तात्पर्य्यं इति न न्यायगम्यं किन्तु पुमभिप्रायनियन्त्रितं, न्यायाविषयेऽपि पुरुषेच्छाविषये प्रतीतिजनकत्वात् पुंवचसाम्। वक्ता च परकीयवाक्यार्थज्ञानोत्पादनेच्छया
वाक्यमुच्चारयति सा चेच्छा यदि वक्तुर्यथार्थवाक्यार्थज्ञानपूÐव्वका भवति तदैव परं तदुच्चारणस्य पुमभिप्रेतयथार्थवाक्यार्थज्ञानपरत्वं यथार्थज्ञानेच्छाव्याप्यं निर्व्वहतीति
वक्तुर्यथार्थवाक्यार्थज्ञानवत्तामविज्ञाय यथार्थप्रतीतिपरत्वं ज्ञातुं न शक्यत इति प्रथममाप्तवाक्याद्वेक्तृज्ञानानुमानपूर्व्वकमर्थतथात्वमनुसन्धाय यथार्थतात्पर्य्यनिश्चयः।अनुमानञ्चेदं
वाक्यं भ्रमादिविशिष्टज्ञानयोरन्यतरजन्यं वाक्यत्वादिति। ततो भ्रमादिनिरासे सति परिशेषाद्वाक्यार्थज्ञानानुमानं, अयं वक्ता स्वप्रयुक्तवाक्यार्थयथार्थज्ञानवान् भ्रमाद्यजन्यवाक्यप्रयोक्तृत्वात्
अहभिव, न त्वाप्तत्वात् साध्याविशेषात्। तत एते पदार्था यथोचितसंसर्गवन्तः यथार्थज्ञानविषयत्वात् आप्तोक्तपदस्मारितत्वाद्वा मदुक्तपदार्थवदिति। ननु वक्तुर्ज्ञानविशेषोऽनुमेयः
ज्ञाने चार्थ एव विशेषः न त्वर्थाधीनोऽन्यः अर्थेनैव विशेषः इत्यौपचारिकी तृतीया तथाच वाक्यार्थज्ञानविशेषोऽनुमेयः तस्य चाप्रसिद्ध्या न व्याप्तिग्रहः। अत एवास्मिन्
वाक्यार्थे अयमभ्रान्त आप्तो वेति ज्ञातुमशक्यमिति शब्द एव तमर्थं वोधयेदिति चेत्, न, तात्पर्यावधारणार्थं त्वयाप्यशाब्दा एव संसर्गविशेषप्रतीतेरवश्याभ्युपेयत्वात् अन्यथा
क्व तात्पर्यनिरूपणं। अतएव आप्तोक्तत्वभ्रामाद्यजन्यत्वनिरूपणमपि सुकरम्। शाब्दन्तु संसर्गज्ञानं प्रथमं न भवति ज्ञानान्तरन्तु भवत्येव। न चैवं शब्दो न प्रमाणं तदर्थस्य
प्रागेव सिद्धेरिति वाच्यम्। तवापि तुल्यत्वात्। ननु तथापि कथमर्थविशेषसिद्धिः विशेषेण व्याप्त्यग्रहादिति चेत्, न। यथा यो यत्र प्रवर्त्तते स तज्ज्ञानातीति सामान्यतोव्याप्तिज्ञाने
पाकादौ प्रवृत्तिदर्शनात् पाकविषयककार्य्यताज्ञानानुमानं, यथा च चेष्टाविशेषदर्शनात् दशसंख्याभिप्रायमात्रज्ञाने घटे तच्चेष्टादर्शनात् घटे दशत्वज्ञानं तथा सामान्यतोव्याप्त्यात्रापि
विशेषसिद्धिः।

यद्वा इदं वाक्यं साकाङ्र्क्षैतदर्थविषयकैकज्ञानहेतुकं आप्तोक्तत्वे सति एतदर्थप्रतिपादकत्वात् मद्वाक्यवत्, तत एते पदार्थाः परस्परसंसर्गवन्तः साकाङ्क्षत्वे
सत्येकज्ञानविषयत्वात् सत्यरजतज्ञानविषयवत्, एवं वक्तुर्यथार्थवाक्यार्थज्ञानेऽनुमिते प्रकरणादिना वक्त्रभिप्रेतयथार्थप्रतीतिपरत्वज्ञानं ततो वेदतुल्यतया शब्दादर्थप्रत्यय
इत्यनुवादकः शब्दः वक्तृज्ञानावच्छेदकतया संसर्गानुमानाद्वा वाक्यार्थस्य प्रागेव सिद्धेः। यत्तु संसर्गाग्रहे भ्रमः तदभावश्च संसर्गग्रह एवेति भ्रमाभावेऽनुमीयमाने संसर्गज्ञानानुमेवानुमितं
इत्याप्तत्वानुमानान्तर्गतमेव वक्तृज्ञानानुमानं न तु वक्तृर्ज्ञानानुमाने तल्लिङ्गं इति। तन्न, भ्रमोहि ज्ञानद्वयं अगृहीतभेदं तदभावश्च गृहीतभेदज्ञानं, न हि ज्ञानाभावेसुषुप्तौ
भ्रमव्यवहारः, ततो भ्रमाभावनिश्चयानन्तरं वक्तृज्ञानानुमानं। किञ्च यद्याप्तोक्तृत्वानुमानमेव वक्तृज्ञानानुमानं, तर्हि यादृशं लिङ्गं तादृशमेव गमकमस्त्विति।
अत्रोच्यते।यथार्थवाक्यार्थधीपरत्वं न ज्ञातं प्रमोत्पादकं गौरवात् वाक्यार्थनिरूप्यत्वेन प्रथमं ज्ञातुमशक्यत्वाञ्च तस्यापूर्व्वत्वात्। यच्च लोके भ्रमादिनिरासानन्तरं
वक्तृज्ञानावच्छेदकतया तदग्रे स्वातन्त्र्येण वा पुमभिप्रेतवाक्यार्थज्ञाने तत्प्रतीतिपरत्वं प्रकरणादिना ज्ञायत इत्युक्तं, तन्न, वाक्यार्थमज्ञात्वा अत्रायमभ्रान्त इति ज्ञातुं
पुरुषत्वाद्वक्तुर्भ्रमप्रमादसम्भवेन प्रथमं भ्रमाद्यजन्यत्वस्य ग्रहीतुमशक्यत्वात् प्रवृत्तिसंवादादेर्ज्ञानोत्तरकालीनत्वात् भ्रमादिजन्यविलक्षणत्वेन च शब्दस्याज्ञानात् ज्ञाने वा
यादृशोलिङ्त्वं तस्यैव प्रत्यायकत्वं अव्यभिचारात् वेदेऽपि वाक्यार्थमविज्ञाय तद्यथार्थप्रतीतिपरत्वं न्यायेनापि ज्ञातुमशक्यं विषयनिरूप्यत्वात् प्रतीतेः लोके
तात्पर्य्यनिरूपणार्थमशाब्दवाक्यार्थप्रतीतेः प्रथमं त्वयापि स्वीकारात्। अन्यथा वक्तृज्ञानानुमानं न स्यात्। न च लोकवन्मानान्तरात्तदवगमः, वेदार्थस्य तदाविषयत्वात् वेदस्य
प्रथमं मूकत्वात्, न च न्यायसिद्धे वेदार्थे मानान्तरात्तात्पर्य्यग्रहः, वेदस्यानुवादकतापत्तेः शब्दस्याप्रमाणत्वापत्तेर्वा। अज्ञाते वाक्यार्थे तर्क-संशययोरप्यभावात्। अयं
पदार्थोऽपरपदार्थसंसृष्टो न वेति संशये तर्के वा एककोटौ संसर्ग उपस्थित इति चेत्, न, अनिश्चिते तात्पर्य्यानिश्चयात् तयोरगृहीतासंसर्गविषयत्वेनासदर्थविषयकत्वेन वा
वाक्यार्थाविषयत्वाच्च। अन्यथा लोकेऽपि ताभ्यामेवोपस्थितिरिति किं वक्तृज्ञानानुमानेन। वस्तुतस्तु यदि यथार्थताप्तर्यकत्वं ज्ञातं शाब्दप्रमोत्पादकं तदा लोक-वेदयोस्तादृशपदस्मारितत्वेन
पदार्थसंसर्गानुमितिसम्भवात् न शब्दः प्रमाणं स्यात्। अपिच पुंवाक्यस्य दोष-विशिष्टज्ञानान्यतरजन्यत्वेऽनुमिते परिशेषाद्दोषाजन्यत्वनिश्चयदशायां वेदतुल्या सामग्री
पुंवाक्येऽपि वृत्तेति तत एवार्थनिश्चयात् वेदवत्तस्यापि प्रामाण्यं, अनुमितानुमानस्य व्याप्तिस्मृत्यादिविलम्बितत्वात्।

एतेनाबाधितार्थपरत्वं लोके वेदे च प्रमापकं लोके वाक्यार्थो बाधितोऽपि दृष्ट इति श्रोतुः प्रमाणावतारं विना न बाधाभावनिश्चयः स च क्वचिच्छ्रोतुरिन्द्रियेण
क्वचिद्वक्तुराप्तत्वानुमानेन वेदे तु न्यायात्तन्निश्चयः तदर्थस्य प्रमाणान्तराविषयत्वात् न तत्र, शङ्केति सामग्रीभेद इति  निरस्तम्।प्रथमं भ्रमाद्यभावस्याप्तत्वस्य वा
निश्चेतुमशक्यत्वात् वेदस्यानुवादकतापत्तेश्च। तस्मात् भ्रमाद्यजन्यत्वं आप्तोक्तत्वं अबाधितार्थकत्वं यथार्थतात्पर्यकत्वं निरस्तव्यभिचारशङ्कत्वं अन्यद्वा व्यभिचारिव्यावृत्तं
यत्प्रमोत्पादकं तत् स्वरूपसत् न ज्ञातम्। अन्यथा तादृशस्य वाक्यार्थव्यभिचारितया तादृशपद्स्मातिरत्वात् लिङ्गादेव संसर्गसिद्धिः स्यादिति ञितं वैशेषिकैः।

116

अथ व्यवहारानुमितव्यवहर्त्तुकार्यान्वितज्ञाने उपस्थितत्वेन पदानां हेतुत्वग्रहादन्विताभिधायकत्वं गृहीतं न तु लिङ्गज्ञानस्य तदानीं शब्दस्य लिङ्गत्वेनानुपस्थितेरिति
चेत्, न। लिङ्गाभावेनैव शब्दादन्वितज्ञानोपपत्तेर्नाकाङ्क्षादिमच्छब्दत्वेन कारणता गौरवात्। शब्दस्य लिङ्गत्वं सम्भवदपि बालेन न ज्ञातमिति चेत्, सोऽयं बालस्य दोषो
न वस्तुन इत्यादि वक्ष्यतें। किञ्चैवं लोकवद्वेदेऽपि अनुवादकता स्यात्।  एतेनवाक्यार्थ तात्पर्यग्राहकानुमानात् तात्पर्यावच्छेदकतया तदुपजीविनोऽनुमानात् स्वातन्त्र्येण
वाक्यार्थसिद्धेर्न शब्दः प्रमाणमिति वैशेषिकमतमपास्तम्। यथार्थतात्पर्यग्रहस्य वाक्यार्थबोधाहेतुत्वात्।

यत्तु ज्ञायमानकरणे इति, तन्न, यथार्थतात्पर्यकत्वादेः प्रथमं ज्ञातुमशक्यत्वेनानुमानस्य बाधितत्वात् व्याप्त्यसिद्धेश्च। न हि व्याप्तिः शब्दशक्तिश्च कारणं, किन्तु
तद्धीः, अतीतेऽनुमितिदर्शनात्। अपभ्रंशादौ शक्तिभ्रमादन्वयवोधाच्च। न च सैवोपयुज्यत इति साध्यं, प्रथमं तदसम्भवात्। तस्मात् यत् अर्थाव्यभिचारित्वेन ज्ञातं करणं तत्र
व्यभिचारिवैलक्षण्यज्ञानमुपयुज्यते अन्यथा शब्दस्यार्थाव्यभिचारितया ज्ञातस्य ज्ञापकत्वे लिङ्गतापत्तेर्वज्रवलेपायमानत्वात्। स्यादेतदनाप्तोक्ते बाधकेनार्थाभावदर्शनात्
आकाङ्क्षादिमद्वाक्यर्त्वेन सदर्थकं बाधितार्थकं वेति संशयान्न तावन्मात्रादर्थनिश्चयः, न हि संशायकमेव निश्चायकं, इत्यधिकमपेक्षणीयमिति चेत् , न। अर्थसंशयस्य
तद्बाधसंशयस्य वा प्रमाणाप्रतिबन्धकत्वात् वह्नि तद्बाधयोः संशयेऽपि प्रत्यक्षानुमानादिना अर्थनिश्चयात् । अन्यथा प्रमाणमात्रोच्छेदः, तत्पूर्वमर्थतद्बाधसंशयात्।
विनाप्यर्थं वाक्यरचना सम्भवत्यत एतस्यायमर्थो न वा, एतत्सदर्थकं न वा, एतज्जन्यज्ञानं सद्विषयकं न वेति संशयस्यार्थावगमोत्तरकालीनत्वाच्च। तस्मादाप्तोक्तत्वं
भ्रमाद्यजन्यत्वं अबाधितार्थकत्वं यथार्थवाक्यार्थप्रतीतिपरत्वं वा ज्ञातं अनुगतमपि न हेतुः प्रथमं ग्रहीतुमशक्यत्वात्, किन्तु तात्पर्यग्राहकत्वेनाभिमतानां न्यायजन्यज्ञान-प्रकरणादीनामन्यतरत् तात्पर्य्यव्याप्यत्वेनानुगतं, तथाकाङ्क्षासत्तिनिश्चयः, तद्विपर्यये संशये च शाब्दज्ञानाभावात्। योग्यतायाश्च ज्ञानमात्रं हेतुः तत्संशये विपर्यये
प्रमायाञ्च वाक्यार्थज्ञानात् , तथा विभक्त्यादिसमभिव्याहारः सम्भूयोच्चारणाञ्च शाब्दज्ञानमात्रे कारणानि नानार्थे श्लिष्टे चानेकोपस्थितावपि प्रकरणादिवशादेकमर्थमादायान्वयबोधः।
लक्षणा च न तात्पर्य्यानुपपत्त्या किन्त्वन्वयानुपपत्त्यैंव प्रकरणाद्भोजनप्रयोजनकत्वेनावगतप्रवेशनस्य यष्ट्यन्वयानुपपत्तेः। अजहत्स्वार्थायां प्रकरणादेव छत्रितदितरस्य
यान्तीत्यनेन गमनकर्त्तृत्वमवगतं तदन्वयानुपपत्तिश्छत्रिमात्रे, पचतीत्यस्य कलायमित्यन्योक्तेन समं नार्थप्रत्यायकत्वं समभिव्याहाराभावात् , तवापि तस्य तात्पर्यग्राहकत्वात्
सहोच्चरितानां सम्भूयार्थप्रत्यायकत्वस्य व्युत्पत्तिसिद्धत्वात् ।

अन्येतु नानार्थे लक्षणायाञ्च नियतोपस्थित्यर्थं पदार्थे तात्पर्य्यग्रहापेक्षा तेन विना तदभावात् न वाक्यार्थे, तदज्ञानेऽपि प्रकरणादिना सैन्धवपदं तुरगपरं काकपदं
उपघातकपरमिति हि प्रतियन्ति। अन्यत्रान्वयप्रतियोग्युपपस्थितिः तात्पर्यग्रहं विनैवेति न तदपेक्षा। वस्तुतस्तु इतरपदस्य इतरपदार्थसंसर्गज्ञानपरत्वं तात्पर्य्यं तच्च वेदे
न्यायादवधार्य्यते लोके न्यायात् प्रकरणादेर्वा। अत एव शाब्दबोधे नानियतहेतुकत्वं तच्चेतरपदार्थसंसर्गज्ञानं वाक्यार्थज्ञानमेवेति सामान्याकारेण तत्परत्वग्रहः हेतुर्न तु
विशिष्य, तच्च स्वपरपदार्थयोः संसर्गानुभवजननं विना अनुपपन्नमिति पदानि सम्भूय जनयन्ति, अत एव नानार्थे विनिगमना, तदनुपपत्तिरेव लक्षणाबीजं तदभावादेव
पचतिपदे न स्मृतकलायान्वयबोध इति सिद्धं शब्दस्य प्रमाणान्तरत्वं। तस्य च निराकाङ्क्षादौ संसर्गज्ञानाजनकत्वात् आकाङ्क्षादिकं सहकारीति।
इति श्रीमद्गङ्गेशोपाध्यायविरचिते तत्त्वचिन्तामणौ

शब्दखण्डे शब्दाप्रामाण्यवादः॥
अथाकाङ्क्षा

अथ केयमाकाङ्क्षा, न तावदविनाभावः, नीलं सरोजमित्यादावभावात्। विमलं जलं नद्याः कच्छे महिष इत्यत्र जलान्वितनद्या अविनाभावात् कच्छे
साकाङ्क्षतापत्ते। नापि समभिव्याहृतपदस्मारितपदार्थजिज्ञासा, अजिज्ञासोरपि वाक्यार्थबोधात् विश्वजिता यजेत द्वारं इत्यत्रापदार्थयोरप्यधिकारिणोऽध्याहृतस्य पिधानस्य
चाकाङ्क्षितत्वाच्च, तत्र शब्दकल्पनपक्षेऽपि घटः कर्मत्वमानयनं कृतिरित्यत्र जिज्ञासितस्यानयनादेराकाङ्क्षितत्वापत्तेः। अथ जिज्ञासायोग्यता सा, जिज्ञासा च विशेषाज्ञाने
भवति, योग्यता च श्रोतरि तदुच्चारणजन्यसंसर्गावगमप्रागभावः, विमलं जलं नद्याः कच्छे महिष इत्यत्र तात्पर्य्यवशात् कदाचित् नद्याः कच्छे संसर्गावगमात्
तत्प्रागभावसत्त्वेऽपि श्रोतरि तदुच्चारणेन तात्पर्यवशात् जलान्वितनद्याः कच्छे संसर्गावगमोनेति न तत्प्रागभावः, घटः कर्मत्वमानयनमित्यत्रापि तथेति चेत्,। न।
निराकाङ्क्षे तदुच्छारणजन्यसंसर्गावगमप्रागभावस्य सिध्यसिद्धिपराहतत्वात्। किञ्च यत्रैकोविमलं जलमित्यश्रत्वेव तात्पर्यभ्रमेण वा नद्याः कच्छान्वयपरत्वमवैति, अपरः
समस्तमेव श्रुत्वा नद्या जलान्वयपरत्वमवधारयति, तत्रोभयोरपि तदुच्चारणजन्यसंसर्गावगमात् नद्या इत्युभयसाकांङ्क्षं स्यात्।

अपि च प्रागभावाभावस्य कारणान्तराभावव्याप्तत्वात् तत एव कार्याभाव इति किमाकाङ्क्षया। एवञ्च योग्यतासत्ती अपि न हेतू अयोग्ये अनासन्ने च
तदुच्चारणजन्यसंसर्गज्ञानाभावेन तत्प्रागभावाभावात्। न चैवं बाधाभावस्यानुमित्यादावपि हेतुत्वं, प्रागभावाभावेनैव कार्याभावात् प्रागभावस्य च कार्यमात्र हेतुत्वात्। शब्दे
नासाधारण्यं उत्थितोत्थाप्याकाङ्क्षयोरुत्कर्षापकर्षौ न स्यातां प्रागभावे तदभावात्।

अथ ज्ञाप्य-तदितरान्वयप्रकारकजिज्ञासानुकूलपदार्थोपस्थितिजनकत्वे सत्यजनिततात्पर्यविषयान्वयबोधत्वमाकाङ्क्षा, घटमानयतीत्यत्र घटमित्युक्ते किमानयति
पश्यति वा, आनयतीत्युक्ते किं घटं अन्यद्वेति जिज्ञासा भवति । घटः कर्मत्वमानयनं कृतिरित्यत्राभेदेन नान्वयोऽयोग्यत्वात् , घटस्यानयनमिति तु नान्वयबोधः घट
इतिपदात् सम्बन्धित्वेन घटस्यानुपस्थितेः। राज्ञ इति पुत्रेण जनितान्वयबोधत्वात् न पुरुषमाकाङ्क्षतीति चेत्, तर्हि नामविभक्तिधात्वाख्यातार्थानां घटकर्मत्वानयत-कृतीनां
स्वरूपेणोपस्थितिर्नान्वयप्रकारकजिज्ञासानुकूलेति तत्र नाकाङ्क्षा स्यात्। घटः कर्मत्वमानयनं कृतिरित्यत्र घटमानयतीत्यत्रेवान्वयबोधः स्यात्। न हि तत्र पदार्थस्वरूपाणां
एतद्वैलक्षण्येनोपस्थितिः, त्रयाणां तुल्यवत् स्मरणे प्रथमं यत्तो राज्ञ इति पुरुषेण नान्वेति किन्तु पुत्रेण तत एवाग्रेऽपि व्यर्थमजनितान्वयबोधत्वमिति।
इति श्रीमद्गङ्गेशोपाध्यायविरचिते तत्त्वचिन्तामणौ

शब्दखण्डे शब्दाकाङ्क्षावादपूर्वपक्षः॥
अथ शब्दाकाङ्क्षावादसिद्धान्तः

117

उच्यते  । अभिधानापर्यवसानमाकाङ्क्षा यस्य येन विना न स्वार्थान्वयानुभावकत्वं तस्य तदपर्य्यवसानं, नामविभक्तिधात्वाख्यातक्रियाकारकपदानां परस्परं विना
न परस्परस्य स्वार्थान्वयानुभवजनकत्वं। परमते नीलोघटोऽस्ति नीलं घटमानयेत्यादौ नामार्थानां कारकाणाञ्च न परस्परमन्वयबोधः विशेषणान्वितविभक्त्यर्थानन्वयादिति
न विशिष्टवैशिष्ट्येनान्वयः किन्त्वार्थः समाजः। अस्माकन्तु नीलघटयोरभेदानुभवबलादभेद एव संसर्गः विशेषणविभक्तिः साधुत्वार्थम्।
यद्वा समानविभक्तिकयोरभेदानुभवबलात् विशेषणान्वितविभक्तेरभेदार्थकत्वं अतो विशेषण-विशेष्यभावानुभावकत्वं तत्पदयोः, न परस्परं विना। द्वारमित्यत्राध्याहारं
विना प्रतियोग्यलाभात् न स्वार्थान्वयानुभावकत्वं, विश्वजिता यजेतेत्यत्र ममेदं कार्यमिति प्रवर्त्तकतात्पर्यविषयज्ञानं नाधिकारिणं विनेति तदाकाङ्क्षा।
यद्वा कर्तुरिवाधिकारिणोऽपि आक्षेपादेव लाभ इति तदन्वयो न शाब्दः किन्त्वानुमानिकः, गौणलाक्षणिकयोरननुभावकत्वपक्षे तदुपस्थापितस्याध्याहृतस्येवेतरपदं
विना नानुभावकत्वम्। घटः कर्मत्वं आनयनं कृतिरित्यादौ अभेदेन नान्वयबोधोऽयोग्यत्वात् तत्तत्पदेभ्यस्तात्पर्यविषयतत्तत्पदार्थस्वरूपज्ञानञ्च पदान्तरं विनैव। घटमानयतीत्यत्रेव
भ्रमेण तथान्वयतात्पर्येऽपि क्रियाकारकभावेन नान्वयः, नामविभक्तिधात्वाख्यातक्रियाकारकपदानां अन्वयबोधे तान्येव पदानि समर्थानि न तु तदर्थकानि पदान्तराणि।
अग्निः करणत्वं ओदनः कर्मता पाकः कृतिः इष्टसाधनता इत्यादिपदेभ्यः अग्निर्नैदिनं पचेतेत्यत्रेव अन्वयाबोधात्, अग्निकरणकौदनकर्मकपाकविषयककृतिरिष्टसाधनं इति
तु वाक्यं न पदं, अतएव द्वारमित्यत्र पिधेहिपदाध्याहारः, क्रियापदार्थस्यान्यत उपस्थितौ अपि कारकानन्वयात् असामर्थ्थञ्च स्वभावात्। अनासन्नमपि आसन्नतादशायां
आसन्नत्वभ्रमेण वा अन्ययबोधसमर्थमेव। वह्निना सिञ्चतीत्यत्र क्रियाकारकपदयोरन्वयबोधे सामर्थ्येऽपि अयोग्यताज्ञानं प्रतिबन्धकं दाहे समर्थस्याप्यग्रेर्मणिरिव। अत एव
योग्यताभ्रमात् प्रतिबन्धकाभावे ततोऽप्यन्वयबोधः। नहि स्वभावतोऽसमर्थं आरोपितसामर्थ्यं वा दहति पचति वेति, प्रकृते तु पदार्थस्वरूपज्ञानं न त्वन्वयभ्रमोऽपि।
पुरुषपदं विनापि राज्ञ इत्यस्य पुत्रेण समं स्वार्थान्वयानुभावकत्वं इति न तदाकाङ्क्षा।

यद्वा त्रयाणां स्मरणेऽजनितान्वयबोधदशायां पुरुषान्वये तात्पर्याभावात् नान्वयबोध इत्यग्रेऽपि तथा। न च पुत्रस्योत्थिताकाङ्क्षत्वात् तेनैवान्वयबोध इति
वाच्यम्। तात्पर्यवशात् पुरुषेणैव प्रथममन्वयबोधात्। अत एवान्वयबोधसमर्थत्वे सति अजनिततात्पर्य्यविषयान्वयबोधत्वमाकाङ्क्षेति  केचित्। प्रकृतिप्रत्ययाभ्यामन्वयबोधे
जनितेऽपि वाक्यैकवाक्यतावत्क्रियाकारकः पदयोरजनितान्वयबोधत्वमाकाङ्क्षा।

नव्यास्तुपदविशेषजन्यपदार्थोपस्थितिः घटः कर्मत्वं आनयनं कृतिरित्येवम्बिधपदाजन्यपदार्थोपस्थितिर्वा आसत्तिरन्वयबोधाङ्गमित्यासत्त्यभावादेवम्बिधशब्दान्नान्वयबोधः
त्वयाप्येवम्बिधपदार्थोपस्थितेराकाङ्क्षाहेतुत्वेनावभ्यमभ्युपेयत्वात्, जनितान्वयबोधात् नान्वयान्तरबोधः तात्पर्याभावादित्याकाङ्क्षायाः कारणत्वमेव नास्ति, किन्तु स्वजनकोपस्थितेः
परिचायकत्वमात्रमिति।

इति श्रीमद्गङ्गेशोपाध्यायविरचिते तत्त्वचिन्तामणौ
शब्दखण्डे शब्दाकाङ्क्षावादसिद्धान्तः।

समाप्तोऽयमाकाङ्क्षावादः
अथ योग्यतावादः।

ननु का योग्यता। न तावत् सजातीयेऽन्वयदर्शनं, यथाकथञ्चित् साजात्यस्याव्यावर्त्तकत्वात्। पदार्थतावच्छेदकेन साजात्यस्याद्यजातः पयः पिवतीत्यादावभावात्
वाक्यार्थस्यापूर्वत्वाच्च। नापि समभिव्याहृत पदार्थसंसर्गव्याप्यधर्मवत्त्वं, वाक्यार्थस्यानुमेयत्वापत्तेः। न च वस्तुगत्या संसर्गव्याप्यो यो धर्मस्तद्वत्त्वम्। तच्च न ज्ञातमुपयुज्यते
इति नानुमेयः संसर्ग इति वाच्यम्। योग्यताभ्रमाच्छाब्दभ्रमानुपपत्तेः। अत एवानन्वयनिश्चयविरह एव योग्यता स्वरूपसती हेतुः तत्र तद्धर्माभावनिश्चये तत्प्रकारकशाब्दज्ञानानुदयात्
इति परास्तम्। नापि समभिव्याहृतपदार्थसंसर्गभावव्याप्यधर्म्मशून्यत्वम्, प्रमेयमभिधेयमित्यादौ संसर्गाभावस्याप्रसिध्या तदनिरूपणात् गेहनिष्टघटाभावे प्रमिते
घटोऽस्तीतिवाक्यात्तन्निश्चयेऽप्यन्वयज्ञानानुदयाच्च। नापि बाधकप्रमाणाभावः, अन्यत्र यद्बाधकं तदभावस्यायोग्येऽपि सत्त्वात्। नापि प्रकृतसंसर्गबाधकस्याभावः,
प्रतियोगिसिध्यसिद्धिव्याघातात्। न च प्रकृतसंसर्गे अन्यत्र सिद्धयस्य बाधकप्रमाणस्याभावः, प्रकृतसंसर्गस्य प्रथममप्रतीः अयोग्येऽपि तत्सत्त्वाच्च। तत्र बाधकमप्यस्तीति
चेत्, तर्हि प्रकृतसंसर्गबाधकस्याभावः तच्चाप्रसिद्धम्। अत एव तत्र वाधकस्याप्यनिरूपणम्। नापीतरपदार्थसंसर्गाभावप्रमाविषयत्वाभावोऽपरपदार्थे, केवलान्वयिन्यप्रसिद्धेः।
एतेनयत्रासम्बन्धग्राहकं प्रमाणं नास्ति तद्योग्यमिति  निरस्तम्। नापि बोधनीयसंसर्गाभावप्रमाविरहः, प्रतियोग्यप्रसिद्धेः बोधनीयसंसर्गस्य प्रागप्रतीतेः। योग्यता च
न स्वरूपसत्युपयुज्यते इत्युक्तम्, अयोग्ये तत्सत्त्वस्यानिरूपणाञ्च।

अपि च स्वीयबाधकप्रमाविरहस्यायोग्येऽपि सत्त्वात् बाधकप्रमामात्रविरहस्य योग्येऽपि ज्ञातुमशक्यत्वात् परप्रमाया अयोग्यत्वात्। न च स्वरूपसन्नेवायां हेतुः,
स्वीयबाधकप्रमाविरहदशायां योग्यताभ्रमेण शाब्दभ्रमानुपपत्तेः, अन्वयप्रयोजकरूपत्त्वेन बाधकप्रमामात्रविरहोऽनुमेय इति चेत्, न। सेकानन्विततोये द्रवद्रव्यत्वे सत्यपि
बाधकसत्त्वेन व्यभिचारात् उपजीव्यत्वेन तस्यैव योग्यतात्वापत्तेश्च। न चैवमेवेति वाच्यम्। आकाङ्क्षासत्त्यन्वयप्रयोजकरूपवत्त्वे सत्यप्यनाप्तवाक्ये बाधकप्रमायामन्वयाबोधात्,
बाधकप्रमाविरहो हेतुरिति चेत्तर्ह्यावश्यकत्वात् सैव योग्यता।

इति श्रीमद्गङ्गेशोपाध्यायविरचिते तत्त्वचिन्तामणौ

118

शब्दखण्डे योग्यतावादपूर्वपक्षः॥
अथ योग्यतावादसिद्धान्तः

उच्यते  । बाधकप्रमाविरहो योग्यता। सा चेतरपदार्थसंसर्गेऽपरपदार्थनिष्ठात्यन्ताभावप्रतियोगित्वप्रमाविशेष्यत्वाभावः। प्रमेयं वाच्यमित्यत्र
प्रमेयनिष्ठात्यन्ताभावप्रतियोगित्वप्रमाविशेष्यत्वं गोत्वे प्रसिद्धं वाच्यत्वसंसर्गे तदभावः।

वस्तुतस्त्वितरपदार्थसंसर्गेऽपरपदार्थनिष्ठात्यन्ताभाव प्रतियोगितावच्छेदकधर्मशून्यत्वं योग्यता लाघवात् शक्यज्ञानत्वाच्च न च नरशिरःशौचानुमानबाधात्
तदशौचबोधकशब्दात् अन्वयाबोध इति वाच्यम्। उपजीव्यजातीयत्वेन शब्दस्य बलवत्त्वात् तेनैव तदनुमानबाधात्। नान्वाकाङ्क्षासत्तिमत्त्वेन शब्दस्य प्रमाणता न तु
योग्यतापि तन्निवेशिनी बाधाभावस्य प्रमामात्रहेतुत्वादिति चेत्, न। बाधे हि प्रमाणदोषोऽवश्यं वक्तव्यः। अन्यथा प्रमाणविषये बाधासम्भवात् यथानुमाने बाधादुपाधिकल्पनाद्वारा
व्याप्तिविघातः, निरूपाधौ बाधानवकाशात्।

सेयं न स्वरूपसती प्रयोजिका शाब्दाभासोच्छेदप्रङ्गात्। तन्निश्चयश्च भवत्युपायाभावात् इति चेत्, न। संशयविपर्यय-प्रमासाधारणस्य योग्यताज्ञानमात्रस्य
कारणत्वात्। अयोग्यताज्ञानस्य प्रतिबन्धकस्य सर्वत्राभावात् क्वचित्तन्निश्चयोऽपि योग्यानुपलब्ध्या यथेह घटो नास्तीति।

इति श्रीमद्गङ्गेशोपाध्यायविरचिते तत्त्वचिन्तामणौ
शब्दखण्डे योग्यतावादः॥

अथासत्तिवादः
आसत्तिश्चाव्यवधानेनान्वयप्रतियोग्युपस्थितिः। सा च स्मृतिर्नानुभवोऽतोनान्योन्याश्रयः।

अथ नानाविशेषणककर्मकर्त्तुकरणाधिकरणक्रियादिक्रमिकपदज्ञानजन्यक्रमिकपदार्थस्मृतीनां न यौगपद्यं सम्भवति आशुतरविनाशिनां क्रमिकाणां मेलकानुपपत्तेरिति
कथं तावत्पदार्थान्वयबोधः विशेषणज्ञानसाध्यत्वाद्विशिष्टज्ञानस्येति चेत्, श्रौत्रप्रत्येकपदानुभवजन्यसंस्कारमेलकादेकदैव तावत्पदस्मृतिः तत एकदैव तावत्पदार्थस्मृतौ सत्यं
वाक्यार्थानुभवः। न चान्यविषयकसंस्कारेण नान्यत्र स्मरणमिति वाच्यम्। वाक्यार्थानुपपत्त्या फलंबलेन संस्काराणां परस्परसहकारेण तत्रैकस्मरणकल्पनात्।
प्रत्येकवर्णसंस्काराणामिवानन्यगतिकतया पदस्मरणे।

अथ ""यद्यदाकाङ्क्षितं योग्यं सन्निधानं प्रपद्यते। तेन तोनान्वितः स्वार्थः पदैरेवावगम्यते" "। न चैवमन्वयान्तराभिधानं न स्यात् विरम्य व्यापाराभावादिति वाच्यम्।
एवमपि प्रथममनन्वये हेत्वनुपन्यासात् उत्तरस्य हीदं सामग्रीवैकल्यं न पूर्वस्येति चेत्, अस्तु तावदेवं तथापि चरमं तावत्पदार्थघटितवाक्यार्थानुभवे उक्तैव गतिरनन्य
गतिकत्वात्।

अत्र वदन्ति, सन्निधिर्न पदजन्यैवान्वयबोधहेतुः द्वारमित्यादौ अध्याहृतेनापि पिधानादिना अन्वयबोधदर्शनात्। न च पिधेहीति शब्द एवाध्याह्रियते, अनुपयोगात्।
अर्थस्यैवान्वयप्रतियोगित्वेनोपयोगित्वात् आवश्यकत्वाच्च। अर्थापत्तेरूपपादकविषयत्वात्। न च शब्दमात्रमुपपादकं, अपि तु तदर्थः, अवश्यकल्प्यार्थसाहचर्येण
दैववशसम्पन्नशब्दस्मृतेरन्यथासिद्धेः। अन्यथा पदबोधितस्यैवार्थस्यान्वयबोधकत्वमिति नियमशक्तिकल्पनापत्तेः। स्वार्थान्वयपरत्वाच्छब्दानां द्वारमिति न पिधानान्वयबोधकमिति
तदन्वयबोधार्थमवश्यं शब्दकल्पनमिति चेत्, न। लक्षणायां व्यभिचारात् तवाप्याक्षिप्तम् कर्त्रान्वयबोधाच्च।

अथ द्वारपदसहभावमात्रं पिधेहिशब्दस्य कल्प्यते लाघवात्। न च पिधानाभिधायकानेकशब्दोपस्थितौ विनिगमकविरहः, संस्कारतारतम्यात् पदविशेषस्मृतेरिति
चेत्, न। आकाङ्क्षादिमत्प्रतियोग्यन्वितस्वार्थपरत्वस्य क्लृप्तत्वात् लाघवेनार्थाध्याहारात्। न च श्रुतपदानि लब्धप्रयोजनानीति कथमप्यध्याहृते तेषां तात्पर्यमिति वाच्यम्
। श्रुतार्थान्वयानुपपत्त्या अध्याहृते तात्पर्यात्। कथं तर्ह्योदनं पचतीत्यत्र समभिव्याहृतमात्रान्वयः कलायादेरपि स्मृतत्वात् इति चेत्, न। तात्पर्यनियमादित्यवेहि यत्परःशब्दः
स हि शब्दार्थः। अन्यथा तवापि दैववशस्मृतकलायपदोपस्थापितेनान्वयबोधः स्यात् । अयं देवदत्त ओदनमित्यादिवाक्ये क्रियापदाध्याहाराभावेन कर्तुरनभिधानात् तृतीया
स्यात् इति चेत्, न। अध्याहृतपचतिपदेनापि कर्तुरनभिधानात्, कर्र्तृसंख्याभिहितेति चेत्, न। देवदत्तस्य पाक इत्यत्रापि तृतीयापत्तेः। तात्पर्यतस्तत्र व्यवस्थेति चेत्,तुल्यम्।
ननु द्वारं पिधेहीत्यादौ पिधानशब्दानुभवे पिधानोपस्थापकपदत्वेनं जनकत्वमिति चेत्, न। अन्वयप्रतियोग्युपस्थापकपदत्वेन जनकत्वात् न तु तदुपस्थापकयावत्पदत्वेन
गौरवात्। एवं पिधानान्वयबोधेऽपि। अन्यथा गौणलाक्षणिकयोरन्वयबोधो न स्यात् तयोरननुभावकत्वादिति॥

इति श्रीमद्गङ्गेशोपाध्यायविरचिते तत्त्वचिन्तामणौ
शब्दखण्डे आसत्तिवादपूर्वपक्षः॥

119

अथासत्तिवादसिद्धान्तः

उच्यते,  क्रियापदोपस्थापिता क्रिया, कारकपदोपस्थापितञ्च कारकं परस्परमाकाङ्क्षति न तूपस्थितिमात्रम्। अन्यथा द्वारं कर्मता पिधेहि, द्वारं पिधानं कृतिरित्यत्रापि
क्रियाकर्माध्याहार इवान्वयबोधप्रसङ्गः क्रियायाः कर्मणश्चोपस्थितेस्तुल्यत्वात्। एवंविधपदोपस्थापिते परस्परमाकाङ्क्षा नास्तीति चेत्, तर्ह्याकाङ्क्षायां पदविशेषोपस्थापितत्वं
तन्त्रं न तूपस्थितिमात्रम्। अर्थदिशेषेऽसाधुत्वान्नात्रान्वयबोध इति चेत्, न, पिधेहीति पदं विना द्वारमित्यस्याप्यसाधुत्वात्। तदर्थयोगे साधुत्वस्य तुल्यत्वात् ।
साधुत्वज्ञानस्यान्वयबोधेऽप्रयोजकत्वाच्च गौरवादपभ्रंशादप्यन्वयबोधाच्च। न चात्रासंसर्गाग्रहः, बाधकाभावात्। तस्मात् क्रियापदस्य कारकपदेन कारकपदस्य क्रियापदेन
सहान्वयबोधकत्वं न त्वेकं विनाऽपरस्य।

अपि च सकर्मकक्रियापदयोगं विना द्वितीयानुपपत्तिः, न हि क्रियापदार्थयोगे द्वितीया, घट आनयनं कृतिरित्यत्रापि द्वितीयापत्तेः, तथाच पुष्पेभ्य इत्यत्र
स्पृहयतिपदाध्याहारं विना चतुर्र्थ्यनुपपत्तिः। यदि स्पृहयतिपदार्थयोगे चतुर्थी तदा पुष्पमिच्छतीत्यत्रापि स्यात् स्पृहयतीच्छतिपदयोरेकार्थत्वात्।
अथ साधुत्वार्थं द्वारं पुष्पेभ्यं इत्यत्र पिधेहिस्पृहयतिपदाध्याहारोऽनुमन्यते न त्वन्वयबोधार्थं तस्यान्वयप्रतियोगिविज्ञानादेवोपपत्तेरिति चेत्, तर्हि क्रियापदयोगं  विना
न कारकविभक्त्तिः, कारकपदयोगं विना न तदन्वययोग्यं क्रियापदमिति केवलकारकपदे क्रियापदाध्याहारः, केवलक्रियायाञ्च कारकपदाध्याहारः साधुत्वार्थमावश्यक इति
तज्जन्योपस्थितिरन्वयबोधौपयिकी। तस्मात् क्रियाकारकपदोपस्थापितयोरेव क्रियाकारकयोः परस्परमन्वय इति शब्दाध्याहार एव। कर्त्राक्षेपे तु वक्ष्यामः॥
इति श्रीमद्गङ्गेशोपाध्यायविरचिते तत्त्वचिन्तामणौ

शब्दखण्डे आसत्तिवादः॥
अथ तात्पर्यवादः

तात्पर्याधीनं शब्दप्रामाण्यम्। तत्र तत्परत्वं न तत्साध्यकत्वं पदार्थतत्संसर्गयोः शब्दासाध्यत्वात्।
अथ तद्गोचरप्रवृत्तिनिवृत्तिसाध्यकत्वं तत्परत्वम्। तच्च भाव्यार्थस्य साक्षात् भूतार्थस्य तु प्रशंसानिन्दावाक्य प्रशस्तनिन्दितार्थप्रतिपादनद्वारा लाक्षणिकस्य
लक्षणीयविषयप्रवृत्तिनिवृत्तिजनकत्वं तत्परत्वमिति चेत्, न, तत्परत्वे तज्ज्ञानं जनयित्वा तत्र प्रवर्र्तकत्वं तत्प्रवर्र्तकत्वञ्च तत्परत्वमिति परस्पराश्रयात्। लाक्षणिकस्याननुभावकत्वेऽपि
लक्षणीयपरत्वात् काव्यादेः स्वरूपाख्यानमात्रपरत्वेनापि पर्यवसानाच्च। ननु तद्बुद्धिजनकत्वं तत्परत्वं प्रशंसानिन्दावाक्यमपि प्रशस्त-निन्दितस्वार्थधीहेतुत्वेन तत्परमेव,
तच्च ज्ञानं प्रशस्ते सर्वः प्रवर्त्तते निन्दिताच्च निवर्त्तते इति स्वविषये प्रवृत्तिनिवृत्ती जनयतीति तत्परमुच्यत, इति चेत्, न। गौणलाक्षणिकयोरननुभावकत्वात् तद्बुद्धिजनने
तत्परत्वमित्यन्योन्याश्रयाच्च। तज्जननयोग्यत्वमिति चेत्, तर्ह्येकत्रोच्चारणे नानार्थे नानार्थपरत्वं लक्षणायाञ्च मुख्यार्थपरत्वं स्यात् योग्यतायाः सत्वात्। नापि तत्प्रतिपाद्यकत्वं,
तात्पर्यं विना न तथेत्यन्योन्याश्रयात्। प्रशंसा-निन्दावाक्यस्य प्रवृत्त्याद्यप्रतिपादकत्वात् लाक्षणिकस्याप्रतिपादकत्वाच्च। अथ गङ्गापदं स्वार्थाविनाभावि तीरं प्रतिपादयत्तत्परमिति
चेत्, न। मञ्चाः क्रोशन्तीत्यत्र तेन विनापि पुरुषे तात्पर्यात् गङ्गादिपदं मत्स्यादिपरं मुख्ये तीरपरञ्च स्यात् अविनाभावस्य तादवस्थ्यात्। मुख्ये बाधके सतीति चेत्, तर्हि
मुख्यार्थपरतैव न स्यात् न स्याच्च गच्छगच्छसीत्यत्र गमनाभावपरत्वं। उच्यते। तत्प्रयोजनकत्वं तत्परत्वं तदर्थश्च प्रतीतिः प्रवृत्तिनिवृत्ती च, प्रयोजनत्वञ्च न साध्यत्वं
अन्योन्याश्रयात्। नापि प्रतिपाद्यच्छाविषयत्वं, यस्य यदिच्छाविषयः तं प्रति तत्परत्वापत्तेः। तदर्थसाध्यत्वेन इच्छानियम इति चेत्। न। इह धूम इत्यत्र जन्यज्ञाप्यभेदेन
साध्यस्य बहुविधतया वाक्यमेदप्रसङ्गात् पुमिच्छाया नियन्तुमशक्यत्वात्, किन्तु प्रतिपादकेच्छाविषयत्वं तत्परत्वं, यः शब्दः वक्ता यदिच्छया प्रयुक्तः स तत्परः, सा
चेच्छाप्रतिपाद्यधीप्रवृत्तिनिवृत्तिविषयेति तत्परत्वं। नानार्थात् श्लिष्टादनेकपदार्थान्वितैकक्रियापदात् मुख्यलाक्षणिकपराच्चावृत्त्या क्रमेणानेकपदार्थज्ञानं न त्वेकदैव,  सकृदुञ्चरितस्य
सकृदर्थपरत्वनियमेनैकत्रोच्चारणे अनेकार्थपरत्वाभावादिति सकलतान्त्रिकैकवाक्यतया वदन्ति।

वयन्तु ब्रूमः। अनेकपदार्थप्रतीतीच्छया एकमुच्चारणं भवत्येव पुमिच्छायानियन्तुमशक्यत्वात्। यदि च तदुच्चारणं नानेकार्थपरं तदावृत्तिरपि न स्यात्
तात्पर्यनिर्वाहार्थमावृत्तिकल्पनात्। अन्यथैकपरेऽपि तदापत्तेः। अत एव तदुच्चारणस्य उभयपरतायां नावृत्तिकल्पणं तस्मात्तुल्यवदनेकार्थोपस्थितौ तात्पर्यादिज्ञाने युगपदनेकान्वयबोधो
भवति सामग्र्यास्तुल्यत्वात् प्रथममेकस्यान्वयबोधो न तदन्यस्येति नियन्तुमशक्यत्वाच्च। अथ विवादाध्यासितमक्षपदोच्चारणं एकपदैकशक्तिविषयमेकमेवानुभावयति
एकपदोच्चारणत्वात् घटदोच्चारणवत्। यद्वा एकत्रोच्चारणे नानाशक्त्त्या नानार्थाननुभावकं नानार्थत्वात् एकपरनानार्थपदवदिति चेत्, न। अनेकार्थानुभवसामग्रीसत्त्वेन
बाधितत्वात् सामग्रीविरहस्योपाधित्वाच्च। अतएवाक्षमानयेत्युक्ते भिन्न प्रकरणादिना भिन्ने तात्पर्य्यप्रमायां भ्रमे वा प्रतिपाद्ययोरेकदैवावृतिं्त विनानेकार्थप्रतीतिर्न तु तत्रैको
विलम्बते, एवं घटं पटं वा आनयेत्यत्रानयनस्योभयपरत्वे एकदैवान्वयबोधो न त्वावृत्तिः वाक्यभेदस्त्वर्थभेदात् न ज्ञानभेदात्। गङ्गायां जलं घोषश्च प्रतिवसतीत्यत्र
गङ्गापदस्य युगपत्प्रवाहतीरयोस्तात्पर्य्यग्रहे तयोद्वयोरप्येकदोपस्थितौ जल-घोषयोरेकदैवान्वयबोधः। न च युगपद्वृत्तिद्वयापत्तिः, इष्टत्वात्, तात्पर्याद्दि वृत्तिः, न तु
वृत्त्यनुरोधात् तात्पर्य्यं, गौणलाक्षणिकयोरुच्छेदापत्तेः तात्पर्य्यनिर्वाहार्थं वृत्तित्वेन तयोः कल्पनात्। मुख्यलाक्षणिकयोरेकैकमात्रपरत्वे तु युगपद्वृत्तिद्वयविरोधः।अनेकान्वयबोधपरत्वे
वृत्तिद्वयविरोधस्य दोषत्वे परिभाषापत्तेः, यत्र मुख्यार्थे शीघ्रत्वेन प्रथममन्वयबोधः अनन्तरं लाक्षणिकान्वयबोधः तत्रावृत्तिरेव तस्मात् युगपत्तात्पर्याग्रहेसति नावृत्तिः
किन्त्वनेकार्थपरत्वे सत्येव यत्र तात्पर्यग्रहक्रमादन्वयबोधक्रमः तत्रावृत्तिः प्रथमोच्चारणस्य पर्यवसितत्वादिति। एवञ्च लोके क्लृप्तत्वात् वेदेऽपीदं तात्पर्यमिति तस्य
पौरुषेयत्वं।

अत्र मीमांसकाः यथोच्चारणपूर्वकत्वात् उच्चारणं वेदे परतन्त्रं तथा तात्पर्यमपि तात्पर्यपूर्वकमेवेति परतन्त्रं न तु कस्यापि प्रथमं तात्पर्यं अनादित्वात्
पूर्वपूर्ववाक्यार्थज्ञानेच्छयोच्चारणमुपजीव्याग्रिमग्रिमस्य तदिच्छयोच्चारणात् तदिच्छया तदुच्चारणमेव हि तत्परत्वं लोकवेदसाधारणं, सा चेच्छा स्वतन्त्रा परतन्त्रावेति न
कश्चिद्विशेषः, तदवधारणञ्चानादिमीमांसापरिशोधितन्यायाद्वेद इत्युभयवादिसिद्धं, अतस्तात्पर्य्यानुरोघेन वेदस्य न पौरुषेयत्वं। नन्वर्थज्ञानं विनोच्चरितवेदात् कथमर्थधीः

120

वाक्यार्थज्ञानं विना तदिच्छयोच्चारणाभावात्, प्रतिपुरुषमुच्चारणभेदादिति चेत्, तर्हि पठ्यमानभारतादपि तथाभूतादर्थधीर्न स्यात् व्यासेन यत्प्रतीतीच्छया उच्चारणं  कृतं
तज्जातीयत्वात् अर्थज्ञानं विनापि पठ्यमानभारतादर्थधीरिति चेत्, तर्हि वेदेऽपि तुल्यम्। तत्तात्पर्यकजातीयत्वस्य नियामकत्वात् अन्यथा पठ्यमानवेदात्तवाप्येर्थधीर्न स्यात्
ईश्वराप्रणीतत्वात्।

अथ वेदः पौरुषेयः वाक्यत्वात् भारतादिवत् इति चेत्, को वेदः, अनुगतधर्माभावेन तस्य शाखासु नानार्थत्वात्। तथाहि न मुख्यवेदपदप्रयोगविषयो वेदः
मुख्यार्थाकथनात् । नापि शाखासमुदायः तस्य वेदनिरूप्यत्वात् समुदायस्याप्रतिपादकत्वेन वाक्यत्वासिद्धेश्च। नापि स्वर्गकामादिवाक्यं, स्मृतिभारतादेरपि तथात्वात्। नापि
सन्दिग्धकर्तृकवाक्यं, वादिनोर्निश्चयात्। वाद्यनुमानयोस्तुल्यत्वेन मध्यस्थस्य संशय इति चेत् , तर्ह्यनुमानाभ्यां तस्य संशयो मध्यस्थसंशयप्रश्नानन्तरञ्चानुमानमित्यन्योन्याश्रयः।
नापि विवादाध्यासितं वाक्यं, अनुगतधर्मं विना विवादस्याप्यभावात् भारतादावपि तत्सम्भवाच्च। नापि महाजनानां वेदाकारानुगतव्यवहारात् वेदत्वं जातिः,
देवदत्तीयत्वाद्यनुमापकशब्दवृत्तिजातिभिः सङ्करप्रसङ्गात्।

किञ्च पौरुषेयत्वं न तदर्थधीजन्यत्वं तदुच्चारणधीप्रभवत्वं वा, अध्यापकतदुभयधीजन्यत्वेन सिद्धसाधनात्। नाप्युच्चारणस्य सदित्वं, प्रत्युच्चारणस्य सादित्वात्।
नापि स्वतन्त्रपुरुषप्रणीतत्वं, पठ्यमानवेद भारतयोस्तदभावात्। तज्जातीयः स्वतन्त्रपुरुषप्रणीतइति चेत्, तर्हि पठ्यमानभारतं व्यासस्य न ममेति कथं स्यात्, स्वातन्त्र्यञ्च
यद्युच्चारणव्यक्तौ तदा ममाप्युच्चारणसामान्ये न व्यासस्यापि।

किञ्च स्वतन्त्रपुरुषप्रणीतजातीयत्वं यदि साध्यते तदाद्यभारते स्मृतौ च वाक्यत्वमनैकान्तिकं, न हि तज्जातीयं स्वतन्त्रपुरुषप्रणीतमस्ति।
अथ स्वतन्त्रकृतसजातीयं स्वतन्त्रतपुरुषप्रणीतमस्ति साध्यमनिर्धारितविशेषं जीवी क्वचिदस्तीति वदिति चेत्, न। पठ्यमानभारते व्यभिचारात्। अथार्थं प्रतीत्य
तदर्थपरतया प्रतिसन्धीयमानपदत्वं पौरुषेयत्वं तस्य प्रथममावश्यकत्वात्, अत एवानुच्चारितोऽपि मौनिश्लोकः पौरुषेध इति चेत्, न। अर्थज्ञानवताध्यापकेन सिद्धसधनात्,
अन्यथा पठ्यमानवेदभारताभ्यां व्यभिचारात्।  अत एववेदत्वं स्वतन्त्रपुरुषप्रणीतवृत्ति वाक्यवृत्तिधर्मत्वात् भारतत्ववदिति  निरस्तम्। स्वतन्त्रप्रणीतत्वं हि वाक्यार्थगोचरयथार्थज्ञान
चिख्यापयिषयोच्चारणं तथाच तथाविधाध्यापकेन सिद्धसाधनम्।  एतेनवक्तृत्वानुवक्तृत्वयोर्भेदस्य लोकसिद्धत्वात् सवक्तृकत्वं साध्यमितिनिरस्तम्। नापि सजातीयोच्चारणानपेक्षोच्चारणं
पौरुषेयत्वं पठ्यमानवेदे बाधात् भारते व्यभिचाराच्च।

उच्यते, शब्दतदुपजीविप्रमाणतिरिक्तप्रमाणजन्यप्रमित्यविषयार्थकत्वे सति शब्दजन्यवाक्यार्थज्ञानाजन्यप्रमाणशब्दत्वं वेदत्वम्। ईश्वरीयप्रमायाः अजन्यत्वात्,
वेदार्थस्यानुमानादिविषयत्वेऽपि अनुमानादेर्वेदोपजीवकत्वात्। स्मृतीनां भारतादिभागस्य च वेदसमानार्थकत्वेऽपि शब्दजन्यधीजन्यत्वात् वेदार्थ प्रतीत्य तत्प्रणयनात्।
सजातीयोच्चारणानपक्षोच्चरितजातीयत्वं पौरुषेयत्वं, आद्यभारतेऽपि तज्जातीयत्वान्न व्यभिचारः।

अथवावेदत्वं सजातीयोच्चारणानपेक्षोच्चरितवृत्ति प्रमाणतावच्छेदकवाक्यवृत्तिधर्मत्वात् स्मृतित्ववत्।
यद्वावेदाः शब्दाजन्यवाक्यार्थगोचरयथार्थज्ञानजन्याः प्रमाणशब्दत्वात् भारतवत्। न च पठ्यमाने वेदे बाधः भारते मन्वादिस्मृतौ च व्यभिचारः तेषां द्विकर्तृकत्वात्,
तादृशज्ञानजन्यजातीयत्वं वा साध्यं, तवाप्येतदभावादेव वेदेऽपौरुषेयत्वव्यवहारः।

नन्वप्रयोजकमिदं वाक्यार्थगोचरयथार्थज्ञानपूर्वकत्वमेव शब्दप्रामाण्ये तन्त्रं न तु तादृशज्ञानस्य शब्दाजन्यत्वमपि गौरवात्। अन्यथा वेदेऽपि तव द्विकर्तृकत्वेन
प्रामाण्यं स्यात् । लोके तथा दर्शनात्। एवञ्च अनादिमीमांसासिद्धन्यायेनावगततात्पर्यात् वेदादर्थं प्रतीत्य पूर्वपूर्वाध्यापकेन उच्चरिताद्वेदादुत्तरोत्तरस्याप्यध्ययनतदर्थप्रतीत्यादितैवातः
किं स्वतन्त्रपुरुषेण, तत्प्रयोजनस्य परतन्त्रादेव सिद्धेः।

किञ्च पूर्वकालो न वेदशून्यः कालत्वात् वर्र्त्तमानकालवत् । न चांशे बाधः अंशे चाश्रयासिद्धिः, अंशत्वेनानुपादानात्, पूर्वकालो न वेदशून्य इत्युद्देश्यप्रतीतेरसिद्धेः
नांशतः सिद्धसाधनं, तथा पूर्वकालीनं वेदाध्ययनं गुर्वध्ययनपूर्वकं अध्ययनत्वात् इदानीन्तनाध्ययनवत्। न च लिप्यनुमितवेदाध्ययनेन व्यभिचार्ः, लिपेरध्ययनपूर्वकत्वात्
। न चैवं भारताध्ययनमपि तथा स्यात्, तस्य भारतादावेव व्यासादिकर्तुकत्वेन कथनादिति।

उच्यते। वेदप्रामाण्याधीनं तत्प्रामाण्यमित्यात्माश्रयः। न च पूर्ववेदप्रामाण्याधीनमुत्तरवेदप्रामाण्यमिति व्यक्तिभेदमादाय नात्माश्रय इति वाच्यम्। एवं तत्पूर्वस्यापि
तत्पूर्वप्रामाण्यात् प्रामाण्यमित्यनवस्थानात्। अनादित्वादयमदोष इति चेत्, न। मूलभूतप्रमाणान्तराभावात् अन्धपरम्परापातात्। स्वतः प्रमाणं वेद एव सर्वत्र वेदे मूलमिति
चेत्, न। सर्वेषामेव परवेदापेक्षत्वेन स्वतः प्रमाणत्वाभावात्। अत एव आचरात् स्मृतिः स्मृतेराचार इत्यत्र विश्वासबीजपरानपेक्षमूलभूतप्रमाणाभावादन्धपरम्पराभये नतत्र
वेदमूलकत्वकल्पना। अनादिमहाजनपरिग्रहादनादिवेदप्रवाहप्रामाण्यावधारणेऽपि तान्निर्वाहकेतरानपेक्षमूलभूतप्रमाणाभावेनानाश्वास एव अन्यथा स्मृत्याचारयोरप्येवं प्रामाण्यावधारणे
प्रमाणमूलकत्वकल्पना न स्यात्। तस्मादाश्वासबीजपरानपेक्षेश्वरप्रत्यक्षमूलकत्वादेव वेदस्य प्रामाण्यं महाजनपरिग्रहादवधार्यते।  एतेनानुमानमपि  निरस्तम्। मूलभूतप्रत्यक्षं
विना वेदप्रामाण्यानुपपत्या साध्याभावसिद्धौ बाधात्।

ननु वेदो न पौरुषेयः अस्मर्यमाणकर्तृकत्वादिति बाधकमस्त्विति चेत्, न। कपिल-कणाद-गौतमैस्तच्छिष्यैश्चाद्यपर्यन्तं वेदे सकर्तृकत्वस्मरणस्य प्रतीयमानत्वात्।
न च मूलभूतानुभवाभावात् स्मरणानुपपत्तिः, पौरुषेयत्वानुमानादेवानुभवात्। अस्मरणमेव तत्र बाधकमिति चेत्, न। एवं सत्यस्मरणाननुभवयोरन्योन्याश्रयात्। अग्रे
तदर्थस्मरणाभावेऽपि प्रमाणस्यानुभावकत्वात्। न हि भाविस्मरणमपेक्ष्य प्रमाणमनुभावकं। " "तस्मात्तपस्तेपानाच्चत्वारो वेदा अजायन्तकृतः नामानि जज्ञिरे" " इति कर्तृश्रवणात्
" "प्रतिमन्वन्तरञ्चैषा श्रुतिरन्या विधीयते" " इत्यादिकर्तृस्मरणाच्च। पौरुषेयत्वे बाधकं विना अर्थवादमात्रत्वस्य वक्तुमशक्यत्वात्। " "स्वयम्भूरेष भगवान् वेदो गीतस्त्वया

121

पुरा। शिवाद्या ऋषिपर्य्यन्ताः स्मर्त्तारोऽस्य न कारकाः" " इति महाभागवतपुराणीयवाक्यस्य श्रुतिविरोधेनान्यत्र तात्पर्यात्। न च कार्यपरमेव प्रमाणं, कर्तृस्मरणस्य
सर्वत्राविध्यर्थत्वात् सकर्तृकत्वार्थवादस्य स्वर्ग-नरकार्थवादस्येव " "ईश्वरमुपासीत" " इति विधिशेषत्वाच्च। साधरिष्यते च सिद्धार्थस्य प्रामाण्यं। न चैवमानन्दोऽपीश्वरे
स्यादिति वाच्यं, तत्र मानान्तरविरोधात्। पुरुषस्य भ्रम-प्रमादादिभूयिष्ठत्वेन वेदे नाश्वास इति चेत्। न। धÐमग्राहकमानेन नित्यसर्वज्ञत्वेन सिद्धे तत्र दोषाभावादिति।
इति श्रीमद्गङ्गेशोपाध्यायविरचिते तत्त्वचिन्तामणौ

शब्दाख्यतुरीयखण्डे तात्पर्यवादः॥
अथ शब्दानित्यतावादः

ननु तथाप्यप्रयोजकं पौरुषेयत्वानुमानं नित्यनिर्द्दोषत्वनैव तत्प्रामाण्योपपत्तेरिति चेत्, न। वर्णानां अनित्यत्वेन तत्समूहस्य सुतरामनित्यत्वात्। न च तदसिद्धं,
तथाहि वर्णात्मकः शब्दोऽनित्यः समवेतत्वे मत्युत्पत्तिमत्वात् घटवत्। न च हेत्वसिद्धिः, उत्पन्नो गकारः इट्टायामुत्पद्यमानोऽस्ति कोलाहल इति प्रत्ययात्। न च
व्यञ्चकाभावात् प्रागनुपलब्धस्योपलब्धिमात्रं तस्य, उत्पन्नो गकार इति प्रत्ययात्। न चायमौपाधिकः, अन्योत्पत्तावगृह्यमाणायामपि तदनुभवात्। न च स्मर्यमाणारोपः,
बाधकाभावात्। अन्यथा घटोत्पत्तिरपि न सिद्ध्येत्।

यत्तु श्रोत्रानुविधानात् पदं श्रृणोमीत्यबाधितानुव्यवसायात् श्रोत्रादन्येन ग्रहीतुमशक्यत्वाच्च श्रोत्रग्राह्यैवानुपूर्व्वी सा च घसमानकालीनप्रागभावप्रतियोगित्वं टस्येति
प्रागभावप्रतियोगित्वमुत्पत्तिमत्त्वं वर्णस्य प्रत्यक्षमिति, तन्न, घज्ञानानन्तरज्ञानविषयत्वं टस्यानन्तर्य्यं तयोरानुपूर्वी सा च मनसैव गृह्यते घटपटज्ञानयोरिव। तदुपनीताच
श्रोत्रविषयः। ननु स एवायं गकार इति प्रत्यभिज्ञाबाधितमिदमित्येकैकाएव गकारादिव्यक्तयः। यद्यपि प्रत्यभिज्ञाया नित्यत्वं न विषयस्तथापि नाशकत्वाभिमतशब्दान्तरादीनां
अन्तरासम्भवेऽपि तावत्कालीनतां गकारस्य गृह्णातीति ""तावत्कालं स्थिरञ्चैनं कः पश्चान्नाशयिष्यतीति पराभिमताशुविनाशित्वव्यतिरेकान्नित्यतायामेव पर्यवस्यति। न
च धर्मिणो गकारस्य भेदेऽपि एकजातीयत्वेन प्रत्यभिज्ञा, तथा सति तज्जातीयोपमितिः स्यान्न तु स एवायमिति।

अथ तारत्व-मन्दत्व-विरुद्धधर्माध्यस्तविषयत्वेन सा न प्रमाणं। न च तारत्वादीनां स्वाभाविकत्वं विरुद्धत्वञ्चासिद्धं, मन्दस्तारो गकारस्तारान्मन्दोऽन्य
इत्यनन्यथासिद्धप्रत्यक्षात् तत्सिद्धेः। न ह्यपां शैत्य-द्रवत्वे स्वाभाविके इत्यत्र प्रत्यक्षादन्यत् प्रमाणम्। तत् किं यो यद्गतत्वेन भासते स तद्धर्म एव तथा सति रक्त्तः पटः
लोहितः स्फटिक-इत्यादावपि तथा स्यादविशेषात्, न, रक्त्तत्वादीनामन्यधर्मत्वस्थितौ स्फटिकादीनाञ्च तद्विरुद्धधर्मत्वे स्थिते जपाकुसुमादेरन्वय-व्यतिरेकानुविधानाद्बाधेन
तत्र भ्रान्तत्वात्। न चेह तारत्वादेरन्यधर्मत्वेनोपस्थितिः। नापि गकारादीनां तद्विरुद्धधर्म्मवत्वं, नाप्यन्यस्य तारत्वादिधÐमणोऽनुविधानम्। न चावश्यं स्वीकृतवायोरेव
धर्मस्तारत्वादयोगकारादिगतत्वेन भासन्ते इति वाच्यं। स्वर्शाग्रहे त्वचो व्यापाराभावेन त्वचा तदग्रहात्। न च श्रवप्ता तद्ग्रहः, अवायवीयत्वेन वायुमात्रधर्माग्राहकत्वाच्चक्षुर्वत्।
तारत्वादयो वा न वायुधर्माः श्रावणत्वात् कादिवत्, वायुर्र्वा न श्रवणमात्रग्राह्यधर्मोमूर्त्तत्वात् पटवत्, अत एव न तारत्वादयो वायुधर्मध्वनिधर्माः वायुधर्मस्य ध्वनेरग्रहात्।
न च ध्वनिरूपः शब्दो नभोवृत्तिरेव तथा सति तद्धर्मतारत्वादिग्रहः श्रवसेति वाच्यम् । तारोऽयं गकार इत्यत्र ध्वनीनामस्फुरणत् तत्कारणाभावाच्च। न च व्यक्त्या विना
जातिस्फुरणं, तस्याव्यक्तिसमानसंवित्संवेद्यत्वात्। न च स्मर्यमाणतारत्वाद्यारोपः, बाधकाभावत् प्रथमतस्तारत्वाद्यग्रहप्रसङ्गाच्चेति।
मैवम्। तारत्वादयो न गकारादिजातयः गत्वादिना सङ्करप्रसङ्गात्। न च नानैव तारत्वं, ताराकारानुगतप्रत्ययाभावप्रसङ्गात्। न च सजातिय
साक्षात्कारप्रतिबन्धकतावच्छेदकशब्दवृत्तिजातित्वेन नानातारत्वेष्वनुगमः, तद्प्रतिसन्धानेऽपि तारत्वानुगतप्रत्ययात्। तारत्व-मन्दत्वे च न शब्दवृत्तिजाती सप्रतियोगिकत्वात्।
नापि तारत्व-मन्दत्वयोर्विरोधः, य एव गकारस्तार आसीत् स एवेदानीं मन्द इति समयभेदेन वक्तृभेदेन च तयोरेकत्वप्रतीतेः। तारोऽयं न तारतरस्तारान्मन्दोऽन्य इति
भेदप्रतीतिरस्तीति चेत्, न, धÐम्मणोऽभेदे भासमाने विश्ष्टधÐम्मभेदप्रतीतेर्धर्मभेदविषयत्वात्। एकत्र घटे लोहितोऽयं न श्यामइदानीमिति प्रतीतिवत्। न च तीव्रेण गकारेण
मन्दगकाराभिभवात् तयोर्भेदः न हि तदेव तदभिभावकं, तस्यैव तेनैव तदैव ग्रहणाग्रहणयोर्विरोधात् इति वाच्यं। तारत्वव्यञ्चकवायोर्बलवत्त्वेन मन्दत्वव्यञ्चकवाय्वभिभवात्
मन्दत्वस्याग्रहणात्। सन्तु वा तार-मन्दरूपादयोऽभिन्नाएव गकारास्तत्प्रत्यभिज्ञाने बाधकाभावात्। तस्मात् वायुधर्मा एव तारत्वादयः शब्दगतत्वेन भासन्ते दर्पणधर्म्मा इव
मुखादौ तद्ग्रहणञ्च स्पर्शपुरस्कारेण कर्णशष्कुलीत्वगिन्द्रियेण तार-मन्दजनकवायूनां त्वयाप्युत्कर्षापकर्षस्योद्भूतस्पर्शस्य च स्वीकारात् श्रौत्रेणैव वा। चक्षुरादेर्यन्न
वायुधर्म्मग्रहस्तत्रायोग्यत्वमुपाधिः, अन्यथा श्रोत्रेण स्वगुणो न गृह्येत इन्द्रिये तथा दर्शनात्, चक्षुर्वा न पार्थिवरूपग्राहकं अपार्थिवेन्द्रियत्वात् रसनवत् इत्याद्यपि स्यात्।
अथ योग्योयोग्येन गृह्यते स्वगुणः परगुणो वा, योग्यता च फलबलेन कल्प्यते, तर्हि श्रोत्रस्यापि वायुधर्म्मग्रहे तुल्यं। न च तारो गकार इत्यत्र वायोरप्रतीतिः,
वायुत्वेनाप्रतीतावपि तारत्वादिनैव तत्प्रतीतेः, यथा अंग्रित्वेनाप्रतीतावपि अयोगोलके लोहित इति प्रतीतिः।

ननु वायु-शब्दयोस्त्वचा श्रोत्रेण वा ग्रहे केन तारोऽयं गकारइत्यारोप इति चेत्, न, उभयेन्द्रियग्राह्ययोरसंसर्गाग्रहात् संसर्गप्यवहारः। अस्तु वा त्वगिन्द्रियोपनीतस्य
श्रोत्रेणारोपः श्रोत्रेणैव वा तारत्वग्रहोऽपीत्युक्तं, उत्पत्तिमत्त्वञ्चासिद्धं तत्प्रतीतेः श्रुतपूर्व्वोऽयं गकार इति प्रत्यभिज्ञानबाधितत्वात्। ननु प्रत्यभिज्ञैव तया बाधिता
गत्वजात्यौणधिकोऽभेदप्रत्ययो गकारे सम्भवतीत्युक्तमिति चेत्, न, गत्वजातेरसिद्धेः भेदे भासमाने ह्यभेदप्रतीतिर्जातिमालम्बते। न च गकारभेदप्रतीतिरस्ति, तारत्व-मन्दत्वे
अपि न भेदहेतू य एव तारः स एवेदीनीं मन्द इति प्रत्यभिज्ञानात्, गकारानित्यत्वेऽपि तथा सम्भवतीति चेत्, तर्हि नित्यत्वेऽपि कर्णशष्कुलीत्वगिन्द्रियोपनीतवायुधर्म्मोत्पत्तेरुपाधित्वं
सम्भवति। न च वायोरप्रतीतिः, उत्पन्नत्वेनैव तत्प्रतीतेेः लोहितत्वेनेव जवाकुसुमस्य स्फटिके।

अस्तु वा प्रागनुपलभ्यमानत्वे सति उपलभ्यमानत्वेन उत्पन्नस्य सादृश्येन स्मृतोत्पत्तिमत्त्वारोपः । न चैवं घटादावपिनोत्पत्तिः सिद्ध्येदिति वाच्यम्।
कुलालब्यापारानन्तरमनुभूयमानघटस्य तद्व्यापारात् प्रागनुभूयमानेन घटेन नाभेदोभासते किन्तु भेद एवेति तत्र प्रागसत्वेसत्वं सिध्यति, गकारे तूत्पत्तिप्रतीत्यनन्तरं
कण्ठलाल्वादिव्यापारात् पूर्वमनुभूयमानगकारेणाभेदप्रत्ययात् दीपवत् स व्यञ्चक एव।

122

अथ शब्द उत्पद्यते उत्कर्षवत्वे सति अपकर्षवत्वात् माधुर्यवत् अत एवानित्यत्वमिति चेत्, न। तारत्व-मन्दत्वयोरुत्कर्षापकर्षयोर्गकारे पूर्वन्यायेनासिद्धेः सिद्धौ
वा जातिसङ्गरभयेनोत्कर्षापकर्षयोर्जात्योः रसत्व-शब्दत्वव्याप्ययोर्नानात्वेन रसशब्दसाधारण्याभावात्। अत एव सजातीयसाक्षात्कारप्रतिबन्धकतावच्छेदकसामान्यमुत्कषः
तत्प्रतिबध्यसाक्षात्कारविषयतावच्छेदकसामान्यमपकर्ष इति साधारणो हेतुरपास्तः। तारत्वादेर्गकारजातित्वासिद्धेः। साधनावच्छिन्नसाध्यव्यापकमूर्त्तगुणत्वस्याश्रौत्रत्वस्य चोपाधित्वात्
अप्रयोजकत्वाच्च। न हि कारणाधीन एव उत्कर्षोऽपकर्षश्च, परममहति परमाणौ च परिमाणे प्रत्येकं सत्वात्। न चोभयस्यैकत्र सत्वं कारणप्रयोज्यं, एकैकवद्द्वयोरपि
प्रत्येकमेकत्वात्। स्यादेतत् श्रोत्रव्यापारानन्तरमिदानीं श्रुतपूर्व्वो गकारो नास्ति विनष्टः कोलाहल इति प्रतीतेः प्रत्यक्षमेव शब्दानित्यत्वं विनाशिभावत्वेनोत्पत्तिमत्त्वानुमानाद्वा,
प्रत्यक्षप्रतियोगिकाभावत्वेन हि प्रत्यक्षत्वं ध्वंसस्य घटध्वंसवत् न तु विनाशग्रहे प्रतियोगिसमवायिप्रत्यक्षंत्वं तन्त्रं धर्म्माभावस्य प्रत्यक्षत्वापत्तेः। तदिन्द्रियाग्रह्येऽपि
प्रतियोगिसमवायिनि गन्ध-रसाभावयोर्ग्रहणाच्च। न च प्रतियोगियोग्यत्वस्य तन्त्रत्वे वायुस्पर्शध्वंसोऽपि प्रत्यक्षः स्यात् इति वाच्यम्। आश्रयनाशजन्यस्य तस्य
ग्राहकेन्द्रियसन्निकर्षाभावात्। किञ्च यस्य सत्वं यत्रानुपलब्धिविरोधि तस्याभावस्तत्र गृह्यते इति योग्यानुपलब्धार्थः। अतएवं पृथिवीत्वाभावो जलीयपरमाणौ न प्रत्यक्षः
प्रत्यक्षश्च वायौ रुपभावः। अस्ति च तथा शब्दे तस्य तत्वे समवधाने च प्रतीतिप्रसङ्गात्। निरधिकरणाभावप्रतीतिर्नास्तीति चेत्, न, इहेदानीं शब्दो नास्तीति प्रतीतेः।
तस्मात् यत्राधिकरणे देशे समये वा प्रतियोग्यत्र वर्तते तत्र तदभावो निरूप्यते। अत एव सद्भ्यामभावो निरूप्यते इत्युक्तं, शब्दाभावस्य च स्वतएवेन्द्रियसन्निकृष्टत्वात्
नाश्रये सन्निकर्षापेक्षा। इन्द्रियविशेषणतया नाभावग्रहणामिति चेत्, न। अयोग्यत्वस्योपाधित्वात्। अन्यथा गुणस्य संयुक्तसमवायेन ग्रहणदर्शनात् न समवायेन शब्दग्रहः
स्यादिति।

मैवम्। अत एव हि शब्दस्य व्यञ्जकविरहादनुपलब्धिमात्रं न तु ध्वंसः, तत्तद्याप्येतरसकलतदुपलम्भकसमवधाने तदनुपलब्धिरूपयोग्यानुपलब्धेरभावात्।
प्रतियोग्युपलम्भकव्यञ्चकवायोरभावात्, विनष्टप्रतीरपि त्वगिन्द्रियोपनीतव्यञ्चकवायुस्पर्शध्वंसोपाधिकैव। वायुर्नोत्पादकः किन्तु व्यञ्चकः इत्यत्र किं विनिगमकमिति
चेत्, न। इदानीं श्रुतपूर्व्वो गकारो नास्ति विनष्टः कोलाहलइति प्रतीत्यनन्तरं पुनः श्रवणे श्रुतपूर्वोऽयं गकारः पुनः स एवायं कोलाहल इति प्रत्यभिज्ञानमेव,
घटध्वंसप्रतीत्यनन्तरञ्च स एवायं घट इति न प्रत्यभिज्ञानमिति तत्र विनष्टप्रतीत्याध्वंस एव सिध्यति। अतएव तारत्व-तारतरत्व-मन्दत्व-मन्दतरत्वप्रतीतीनां भ्रमत्वकल्पनाद्दरं
प्रत्यभिज्ञानमात्रस्य भ्रमत्वकल्पनमित्यपास्तम्। एतासु सतीष्वप्यभेदप्रत्यभिज्ञानात्।

स्यादेतत् शब्दः प्रयत्नसाध्यः तदनभिव्यङ्ग्यत्वे सति तदनन्तरमुपलभ्यमानत्वात् पटवत्, अभिव्यञ्जकत्वं हि इन्द्रियसम्बन्धप्रतिबन्धकापनायकत्वादिन्द्रियसन्निधापकत्वाद्वा
कुह्योत्सारणेनेव पटादीनां, तदुभयमपि शब्दे न सम्भवति नित्यसमवेतत्वेनावरणापनयन-सन्निधापनयोरभावात्। नापि श्रोत्रसंस्कारात्, इन्द्रियसंस्कारस्य उन्मीलनालोकादेः
सकृदिन्द्रियसम्बन्धयोग्यसर्वार्थोपलब्ध्यनुकूलसंस्कारजनकत्वं दृष्टं तद्वद्वायुरपि सकृदेव सर्व्वशब्दोपलब्ध्यनुकूलं श्रोत्रे संस्कारमादध्यात्। तथाच सर्व्वशब्दोपलब्धिः स्यात्।
तदुक्तं " "सकृञ्च संस्कृतं श्रोत्रं सर्व्वशब्दान् प्रकाशयेत्। घटयोन्मीलितं चक्षुः पटं न हि न बुध्यते" "॥ अथान्वय-व्यतिरेकाभ्यां कार्ये प्रतिनियतजनकजन्यत्ववच्छब्देऽपि
प्रतिनियतव्यञ्चकव्यङ्यत्वमिति चेत्, न। वर्णा हि न प्रतिनियतव्यञ्चकव्यङ्याः एकावच्छेदेन समानदेशत्वे सति समानेन्द्रियग्राह्यत्वात् घटैकत्वपरिमाणवत्। न
चावयवसंयोग-बहुत्वव्यञ्चकाव्यङ्येनावयविनोत्पलत्वव्यञ्चकदीपाव्यङ्येन तन्नीलिम्ना घटवृत्तिपृथक्ताव्यञ्चकाव्यङ्येनैकत्वेन वा व्यभिचारः।
अवयवसंयोगाऽवयविनोर्नीलत्वोत्पलत्वयोश्चाव्याप्यव्याप्यवृत्तिनोरुत्पलत्वस्य चाधिकवृत्तित्वेनैकावच्छेदेन वृत्त्यभावात्। बहुत्व-पृथक्त्वव्यञ्चकव्यङ्यत्वञ्च अवयव्येकत्वयोरिति
न परस्परव्यभिचारिव्यञ्चकव्यङ्यत्वं अतएव नीला बलाकेत्यत्र रूप-परिमाणयोरर्द्धनिखात वंशसङ्ख्यापरिमाणयोर्वा न व्यभिचार इति। मैवम्। वर्णाः प्रतिनियतव्यञ्चकव्यङ्ख्याः
आश्रयेण सह समानेन्द्रियाग्राह्यत्वात् गन्धवत् इत्यापाततः सत्प्रतिपक्षत्वात्।

वस्तुतस्तु अनन्यथासिद्वप्रत्यभिज्ञानबलेनाभेदसिद्धौ प्रतिनियतव्यञ्चकव्यङ्ग्यत्वसाधकस्यैव बलवत्त्वं, शब्दस्य शब्दजनकत्वञ्च शब्दनाशकत्वं
वीचीतरङ्गन्यायेनोत्पत्तिकल्पनञ्च कल्पनमेव शब्दस्य शब्देऽजनकत्वादनाशकत्वाञ्च अन्त्याद्यशब्दवत्। एतेन सामान्यवत्त्वे सत्यस्मबहिदादिरिन्द्रियजप्रत्यक्षत्वात् इत्यपास्तं,
प्रत्यभिज्ञानबाधात् शब्दत्वगत्वादेरसिद्धेश्च, तस्माच्छब्दोनित्यः व्योमैकगुणत्वात् तत्परिमाणवत्, श्रोत्रग्राह्यत्वात् शब्दत्ववत् , विशेषगुणान्तरासमानाधिकरणैकवृत्तिगुणत्वात्
समयपरिमाणवत्, पृृथिवीतरनित्यभूतविशेषगुणत्वात् अपाकजत्वे सति नित्यैकसमवेतत्वात् जलपरमाणुरूपवत्, अव्यासज्यवृत्तित्वे सति अनात्मविभुगुणत्वात् कालपरिमाणवत्,
विपक्षे बाधकञ्च प्रत्यभिज्ञानमेवेति।

इति श्रीमद्गङ्गेशोपाध्यायविरचिते तत्त्वचिन्तामणौ
शब्दाख्यतुरीयखण्डे शब्दानित्यतावादपूर्वपक्षः।

अथ शब्दानित्यतावादसिद्धान्तः
अत्रोच्यते।गकारादिव्यक्तयोनैकैकाः, अस्ति च शुक-सारिका-मनुष्यप्रभवेषु स्त्री-पुंसतद्विशेषप्रभवेषुच गकारादिषु स्फुटतरवैलक्षण्यात् स्वरूपतोभेदप्रथा इक्षुक्षीरादिमाधुर्यवत्।
न चेयमौपाधिकी भेदप्रतीतिः, न हि विदितकुङ्कुमस्य कुङ्कुमारुणा तरुणीतिवत् स्त्री-पुंसप्रभत्वमानुभविकमुपाधिः इन्द्रियासन्निकर्षेण स्त्री-पुंसादिभेदमविदुषोऽपि शब्दभेदप्रत्ययात्,
यतोऽनुमापयन्ति शुकशब्दोऽयं स्त्रीशब्दोऽयमित्यादि अन्यथान्योन्याश्रयात्, तत्प्रभवत्वे ज्ञाते भेदप्रत्ययस्तस्माच्च तदनुमानमिति। न च कृपाणान्वय-व्यतिरेकानुविधानात्
कृपाणे मुखदीर्घत्ववत् औपपत्तिकमौपाधिकत्वं, अन्यानुविधानाभावात्। अथ व्यञ्जकवायोरेव वैलक्षण्यं शुकादिगकारगतत्वेन भासते वायोरुपलब्धिस्तेनैव रूपेणेति  चेत्,
न। गकारगतत्वे बाधकाभावात्। न चाभेदप्रत्यभिज्ञानं बाधकं, न हि य एव शुकशब्दः स एव स्त्रीशब्द इति प्रत्यभिज्ञानं, अन्यथा तेषु भेदज्ञानाभावेन वक्तृविशेषानुमानं
न स्यात्। न चाभिव्यञ्जकवायोरेव वैलक्षण्यं शुकाद्यनुमापकं, तस्य गकारावृत्तित्वात् तत्र चारोपे अनुमितेर्भ्रान्तत्वापातात्। तस्मात् यथा कृष्णा गौः शुक्ता गौरिति भेदे
भासमाने गकारानुगतप्रतीतिर्गोत्वमालम्बते तथा शुकादिगकारेषु, भेदेभासमानेऽयं गकारोऽभयमपि गकार इति बुद्धिर्गत्वमालम्बते इति प्रत्यभिज्ञा च भेदप्रथा चोपपद्यते।
किञ्च गत्वादिकं यदि न जातिस्तदा कोलाहलप्रत्ययो न स्यात् तथा हि नगरादौ बहुभिर्वर्णानामेकदोच्चारणे दूरस्थेनानभिव्यक्त्तगकारादिवर्णविभागं कोलाहलमात्रं
श्रूयते। न च तत्र वर्णान्यस्य ध्वनिरूपस्य शब्दस्य श्रुतिः सम्भवति, तदभिव्यञ्चकभेरीताङनादेरभावात्। न च वर्णाभिव्यञ्चका एव ध्वनिव्यञ्जकाः, सन्निधानेऽपि श्रूयमाणे
वर्णे तच्छ्रवणप्रसङ्गात्। न च वर्णाभिव्यञ्जवायुभिरेव दूरे ध्वनिमात्रमभिव्यज्यते, कव्यञ्जकस्य गव्यञ्जन इव वर्णव्यञ्जकस्य ध्वनिव्यञ्जनेऽसामर्थ्यात् तत्समर्थशङ्खादेरभावाच्च।

123

न च तत्र शब्दत्वमेव प्रतीयते न शब्दः, व्यक्त्यग्रहे जात्यग्रहात्। न चाभिव्यञ्जकोवायुरेव कोलाहलत्वेन प्रतीयते, शब्दत्वेन प्रत्ययात् सन्निधावपि तथा प्रत्ययप्रसङ्गाच्च।
गकारादिग्रहेऽपि तेषां परस्परभेेदाग्रहात् कोलाहलधीरिति चेत्, न, तेषु वैधर्म्याभावात् तदभावेऽन्योभावस्याभावस्याभावात् स्वरूपग्रहणात् समीपे वहुगकारेषु भेदाभावेन
तदग्रहे कोलाहलधीप्रसङ्गच्च। अनेकवर्णोच्चारणस्य तद्धेतुत्वे दूरेऽपि तदप्रत्ययापत्ते;। तस्मादवश्यं गत्वादिजातिरूपेया यदग्रहे गकारादिग्रहेऽपि कोलाहलबुद्धिव्यपदेशौ।
अस्ति च शब्दस्य कोऽपि च जातिविशेषः श्रोत्रग्राह्यः यस्मात् प्राच्यादिदिग्देशविशिष्टशङ्खप्रभवत्वमनुमीयते, अव्यपदेस्यत्वेऽपि इक्षुक्षीरादिमाधुर्य्यावान्तरवत्तत्सत्त्वात्।
अन्यथा दिग्देशविशिष्टशङ्खादीनां ग्रहे श्रोत्रस्यासामर्थ्थात् तत्प्रतीतिर्न स्यादेव। तथापि गत्वादिना परापरभावानुपपत्त्या शुकादिगकारादिषु न जातिविशेषा इति चेत्,
शुकककारादिषु कत्वादिव्याप्या नानाजातिर्भिन्ना तया प्रत्येकं शुकककारादिषु शुकादिप्रभवत्वमनुमाय तद्व्यवहारः, न तु शुकककारादिषु एका जातिरस्ति शुकप्रभवत्वाद्यनुमापिका
तह्यवहारकारिका वा, गत्वादिना सङ्करप्रसङ्गात्, गत्वन्तु न नाना अननुगतत्वेन ततोऽनुगतव्यवहारानुपपत्तेः। अत एव तारत्वमपि गत्वादिव्याप्यं नाना न तु गत्वं,
तन्निश्चयेऽपि गत्वसन्देहश्च व्याप्यतावच्छेदकरूपानिश्चयात्। न चानुगतव्यवहारानुपपत्तिः, सजातीयमाक्षात्कारप्रतिबन्धकतावच्छेदकत्वेनानुगतेन नानातारत्वेष्वनुगतव्यवहारसम्भवात्,
तदज्ञाने व्यवहारासिद्धेः। तारत्व-मन्दत्वे न जाती सप्रतियोगिकत्वात् इति चेत्, न, तारत्व-तारतरत्वादय उत्कर्षागिरूपा जातिविशेषा एव ते चाश्रये गृह्यमाण एव गृह्यन्ते
न तूत्कर्षावध्यपेक्षाः यथा मधुरतरत्वादय उत्कर्षव्यवहारं इतरसापेक्षाः कुर्व्वन्ति तथा मन्दाद्यपेक्षया तारत्वादिव्यवहारं, उत्कर्षस्तु जातिरूपादन्योऽसम्भावित एव, गकारे तु
नैवं, अनन्यथासिद्वभेदप्रत्ययबलेन वक्तृविशेषानुमानबलेन च तत्सिद्धेर्गत्व-कत्वव्याप्यतन्नानात्वस्वीकारात्। तवापि वायुवृत्तित्वे शुकादिककार-गकारादिव्यञ्चकवायूनां
विजातीयत्वं वाच्यं तथाच ककारव्यञ्जकवायुत्वव्याप्यं यदि शुकवर्णाभिव्यञ्जकवायुत्वं तदा शुकगकारव्यञ्जकवायौ न स्यात्, अथ व्यापकं तदा सर्व्व एव कव्यञ्जकवायवः
शुकवर्णाभिव्यञ्जकवायवः स्युस्तस्माद्वायुवृत्तित्वेऽपि तासां नानात्वमावश्यकम्।

अथास्तु स्त्री-पुंसादिगकारभेदस्तथापि यावद्वक्तृभेदमनन्ता एव नित्या वर्णाः प्रत्यभिज्ञानादिति चेत्, अस्त्युत्पाद-विनाशप्रतीतौ सत्यामपि स एवायं गकार इति
प्रत्यभिज्ञा, अस्ति हि तदनन्तरमप्युत्पाद-विनाशप्रथा। न चोत्पादप्रतीत्यभेदप्रत्यभिज्ञयोरन्यतरस्य परस्परं विहायान्यद्बाधकमस्ति, न वानयोः परस्परं बाध्य-बाधकभावे
विनिगमकं येनैकभ्रान्तत्वेनाविरोधः स्यात्। कथं वा भेदाभादज्ञानयोरन्यत्रावधारितं परस्परप्रतिबन्धकत्वं परिभूय प्रथमं तयोरेकसत्त्वेऽप्यपरोत्पत्तिप्रसङ्ग इति सङ्कटप्रविष्टत्वेन
प्रत्यभिज्ञानं शब्दनित्यत्वे प्रमाणयितुं न शक्यते।

नन्वेवमुत्पत्तिमत्त्वादिनाप्यनित्यत्वसिद्धिः कथम्। इत्थम् , उत्पादादिबुद्धिप्रत्यभिज्ञयोरप्यवश्यं विषयभेदः, एकविषयत्वे विरोधेनैकानन्तरमपरानुत्पत्तिप्रसङ्गात्।
एवञ्च भेदे भासमाने प्रत्यभिज्ञायाः सजातीयत्वं विषयो न व्यक्त्यभेदः। न चैवं वर्णस्तज्जनककण्ठताल्वाद्यभिधाताभावादिति वाच्यम्। तज्जातीयत्वप्रतीतेरपि सोऽयमित्याकारदर्शनात्
यथा सैवेयं गाथा तदेवेदमौषधं बहुभिः कृतं मयापि प्रत्यहं क्रियमाणमस्तीत्यादौ। न हि तावद्वर्णमात्रमानुपूर्व्वी, जरा-राजा-नदी-दीना-दिषु तन्नानात्यात्, किन्तु तदुच्चारणानन्तरमुच्चारणं
तज्ज्ञानानन्तरं ज्ञानं वा तच्च नानेति तद्वती गाथापि नानैव। नचाभेदे भासमाने उत्पादादिबुद्धिरेवान्यस्योत्पादादिकमवगाहते, गकारगतत्वप्रतीतेर्भ्रान्तत्वप्रसङ्गात्। न
चेष्टापत्तिः, अभेदे भासमाने तद्विरुद्धधर्म्मवत्वभ्रमानुदयात्, विनिगमकाभावेनोभयस्यापि यथार्थत्वाच्च, कुतस्तर्हि तस्या अभेदो विषयः, यत्र प्रथमं न भेदप्रथा अतएव
भेदसत्त्वे तदज्ञानात् क्विचित् सा भ्रान्ता, तस्माद्यत्र भेदप्रतीतिस्तदितरबाधकाबाध्या तत्र प्रत्यभिज्ञैव न भवति भवन्ति वा तज्जातीयत्वमालम्बते, न तु भ्रान्ता,
विशेषदर्शने भ्रमानुदयात्।

अपि च यथा शङ्खादिध्वनीनां उत्पत्ति-विनाशप्रत्ययात् तारत्वादिविरुद्धधर्मसंसर्गाच्चानित्यत्वे सैवेयङ्गुर्जरीत्यादिप्रत्यभिज्ञा तज्जातीयत्वविषया तथा वर्णप्रत्यभिज्ञापि।
अन्यथा ध्वनयोऽपि नित्याः स्युः उत्पत्ति-विनाश-तारत्वादिप्रतीतीनां प्रत्यभिज्ञानबलेनौपाधिकत्वात्। न च वर्णेषु तारत्वेनैव भासमाना ध्वनयउपाधयः सम्भवन्ति, न तु
ध्वनिषु तज्जातीयोऽयमितिस्यात् न तु सोऽयमिति वाच्यं। वर्णोच्चारणदशायामपि गुर्जरीतादिजनकानामभावात्। तस्मात् उत्पत्ति-विनाशतारत्वादिप्रत्ययस्य प्रत्यभिज्ञानस्य
च तुल्यत्वे द्दयोरपि नित्यत्वमनित्यत्वं वा। न चोभयोरपि नित्यत्वमेव, उक्तन्यायेन प्रत्यभिज्ञायास्तज्जातीयत्वविषयत्वात्। किञ्च यदि व्यङ्ग्यः शब्दः स्यात् तदा
बाह्यलोकाभावे घटस्येव व्यञ्चकाभावे शब्दस्यानुपलम्भात् तत्संशयः स्यात्, न त्विहेदानीं शब्दो नास्तीति निश्चयः तस्माद्वर्णो न नित्योऽनित्यो वा सत्वे सत्युत्पत्तिमत्त्वात्,
अस्मदादिबहिरिन्द्रिययग्राह्यत्वे सति जातिमत्त्वात्, अस्मदादिप्रत्यक्षगुणत्वाद्वा, आत्मैकत्वप्रत्यक्षत्वपक्षे प्रत्यक्षविशेषगुणात्वात्, व्यापकसमवेतप्रत्यक्षविशेषगुणत्वात्,
अनात्मप्रत्यक्षगुणत्वात्, अव्याप्यवृत्तित्वात्, ईश्वरज्ञानञ्च न तथा, तत्प्रयोककारणाभावात्, बहिरिन्द्रियव्यवस्थाहेतुगुणत्वात्, भूतप्रत्यक्षगुणत्वात्, उत्कर्षापकर्षा।
शब्दप्रवृत्तिनिमित्तजातिमत्त्वादेत्यादि, रसत्वादिव्याप्यजातेर्नानात्वेऽपि तादृशप्रवृत्तिनिमित्तत्वस्य साधारण्यात्। न चात्र साघनावच्छिन्नस्य पक्षधर्म्मावविच्छन्नस्य वा साध्यस्य
व्यापकः स्पर्शवत्समव्तत्वं उपाधिः, सर्व्वत्र वर्णात्मकशब्दपक्षीकरणे व्योमगुणेष्वनित्येषु ध्वनिषु साध्याव्यापकत्वात्स्पर्शवत्पदस्य पक्षमात्रव्यावर्त्तकत्वेन पक्षेतरत्वाच्चेति।
यदा च वर्णा एव न नित्यास्तदा कैव कथा पुरुषविवक्षाधीनानुपूव्र्व्यादिविशिष्टवर्णसमुहरूपाणां पदानाम् , कुतस्तशञ्च तत्समूहरूपस्य वावयस्य कुतस्तमाञ्च तत्समूहस्य
वेदस्येति।

इति श्रीमद्गङ्गेशोपाध्यायविरचिते तत्त्वचिन्तामणौ
शब्दाख्यतुरीयखण्डे शब्दानित्यतावादसिद्धान्तः॥

अथोच्छिन्नप्रच्छन्नवादः
तथापि परतन्त्रपुरुषपरम्पराधीनतया प्रवाहाविच्छेदमेव नित्यत्वं ब्रूमः इति चेत्, न, स्मृत्याचारानुमितानां शाखानामुच्छेददर्शनात्। स्यादेतत्, विवादपदमपूर्व्वबोधिका
स्मृतिः स्मृत्यर्थानुभवजनकवेदमूला अविगीत-महाजनपरिगृहीतस्मृतित्वात् प्रत्यक्षवेदमूलकस्मृतिवत्, वेदमूलकत्वञ्च वेदजन्यानुभवजन्यत्वं ज्ञानद्वारा ज्ञायमानस्यैववेदस्य
स्मृतिहेतुतयानुमानं, कुविन्दस्येव ज्ञानादिव्यवहितस्य पटे, न तु कारणकारणता, वेदे सत्येव तत्प्रतिसन्धाने स्मृतिप्रणयनात्, वेदार्थस्मृतिता च प्रसिद्धिसिद्धा, स्मृत्यर्थश्च
स्मृतित एव उपस्थितः। न च मृत्यर्थबोधकवेदानुमाने स्मृत्यर्थरूपवेदार्थस्य विषयत्वात् वेदोऽनुवादकः ज्ञानान्तरोपनीतस्य विशेषणत्वेन विशिष्टबुद्धिसम्भवात्, पाककृतौ
मानसप्रत्यक्षायां पाकस्य संज्ञासंज्ञिज्ञाने संज्ञाया ज्ञानयथार्थत्वे तदनुव्यवसाये भ्रमविषयस्येव, अन्यथाभ्रान्त-भ्रान्तिज्ञसङ्करापत्तिः न तु शब्दार्थोऽनुमानस्य विषयः
तस्यासिद्धत्वेनाजनकतया स्मृत्यव्यापकत्वात्। स च वेदो नित्यमनुमेय एवानुमितादेवार्थमवधार्य्य स्मृतिप्रणयनसम्भवात्। नन्वासंसारमपठितस्य न वेदत्वं उत्पत्तितोऽभिव्यक्तितो
मौनिश्लोकवदभिप्रायतीवानुपूर्वीहीनवर्णमात्रस्य निरर्थकत्वात्। ज्ञानजनकसमभिव्याहारस्यानेकत्वे विशेषाननुमानाच्चेति चेत्, न। स्मृत्यर्थज्ञापकत्वेनैव ज्ञातस्य वेदस्य

124

स्मृत्यर्थानुभावकत्वात्। न हि शाब्दबोधे नियतपदानुपूर्व्वी हेतुः, व्यभिचारात्। पदस्य वर्णविशेषानुपूर्वीनियमेऽपि तत्तवर्णानुपूर्व्वीकपदविशेषत्वेन न हेतुत्वं हस्त करादिपदानां
प्रत्येकं व्यभिचारात्। किन्त्वव्यभिचारितदर्थज्ञापकत्वेन ज्ञातस्य लाघवादावश्यकत्वाच्च, तदर्थज्ञापकत्वज्ञानार्थमेव क्वचिद्वर्णक्रमस्वरविशेषाणामुपयोगः। अतएव वर्णलोपादौ
कुशमानयेति सकारसन्देहे लिपावुच्चारणे वा हस्त-करसन्देहेऽपि वाक्यार्थबोधः।

ननु क्रमिकपदवत्वं वाक्यत्वं। न चात्र पदक्रमः, अनुच्चार्यमाणतयोच्चारणाधीनस्य युगपदनुमीयमानतया बुद्ध्यधीनस्य वा तस्याभावादिति चेत्, न हि
क्रमिकपदवत्वं वाक्यत्वं, गौरश्व इत्यादावभावात् किन्तु विशिष्टार्थपरशब्दत्वं तच्चात्राप्यस्त्येव। अथानुच्चार्य्यमाणस्य न वाक्यत्वं न वा अर्थानुभावकत्वमिति चेत्, न,
लिप्यनुमितानामपि वाक्यत्वात् अर्थबोधकत्वाच्च, लिपितुल्या च स्मृतिः। किञ्च वाक्यमुच्चार्यते न तूच्चारणाद्वाक्यत्वं, अन्यथा वाक्यमुच्चारयेत्यत्रानन्वयापत्तिः
अनुच्चारिति तमौनिश्लोकश्च वाक्यं न स्यादुच्चारणदशायाञ्च वाक्यत्वे वाक्यस्यासत्वमेव स्यात् एकदा तावत्पदानां उच्चारणाभावात्। न च कृत-क्रियमाण-करिष्य-माणोच्चारणस्य वाक्यत्वं, समुदाये प्रत्येकस्याभावात्। तस्मादर्थविशेषज्ञापकत्वेनैव ज्ञातादर्थविशेषधीः। अत एवास्ति वह्निलिङ्गमितिशब्दात् प्रतीते धूमे वह्नेरनुमानं, न
तु तदर्थज्ञापकत्वेन ज्ञातात् पदादर्थज्ञानमात्रं स्यात् न तु संसर्गधीः, घटः कर्मत्वमानयनं भावना तद्दोधकमिति ज्ञानेऽपि घटमानयेतिवाक्यादिवान्वयबोधाभावात्।
एवञ्चान्वप्रकारकर्म्मत्वाद्युपस्थापकविभक्त्यादिमत्पदविशेषस्य तदुत्थापिताकाङ्क्षादेश्च ज्ञानं वाक्यार्थधीहेतुरतो न तर्विना ज्ञापकत्वमात्रेण ज्ञातादर्थधीः, हस्त-करादिसन्देहे
कुशमानयेत्यादौ विभक्त्यादिज्ञानादेव वाक्यार्थानुभव इति,

मैवं, न हि तत्तद्विभक्त्यादिमत्पदविशेषत्वेन वाक्यार्थथीहेतुत्वं, अननुगमात्, किन्तु घटः कर्म्मत्वमित्याद्यन्वयविरोधिपदाजन्यपदार्थोपस्थितिस्तथा सा चेहाप्यस्ति
वस्तुतस्तु नानापदात् पदार्थोपस्थित्यनन्तरं वाक्यार्थवोधे तथैव सामग्री अनुमितवेदाद्वाक्यार्थानुभवे विलक्षणैव सा स्मृत्यर्थज्ञापकत्वेनैव ज्ञातस्य स्मृत्यर्थानुभावकत्वात्
धÐम्मग्राहकप्रमाणेन तस्य तथैव सिद्धत्वात्। तवशवरस्येवाशरीरस्य कर्तृत्वे। अतएव वर्णपद विभक्त्यादिविशेषघटितत्वेनाज्ञातस्याखण्डस्य सखण्डस्य वा वाक्यार्थानुभावकत्वात्
पदार्थस्थानीयस्तस्य वाक्यार्थस्तत्र वर्णसमूहः पदं पदसमूहोवाक्यमित्यत्रापि ततो ग्रहः प्रमाणशब्दत्वमात्रेण तस्य सिद्धेः अन्यथा क्लृप्तहेतुं विना सोऽनुभावक इत्यादौ
तदसिद्धावाश्रयासिद्धिः सिद्धौ वा बाधः तेन विनैव सर्वानुपपतिं्त परिभूय तदनुभावकत्वस्य धर्म्मग्राहकमानसिद्धत्वात्। अतएव क्वचित् स्तुति-निन्दाभ्यां कल्पितविधि-निषेधकवेदार्थमधिगत्य प्रवृत्ति-निवृत्ती। अन्यथा विधि-निषेधकानां नानाप्रकारकत्वेन विभक्त्यादिविशेषवत्पदस्यानुमातुमशक्यत्वात् न ततोऽर्थधीः स्यात्। तथापि
वक्तृज्ञानानुमानानन्तरमिवानुमितानुमानादेव वाक्यार्थसिद्धेर्लौकिकवाक्यवद्वेदस्यानुवादकत्वं स्यादिति चेत्, न, धर्म्माग्राहकमानेन स्मृत्यर्थज्ञापकतया ज्ञातात् सम्भूतसामग्रीकत्वेनानुपदमेव
वाक्यार्थबोधोदयात् अपेक्षणीयान्तराभावात्, अनुमानस्य व्याप्त्यादिज्ञानापेक्षितत्वेन विलम्बितत्वात्। न च वेदस्यापि योग्यतादिज्ञानापेक्षिततया विलम्बः, तन्निरपेक्षबोधकस्यैव
धÐम्मग्राहकमानसिद्धत्वात् योेग्यतादिविशिष्टस्येवानुमानाद्वा, एवं मङ्गलाचारस्यादिगीतरिष्टाचारत्वेन कर्त्तव्यतामनुमाय सा कर्त्तव्यता वेदबोधिता
अलौकिकाविगीतशिष्टाचारकर्त्तव्यतात्वादिति तद्वोधकत्वेनानुमितवेदात् कर्त्तव्यताधीस्ततः प्रवृत्तिः।

ननुस आचारोवेदबोधितकर्त्तव्यताधीकः, तादृशाचारत्वादित्यनुमितवेदात् नत्कर्तत्यताधीः। विभक्त्यादिकं विनानुमितवेदात् तत्कर्त्तव्यताज्ञानाभावात्
मङ्गलमाचरेदित्येवंरूपस्य च वेदस्य नानुमानं तथा व्याप्त्यभावात् तस्मात् तस्य कर्त्तव्यतामनुमाय तद्बोधकवेदानुमानं, प्रथमं कर्त्तव्यताज्ञानेऽपि वेदानुमानं अविनाभावात्।
न च तत एव प्रत्यक्षवेदानुमानं, प्रत्यक्षत्वे उच्छेदानुपपत्तेः शाखान्तरवत्।

यत्तु अष्टकाः कर्तव्याः कार्या अष्टका इत्येवंरूपमेव वाक्यमनुमेयं उपस्थितत्वात्, एवञ्च तत्रैवार्थे प्रतिपुरुषमन्यान्यवेदानुमानं न दोषाय एकार्थानेकपदोपस्थितौ
वानेकवाक्यानुमानमेवेति।  तन्न। आचारतो वेदानुमाने मङ्गलमाचरेदित्याद्यन्यतरोपस्थितौ नियमाभावात्। अनेकवेदकल्पने च स्वानुभवविरोधः, मनुस्मृतिमूलञ्चानेकं
वाक्यं नावश्यकमिति कथमाधुनिकोऽनेकमनुमिनुयात्। न च स्मृत्यर्थबोधकोवेदः स्मृतिसदृश एवानुमेयः नियमतः स्मृतेरुपस्थितत्वात् इति वाच्यं तदर्थस्मृतेरपि नानाप्रकारत्वात्
तस्य च प्रदोषादौ अनुच्चरितवेदस्येव वेदत्वं श्रोत्रग्रहाणार्हतया च शब्दत्वं वाक्यत्वमर्थबोधकत्वादित्येतदेव युक्तं स्मृत्याचारेण चानुमितो वेदोऽर्थं बोधयतीति पूर्वपूर्व्वेणानुमितवेदात्
उत्तरोत्तरस्मृत्याचाराविति नान्धपरम्परा शब्दार्थशरक्तिग्रहवत् स्वतः प्रमाणमूलकत्वात्। तस्मानित्यानुमेयत्वं वेदस्य न तूच्छेद इति।
अत्रोच्यते।उच्छिन्नवेदादर्थं प्रतीत्य स्मृत्याचारयोरुपपत्तेः न सामग्र्यन्तरकल्पनं अत एव नाश्रयासिद्धिर्बाधो वा स्मृत्याचारानुमितवेदस्यास्माभिरभ्युपगमात्।
इदानीञ्च स्मृतेरर्थं प्रतीत्याचाराच्च कर्त्तव्यतामनुमाय प्रवृत्तिः। न चैवं किं वेदेनेति वाच्यम्। तुल्यत्वात् अविनाभावाच्च तत्कल्पनं तुल्यं तथाच
स्मृत्याचारयोर्वेदजन्यानुभवमूलत्वानुमानादेव पक्षधर्म्मताबलात् प्रत्यक्षवेदमूलकत्वसिद्धिः। अन्यथा तस्यानुभावकत्वाभावेन मूलत्वानुपपत्तेः। तस्मात् स्मृत्याचारानुमितो
वेदः प्रत्यक्षोऽध्ययनविषयश्च वेदत्वात् सम्मतवत्, अन्यधा सामग्र्यन्तरकल्पने गौरवप्रसङ्गः। ननु स्तुति-निन्दार्थवादेन कल्पितात् विधि-निषेधकवाक्यात् कथमर्थमवगम्य
प्रवृत्ति-निवृत्ती, न हि तत्र वर्ण-पद-विभक्ति-विधि प्रत्ययक्रमविशेषाणामनुमानं सम्भवति, व्यभिचारादिति चेत्, न, स्तुति-निन्दावाक्याभ्यां प्रवृत्ति-निवृत्तिपराभ्यां प्रवृत्ति -निवृत्तिहेतुरर्थएव कल्प्यते लाघवात् न तु विधायक-निषेधकवाक्यं गौरवात् उक्तदोषाच्च यत्र चार्थवादादेव तदर्थवगमः " "तरति मृत्युमित्यादौ तत्र न तत्कल्पनापि। अथ
तस्याध्ययनविषयत्वे शाखान्तरवत्वात् वहुभिर्मेधाविभिराध्यात्मिकशक्तिसम्पन्नैर्धियमाणशाखाया उच्छेदासम्भव इति चेत्, न, एकस्य न सकलशाखाध्ययने शक्तिरित्येकेनेवापरैरपि
तदनध्ययने शाखोेच्छेदसम्भवादेकानधीताया अपराध्ययनविषयत्वनियमे मानाभावात् शाखात्वस्येव प्रत्यक्षशाखात्वस्याप्रयोजकत्वात्। यद्यपि वेदसहस्रशाखाविदो व्यासादयः
सन्त्येव, तथाप्यध्ययनाभाव एव शाखोच्छेदः। ननु शाखोच्छेदे वर्ण-पदवाक्यहानिशङ्कया प्रत्यक्षवेदादपि वाक्यार्थ-प्रयोगयोरनिश्चये वैदिकव्यवहारमात्रं लुप्तेतेति  चेत्, न,
श्रूयमाणमात्रस्यैव महाजनपरिगृहीतत्वात् तन्मात्रबोधिताङ्गेतिकर्त्तव्यतयैव शिष्टैरनुष्ठीयमानत्वाच्च तदर्थनिश्चयात्। न च उच्छिन्नशाखाबोधितेतिकर्त्तव्यताशङ्कया
एकस्मिन्नपि कर्म्मण्यनाश्वासप्रसङ्गः, नानाशाखेतिकर्त्तव्यतापूरणीयत्वात् तस्येति साम्प्रतं, सन्ति हि तत्तत्कर्म्मणि नानाशाखाबोधितसकलेतिकर्त्तव्यताबोधनायैनमेव
कालक्रमभाविनमनाश्वासमशङ्कमानैर्महर्षिभिः प्रणीता महाजनपरिगृहीताः स्मृतयइति नानाश्वासः अन्यथा एकस्य सकलशाखानवगमात्

शाखान्तरबोधितेतिकर्त्तव्यतासंशयेनैकशाखातो नार्थनिश्चयः स्यात्।
यत्तु विभक्त्यादिमत्तत्तत्पपदानां तत्समुदायानाञ्च प्रत्यक्षत्वन्तेष्वपि कश्चिद्वेदः तत्रायं समुदायो वेद इत्यनिश्चय एव नित्यानुगेयार्थः, वेदत्वं वा तत्रानुमेयमिति,  तन्न
प्रत्यक्षवेदातिरिक्तवाक्ये तदभियुक्तानां महाजनानां वेदत्वाभावनिश्चयात्। अत एव वेदत्वं तत्र नानुमेयं बाधात् विशिष्य पक्षाज्ञानाच्च धर्मवेदनाजनकत्वञ्च वेदत्वं नानुमेयं

125

तज्जनकत्वस्य प्रत्यक्षत्वात्, नाध्ययनविषयत्वं तदभावात्, न जातिरनभ्युपगमादिति।
स्यादेतत् स्मृत्याचारयोर्वेदमूलत्वे तत्रोच्छेदादिविवादस्तदेव त्वसिद्धं, तथा हि वेदसमानार्था महाजनपरिगृहीता च स्मृतिः स्वार्थोपस्थित्यनन्तरं स्मृत्यर्थानुभावकवेदानुमाने
लिङ्गं तथाच प्राथम्यात् साध्यप्रसिद्ध्यर्थमुपजीव्यत्वाच्च स्मृतेरेवापूर्व्वादिवाक्यार्थज्ञानमस्तु किं वेदेन तदर्थस्य स्मृतित एव सिद्धेः अपूर्व्वस्यापि शब्देकगम्यत्वेन स्मृतितोज्ञातस्य
ज्ञापकत्वेनानुवादकतापत्तेश्च, सा च स्मृत्यन्तरादित्यनादिरेत्र स्मृतिधारावश्यकी। अन्यथा मनुस्मृतेः पूर्वन्तवापि वेदानुमानं न स्यात्। सर्वा च स्मृतिः स्मृतिजन्यवाक्यार्थप्रमाजन्यत्वेन
महाजनपरिगृहीतत्वेन च प्रमाणमिति नान्धपरम्परा, प्रत्यक्षा च स्मृतिः स्मृतिमूलं नानुमिता अनुमितवेदवत्तस्याननुभावकत्वात्। वेदार्थस्मृतिताप्रसिद्धिस्तु प्रत्यक्षवेदमूलस्मृतिसाहचर्येण
भ्रमात् प्रत्यक्षवेदाबोधितलोभ-न्यायमूलस्मृताविव तान्त्रिकाणां लिङ्गभासजन्यवेदमूलत्वभ्रमाद्वा भवन्ती न सम्भवन्मूलान्तराणां वेदमूलकत्वं कल्पयति।
अथ स्मृतिरिव तद्वेदमूलकत्वप्रसिद्धिरपि महाजनपरिगृहीता एवञ्च सा वेदमूलत्वनिबन्धना अविगीतमहाजनपरिगृहीतवेदमूलत्वप्रसिद्धित्वात् प्रत्यक्षवेदमूलस्मृतौ
तत्प्रसिद्धिवत्, एवं वेदार्थताप्रसिद्धिरपि। अन्यथा महाजनपरिगृहीतानादरे वेद-स्मृत्योरपि प्रामाण्यं न स्यादिति चेत्, न, यूपहस्त्यादिस्मृतेस्तत्प्रसिद्धौ व्यभिचारात्,क्लृप्तलोभादित
एव तत्सम्भवात् विचारकाणां विप्रतिपत्तेश्च तत्र तत्प्रसिद्धौे विगानं महाजनानामिति चेत्, न, अत्रापि मूलान्तरसम्भवाद्विप्रतिपत्तेश्च विगानमेव तेषां। अत एव स्मृतीनां
न्यायमूलत्वे सम्भवति वेदमूलत्वसिद्धावपि न वेदमूलत्वं। न च वेदमूलेऽयमिति कृत्वा स्मृतेर्महाजनपरिग्रहात् तन्मूलत्वं वेदमूलेयमिति प्रथमं ज्ञातुमशक्यत्वात् शक्यत्वे
वा किमनुमानेन। न च वेदमूलत्वेन प्रकारेण महाजनपरिग्रहः, अप्रसिद्धेः, मन्वादिस्मृतित्वेन पूर्वमहाजनपरिग्रहेणोत्तरोत्तरेषां परिग्रहादनुष्ठानाद्युपपत्तेः, एवं होलाकाद्याचारेऽपि
वेदलिङ्गेनैव कर्त्तव्यताज्ञानोपपत्तेः किं वेदेन, तदर्थस्य लिङ्गादेवोपपत्तेः। अविगीतालौकिकविषयकशिष्टाचारस्य वेदमूलत्वदर्शनात् वेदानुमाने चाविगीतशिष्टाचारत्वेन
भोजनाद्याचारोऽपि वेदमूलः स्यात्, वेदं विनापि तत्कर्त्तव्यताधीसम्भवात् न तदर्थं वेदइति इहापि तुल्यं। आचारकर्त्तव्यतानुमानयोरनादित्वेनाचाराणां कर्त्तव्यत्वानुमानमूलकत्वात्
नान्धपरम्परा। न च पूर्वानुमानसापेक्षमुत्तरानुमानमिति स्वतन्त्रप्रमाणमूलकत्वाभावात् सा, व्याप्ति-पक्षधर्मतासत्त्वेन सर्वेषां स्वतन्त्रप्रमाणत्वात्। नापीतरप्रामान्याधीनं
सर्वस्य प्रामाण्यमिति न निरपेक्षत्वं, प्रत्यक्षादेरपि तथात्वापत्तेः।

एतेनविवादपदमाचारो निरपेक्षप्रमाणमूलकः अविगीतमहाजनाचारत्वात् प्रत्यक्षवेदमूलाचारवदिति  निरस्तम्।  अनुमानस्य निरपेक्षप्रमाणत्वात् प्रमाणमूलत्वेनैव
हेतोरुपपत्तेः निरपेक्षत्वस्य गौरवेणाप्रयोजकत्वाच्च। न च सापेक्षत्वेन न प्रमाणता, व्याप्त्यादिसत्वात्। अन्यथा प्रमाणे नैरपेक्षस्य वैयर्थ्थात्। न चाचारे वेदमूलत्वप्रसिद्धेस्तदनुमानं,
असिद्धेः व्यभिचारादन्यथोपपत्तेश्च। न च वेदमूलत्वेनैव महाजनपरिग्रहात्तथा, न हि वेदमूलोऽयमिति कृत्वा महाजनानां तत्परिग्रहः, वेदमूलत्वस्य प्रथमं ज्ञातुमशक्यत्वाच्छक्यत्वे
वा किनुमानेन। न च वेदमूलत्वेनैव महाजनपरिगृहीतोऽयमाचार इति ज्ञात्वा तत्र महाजनपरिग्रहः, गौरिवादसिद्धेश्च। पूर्व्वमहाजनपरिग्रहादेवोत्तरोत्तरेषां परिग्रहादनुष्ठानोपपत्तेः।
तादृशस्मृत्याचारयोर्वेदमूलत्वेन व्याप्तेर्वेदसिद्धिरिति चेत्, न, असम्भवन्मूलान्तरत्वस्योपाधित्वात्। अन्यथा लोभन्यायमूलस्मृतेरपि वेदमूलत्वप्रसङ्गः।
अस्तु वा स्मृत्याचारयोरनादित्वं। न चाचारात् स्मृतिः स्मृतेराचार इत्यन्धपरम्परा मूलभूतप्रमाणाभावात् इति वाच्यं। स्मृत्याचारयोरुभयोरपि प्रमाणत्वात्।
अन्यथा न ततो वेदानुमानमपीति।

उच्यते। प्रलये पूर्व्वस्मृत्याचारयोरुच्छेदात् सर्गादौ नित्यसर्वज्ञेश्वरप्रणीतवेदमूलत्वं स्मृत्याचारयोः। अन्यथा मूलाभावेनान्धपरम्पराप्रसङ्गः। न मन्वादीनामतीन्द्रियार्थदर्शित्वं,
तदुपायश्रवणादेस्तदानीमभावात्। पूर्वसर्गसिद्धसर्वज्ञमन्वादय एव ते इति चेत्, न, प्रमाणाभावात्। स्मृत्याचारयो; प्रमाणमूलत्वमेव तत्कल्पकमिति चेत्, न, प्रतिसर्गं
तेषामन्यान्यत्वकल्पने गौखमित्येकस्यैव नित्यसर्वज्ञस्य कल्पनात्। न च स्मृतय एव तत्प्रणीताः, तासां मन्वादिकर्तृकत्वेन स्मृतौ बोधनात् स्मृतावेव स्मृतीनां
वेदमूलत्वस्मरणाच्च। एवञ्च स्मृत्याचारयोर्महाजनपरिग्रहद्वेदमूलत्वसाधकमपि भगवति प्रमाणं। अत एव " "प्रतिमन्वन्तरञ्चैषा श्रुतिरन्याविधीयते" " इत्यागमोऽपि। एवञ्च
पूर्वं प्रत्यक्षमूलावेव स्मृत्याचारौ, अग्रे च कालक्रमेणायुरारोग्य बल-श्रद्धा-ग्रहण-धारणादिशक्तेरहरहरपचीयमानत्वात् तदध्ययनविच्छेदेन शाखोच्छेदात् स्मृत्याचाराभ्यामेव
कर्त्तव्यतामधिगत्य प्रकृतिः।

नन्वेवं स्मृतिरस्तु वेदमूलामङ्गलाद्याचाररूवीश्वरादेव भविष्यति घट-लिप्यादिसम्प्रदायवदिति चेत्, न, बहुव्यापारघटितस्य तत्तदाचारस्य गुरुत्वेन
मङ्गलमाचरेदित्यादिवाक्यस्यैव लाघवेन कल्पनात्। न च मङ्गलादिपदशक्तिग्रहार्थमाचार आवश्यक इति वाच्यं। स्वर्गादिपदवद्वाक्यार्थे तदुपपत्तेः। अत एव यत्र
वचनमात्रात् परप्रतिपत्तिस्तत्रनाचारः परीक्षकाणां, तस्य च वेदत्वं नेश्वरप्रणीतत्वेन शक्तिग्रहणार्थतद्वचने व्यभिचारात्, किन्तु तादृशाचारस्य वेदमूलत्वनियमादिति।
स्यादेतत्, प्रलये सत्येवमेव तत् स एव तु नास्ति प्रमाणाभावात् इति चेत्, न, काल-कपालान्यावृत्तिघटप्रागभावः कार्यद्रव्यानाधाराधारः कार्य्यद्रव्यानधिकरणकार्य्याधिकरणवृत्तिर्वा
अभावत्वात् आकाशवत्यान्योभाववदिति वृत्तप्रलयसाधनात्। एवमेव घटध्वंसं पक्षीकृत्यागामिप्रलयसाधजं।  यद्वाघटः कार्यद्रव्यानधिकरणकार्याधिकरणवृत्तिध्वंसप्रतियोगी
कार्यत्वाच्छब्दवत्।  यद्वाकार्यद्रव्यत्वं कार्यद्रव्यानधिकरणकार्याधिकरणवृत्तिध्वंसप्रतियगिवृत्ति कार्यमात्रवृत्तित्वात् शब्दत्ववत्।  यद्वाएककालीनाः सर्व्वे परमाणवः समग्रोपादेयप्रबन्धशून्या
आरम्भकत्वात् नष्टपवनारम्भकपरमाणुवत्। सर्वत्र पक्षतावच्छेदकावच्छिन्नं साध्यं प्रतीयते इति एककात्वे शून्यता लभ्यते। न च पवनपरमाणूनामपि पक्षत्वेनांशतः
सिद्धसाधनं, पक्षधर्मताबललभ्यसाध्याप्रतीतेः, अमेदानुमानवच्च पक्षस्य दृष्टान्तत्वाविरोधः।  यद्वापरमाणवः कार्यद्रव्यानधिकरणवृत्तिकार्यवन्तः नित्यद्रव्यत्वात् आकाशवत्,
भूगोलकसन्तानोऽयं भूगोलकसन्तानानधिकरणवृत्तिध्वंसप्रतियोगी कार्यत्वात् घटवत्।  यद्वा  एतत्कर्मातिरिक्तानिकर्म्माणि एतत्प्रतिवन्धकप्रतिबध्यानि कर्मत्वात् एतत्कर्मवत्।
न चात्र व्यभिचारशङ्का, सर्वेषामेवंरूपत्वादनेवम्भावे च स्वभावप्रध्यवात्। अन्यथा नियमेऽपि नियमान्तरापेक्षायामनवस्थितेः। आगमोऽप्यमुमेवार्थं संवदतीति कृतं
प्रसक्तानुप्रसक्त्या॥

इति श्रीमद्गङ्गेशोपाध्यायविरचिते तत्त्वचिन्तामणौ
शब्दखण्डे उच्छिन्नप्रच्छन्नवादः॥

126

शब्दखण्डे विधिवादः

आचारमूलत्वं वेदस्य प्रवर्तकज्ञानजनकत्वेन भवतीति प्रवर्तकज्ञानं निरूप्यते । तत्राभिधासङ्ल्पापूर्वभावनाज्ञानं न प्रवर्र्तकम्, तस्मिन् सत्यपि अप्रवृत्तेः,
असत्यपि प्रवृत्तेश्च । कार्यत्वज्ञानं प्रवर्र्तकमिति  गुरवः। तथाहि ज्ञानस्य कृतौ जन्यायां चिकीर्षातिरिक्तं न कर्र्तव्यमस्ति। तत्सत्त्वे कृतिविलम्बे हेत्वन्तराभावात् ।
चिकीर्षा च कृतिसाध्यत्वप्रकारिका कृतिसाध्यक्रियाविषयेच्छा। पाकं कृत्या साधयामीति तदनुभवात् । सा च स्वकृतिसाध्यताज्ञानसाध्या। इच्छायाः स्वप्रकारकधीसाध्यत्वनियमात्।
अत एव स्वकृति साध्ये पाके प्रवर्तेते , न त्विष्टसाधनताज्ञानसाध्या। स्वकृत्यसाध्ये चिकिर्षापत्तेः। स्वकृत्यसाध्यत्वज्ञानं प्रतिबन्धकमिति चेत् , न । तदभावकारणत्वे
गौरवात् ।

अथाभाव उभयसिद्धः कृतिसाध्यताधीरसिद्धेत्यतो न लाघवावसर इति चेत् , न । यत्र शब्दादनुमानाद्वा दैवात् सा तत्र लाघवावतारादिच्छायाः स्वप्रकारकज्ञानसाध्यत्वनियमेन
कृतिसाध्यत्वज्ञानस्यावश्यकत्वाच्च जनकज्ञानं विघटयत एव ज्ञानस्य प्रतिबन्धकत्वाच्च । व्याप्तिज्ञानविघटनद्वारा अनुमितिप्रतिबन्धकानैकान्तिकज्ञानवत् । अन्यथा
स्वकृत्यसाध्यत्वानिष्टसाधनत्वोपेक्षणीयत्वनिष्फलत्वज्ञानं प्रतिबन्धकं क्रियाज्ञानमेव प्रवर्तकं कल्प्येत ।

ननु सनो धात्वर्थगोचरेच्छावाचित्वात् लाघवाच्च कृताविच्छा चिकीर्षा । सा च वृष्टाविवेष्टसाधनताज्ञानादिति चेत् , न । वह्निना साधयामीतिवत् कृत्या
साधयामीतीच्छायाः कृतः पूर्वमनुभूयमानायाः सनन्तावाच्यत्वेन गौरवेण च प्रत्याख्यातुमशक्यत्वात् । किञ्च पाकं चिकीर्षतीत्यत्र प्राधान्येन पाकस्येच्छा विषयत्वमनुभूयते
न तु कृतेः। धातोश्च सन्प्रत्ययाभिधेयेच्छाप्रकारवाचित्वम्, ओदनं बुभुक्षत इत्यत्र भोजन विशेष्यतयौदनस्येच्छाविषयत्वानुभवात् । इष्टसाधनत्वेन वृष्टाविव कृताविच्छासम्भवेऽपि
कृतीच्छा न प्रवर्तिका। किन्तु स्वकृतिसाध्येच्छैव । घटं जानाति चिकीर्षति करोतीतिज्ञान-चिकीर्षा-कृतीनामेकविषयत्वानुभवात् ।

अथ यदि कृत्या साधयितुमिच्छा सा तदा चिकीर्षितस्य पाकस्यान्यतः सिद्धौ सा नापगच्छेत् । न ह्युपायविशेषसाध्यत्वेनेच्छोपायान्तराधीनफललाभेन निवार्यते।
प्रीत्या धनलाभेऽपि प्रतिग्रहेण तल्लिप्साया अनिवृत्तेरिति चेत् , न । स्वविषयसिद्वत्वस्य फलेच्छाविच्छेदस्य चोपायेच्छाविरोधित्वात् । अस्ति च तत्र पाकौदनयोः
सिद्धत्वम् , अन्यौदनेच्छायां पाकचिकीर्षा भवत्येव। प्रत्युतासिद्धत्वात् कृतावेवेच्छा न विच्छिद्येत यदि कृतिविषयसिद्धत्वफलेच्छाविच्छेदौ न विरोधिनौ । प्रीत्या धनलाभे
च तदधिकधनेच्छा न विच्छिद्यते तस्यासिद्धत्वात् । तत्फलेच्छायाश्च सत्त्वात् । धनमात्रार्थित्नश्च प्रीत्या धनलाभेऽपि प्रतिग्रहेण तल्लिप्सा नास्त्येव, धनमात्रस्य
सिद्धत्वात् । किञ्चिद्विशेषसिद्ध्यैव हि सामान्येच्छाविच्छेदः। अन्यथा सकलस्वविषयसिद्धेरसम्भवेन तद्विच्छेदो न स्यादेव ।

वस्तुतस्तु क्रियानुकूला कृतिरिष्टोपाय इति ज्ञाने क्रियायाः कृतिसाध्यत्वमिष्टोपायत्वञ्च भातं क्रियाद्वारैव कृतेरिष्टसाधनत्वादिति तद्बोधात् कृताविव कृतिसाध्यत्वेन
क्रियायामपि सैवेच्छेति चिकीर्षायां कृतिसाध्यत्वप्रकारनैयत्यमतः कृतिसमानविषयचिकीर्षात्वेन चिकीर्षायाः कृतिकारणत्वम्, न तु कृतीच्छात्वेन, भिन्नविषयतया
गौरवात्। तथापि येन रूपेण यस्येष्टसाधनत्वं तेन प्रकारेण तत्रैेच्छा, यथा स्वकेदारवृष्टित्वेन इष्टसाधनत्वात् तथैवेति, तथा कृतिसाध्यत्वेन पाकस्येष्टासाधनत्वमतः
कृतिसाध्यत्वेन तत्रेच्छा भवतीति, कृतौ कृतिविषये वा चिकीर्षायां न वृष्टीच्छा । विलक्षण सामग्र्यन्तरकल्पनमिति चेत् , भवेदेवम् , यदि कृतिसाध्यत्वेन पाकस्य
ओदनसाधनता स्यात् । न चैवं गौरवात् । किन्तु पाकत्वेन , स तु कृतिं विना नेत्यन्यदेतत् । वह्निना साधयमीतिवत् कृत्या साधयामीतीच्छा इष्टसाधनताज्ञानदेवेति
चेत् , तर्हि तत्र वह्निसाध्यताज्ञानवदत्रापि कृतिसाध्यत्वज्ञानं कारणमावश्यकम्। कृतौ चानुभवसिद्धचिकीर्षाधीनत्वं विशेषः। तेन प्राणपञ्चकसञ्चारे जीवनयोनिकृतिसाध्ये
न प्रवृत्ति। अन्यथा कृतिसाध्येष्टसाधनतापक्षेऽपि तत्र प्रवृर्तेत ।

ननु चिकीर्षाधीनत्वस्योपलक्षणत्वे उपलक्ष्यमात्रगतानतिप्रसक्तधर्माभावात् कृतिमात्रस्य चातिप्रसड्गात् तत्तत्कृतिविशेषा उपलक्ष्याः । तथा च तदननुगमात्
प्रवृत्त्यननुगमः। विशेषणत्वे चिकीर्षायां प्रवृत्तौ च चिकीर्षाज्ञानकारणत्वे गौरवं प्रमाणाभावश्च । किञ्च चिकीर्षासाध्यावस्थायाः कृतेः सिद्धावस्थसाधनत्वविरोधेन
कृतिसाध्यता पाकादौ न ज्ञायेतेति चेत् , न । अस्ति हि कृतिविशेषो मानसप्रत्यक्षसिद्धोजीवनयोनिप्रयत्नव्यावृत्तश्चिकीर्र्षोपलक्ष्यः यत्र चिकीर्षाकारणत्वग्रहः । स च तव
जातिरूपः। मम त्वनुगतकाणोपाधिरूपः । एवञ्च चिकीर्षाधीनत्वेनानुगतेन कृतिविशेषाणमुपलक्ष्याणामनुगतत्वमपि । यथा गोत्वेन तटस्थेनोपलक्षिता
महिष्यादिव्यावृत्तधानकर्मव्यक्तिविशेषाः धेनुपदेनोच्यन्ते, न तु गोत्वमपि , तथा चिकीर्षापि। एवं जीवनयोनियत्नव्यावृत्तकृतिविशेषाणां कृतित्वेन ज्ञानं कारणमिति
नाननुगमः ।

ननु कृतिसाध्ये न कृतिÐवशेषणमसत्त्वात् । सत्त्वे वा कृतौ सत्यां ज्ञानम् , ज्ञाने च कृतिरित्यन्योन्याश्रयः। नोपलक्षणमतिप्रसड्गादिति चेत् , न । कृतिर्हि ज्ञाने
विषयतया विशेषणमेव । साध्ये च परिचायकतयोपलक्षणम् । अन्यथा इष्टसाधनेऽपीष्टं न विशेषणमसत्त्वात् । नोपलक्षणमतिप्रसड्गात् । लिङ्गज्ञानादौ वा का गतिः।
नन्वेवं श्रमेऽपि चिकीर्षा स्यात्तस्यापि चिकीर्षाधीनकृतिसाध्यत्वात् । अत्र वदन्ति-श्रमस्तु भोजनादिक्रियासाध्यो न तत्कृतिसाध्यः। अचिकीर्षितत्वात्। कृतेः
स्वध्वंससाक्षात्कारातिरिक्ते चिकीर्षाविषयमात्रे जनकत्वात् । न हि भोजनचिकीर्षाधीनकृत्या गमनं साध्यते इति  केचित्।  तन्न। गुरुतरभारोत्तोलने कृत्यसाध्ये भ्रमात्
प्रवृत्तस्य निगड़निश्चलदेहस्य वा कृतौ सत्यमुत्तमुत्तोलनचलनक्रियानुत्पादेऽपि श्रमानुभवात् कृतेरेव कारणत्वात् । न तु तज्जन्यक्रियाः सुखे व्यभिचाराच्च । न हि सुखं
कृतिकारणचिकीर्षाविषयः । उपायचिकीर्षाजन्या हि कृतिः न, तु सुखचिकीर्षाजन्या । चिकीर्षाजन्यकृतिसाध्यत्वं न श्रमे द्वेषयोनिप्रयत्नादपि तदुत्पत्तेरित्यपरे।तन्न  ।
शत्रबधस्येष्टसाधनत्वेन चिकीर्षाजन्यकृतिसाध्यत्वात्। द्वेषस्य यत्नाजनकत्वात् , द्वेषसिद्धिस्तु शत्रुं द्वेष्मीत्यनुभवबलात् ।
यत्तु श्रमः कृतित्वेन कृतिसाध्यो, न चिकीर्षाधीनकृतिवेन । यद्यचिकीर्षितेऽपि श्रमे चिकीर्षाधीनकृतित्वेन कारणता स्यात् तदा चिकीर्षितमेव भोजनं कृत्या
साध्यते नाचिकीर्षितं गमनादीति न स्यात् । श्रमवद्गमनेऽपि तज्जन्यत्वप्रसङ्गात् । भोजनादिश्च चिकीर्षाधीनकृतिविशेषात् , स हि कृतिमात्रं व्यभिचरति
जीवनयोनिकृतेस्तदनुत्पादात् । यद्वा श्रमो न भोजनकृतिसाध्यः, किन्तु तन्निरन्तरोत्पन्नाज्जीवनयोनिप्रयत्नादेवेति ।तन्न  । न हि कृर्तिवेन तच्छ्रमजनकत्वम् , नापि
कृत्यन्तरादेव श्रमोत्पत्तिः । जीवनयोनिप्रयत्ने सत्यपि भारोद्वह्नादिकर्म कुर्वतस्तादृशश्रमाननुभवेन तस्य श्रमाजनकत्वात् । तस्मात् भोजनादिवत् श्रमविशेषाणामपि

127

भोजनादिकृतिसाध्यत्वमनन्यगतिकत्वात् । सुप्तस्य स्वेदाद्यनुमितः श्रमः तज्जन्य इति चेत् ,न । स्वेदादेः श्रमान्यहेतुकत्वात्। अन्यथा जागरेऽपि तदनुवृत्तौ श्रमानुवृत्तिप्रसङ्गात्
इति। मैवम् , स्वेच्छाधीनत्वस्य कृतिविशेषणत्वात् । श्रमश्च नियमतोऽन्येच्छाधीनकृतिसाध्यः। श्रमे दुःखत्वेनेच्छाविरहात् अत एवान्येच्छाजन्यकृतिसाध्यत्वेन श्रमो
नान्तरीयक इत्युच्यते । स्वचिकीर्षाधीनत्वन्तु न कृतौ विशेषणम् , गौरवात् ।

अन्ये  तु कृतिगतं धर्मान्तरमेव उद्देश्यत्वम् , तद्विशिष्टकृतिसाध्यश्च न श्रमः, अचिकीर्षितत्वात् , किन्तु कृतिमात्रसाध्यः । अत एव कष्टं कर्मेत्यनुभवोलोकानां।
अत एव कष्टं कर्मोत्यनुभवो लोकानाम्। एवं चिकीर्षायां ममैकं कृतिसाध्यत्वं प्रयोजकम् । तव तु कृतिसाध्यत्वे सतीष्टसाधनत्वं सुखत्वं दुःखाभावत्वञ्चेति
च तुष्ट्यम् । इच्छाप्रयोजकन्तु मम सुखत्वं दुःखाभावत्वञ्चेति द्वयम्। वृष्टिसाध्ये सुखे हीच्छा वृष्टिमपि विषयीकरीति। न त्विष्टसाधनत्वेन तत्रेच्छा । साधनत्वस्येच्छाविरोधित्वात्।
तव तु त्रयम् । विषभक्षणे तु कृतिसाध्यत्वेऽपि बलवदनिष्टसाधनत्वेन चिकीर्षा नास्तीति कृतौ चिकीर्षाजन्यत्वं विशेषणमिति  कश्चित्  ।  तत्तुच्छम्  । एवं हि विषभक्षणं
कृतिसाध्यमेव न स्यात् । जीवनयोनिकृतेस्तस्यानुत्पत्तेरिति व्यर्थं विशेषणम् ।

स्यादेतत्। इष्टसाधनताभ्रमाद्विषभक्षणे चैत्यवन्दने च चिकीर्षाजन्यकृतिसाध्यत्वमस्ति। ज्ञानप्रयुक्तत्वात् कार्यत्वस्य । तथा च सञ्जातबाधोऽपि तत्र कार्यत्वज्ञानात्
प्रवर्तेत। तथा तृप्तोऽपि भोजने ।

ननु स्वकृतिसाध्यतानुभवस्तथा । अन्यथेष्टसाधनता स्मरणे विषभक्षणेऽपि प्रवर्तेत , न चेष्टसाधनताज्ञानं वेदो वाऽनुभावकमस्तीति चेत् , न । वस्तुतस्तत्र
कृतिसाध्यत्वे लिङ्गान्तरेणाप्तवाक्येन वा तदनुभवसम्भवात् । लिङ्गाभासाच्छब्दाभासाद्वा अप्रवृत्तिप्रसङ्गाच्च , भेदाग्रहवादिनस्तत्र तव तदनुभवाभावात् ।  मैवम्।
स्वविशेषणवत्ताप्रतिसन्धानजन्यं हि कार्यताज्ञानं प्रवर्तकम् । तथा हिकाम्ये पुरुषविशेषणं कामना । ततः काम्यसाधनताज्ञानेन याग-पाकादौ कार्यताज्ञानम्। नित्ये च
काल-शौचादि स्वविशेषणम् । तथा चैतत्सन्ध्यामहं कृतिसाध्यसन्ध्यावन्दनः सन्ध्यासमये शौचादिमत्त्वात् पूर्वसन्ध्यायामहमिवेति कार्यताज्ञानं शौचादिस्वविशेषणज्ञानजन्यम्।
तदुक्तं -स च कार्यविशेषः पुरुषविशेषणावगतः प्रवृत्तिहेतुरिति । संजातबाधस्य च विषभक्षणे चैत्यवन्दने च भ्रमदशायामिव नेष्टसाधनताज्ञानमस्ति येन तज्जन्यकार्यताज्ञानात्
प्रवर्र्तेेत । तृप्तस्य च कामनाविरहेण इष्टसाधनताज्ञानाभावात् न तथा बोधः । अन्ये तु आत्मनो तु आत्मनो जीवित्वप्रसन्धानजन्यं श्रमे कृतिसाध्यताज्ञानं सम्भवतीति
जीवनव्यतिरिक्तत्वं स्वविशेषणे विशेषणमिति ।  तन्न  । श्रमे स्वेच्छाधीनकृतिसाध्यत्वाभावात् । इष्टसाधनतालिङ्गकं कार्यताज्ञानं प्रवर्तकमित्यपरे ।  तन्न। नित्ये
तदभावात् ।

ननु विषभक्षणव्यावृत्तमिष्टसाधनत्वमेव कृतिसाध्यताज्ञाने विषयतया विशेषणमस्तु। स्वविशेषणवत्ताज्ञानजन्यत्वापेक्षया लघुत्वात् । किञ्चोपायविषया चिकीर्षा
इष्टसाधनताज्ञानसाध्या उपायेच्छात्वात् वृष्टीच्छावत्। भोगचिकीर्षायां तदभावादप्रयोजकमिष्टसाधनत्वमिति चेत् , न । तवापि स्वविशेषणधीजन्यत्वाभावेन तत्र
तस्याप्रयोजकत्वात् । कृतिहेतुचिकीर्षायां तत् प्रयोजकम् , न च भोगचिकीर्षा तथा । उपायचिकीर्षात एव कृतिसम्भवात् इति चेत् , तुल्यमिति । मैवम् ,
साध्यत्वसाधनत्वयोÐवरोधनैकत्र ज्ञातुमशक्यत्वात् । असिद्धावस्थस्य हि साध्यत्वं सिद्धतादशायां तदभावात् । सिद्धतादशायाञ्च साधनत्वम् , असिद्धावस्थावतः
कार्यानुत्पत्तेः । तथा च पाकादेरसिद्धत्वसिद्धत्वज्ञाने साध्यत्वसाधनत्वग्रहः । न चैकमेकेनैकदा सिद्धमसिद्धञ्च इति ज्ञायते । न च स्वरूपगतता साध्यत्वसाधनत्कयोः ।
अतो न विरोध इति वाच्यम्। यदि हि स्वरूपनिबन्धनं सदुभयं तदा तत्स्वरूपं सदैव सिद्धमसिद्धञ्च स्यात् । भिन्ननिरूपितत्वेऽपि तयोः सिद्धत्वासिद्धत्वे अनवगम्याज्ञानात्।
तस्मात् समयभेदोपाधिक एव तदुभयसम्बन्धः पाके । इदानीं साध्यत्वं अग्रे साधनत्वं ज्ञायत इति चेत् , न । इदानीमग्रिमपदार्थयोर्नानात्वादननुगमेन व्याप्त्यग्रहात् , शब्देन
तथा प्रतिपादयितुमशक्यत्वात् , गौरवाच्च । न च कृतितः सिद्धमिष्टसाधनमितिज्ञानात् चिकीर्षा। न हि सिद्धं कश्चित् चिकीर्षति । कृतेः पूर्व कृतितः सिद्धमिति
ज्ञानाभावाच्च । न च कृतिसाध्यत्वेन पाकादेरिष्टसाधनत्वात् साधनत्वमपि साध्यम् । न हि कृतिसाध्यत्वेन पाकस्यौदनसाधनता , इत्युक्तं तस्मात् कृत-क्रियमाणविलक्षणं
कृत्यनन्तरभविष्यत्तारूपं कृतिसाध्यत्वं चिकीर्षाप्रयोजकम्। तादृशञ्च साधनत्वविरोध्येव । किञ्च साधनत्वस्य सिद्धमात्रधर्मत्वात् साधनत्वज्ञानमिच्छाविरोधि। हि
कश्चित् सिद्धमिच्छतीत्युक्तम्। एतेन वृष्ट्यादाविष्टसाधनता ज्ञानमुपायेच्छाकारणत्वेन क्लृप्तमिति निरस्तम्। कथं तर्हि स्वतोऽसुन्दरे वृष्ट्यादाविच्छा । तत्साध्येष्टज्ञानादिति
गृहाण ।

अन्येतु सुख-दुःखाभाव-तत्साधनेष्विच्छाप्रयोजकमनुगतमुद्देश्यत्वं पुरुषार्थपदवेदनीयं धर्मान्तरमस्ति । अनुगतकार्यस्यानुगतकारणनियम्यत्वात् । तदेव दुःख
तत्साधनव्यावृतं सुख-तत्साधनादौ चिकीर्षाप्रयोजकमिति । न च दुःखविरोधित्वमेव तथास्तीति वाच्यम् । सहानवस्थाननियमविरोधस्यासम्भवात् , वध्य-घातकभावस्यैकसमये
सामानाधिकरण्याभावस्य च यत्नादिसाधारण्यादिति ।  तन्न। तदज्ञानेऽपि सुखत्वज्ञानादिच्छोत्पत्तेः । न हि सुखत्वे ज्ञाते धर्मान्तरज्ञानं विना नेच्छेति । तथात्वे स्वतः
प्रयोजनहान्यापत्तेः । तदेव हि स्वतः प्रयोजनं यदवगतं सत् स्ववृत्तितयेष्यते । किञ्चानुगतधर्मकल्पनापि कारणे । न च सुखादि इच्छाकारणम् , अनागतत्वात् । किन्तु
तदवगमः। तर्हि सुखादिज्ञाने तत् स्वरूपसदेवेच्छाप्रयोजकमस्त्विति चेत् , न । यथा ह्युद्देश्यत्वं सुखज्ञानादिषूत्पद्यते अन्यतरत्वात् तृणारणिमणिन्यायाद्वा तथैवेच्छैव
जायताम् । कृतिसाध्यत्वञ्च कृतौ सत्यां अग्रिमक्षणे स्वरूपं न कृतिं विना । क्षेमसाधारणञ्चैतत् । कृतिसाध्यत्वञ्च न कृतेः पूर्वम्।
ननु कृतौ नष्टायां सन्नपि धर्मो न कार्यः तथा च कथं कार्येऽपूर्वे कामिनोऽन्वयः। क्षणिकत्वेन क्रियातुल्यत्वादिति चेत् , न । यद्वृत्तिकाम्यसाधनत्वं तत्र
कार्यताबुद्धेः प्रयोजकत्वात् । न तु कार्यताविशिष्टस्य काम्यसाधनतेति व्याप्तिः। ननु पाकादौ कृतिसाध्यताज्ञानं न प्रत्यक्षेण, कृत्यन्तरं पाके सति कृतिसाध्यताज्ञानम्,
तस्मिन् सति कृतिरित्यन्योन्याश्रयात्, कृतिसाध्यतोत्तीर्णे चिकीर्षाकृत्योरसम्भवाच्चेति चेत् , न । पाको मत्कृतिसाध्यः मत्कृतिं विना असत्त्वे सति मदिष्टसाधनत्वात्
दैवाद्यनधीनत्वे सति मदिष्टसाधनत्वाद्वा मद्भोेजनवदित्यनुमानात् स्वकृतिसाध्यताज्ञानम् , यस्य यदिष्टसाधनं यत्कृतिं विना यदा न सम्भवति तत् तदा तत्कृतिसाध्यमिति
व्याप्तोः । असिद्धस्येष्टसाधनत्वाभावात् । बलवदनिष्टाननुबन्धित्वञ्च लिङ्गविशेषणम्। तेन न मधु-विषसंम्पृक्तान्नभोजने व्यभिचारः । अतीतपाके च कृतिसाध्यतोत्तीर्णे
न व्यभिचारः सामान्यतस्तस्यापि कृतिसाध्यत्वात् । अतीततादशायाञ्चातीतौदनेच्छाविरहेणेष्टसाधनत्वाभावात् । अत एव निदाघदूनदेहो वर्षति वारिदे तीयदात्तोयलाभसम्भावनायां
वा सरोऽवगाहने न प्रवर्तते। इष्टसन्तापशान्तिसाधनतोयसम्बन्धस्य स्वकृतिं विनापि सिद्धिप्रतिसन्धानेन लिङ्गाभावेन स्वकृतिसाध्यत्वज्ञानाभावात् । यदा च मतकृतिं
विना न सम्भवतीति प्रतिसन्धते, तदा प्रवर्र्तते ।

128

यस्य सन्तापशान्तिमात्रमिष्टं स सरोऽवगाहनस्येष्टसाधनत्वमेव न प्रतिसन्धत्ते उपस्थितवृष्टितोऽपि तत् तत्सम्भवादिति  कश्चित्  ।  तन्न।तोयसम्बन्धत्वेन
सन्तापशन्तिसाधनत्वम्। तस्य च सरोऽवगाहनेऽपि सत्त्वात्। अन्यथा वृष्टिरपि तत्साधनं न स्यात् । सरोऽवगाहनादपि तत्सिद्धेः ।

कार्यसाधनत्वञ्च कृतिसाध्यत्वे न लिङ्गम् । पाकादिवदोदनादेरपि प्रवृत्तेः पूर्वं कृतिसाध्यत्वज्ञाने हेत्वभावात्
नन्वेवं लिङ्गज्ञानमेव प्रवर्तकमस्तु । प्राथमिकत्वात् आवश्यकत्वाच्च । न च लाघवात् कृतिसाध्यत्वज्ञानं तथा । कृतिसाध्यतानुमितौ तदा मानाभावेन
युगपदुपस्थित्यभावात् प्रवृत्तिसामग्र्यानुमितिप्रतिबन्धाच्चेति चेत् ,न। लिङ्गज्ञाने कृतिसाध्यत्वाप्रकाशे तत्प्रकारकचिकीर्षायां तस्याहेतुत्वात् । अत एव लिङ्गान्तरज्ञानमपि
न प्रवृर्त्तकम् ।

ननु पाकादिः कृतः क्रियमाणोे वा न पक्ष। तस्य कृतिसाध्यत्वे बाधात् । नाप्यनागतः । भाविपाके मानाभावेनाश्रयासिद्धेः। पाकत्वं भविष्यद्वृत्ति सामान्यत्वात्
गोत्ववत् इति मानमिति चेत् , न । मानाभावेन गोत्वेऽपि तस्याप्रसिद्धेः । पाकमात्रं पक्ष इति चेत् , न। मात्रार्थो यदि पाकत्वं तदा बाधो लिङ्गासिद्धिश्च । सर्वपाकपरत्वे
च तस्य सिद्धभागे बाधः अनागतभागे चाश्रयासिद्धिः । वर्र्तमानाद्युदासीनः पाकः पक्षः पाकसामान्ये च कृतिसाध्यत्वं न। बाधितमित्यपि न , सिद्धस्य पक्षत्वं
नासिद्धस्येत्यनुमितेः सिद्धविषयत्वे बाधात् । भिन्नविषयत्वे वा सिद्धविषयेच्छाप्रवृत्त्याद्यनुत्पादकत्वाच्च । कृतक्रियमाणसाधारणकृति साध्यत्वज्ञानादेवासिद्धविषया
चिकीर्षा कृतिश्चोत्पद्यते । अनन्यगतिकत्वेन तथा कारणस्वभावकल्पनादिति चेत् , तर्हि यादृशं कृतिसाधत्वं चिकीर्षायां प्रकारः तादृशं ज्ञाने नास्तीत्यन्यप्रकारकज्ञानादेव
चिकीर्षा स्यात् । तथा च लिङ्गज्ञानमेव प्रवृत्तिहेतुरस्तु प्राथमिकत्वात् ।  यत्तुस्मृतपाके कृतिसाध्यत्वासंसर्गाग्रर्हाप्रवृत्तिः । स चासंसर्गग्रहः इष्टसाधनताग्रहादिति ।  तन्न।
स्मृतपाकस्य सिद्धत्वेन तत्र कार्यत्वासंसर्गग्रहेऽनुमानबाधात् । स्मृतपाकस्य सिद्धत्वं तदा न गृह्यते इति चेत् , तर्हि स्मृतपाकस्य सिद्धत्वग्रहे ओदनार्थी पाके न प्रवर्तेत
सिद्धौदनोऽपि पाके तृप्तोऽपि भोजने प्रवर्तेत। तत्र सिद्धत्वग्रहात्तदसंसर्गग्रह इति चत्तुल्यम्। अपि च स्मृतपाके कार्यत्वासंसर्गाद्विद्यमानासंसर्गाग्रहाद्विसंवादिनी प्रवृत्तिः
स्यात्। किञ्चैवं सिद्धपाकज्ञानादज्ञातेऽसिद्धे पाके इच्छा-प्रवृत्ती स्यातामिति । अत्र ब्रूमः । पाके कृतिसाध्यत्वं सिद्ध्यत् सिद्धे बाधात् । अनगातपाकमादाय सिध्यति ।
पक्षतावच्छेदकधर्मसामानाधिकरण्यं साध्यमानस्य लिङ्गेन सिद्धतीत्यनुमाने क्लृप्तत्वात् यथा प्रसिद्धवह्निबाधेऽपि वह्निमात्रं न बाधितमित्यप्रसिद्धोऽपि वह्निः सिध्यति,
तथा प्रसिद्धपाके कृतिसाध्यत्वबाधेऽपि पाकमात्रे न बाधितमित्यप्रसिद्धं पाकमादाय तत्सिध्यति । अप्रसिद्धयोः पक्षसाध्ययोः सिद्धावविशेषात् । तस्मात् असिद्धस्य क्वचित्
सिद्धे सिद्धे सिद्धस्य च क्वचित् । अप्रसिद्धस्य चासिद्धे सिद्धिस्तेनानुमा त्रिधा ॥ अन्यथा कृतिसाध्येष्टसाधनतापक्षेऽपि पाकादौ कृतिसाध्यत्वं कथमवगम्येत । किञ्च
तवापीष्टसाधनताज्ञानात् कथं वृष्ट्यादाविच्छा सिद्धत्वस्येच्छाविरोधित्वात् । अनागतस्य ज्ञातुमशक्यत्वात् । अत एव सिद्धासिद्धविषयत्वनिरासेन सुखादिज्ञानात्
फलेऽपि नेच्छेति न वृष्ट्यादाविष्टसाधनतापि । न च वृष्ट्यादिसाध्येष्टज्ञानात् वृष्ट्यादाविच्छा । इच्छायाः सिद्धासिद्धवृष्ट्यादितत्फलविषयत्वविकल्पग्रासात् ।
अथ सामान्यलक्षणप्रत्यासत्त्या वृष्ट्यादित्वेन सुखादित्वेन च सिद्धासिद्धवृष्ट्यादितत्फलविषयकं ज्ञानमुत्पन्नम्। तेन सिद्धं विरोधिनं त्यक्त्वा असिद्धविषयेच्छोत्पद्यते।
यदि च सामान्यलक्षणं नास्ति तदा येन रूपेणेष्टसाधनत्व ग्रह तेन रूपेण ज्ञाते सिद्धे वेच्छोत्पद्यते । अन्वयव्यतिरेकाभ्यां तादृशज्ञानस्य तादृशेच्छाजनकत्वावधारणात् ।
सुखेच्छायामप्येवं इति चेत् , तर्हि ममापि पाकत्वावच्छेदेन कृतिसाध्यताज्ञानादनागते चिकीर्षा । तच्च ज्ञानं सकलपाकविषयं सन्निकृष्टपाकविषयं वेत्यन्यदेतत् । बालस्य
व्याप्त्याद्यग्रहेणाद्या प्रवृत्तिर्जीवनादृष्टोद्बोधितजन्मान्तरसंस्कारजन्यात् स्तनपानं कार्यमिति स्मरणात् । तवापीष्टसाधनतास्मरणात् तत्र प्रवृत्तिः अनन्यगतिकत्वात् । न च
जन्मान्तरेऽपि पर्यनुयोगः । जन्मधाराया अनादित्वात् । प्रत्यक्षानुमानमूलकत्वाच्च नान्धपरम्परा ।

वस्तुतस्तु शुष्ककण्टतया बालो दुःखमनुभवन् विरोधितया सुखं स्मरति । ततः सुखत्वज्ञानात् सुखवृत्तिकार्यत्वं सुखवृत्तितया , अन्तरङ्गत्वात् । न तु
स्तनपानमिष्टसाधनमिति स्मरणम् , सुखावृत्तित्वेन बहिरङ्गत्वात् । सुखकार्यत्वञ्च स्तनपानद्वारा जन्मान्तरानुभूतमिति कार्यत्वस्मरणे स्तनपानमपि विषयः। तेन
स्तनपाने कार्यत्वज्ञानादेव ,प्रवृत्तिः। इष्टसाधनताज्ञानस्य तदानीं सामग्र्यभावात् । एवञ्चाद्यप्रवृत्तौ कार्यत्वज्ञानं प्रयोजकं क्लृप्तमित्यग्रेऽपि तदेव प्रवर्तकं क्लृप्तत्वात् ।
नवीनस्तु ममेदं कृतिसाध्यमिति ज्ञानं न प्रवृर्त्तकम्, अनागतविषये प्रत्यक्षानुमानयोरसम्भवात् , किन्तु यादृशस्य पुरुषस्य कृतिसाध्यं यद्दृष्टं तादृशत्वमात्मनः प्रतिसन्धाय
तत्र प्रवृर्त्तते, तथाह्योदनकामस्य तत्साधनताज्ञानवतश्च तण्डुलाद्युपकरणवतः पाकः कृतिसाध्यः, अहमपि च तादृश इति ज्ञानात् इति ज्ञानात् पाके प्रवर्र्तते ।
एवञ्चान्यकृतपाके कृतिसाध्यताज्ञानं आत्मनः पाके कृतिसाध्यत्वप्रयोजकविशेषणवत्त्वज्ञानञ्च प्रवर्र्तकम् । अन्यत्रापि प्रवृत्तिरेवमेवेत्यनादितैव। अत एव सञ्जातबाधश्चैत्यवन्दने
विषभक्षणे च न प्रवर्तते । इष्टसाधनताज्ञानवतो हि तत् कृतिसाध्यम् । न च सञ्जातबाधस्तत्र इष्टसाधनताज्ञानवान् । एवं तृप्तीच्छावतोऽपि भोजनं कृतिसाध्यम् ,
तृप्तश्च न तृप्तीच्छावत्त्वमात्मन्यवैतीति न भोजने प्रवर्तते ।

अतिनवीनास्तु यादृशस्येत्यादौ अविगीतत्वं तत्कृतौ विशेषणमाहुः । सञ्जातबाधस्तु विषभक्षणं चैत्यवन्दनञ्च विगीतकृतिसाध्यत्वेनैव जानातीति तत्र न
प्रवर्तते।

वृत्तिविषयश्च सामान्यतः कालासम्भिन्नः पाकादिर्ज्ञायते । प्रवृत्तिमहिम्ना चानागतपाकसिद्धिः । चिकीर्षा च कालासम्भिन्नविषया, न तु भाविनं कृत्या
साधयामीत्याकारैवेति ।

इति श्रीमद्गङ्गेशोपाध्यायविरचिते तत्त्वचिन्तामणौ शब्दखण्डे विधिवादपूर्वपक्षः ॥
विधिवादसिद्धान्तः ।

अत्रोच्यते  । विषभक्षणदिव्यावृत्तं कृतिसाध्यत्वज्ञाने इष्टसाधनत्वं विषयतयावच्छेदकं लाघवात् । न तु स्वविशेषणवत्ताप्रतिसन्धानजन्यत्वम् , गौरवात् । न च

129

सिद्धासिद्धावस्थयोः साध्यत्वसाधनत्वयोर्विरोधः । निर्विशेषितयोस्तयोरविरोधात् । पाकोऽसिद्धः साध्यः सिद्धः साधनञ्चेत्यनुभवात् । तदा साध्यत्वं हि तदा साधनत्वस्य
विरोधि। नियमतस्तेनैव तस्य प्रतिक्षेपेण सहानवस्थाननियमात् ,। न तु साधनत्वस्यान्यदा साधनत्वस्य वा , तयोरप्रतिक्षेपात् । अन्यदा साधनत्वेऽपि साधनत्वमस्त्येव
सामान्याभावे विशेषाभावप्रसङ्गात् । एवन्तदा असिद्धत्वस्य तदा सिद्धत्वं विरोधि,नयमतस्तस्यैव प्रतिपक्षेपात् । न तु सिद्धत्वमात्रं, अन्यदापि तत्र सिद्धत्वाभावप्रसङ्गत्।
निर्विशेषितयोर्विरोधे च सिद्धत्वासिद्धत्वयोश्चान्यतरदेव पाकादौ स्यान्न तु समयभेदेऽप्युभयम् । न च तदा कृतिसाध्यत्वे सति तदेष्टसाधनत्वज्ञानं प्रवर्तकम् । अत एव
वाजपेयेन यजेतेत्यत्र यागस्य करणावस्थायां सिद्धत्वेन न वाजपेयस्य साध्यता, एकदा तयोर्विरोधादिति कर्मनामधेयत्वम्। न तु करणस्य सिद्धत्वेन साध्यत्वविरोधः ।
यागस्वरूपे तयोः सत्त्वात् ।

अथ विरुद्धयोरवच्छेदभेदमादाय एकत्र प्रतीतिः स्यात् । न च कृतिसाध्यत्वेष्टसाधनत्वयोः समयभेदमादायैकत्र प्रतीतिरस्ति । तथा लिङ्गाभावादिति चेत् , न।
साध्यत्व-साधनत्वयोरविरोधस्योक्तत्वात् । एवं सिद्धत्वा सिद्धत्वयोर्भावाभावरूपत्वेऽपि न विरोधः। एकधÐमगतत्वेन मानसिद्धत्वात् । तस्मात् संयोग-तदभावयोरिव येन
प्रकारेण ययोर्विरोधः तेन तयोरेकधÐमगतत्वं न प्रतीयते । न तु रूपान्तरेणापीति । अपि च यदि साध्यत्वसाधनत्वयोर्विरोधस्तदा तवापीष्टसाधनत्वेन कार्यसाधनत्वेन वा
कार्यत्वं नानुमीयेत। हेतु-साध्ययोर्विरोधेन सामानाधिकरण्याभावेन व्याप्त्यसिद्धेः पक्षे साध्यसाधनयोरन्यतरसत्त्वे बाधासिद्ध्योेरन्यतरप्रसङ्गाच्च । न च वाच्यमिदानीं
मत्कृतिसाध्यत्वं साध्यमग्रे मदिष्टसाधनत्वं हेतुः, दैवाद्यनधीनत्वे सति यदग्रे मदिष्टसाधनं तदिदानीं मत्कृतिसाध्यमिति व्याप्तिः। तथा च समयभेदमादाय साध्यत्व-साधनत्वयोरवगम इति। इदानीमग्रिमपदार्थयोर्नानात्वादनुगतरूपाभावेन व्याप्तेरग्रहात् । पाकन्यायेनान्यत्रापि तत्तत्समयान्तर्भावेन साध्यत्वसाधनत्वयोरप्रतीतिः। प्रतीतौ वा
ममापीदानीं कृतिसाध्यत्वे सत्यग्रे इष्टसाधनमिति ज्ञानं प्रवर्र्तकमस्तु । न च पाके साध्येष्टकत्वेन कृतिसाध्यत्वमनुमेयम् । असिद्धावस्थावतो हि पाकादिष्टानुत्पत्तेः पाकस्य
सिद्धत्वमवगम्य तत्साध्यत्वमिष्टस्यावगन्तव्यम् असिद्धत्वञ्चावगम्य कृतिसाध्यत्वमिति सिद्धत्वासिद्धत्वयोरÐवरोधोऽत्रापि दुर्वारः । अपि च स्वविशेषणधीजन्यकार्यताज्ञानाभावात्
सुखे कथं चिकीर्षा। न हि कृतिसाध्यताज्ञानमात्रात् सा। सञ्चातबाधस्य विषभक्षणादौ चिकीर्षाप्रसङ्गात् । अथोपायचिकीर्षायां तत्कारणम् । इच्छाकारणसुखत्वज्ञाने
कृतिसाध्यत्वं यदा विषयस्तदा सुखे चिकीर्षा। नो चेदिच्छामात्रमिति द्वयमेव चिकीर्षाहेतुरिति चेत् , तर्हि इच्छाहेतुज्ञाने यदा कृतिसाध्यत्वं भासते तदा चिकीर्षा नो
चेदिच्छामाचमित्येव सुख-तदुपायचिकीर्षाकारणमस्तु लाघवात् , सुखत्वज्ञानवदिष्टसाधनताज्ञानस्यापीच्छाकारणत्वात्। अत एव पाके इष्टसाधनताज्ञाने कृतिसाध्यत्वं
विषय इति तत्र चिकीर्षा। न तु वृष्ट्यादिज्ञाने तद्विषयत्वमितीच्छामात्रम् , सुखचिकीर्षायामिच्छाकारणज्ञाने कृतिसाध्यताविषयके चिकीर्षाजनकत्वावधारणात् । अन्यथा
तत्र चिकीर्षानुत्पत्तेः ।

वस्तुतस्तू पायचिकीर्षा इष्टसाधनताज्ञानसाध्या उपायेच्छात्वात् वृष्टिच्छाव्। न च भोगचिकीर्षावत्तेन विनापि स्यादित्यप्रयोजकत्वम्।
उपायेच्छायास्तदन्वयव्यतिरेकानुविधानात् । वृष्टेश्च स्वतोऽसुन्दरत्वेनेच्छानुत्पत्तेः । अनुगतोपायेच्छायां अनुगतस्य प्रयोजकत्वे सम्भवति बाधकं विना त्यागायोगाच्च ।
न च चिकीर्षान्यत्वे सति उपायेच्छात्वम् , इच्छात्वं वा तज्जन्यत्वे प्रयोजकम् गौरवात् , सुखेच्छायां तदभावाच्च । एवञ्चोपायचिकीर्षायामिष्टसाधनत्वज्ञाने
ध्रुवेऽतिप्रसङ्गवारणार्थं कृतिसाध्यत्वनिर्वाहार्थञ्च कृतिसाध्यत्वमपि विषयतयावच्छेदकमस्तु न तु तद्विहाय तन्मात्रम्। क्लृप्तकारणं विना कार्यानुपपत्तेः । अत एव
स्तनपानप्रवृत्तावप्युपायेच्छाकारणत्वेन गृहीतस्येष्टसाधनत्वज्ञानस्यापि कल्पनम्, दृष्टानुरोधित्वात् कल्पनायाः । ननु साधनत्वमिच्छाविरोधि, तस्य सिद्धधर्मत्वात् वृष्ट्यादौ
तत्साध्येष्टज्ञानाता इच्छेति चेत्, न। निर्विशेषितयोः सिद्धत्वासिद्धत्वयोः विरोधेन इच्छासाधनत्वयोरविरोधात्। तदा असिद्धत्वं तदा सिद्धत्वं च नेच्छासाधनत्वयोः
प्रयोजकमिति तथा न ज्ञायत एव।

यत्तु तद्साध्येष्टज्ञानात् वृष्ट्यादाविच्छेति, तत्तुच्छम् । असिद्धावस्थात् वृष्ट्यादेरिष्टनित्यत्तेः तस्मावद्वयं सिद्धत्वमवगन्तव्यम्, इच्छानुरोधित्वाश्च असिद्धत्वमिति,
तत्रापि विरोध एव । वृष्टौ सत्यामिष्टतया विना नेत्यन्वय व्यतिरेकग्रहस्य वृष्टिसिद्धत्नमादाय दृष्टिनिरूपितेष्टसाध्यकत्वग्राहकत्वात् । किञ्च चिकीर्षाजन्यकृतिसाध्यं
मण्डलीकरणमित्यर्थप्रतिपादकं मण्डली कुर्यादिति वाक्यां प्रमाणं स्यात् , विषयाबाधात्।

एतेननवीनमतमप्यपास्तम् । परस्य हि कृतिसाध्यत्वौदनकामनावत्त्वेष्टसाधनताज्ञानानां ज्ञानं तथा आत्मन ओदनकामनावत्त्वेष्टसाधनताज्ञानस्य ज्ञानं न
प्रवृत्तिकारणं गौरवात् । किन्तु मत्कृतिसाध्यत्वे सति मदिष्टसाधनताज्ञानमेव , लाघवात् । यथा च साध्यत्वसाधनत्वयोरिविरोधः । अनागतस्य पाकादेः कृतिसाध्यताज्ञानञ्च
तथोपपादितमेव । किञ्च परकृतिसाध्यत्वमज्ञात्वापि स्वकृतिसाध्येष्टसाधनताज्ञानात् स्वकल्पितलिप्यादौ यौवनं कामोद्रेकात् सम्भोगादौ प्रवृत्तेश्च तदेव प्रवर्तकम्  ।
वस्तुतस्तु  सिद्धविषयककृतिसाध्यताज्ञानात् कथं कृत्या साधयामीतीच्छा। सिद्धे इच्छाविरहात् असिद्धस्याज्ञानात् । अथ सिद्धविषयादेव कृतिसाध्यताज्ञानात्
असिद्धविषया कृतिसाध्यत्वेनेच्छा ज्ञायते। इच्छाया असिद्धविषयत्वस्वभावत्वादेकप्रकारकत्वेन ज्ञानचिकीर्षयोः कार्यकारणभावो न त्वेकविषयत्वे सति गौरवात् ।
इच्छाया अनागतविषयत्वात् तस्य चाज्ञानात्। तथात्वदर्शनात् सुखादीच्छायामप्येवमिति चेत् , न । असिद्धविषयेच्छानुरोधेनानागतज्ञानोपायस्य दर्शितत्वात् । अस्तु
चैवम्, तथापि कृतिसाध्यताज्ञाने इष्टसाधनत्वमेव व्यावर्तकमस्तु । स्वपरकीयेष्टसाधनताज्ञान- फलकामनाज्ञानापेक्षया लघुत्वात् , इष्टसाधनताज्ञानज्ञानस्य फलकामनाज्ञानस्य
च हेतुत्वे मानाभावाच्च ।

नव्यास्तु स्वकृतिसाध्यताज्ञानमेव प्रवर्तकम्। तेन स्वकृत्यसाध्ये वृष्ट्यादौ कारीर्याञ्च कृषीवलस्य न प्रवृत्तिः । न च सञ्जातबाधस्य विषभक्षणे प्रवृत्तिप्रसङ्गः।
स्वकृतिसाध्यताज्ञानविषये इष्टत्वस्य स्वरूपसतः प्रवृत्तौ सहकारित्वात् । न च सञ्जातबाधस्य विषभक्षणादाविच्छास्ति । इष्टसाधनत्वेनाज्ञानात् । अतीतभोजनेऽप्यत
एव न प्रवर्तेत, तृप्तेः सिद्धतया इच्छाविरहेण भोजने तदुपाधिकेष्टत्वाभावात्। अतीततृप्ताविच्छा नास्तीति तत्साधनेऽपीष्टत्वाभावादेव न प्रवृत्तिः । न चैवं पाके न
प्रवर्तेत, तस्य स्वरसतःइष्टत्वाभावादिति वाच्यम् । इष्टसाधनत्वज्ञानेन तस्यापीष्टत्वात् । हन्तैवं प्राथमिकत्वादिष्टत्वार्थमवश्यापेक्षणीयत्वाच्च कृतिसाध्यत्वे सतीष्टसाधनताज्ञानमेव
चिकीर्षाकारणमस्त्विति चेत् , न। इष्टसाधनत्वाभावेऽपि भोगे चिकीर्षासत्त्वात्। तस्यां स्वकृतिसाध्यत्वज्ञाने सतीष्टत्वमेव कारणम् , न त्विष्टसाधनत्वं व्यभिचारात् ।
पाकादौ तदन्वयव्यतिरेकावपीष्टत्वोपक्षीणौ । एवं भोगेऽपि प्रवर्तेति चेत् , न। इष्टसाधनतापक्षेऽपि मुक्तिरूपेष्टसाधने सुखे प्रवर्तेतेति तुल्यम्। सुखे चिकीर्षा भवत्येव।
कृतिस्तु न भवति। कृतेः सिद्धवृत्त्यसिद्धक्रियाविषयत्वनियमादिति चेत्तल्यम् । तस्मात् स्वकृतिसाध्यत्वं विधिरिष्टत्वं सहकारीति ।

130

मैवम्  । इष्टसाधनताज्ञानस्योपायेच्छायां हेतुत्वावधारणात्तस्यास्तज्जन्यत्वनियमादिच्छायाः स्वविषयेच्छानुत्पादकत्वनियमाच्च ।
ननु सिद्धौदनः कुतः पाके न प्रवर्र्तते, ओदनमात्रस्य सिद्धत्वेनेष्टत्वाभावात् । अत एवातीतभोजनादौ न प्रवृर्त्तते अतीततृष्ण्दाविरहात् ।
ननु सामुद्रिकविदाख्याते भावियौवराज्ये भोगसाधने स्वकृतिसाध्यत्वे सतीष्टसाधनत्वज्ञानात् कुतो न प्रवर्तते। भाविराज्यस्यासिद्धत्वात् , प्रवृत्तेः सिद्धविषयत्वनियमात्,
राज्योपायापरिचयाच्च । तत्परिचये च प्रवर्तते एव देवताराधनादाविति चेत् , न । सिद्धे चिकीर्षाविरहेण यागादावप्यप्रवृत्तिप्रसङ्गात् , देवताराधनादेरप्यसिद्धत्वेन
तत्राप्यप्रवृत्तिप्रसङ्गाच्च । किञ्च राज्योपायापरिचये तत्र मा प्रवर्तिष्ट स्वकृतिसाध्येष्टसाधनत्वेन ज्ञाते राज्ये प्रवर्तिप्रसङ्गे किमायातम् । न हि कृतिसाध्येष्टसाधनत्वेन
ज्ञानेऽपि तदुपायज्ञानं तत्र प्रवर्तकम् । गौरवात् भिन्नविषयत्वाच्चेति चेत् , मैवम् । यौवने हि तावत् प्रवर्र्तत एव राज्ये । बाल्ये तु राज्योपायमकृत्वा मत्कृत्येदानीं राज्यं
न सिध्यतीति स्वकृत्यसाध्यताज्ञानादेव न प्रवर्तते, यथा तण्डुलं विना पाके स्वकृत्यसाध्यताज्ञानात् । राज्योपाये तु स्वकृतिसाध्येष्टसाधनत्वेन ज्ञाते देवताराधनादौ
प्रवर्तते एव । अत एव व्रीह्यवघातमकृत्वा पुरोडाशस्तमकृत्वा यागस्तमकृत्वाऽपूर्वं साधयितुं न शक्यत इति क्रमशोऽवघातादौ प्रवर्तते, न युगपत्।
सिद्धवृत्त्यसिद्धक्रियाविषयस्वभावत्वात् प्रवृत्तेः। यागानन्तरञ्च नापूर्वे प्रवर्र्तते। कृत्यन्तरं विनैव यागकृतित्स्तसम्भवात् । इष्टसाधने चेष्टोत्पत्तिनान्तरीयकदुःखाधिकदुःखाजनकत्वं
विशेषणम् , न तु तज्ज्ञानाभावः कारणम् । किन्तु तदेव विषयतया कारणतावच्छेदकम् , लाघवात् । तेन मधु-विषसम्पृक्तान्नभोजने न प्रवृत्तिः । परेणापि प्रवृत्तिपूर्वं
लिङ्गविशेषणत्वेन अन्यथा वा तज्ज्ञानविनियोगस्वीकारात् । एवञ्चाल्पायाससाध्यादिष्टोत्पत्तिसम्भवे बह्वायाससाध्ये न प्रवृत्तिः । अत एव श्रुतस्वर्गफलकत्वेऽपि
बहुवित्तव्ययायाससाध्ये ज्योतिष्टोमादौ फलभूमा कल्पपते। अन्यथाल्पायाससाध्यादेव स्वर्गसिद्धिसम्भवे तत्राप्रवृत्तौ अननुष्ठानलक्षणमप्रामाण्यं तद्विधेः स्यात् ।
बलवदनिष्टाननुबन्धित्वञ्च न विशेषणम् । बहुवित्तव्ययायाससाध्यबहुतरदुःखस्याप्यबलवत्त्वं क्वचिदल्पदुःखस्यापि बलवत्त्वं इत्यनुगतस्य तस्याभावात् । न
चेष्टापेक्षयानिष्टस्याधिकत्वं बलवत्त्वम्। तस्याप्युक्तातिरिक्तस्याननुगमात् । आस्तिकस्य निषिद्धत्वेन ज्ञातेऽपि प्रवृत्तिः रागद्वेषयोरुत्कटत्वेन नरकसाधनत्वज्ञानतिरोधानात्।
ननु न कलञ्जं भक्षयेदित्यत्र विध्यर्थनिषेधानुपपत्तिः तद्भक्षणस्य तृप्तिरूपेष्टसाधनत्वात् । न चासुराविद्यादिवत् पर्युदासलक्षणया। विरोध्यनिष्टसाधनत्वबोधनम्,
नञोेऽसमस्तत्वात् , क्रियासङ्गतत्वेन प्रतिषेधवाचकत्वव्युत्पत्तेश्चेति चेत् , न । विशेष्यवति विशिष्टनिषेधस्य "सविशेषणे ही"ति न्यायेन विशेषणनिषेधपर्यवसायितया
कलञ्जभक्षणमिष्टोत्पत्तिनान्तरीयकदुःखातिरिक्तदुःखसाधनमिति न कलञ्जं भक्षयेदित्यनेन बोधनात् । इष्टसाधनतावाचकस्य विधेः सामान्यतो
निषेधानुपपत्तेर्बलवदनिष्टाननुबन्धीष्टसाधनत्वविशेषनिषेधतात्पर्यम् । तथा चाशक्यविशेषनिषेधपरत्वं नञ इति  कश्चित्  ।तन्न। यथा ह्ययोग्यतया सच्छिद्रं विहाय
घटत्वेन तदितरान्वयो, न तु छिद्रेतरत्वेन, युगपद्वृत्तिद्वयविरोधात् , तथात्रापि बलवदनिष्टाननुबन्धित्वेनानुपस्थितौ कथं तन्निषेधः।
श्येनेनाभिचरन् यजेतेत्यत्र कथं विधिप्रवृत्तिः। हिंसाया बलवदनिष्टानुबन्धित्वात् इति चेत् , न । तत्र कृतिसाध्यत्वे सतीष्टसाधनत्वमेव योग्यतयान्वेति। न तु
बलवदनिष्टाननुबन्धित्वमपि अयोग्यत्वात् । निन्दार्थवादेन प्रायश्चित्तोपदेशेन च हिंसाया बलवदनिष्टानुबन्धित्वावगमात् । अत एव विहितेऽपि श्येने विगानान्न
तात्त्विकप्रवृत्तिः । राग-द्वेषयोरुत्कटत्वेनानिष्टानुबन्ध्यंशस्य तिरस्कारात् कस्यचित् प्रवृत्तिरित्येके ।

अन्ये त्वभिचारस्य वैरिवधफलकत्वेन श्रुतत्वात् बधसाधनत्वेन श्येनो विधीयते। न तु वधसाध्यनरकसाधनत्वेन नरकस्य फलत्वेनाश्रुतेः । न च जनकजनकस्य
जनकत्वनियमः , कुम्भकारपितृपरम्परायाः कुम्भजनकत्वापत्तः विधिनैव । श्येनस्य बलवदनिष्टो ननुबन्धित्वबोधनाञ्च। न च श्येनस्य नरकाहेतुत्वे अपेक्षितवैरिवधहेतुत्वे
वा अविगानेन प्रवृत्तिः स्यादिति वाच्यम् । श्येनाद्वधो वधाच्चावश्यं नरक इति प्रतिसन्धानेन विगानात् ।

ननु श्येनो मरणफलकव्यापारत्वेन हिंसा। सा च नरकजनिकेति चेत् , न । नहि साक्षात् परम्परासाधारणमरणफलकव्यापारो हिंसा । कूपादौ विनष्टे गवि
तत्कर्तुर्गोवधकर्तृत्वापत्तेः। वध्यस्यापि हन्तुर्मृत्यूत्पादनद्वारेणात्महन्तृत्वप्रसङ्गाच्च । न हि अनुत्पादितमन्युः कश्चित् कमपि व्यापादयति। किन्त्वनुनिष्पादिमरणफलकोव्यापारो
हिंसा। यदनन्तरं मरणं भवत्येव । न च श्येनस्तथा । किन्तु खङ्गहननादिकमेव । अथ मरणोनुकूलव्यापारो मरणेद्देशेनानुष्ठीयमानो हिंसा। श्येनश्च तथा । कूपादौ च
न मरणोद्देशेनानुष्ठीयमानत्वमिति चेत् , न। एवं सति गौरवात् मरणानुद्देशेन क्षिप्तनाराचाद्धब्राह्मणे च हिंसा न स्यात् । किञ्च हिनस्तिधात्वर्थे अवच्छेदकं
फलमव्यवहितमेव मरणम्। अव्यवहितफलकस्यैव व्यापारस्य धातुवाच्यत्वात् । अन्यथा परम्पराया विक्लित्तिफलकान्नकामेष्टतण्डुलक्रयादावपि पचतीतिप्रसङ्गात् । एवं
खङ्गोभिघातानन्तरं यत्र विलम्बेन मरणं व्रणपाकपरम्परया वा अन्ने विषप्रयोगेन वा तत्र हन्तृत्वं प्रायश्चित्तादि च न स्यात् इति चेत् , न । प्रायश्चित्ततुल्यतार्थं हि तत्र
हन्तृव्यापदेशो गौणः । विनिगमकञ्च लाघवमेव ।

वस्तुतस्तुमरणोद्देशेन कृतोऽदृष्टाद्वारकस्तदनुकूलव्यापारो हिंसा श्येनश्चादृष्टद्वारा मरणसाधनमतो न हिंसा । यदि चादृष्टद्वारापि मरणसाधनं हिंसा स्यात् , तदा
सप्तमीतैलाभ्यङ्गस्यादृष्टद्वारा इष्टभार्याविनाशेहेतुत्वादभ्यङ्गकर्तुर्हिंसकत्वात्तिः । अत एव कूपादौ गोमरणेऽपि न वधकर्तृत्वं तत्कर्तुः। गललग्नान्नमरणे न भोक्तुर्नवा
परिवेषयितुरात्महन्तृत्वं ब्रह्महन्तृत्वं वा। व्रणपाकपरम्परया विलम्बेन विषप्रयोगेन च हन्तृत्वं मुख्यमेव। न त्वनुनिष्पादिमरणफलकत्वम् , गललग्नान्नमरणे स्वहन्तृत्वापत्तेः।
अन्योद्देशेन क्षिप्तनाराचेन हते ब्राह्मणे ब्रह्महन्तृत्वं न स्यादिति चेत् , न । इष्टापत्तेः । व्यापदेशस्तु गौणः प्रयोगो लक्षणयापि समर्थयितुं शक्यते । तत्पक्षेऽतिप्रसङ्गोवारयितुं
न शक्यत इतीदमेव विनिगमकम्। अत एव अतदुद्देशेन कृतेऽपि निषिद्धे प्रायश्चित्तार्द्धमुक्तम् ।

अपरे तु  अनभिसंहितनरान्तरव्यापारमद्वारीकृत्य मरणसाधनं हिंसा। खड्गकारस्यानभिसंहितनरान्तरव्यापारद्वारा मरणसाधनत्वम् । तस्य हि नरान्तरव्यापारो
नाभिसंहितः, किन्तु धनलाभ इति खड्गकारो न घातकः । विषस्यान्ने प्रक्षेपेण नरान्तरव्यापारो भोजनमेवाभिसंहितः अनेनेदं भोक्तव्यमित्यभिसन्धाय विषप्रयोगादिति
हिंसैवान्ने विषप्रयोग इति ।  तन्न। गललग्नकवलाद्यत्र मरणं तत्र परिवेषयितुर्घातकतापातात् , अनेनेदं भोक्तव्यं इत्यभिसन्धाय परिवेषणाद्भोक्तुरात्महन्तृत्वापत्तेश्च ।
अनभिसंहितनरान्तरव्यापारमद्वारीकृत्य मरणानुकूलान्नभक्षणनुष्ठानात् । अत एवाव्यवहितप्राणवियोगफलको व्यापारो हिंसा। व्रणपाकपरम्परया मृते तु हन्तृत्वं
व्यापारस्याव्यवधायकत्वादिति निरस्तम्।

131

स्यादेतत् नेष्टसाधता विधिः। नित्ये सन्ध्योपासनादौ फलाभावात् । अथ नास्त्येव तत् नित्यं यत्रार्थवादादिकं विधिवाक्ये वा न फलं श्रुतमस्ति। सन्ध्यामुपासते
ये तु सततं शंसितव्रताः । विधूतपापास्ते यान्ति ब्रह्मलोकं सनातनम्। इत्याद्यर्थवादात् , दद्यादहरहः श्राद्धं पितृभ्यः प्रीतिमावहन् इत्यादिविधिवाक्यश्रवणाच्च ,
कृत्वाचिन्तयातूच्यते । यत्र न फलश्रुतिस्तत्र विश्वजिन्न्यायात् स्वर्गः फलमिति चेत् , न। कामनोपाधिकार्यत्वेन यागवन्नित्यताभङ्गप्रसङ्गाद्। अहरहःश्रुत्या हि
तत्कालजीविमात्रकृतिसाध्यं सन्ध्यावन्दनमवगतम् , कामनोपाधिकार्यत्वे च यदा फलकामना नास्ति, तदा तत्समय एव तत्कर्तव्यता न स्यात् । न हि तत्काले
फलकामनावश्यम्भावः , प्रमाणाभावात् । किञ्च प्रथमप्रवृत्तेतरनिरपेक्षाहरहःश्रुत्या जीविमात्रस्याधिकारोऽवगतः तथा च तत्सापेक्षचरमप्रवृत्त्यर्थवादोपनीतफलकामस्य न
तत्राधिकारः। प्रथमप्रवृत्ताहरहःश्रुतिविरोधात् । नित्ये फलश्रुतेरर्थवादस्य च स्तुतौ तात्पर्यम् । अत एव प्रत्यवायपरिहारोऽपि न फलम् , तत्कामनोपाधिकार्यत्वे
नित्यताक्षतेः । किञ्च नित्ये कर्त्तव्यताबोधनात् प्राक् न प्रत्यवाये प्रमाणमस्ति विधेः कर्तव्यत्वमवगम्य कर्तव्याकरणे प्रत्यवायकल्पनम् । विधिश्च फलाभावेन प्रथमं मूक
एव । एवञ्च प्रत्यवायप्रमितौ विधिप्रवृत्तिः, तत्प्रवृत्तौ च कर्र्तव्याकरणे प्रत्यवायकल्पनं इत्यन्योन्याश्रयः ।

अपरे तु  न विधेः कर्र्तव्यत्वमवगम्य कर्तव्याकरणे प्रत्यवायकल्पनम् , येनान्योन्याश्रयः। किन्तु निन्दार्थवादेन प्रायश्चित्तोपदेशेन चोपासनस्य प्रकृत्यर्थस्य
तावद्व्यापारस्वरूपस्याभावः प्रत्यवायहेतुरवगतः। तथा च सन्ध्योपासनाभावः प्रत्यवायद्वारा दुःखसाधनम् । तदभावः सन्ध्योपासनं दुःखसाधनाभावत्वेन फलम् ,
प्रायश्चित्ते पापध्वंसवदिति तत्साधनत्वेन कृतिर्बोध्यते विधिना । न चैवं प्रत्यवायपरिहार एव फलमस्त्विति वाच्यम्। परिहारस्य प्रागभावरूपत्वेन अनादितया
असाध्यत्वात् । न च उपासनाकरणं प्रत्यवायहेतुर्नोपासनाभावः। तथा च दुःखसाधनाभावत्वेन कृतिरिष्टा न तूपासनमिति वाच्यम् । निन्दार्थवादस्योभयत्र सत्त्वेन
उभयस्यापि तथात्वादिति ।  तन्न। एवमपि काम्यत्वे नित्यताक्षतिप्रसङ्गात् । किञ्च "अकुर्वन् विहितं कर्मे"त्यादिना "नोपास्ते यश्च पश्चिमामि"त्यादिना च करणभावस्यैव
प्रत्यवायहेतुत्वं बोध्यते, न तु तद्विषयाभावस्य । अन्यथा अकर्तुः प्रत्यवायो नान्यस्येति कथं स्यात्। विषयाभावस्य साधारण्यात् ।
वस्तुतस्तु  कृतिसाध्यत्वे सतीष्टसाधनताज्ञानं प्रवर्तृकत्वेन निर्यूढम् । न च कृतौ कृतिसाध्यत्वमस्तीत्यतो न किञ्चिदेतत् ।

नव्यास्तुनित्यापूर्वप्रागभावो दुरितद्वारा दुःखसाधनं तदभावोऽपूर्वं दुःखसाधनाभावत्वेनेष्टं तत्साधनत्वेन कृतिसाध्यत्वेन च सन्ध्योपासनं विधीयते इति ।तन्न।
निन्दार्थवादादिना सन्ध्योपासनाभावस्तदकरणं वा प्रत्यवायहेतुरवगतो न त्वपूर्वाभावः। प्रथमं प्रमाणाभावेन तदनुपस्थितेः। विधेः इष्टसाधनत्वबोधकत्वात् परिशेषेणापूर्वमिष्टं
कल्प्यत इति चेत् , तर्हि विश्वजिन्न्यायेन स्वर्ग एव फलं कल्प्यताम्। काम्यत्वस्य त्वयापि स्वीकारात् । किञ्च विधिप्रवृत्तावपूर्वज्ञानं अपूर्वज्ञाने च विधिप्रवृत्तिरित्यन्योन्याश्रयः।
यावन्नित्य नैमित्तिकनिर्वाहस्य तत्तदाश्रमविहितकर्मणां सम्यक्परिपालनस्य च ब्रह्मलोकावाप्तिः फलं श्रूयते । तथा च नित्यस्य सफलत्वमिति  केचित् । तन्न। तस्य
विधेर्नित्यविधिमुपजीव्य प्रवृत्तिः तस्य च फलाभावेन प्रथमं मूकत्वात् । अन्यथा परस्परसापेक्षत्वेनान्योन्याश्रयः। तस्मात् कार्यतैव विधिः । ननु नित्ये वेदात्
कार्यताज्ञानेऽपि प्रयोजनज्ञानं विना कथं प्रवृत्तिः। न हि प्रयोजनमनुद्दिश्य मन्दोऽपि प्रवर्तते इति चेत् , न। नित्ये फलबाधेन प्रवृत्तिमात्रे प्रयोजनज्ञानस्याप्रयोजकत्वात् ।
काम्येऽपि प्रयोजनज्ञानं न साक्षात् प्रवर्तकम्, उपायाविषयत्वात् प्रयोजनेऽप्रवृत्तेश्च , किन्तिष्टसाधनताज्ञानद्वारा कार्यताज्ञाने उपक्षीणमेव । कथमयं निश्चयः नित्ये
इष्टसाधनताज्ञानासम्भवात् कार्यताज्ञानस्य वेदादपि सम्भवात् ।

ननु निष्फले दुःखैकफले वा प्रेक्षावतां कथं प्रवृत्तिः । वेदाधीनकार्यताज्ञानसत्त्वात् सफलप्रवृत्तावपि तस्यैव तन्त्रत्वात् ।  यत्तु लौकिके निष्फले दुःखैकफले वा
न प्रवर्तते , तदिष्टसाधनतालिङ्गकस्य कार्यताज्ञानस्य वेदाधीनस्य वा अभावात् । न च दुःखैकफलत्वज्ञानं प्रवत्तिप्रतिबन्धकम् , सति कार्यताज्ञाने तस्य प्रतिबन्धकत्वा
दर्शनात् । अथ वा काम्ये लिङोेऽपूर्ववाचकत्वान्नित्येऽपि लिङोपासनादिविषयकमपूर्वं बोध्यते । तच्च निष्फलमपि स्वत एव सुखवत्प्रयोजनं नित्यमभ्यर्थ्यमानञ्चेति।
उच्यते। सर्वत्र नित्ये फलश्रवणाज्जीविफलकामस्य सम्वलिताधिकारः, यथोपरागे नैमित्तिकं स्नानश्राद्धादि फलश्रुतेः काम्यम्। अकरणे प्रायश्चित्तादिश्रुतेश्च नियतकर्र्तव्यताकम्,
यथा वा षोडशश्राद्धस्य प्रेतत्वविमुक्तिकामनाश्रुतेः प्रेतत्वविमुक्तिहेतुषोडशश्राद्धे सङ्कल्पं विधाय महाजनानामाचारात् काम्यत्वं निन्दार्थवादेनाकरणे प्रत्यवायश्रुतेरवश्यकर्तव्यत्वं
तथा सन्ध्योपासनमपि फलश्रुतेः काम्यम् , अकरणे नरकश्रुतेः प्रायश्चित्तोपदेशाच्च नियतकर्तव्यताकम् ।  यत्तुयागे काम्यत्वेऽपि न नियतकर्तव्यताकत्वम्। तदकरणे
प्रायश्चित्तानुपदेशात् । न च नित्ये फलकामनाया असम्भवः, त्रिकालकाम्यस्तवपाठवत् नित्ये फलकामनामम्भवात् ।  यत्तु  प्रथमप्रवृत्ताहरःश्रुत्या तत्कालजीविमाचस्याधिकारबोधनात्
न फलकामस्याधिकार इति ।तन्न। अहरहःश्रुत्यर्थवादयोः प्रथमगृहीतैकवाक्यताबलेन तत्कालजीविफलकामस्य सावलिताधिकारात् अर्थवादोपस्थितफलान्वयं
विनैकवाक्यताभङ्गात्। न चार्थवादस्य स्तुतिपरत्वान्नैकवाक्यता। बाधकं विना स्वार्थापरित्यागात्। विधिवाक्योपस्थिते फले विधिवाक्यस्थफलमादायैवाहरहःश्रुत्या
कार्यताबोधनात् ।

नन्वेवं तत्कालजीविकामिनोऽधिकारे यदा फलकामनाविरहस्तदा अशुचेरिवाधिकाराभावान्नियतकर्तव्यता न स्यात् । अधिकृताकरणे प्रत्यवायो न त्वकरणमात्र
इति चेत् , न । नैमित्तिकेऽपि तत्काले कस्यचित्कामनाविरहिणोऽनियतकर्तव्यतापत्तेः ।

अथापवादाभावेनौत्सर्गिकी फलकामनास्त्येव, फलज्ञानस्य स्वविषयकेच्छाजनकस्वभावत्वात् । यस्य तु मुमुक्षापवादेन फलान्तरे कामना नास्ति तस्याकरणेऽपि
न प्रत्यवाय इति न तन्नियतकर्तव्यताकत्वं नैमित्तिके। तथा नित्येऽपि मुमुक्षया फलकामनाबाधेनाकरणेऽपि न प्रत्यवाय इति तुल्यम् । किञ्चार्थवादोपस्थितफलोपाधिकर्तव्यत्वेऽवगते
"अकुर्वन् विहितं कर्मे"त्यादिवाक्याच्छौचे सति सन्ध्यावन्दनाकरणे निन्दार्थवादेन च नरकश्रुतेः प्रायश्चित्तोपदेशाच्च प्रत्यवायः कल्प्यते । तत्फलकामनाविरहेऽपि
प्रत्यवायपरिहारार्थं नियमतः प्रवर्तते विधिप्रवृत्त्यनन्तरं प्रत्यवायस्य प्रामाणिकत्वात् । अकरणेन्मुखस्य करणेन प्रत्यवायप्रागभावस्य साध्यत्वात् , नैमित्तिके फलोपाधिकर्तव्यत्वे
कामनाविरहेऽपि नियतकर्तव्यतावत् ।

यत्तुनिष्फलेऽपि नित्ये वेदाधीनकार्यताज्ञानात् प्रवर्तत इति ।  तन्न  । दुःखैकफलत्वेन ज्ञायमाने प्रेक्षावतां कृतेरनुत्पादनियमात् अयोग्यतया नित्ये कृतिसाध्यत्वस्य
बोधयितुमशक्यत्वात्। अत एव सन्ध्योपासनमफलमपि क्रियते वेदबोधितकर्तव्यताकत्वादित्याशङ्क्य गुरुमतमेतन्न गुरोर्मतमित्यभिप्रायेणेपेक्षितवानाचार्यः ।
यत्तु  पण्डापूर्वं स्वत एव प्रयोजनम् , इत्युक्तम् । तदपि न । एवं तवापि काम्यत्वे नित्यत्वहान्यापत्तेः । किञ्च सुखं दुःखाभावश्च मुख्यंं प्रयोजनम् । तत्साधनञ्च

132

गौणं नित्यापूर्वन्तु तेषु नैकमपि पण्डापूर्वत्वात् । काम्यापूर्वञ्च सुखहेतुर्गौणं प्रयोजनम् । प्रवर्र्तकविध्यनुरोधेन तदपि प्रवर्र्तकं कल्प्यत इति चेत् । न । प्रवर्र्तनीयेन लोकेन
तस्य प्रयोजनत्वेनाज्ञानात् गुरुणा नित्यापूर्वं प्रयोजनमुक्तम् । इत्युच्यमानेऽपि नादरः प्रेक्षावताम्। मुक्ति- स्वर्गौ चालौकिकावपि सुख -दुःखाभावसजातीयतया प्रयोजने ।
तस्मादेवं वदन् गुरुरपि लघुरेव ।

तदयं सङ्क्षेपः-नित्ये दुःखैकफलत्वेन प्रवृत्त्यनुपपत्तेः फलोपाधिकर्र्तव्यता। तच्च फलं दुःखसाधनाभावः पाण्डापूर्वं वेति तदिच्छा प्रवृच्यर्थं प्रत्यहमुपेया, तां विना
प्रवृत्त्यनुपपत्तेः । तथा चार्थवादिकं विधिवाक्यश्रुतञ्च फलमस्तु । कृतमन्येन । न च कामनाविरहे नियतकर्र्तव्यता न स्यात् । अपूर्वादीच्छाविरहेऽपि तुल्यत्वात् ।
प्रत्यवायपरिहार्थं नियमतः प्रवृत्तिस्तुल्यैव । यत्र च न फलश्रुतिस्तत्र विश्वजिन्न्याय इति ।

नन्विदमिष्टसाधनमिति ज्ञानादेतत्साध्यमिष्टमिति ज्ञानाच्च प्रवृत्तिदर्शनात् प्रथमस्यैव प्रवर्तकत्वे किं विनिगमकम्,  उच्यते। फलेच्छायां स्वविषयविशेष्यकज्ञानस्य
हेतुत्वेन क्लृप्तत्वात् उपायचिकीर्षापि बाधकं विना तथा ।  वस्तुतस्तु कृतिसाध्ययागस्य साध्य इष्ट ज्ञानस्य प्रवृर्र्तकत्वे यजेतेतिपदात् प्रथमं कृतिसाध्यो याग इति ज्ञानम्।
ततः कृतिसाध्ययागस्य साध्य इष्ट इति ज्ञानम् , विशेषणज्ञानसाध्यत्वात् विशिष्टज्ञानस्येति ज्ञानद्वयं तव । मम तु यागः कृतिसाध्य इष्टसाधनमित्येकमेव ज्ञानम्। न च
कृतिसाध्यत्वं यागे बोधयित्वा कृतिसाध्ययागस्य साध्य इष्ट इति लिङा बोधयितुं शक्यमपि , एकस्वार्थान्वयमपरदार्थे बोधयित्वा तदन्वितापरस्वार्थन्वयबोधकत्वस्य
पदेऽव्युत्पत्तेः। यजिपदे च कृत्या यागान्वयं बोधयित्वा पर्यवसिते पुनः स्वार्थान्वयबोधकत्वे आवृत्तिप्रसङ्गः ।

अथ साध्यमिष्टं यस्येति साध्येष्टकत्वं शक्यम् , तथा च बहुब्रीह्यर्थापेक्षया इष्टस्य साधनमिति षष्ठ्यर्थस्य लघुत्वात्तदेव शक्यम्। किञ्च तत्साध्यत्वं न
नियमतस्तदुत्तरसत्त्वम् , दण्डसाध्ये घटे व्यभिचारात् । नापि तदवच्छिन्नक्षणोेत्तरक्षण एव सत्त्वम् , एवकारव्यवच्छेद्यतदनुत्तरसमयस्याकाशेऽप्रसिद्धेः शब्दस्य तदसाध्यत्वापत्तेः।
अत एव न तदभावव्यापकाभावप्रतियोगित्वं रूपे रससाध्यत्वापत्तेश्च । नापि तदवधिकोत्तरत्वव्याप्यसमयसम्बन्धः, उत्तरत्वव्याप्यत्वं ह्युत्तरत्वानधिकरणकालावृत्तित्वम् ।
तच्चाकाशेऽप्रसिद्धं गुरुतरञ्च। तस्मात् तत्साधनकत्वमेव तत्साध्यत्वम् , एवञ्च लाघवात् तत्साधनत्वज्ञानमेव प्रवर्र्तकं न तु तत्साधनकत्वज्ञानमिति । स्यादेतत् ।
इष्टत्वज्ञानस्य प्रवर्र्तकत्वे तृप्तोऽपि भोजने प्रवर्तेत, मनसा तृप्तेरिष्टत्वज्ञानात् । अथ स्वरूपसत्यपि फलेच्छा कारणम् । सा च सिद्धतया तृप्तौ नास्तीति चेत् , तर्हि
हन्तैवमावश्यकत्वात् फलेच्छैव कारणम् , न तु तज्ज्ञानं गौरवात् । किञ्च इच्छाज्ञानस्य कारणत्वे इच्छा कारणं न स्यात् स्वज्ञानेन तन्नाशात् इच्छातज्ज्ञानधाराकल्पनेऽनवस्थानात्।
अपि चेच्छाविषयः सुखं इति ज्ञानं न मानसम् , सुखस्यासिद्धतया तद्विशेष्यकसाक्षतिकारस्य तत्सन्निकर्षं विना अभावात् । ओदनादावपीष्टत्वज्ञानं न सम्भवति मनसो
बहिरस्वातन्त्र्यात् । नापि चक्षुरादिना ज्ञातः कृत इतिवत् इष्टत्वज्ञानम् । तत्र विशेष्यसन्निकर्षात् ।  वस्तुतस्तु इष्टस्य विशिष्य सुखत्वादिना अज्ञाने
यागपाकादाविष्टसाधनताज्ञानेप्यप्रवृत्तिप्रसङ्गः इष्टस्याल्पाधिकभावेन नानाप्रकारत्वेन च विशिष्यानध्यवसायात् । न चेष्टविषयतावच्छेदकसुखत्वादेरुपलक्षणमिष्टत्वम्  ,
सुख-दुःखाभावतत्साधनेषु अनुगतस्योपलक्ष्यस्याभावेनाननुगमादिति ।

उच्यते  । यत्रेच्छा तत्साधनताज्ञानमेव लोकवेदसाधारणं प्रवर्र्तकम्। तेषां सुख-दुःखाभाव-तत्साधनत्वेनेच्छाविषयाणामननुगतनामपि वस्तुसदिच्छाविषयत्वमेवानुगमकम्।
एवं यदा सुखादाविच्छा भवति स्वकृतिसाध्यत्वे सति सुखादिसाधनमिति ज्ञानं तदा पाकादौ प्रवर्तते ।

नन्वेवं प्रवर्र्तकज्ञानविषयस्य नानात्वेन तच्छक्तस्य विधिप्रत्ययस्य नानार्थत्वप्रसङ्ग इति चेत् , न। सुखत्वादिनानुगतं इष्टत्वेनाननुगतं फलं प्रति साधनत्वस्य
यागदेर्लिङ्गादिना बोधनात् । तथा च फलानामनुगमार्थं फलेच्छा शक्या, न त्विच्छा ज्ञानकारणत्वेन ।

अथैवं सुखादिसाधनत्वेन ज्ञानं प्रवर्तकम्। तन्न शक्यम्, अननुगमात् । यच्च शक्यमिष्टसाधनत्वं तज्ज्ञानं न प्रवर्तकम् इति विधेः प्रवर्तकता न स्यात् इति चेत्,
साक्षादेवमेव। किन्त्विष्टसाधनं याग इति लिङा बोधिते इष्टाकाङ्क्षायां काम्यत्वेन श्रुतः स्वर्ग एव इष्टत्वेनावगम्यते । तदनन्तरं स्वर्गकामपदसमभिव्याहारात् स्वर्गसाधनं
याग इति ज्ञानं प्रवर्र्तकमुत्पद्यते । एवञ्च विधिजन्यज्ञानजन्यं ज्ञानं प्रवर्र्तकम् । यत्तु सर्वेषामेव विधेर्न साक्षात् प्रवृर्त्तकत्वं विधिबोधकात्। स्वकृतिसाध्यत्वादेरनवगमात्,
स्वेष्टसाधनत्वञ्च अहं इष्टसाधनयागकः स्वर्गकामत्वाद्दर्शवाक्यावगतस्वर्गकामवदित्यनन्तरमर्थात् प्रतीयते ।  तन्न। यत्रेच्छा तत्साधनमिति शाब्दज्ञानादेव
प्रवृत्त्युपपत्तेस्तत्प्रतीतिर्निष्फला ।

अन्ये  तु साधनत्वमात्रं विध्यर्थः, स्वर्गादिसाधनतालाभस्तु समभिव्याहारात् इष्टसाधनतापक्षेऽपि तस्योपजीव्यत्वात् । तथाहि यजेतेत्यनेन यागः कृतिसाध्यः
साधनञ्चेति बोधिते साधनस्य साध्याकाङ्क्षायां कामनाविषयत्वेन श्रुतोऽसिद्धः स्वर्ग एव साधनाकाङ्क्षी साध्यत्वेनावगम्यते , उपस्थितत्वात् । न च यागस्य
साधनाकाङ्क्षा । कृतिसाध्यत्वेनैवोपस्थितेः । अत एव विश्वजिदादौ स्वर्ग एव साध्यत्वेन कल्प्यत इति । इष्टसाधनताविधिपक्षेऽपि "तरति मृत्युं तरति ब्रह्यहत्यां
योऽश्वमेधेन यजते" इत्याद्यर्थवादे विधिबोध्येष्टसाधनत्वस्यार्थवादादेवावगमात् । कुतो विधिकल्पनमिति चेत् । न । अविनाभावात् । तथाभूतसाधनत्वस्य विधेयत्वव्याप्तत्वात्।
व्यापकानुपलम्भबाधोद्धाराय वा प्रयोजनाभावान्न तत्कल्पनं तत्रेत्यप्याहुः ।  यत्त्विष्टसाधनत्वाभिधाने करणे लिङोेऽनुशासनात् दर्श-पौर्णमासाभ्यामित्यनभिहिताधिकारविहिता
तृतीया न स्यादिति ।  तन्न। उपायतामात्राभिधानेऽपि तद्विशेषकरणत्वानभिधानात् ।  वस्तुतस्त्वभिहितान्वयलभ्यं यागेष्टसाधनत्वम्। इष्टसाधनत्वमात्रस्य विध्यर्थत्वात् ।
नव्यास्तु  चिकीर्षाद्वारा ज्ञानस्य कृतौ हेतुता। चिकीर्षा च कृताविच्छा। सनः प्रकृत्यर्थगोचरेच्छावाचित्वात् पिपक्षादिवत् । न तु कृतिविषयपाकादिविषये
कृतिसाध्यत्वप्रकारकेच्छाभिधायकत्वम्, पाकादेः प्रकृत्यनभिधेयत्वात् न हि कृतिवाचकस्य तद्विषयवाचकत्वं , करोतीत्युक्ते तद्विषयसंशयात् । एवञ्च कृताविच्छेष्टसाधनताज्ञानात्
तत्साध्येष्टज्ञानाद्वा वृष्ट्यादौ तथा कल्पनात् । यदा च कृताविच्छा तदा सैव चिकीर्षा । अन्यत्रेच्छामात्रं न तु कृतिसाध्यताज्ञानात् , कृतौ कृतिसाध्यत्वाभावात् ।
अथ पाकं कृत्या साधयामीतीच्छानुभवसिद्धा। अनुभवापलापे उपेक्षणीयत्वापत्तेः । सा च कृतिसाध्यताज्ञानात् , सा च चिकीर्षापदाप्रतिपाद्यापि कृतिहेतः
समानविषयत्वात् न तु कृतीच्छा कृतिहेतुः कृतिविषयाविषयत्वादिति चेत् , अस्ति तावत्पाककृताविच्छा वृष्टीच्छावत् । अस्ति च कृतिसाध्यत्वकारिकेच्छा पाके, तथापि
कृतिच्छैव कृतिकारणं लाघवात् न तु कृतिसाध्यत्वप्रकारिकेच्छा गौरवात् । धात्वर्थानुपरक्ते कृतिस्वरूपे इच्छैव नोदेतीति चेत् , न । पाकादिकृतीष्टसाधनताज्ञानात्

133

पाककृताविच्छा ततः कृतिरित्यभ्युपगमात् । न चावगतिप्रवृत्त्योः समानविषयत्वमुभयसिद्धम् , तस्यैव विचार्यत्वात् । कथं तर्हि पाकं कृत्या साधयामीतीच्छा। यथा
वह्निसाध्यत्वेन इष्टसाधनतावगमात् वह्निना पाकं साधयामीतीच्छा तथा कृतिसाध्यत्वेन इष्टसाधनत्वात् पाकस्य पाकं कृत्या साधयामीतीच्छा । अन्यथा तत्तदुपायसाध्यत्वेन
इच्छा पाकादौ तत्तदुपायसाध्यत्वप्रकारकज्ञानात् स्यादित्यनन्तकारणकल्पना स्यात् । मम तूपायेच्छायामिष्टसाधनताज्ञानमेव हेतुः क्रियाद्वारा कृतेरिष्टसाधनत्वज्ञाने
क्रियाया अपीष्टसाधनत्वं विषय इति कृतीच्छा भवन्ती क्रियाविषयापि भवतीति ज्ञानेच्छाप्रयत्नानां समानविषयतापि । अत एव पाकं चिकीर्षतीति चिकीर्षाविषयतया
पाकः प्रतीयते । यद्वा इच्छाविषयविषयतया पाकः प्रतीयते इति तस्य कर्मता ग्रामं जिगमिषति शत्रुं जिघांसतीत्यत्र ग्रामादेरिव । न हि ग्रामादाविच्छा , सिद्धत्वात् । अत
एव भोगे सुखे च चिकीर्षा तदनुकूलकृतेरिष्टहेतुत्वात् । अन्यथा कृतिसाध्येष्टसाधनतापक्षे तच्चिकीर्षासामग्र्यन्तरं कल्प्येत । एवञ्च सन्ध्यावन्दनं दुःखसाधनाभावरूपत्वेनेष्टं
तत्साधनं कृतिरिति लिङर्थः । अन्यथा कृतिर्न कृतिसाध्या सन्ध्यावन्दनञ्च नेष्टसाधनमिति कस्य कृतिसाध्यत्वे सतीष्टसाधनत्वं विध्यथः स्यात् । अत
एवैकप्रत्ययाभिधेयत्वप्रत्यासत्तेरन्तरङ्गतया विधिप्रत्ययाभिधेयेष्टसाधनत्वस्य कृतावेवान्वयो न, प्रकृत्यर्थे। तथैव चिकीर्षाकारणज्ञानजनकत्वात् । प्रकृत्यर्थस्य च कृतौ
विषयत्वेनान्वय इति ।

उच्यते। वह्निसाध्यत्वेन कृतिसाध्यत्वेन वा न पाकस्यौदनसाधनता इत्युक्तम् । कथं तर्हि वह्निना पाकं साधयामीतीच्छा इति चेत् , न। इष्टसाधनत्वेन ज्ञाते
यत्र यत्साध्यत्वं ज्ञायते तत्र तत्साध्यत्वेनेच्छा भवतीति । यथेष्टसाधनत्वेन ज्ञाते पाके वह्निसाध्यत्वज्ञानात् वह्निना साधयमीतीच्छा एवं कृतिसाध्यत्वेनावगते इष्टस्य
साधनताज्ञानात् कृत्या साधयामीतीच्छा। तथा चेष्टसाधनत्वेन कृतिसाध्यत्वेन च ज्ञाते कृतिसाध्यत्वप्रकारिकेच्छा न त्विष्टसाधनताज्ञानमात्रादिति । आचार्यास्तु
प्रवर्तकमिष्टसाधनताज्ञानमेव । लिङर्थस्त्वाप्ताभिप्रायो लाघवात् । पाकं कुर्याः कुर्यामित्यत्र विधिलिङः सम्बोध्यस्वकर्तृकक्रियेच्छाभिधायकत्वेनाज्ञाप्रार्थनाशंसनादिलिङोे
वक्प्रदीच्छाभिधायकत्वेन लिङमात्रस्येच्छावाचकत्वकल्पनाच्च । एवञ्च स्वर्गकामो यजेतेत्यस्य स्वर्गकामस्य कृतिसाध्यतया यागो यागयत्नो वा आप्तेष्ट इत्यर्थः । ततो
यो व्यापारः यस्य कृतिसाध्यतया यद्व्यापारविषयकः प्रयत्नो वा यस्याप्तेनेष्यते स तस्य बलवदनिष्टाननुबन्धीष्टसाधनमिति व्याप्तिग्रहात् यागस्येष्टसाधनत्वमनुमिनोेति।
तथाहि यागो मदिष्टसाधनं मत्प्रयत्नविषयतया आप्तेनेष्यमाणत्वात्, यथा मत्पित्रा मत्प्रयत्नविषयतयेष्यमाणं मद्भोजनं मदिष्टसाधनम्। तथाचदम्। तस्मात्तथा । एवं न
कलञ्जं भक्षयेदित्यस्य मम कलञ्जभक्षणप्रयत्नो नाप्तेच्छाविषय इत्यर्थः । ततः कलञ्जभक्षणं मम बलवदनिष्टसाधनं मदिष्टसाधनत्वे सत्यप्याप्तेन मत्प्रयत्नविषयतया
अनिष्यमाणत्वात् । यथा मत्पित्रा मत्प्रयत्नविषयतया अनिष्यमाणं मधु-विषसम्पृक्तान्नभोजनं मम बलवदनिष्टसाधनम् । तथाचेदम् । तस्मात्तथा । स चाप्तोवेदव्याख्याता
भगवानीश्वर एव । यस्तु वेदे पौरुषेयत्वं नोपैति तं प्रति विधिरेव तावद्गर्भ इव श्रुतिकुमार्य्याः पुंयोगे प्रमाणम् । न तर्हि लाघवम् , तात्पर्यगौरवादीश्वराद्य नन्तकल्पनादिति
चेत्, न। लाघवादिनेच्छाबोधकत्वेन लोके निङ्ः प्रमाणसिद्धत्वेन फलमुखगौरवस्यादोषत्वात् । न तु कर्तुरस्मरणं बाधकम् , प्रागेव निरासात् । तृप्तिकामनया
विषभक्षणप्रवृत्तस्य विषभक्षणं तत्कृतिसाध्यतया नेश्वरेणेष्यते । ततो विषभक्षणस्य ईश्वरेच्छाविषयत्वेऽपि न तेन व्यभिचारः। यद्वा यत्कामकृतिसाध्यत्वेन यो व्यापार
आप्तेनेष्यते स तस्येष्टसाधनम्। विषभक्षणञ्च तृप्तिकामकृतिसाध्यत्वेन नेश्वरेच्छाविषयः मानाभावात् । अत एव न कलञ्जं भक्षयेदित्यत्र कलञ्जभक्षणं तृप्तिकामनया
भक्षणप्रवृत्तस्य कृतिसाध्यत्वेनाप्तेच्छाविषयो नेति तस्येश्वरेच्छाविषयत्वेऽपि विशिष्टनिषेध उपपद्यते। अभिप्रायविधिपक्षे बलवदनिष्टाननुबन्धित्वमानुमानिकम् । इष्टसाधनताविधिपक्षे
तु तदपि शक्यमिति गौरवमिति ॥

इति श्रीमद्गङ्गेशोपाध्यायविरचिते तत्त्वचिन्तामणौ शब्दखण्डे विधिवादः समाप्तः ।
अथापूर्वव् ाादः

अथ स्वर्गकामो यजेतेत्यादाविष्टसाधनत्वं कार्यत्वं वा यद्विधिः स समभिव्याहृतक्रियान्वयी तदन्यान्वयी वा।
अत्र गुरवः-नाहत्य क्रियाकार्यतया लिङा बोधयितुं शक्यते स्वर्गकामनियोज्यान्वययोग्यताज्ञानविरहात् । कामनाविशिष्टस्य हि ममेदं कर्यमिति बोद्धृत्वं
नियोज्यत्वम् । तत् कामनायास्तद्बोधोपयोगे सति भवति। स च कामनानन्तरं काम्यसाधनताबोधात् कार्यबोधे सति स्यात् । एवञ्च स्वर्गसाधनताबोधे सति
स्वर्गकामनियोज्यान्वयोग्यता । न च कालान्तरभाविस्वर्गे क्रिया साक्षात् परम्परया वा साधनमिति शब्दो बोधयितुमर्हति। आशुविनाशित्वात् परम्पराघटकानुपस्थितेश्च
तृतीयप्रकाराभावाच्च । अन्यथा तमादाय साधनत्वसम्भवात् कल्प्यमप्यपूर्वं न स्यात् । इष्टसाधनताविधिपक्षे स्फृटैवानुपपत्तिः । कार्यताविधिपक्षे अन्वयप्रकारतया
साधनत्वं शाब्दमिति फलतो न कश्चिद्विशेषः । अतः क्रियातोऽन्यत् स्वर्गसाधनतार्हं क्रियाकार्यतानिर्वाहकं लिङाद्यर्थः।

ननु स्वजातीयेऽन्वयदर्शनं योग्यता। दृष्टञ्च घृतपानस्याशुविनाशिनः कालान्तरे पृष्टिहेतुत्वमिति चेत् , न, यथाकथञ्चित् साज्यात्यस्यायोग्येऽपि सत्त्वेन
योग्यताया अव्यावर्र्तकत्वापत्तेः। पदार्थतावच्छेदकेन साजात्यस्याद्यजातः पयः पिबतीत्यादौ प्रकृते चासम्भवात्। तस्मादन्वयप्रयोजकरूपवत्त्वं साजात्यम् । अत एव
द्रव्यद्रव्यत्वं सेककरणत्वे प्रयोजकम् इत्ययोग्यो वह्निः। तदिहाशुविनाशिनः कालान्तरभाविफलजनकत्वे फलसमयपर्यन्तस्थायिव्यापारजनकत्वं प्रयोजकम्। अतोऽपूर्वं
विना साजात्यमेव न गृह्यते । घृतपानस्य तु वैद्यकोपस्थितधातुसाम्यमादाय पुष्टिसाधनत्वयोग्यताज्ञानं विज्ञस्य ।

अथ बाधकप्रमाणाभावो योग्यता । न च साधनत्वमात्रे बाधकम् । साक्षात्तद्बाधेऽपि परम्परासाधनत्वमादाय तद्विश्रान्तिसम्भवात् । न च योग्यानुपलब्ध्या द्वारस्य
बाधात् परम्परासाधनत्वमपि बाधितम् , संस्कारस्येव तस्य सम्भवात् । अन्यथा वाच्येऽप्यपूर्वे क्रिया कामिकायां न स्यात्। काम्यासाधनत्वात् । न हि यदेवायोग्यं
तत्पश्चात् योग्यम्, अयोग्यत्वे च निष्फलः प्रयासः । न च कामिकार्यमपूर्वं तदर्थिकार्र्या च क्रियेति वाच्यम् । यागे रागादित्यनेन विरोधात् । तथापि द्वारानुपस्थित्या
परम्परासाधनमिति ज्ञानं न भवेदिति चेत् , सत्यम् । किन्तु स्वर्गसाधनं याग इति ज्ञानं साक्षात्परम्परोदासीनं वस्तुगत्या परम्परासाधनत्वविषयकमुत्पद्यमानं नायोग्यतया
परिभवितुं शक्यम् । यदि च साक्षात्परम्पराविशेषद्वयव्यतिरिक्तं सामान्यं नास्त्येव तदा अननुगमः । किं वा विशेषयसि साक्षात्परम्परया वेति । न च यावद्विशेषबाधे
तद्वाधितम्, परम्परासाधनत्वेऽबाधादिति । मैवम् । योग्यता हि स्वबाधकप्रमाविरहो वा सकलबाधकप्रमाविरहो वा । आद्ये वह्निना सिञ्चतीत्यादी स्वबाधकप्रमातद्विरहौ
समयभेदेन स्त इति तदेव योग्यमयोग्यञ्चेति प्राप्तम् । द्वितीये तु योग्यानुपलबध्या तन्निश्चयोऽशक्यः परप्रमाया अयोग्यत्वात् । न च वाच्यं सकलबाधकप्रमाविरहः
स्वरूपसन्नेव प्रयोजक इति । अयोग्ये योग्यताभ्रमादन्वयबोधाभावप्रसङ्गात् अन्यस्य तत्र बाधकप्रमासत्त्वात् । अन्वयप्रयोजकरूपवत्त्वेन बाधकप्रमाविरहो निश्चीयते इति

134

चेत् , तर्हि प्राथमिकत्वात् सैव योग्यता । न च सा प्रकृते सम्भवतीत्युक्तम् । किञ्चैकविशेषबाधे शाब्दसामान्यज्ञानं तदितरविशेषप्रकारतानियतं छिद्रबाधे छिद्रेतरघटज्ञानवत्।
न च द्वारानुपस्थित्या प्रकृते तथा घटते ।

एतेनयदुक्तं प्रशस्तरूपवान् चैत्र इत्यत्र गौर-श्यामविशेषानवगमेऽपि रूपमात्रवगम्यते तद्वत् विशेषानवगमेऽपि साधनत्वमात्रमिति , तत्प्रत्युक्तम् ।
तत्रैकविशेषबाधाभावेनौदासीन्यसम्भवात् ।

एतेनस्वर्गकामान्वयबलात् क्रियायाः फलसाधनत्वं तद्बलाच्च पटोः संस्कारस्येव स्थायित्वं कल्प्यताम् , किमपूर्वेण। सङ्कल्पविशेषस्य यागस्याग्रे
प्रत्यक्षानुपलब्धिरात्मविशेषगुणानां प्रथमक्षण एव स्वविषयकप्रत्यक्षजननस्वभावात् । अस्तु , न चैवं क्रियान्तरमपि तथा, प्रमाणाभावात् । एवं लोकप्रसिद्धक्रियाकार्यत्वव्युत्पत्तिरपि
भग्ना न भवतीति  परास्तम्  । स्वर्गसाधनतायोग्यतया स्वर्गकामान्वयः तदन्वये च स्थायित्वम् । इत्यन्योन्याश्रयात् , लोके धÐमग्राहकमानेन क्रियायाः क्षणिकत्वनिश्चयाच्च।
ननु देवपूजार्थो यजिः। पूजा चाराधना गौरवितप्रीतिहेतुः क्रिया। अतो देवताप्रीतिद्वारा यागस्य स्वर्गसाधनत्वम् । प्रीतेः क्षणिकत्वेऽपि प्रीत्यनुभवजनितसंस्कारद्वारा
तत्सम्भवात् । अत एवाग्नेयादौ प्रीतिभागितया अग्न्यादेरुद्देश्यत्वमिति चेत् , न । "यज् देवपूजायाम्" इति हि शाब्दिकस्मृतिः स्मृतित्वादेव न स्वतः प्रमाणम्। न च यागस्य
देवताप्रीतिहेतुत्वे स्वर्गस्य देवताप्रीतिसाध्यत्वे वा मानान्तरमस्ति ।

वस्तुतस्तुचेतने देवे मानमेव नास्ति। यत्र च विष्णुप्रीतिकामादिवादोऽस्ति तत्र विष्णुरेव प्रीतिः न तु विष्णोः, षष्ठ्यर्थलक्षणादोषात्। विष्णुशब्दस्य प्रीतिविशेषवाचकत्वं
वेद एव कल्प्यते । न च देवपूजार्थयज्यन्वयबलात्तथा। अन्योन्याश्रयात् ।

नन्वेवं आग्नेयादीनांषण्णां क्षणिकत्वात् योग्यतानवगतौ परमापूर्वकारणत्वानवगमे कथमपूर्वकल्पनेति चेत् , न । काम्ये अपूर्ववाच्यत्वस्थितौ आग्ननेयादौ तद्वारा
साधनत्वस्य योग्यतासम्भवात् न तु प्रथमम्।

ननु यो ब्राह्मणायावगुरेत्तं शतेन यातयेदित्यत्र ब्राह्मणवधोद्यमस्य शतयातनाहेतुत्वावगमे यथा दुरितापूर्वं कल्प्यते तथेहापीति चेत् , न। अवगुरेत् यातयेत् इत्यत्र
हेतु-हेतुमतोर्लिङित्यनुशासनात् लिङा अवगोरण-शतयातनयोर्नियतं पौर्वापर्यं बोध्यत।े प्रत्यक्षेणनुभव-स्मरणयोरिव । तच्च साधनत्वे साधनसाधनत्वे वा उभयमपि
मध्यवर्तिघटितमिति दूरितकल्पनम् संस्कारवत् । इह तु विध्यनुशिष्टो लिङ् कार्यतामाह । किञ्च कामी काम्यादन्यत् काम्याव्यवहितसाधनतया ज्ञातमेव कर्तव्यतयाऽवैतीति
नियमात् न क्रियायां कामिनोऽन्वयो योग्यः । न च तृप्तिकामस्य पाके प्रवर्तेर्व्यभिचारः । ओदनकामस्य तत्र प्रवृत्तेः ,।तृप्तिकामना तु तत्कामनोपयोगिनी न तु साक्षात्।
अन्यथा साधनसाधने प्रवृत्तिर्न स्यात् । काम्यसाधनत्वं प्रवर्तकम् , लाघवादिति चेत् , न । भोजनकामस्य सिद्धौदनस्य पाके प्रवृत्तिप्रसङ्गात् तस्यौदनद्वारा भोजन
साधनत्वाविशेषात् । विशेषणे तु यत्राव्यवहितसाधनं पाकः तत् न काम्यम् । यच्च काम्यं तत्र नाव्यवहितसाधनं पाक इति न प्रवृत्तिः ।
ननु पाकस्य सिद्धौदनद्वारा भोजनसाधनत्वं न सम्भवति द्वारस्यासाध्यत्वात् । ओदनान्तरद्वारा च तथा प्रतिसन्धाने अव्यवहितविशेषणेऽपि कुतो न पाके प्रवर्र्तते।
ओदनान्तरे द्वारे साक्षात्साधनत्वादिति चेत् , न । पाकस्य भोजनसाधनत्वे विशेषस्याप्रयोजकतया ओदनमात्रस्य द्वारत्वात् तस्य च साध्यत्वाविवादात् । ओदनविशेषे च
सिद्धे ओदनकामनाविरहात् न तुल्यत्वम् । नन्वोदने सिद्धत्वात् यथा न कामना तत एव द्वारतापि न । अथौदनान्तरस्यासिद्धत्वमादाय द्वारता तर्हि कामनापि स्यात्
तस्यासिद्धत्वादिति चेत् , न। पाकस्यैकविशेषद्वारता बाधो न विशेषान्तरद्वारताविरोधी सकलविशेषस्यैकत्र द्वारत्वासम्भवात् । एकविशेषसिद्धौ तु तन्मात्रकामना
विच्छिद्यते । न हि सकलविशेषसिद्धत्वेन सामान्यकामनाविच्छेदः । सकलविशेषसिद्धेरसम्भवेन तदनुच्छेदप्रसङ्गात् । अथवा काम्यादन्यत् साक्षादसाधनत्वेन ज्ञायमानं
यत्कर्तव्यतया कामी बुध्यते तत्काम्याव्यवहितसाधनमन्तरा कृत्वैव । यद्वा काम्यादन्यत् कामी प्रथमं काम्याव्यवहितसाधनं कर्र्तव्यतयाऽवैति । पश्चात् तद्द्वारा
अव्यवहितसाधनमिति प्रथमं यागे कामिकार्यताबोधोऽयोग्यतापराहत एव ।

उत्तानास्तु  विवादविषयो लिङ् समभिव्याहृतक्रियान्वितकार्यताबोधिका प्रमाणलिङ्त्वात् लौकिकलिङ्वत् । लिङुपस्थाप्यं कार्यत्वं समभिव्याहृतक्रियान्वितं
लिङुपस्थाप्यकार्यत्वत्वात् पचेतेतिकार्यत्ववत् । यागो वा कार्यत्वान्वितः लिङ्सम्बन्धिधातुप्रतिपाद्यत्वात् पाकवदित्यनुमानात् क्रियाकार्यत्वावगमेनापूर्वं कल्प्यमिति।
तत्र प्रथमे यागान्वितकार्यत्वबोधकत्वं लिङो बोध्यते न तु क्रियते । न च योग्यताज्ञानं विना तत्सम्भवतीत्युक्तमेव । न हि योग्यतादिकं विनैव
तदनुमानप्रामाण्यप्रयोजनमात्रादन्वितमभिधीयते शब्देन। नान्त्यौ। कुर्यादित्यत्रव्यभिचारात्। वेदस्यानुवादकतापाताच्च । नन्वपूर्वं व्युत्पत्तिविरहः । तथाहि
प्रसिद्धार्थस्वर्गकामपदसमभिव्याहारान्यथानुपपत्त्या उपस्थिते शक्तिर्ग्रहीतव्या । न च शाब्दानुभवात् पूर्वं अपूर्वमुपस्थितम् , मानाभावात् अपूर्वत्वव्याघातात् , अवाच्यत्वापाताच्च।
न च लिङादिना तदुपस्थितिः । व्युत्पत्त्यनन्तरं तत्प्रवृत्तावन्योन्याश्रयात् । न च कार्यत्वेनोपलक्षिते तत्र शक्तिग्रहः । उपलक्षणं हि स्मरणमनुमानं वा अगृहीते
सम्बन्धाग्रहादशक्यमिति । मैवम्। कार्ये धÐमणि कार्यत्वेन शक्तिग्रहात् । कार्यत्वविशिष्टञ्चोपस्थितमेव । ततोऽन्विताभिधानदशायां यागविषयकं कार्यमित्यनुभवः
स्वर्गकामान्वयायोग्यतया घटादिकं तिरस्कृत्य क्रियाभिन्ने योग्यतावशाद्यागविषयकापूर्वं पर्यवस्यति। न त्वपूर्वत्वेन शक्तिग्रहः । न चापूर्वं कार्यमित्यनुभवः । भवति  च
सामान्यतः सम्बन्धबुद्धिः सहकारिवशात् विशेषबुद्ध्युपायः। यथा तवैव कर्तृमात्रे सम्बन्धग्रहात् कर्तृविशेषसिद्धिः।

ननु कार्यत्वेनापि किं घटादौ शक्तिग्रहः उतापूर्वे उभयत्र वा । नाद्यः, अन्यप्रतिपत्तावन्यशक्तिग्रहानुपयोगात् । नान्त्यौ, प्रागनुपस्थितेरिति चेत् , न । येन हि रूपेण
शब्देनानुभवो जन्यते तेन रूपेण शक्तिग्रहः पदार्थस्मरणञ्च शाब्दानुभवहेतुः । न हि प्रमेयत्वेन शक्तिग्रहः पदार्थस्मरणञ्च शाब्दानुभवहेतुः । एवञ्च घटादावेव कार्ये शक्ता
लिङिति शक्तिग्रहः। ततः कार्यमिति स्मरणम् । ततो योग्यतादिवशात् प्रचुरद्रव्य-गुण-कर्माणि कार्यणि विहाय यागविषयकं कार्यमित्यनुभवो भवन्नपूर्वमालम्बते ।
योग्यत्वाच्च तस्य। न चापूर्वं स्मृतिगोचार इति वाच्यम् । शक्तिग्रहपदार्थस्मृतिशाब्दानुभवानां समानप्रकारकतामात्रै हेतुहेतुमद्भावावधारणात् लाघवादावश्यकत्वाच्च । न
तु क्वचित् सहचारमात्रेण अन्वयप्रतियोगिन एवोपस्थितिस्तथा । गौरवात् गोपदादपूर्वगवाननुभवप्रसङ्गाच्च । विशिष्टवैशिष्ट्यबोधे सर्वत्र तथैव । अन्यथा पर्वतीयवह्निर्व्यापकतया
नावगत इति कथं तदन्वयोऽनुमितौ ।

135

ननु सामान्यलक्षणया प्रत्यासत्त्या सर्वा एव व्यक्तयो व्याप्तिहग्रहे शक्तिग्रहे च विषयीभवन्ति । कथमन्यथा पर्वतीयधूमव्यादयग्रहे तस्मादनुमितिरिति चेत्, न। येन
रूपेण व्याप्तिग्रहस्तेन रूपेण व्याप्यत्वेन वा पक्षधर्मताग्रहोऽनुमितौ कारणमस्तु। किं तया । अपि च सा यद्यस्ति ममापि , नास्ति चेत्तवापि । किञ्च तव दर्शने सास्तीति
सुतरामपूर्ववाच्यता । कार्यत्वेन हि रूपेणापूर्वस्यापि शक्तिग्रहविषयत्वं पदार्थस्मृतिविषयत्वञ्च । न चैवमपूर्वत्वक्षतिः । यागविषयत्वादेर्विशेषस्य कार्ये लिङ विनानुपस्थितेः।
यथा पर्वतीयत्वभानं वह्नौ नानुमितिं विना । ननु कार्ये यदि क्रियासाधारणेन लिङशक्तिः क्रिया चायोग्येति योग्यापूर्वलाभः तदा नित्यनिषेधापूर्वयोरलाभः । न हि
तत्रायोग्यतया क्रिया त्यक्तुं शक्यते , फलाश्रवणात् कल्पनायाञ्च वीजाभावात् । न च एकत्र निर्णीतः शास्त्रार्थोऽन्यत्र तथैवेति न्यायात् तत्राप्यपूर्वमेव लिङर्थ इति युक्तम्,
न ह्यपूर्वत्वेन शक्तिग्रहः। किन्तु कार्यत्वविशिष्टे धÐमणि, क्रिया च तथा भवत्येव । न च कार्येण समं क्रियाया अन्वयानुपपत्त्या अपूर्वे पर्यवसानम् । अभेदस्याप्यन्वयादिति।
मैवम् । न हि लोके पचेतेत्यादौ कार्ये धÐमणि शक्तिः कल्पिता। किन्त्वनन्यलभ्ये कृतिरूपे कार्यत्वमात्रे धÐमणः पाकादेर्धातोरेवोपस्थितिसम्भवात्
क्रियाकार्यत्वस्यान्विताभिधानलभ्यत्वात्। तथा च धर्मिणि वेदे शक्तिः कल्पनीया । सा च क्रियानिरासेनैव । न हि क्रियायाः कार्यत्वान्वययोग्यत्वे धÐमणि शक्तिः
कल्पयितुं शक्यते । तस्मादयोग्यतया क्रियानिरासानन्तरं तदतिरिक्त एव शक्तिः कल्पनीया । न च क्रियातिरिक्तकर्यात् कार्यमात्रं लघु । ततः क्रियापि शक्यैवेति वाच्यम्।
यतो न ब्रूमः क्रियातिरिक्तकार्यत्वेन शक्तिः किन्त्वयोग्यतया क्रियायां निरस्तायां धÐमणि शक्तिकल्पनसमये यत् क्रियातिरिक्तं तत्र शक्तिः न तु शक्तिग्रहे क्रियाप्रवेशः। न हि
यत्प्रत्युक्तानुपपत्त्या यत्कल्पनं तदेव तस्य विषयः । एवञ्च कार्यत्वेनापि तदतिरिक्तकार्ये एव शक्तिकल्पनान्नित्यनिषेधयोरपि तदेवोपासनाद्यन्वययोग्यं लिङाभिधीयते । न
तु कार्यत्वमात्रम्। धÐमणि बाधकाभावात् लक्षणाप्रसङ्गाच्च । घटादिस्तु लिङशक्तिग्रहे न तिरस्क्रियते न पुरस्क्रियते, उभयथापि गौरवात् । अन्विताभिधानदशायान्त्वयोग्यतया
तस्याप्रवेशः। विधिप्रत्ययस्य च तत्राप्रयोगः केवलस्य तस्यासाधुत्वात् । धातुसमभिव्याहारस्थले च तदर्थेनान्वयबोधजनननियमेन घटाद्यप्रतिपादकत्वात् । अत
एवाप्रयोगादेवाप्रयोगोऽपूर्वत्वं वा प्रयोगोपाधिरिति  वदन्ति  ।

अथाप्रतिपाद्यघटादिवृत्तितया न कार्यत्वं प्रवृत्तिनिमित्तं प्रतिपाद्यमात्रवृत्तेरेव तथात्वात् । अन्यथा प्रमेयत्वमेव तथास्त्विति चेत् , न । यत्प्रकारिका हि प्रतिपत्तिः
पदजन्या तदेव तत्र प्रवृत्तिनिमित्तं फलकल्प्यत्वात् शक्तेः न तु प्रतिपाद्यमात्रवृत्ति सास्नादौ व्यभिचारात् । न च प्रमेयत्वं तथा । तद्धेधस्याप्रवर्र्तकत्वात् । अत एव लोके
लिङ् लाक्षणिकी। क्रियाभिन्ने धÐमणि वेदे शक्तिकल्पनात् । न च लौकिकानामपूर्वे तात्पर्यं सम्भवति । पूर्वं प्रमाणान्तरेणाप्रतीतेः। क्रियासाधारणशक्तावपि लोके लक्षणैव।
पचेतेत्यत्र हि पाककार्यतावगम्यते । तत्र कार्यत्वे लिङ्स्तात्पर्यं लाघवात् । न धÐमणि क्रियाया धातुलभ्यत्वात् ।  तदाहुः-"तात्पर्यद्धि वृत्तिर्न तु वृत्तेर्स्तापर्यमि"ति ।
तृतीयायाः करणत्वैकत्ववत् कार्यं कार्यत्वञ्च न स्वतन्त्रं शक्यम् । किन्तु विशिष्टं विशिष्टाच्च विशेषणमन्यदेवेति कार्यत्वे लक्षणा । न च कार्यत्वविशिष्टधर्म्युपस्थितावपि
धर्म्यंशमपहाय क्रियायां कार्यत्वान्वयोऽस्तु। किं लक्षणयेति वाच्यम् । न हीतरधÐमगतत्वेनोपस्थितस्य धर्म्यन्तराकाङ्क्षास्ति । अतः स्वतन्त्रकार्यत्वोपस्थितये लक्षणा यथा
पुरोडाशकपालेन तुषानुपवपतीत्यत्र पुरोडाशार्थितया तदन्वितत्वेनोपस्थितस्य कपालस्य नोपवापाङ्क्षेति स्वतन्त्रकपालोपस्थितयेऽधिष्ठानलक्षणा । न च व्युत्पत्तिविरोधः ।
न हि लोके क्रियाकार्यत्वे शक्तिरवधिरिता , येन विरोधो भवेत् । किन्तु कार्यत्वमात्रे , क्रियाया धातुलभ्यत्वात् । न च धर्म्यन्तरे शक्तावपि तद्भङ्गः। तस्मात्
प्रकृत्यर्थान्वितस्वार्थबोधकत्वं प्रत्ययानां गृहीतं प्रत्ययार्थश्चापूर्वमपीति न विरोधः। अस्तु वा लोके लिङः क्रियाकार्यत्वे शक्तिः तथापि तद्ङगं विनैव नानर्थन्यायेन वेदे
धर्म्यन्तरे शक्तिस्तां विना स्वर्गकामान्वयासम्भवात् ।

अन्ये तु  पचेतेत्यादौ धातुनैव पाकः कार्योऽभिधीयते। लिङ् तत्र तात्पर्यग्राहिका। न तु शक्ता। नियमतस्तादृश्येव तत्प्रयोगात् । सामान्यशब्दस्य विशेषपरत्वञ्च
न वृत्त्यन्तरनिर्वाह्यम् , अत एव वर्तमानत्वादौ न लडादिशक्तिरिति लोके शक्त्यग्रहात् न व्युत्पत्तिविरोध इति ।तदसत्  । लिङः कार्यत्वेऽशक्तौ पचिपदात्
कार्यत्वज्ञानानुपपत्तेः युगपद्वृत्तिद्वयविरोधात् । न चाजहत्स्वार्था , उभयसाधारणस्यानुपस्थितेरिति  दिक्।

यद्वा ज्ञाने पदानां शक्तिः शक्यत्वात् । एवञ्च लिङ्पदं एकत्रोेच्चारणे स्थायित्व-स्वर्गजनकत्व- कार्यत्वानां ज्ञाने शक्तमिति व्युत्पत्तिः स्थायिज्ञानादिकञ्चोपस्थितमेव।
ततो लिङपदेन एकत्रोच्चारणे योग्यतादिवशात् यागविषयकं स्थायिस्वर्गजनकं कार्य्यमित्येकं ज्ञानमनुभवरूपं प्रचुरद्रव्यगुणकर्मविलक्षणविषयं क्रियते । न चैवं नानार्थवदेकैकज्ञाने
शक्तिग्रहादेकैकविषयोऽनुभवो भवेत् , न समुदितविषय इति वाच्यम् । शक्तिग्रहकाले एकत्रोच्चारण इति विशेषणमहिम्ना तत्सम्भवात् । नानार्थे तु प्रमाणाभावेन गौरवेन
च शक्तिग्रहे तस्याप्रवेशात् । तथाप्यमीषां समूहालम्बनं स्यान्न तु परस्परं वैशिष्ट्यज्ञानमिति चेत् , न। साकाङ्क्षधर्म धÐमगोचरैकज्ञानस्यैव विशिष्टज्ञानत्वात् । न च
समूहालम्बनसम्भेदः । तस्य निराकाङ्क्षविषयत्वात् । अस्तु वोपस्थितेष्वगृहीतासंसर्गेषु स्थायित्वस्वर्गजनकत्वकार्यत्वेषु शक्तिः। अगृहीतासंसर्गकस्यापि विशिष्टज्ञानसमानशीलत्वात्।
अत उक्तन्यायेन तावद्विषयकमेकं ज्ञानं लिङपदेन जन्यते । एवमेवालौकिकार्र्थेषु स्वर्र्गादिपदेषु शक्तिग्रहः ।

ननु भवतूक्तप्रकारेण शक्तिग्रहस्तथापि लिङपदात् यागविषयककार्यानुभवे सत्यपूर्वलाभात् स्वर्गकामान्वयः सम्भवतीत्युपपादकप्रतिसन्धाने
प्रसिद्धार्थस्वर्गकामपदसमभिव्याहारान्यथानुपपत्त्या लिङः कार्ये शक्तिकल्पनम्। न हि प्रथममुपपादकप्रतिसन्धानं विनार्थापत्तिः सम्भवति । न च शक्तिकल्पनात्
पूर्वमुपपादकशरीरनिविष्टमपूर्वं ज्ञातमिति चेत् , तत् किं य एव विशेष उपपादकः पक्षधर्मताबलात् सिध्यति। तत्प्रतिसन्धानमर्थापत्तौ कारणम्। तथात्वे पूर्वं गृहीतमात्रस्य
कल्प्यत्वे क्लपनोच्छेदापत्तिः । तस्मात् यथा सामान्यतो भोजनस्य पीनत्वसम्बन्धावगमात् उपपादकतर्के सति कल्पनातो विशेषावगमः, यथा वा सामान्यशक्तव्यक्तिवाचकपदेन
समभिव्यावहारवशाद्विशेषाभिधानम्। एवत्रापि कार्यमात्रवाचकत्वे कार्यविशेषलाभः सम्भवतीति तर्कितोपपादकप्रतिसन्धानाद्भवत्यर्थापत्त्या शक्तिकल्पनम् , यागविषयकञ्च
कार्यं न घटादि, तस्य सविषयकत्वाभावात् । विषयत्वञ्च ज्ञानघटयोरिव स्वभावसम्बन्धो वा तन्निरूपणाधीननिरूपणत्वं वा तत्समानसंवित्संवेद्यत्वं वा व्यावृत्तसाधनत्वं
वेति । अस्ति हि याग दानहोमजन्यापूर्वाणां तुल्यरूपसाधनान्तरव्यवच्छेदेन प्रत्येकमात्रजन्यत्वम्। तदुक्तम्-"विशब्दो हि विशेषार्थः सिनोतिर्बन्ध उच्यते ।
विशेषेण सिनोतीति विषयोऽतो नियामकः " इति ।

ननु येन रूपेण शक्तिग्रहः तेन रूपेण कार्यत्वशक्ताल्लिङ्पदाल्लक्षणया कार्योपस्थितौ योग्यतादिवशादपूर्वलाभोऽस्तु । कार्यस्मरणं हि अन्विताभिधानोपयोगि न
त्वपूर्वस्मरणम् । तच्च पदेन पदार्थेन वेति न कश्चिद्विशेषः । कार्यञ्च शक्यकार्यत्वसम्बन्धितयावगतमेवेति चेत् , न। लिङो लाक्षणिकत्वेनापूर्वाननुभावकत्वात् । न
चेतरान्वितस्वार्थशक्तस्य यज्यादिपदस्येतदरपूर्वमादायानुभावकत्वमिति वाच्यम्। इतरोपलक्षितस्वार्थान्वयमात्रे हि पदानां शक्तिर्न त्वितरत्र, गौरवात् पदान्तरलभ्यत्वाच्च ।

136

लक्षणायाञ्च तीरोपलक्षितान्वयशालिस्वार्थानुभावकत्वमितरपदस्य। तीरस्य तु संस्कारादुपस्थितिरसन्निहितेनान्विताभिधानाभावात् । न चापूर्वं संस्कारविषयः । किञ्च
यजिपदेन स्वर्गकामकार्यविषयो याग इत्यनुभवो भवेत्। लक्षणायामितरपदस्य लक्षणीयविशेषणस्वार्थविशेष्यकानुभवजनकत्वात् । न चैतादृशो बोध आकाङ्क्षितः । न
च यागाविशेषितकार्यमात्रेण स्वर्गकामान्वयः प्रतीयते । किन्तु यागविषयककार्यविशेषे , तथाच तथाविधबोधार्थं लिङः कार्ये शक्तिरेवेति ।
इति अपूर्ववादपूर्वपक्षः।

अथापूर्ववादसिद्धान्तः।
अत्रोच्यते  । अन्वयप्रयोजकरूपवत्त्वं न योग्यता। अनाप्तोक्ते पयसा सिञ्चतीत्यत्र सत्यप्यन्वयप्रयोजकद्रवद्रव्यत्वे बाधकप्रमायामन्वयाबोधात् । अथ योग्यत्वेऽपि
स्वबाधकप्रमाविरहः कारणं तर्हि सोऽप्यवश्यापेक्षणीय इति लाघवात् सैव योग्यता । एवञ्च तदेव योग्यमयोग्यञ्च स्यादिति चेत् , सत्यम् । यथा दशाविशेषे तदेव
साकाङ्क्षमनाकाङ्क्षमासन्नमनासन्नञ्च तथा स्वबाधकप्रमातद्विरहदशायां तदेवान्वयबोधे योग्यमयोग्यञ्चाभिधीयते । स्वबाधकप्रमायां तद्विरहे वा योग्यायोग्यताव्यवहारदर्शनात्
स्वबाधकप्रमाविरहदशायां योग्यतादिसत्त्वेऽपि वह्निना सिञ्चतीत्यत्रान्वयबोधः अप्रमादोषवत्पुरुषप्रणीतत्वात् । सामान्यभानस्य किञ्चिद्विशेषभाननियतत्वात् । विशेषाभाने
कथं तद्भासत इति चेत् , न । वस्तुगत्या परम्परासाधनं विशेषो भासत एव। परम्परासाधनत्वन्तु प्रकारो न भासते । तत्प्रकारभाने हि परम्पराघटकज्ञानस्य हेतुत्वात्।
यथा घटेन जलमाहरेत्यत्र योग्यतया छिद्रेतरघटे घटत्वेन भासते न तु छिद्रेतरत्वेन। तथा सति लक्षणायां युगपद्वृत्तिद्वयविरोधेन घटानन्वयप्रसङ्गात् उभयसाधारणरूपेणानुपस्थितेश्च
नाजर्हस्वार्था ।

अथ संस्कारात्तदुपस्थितिः । न च सुब्विविभक्तीनां प्रकत्यर्थगतस्वार्थान्वयबोधकत्वव्युत्पत्तेस्तत्र विभक्त्यर्थो नान्वीयेतेति वाच्यम् । प्रकृत्यर्थो हि प्रकृतिप्रतिपाद्यः
लक्षणीयान्वयानुरोधात् । स च संस्कारसहकारात् प्रकृतेऽपि । न च तस्यानियताद्बोधकान्न नियता तदुपस्थितिः । फलबलेन तथा कल्पनादिति चेत् , न ।
शब्दोपस्थापितेनैव शब्दस्यान्वयबोधकत्वात् । न चैवमाकाशपदाशक्यस्य संस्कारोपस्थितस्य शब्दाश्रयत्वस्य कथं शाब्दानुभवविषयत्वमिति वाच्यम्। नियमतो यद्धर्मवत्त्वेनोपस्थिते
यत्र शक्तिग्रहः तत्स्मरणजनकसंस्कारस्य तद्धर्मविषयतानियमेन तद्बोधकादेव तदंशेऽपि उद्बोधनियमेनाकाशपदादशक्यस्यापि तस्य भानात् ।  अस्तुवा तदपि शक्यं यदि
नियमत उपस्थितिः सहप्रयोगस्य वाच्यादिपरत्वेनाप्युपपत्तेः ।  वस्तुतस्तु नियतोपस्थितिरेव नास्ति ।  अस्तु वा पदादपि निÐवकल्पकम्।
तर्ह्यन्वयबोधदशायामितरान्वयानुपपत्त्यभावादग्रेऽपि कल्पना न स्यादिति चेत् , तर्हि तवापि कार्यताबोधानन्तरं औपादानिकसाधनताबोधो न स्यात् औपादानिकबोधेऽनुपपत्तिबोधस्य
हेतुत्वात् । कल्पनामात्रोच्छेदश्चैवं स्यात् , प्रतीतानुपपत्तिमूलकत्वात् कल्पनायाः ।

वस्तुतस्तु  बाधकप्रमाविरहस्य योग्यतात्वे संशयसाधारणं ज्ञानमात्रमेव तस्याः प्रयोजकम्। तेन यत्र बाधकप्रमानिश्चयस्तत्रैवान्वयबोधाभावः । अन्यत्र तु
तद्धीमात्राच्छाब्दबोध इति यागेऽपि योग्यतासंशयेनान्वयबोधः प्रतिबन्ध बाधसंशयस्याप्रतिबन्धकत्वात् । अन्यथा अनुमानाद्युच्छेदप्रसङ्गात् । अपूर्ववाच्यत्वेऽप्यपूर्व्व
स्वर्गसाधनतासंशयाद्योग्यतायाः संशय एव । अपूर्वस्य प्रथमं स्वर्गसाधनत्वानिश्चयादुपादानस्यान्विताभिधानोत्तरकालीनत्वात् । साधकबाधकप्रमाणाभावेन द्वारसम्भावनया
साधनत्वसम्भावनातः स्वर्गकामान्वय इति तुल्यम्। अपि च यथा न क्रिया स्थिरेत्ययोग्या तथा कार्यमपूर्वमपि विशिष्टं न स्थिरं कृतेर्विनष्टत्वात् । न चाधिष्ठाने अपूर्वमात्रे
साधनत्वम् । तस्य पदार्थैकदेशत्वेनान्वयाप्रतियोगित्वात् ।

अन्ये त्वन्वयविरोधिरूपविरहो योग्यता । अत एव वह्निना सिञ्चतीत्यत्र तद्भ्रमे भवत्यन्वयभ्रमः । यागेचान्वयविराधिरूपविरहो योग्यानुपलब्ध्या सुगम एव ।
न च यागे आशुविनाशित्वं कालान्तरभाविफलजनकत्वविरोधीति चाच्यम् । अनुभवे क्वाथपाने चाशुविनाशिनि कालान्तरभाविफलजनकत्वाद्यागेऽप्यन्ततस्तत्सत्त्वात्।
अन्यथापूर्ववैफल्यात् । अस्मादन्वयप्रयोजकरूपवत्त्वं लघ्विति चेत् , न । तत्सत्त्वेऽप्यनाप्तोक्ते व्यभिचारात्। अन्वयविरोधित्वेन यत्किञ्चित्प्रतिसन्धानं तत्रास्त्येव।
अन्ततो बाधकप्रमाविषयत्वस्यैव विरोधिनो ज्ञानादिति ।

काम्यसाधनत्वज्ञानमेव प्रवर्र्तकं लाघवात् । सिद्धौदनस्तृप्तिकामो लघूपाये भोजने प्रवर्र्तते न तु पाके गुरूपायत्वात् । जलाद्यर्थी च सन्निहिते । अत एव
ज्योतिष्टोमादौ श्रुतस्वर्गफलकत्वेऽपि गुरूपायत्वेनाननुष्ठानलक्षणाप्रामाण्यापत्त्या फलभूमा कल्प्यते । इष्टोत्पत्त्यनान्तरीयकश्रमजनकत्वं वा प्रतिबन्धकम् । अपि च
काम्याव्यवहितसाधनतया ज्ञातमेव यदि कामी कर्र्तव्यताऽवैतीति नियमः तदा पूर्वमपि कार्यतया नावगम्येत अन्विताभिधानात् पूर्वं

काम्यसाधनताबोधकाभावादुपादानस्यान्विताभिधानोत्तरकालीत्वात् ।  अत एवकाम्यादन्यदित्यादि प्रकारद्वयं  निरस्तम्,कार्यताबुद्धी प्रवृत्तौ वा काम्यसाधनत्वस्यैव
हेतुत्वात् । न च कार्ये घटादौ लिङ्शक्तिग्रहः यथा लिङ्शक्तिग्रहकाले स्वर्गकामान्वयायोग्यत्वात् क्रियानिरासस्तथा यागान्वयानुपपत्त्या घटादिः निरसोऽपि स्यात्। न हि
योगविषयको घटादिः सम्भवति । अन्यथा अन्विताभिधानदशायामपि तन्निरासो न स्यात् । स्यादेतत् । स्वर्गकामान्वयानुपपत्त्या तदन्वययोग्ये लिङ्शक्तिग्रहः स्थायिकार्यञ्च
तथा । अतः शक्तिग्रहकाले क्रियानिरासो युज्यते न घटादेः । यजिपदमन्तर्भाव्य स्वर्गकामपदलिङ्पदाभ्याम् । अन्विताभिधानदशायां घटादिनिरासो यागान्वयोग्यत्वादिति।
तत् किं शक्तिग्रहकाले यागान्वयानुपपत्तिर्हस्तपिहिता येन घटादिनिरासिका सा न प्रतिसन्धीयेत । प्रत्युत प्रत्ययस्यान्तरङ्गप्रकृत्यर्थान्वयं बोधयत एवेतरान्वयबोधकत्वमिति
तदन्वयानुपपत्तिप्रतिसन्धानमेव प्राथमिकम् , पुरुषदोषादप्रतिसन्धाने शक्तिग्रहो भ्रम एव घटादेरशक्यत्वात् पुरुषविशेषं प्रति अपूर्ववाच्यतापत्तेश्च । घटादीनामनन्तत्वेन यदि
तन्निरासो न शक्यः तदा अन्विताभिधानदशायामपि न स्यात् । पाकादीनां क्रियात्वेनेव पृथिवीत्वादिना निराससम्भवाच्च। एवं च प्रचुरद्व्यगुणकर्मसु निरस्तेषु क्क कार्ये
धÐमणि शक्तिग्रहः । न च विशेषे निरस्तेऽपि कार्यसामान्यं न निरस्तमिति वाच्यम् । न हि विशेषाविषयं सामान्यज्ञानं सम्भवति । एतेनापूर्वसाधारणकार्यत्वेन घटादौ
शक्तिग्रह इति  परास्तम्  । अगृहीतासंसर्गेषु स्थायित्वकार्यत्वस्वर्गजनकत्वेषु तज्ज्ञानेषु वा शक्तिग्रह इत्यपि परास्तम् । स्थायिनां घटादीनां निरासात् । धर्ममात्रे च
शक्तिग्रहस्य प्रकृतेऽनुपयोगात् । किञ्च तेषु शक्तिग्रहः समुदितेषु प्रत्येकं वा । नाद्यः, प्रथमं समुदायस्यैकज्ञानाविषयत्वात् । विषयत्वे वा पूर्वमेव विशिष्टस्य
सत्त्वेऽपूर्वत्वव्याघातः । एकज्ञानविषयसाकाङ्क्षधर्मधÐमणोरेव विशिष्टत्वात् । न द्वितीयः। एवं हि लिङापदात् स्मरणत्रयं यजिपदाच्च यागस्मरणम्। न च चतुर्णां तेषां
यौगपद्यमस्ति । न च प्रत्येकं शक्तिग्रहेऽपि समुदितविषयकमेकमेव स्मरणम्। लिङ्पदादिति युक्तम् । समुदायस्य पूर्वमननुभवात् । स्मरणञ्च यदि साकाङ्क्षधर्म-धÐमविषयकमेकं तदा अपूर्वत्वक्षतिः एकज्ञानारूढयोः साकाङ्क्षधर्मधर्मिणोरेव विशिष्टत्वात् तन्नियतत्वाद्वा। ।एतेनस्वर्गदिपदेषु अगृहीतासंसर्गधर्मधÐमषु शक्तिग्रह इति

137

व्युदस्तम्  । प्रत्येक- समुदायविषयकस्मरणविकल्पग्रासात् । अस्तु वा लिङः कार्ये लक्षण । यथा हि मञ्चाः क्रोशन्तीत्यादौ पुरुषविशेषः प्रागननुभूतोऽप्यनुभूयते
इतरपदाल्लाक्षणिकस्यानुभावकत्वात् तथाऽपूर्वमपि । अस्तु च स्वर्गकामकार्यविषयो याग इत्यनुभवे स्वर्गकामयागयोरन्वयप्रकारतया अपूर्वलाभः । यद्वा स्वर्गकामकार्यविषयो
याग इति शाब्दानुभवानन्तरमर्थाद्यागविषयकं कार्यमिति ज्ञानं अनुपपत्तिप्रभवम्। अत एव शाब्दबोधानन्तरमौपादानिकबोधात्प्रवृत्तिः । किञ्चापूर्ववाच्यत्वेऽपि न कलञ्जं
भक्षयेदित्यादितः कलञ्जभक्षणाभावविषयकमपूर्वमवगम्यापि न प्रवर्तेत तदभावे । तथाहि-भक्षणे रागादस्य कर्तव्यताबुद्धिर्जाता । शब्दाच्च भक्षणाभावे । निष्फलात्
कार्यात् सफलं गरीय इति न्यायेन सुखहेतौ भक्षण एव प्रवर्र्तेत न तदभावे । निषेधापूर्वमेव फलमिति चेत् , न । तस्य सुखदुःखाभावान्यतया पण्डत्वेन तदजनकतया  च
गौणमुख्यप्रयोजनत्वाभावात् । सुखवदपूर्वमपि प्रयोजनमिति चेत् , न । लोके तथानवगमात् । अलौकिकयोः स्वर्णापवर्गयोः लोकावगतप्रयोजनसुखदुःखाभावजातीयतया
प्रयोजनत्वम् , वेदेऽपि काम्यस्थले काम्यसाधनस्यैवापूर्वस्य गौणप्रयोजनस्य लिङाभिधानम् । काम्यसाधनताज्ञानं विना कामिकार्यत्वस्य बोधयितुमशक्यत्वात्। न तु
स्वतः प्रयोजनत्वेन । तत्रासामर्थ्यादनुपयोगाच्च । प्रवृत्तेर्भोजनादाविव लोकक्लृप्तकाम्यसाधनताज्ञानात् कार्यताज्ञानाद्वा गौणप्रयोजनत्वेनैवोपपत्तेः । नापि नित्यनिषेधयोरपूर्वं
स्वतः प्रयोजनं लिङाभिधीयते । काम्यस्थले हि धÐमग्राहकलिङादिना प्रवर्र्तककार्यत्वेनापूर्वमभिहितम् । अतो नित्यादावपि कार्यत्वेनापूर्वबोधनं न तु स्वतः प्रयोजनत्वेन।
ननु नित्ये लोकवेदावगतगौणमुख्यप्रयोजनाभावे सति लिङेवापूर्वस्य स्वतः प्रयोजनत्वं बोधयति तेन विना प्रवृत्तिपरत्वानिर्वाहादिति चेत् , न। निरूपधीच्छाविषयत्वं हि
स्वतः प्रयोजनत्वम् अपूर्वस्य सिद्धं लिङा बोधनीयम् । न च तादृशेच्छाविषयोऽपूर्वं क्वचिदपि सिद्धम्। न च लिङेवापूर्वच्छां जनयित्वा तां बोधयति तस्यास्तत्रासामर्र्थ्यादिच्छायाः
सामग्र्यन्तरजन्यत्वाच्च । अतोऽपि काम्ये नित्ये चेच्छाविषयत्वं प्रयोजनत्वमपूर्वस्य लिङादिना न बोध्यते। अपूर्वेच्छायाः शाब्दज्ञानात् पूर्वं असत्त्वात् । किन्तु
शाब्दकार्यताज्ञानात् सेति । अथ नित्ये कार्यत्वेनैवापूर्वस्याभिधानम् । न तु स्वतः प्रयोजनत्वेन। किन्तु लिङा अपूर्वे बोधिते तस्य स्वतः प्रयोजनत्वमिच्छाविषयत्वं
सम्भवति सुखज्ञानवदपूर्वज्ञानस्यापि स्वत एवेच्छाजनकत्वात् । ततः काम्यापूर्वसाधनताज्ञानान्नित्ये कार्यताबोधात् प्रवृत्तिरिति चेत् , न। अपूर्वज्ञानस्येच्छाहेतुत्वेनाक्लृप्तत्वात्।
काम्यापूर्वे हि लोकक्लृप्तेष्टसाधनताज्ञानादेवेच्छा न त्वपूर्वत्वज्ञानात् । शास्त्रस्थस्य शास्त्रजकर्र्तव्यताज्ञानं बलवदिति चेत् , सफलविषयं तथा । इदञ्च निष्फलविषयम्।
अथ प्रवृत्तिमतो निवृत्तिनियोगेऽधिकार इति यदा भक्षणप्रवृत्तस्तदा तन्निषेधे शाब्दकार्यताधीरिति तया विपरीतप्रयत्ने जनिते रागात् क्रियोत्पत्तिः। तेनैव
प्रतिबन्धात्। रागकारितप्रवृत्तिमुपजीव्य हि निवृत्तिकार्यताशास्त्रेण बोधिता । अतस्तेन बोधने स्वफलं विपरीतकृतिरवश्यं उत्पाद्येति शास्त्रस्य बलवत्त्वमिति चेत् , न ।
निवृत्तिकार्यताबोधेऽपि निवृत्तौ प्रयत्न एव नोत्पद्यते यस्य प्रतिबन्धकता स्यात् । स्याच्च निवृत्तिकार्यताबोधकमप्रमाणं निष्फलत्वेन तत्र कृतेरभावात् । अथ
कलञ्जाभक्षणस्य निन्दार्थवादेन बलवदनिष्टसाधनत्वावगमात् तद्भक्षणे न प्रवर्र्तते इति चेत्, एवमपि कलञ्जभक्षणे निवर्र्ततां, तदभावे निष्प्रयोजनतया प्रवृत्तौ
किमायातमिति ।एतेननित्यापूर्वसाधने सन्ध्यावन्दनादावपि प्रवृत्तिरपास्ता । क्रियायाः कष्टत्वात् तदपूर्वस्य पण्डत्वात् स्वतोऽप्रयोजनत्वाच्च । तस्मात् लोके पचेतेत्यादौ
कार्यत्वेष्टसाधनत्वरूपधर्मशक्तत्वेन ज्ञाता लिङ् स्वर्गकामो यजेतेत्यादौ तदन्वयं यागे योग्यतादिवशाद् बोधयतीति न वेदे धर्मिणि शक्तिकल्पना। प्रतीता च स्वर्गसाधनता
साक्षादसाधनस्य यागस्य व्यापारमन्तरेणानुपपद्यमाना तन्निर्वाहकं व्यापारमपूर्वं कल्पयति ।

ननु निरुपधिपूर्ववर्तिता कारणता। सा व्यापारेण निर्वाह्यत इत्यत्र कोऽर्थः , किं क्रियते , उत ज्ञाप्यते । नाद्यः उत्तरवर्तित्वेन व्यापारस्य तत्रासामर्थ्यात् । नेतरः,
लिङैव तद्बोधनात् चिरध्वस्तं कारणं व्यापारेण व्याप्तमिति चेत् , न । विपक्षे बाधकाभावेनाप्रयोजकत्वात् । अन्यथा ऐन्द्रियकं कारणमतीन्द्रियव्यापारकमिति
यागानुभवयोर्दर्शनात् तथा कल्प्येत । प्रायश्चित्तादीनाञ्च फलप्रतिबन्धकत्वमेव । प्रायश्चित्तस्य "तस्मादेनसः पूतोः भवती"ति यत् फलं श्रुतमस्ति तस्य निषिद्धक्रियातः
फलभाक् न भवतीत्यर्थः। "धर्मः क्षरति कीर्र्तनादि"ति च कीर्र्तनाद्विहितक्रिया क्षरति फलं न जनयतीत्यर्थः । क्षरतीत्यत्र बाधकं विना न लक्षणेति चेत् , न । उपस्थितत्वेन
विहितक्रियायामेव धर्मपदशक्तिग्रहस्य बाधकत्वात् । न चैतस्य मुख्यत्वार्थं पदार्थान्तरे शक्तिः, लक्षणोेच्छेदापत्तेः विहितक्रियाकर्तृत्वज्ञानेन धाÐमकपदप्रयोगाच्च ।  एतेन
देवदत्ताद्यशरीरं देवदत्तविशेषगुणप्रेरितभूतपूर्वकं जन्यत्वे सति तद्भोगसाधनत्वात् तन्निÐमतस्रग्वदित्यनुमानात् तत्सिद्धिरिति  परास्तम्  । जन्मान्तरीयज्ञानादिभिरेव तज्जनकत्वाभिमतैः
सिद्धसाधनादिति मैवम्। चिरध्वस्तस्य व्यापारसत्वे कारणत्वमिति निरूपाध्यन्वयव्यतिरेकाभ्यां व्यावधारणात् यागस्य चिरध्वस्तकारणत्वेन व्यापारकल्पनात् । कार्ये
व्यापारस्यपृथगन्वयव्यतिरेकग्रहस्तद्व्यापारकत्वे उपाधिरिति चेत् , न । संस्कारे तदभावेऽप्यनुभवस्य तद्व्यापारकत्वात् । न चाप्रयोजकत्वम् । यागो यदि चिरध्वस्तत्वे
सति सव्यापारो न स्यात् स्वर्गसाधनं न स्यात् घटवदिति विपक्षे बाधात् । न चात्र कारणताग्राहकाभाव उपाधिः । तेनापि समं व्याप्त्यवधारणे तस्याप्यापादनात् । न
चैन्द्रियकस्यातीन्द्रियव्यापारवत्वनियमः। सव्यापारत्वे कार्याव्यवहितपूर्वसमये असत्त्वस्योपाधित्वेनाप्रयोजकत्वात् ।

नन्वेवं सन्ध्यावन्दनाकरणस्य दुःखसाधनत्वश्रुतेः तत्करणप्रागभावो दुःखहेतुः। तथा च तस्य स्थिरत्वेन दुःखजननसम्भवात् न पापे प्रमाणम्। न च प्रायश्चित्तवैफल्यम्।
प्रायश्चित्ताभावसहकृतस्यैव तस्य तज्जनकत्वात् ।यत्तुप्रागभावनाश एव तेन क्रियत इति ।  तन्न  । ध्वंस प्रागभावानवच्छिन्नकालस्य प्रतियोगिकालत्वेन तदा
करणापत्तेरिति चेत् , न। सन्ध्याकालीनाकरणस्य दुःखजनकत्वेन विशिष्टस्य सन्ध्याकालापगमेऽनुपगमात् । न च सन्ध्याकालीनाकरणे विशेषणं । किन्तु प्रतियोगिनि
करणे तथा च विशिष्टाभावः स्थिरः एवेति वाच्यम्। सन्ध्याया ह्यकरणेऽन्वयस्तस्य पदार्थत्वात् न तु करणे तस्य पदार्थैकदेशत्वेनाप्रधानत्वात् । तथापि ध्वंस एव
व्यापारोऽस्तु । तव सहभावानिरूपकस्यापि कारणत्वात् । तस्यानन्तत्वेऽपि स्वभावात् सावधिफलजनकत्वम्। यच्च यद्ध्वंसो हेतुस्तत्र तत्प्रागभावोऽपीति चेत् , न ।
दुग्धध्वंसजन्यदध्रि मिथ्याधीध्वंससाध्यमुक्तौ च व्यभिचारात् प्रतिबन्धकाभावत्वेन हेतुत्वे तथाभावाच्च । ध्वंसेनानुपपत्तिः कथं तेनैव समाधातव्येति चेत् , न। ध्वंसेसति
तद्व्यापारत्वज्ञानं विनानुपपत्तेस्तद्व्यापारत्वकल्पनया शान्तेरिति ।  मैवम्  । प्रतियोगि-ध्वंसयोरेकत्राजनकत्वात् । न हि नियमतो यद्ध्वंसे सति यद्भवति तत् तत्र
कारणम्। न च संसर्गाभावत्वेन हेतुत्वे तथेति वाच्यम्। व्यभिचाराभावेन तस्यापि प्रयोजकत्वात् ।

अथ शब्दाद्यागकारणता व्यापारं विना तदनुपपत्तेः तज्जन्यध्वंसस्य कारणत्वकल्पनमित्युभयमपि जनकम् । अन्यत्र तु मानाभावान्न तथेति चेत् , न, यागध्वंसस्य
यागजन्यस्वर्गं प्रति जनकत्वस्य प्रमाणान्तरविरोधेनार्थापत्त्याप्यकल्पनात् । अस्तु तर्हि देवताप्रीतिरेव व्यापार इति चेत् , न। यागस्य देवताप्रीतिहेतुत्वे मानाभावात्।
ग्ङ्गास्नानादौ देवताविरहेण तदसम्भवात् । न च तत्रापि तत्प्रीतिः , तस्य तत्प्रीतिहेतुत्वे मानाभावात् लाघवेन कर्र्तृ-भोक्तृगतव्यापारकल्पनाच्च ।
ननु नायं नियमः पुत्रकृतगयाश्राद्धादिना पितरि पितकृतजातेष्ट्या पुत्रे चादृष्टोत्पत्तेः । अथ तत्रापि कर्र्तर्येवादृष्टं विहितक्रियायाः यागस्येव कर्र्तृृगतादृष्टजनकत्वात्।
न च मुक्ते पुत्रे तददृष्टनाशात् पितरि न स्वर्गः स्यादिति वाच्यम्। अदृष्टस्य फलनाश्यतया पितरि स्वर्गाभावेनादृष्टानाशात् स्ववृत्तिभोगजनकादृष्टस्य मुक्तिविरोधित्वात् ।
न तु पितृगतमदृष्टं जन्यते । मुक्ते पितरि दोषाभावेन योगिनामिव विहितक्रियायाः पित्रदृष्टाजनकत्वात् । तथात्वे च साङ्गमपि श्राद्धादिकं निष्फलं स्यादिति
तद्विधेरप्रामाण्यापत्तिः पुत्रागतादृष्टेन च मुक्ते पितरि सुखोत्पत्तौ न विरोधः। योगिनामिव सुखोत्पत्तौ दोषस्याहेतुत्वात् । अथ पितृसुखं पितृपुण्यजन्यमिति पितरि पुण्यम्। तेन

138

विना तदसम्भवात् । न पुत्रे तत्र फलप्रसङ्गादिति पितृस्वर्गकामनाजन्यक्रिया पितृपुण्यहेतुरिति पुत्रक्रियापि तज्जनिकेति चेत् , एवं पितृक्रियापि पितृपुण्यजनिकेति न तां
विना पितरि पुण्यं पुत्रक्रिय च पुत्रपुण्यजनिकेति पुत्रे पुण्यं पितृस्वर्गकामनाजन्यपुण्यत्वेन पितृस्वर्गहेतुरस्तु । तत्पुण्यं पितृवृति तत्सुखहेतुपुण्यत्वात् । न पुत्रवृत्ति
तत्सुखाहेतुपुण्यत्वादिति चेत् , न । तत्पुण्यं न पितृवृत्ति तत्कृत्यजन्यपुण्यत्वात् । पुत्रवृत्ति वा तत्कृतपुण्यत्वात् । तस्मात् पितृस्वर्गकामनाजन्यपुण्यत्वेन पितृस्वर्गहेतुतेति
पुत्रएव तत्पुण्यमिति । मैवम्। । स्वर्गोपपादकं ह्यपूर्वं स्वर्गाश्रये कल्प्यते प्रथमोपस्थितत्वात् लाघवात् कल्पनायाः साक्षादुपपादकविषयत्वाच्च। न च स्वर्गहेतुकामनाश्रये
स्वर्गकामनाजन्यक्रियाकर्तरि वा। विलम्बोपस्थितिकत्वात् गौरवात् परम्परया स्वर्गोपपादकत्वाच्च । यदि च पुत्रकृतपुण्येन मुक्तस्य पितुः शरीराद्युत्पत्तिः सुखञ्च स्यात्तदा
साक्षिविधया असत्याभिधानादिपत्रक्रियाजन्यपापेन "स विष्ठायां कृमिर्भूत्वा पितृभिः सह पच्यते" इत्यादिबोधितनरकभागितापि मुक्तस्य पितुः स्यात् । तथा च पुत्रकृततथाविधशङ्कया
न कश्चिन्मोक्षार्थं ब्रह्मचर्यादिदुःखेनात्मानमवसादयेत् । "दुःखेनात्यन्तं विमुक्तश्चरति" "न स पुनरावर्र्तते न स पुनरावर्र्तते " इति श्रुतिविरोधश्च तथा च मुक्तस्य सुखदुःखे
शरीरञ्च भवतीत्यपदर्शनम् मुक्ते पितरि श्राद्धादिना दोषाभावादेव नादृष्टमुत्पद्यते । न चैवं साङ्गश्राद्धस्यापि निष्फलत्वम् । अदृष्टोत्पत्तौ स्वरूपसतो दोषस्याङ्गस्य
वैगुण्यात् । यथा विघ्नहेतुदुरितशून्येन कृतं मङ्गलं न पापध्वंसं जनयति स्वरूपसतः पापस्याङ्गस्याभावात्। एवञ्च यागस्यापि व्यधिकरणोे व्यापारो भविष्यतीति ।
उच्यते। विहितक्रियया कर्र्तृगतव्यापारद्वारा कालान्तरभाविफलं जन्यत इत्युत्सर्गः । स च बलवता बाधकेनापोद्यते । प्रकृते च बाधकं नास्ति । यथा
शास्त्रदेशितं फलमनुष्ठातरीत्युत्सर्गः । पुत्रकृतगयाश्राङ्द्धस्य पितृस्वर्गं प्रति पितृकृतजातेष्टेः पुत्रपूतत्वादिकं प्रति हेतुत्वस्य शास्त्रेण बोधनात् ।
नन्वयं नियम एव पितृयज्ञ जातेष्ट्यादौ परम्परासम्बन्धेन कर्र्तृृगतमेव फलम्। न हि यस्य कस्यापि पितरि पुत्रे वा फलं , किन्तु स्वपितृपुत्रयोः तथा च
स्वपितृगतत्वं स्वर्गभागिपितृकत्वं वा परम्परासम्बन्धः फलेन पुत्रस्य । एवं पूतपुत्रकत्वादिकमपि पितृगतमेव । न च फलस्य कर्र्तृृगतत्वं साक्षात्सम्बन्धेनैवेति वाच्यम्।
ग्राम-पशु-पुत्र-हिरण्यादीनां परम्परया कर्र्तृृगतत्वमिति व्यभिचारात्। न हि ग्रामादायऋ साक्षात् कर्त्तृ-सम्बद्धाः । एवं फलस्य साक्षात्कर्र्तृगामित्वबोधने शास्त्रस्योत्सर्गो न तु
फलस्य कर्तृगामिताबोधने ।

यत्तुस्वर्गभागिपितृकत्वं न फलं तत्कामनाया अधिकारिविशेषणत्वाभावात् , पितृगतस्वर्गकाम इत्यादिश्रुतेः । स्वतश्च तथा कामनया प्रवृत्तौ श्रुतकामनाविरहेण
प्रयोगेऽङ्गवैगुण्यात् फलाभावप्रसङ्गः । किञ्च स्वर्गभागिपितृकत्वं विशिष्टं तत्र विशेष्यं तत्पितृकत्वं न काम्यं न वा फलं सिद्धत्वात्तदसाध्यत्वाच्च। किन्तु विशेषणं
पितृगतस्वर्ग इति स एव फलमिति ।  तन्न। न हि स्वर्गभागिपितृकत्वं फलम् , अपि तु स्वर्गेण समं पुत्रस्य परम्परासम्बन्धरूपं तदुक्तमिति ।
उच्यते  । यदि परम्परासम्बन्धेन पुत्रगतत्वं पितृस्वर्गस्य तदा संयुक्तसमवायादिना पुत्रेतरस्यापि फलं स्यात् । स सम्बन्धो न शास्त्रेण बोधित इति चेत् ,तर्हि
स्वर्गभागिपितृकत्वमपि न तथा, शास्त्रेणाबोधितत्वात्। ग्राम-पशु-हिरण्यादीनाञ्च सिद्धत्वेन न काम्यत्वम् , किन्तु तद्विषयकं स्वत्वम् काम्यं फलमपि तदेव। तच्च
साक्षादेव कर्र्तृृगतमिति कर्त्तृगतत्वेन फलस्य साक्षात् सम्बन्धो नियत एव। तस्माद् यद्गतत्वेन फलकामना तद्गतमेव शास्त्रदेशितं फलम्। अत एव कामनाविषयः स्वगत
एव स्वर्गः फलं यागादेः । स्वर्ग-पूतत्वादेश्च पितृ-पुत्रगतत्वेन काम्यत्वमिति श्राद्ध-जातेष्ट्यादेः पितृ-पुत्रगतमेव फलम् । एवञ्च मातापित्रादिगतस्वर्गकामनया पुत्रादिना कृतं
पुष्करिणीमहादानादिकं मातापित्रादिस्वर्गजनकमेव कामनाविषयस्वर्गसाधनत्वेन तेषां श्रुतत्वात् । न हि स्वगतस्वर्गकामस्य कर्तव्यतां पुष्करिण्यादेर्विधिर्बोधयति तथाऽश्रुतेः।
किन्तु स्वर्गकामस्य । स्वर्गश्च स्वगतः परगतो वेति स्वर्गकामत्वमविशिष्टम् । यजेतेत्यात्मनेपदमपि कर्त्रभिप्रेतक्रियाफलमात्रजनकत्वे । न च स्वर्गकामो दद्यादित्यादौ ।
स्वगतस्वर्गकामनायाअन्तरङ्गत्वादौत्सर्गिकत्वाच्च स्वर्गकामत्वेन स्वगतस्वर्गकाम एवोच्यते। सामान्ये बाधकं विना विशेषपरत्वे मानाभावात् ।
केचित्तु सम्यग्गृहस्थाश्रमपरिपालनस्य ब्रह्मलोकावाप्तिः फलं श्रुयत इति जातेष्टिपितृयज्ञयोरपि गृहस्थकर्मत्वेन तदेव फलमिति फलस्य कर्र्तृगामित्वे नियम एव।
प्रातिस्विकफलाभिप्रायेणोत्सर्ग इत्याहुः।

ननु यावन्नित्यपरिपालनस्य तत् फलं न तु काम्यश्राद्धादेः । काम्यान्तर्भावे मानाभावात् यावत्काम्यानुष्टठानाशक्तेश्च। यावच्छक्यानुष्ठानस्यापि नात्रान्तर्भावः,
कामनाविरहादिनाप्यकरणात्। यावन्नित्यानुष्ठाने तत्फलाभावप्रसङ्गात् नित्यस्यैवावश्यकत्वेनोपस्थित्यान्वयाच्च । अपि च तैः कर्मभिः प्रत्येकमुत्पत्त्यपूर्वं तैश्च परमापूर्वं
जन्यते इति न । गौरवात् मानाभावाच्च । किन्त्वन्तिमक्रियया परिपालनरूपक्रियान्तरेण वेति , न सर्वं कर्म ब्रह्मलोकावाप्तिफलकमिति । मैवम्। भगवदुद्देशेन कृतस्य
काम्यस्य नित्यस्य वा यस्य कस्यापि कर्मणः परिपालनाद्ब्रह्मलोकावाप्तिः फलं श्रूयत इति जातेष्टि-पितृयज्ञयोरपि तथा कृतयोस्तदेव फलम्।
तथा च भगवद्गीता यज्ञायाचरतः कर्म कर्मग्रन्यिÐवलीयते ।

यज्ञार्थात्कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धनः । इति , तत्र कर्म यज्ञार्थतया प्रत्येकमेव तत्फलसमर्थम् । सम्बलनन्तु मङ्गलवदुपयुज्यते , अन्यथा एकप्रयोगस्य
व्यवधानादसम्भवः । परिपालनन्तु कर्र्तव्यमित्येव करणम्। तदुक्तम्-"ददामि देयमित्येव यज्ञे यष्टव्यमित्यहमि"ति ।

यत्तु  निषिद्धासम्बन्ध एव सम्यक्त्वं न तु विहितमात्रानुष्ठानमिति ।  तन्न। यत्किञ्चन्निषिद्धासम्बन्धस्याभावात् सर्वनिषिद्धासम्बन्धस्य सर्वत्र सुलभत्वादिति
सम्प्रदायः ।

अत्र ब्रूमः । भगवदुद्देशेन कृतं किञ्चिदेव कर्म, सर्वं काम्यं वा , सर्वं नित्यं वा , सर्वमिति वा । नाद्यः, एकेनैव काम्येन नित्येन वा स्नानेन तथा कृतेन
तत्फलसिद्धौ बहुवित्तादिसाध्ये श्राद्धादावप्रवृत्त्यापत्तेः । नापरौ, अशक्यत्वात् । न तुर्यः, जातेष्ट्यादेर्नित्यत्वाभावात् । तस्मात् सम्यग्गृहस्थाश्रमपालनस्य तत्फलम् ,
सम्यक्त्वन्तु सामस्त्यमेव। अतो गायाश्राद्धादेर्न ब्रह्मलोकावाप्तिः फलमिति साधूक्तं "शास्त्रदेशितं फलमनुष्ठातरीत्युत्सर्ग" इति । तच्च फलं क्वचिद्विधिवाक्यश्रुतं
क्वचिच्चार्थवादिकमिति ।

इति श्रीमद्गङ्गेशोपाध्यायविरचिते तत्त्वचिन्तामणौ शब्दाख्यतुरीयखण्डे अपूर्ववादः॥

139

अथ कार्यान्वितशक्तिवादः ।
नन्वर्थवादादीनां सिद्धार्थतया न प्रामाण्यम् । कार्यान्वित एव पदानां शक्त्यवधारणात् । वृद्धव्यवहारादेव सर्वेषामाद्या व्युत्पत्तिः। उपायान्तरस्य शब्दव्युत्पत्त्यधीनत्वात्।
तथाहि प्रयोजकवाक्योच्चारणानन्तरं प्रयोज्यप्रवृत्तिमुपलभमानो बालः प्रेक्षावद्वाक्योच्चारणस्य प्रयोजनजिज्ञासायां तदन्वयव्यतिरेकानुविधायित्वादुपस्थितत्वाच्च प्रयोज्यवृद्धप्रवृत्तिमेव
प्रयोजनमवधारयति । न चाकिञ्चित्कुर्वतस्तादर्थ्यं सम्भवतीति तज्जन्यं प्रवृत्त्यनुकूलं कार्यताज्ञानमेव कल्पयेति। स्वप्रवृत्तौ च तेन कार्यताज्ञानस्य हेतुत्वावधारणत् ।
नान्यत् प्रवृत्तेः कार्यताज्ञानावरुद्धत्वात् । न चैवं शब्दस्य ज्ञानद्वारा प्रवृत्तिहेतुत्वम्। स्वप्रवृत्तौ बालेन शब्दाहितविशेषस्य कार्यताज्ञानस्य हेतुत्वेनानवधारणात् । ज्ञाने च
प्रत्यक्षादिनानोपायकत्वदर्शनात् शब्दोऽपि कार्यताज्ञानहेतुरित्यवधार्य तत्रैव शकिं्त कल्पयति उपस्थितत्वात्। पश्चादावापोद्धारेण क्रियाकारकपदानां कार्यान्विततत्तदर्थेषु
शकिं्त गृह्यति। प्रथमगृहीतसामान्यशक्त्यनुरोधात् । स्यादेतत् , यद्यपि वृद्धव्यवहारादौ कार्यान्वितधीरनुमिता तथाप्यन्वितमात्रशक्त्यैव कार्यतावाचकपदसमभिव्याहारादाकाङ्क्षादिमहिम्ना
कार्यान्वितधीसम्भवात् न कार्यांशेऽपि शक्तिः परम्परयापि शब्दस्य कार्यान्वितज्ञानानुकूलत्वादर्थापत्तौ अन्यथोपपत्तिरपि । अवश्यञ्चाकाङ्क्षादेः कारणत्वम्। कार्यांशे
शक्तावपि तद्व्यतिरेकादन्विताभिधानव्यतिरेकनियमात् । सति चाकाङ्क्षादौ कार्यव्यतिरेकदर्शनादन्विताभिधानव्यतिरेको न क्वाप्यस्ति । अन्यथा गवादिपदानां व्यक्तावेव
शक्तिः स्यात्। संस्कारादेव व्यक्तिलाभदर्शनान्न तथेति यदि, तदा कार्यवाचकपदादेव कार्यान्वितलाभ इति किं शक्त्या । वृद्धव्यवहारे नियमतः कार्यान्वितज्ञानं तत्र दृष्टमिति
तथा शक्तिकल्पने वृद्धव्यवहारे शब्दोपस्थापितेनैवान्वयबोधदर्शनाच्छब्दसन्निधेरेवान्वयबोधहेतुत्वकल्पने द्वारमित्यादौ शब्द एवाध्याह्रियेत । क्वचिदसम्पूर्णवाक्ये वृद्धव्यवहारादाद्यव्युत्पत्तेः
शब्दसन्निधिर्व्यभिचरतीति चेत् , तर्हि , सिद्धर्थेऽप्यन्वयप्रतीतिदर्शनात् कार्यत्वमपि व्यभिचारि । न च तत्र लक्षणा । बाधकाभावात् । शक्तिकल्पनाभिया ह्यन्यत्र
लक्षणानुमता। इह तु लघीयस्या उभयसाधारणपदार्थमात्रशक्त्या मुख्यस्यैवोचितत्वात् । किञ्च कार्यवाचिलिङादीनां आकाङ्क्षाद्युपेतपदार्थान्वितस्वार्थबोधकत्वमवश्यं
वाच्यम् । अतो विशेषात् पदान्तराणामपि तथात्वमस्तु लाघवादिति । मैवम् । व्यवहारहेतुतयानुमिते हि कार्यान्वितज्ञानेऽन्वयव्यतिरेकाभ्यां शब्दस्य साक्षात्कारणत्वमवधारयति
न परम्परया। साक्षात्त्वस्मौत्सर्गि सर्गकत्वेन तत्सम्भवे परम्पराया अन्याय्यत्वादिति तत्रैैव शकिं्त कल्पयति। नान्वितज्ञाने पदार्थज्ञाने वा । अप्रवर्र्तकतया प्रवृत्त्या
स्वकारणत्वेन तयोरनुपस्थापनात् । न चान्वितज्ञानशक्तावपि परम्परया कार्यत्वधीः सम्भवतीत्यर्थापत्त्या सैव कल्प्यतां लाघवात् , न तु विशिष्टज्ञाने शक्तिरन्यलभ्यत्वात्
इति वाच्यम्। अर्थापत्तेः साक्षादुपपादकमात्रविषयत्वेन न्यूनाधिकाग्राहकत्वात् । साक्षादुपपादककार्यान्वितज्ञाने शक्तिः कल्प्यते। लिङादीनां शक्तेरकल्पनात् अन्यलभ्यत्वतर्कस्याप्यभावात्
वा आद्यव्युत्पत्तेर्विचार्यत्वात् किञ्च प्रवृत्तिकारणतयोपस्थितं कार्यान्वितज्ञानमपहायानुपस्थितान्वितज्ञानमात्रे शक्तिकल्पनमयुक्तं हेत्वभावादुपस्थित्यन्तरे च गौरवात् ।  अथ
कार्यान्वितज्ञानोपस्थितावप्यन्वितज्ञानमप्युपस्थितमिति लाघवात् कार्यांशमपहायान्विते शक्तिर्गृह्यतामिति चेत् , न । ज्ञाने हि पदानां शक्तिः शक्यत्वान्नार्थेषु । अन्यत्र
कार्यान्वितज्ञानं अन्यदेवान्वितज्ञानं विषयभेदेन ज्ञानभेदात् । तदुक्तमभाववादे "अन्यद्भूतलज्ञानमन्यच्च घटवद्भूतलज्ञानमि"ति । अन्वितज्ञानमुपस्थाप्य तत्र शक्तिग्रह इति
गौरवमेव । लघुनि शक्ये सम्भवत्यन्यलभ्यं गुरु न तथेति चेत् , न । युगपदुपस्थितौे तथात्वात् । न च तस्याप्यनुपस्थितिः । पुरुषविशेषदोषात् । सर्वैरेरवाद्यव्युत्पत्तौ
तथानवगमात् । तथापि न कार्यान्विते शक्तिः कार्यवाचिलिङादीनां व्यभिचारादिति चेत् , न । सर्वपदानां कार्यत्वविशिष्टधीजनकत्वात् । तच्च
कार्यान्वितस्वार्थप्रतिपादकतयेतरान्वितस्वार्थकार्यप्रतिपादकतया वेति । एवञ्च कार्यान्वितव्युत्पत्तौ सत्यामनाकाङ्क्षादौ व्यभिचारादाकाङ्क्षादेरुपाधित्वम्। तथा
चोपजीव्यप्रथमभाविकार्यान्वितव्युत्पत्त्यनुरोधेन विध्यश्रुतावपि कार्याध्याहारः। क्वचिल्लक्षणा क्वचिदसंसर्गाग्रह इति सिद्धार्थेऽन्वयप्रतीतिदर्शनादुत्तरकालमन्वितमात्रे शक्तिरेव
कल्प्यताम् । प्राचीनकार्यान्वितज्ञानं बाध्यतामित्यप्यत  एव निरस्तम्। पूर्वकल्पनातः कल्पनान्तरप्रसङ्गात् , उत्तरकालभाविसिद्धार्थप्रयोगस्य लक्षणादिभिरप्युपपत्तेः
अनन्यथासिद्धत्वाभावेन प्राचीनज्ञानबाधकत्वात् उपजीव्यव्यघाताच्च ।

अथ सिद्धार्थेऽपि व्युत्पत्तिः सम्भवति। तथाहि-उपलब्धचैत्रपुत्रजन्मा बालस्तादृशेनैव वार्ताहारेण समं चैत्र समीपं गतश्चैत्र पुत्रस्ते जात इति वार्ताहारवाक्यं झुण्वन्
चैत्रस्य मुखप्रसादं गृह्णन् श्रोतुर्हर्षमनुमिनोति हर्षाच्च तत्कारणं पुत्रजन्मज्ञानं कल्पयति । उपस्थितत्वादुपपादकत्वादन्योपस्थितौ गौरवाच्च। तत्र वाक्यस्य कारणतां
कल्प्यति लाघवादिति चेत् , न। हर्षहेतूनां बहूनां सम्भवात् हर्षेण लिङ्गेन पुत्रजन्मज्ञानस्य बालेनानुमातुमशक्यत्वात्। प्रियान्तरज्ञानस्य परिशेषयितुमशक्यत्वाच्च  । अथ
पुत्रजन्मज्ञानाव्यभिचारिवृद्धिश्राद्धादिक्रियाविशेषदर्शनात् पुत्रजन्मज्ञानानुमानमिति चेत् , तर्हि पुत्रस्ते जात इति वाक्यं तत्क्रियाकर्तव्यपरमेवेति कार्यान्वितज्ञानजनकत्वमेव
तस्य प्रथमतो गृह्यते। उत्तरकालं पुत्रजन्मज्ञानानुमानमिति न व्युत्पत्तिः कार्यं जहाति। यत्रापीह सहकारतरौ मधुरं पिको रौतीति प्रसिद्धार्थपदसामानाधिकरण्यादिभिर्व्युत्पत्तिस्तत्रापि
व्यवहाराधीनव्युत्पत्तिपूÐवका कार्यान्वित एव युक्ता पिकपदशक्तिः । पूर्वं नावधृतेति चेत् , न । तत्र पिकमानयेत्यादौ कस्यचित् कार्यान्वित एव व्युत्पत्तेः।
उपजीव्यजातीयतया च तस्या बलवत्त्वम् । किञ्चेदमपि कार्यान्वितज्ञानशक्तम् । पदत्वादिति सामान्यतोऽवगतम्। स्वार्थविशेषः परं नाधिगतः। स इदानीं सुहृदुपदेशादिभिरवगम्यते।
अतः सिद्धं प्रवृत्तिपराणां शब्दानां प्रवर्तकज्ञानजनकत्वम् । तच्च क्वचित् साक्षात् कार्यान्वयात् क्वचित् परम्परया कार्यान्वयात् । अत एव विधिशेषभूतार्थवादानां
स्वर्गादिपदशक्तिग्राहकाणाञ्च प्रवृत्तिपरत्वेन परम्परया कार्यान्वयात् कार्यान्वितस्वार्थबोधकत्वमिति । यत्र पुराणभारतादिपाठे फलश्रुतिरस्ति तत्रार्थवादकल्पितविधिशेषीभूतत्वेन
प्रवृत्तिपरत्वमेव तेषामतिपरम्परया कार्यान्वयात् कार्यान्वितस्वार्थवोधकत्वम् , स्वरूपाख्यानपराणान्तु काव्यनाटकादीनां पदार्थासंसर्गग्रहेण संसर्गव्यवहारो न संसर्गाग्रह
इति ।

। इति कार्यान्वितशक्तिवादपूर्वपक्षः ।
अथ कार्यान्वितशक्तिवादसिद्धान्तः

अत्रोच्यते।घटमानयेति वाक्यश्रवणानन्तरं प्रयोज्यस्य घटानयनगोचरप्रवृत्त्या घटानयनकार्यताज्ञानमनुमितं बालेन न तु कार्यान्वितज्ञानम् । प्रवृत्तिविशेषे
तस्याहेतुत्वाद्घटादिपदशक्तिग्रहे तस्यानुपयोगाच्च । तत्र तज्ज्ञानविशेषे घटामानयेतिवाक्यविशेषस्यानाकलितपदविभागस्य हेतुत्वमवधार्य घटपदद्वितीयाधातुविधिप्रत्ययानां
प्रत्येकमावापोद्वारेण घटकर्मत्वानयन-कार्यत्वज्ञानेषु प्रत्येकं कारणत्वमवगम्य शकिं्त कल्पयति । पश्चात् प्रवृत्तिसामान्येनानुमितकार्यान्वितज्ञाने वाक्यमात्रस्यान्यलभ्यत्वेन
कार्यांशमपहायान्वितज्ञानमात्रे शकिं्त कल्पयति । न तु प्रथमं वाक्यमात्रस्य कार्यान्वितज्ञानमात्रहेतुत्वकल्पनम्।

अथ घटानयनक्रियायाः प्रथमं क्रियात्वज्ञानात् प्रवृत्तिमात्रानुमानम् । तेन च कार्यान्वितज्ञानमनुमाय तत्र वाक्यमात्रस्य हेतुत्वं कल्पयित्वा शकिं्त कल्पयति।
तदुत्तरं विशेषयोः कार्यकारणभावधीरिति चेत् , न। प्रथमं प्रवृत्तिमात्रकार्यान्वितज्ञानमात्रयोरनुमानम् बालस्य क्रमशो भवतीत्यत्र मानाभावात् । घटादिपदशक्तिग्रहस्यतेन

140

विनापि सम्भवात् । न च तदनुमानसामग्री तदावृत्तेति वाच्यम्। तदा व्याप्त्यादिस्मृतौ मानाभावात् । सामान्ययोः कार्यकारणभावग्रहो विशेषयोस्तथात्वग्रहे हेतुरिति चेत्,
न। विशेषयोरन्वयव्यतिरेकाभ्यामेव तद्ग्रहात् । यथा धूमवह्निविशेषयोः कार्यकारणभावग्रहे तत्सामान्ययोरपि हेतुःहेतुमद्भावो भासते। अन्यथा न सकृद्दर्शमगम्या
व्याप्तिः स्यात् तथात्रापि विशेषयोः कार्यकारणभाववित्तिवेद्य एव सामान्ययोस्तथाभाव इति चेत् , न। प्रत्यक्षेण विशेषग्रहे योग्यत्वात् सामान्यमपि भासते । प्रकृते च
कार्यविशेषेण कारणविशेषानुमितौ न सामान्यमिति न युगपदुपस्थितिः। अथ विशेषयोः कार्यकारणभावात् सामान्ययोरपि तथात्वमनुमापयतीति चेत् , तर्हि विशेषयोः
कार्यकारणभावावगमः प्राथमिक इति तन्मूलकः प्रथमं पदविशेषे शक्तिग्रह एव स्यात् । निष्प्रयोजनकत्वेनान्तरानुमितौ मानाभावात् । यच्चोक्तम् प्रवृत्तिकारणतयोपस्थितं
कार्यान्वितज्ञानमपहायान्वितज्ञानं कल्पयित्वा तत्र शक्तिकल्पनमयुक्तम्। उभयथा गौरवादिति ।  तन्न  । कार्यान्वितज्ञानेऽन्वितज्ञानेऽन्वितज्ञानत्वस्य सत्त्वात् तद्विशेषत्वात्
तस्य। अतस्तत्रैव शक्तिग्रहो न कार्यत्वांशेऽपि । अत एव घटवद्भूतलज्ञाने भूतलज्ञानत्वमपीति तद्भिन्नं तज्ज्ञानमभावव्यवहारे कारणं त्वयापि स्वीकृतम् । अस्त्येवम् ।
किन्तु तदुपस्थितावप्यन्वितज्ञानत्वं न विषय इति तस्यैवोपस्थित्यन्तरं कल्प्यमिति चेत् , न । कार्यान्वितज्ञाने अन्वितज्ञानं विशेष्यमिति तदुपस्थितौ तस्यापि
विषयत्वात्। विशिष्टज्ञानसामग्रीतो विशेष्यभानावश्यम्भावात् । अन्यथा अन्यज्जातिज्ञानं अन्यच्च जातिविशिष्टज्ञानमिति व्यक्तिज्ञानमपहाय जातिज्ञानं क्वापि नोपस्थितमिति
न तव जातिरेव पदार्थः स्यात् । जातेः केवलोपस्थितौ च व्यक्तिसमानसंवित्संवेद्यत्वं न स्यात् ।

अथ जातिविशिष्टज्ञानोपस्थितेर्व्यक्तिज्ञानविषयत्वेऽपि गौरवाद्व्यक्तेन्यलभ्यत्वाच्च जातिविशिष्टज्ञानत्वं न शक्यतावच्छेदकम् । किन्तु जातिज्ञानत्वं लाघवादिति
मतम् , तर्हि तुल्यम् । न च युगपदुपस्थितौ लाघवावतारः। चात्र युगपदुपस्थितिरिति वाच्यम्। विशिष्टज्ञानस्य विशेष्यविषयत्वनियमात् । किञ्च ममेदं कार्यमिति ज्ञानं
साक्षादुपपादकम् । प्रवृत्त्या स्वकारणत्वेनानुमितमतम् । अतस्तत्र शकिं्त गृहीयात् , साक्षादुपपादकविषयत्वात् कल्पनायाः । न त्विदं कार्यमिति ज्ञाने । तस्य
साक्षादुपपादकोपपादकत्वात् ।

अथेदं कार्यमितिज्ञाने शक्त्यैव परम्परयानुमानद्वारा ममेदं कार्यमिति ज्ञानसम्भवात् अन्यलभ्यत्वेन न शक्तिकल्पना, तर्हि इतरान्वितज्ञानशक्त्यैव
कार्यवाचकपदसमभिव्याहारेणैव कार्यान्वितज्ञानसम्भवात् अन्यलभ्यत्वेन न तत्र शक्तिकल्पनमिति तुल्यम् ।

नन्विदं कार्यमिति ज्ञानं साक्षादेव प्रवर्तकम् । कर्र्तव्यताप्रयोजकयावदेकविशेषणस्य स्वगतत्वप्रतिसन्धानं सहकारि । तेन नातिप्रसङ्गः । न च सहकारिविलम्बेन
कार्यानुत्पादे साक्षात् साधनत्वं निवर्तत इति चेत् , न। लाघवेन ममेदं कार्य्यमिति ज्ञानादेव प्रवृत्तेः । यथा च भविष्यद्विषया कार्यतानुमितिस्तथोक्तमधस्तात् । अपि च
यादृशस्य पुरुषस्याविगीतकृतिसाध्यमिदं तादृशोऽहमिति धीर्न प्रवृत्तिहेतुः कृतक्रियमाणविषयककृतिसाध्यताज्ञानस्य सिद्धविषयस्यासिद्धविषयेच्छानुत्पादकत्वात् । इच्छायाः
स्वप्रकारकधीसाध्यत्वेन कृत्या साध्यामीतीच्छायाः स्वकृत्यनन्तरभविष्यत्तारूपकृतिसाध्यताधीजन्यत्वाच्च । अपि चास्तु प्रथमं कार्यान्वितज्ञाने वाक्यस्य साक्षात्कारणताबोधात्तत्र
शक्तिग्रहः। तथापि पश्चादावापोद्धारेण पदविशेषस्येतरान्वितस्वार्थज्ञाने शकिं्त कल्पयति लाघवात् । न तु कार्यत्वांशे ऽपि गौरवात् अन्यलभ्यत्वाच्च । न चैवं
प्रथमप्रवृत्तस्य साक्षात्कारणताबोधस्य तन्मूलककार्यान्वितशक्तिग्रहस्य च बाधा स्यादिति वाच्यम्। इष्टत्वात् । अन्यथासिद्धिमपश्यतो हि बालस्य स भूत इति तस्या
बलवत्त्वात् गौरवान्यलभ्यत्वतर्क-सहकृतप्रमाणजन्यत्वेनोत्तरस्य बलवत्त्वात् । न चोपजीव्यबाधान्न तथा प्रत्येतीति वाच्यम् । उपजीव्यत्वे मानाभवात् । दैवाद्धि प्रथमं
तद्वृत्तं न तु पदविशेषशक्तिग्रहे तस्य हेतुत्वम् । तेन विनापि तत्सम्भवात् । न च प्राथमिकत्वेन बलवत्त्वं , व्यभिचारात् । नापि सर्र्वैेः प्रथमं प्रतीयमानत्वेन बलवत्त्वम्।
सर्वेषां शरीराहम्प्रत्यये चन्द्रतारकादिपरिमाणस्य सर्वैरल्पत्वग्रहे च व्यभिचारात् ।  अत एवपूर्वकल्पनातः कल्पनान्तरप्रसङ्गः स्यादिति निरस्तम् । यत्रानन्यथासिद्धतयोपजीव्यतया
वा बलवत्त्वं पूर्वकल्पनायास्तत्र तथात्वात् । किञ्च प्रथमं कार्यान्वितज्ञाने वाक्यस्य साक्षात्परम्परोदासीनं कारणत्वमात्रं गृह्यते, न तु विशेषोऽपि।
उपायस्यान्वयव्यतिरेकादेरुभयविशेषसाधारणत्वेन तत्संशायकत्वात् । उत्सर्गोऽपि बाधकाभावनिश्चयसहकृतो निश्चायकः। न चान्यलभ्यत्वस्य बाधकस्याभावमापाततः
स्वतो दर्शनमात्रेण बालो निश्चेतुमर्हति । अत एव प्रामाण्यस्यौत्सर्गिकत्वेऽपि बाधकाभावसहकृतनिश्चयादेव निश्चयः। अन्यथा प्रमाऽप्रमा वा साक्षात्परम्परासाधनं वेति
संशयः क्वापि न स्यात् ।

यच्च हर्षहेतूनां बहूनां सम्भवादित्यादि ।तन्न  । स्वतोगृहीतहर्षहेतुस्तनपानादेर्बाधावतारादन्यस्य हर्षहेतोरग्रहादुपस्थितत्वादुपपादकत्वाच्च पुत्रजन्मज्ञानस्यैव
हर्षहेतुत्वेन कल्पनात् । अन्यप्रियज्ञानं हर्षकारणं भविष्यतीति शङ्कायां कथमेवमिति चेत् , न । एवं हि कार्यान्वितज्ञानेऽपि शक्तिर्न गृह्येत । प्रयोज्यज्ञानहेतूनां
बहुत्वादनन्यथासिद्धशब्दानुविधानस्य च तुल्यत्वात् । अन्यप्रियस्याज्ञानाच्च । ज्ञानेऽपि वा तदा तदुपस्थितिनियमे मानाभावात् सन्देहाभावोपपत्तेः।
लिङ्गाभासजन्यकाकतालीयसम्पन्नसंवादानुमितिवद्धर्षेण लिङ्गेन पुत्रजन्मज्ञानानुमानसम्भवाच्च । न चाभासजत्वेनानुमितेर्भ्रमत्वे तद्धेतुकशक्तिग्रहो भ्रमः । विषयस्य
तथाभावेन तयोर्यथार्थत्वात् । यथा कश्चित् सूत्रसञ्चाराधिष्ठितं दारुपुत्रकं घटमानयेति नियुङक्ते, स च तमानयति तदा चेतनव्यवहारादिव तद्दर्शी बालो व्युत्पद्यते। इयं
क्रिया कृतिजन्या । सा ज्ञानजन्या । तत् वाक्यजन्यमित्यनुमितिपरम्पराया भ्रमत्वेऽपि तद्धेतुशक्तिग्रहः तज्जन्यशाब्दबोधश्च यथार्थं एव । विषयस्य तथाभावादिति सिद्धं
सिद्धार्थेऽपि शक्तिग्रह इति । अत एव

"यन्न दुःखेन सम्भिन्नं न च ग्रस्तमनन्तरम् ।
अभिलाषोपनीतञ्च तत् सुखं स्वःपदास्पदम्॥

इत्यर्थवादोपस्थिते सुखे वेदादेव स्वर्गपदस्य शक्तिग्रहः । न तु चन्दनादौ सुखोपरागेण स्वर्गपदप्रयोगाद्धेयतादशायाञ्च प्रयोगात् सुखमेव शक्यम् । बहुवित्तव्ययायाससाध्ये
तत्तत्कर्मणि सुखमात्रार्थो न प्रवर्र्तत इत्यर्थवादोपस्थिते स्वर्गपदतात्पर्यम्। न चार्थवादस्योपजीव्यत्वात् तदुपनीते तत एव शक्तिग्रहः , तस्य स्वर्गपदतात्पर्यविषयत्वेनास्पदत्वोपपत्तेर्न
वाच्यत्वाभिधायकत्वं गौरवात् । सुखमात्रे चाप्रयोगात् अतिशयितसुखत्वं वाच्यम्। प्रयोगोपाधिर्व्वातिशयः । न चातिशयस्य सावधित्वेन चन्दनसुखेऽस्मादयं स्वर्ग इति  धीः
स्यात् । रसादाविवातिशयस्य जातित्वेनावध्यनिरूप्यत्वात् । अतिशयपदप्रयोगस्तु इतरज्ञानापेक्ष इति चेत् , न। विचित्रहेतुसाध्यतया विलक्षणातिशयस्यानेकत्वेनाननुगमात्।
सुखत्वावान्तरातिशयत्वेनास्यानुगमेऽप्यनध्यवसायेन शक्त्यग्रहादप्रवृत्त्यापत्तेः। सुखत्वावान्तरजातेश्च सुखमात्रसाधारणत्वात् प्रयोगोपाधेर्निराकर्र्तव्यत्वात् । लोके च  लक्षणा।
ननु दुःखासम्भिन्नसुखस्य शक्यत्वे चन्दनादौ स्वर्गपदप्रयोगो लक्षणयापि न स्यात् । सातिशयसुखस्य शक्यत्वे तत्सम्बन्धितया चन्दनादौ लक्षणा भवति । तस्मात्

141

दुःखसम्भिन्नत्वादिनोपलक्षिता सुखत्वावान्तरजातिरेव वाच्या, लाघवादिति चेत् , न। एकजातीयहेतुसाध्ये एकजातिसत्त्वेऽपि विलक्षणहेतुसाध्यस्वर्गेष्वेकजातौ मानाभावात्।
विहितकर्मजन्यता च तत्तद्विशेषत्वेनैव । अननुगतस्यापि जन्यतावच्छेदकत्वात् । सम्बन्धमात्रञ्च लक्षणावीजमिति वक्ष्यते ।

एवं देवतायामपि इन्द्रमुपासीतेत्यादौ लोके प्रयोगस्यानियमात् गौणतयैव व्यवहाराच्चार्थानध्यवसायेऽलौकिकसहस्राक्षादाविन्द्रादिपदशक्तिग्रहः । प्रमाणञ्च इन्द्रःसहस्राक्ष
इत्यादिÐवधिसमभिव्याहृतोऽर्थवाद एव, स्वर्गपदवत् ।

अथ स्वर्गपदे प्रवृत्त्यन्यथानुपपत्त्या तत्सुखं स्वःपदास्पदमितिश्रुतेश्चार्थवादादेव शक्तिग्रहः । न चेह तथार्थवादः। किन्तु इन्द्रः सहस्राक्ष इत्यादिस्तावकत्वेन
प्रवृत्तिपरमिति चेत् , न। इन्द्रःसहस्राक्ष इत्यादिप्रसिद्धपदसामानाधिकरण्यश्रुतौ बाधकं विना सहस्राक्षस्यैवेन्द्रादिपदवाच्यत्वावधारणात् । प्रसिद्धपदसमन्वयबलेन
प्रतीयमानमर्थमबाधितमादायैव तेषां प्रवर्तकत्वात् । मन्त्रप्रकाशितशशिशेखराद्युपेतमुद्दिश्य हविस्त्यागेन तत्रैव याज्ञिकानां देवताव्यवहारात् । अपि च शिवाय गां
दद्यादित्यादिना देवतासम्प्रदानत्वश्रुतेः शिवादिसहस्रनाम्नां पर्यायत्वेन श्रुतेर्महाजनपरिग्रहेण प्रमाणत्वादाराधितदेवतायां वरदातृत्वश्रुतेश्च बाधकं विना चेतनैव देवता । अत्र
देवताचैतन्यपक्षे तत्प्रीतिरेव यागव्यापार इति नापूर्वसिद्धिरिति चेत् , न । प्रीतेः सुखस्य तदनुभवस्य चाशुतरविनाशित्वात् तज्जन्यसंस्कारस्य स्वविषये फलाहेतुत्वात्
फलहेतुस्थायिकृतिव्यापारापेक्षायां लाघवेन कृतिसमानाश्रयस्यैव व्यापारत्वकल्पनात् । नानायागेष्वेकदाहृने चैकदा सन्निधानं तद्बुद्धिविशेष एव, प्रतिष्ठाविधिना प्रतिमादावहङ्कारवत्।
अथ राजसूयादिफलत्वेन श्रुतेरिन्द्रादिश्चेतन एव। देवतात्वन्तु तस्य नास्ति मानाभावात् । किन्तु देशनादेशितचतुर्थ्यन्तपदनिर्देश्यत्वं देवतात्वमितीन्द्रायेत्यादिपदमेव
देवता । अत एवाग्निप्रकाशकमन्त्रेणाग्निप्रकाशनानन्तरं अग्नय इति नियमतो हविस्त्यागो न पर्यायान्तरेण । न चेन्द्रोद्देशेन हविस्त्याग इन्द्रनिष्ठकिञ्चिज्जनकः।
तत्स्वरूपाजनकत्वे सति तदुद्देशेन क्रियमाणत्वात् , ब्राह्मणाय दानवदिति वाच्यम् । अप्रयोजकत्वात् । तदर्थत्वेन क्रियमाणत्वस्योपाधित्वाच्च । इन्द्राय स्वाहेत्यत्र न तादर्थ्ये
चतुर्थो, किन्तु स्वाहादिपदयोगे उपपदविभक्तिरेव। अन्यथा "नमःस्वस्ति-स्वाहे"त्यादिसूत्रवैयर्थ्यात् । मैवम् । चतुर्थ्यन्तपदस्य देवतात्वे मानाभावात् । चतुर्थीं विनापि इन्द्रो
देवतेति व्यवहारात् । अग्नये कव्यवाहनायेत्यादौ देवताद्वयप्रसङ्गात् इन्द्रः। सहस्राक्ष इत्यर्थवादस्य इन्द्रमुपासीतेत्यादिविधिसमभिव्याहारेण एकवाक्यतया तस्यैवोपास्यात्वात्।
शिवस्वन्नाददीतेत्यत्र महादेवमुद्दिश्य त्यक्तेऽपि शिष्टानां शिवस्वत्वेन व्यवहाराच्च । अग्नय इति पदेन नियमतस्त्यागश्रुतिबोधितत्वेन तथा त्यागस्य फलहेतुत्वात् । न च
बीजाक्षराणां। देवतात्वात् तत्रैव शिवादिपदशक्तिग्रह इति वाच्यम्। बीजाक्षराणां चतुर्थ्यन्तत्वानियमात् । तदप्रतीतावपि मन्त्रप्रकाशितशशिशेखराद्युपेतमुद्दिश्य हविस्त्यागेन
तत्रैव याज्ञिकानां व्यवहारः। बीजाक्षराणां हविस्त्यागभागित्वेनानुद्देश्यत्वात् । शिवस्य प्रतिमन्त्रं बीजाक्षराणां नानात्वात् अननुगमेन शिवपदशक्तिग्रहस्याशक्यत्वाच्च । न
च मूर्तिभेदेन शिवशरीराणमननुगतत्वेन तवापि न शक्तिग्रह इति वाच्यम् । बाल्यादिना भिन्नशरीरेषु चैत्रत्ववच्छिवत्वजातेरदृष्टविशेषोपगृहीतत्वस्य वानुगतत्वात्।
अदृष्टशून्यस्य चेश्वरस्य न देवतात्वम् । ईशानश्च तद्भिन्न एव । तस्मान्मन्त्रकरणकहविस्त्यागर्भगित्वेनोद्देश्यत्वं देवतात्वम् , अन्येषां हविः सम्बन्धे मन्त्रस्याहेतुत्वादिति।
क्वचिच्च वाक्यशेषाच्छक्तिग्रहः । यथा यवमयश्चरुर्भवति वाराही चोपानत् वैतसे कटे प्राजापत्यं चरुं चिनोतीत्यत्र यव-वराह-वेतसशब्दाः किं कङ्गु-वायसजम्बूनां वाचकाः, उत दीर्घशूक-सूकर-वञ्जुलानामिति म्लेच्छार्यव्यवहारदर्शनाद्विप्रतिपत्तौ मुख्यार्थानध्यवसायात् तत्पदे प्रामाण्यनिश्चये व्यवहाराद्व्युुत्पत्तिः  । स
चाविशिष्टः पिकादिपदेषु म्लेच्छव्यवहाराद्व्युत्पत्तेः सूकरस्येव चर्मणा काकस्याप्युपानहाः सम्भवादिति पूर्वपक्षे वसन्ते सर्वसस्यानां जायते पत्रशातनम् । मोदनमानाः
प्रहश्यन्ते यवाः कणिशशलिनः ॥ वराहं गावोऽनुधावन्ति । अम्बुजो वेतसः । इति वाक्यशेषरूपवेदविरोधिनी म्लेच्छप्रसिद्धिः स्मृतिरिव वेदविरुद्धा हेयेति निरस्तायां
म्लेच्छप्रसिद्धौ निष्प्रतिपक्षार्यव्यवहाराच्छक्तिग्रहः ।

ननु वाक्यशेषात् शूकरादिषु तात्पर्यनिश्चयो न शक्तिनिर्णयकः। काकादिसदृशतया शूकरादौ प्रयोगस्य गौण्यादिनापि सम्भवादिति चेत् , न। शूकरादौ
तात्पर्यवच्छक्तेरपि निश्चयात् । तथाहि यद्यप्यनादिप्रयोगयोगिता न शक्तिनियता वैदिकगौण्यादिना व्यभिचारात् , तथापि शक्तिरनादिप्रयोगनियता। अतो वराहशब्दस्यानादिप्रयोगयोगिता।
शक्तिश्च काके कल्प्येति गौरवम्। शूकरत्वेऽनादिवेदसम्बन्धात् प्रयोगोऽनादिसिद्ध एव। शक्तिमात्रं कल्प्यत इति लाघवमित्यनादितात्पर्यात् शूकरे शक्तिरेव । अथ काकवत्
शूकरोऽप्यसदृश एव । सुसदृशस्य गवयादेः सत्त्वात् कथञ्चित् सादृश्यं काकस्याप्यस्तीति चेत् , न। काकशूकरयोर्वराहशब्दाद्बुद्धिस्थत्वेऽनयोः को वाच्य इति
जिज्ञासानुरोधात् तयोरन्यान्यापेक्षया गोसादृश्यमुद्भूतं जिज्ञासमानस्य स्मृतिविषय इति तन्निरासात्। अन्यथा तात्पर्यग्राहकवाक्यशेषस्यापि निष्प्रयोजनत्वं स्यात् ।
कथञ्चित् सादृश्यस्य सर्वत्र सत्त्वेन तात्पर्यानध्यवसायादिति । इतरान्विते शक्तिरित्यपि गुडजिह्निका ।

वस्तुतोऽन्वयेऽपि न शक्तिः। ननु व्यवहारेणानुमिते इतरान्वितज्ञाने पदशक्यत्वग्रहात् तत्रैव शकिं्त गृह्याति उपस्थितत्वात् । न चाग्रे तत्त्यागो हेत्वभावात् । न तु
पदार्थज्ञानमात्रे, व्यवहारात् तस्यानुपस्थितेः। उपायान्तरात्तदुपस्थित्यन्तरकल्पने मानाभावात्। अत इतरान्वितस्वार्थज्ञानशक्तत्वेन ज्ञातपदं स्वार्थान्वयानुभावकम् इत्यन्विताभिधानमिति
चेत् , न। इतरान्वितपदार्थज्ञानोपस्थितौ पदार्थज्ञानं विशेष्यमिति तदुपस्थितौ तस्यापि विषयत्वात्। विशिष्टज्ञानस्य विशेष्यविषयत्वनियमादिति तत्रैव शकिं्त कल्पयति
लाघवात् । न त्वन्वयांशेऽपि, गौरवात् । अस्तु वा प्रथममितरान्वितज्ञाने शक्तिग्रहेऽग्रे तत्त्यागः अन्यलभ्यत्वप्रतिसन्धानात् । अनन्यलभ्यस्यैव शब्दार्थत्वात् ।
प्रथमगृहीतमात्रञ्च न बलमित्युक्तमेव । तस्मात् सर्वैः प्रथमव्यवहारादुपस्थिते कार्यान्वितज्ञानेऽन्वितज्ञाने वा पदकारणत्वग्रहात्तत्र शक्तिग्रहः अग्रेऽपि गौरवान्यलभ्यत्वप्रतिसन्धानेऽपि
न तत्त्यागः पूर्वकल्पनाया विपरीतत्वादिति स्वशिष्यव्यामोहनम्। अथ कार्यत्वस्येतरपदलभ्यत्वेन तथा न त्वेवमन्वये । तस्येतरपदाशक्यत्वात्। शक्यत्वे वा अविवादादिति
चेत् , न । घटशक्तत्वेन ज्ञातं पदं स्वार्थस्मरणद्वारा आकाङ्क्षाादिसहकारिवशात् समभिव्याहृतपदार्थेन सह स्वार्थस्यान्वयमनुभावयति स्वभावादित्यन्यथैवान्वयज्ञानलाभात्
किं शक्त्या । अन्वयमात्रशक्तावप्यन्वयविशेषज्ञानार्थमाकाङ्क्षादेरवश्यापेक्षणात् । क्रियाकारकपदयोः प्रत्येकमितरान्वितस्वार्थबोधकत्वे वाक्यार्थद्वयधीप्रसङ्गात् । न
चैकमेवान्विताभिधायकमितरत्तु प्रतियोगिस्मारकमिति वाच्यम्। अविशेषात्। शक्यानुभवेऽतिप्रसङ्गात् । अन्वयेऽपि शक्तिरिति चेत् , न । अशक्यमपि हि शक्यान्वयं
बोधयति नान्यत् । शक्यान्वयत्वस्य स्वरूपतो नियमाकत्वात् । अन्यथा तवाप्यप्रतीकारात् ।

नन्वेवं पदानामन्वितज्ञानजनकत्वात् तत्र शक्तिरसत्येव। अशक्तस्याजनकत्वात्। तवापि पदादन्वयबोध इतीश्वरेच्छासत्त्वादिति। सत्यम्। किन्तु अन्वयबोधे
स्वरूपसती सा व्याप्रियते । न तु ज्ञाता । घटज्ञानशक्तत्वेन ज्ञानादेव घटान्वयबोधोपपत्तेः। यथा तव जातिशक्तपदस्य आत्मव्यक्तिज्ञाने । दृष्टञ्च ज्ञातकरणे
सामान्यसम्बन्धितया ज्ञातस्यापि विशेषबुद्ध्युपायत्वम्। यथा वह्निसामान्यव्याप्ततया गृहीतधूमस्य वह्निविशेषबुद्धिजनकत्वम् । अथ घटज्ञानत्वम्। इतरान्वितघटज्ञानेऽप्यस्तीति

142

तेन रूपेणान्वितघट ज्ञानेऽपि ज्ञाता शक्तिर्व्याप्रियत इति चेत्, सत्यम् , किन्तु घटज्ञानं शक्यतावच्छेदकम् , न त्वन्वितघटज्ञानत्वम् , गौरवात् अन्यलभ्यत्वाच्च । एवञ्च
जातिवाचकपदस्य व्यक्ताविव एकैव शक्तिरन्वयांशे स्वरूपसती पदार्थांशे ज्ञाता व्याप्रियते । जातिव्यक्त्योः समानसंवित्संवेद्यत्वात् तथा। घटज्ञानादिकन्तु नान्वयविषयतानियतं
स्मरणे व्यभिचारादिति चेत् , घटानुभवविशेषं प्रति घटपदत्वेन कारणता। स च शब्दानुभवोऽन्वयविषयतानियत एव केवलस्य शब्देनाननुभवात् । स्मरणञ्च प्रति पदत्वेन
न जनकता व्यभिचारात् किन्तु सम्बन्धितया ज्ञातत्वेन । स्यादेतत् । अन्वयतात्पर्यकतया तत्प्रतिपादकं पदमित्यविवादम्। तात्पर्यनिर्वाहिका च वृत्तिः सा चेह न गौणी,
न वा लक्षणेति शक्तिसिद्धिः।

अथान्वये लक्षणैव स्वार्थसम्बन्धिनि तात्पर्यात् , पदार्थोपस्थित्यनन्तरं तदन्वयोपपत्तेश्च । न च वृत्तिद्वयस्य विरोधः, अन्वयविशेषणतया पदार्थोपस्थितेः । न च
लाक्षणिकानामननुभावकत्वादन्वयानुभवः कथमिति वाच्यम्। पदार्थस्य स्मरणादन्वये शक्तत्वाच्च पदानां शक्याननुभावकतया सर्वत्र लाक्षणिकस्यैवानुभावकत्वादिति ।
तन्न। वृत्तिर्हि ज्ञातोपयुज्यते , न स्वरूपसत्यतिप्रसङ्गात् । न चेह स्वार्थसम्बन्धितयाऽन्वयः प्रागवगतः । वाक्यार्थस्यापूर्वत्वात् । किञ्च शक्यसम्बन्धितया अन्वये
लक्षणार्थं पदार्थे शक्तिकल्पनम्। तद्वरं लाघवादन्वयेऽपि शक्तिरस्तु । किं वृत्तिद्वयकल्पनया । एवं स्थिते प्रयोगोऽपि अन्वयः पदशक्यः वृत्त्यन्तरं विना पदप्रतिपाद्यत्वात्
पदार्थवदिति ।उच्यते। वृतिं्त विनापि तात्पर्यनिर्वाहात् किं वृत्त्या । पदानामुक्तक्रमेणान्वय बोधजनकत्वसम्भवात्। अन्यथा शक्त्या तात्पर्यनिर्वाहो दृष्ट इति लक्षणोच्छेदः।
अथ शकिं्त विनापि शक्यसम्बन्धात् तन्निर्वाह इति न तत्र शक्तिः , तर्हि वृतिं्त विनापि तन्निर्वाह इति किं वृत्त्या । अत एवानुमानमप्रयोजकम्। अन्यथा
पदप्रतिपाद्यत्वादेव शक्तिसाधने वृत्त्यन्तरोच्छेदः । अत एव धूमोऽस्तीत्यत्र धूमपदस्य वह्निबोधपरत्वेऽपि वह्नौ न लक्षणा शक्त्या धूमोपस्थितौ अनुमानद्वारा तत्प्रतीतिसम्भवात्।
तथा "गच्छ गच्छसि चेत् कान्त पन्थानः सन्तुः ते शिवाः ।

ममापि जन्म तत्रैव भूयाद्यत्र गतो भवान्"॥ इति
वाक्यस्य " "मा गच्छोत्य" "त्र तात्पर्येऽपि न लक्षणा । गमनस्य प्रियामरणहेतुत्वं हि वाक्यार्थः। तेन गमनं मया न कर्तव्यं प्रियामरणहेतुत्वादित्यनुमानादेव गमने
अकर्तव्यताबोधनेन तात्पर्यनिर्वाहात्। यत्र हि मुख्या साक्षात्परम्परया वा न तात्पर्यनिर्वाहः तत्र लक्षणा। ननु घटमानयेत्यत्र प्रत्येकमन्वयविशेषे जिज्ञासा भवति । न च
सामान्यानवगमे विशेषे सा स्यात् , इत्यन्वयसामान्ये शक्तिरेवेति चेत् , न । कारकेण क्रियया च क्रियाकारकसामान्याक्षेपात्तदुपपत्तेः । दृष्टे फलादौ रसविशेषजिज्ञासावत्।
एतेनयदुक्तमन्वितपदार्थे मम त्वेकैव शक्तिस्तव त्वेका पदार्थेऽपरा त्वन्वय इतिनिरस्तम्। अन्वये शक्त्यभावात् । न चैवमन्ययानुभवे पदविनियोगो न स्यादिति वाच्यम्।
अन्वयानुभवार्थमेव पदार्थे पदानां शक्तिकल्पनात् । तस्मात् पदं कारणम्। पदार्थस्मरणं व्यापारः। आकाङ्क्षादिसहकारिवशात् स्मारितार्थान्वयानुभवः फलम्। पदार्थस्मरणं
न व्यवधायकं व्यापारत्वात् । न च स्मरणद्वारा पदार्थ एव करणम् , तस्यानागतत्वादिना स्वस्मरणे अन्वयानुभवे चाजनकत्वात् । तथापि पदार्थस्मरणमेव करणमस्तु
आवश्यकत्वात् । अत एव चिन्तावशोपनीतपदार्थानामन्वयबोधात् काव्यादिरिति चेत् , न । स्मरणस्य निर्व्यापारत्वेनाकरणत्वात्। अनन्यथासिद्धान्वयव्यतिरेकाभ्यां
आकाङ्क्षादिमत्पदस्यान्वयानुभवविशेषे कारणत्वात् । पदार्थोपस्थितेः संसर्गधीमात्रहेतुत्वेऽपि शाब्दसंसर्गधीविशेषे पदस्यैव हेतुत्वात् । गौः कर्मत्वमानयनमित्यत्र पदार्थज्ञानेऽपि
अन्वयज्ञानानुदयात् पदविशेषोपस्थितपदार्थज्ञानस्य हेतुत्वे पदविशेषस्यैवावश्यकत्वेन हेतुत्वाच्च । काव्यस्थले च पदार्थज्ञानव्यापारकं उत्प्रेेक्षादिसहकृतं मन एवान्वयानुभवकरणम्।
न चैवमुत्पेक्षायाः पृथक् प्रमाणत्वम् । व्यभिचारिजातीयतया लिङ्गादाविव प्रमाकरणतावच्छेदकानतिप्रसक्तानुगतरूपाभावान्निर्व्यापारत्वाच्च । किन्तु प्रमाणसहकारिणी
सा। अत एव मानसे लिङ्गपरामर्शे व्याप्तिस्मृत्यादि न पृथक् प्रमाणम्।

अथ पदमन्तरेणापि योग्यतादिज्ञानेऽन्वयबोधो भवति। अतः पदार्थस्मरण एव पदानामुपक्षयः । तदुक्तम् - - पश्यतः श्वेतमारूपं हेषाशब्दञ्च शृण्वतः ।
खुरविक्षेपशब्दञ्च श्वेतोऽश्वो धावतीति धीः॥ इति

चेत् , सत्यम्। प्रयोजकवाक्योच्चारणानन्तरं प्रयोज्यव्यापारदर्शनात् अन्वितज्ञानोपपत्त्यर्थं पदस्यैव शक्तिः कल्प्यते। प्रथमतस्तस्यैव कारणत्वावधारणात् ।
पदार्थेषु शक्त्यन्तरकल्पने गौरवात् । तदाहुः - - प्राथम्यादभिधातृत्वात्तात्पर्योपगमादपि । पदानामेव सा शक्तिर्वरमभ्युपगम्यताम्॥ इति । श्वेतोऽश्वो धावतीति धीश्च
लिङ्गजा पदस्य क्लृप्तकारणभावस्याभावादिति ॥

॥ इति श्रीमद्गङ्गेशोपाध्यायविरचिते तत्त्वचिन्तामणौ शब्दखण्डे कार्यान्वितशक्तिवादः ॥
अथ जातिशक्तिवादः ।

एवं पदार्थमात्रे शक्तौ पदार्थो निरूप्यते ।  तत्र प्राभाकराःयद्यप्यानयनादिव्यवहारादृव्यक्तावेव शक्तिरुचिता तथाप्यानन्त्यव्यभिचाराभ्यां तत्र न शक्तिग्रहः।
समुच्चयेन शक्यत्वे गां दद्यादित्यादौ सर्वोपादानासामर्थ्यम्। एकस्य शक्यत्वेऽनध्यवसायः । न च गोव्यक्तिमात्रमर्थः । मात्रशब्दस्य सर्वार्थत्वे उक्तदोषात् । सामान्यार्थत्वे
व्यक्तेरप्रतीतेः । नानार्थत्वे च सर्वासां प्रत्येकं ज्ञातुमशक्यत्वम् , शक्तौ शक्ये च गौरवम्, अपूर्वगवि व्यवहाराभावश्च । नापि गोत्वेनोपलक्षिता व्यक्तिः शक्या, धेनुपदवत्।
अतो न शक्यानन्त्यम् , न व्यभिचारः , न सर्वासङ्ग्रहः , न नानार्थत्वम् , गोत्वेन तासामैक्यादिति वाच्यम्। रूपान्तरेण विज्ञातमन्येन रूपेण हि उपलक्ष्यते यथा काकेन
गृहविशेषो गोत्वेन धानकर्मव्यक्तिविशेषः स्वतोविलक्षणः। न तु काकाद्याकारेणैव तत्प्रतीतिः । न च व्यक्तीनां जातिं विना रूपान्तरमेकमस्ति ज्ञायते वा ।
गोपादाद्गौरित्येव प्रतीतेः। गोत्वविशिष्टे च कार्यान्वयाद्गोत्वं विशेषणम्, नोपलक्षणम्। तदन्येन कार्यान्वये उपलक्षणम्। यथायं वासस्वी देवदत्तशब्दवाच्य इत्यत्र वासः ।
न च गोत्वैकत्वेन व्यक्तीनामैक्यं क्रियते, अशक्यत्वात् । नापि ज्ञाप्यते , असत्त्वात्। न च तदेकत्वमेव व्यक्तेरेकत्वं, असम्भवात् । नापि व्यक्तिः शक्या गोत्वमवच्छेदकं
कारणत्वे दण्डत्ववत् , एवं हि गोपदात् न गोत्वविशिष्टबुद्धिः स्यात् । शक्तिग्रहाहितसंस्कारयचिवाद्गोपदादेव धेनुपदादिव गोत्वविशिष्टज्ञानम्। तदुद्बोधश्च तद्वदेव ।

143

परम्परासम्बन्धादिति चेत् , न तत्र हि धानकर्मव्यक्तिविशेषस्यावश्यशक्यत्वेऽनुगमाय गोत्वमवच्छेदकमात्रं न तु वैपरीत्यं, गोत्वस्य वृषभेऽपि सत्त्वात्। इह तु
व्यक्तिरतिप्रसक्तेति जातिविशिष्टैव सा शक्या स्यात् ।  वस्तुतस्तु  जातेः शक्योपलक्षणत्वे शक्त्यवच्छेदकत्वे वावश्यकत्वात् लाघवाच्च जातिरेव शक्या स्यात्, न तु
व्यक्तिः । घेनुपदे तु गोत्वं न तथा अतिप्रसङ्गात् । अस्तु तर्हि जातिविशिष्टं शक्यं स्वव्यवहारेण च स्वहेतुतया जातिविशिष्टज्ञानस्यानुमितत्वादिति चेत्, न
विशेष्यभेदाद्विशिष्टानामनन्तत्वेन व्यक्तिवाच्यत्वे उक्तदोषग्रासात् । विशेषणस्यैक्येन विशिष्टानामैक्यस्योपलक्षणपक्षवद्दूष्यत्वात् । तस्माद्व्यक्तेरपदार्थत्वे जातिरेव  पदार्थः ।
वस्तुतस्तुव्यक्तौ जातिरनुगमिका विशेषिका चावश्यं वाच्येति नागृहीतविशेषणन्यायेन सैव वाच्या ।

अथ जातावपि व्यक्तिरेव विशेषः, धर्मान्तराभावात् । गवेतरावृत्तित्वे सति सकलगोवृत्तित्वादेरुपाधेरपि व्यक्तिघटितत्वात्। नागृहीतविशेषणन्यायो व्यक्तावपीत्युभयमपि
वाच्यमिति, न । जातेः स्वत एव व्यावृत्तत्वात् । अन्यथा जाति-व्यक्त्योर्व्यावृत्तत्वज्ञानादन्योन्यव्यावृत्तत्वबुद्धावन्योन्याश्रयः । स्वतोव्यावृत्तत्वञ्च न स्वयमेव स्वव्यावर्तकत्वं
स्वस्मिन् स्वावृत्तेः । नापि व्यावर्तकं विनैव व्यावृत्तत्वं, असम्भवात् । किन्तु स्वाश्रयवत्स्वात्मनि व्यावृत्तधीजनकत्वभावत्वं परेषामन्त्यविशेषक्त्। व्यावर्तकधमेऽपि
धर्मान्तरादेव व्यावृत्रबुद्धावनवस्था स्यात् । तअ एव किञ्चिद्धि वस्तु स्वत एव विलक्षण मित्याहुः। अस्तु वा व्यक्त्या व्यावृत्ततया बोधिता जातिरेव पदार्थो लाघवात् न
तु वैपरीत्यमुभयं वा गौरवात्। कुतस्तर्हि व्यक्तिधीः । जातिशक्तादेव कथमन्यशक्तादन्यधीः । स्वभावात् । तत्स्वभावत्वमेव व्यक्तिशकिं्त विना न निर्वहतीति चेत् , न ।
गोपदं हि नियमतो जातिव्यक्ती बोधयति । तत्रास्य जातिशक्तिधीरेव सहकारिणी कल्प्यते लाघवादावश्यकत्वाच्च । न तु व्यक्तिशक्तिधीरपि, गौरवात् । जातिशक्तिज्ञाने
सति तां विना व्यक्तिबोधे विलम्बाभावात्। यथा तव पदार्थशक्तादेवान्वयधीः । यद्वा जातिशक्तमेव पदं व्यकिं्त बोधयति । अशक्यत्वेऽपि जात्याश्रयत्वमेव नियामकम् यथा
अशक्यमपि स्वार्थान्वयं बोधयति । तत्र प्रयोजकत्वेन क्लृप्ता शक्तिरेवास्तु । जात्याश्रयत्वस्य तथात्वकल्पने गौरवादिति चेत् , न । अन्यलभ्यस्यापदार्थत्वात् । अन्यथा
अन्वयोऽपि शक्यः स्यात्, लक्षणाद्युच्छेदश्च। अथवा जातिशक्तिज्ञानाज्जातिधीर्भवन्ती व्यक्तिमपि गोचरयति । व्यकिं्त विना जातेरभावात् । यो येन विना न भासते
तद्धीहेतुस्तमवबोधयति ,यो येन विना न भासते तद्धीहेतुस्तमवबोधयति । यथा ज्ञानधीहेतुस्तद्विषयम् । यथा वा तवाधिकरणसिद्धान्तो ज्ञानादिनित्यत्वम् । अन्यथा पदं
जातिमपि न बोधयेत्, केवलाया अप्रतीतेः । तथा च जातिशक्तिकल्पनावैयर्थ्यम् । तस्मात् जातिज्ञानार्थं क्लृप्ता शक्तिर्व्यक्तिमपि बोधयति, एकवित्तिवेद्यत्वनियमात् ।
एतेनैकवित्तिवेद्यतैव व्यक्तिशकिं्त विना न स्यात् ज्ञापकाभावात् । न हि व्यक्तिज्ञानमहेतुकं जातिहेतुकं वा , सदातनत्वप्रसङ्गात् । नापि जातिधीहेतुकं , संविद्भेदापत्तेरिति
निरस्तम्। जातिशक्तेरेव व्यक्तिज्ञापकत्वात् ।

ननु जातिं विना प्रत्यक्षादिना व्यक्तिज्ञानादन्यैव व्यक्तिधीसामग्री । जातिविशिष्टज्ञानञ्चोभयज्ञापकसामग्रीद्वयसमाजादार्थम्। अत एव व्यकिं्त विना जातेरस्मरणेन
जातिस्मरणस्य व्यक्तिविषयत्वनियमात् जातिज्ञापकमात्रमेव व्यक्तिज्ञापकं कल्प्यते। सामान्यकल्पनायां बाधकाभावादिति परास्तम्। जातिं विनापि व्यक्तिस्मरणत्तत्रान्यैव
सामग्री। जातिविशिष्टस्मरणञ्चोभयांशस्मारकसमाजादिति ।

अत्र ब्रूमः । जातिव्यक्तिप्रत्यक्षादिबोधे तथैव सामग्रीद्वयस्य पृथगन्वय-व्यतिरेकग्रहात् । शाब्दे तु व्यक्तिबोधे जातिशक्तिज्ञानमेव हेतुर्लाघवात् न सामग्र्यन्तरम् ।
तत्सत्त्वे तेन विना विलम्बाभावात् । एवञ्च जातिशक्तत्वेन ज्ञातं पदं जातिविशिष्टस्य स्मारकमनुभावकञ्च ॥

ननु ज्ञाने शक्तिः शक्यत्वात् । तथा च यस्य ज्ञाने शक्तिस्तच्छक्यम् जातिव्यक्तिज्ञाने च शक्तिरिति जातिवत् व्यक्तिरपि शक्येति चेत्, न। यद्विषयतया हि ज्ञाता
ज्ञाने शक्तिरुपयुज्यते तत् शक्तिज्ञाने विषयतया शक्यतावच्छेदकम्। शक्यं जातिज्ञानञ्च तथेति जातिरेव शक्या न तु व्यक्तिज्ञानत्वमप्यवच्छेदकं गौरवात् । न च
शक्यज्ञाने नियतविषयत्वमेव शक्यत्वम् व्यवहारानुमितशक्यानुभवविषयाणामन्वये तत्सम्बन्धिमितिमातॄृणामपि शक्यतापत्तेः । एवञ्च जातिव्यक्तिज्ञानजनकत्वादुभयत्रापि
शब्दशक्तिः । जात्यंशे सा ज्ञाता व्यक्त्यंशे स्वरूपसतीे हेतुर्लाघवादिति कुब्जशक्तिवादः। एवञ्च सैव तदैव तेनैव ज्ञाता आज्ञाता च वाचिका अवाचिका वेत्यत्र
जातिव्यक्त्यवच्छेदकभेदेनाविरोधः । त्वयाप्यन्वये कुब्जशक्तिस्वीकारात् । व्यक्तेः शक्यत्वेऽपि ज्ञातशक्तिशब्दजनितज्ञानविषयत्वलक्षणं वाच्यत्वं नास्ति। न चैवं परिभाषा।
शब्दजन्यज्ञानविषयत्वेन वाच्यत्वे लाक्षणिकादेरपि वाच्यत्वापत्तेः । व्यक्तेः शक्यत्वेऽपि व्यक्तिशक्तिज्ञानं न कारणम्। व्यक्तिशक्तिज्ञानत्वं नावच्छेदकमिति लाघवम् ।  यत्तु
तच्छक्तत्वेन ज्ञातादेव तदर्थबोधः, शक्तिभ्रमादपि धीदर्शनात् । तथा योग्यताद्यन्वयानुपपत्तौ विना पदादुपस्थितिः शक्तिसाध्येति व्यक्तिरपि शक्येति ।  तन्न। अन्यलभ्ये
शक्तेरकल्पनात् । अन्यथा तवान्वयेऽपि शक्तिर्लक्षणाद्युच्छेदश्च । ननु न जातिरर्थः व्यवहाराभावेन व्युत्पत्तेरसिद्धेः । कारकोपरक्तक्रिया हि व्यवहारगोचरः । जातिश्च न
क्रिया, नित्यत्वात् । कारकं न कर्त्रादि क्रियायास्तत्रासमवायात्, परसमवेतक्रियाफलभागित्वाभावात्, कर्तृव्यापारानाश्रयत्वात्, अचेतनत्वात्, तया सह विभागाभावात्,
क्रियानाधारत्वाच्चेति चेत् , न, व्यक्तिव्यवहारादेव उक्तन्यायेन जातौ शक्तिग्रहात् । जातिसविकल्पकाद्यव्यावृत्ततया ज्ञातायां व्यक्तौ क्रियान्वयः । सविकल्पकञ्चालोचनद्वारा
जातिजन्यमितिपरम्परया जातेरपि कारकत्वेनान्वयः । यद्वा न केवलव्यक्तेः कारकत्वम् । न हि गौर्गच्छतीत्यत्र व्यक्तिमात्रं यातीति कस्यचित्प्रतीतिः । किन्तु
जातिविशिष्टायाः । तथा चोभयमपि कारकम् ।

श्रीकरस्तु केवलजातिव्यक्त्योरकारकत्वात् क्रियान्वयो व्यक्तेराश्रयतया जातेरवच्छेदकतया आरुण्यादिवत् । एवञ्च जातिशक्तपदात् जातेरनुभवः शाब्दः।
व्यक्तेरौपादानिकः अशक्यत्वादिति ।

अन्ये तुजातिशक्तमेव पदं जातिव्यक्तयोः स्मारकमनुभावकञ्चेति व्यक्तेरपि शाब्दत्वम्। न च वृतिं्त विनाऽन्वयानुभवेऽप्रवेशान्न व्यक्तेः शाब्दत्वं, वृतिं्त विनापि
एकवित्तिवेद्यत्वनियमेन जातिशक्तादेव व्यक्तेरनुभवात् । अन्यथा जात्यन्वयोऽपि न स्यात् । व्यकिं्त विना जातेरनुभवात् । अत एव जातिशक्तिरेव व्यकिं्त बोधयतीति
गुरवः। किञ्च शक्त्योेपस्थापितस्यान्वयानुभवं प्रति पदानां कारणत्वम् । अतो जातिवदुपस्थापिताया व्यक्तेरनुभवः पदात् । न तु तत्तच्छक्योपस्थापितस्य, गौरवात् । न
चैवमशक्यपरत्वे लक्षणा। यथा ह्यन्यत एव ज्ञानान्न शक्तिस्तथा लक्षणापि न। तत् किमशक्येऽपि मुख्यः प्रयोगः । सत्यम् । शक्त्या साक्षादुपस्थित एव तस्य मुख्यत्वात्।
स्वशक्येति त्वधिकम्।  वस्तुतस्तुजातिशक्तादेव व्यक्तिधीसम्भवान्न व्यक्तौ शक्तिः। यदि च ततो न तद्धीस्तदा तत्र शक्तिरेव स्यात् । अन्यथा तद्धीर्न स्यादेव । ननु
पदजातिभ्यामप्येको जाति-व्यक्तनुभवः क्रियते , तत्र जात्यंशे पदस्य व्यक्त्यंशे जातेरनुभावकत्वम् अयमेव उपादानार्थ इति चेत् , तर्हि जातेः कारणत्वापेक्षया शक्तिज्ञाने
उपस्थितव्यक्तेरवच्छेदकत्वमात्रकल्पनैव लघीयसी, जातेः प्रमाणान्तरत्वापातश्च । अत एव व्रीहीनवहन्तीत्यत्र व्यक्तौ न लक्षणा। तत्साध्योपस्थितेर्जातिशक्तित एव सिद्धेः।

144

अस्तु वा गवावच्छेदकत्वेनारुण्यादि वद्व्रीहित्वेऽप्यवघातान्वय इति।  अत्रोच्यते  । गोत्वज्ञाने गोज्ञाने वा शक्तं पदमित्याकारः शक्तिग्रहः । तथा च शक्यज्ञाने विषयतया
जातेरवच्छेदकत्वं व्यक्तिमादायैव प्रतीयते, न केवलायाः। व्यकिं्त विना जातेरप्रतीतेः। तथा च जातेरवच्छेदकत्वे नागृहीतविशेषणान्यायेन व्यक्तेरवच्छेदकत्वं वज्रलेपायितमिति
शक्तिज्ञाने विषयतया अवच्छेदकत्वात् जातिवत्सापि शक्या । तस्मात् परिहरैकवित्तिवेद्यत्वनियमं, स्वीकुरु वा व्यक्तेर्वाच्यत्वम्। अपि च यद्धर्मतवत्तया ज्ञात एव यत्र यस्य
ज्ञानं स तत्रावच्छेदकः। व्यक्तिज्ञानत्वेन ज्ञात एव तत्र ज्ञाने शक्तिधीरिति व्यक्तिरपि शक्या। नन्वाद्यव्युत्पत्तौ मितिमातृविषयत्वेन ज्ञात एव ज्ञाने प्रवर्तकत्वं ज्ञातम् । न
च तयोर्ज्ञानं प्रवर्र्तकमतो व्यभिचारः। अन्यथा प्रवर्र्तकत्वेन मितिमातृज्ञानमपि प्रयोज्यस्यानुमाय बालस्तत्रापि शकिं्त गृहीयात् । एवं तवापि कार्यान्वितज्ञान एव शक्तिः
स्यात् । तत्त्वेन ज्ञात एव ज्ञाने शक्तिग्रहादिति चेत्, मितिमातृज्ञानत्वं कार्यन्वितज्ञानत्वञ्च विनापि प्रवृर्तकज्ञाने घटज्ञानत्वदिकं ज्ञातुं शक्यमिति तयोर्नावच्छेदकत्वम्।
किन्तु घटज्ञानत्वादिकमेव लाघवात् तयोरपि तत एव प्राप्तेश्च । किञ्च पदं व्यक्तिज्ञानार्थं शक्यज्ञाने विषयतया व्यक्तेरवच्छेदकत्वमात्रं कल्पयति लाघवात् ।
जातिविषयत्ववद्व्यक्तिविषयत्वस्य ज्ञानवित्तिवेद्यत्वेनावश्यं शीघ्रोपस्थितत्वात्। न तु जातिशक्तिस्तद्बोधे कारणान्तरं वा तदवच्छेदकं गौरवाच्छक्तिग्रहकाले कल्पनीयोपस्थितिकत्वाच्च।
अन्ये तुप्रथमं व्यवहारानुमितव्यक्तिज्ञाने शब्दानुविधानात् पदं शक्तमित्यवधारयति न तु जातिज्ञाने । व्यवहाराजनकत्वेन तदा तस्यानुपस्थितेः । पश्चाद्व्यक्तेर्व्यावृत्त्यर्थं
अनुगमार्थञ्च जातिरपि तद्विषय इति मानान्तरेण ज्ञात्वा जातिज्ञानेऽपि तत्पदस्य कारणतां प्रत्येति । तथा च व्यक्तिशक्तिज्ञानमपि कारणम् न तु जातिशक्तिज्ञानेनान्यथासिद्धिः।
व्यक्तिज्ञानकारणतामुपजीव्य जातिज्ञाने कारणताग्रह इत्युपजीव्यविरोधात् ।  एतेन  जातिरेव शक्या लाघवात्। शक्तिग्रहजन्यसंस्कारस्य व्यक्तिविषयत्वनियमेन पदात्
जातिस्मरणमुत्पाद्यमानमवश्यं व्यक्तिविषयम् । संस्कारस्यानियतोद्बोधकत्वेऽपि जात्यंशोद्बोधकादेव व्यक्त्यंशोद्बोधनियमकल्पना। यथा पदेनोद्बुद्धसंस्कारादेव नियता
शक्तिस्मृतिः पदं विनापि च सर्वा जोतिस्मृतिर्व्यक्तिविषया । अन्यथा केवलजातिमात्रस्मरणापत्तेः । संस्कारसहितात् पदादेव जातिविशिष्टानुभवोऽपीन्द्रियादिव प्रत्यभिज्ञा।
अत एव भाष्यम्, "संस्कारशब्दशक्तिभ्यां विशिष्टानुभव इत्युन्नीतमतमपास्तम्"। उक्तन्यायैर्जातिवद्व्यक्तेरपि शक्यत्वात् । विशिष्टानामानन्त्येऽपि एकत्र विशिष्टे तत्त्वं
विहाय गोत्वमादाय गोत्वविशिष्टं शक्यमिति शक्तिग्रहः । यथा च क्वचिदेव धूमे धूमो वह्निव्याप्य इति बुद्धिः । यथा वा तवैव कार्याणामानन्त्येऽपि क्वचित् कार्ये तत्त्वं
तटस्थीकृत्य कृतिमादाय धÐमणि कार्यं शक्यमिति लिङादेरपूर्वे शक्तिग्रहः। अवच्छेदकैक्याच्छक्तेरेकत्वं तद्धदेव । यथा वा व्यक्तिवाचकपश्वादि पदानाम्। अथवा गोत्वेन
सामान्यलक्षणया ज्ञाते सर्वत्र गवि गोत्वमादाय शक्तिग्रहः। प्रमेयत्वेन च सर्वज्ञाने सार्व्वज्ञमिष्यत एव । नेष्यते तु घटत्वादिसर्वप्रकारज्ञानवत्त्वेन। सर्वैकोदासीनगोः
शक्यत्वात् यत्किञ्चिदेकोपादानेऽपि गोरुपादानादन्योपादाना शक्यत्वं एकोपादानेऽनध्यवसायो वा । अन्यथा तवाप्येकवित्तिवेद्यतया सर्वैकपरत्वे उक्तदोषे का गतिः। का
वा गतिर्व्यक्तिवाचकपश्वादिपदानाम्। भट्टमते तु जातिरेव शक्या लाघवात् । व्यक्तिस्त्वाक्षेपलभ्या । ननु नाक्षेप एकवित्तिवेद्यत्वात्तयोः । समानानां हि भावः सामान्यम्।
तच्च व्यकिं्त विना न भासते इति चेत् , न। स्वरूपेण शक्या जातिः। न च सामान्यत्वं तस्याः स्वरूपम्, तद्धर्मत्वात्। अन्यथा आलोचनेऽपि सा न भासेत । कथं
सामान्यत्वेनाप्रतीता जातिर्व्यक्तितो भिन्नतया शब्देनाभिधातव्येति चेत्, न। शब्देन व्यक्तितो भिन्नतया जातेरबोधनात् । ननु व्यावृत्ता जातिर्वाच्या । व्यावृत्तबुदिं्ध विना
व्यक्तिविशेषानाक्षेपात्। व्यावर्तिका च तत्र व्यक्तिरेव अनुगतत्वमप्यनुगम्यमानं विना न भासत इति जातिवित्तिवेद्यैव व्यक्तिरिति चेत्, न। स्वतो व्यावृत्तजातिस्वरूपस्य
वाच्यत्वात् । व्यक्तेर्धर्मान्तरस्य वा व्यावर्तकत्वेऽन्योन्याश्रयोऽनवस्था वा ।

ननु गौरितिपदात् जातिव्यक्त्योर्युगपत्प्रतीतिः । न च सूक्ष्मकालभेदाग्रहात् सा भ्रान्ता । बाधकाभावात् । तथा च गोपदाद्गोत्वधीस्ततः क्रमेण व्याप्तिपक्षधर्मताज्ञानं
ततो व्यक्त्यनुमितिरिति ज्ञानपरम्पराकल्पनाद्वरं जातिवित्तिवेद्यत्वं व्यक्तेरिति चेत् , न। व्युत्पत्त्यधीनं हि शब्दस्य बोधकत्वम्। अतो व्युत्पत्तिपर्यालोचनया युगपज्ज्ञानमसिद्धम्।
अत एव ज्ञानपरम्पराकल्पनमपि युक्तम्। अन्यथा कर्तुरप्याक्षेपो न स्यात् । शब्दात् सकर्तृकाया एव क्रियाया अवगमात् । न च जातिज्ञानत्वेन व्यक्तिविषयतानिममः।
प्रत्यक्षादौ तस्य व्यक्तिधीहेतुसमाजाधीनत्वात् । अत एव न जातिधीहेतौ व्यक्तिधीहेतुसहकारितानियमः समाजस्यार्थसिद्धत्वात् । गोत्वं गवाविषयप्रतीतिविषयः जातित्वात्
गोभिन्नभावत्वाद्वेति जातिमात्रधीसिद्धेश्च । अथ यत् यत्परतन्त्रं तत् तेनैकवित्तिवेद्यं यथार्थपरतन्त्रं ज्ञानमर्थेन जातिश्च परतन्त्रेति व्यक्तौ भासमानायामेव भासत इति चेत्,
न। परतन्त्रत्वं हि न परसमवेतत्वं गन्धादिना व्यभिचारात् । न तद्धीनिरूप्यत्वं असिद्धेः। नापि तस्मिन् भासमान एव भासमानत्वं साध्याविशेषात् । नापि विशेषणत्वेनैव
ज्ञानं गौरित्येव प्रतीतेः । गवि गोत्वमिति कश्चित् प्रत्येतीति चेत् , न । आलोचने विशेषणत्वं विनापि स्वरूपतः प्रतीतेः । जातिमात्रशक्तात् पदात् जातेः
स्मरणमालोचनमेव जातिविशिष्टगोचरसंस्कारादेव पदेन जात्यंशोब्दोधे सति जातिमात्रस्मरणात् । अत एव ततो जातिं विनापि कदाचित् व्यक्तिस्मृतिः । अस्तु वा
गुरोरिवालोचनमपि संस्कारजनकं शब्दव्युत्पत्तिबलेन जातिमात्रस्मरणसिद्धेः। न च स्मरणस्य विशिष्टज्ञानत्वमेव । अनुभवस्यापि तथात्वेन निर्विकल्पकासिद्धिप्रसङ्गात्।
एकवित्तिवेद्यत्वेऽपि प्रथमदर्शनवत् शब्दाद्गोत्वस्मरणमालोचनमेव । गोत्वे गोव्यक्तिवृत्तित्वादिवैशिष्ट्यस्याशक्यत्वेन तदविषयत्वात् । न चालोचनस्येन्द्रियजन्यत्वात् न
स्मृतित्वम्। ज्ञानत्वसाक्षाद्धाप्यधर्मत्वेन स्मृतित्वस्यालोचनवृत्तित्वात् । नन्वाक्षेपाद्व्यक्तिधीर्न गोत्वेन गोत्वस्य गोत्वविशिष्टाभेदेनाक्षेपाभावादिति चेत् , न ।
विशेषणविशेष्यायोर्भेदेनानुमानाविरोधात् । अत एव गोत्वं व्यक्त्याश्रितं जातित्वादिति पक्षधर्मताबलात् गोत्वाश्रयव्यक्तिसिद्धिः। अर्थापत्तेर्वा र्तसिद्धिः । ननु व्यक्त्या विना
किमनुपपन्नं, व्यकिं्त विनापि गोत्वस्य तद्बुद्धेश्च सिद्धेः कथमर्थापत्तिरिति चेत् , न। व्यापकं विना व्याप्यस्यासिद्धेः ।  उच्यते  । गामनायेत्यतो गोत्वविशिष्टस्य
क्रियान्वयबोधाद्गौरित्याकारकगोविशेष्यकबुद्धिः कारणम्। सा च न शब्दं विना । आक्षेपाद्व्यक्त्याश्रितं गोत्वमिति धीर्न तु गौरिति । न चैवं व्यक्तेः क्रियान्वयोऽपि।
गोत्वाश्रिततया निराकाङ्क्षत्वात् राजपुरुषमानयेत्यत्रेव राज्ञः । अन्वये वा व्यक्तिमानयेति धीः स्यात् , न तु गामिति । किञ्च गोत्वं न व्यक्तिव्याप्यम्। न हि यत्र यदा
वा गोत्वं तत्र तदा व्यक्तिर्यत् सामान्यं सा व्यक्तिरिति वा नियमः । व्यभिचारात् । नापि गोत्वं गवाश्रितं गोत्वादित्यनुमितिः , व्याप्तिग्रहशरीरत्वात् । न च जातित्वं
व्यक्त्याश्रितत्वे लिङ्गम् । जातित्वस्य पदादनुपस्थितेः । तथात्वे वा जातिवित्तिवेद्यैव व्यक्तिः । अपि च लिङ्गं व्याप्यमनुपपन्नं स्वाश्रये व्यापकमुपपादकञ्च बोधयति ।
चेह गोत्वाश्रये व्यक्तिबुद्धिः ।

वयन्तु ब्रूमः- व्यक्तेरपदार्थत्वे विभक्त्यर्थसङ्ख्याकर्मत्वादेर्व्यक्तावनन्वयः स्यात्। सुवभक्तीनां प्रकृत्यर्थान्वितस्वार्थबोधकत्वस्य व्युत्पत्तिसिद्धित्वात् प्रकृतितात्पर्यविषये
तदन्वयव्युत्पत्तौ लक्षणोच्छेदो गौरवञ्च । आख्यातार्थसङ्ख्यापि नानुमितेनान्वेति । किन्तु भावनान्वयिना शुद्धेन प्रथमान्तादुपस्थितेन पदान्तरादुपस्थितिरेव तत्राक्षेपार्थः।
अत एव न व्यक्तेराक्षेपः । किन्तु लक्षणया गोपदाद्गौरिति व्यक्तिधीरिति  मण्डनः। यदाह-" "जातावस्तित्वनास्तित्वे न हि कश्चित् विवक्षति। नित्यत्वोल्लक्ष्यमाणाया
व्यक्तेस्ते हि विशेषणे इति ॥ उच्यते-स्वार्थादन्येन रूपेण ज्ञाते भवति लक्षणा । तीरत्वेन ज्ञाते गङ्गापदस्येव । न चेह गोत्वादन्येन रूपेण व्यक्तेरुपस्थितिः, किन्तु
गोत्वेनैव। व्यक्तित्वेन सास्नादिमत्त्वेन चोपलक्ष्यत्वे गोपादादव्यक्तित्वादिरूपेण धीः स्यान्न तु गौरिति । नापि गोत्वसम्बन्धिनि गोत्वविशिष्टे लक्षणा। गोत्वे हि न
साक्षादानयनाद्यन्वय इति व्यक्त्यवच्छेदकतया तस्यान्वयेऽमुख्यत्वम्। लक्षणयापि गोत्वावच्छिन्नैव व्यक्तिः क्रियान्वयिनी प्रतीयते न केवला व्यक्तिरिति गोत्वविशिष्टस्य

145

लक्ष्यत्वेयुगपद्वृत्तिद्वयविरोधः। गोत्वेऽपि वा लक्षणा । अपि च जातिमात्रे न शक्तिर्न वा व्यक्तौ लक्षणा । जातौ मुख्यप्रयोगाभावात् । तयोस्तन्मूलकत्वात् । प्रयोगो हि
व्यवहारहेतुज्ञानार्थः । न च जातिमात्रनिÐवकल्पकाद्व्यक्तिमनादाय केवलजातौ व्यवहारः । तस्य विशिष्टज्ञानसाध्यत्वात्। गां पश्य गौरस्तीत्यादावपि गोत्वविशिष्टस्यैव
ज्ञानं व्यवहारश्च । तस्मादेकवित्तिवेद्यत्वनियमात् जातिविशिष्टं शक्यम्। यदि च तृतीयायाः करणैकत्व इव गोगोत्वे शक्ये तदा गोत्वं गोव्यक्तिश्चेति धीः स्यात् न तु
गौरिति । वैशिष्ट्यञ्च सम्बन्धो वा ज्ञातो घट इत्यत्रेव विशेषणताविशेषोऽर्थान्तरं वेत्यन्यदेतत् । जातिविशेषवदवयवसंयोगरूपाकृतिरपि पदशक्या गोपदात्
जात्याकृतिविशिष्टस्यैवानुभवात् । पिष्टकमय्यो गाव इत्यादौ गवकृतिसदृशाकृतौ लक्षणा पिष्टकसंयोगविशेषस्याशक्यत्वात् । जात्याकृतिव्यक्तीनां प्रत्येकमात्रपरत्वे
लक्षणैव । प्रत्येकस्य जात्याकृतिविशिष्टादन्यत्वात्। यथा गुरूणां कार्यशक्ताया लिङो लोके कार्यत्वपरत्वे । अत एव "व्यक्त्याकृतिजातयस्तु पदार्थ" इति पारमर्षसूत्रम्।
एकयैव शक्त्या एकवित्तिवेद्यत्वसूचनाय पदार्थ इत्येकवचनम् । एवं पद्मं पङ्कजपदशक्यम् ततो नियमतः पङ्कजनिकर्तृपद्ममिति प्रतीतेः । अवयवानां तत्रासामर्थ्यात्
रूढिं विना योगमात्रात् कुमुदे प्रयोगधीप्रसङ्गाच्च ननु रूढावपि योगात् कुमुदे तौ कुतो न स्याताम् । रूढ्या प्रतिबन्धादिति प्राञ्चः वयन्तुनियमतो रूढ्या स्मृतं पद्ममेव
व्यक्तिवाचकडप्रत्ययेन पङ्कजनिकर्तृतयानुभाव्यते, बाधकं विना व्यक्तिवचनानां सन्निहितविशेषपरत्वनियमात् । यथाग्नेयीति ढगन्तपदेन प्रकरणादिना सन्निहिता ढगभिहिता
ऋग्व्यक्तिर्बोध्यते। एवञ्च सर्वत्र पद्मानुभवसामग्रयेवेति न कुमुदे धीर्न वा तदर्थप्रयोगः । नन्वेवं रूढिरेवास्तु तत एवोभयलाभात् किं योगरूढ्या । न। अवायवशक्तेः
क्लृप्तत्वात् यौगिकार्थानुभवाच्च। यदि च रूढ्यर्थ एव यैगिकार्थ एव वानुभूयेत, तदा विवाद एव न स्यात्, अनुभवेनैव तद्विच्छेदात् ।
अत्र मीमांसकाः- न तावत् स्मृत्यर्थं शक्तिः। पङ्कजपदप्रयोगविषये नियतपद्मानुभवजनितसंस्कारात् स्मृतेरेवोपपत्तेः, स्मृतेस्तज्जन्यत्वनियमात् । नाप्यनुभवार्थं,
नियमतः स्मृतं पद्ममादाय व्यक्तिवचनन्यायेनावयवैः पङ्कजनिकर्तृ पद्ममित्यनुभवसम्भवात्। स्मृतिश्च रूढ्या अन्यथा वेति न कश्चिद्विशेषः । शकिं्त विना नियमतः
प्रयोग एव कुत इति चेत्, न । पूर्वप्रयोगमपेक्ष्य अवयवानामुक्तन्यायेन पद्मानुभवजनकत्वनियमात् । पूर्वप्रयोगोऽपि तत्पूर्वप्रयोगमपेक्ष्येत्यनादितैव। अथानियतोब्दोधस्य
संस्कारस्य शकिं्त विना नियतोब्दोधे हेत्वभावात् नियता स्मृतिरेव न स्यादिति इति चेत्, न। कदाचिच्छक्तितोऽपि उद्बोधा भावेन शक्यास्मरणात् शकिं्त विनापि नियमतः
शक्तिस्मरणाच्च। उद्बोधकं च न नियतं, सदृशपदशक्तिसम्बन्धिज्ञानानां प्रत्येकं व्यभिचारात्। किन्तु स्मृतिः तत्र तत्कालोत्पन्नमनियतमेवोद्बोधकं कल्प्यते फलबलात्।
कार्योन्नेयधर्माणां यथाकार्यमुन्नयनात्। न च पद्मत्ववत् तद्व्यापकादेरपि स्मृतिप्रसङ्गः । स्मृतिबलेनोद्बोधकल्पनमिति न तत्र स्मृत्यभावेन तदुद्बोधाभावात्। तस्मात्
शकिं्त विना शक्तेरिव पद्मत्वस्य नियता स्मृतिः। न चैवं गवादिपदेऽपि न शक्तिः स्यात्। व्यवहारकालीन संस्कारादेव गवादिस्मृतिसम्भवादिति वाच्यम्। न हि तत्र स्मृत्यर्थं
शक्तिः । किन्तु अनुभवार्थं पदादन्यतो गवादेरनुभवासम्भवात् अव्युत्पन्नस्य ततोऽनुभवा सम्भवाच्च। पद्मानुभवश्च भोगादेवेति न समुदायो हेतुरन्यायसिद्धत्वात्। अतो
नानुभवबलात् समुदाये शक्तिकल्पनम्। नन्वेवं गवादिपदानां प्रमेयत्वे शक्तिरस्तु। गवादिस्मृतिः संस्कारादिति चेत्, न। गोव्यवहारेण स्वोपपादके गोज्ञाने पदस्य
शक्तिकल्पनं, न त्वनुपपादके प्रमेयत्वेन गोज्ञाने गोपदात् प्रमेयो गौरित्यननुभवाच्च । अथैवं संस्कारादेव तीरादिस्मृतिसम्भवे गौणलाक्षणिकोच्छेदः । तीराद्यनुभवार्थं हि न
तत्कल्पनं तदनुभवस्येतरपदादेव सिद्धेः तयोरननुभावकत्वात् । तस्मान्नियता स्मृतिः वृत्तिसाध्येति तयोः कल्पनात् । तथा च नियतपद्मस्मृत्यर्थं पङ्कजपदेऽपि वृत्तित्वेन
शक्तिकल्पनमावश्यकं लक्षणोद्यभावादिति चेत्, ना गङ्गायामित्यादौ वृतिं्त विना तीरादेरपदार्थत्वे विभक्त्यर्थान्वयस्तत्र न स्यात् । विभक्तीनां प्रकृत्यर्थगतस्वार्थान्वयबोधकत्वव्युत्पत्तेः।
पद्मस्य तु पङ्कजवाक्यप्रतिपाद्यत्वेन पाचकादेरिव विभक्त्यर्थान्वयोपपत्तिः

यत्तु  शब्दोपस्थित एव शाब्दान्वयबोधः । अन्यथा प्रत्यक्षोपस्थिते कलाये पचतीत्यन्वयबोधः स्यादिति ।  तन्न  । पदस्य तत्र तात्पर्याग्रहात् । तद्ग्रहे भवत्येव किं
पचसीत्युक्ते वधूपदर्शितकलायादौ। अन्यथा दैवात् श्रुतस्मृतकलायपदात् कुतो नान्वयबोधः । द्वारमित्यादावपि न पिधेहिपदाध्याहारः । किन्तु तदर्थस्यैव लाघवात् ।न च
पद्ममानयेत्यादौ शाब्दानुभवे पद्मोपस्थापकपदजन्यत्वादन्यत्रापि तथेति वाच्यम्। शाब्दपद्मानुभवे हि तदन्वयबोधतात्पर्यकपदत्वेन कारणता न तु पद्मोपस्थापकपदत्वेनापि
गौरवात् ।

अथैवं जनिकाल एव प्रयोगः स्यात् न तदत्ययेऽपि । न ह्यसति हि दण्डे दण्डीति व्यपदिश्यत इति चेत्, न। पाचकादिपद इव प्रत्ययस्य योग्यताशक्तत्वात्,
तल्लक्षकत्वाद्वा, उपसर्गादौ तथा निर्णयात् । अन्यथा योगरूढावपि जनिकाल एव प्रयोगः स्यात् । योगत्यागे केवलरूढिवादे विवादाभावश्च। तथापि कुमुदे लक्षणा न
स्यात् योगार्थस्याबाधादिति चेत्, न । वक्ष्यते हि तत्र तस्यासाधुत्वम्।

नव्यास्तुनियमतः स्मृतपद्मस्यान्वयानुपपत्त्यनन्तरमेव कुमुदधीरिति न तच लक्षणव्यवहारः वस्तुतो मुख्यतैव। तवापि पद्मत्वस्यायोग्यतया अनन्वये योगादेव
कुमुदधीर्न लक्षणयेति ।  उच्यते  । अस्ति व्युत्पन्नस्य पदज्ञानानन्तरं नियमतोऽन्वयप्रतियोगिस्मृतिरतस्तद्धेतुसंस्कारोब्दोधकं प्रतिबन्धकं विना पदज्ञानमेव
दृष्टानुविधानत्वादनुगतत्वाल्लघुत्वाच्च। न तु प्रतिपदार्थस्मृतितत्कालोत्पन्नमनन्तमहष्टचरमनिर्वचनीयं गौरवात् । अतः पद्मस्मृतावपि गृहीतसम्बन्धं पङ्कजपदमपि
तथेति सम्बन्धत्वेन शक्तिसिद्धिः । एवञ्च रथकारशब्देऽपि जातिविशेषे रूढिर्न स्यात् । संस्कारादेव तदुपस्थितिसम्भवात्। तथा च "वर्षासु रथकारोऽग्नीनादधीते"त्यत्र
रूढ्यर्थस्य बलवच्वत्वेन शीघ्रमुपस्थितत्वात् जातिविशेषवत एवाधानं विधीयत इति राद्धान्तव्याघातः । यथा च शाब्दः सन्निधिरन्वयबोधाङ्गं तथोक्तमासत्तिप्रस्तावे ।
स्यादेतत्, । पद्मे नियतप्रयोगरूपसम्बन्धेन पङ्कजपदादेव पद्मस्मृतिरस्तु । एवञ्च पद्मे विभक्त्यसक्तर्थान्वयः शाब्दानुभवप्रवेशश्चोपपद्यते पङ्कजपदप्रतिपाद्यत्वात्।
न च प्रतिपाद्यता वृत्त्यैव तदुपयोगिनौ, पाचकमानयेत्यादौ वाक्योपस्थाप्ये तदभावात् । न च पदाद्वृत्त्यैव स्मृतिः। किन्तु सम्बन्धिज्ञानाद्वृत्तेरपि सम्बन्धत्वेन स्मृत्युपयोगात्।
अन्यथा पदाच्छक्तेः स्मृतिर्न स्यात् । गवादिपदे त्वेवं स्मृतिसम्भवेऽप्यन्वयानुभवार्थं शक्तिरित्युक्तम्। एतेन पङ्कजपदान्नियमतः पद्मज्ञानं न वृतिं्त विना। अतो
लक्षणाद्यभावे शक्तिरित्यपास्तम् ज्ञानं हि स्मृतिरनुभूतिश्च शकिं्त विनाप्युपपन्ना न तां कल्पयति अनन्यलभ्यस्यैव शब्दार्थत्वात् । अन्यथा शकिं्त विना पदान्नोपस्थितिरित्यन्वयेऽपि
शक्तिर्लक्षणोच्छेदश्च । पङ्कजं पद्ममुच्यत इति प्रसिद्धार्थपदसामानाधिकरण्यात् पद्मस्य ज्ञापकं तत् सिध्यति न तु तच्छक्तम्। अत एव पङ्कजपदं पद्मशक्तम्
नियमतस्तत्स्मारकत्वात् पद्मपदवदिति पदवदिति निरस्तम्। शक्तौ व्यभिचारात्, अनन्यलभ्यत्वस्य पद्मानुभावकत्वस्य चोपाधित्वाच्चेति ।  उच्यते  । नियतपद्मस्मृतेरुक्तसम्बन्धेन
पङ्कजपदसाध्यत्वे पद्मवत्तद्व्याप्यव्यापकयोरपि नियमतः स्मृतिप्रसङ्गः । अथ पद्मे प्रयोग एव पद्म एव प्रयोग इति नियतसम्बन्धेन पद्मेतरव्यावृत्तेन पद्मस्यैव पदात्
स्मृतिः । न चैवं नियतप्रयोगादेव शक्तिसिद्धिः । अनन्यलभ्यस्यैव पदार्थत्वादिति चेत् , न। तर्हि ज्ञानस्यास्य हेतुत्वे सकलप्रयोगादर्शिनो बहुधा पद्म एव गृहीतप्रयोगस्य
समव्याप्तिज्ञानाभावान्न नियता पद्मस्मृतिः स्यात् । स्वरूपसतस्तथात्वे वा अगृहीतपद्मप्रयोगस्यापि ततो नियतपद्मस्मृतिप्रसङ्गः ।

146

अथ यादृशः प्रयोगस्त्वथा शक्तिग्राहकत्वेनाभिमतः स एव पद्मस्मारकोऽस्तु । न च पद्मात्वस्येव प्रयोगसमव्याप्तत्वेन गृहीतस्य सौरभादेरुपाधेस्ततः स्मृतिप्रसङ्गः।
तवापि शक्तिग्रहप्रसङ्गात् । तयोस्तुल्यत्वेऽपि शक्तिग्राहकप्रमाणे लाघवादितर्कावतारान्नोपाधौ शक्तिरिति यदि तदा तर्कसहकृत एव शक्तिग्राहकत्वभिमतः सम्बन्धः
पद्मस्मृतिहेतुरस्तु । तर्काद्यनवतारेऽपि बहुधा गृहीतप्रयोगस्य पद्मस्मृतिदर्शनान्न तथेति चेत् , तर्हि तवापि तर्कं विना शक्तिग्राहकाभावात् कथं पद्मस्मृतिरितितुल्यम्। न
चैवं तत एव शक्तिग्रहोऽपि स्यात् । अनन्यलभ्यस्यैव शब्दार्थत्वादिति । मैवम् , एवं गवादिपदेऽपि शक्तिग्राहकत्वाभितादेवंविधप्रयोगादेव ज्ञाताद्गवादेः स्मृत्यनुभवौ  स्यातां
किं शक्त्या । तस्मात् पदाधीना नियता स्मृतिः शक्तिसाध्या वा नियतसम्बन्धसाध्या वा वृत्तिसाध्या वा । तत्र परिशेषादिह शक्तिसाध्यैव । न च शक्तिस्मृतौ व्यभिचारः ।
शक्तिस्मारकत्वाभिमताद्धि पदात् पदार्थस्यैवाहत्य स्मरणं न शक्तेर्हेत्वभावात् कल्पनागौरवाच्च सम्बन्धस्यास्मरणेन प्रथमं पदार्थस्मरणस्यावश्यकत्वाच्च । पदार्थस्मृतेश्च
शक्तिविषयत्वे मानाभावात् । उद्बुद्धसंस्कारविषयत्वाद् यदि शक्तिरपि तद्धिषयः तथापि पदार्थशक्तत्वेनैव ज्ञातस्य पदस्य शक्तिस्मारकता न तु शक्तिसम्बन्धित्वेन
अन्यथासिद्धत्वात् । यद्वा पदान्नियमतः स्मृतिर्नियतसम्बन्धसाध्या शक्त्यापि समं पदस्य शक्त्याश्रयत्वमेव नियतः सम्बन्धः। अपि च कुमुदेऽवयवशक्तिप्रतिबन्धार्थं रूढिः ।
न च नियतपद्मस्मृतिरेव प्रतिबन्धिका। रूढिं विना नियतस्मृतेरभावात् । अत एव न व्यक्तिवचनन्यायोऽपि । नचैकं पदमेकदैकेनैव रूपेण प्रवर्र्तते । अतो न
पद्मत्वपङ्कजत्वयोर्धीरिति वाच्यम्। अवयवसमुदाययोर्भेदात् लम्बकर्णादिपदे व्यभिचाराच्च । तर्हि तद्वदेव रूढ्या नावयवशक्तिप्रतिबन्ध इति चेत् , न । तचा
तत्रावयवार्र्थक्रियान्वयेनाप्रतिबन्धान्नानार्थे च नानार्थानुभवात् नैकशक्त्यान्यशक्तिप्रतिबन्धः।  यत्तुअवयवशक्तिस्मृतिकाले समुदायशक्तिस्मृतिनियमे हेत्वभावान्न तया प्रतिबन्ध
इति ।  तन्न  । समुदायस्य तावदवयवरूपत्वेन सर्वावयवादेवोभयशक्तिस्मृतिसम्भवात्, मण्डपपदे तथा दर्शनात् ।

अथ पङ्कोत्तरजपदं प्रतिबन्धकं गाबलीवर्दवत् पङ्कजनिपदप्रयोगे उप्रत्ययस्य कर्तृविशेषपद्मपरत्वं वा जनेः पद्मजनिविशेषपरत्वं वा स्वभावादेव कुमुदबोधाजनकत्वं
वा चक्षुष इव रसे कुमुदेऽवयवशक्तिकुण्ठनं वा कल्प्यताम्। तेन कुमुदे न धीरिति चेत् , तर्र्ह्यज्ञातपद्मप्रयोगस्य कुमुदसाधारणबोधो न स्यात् । न भवत्येवेति चेत् ,
किमवयवव्युत्पन्नस्य । ततोऽर्थप्रत्यय एव न भवति । यद्वा पङ्कजत्वेन पद्ममेवानुभूयते। आद्ये मन्दुरजादिपदादिव सामग्रीसत्त्वे कथं नानुभवः । द्वितीये कुमुदमप्यनुभूयेताविशेषात्।
न चैवं पङ्कजशब्दस्य सामान्यशब्दत्वात् तात्पर्यवशेन विशेषतः पद्मकुमुदधीसम्भवात् न रूढिर्न वा लक्षणास्यादिति वाच्यम्। न हि प्रयोजनक्षतिभयेन सामग्री
नानुभावयति । यदि च पद्मकुमुदयोस्तुल्यता तदा अगृहीतपद्मप्रयोगस्य पद्मान्वयानुपपत्तिपुरःसरैव कुमुदधीर्न स्यात् । स्याच्च कदाचिद्वैपरीत्यम् । अतः पद्मे रूढिरेव।
कुमुदे यथा लक्षणातथा वक्ष्यामः । कुण्ठनञ्च शक्तिवृत्तिधर्मान्तरं वा शक्तेरनुद्भवो वा अभिभवो वा तत्र कारणान्तरं वा अदृष्टचरं कल्प्यम् । रुढेः प्रयोगप्रतिबन्धकत्वं
मण्डपादौ दृष्टमेव । अत एव पङ्काद्यवयवैः पद्ममेवानुभाव्यत इति अवयवनियमस्य कल्पनान्न कुमुदे धीप्रयोगौ । अन्यथा रूढावपि योगान्न कुतस्तौ कुमुदे। यथा
उद्भित्पदस्य योगात् खनित्रे रूढ्या कर्मविशेषे प्रयोग इति निरस्तम्। अगृहीतनियतपह्यप्रयोगस्य कुमुदसाधारणबोधदर्शनात् । रूढिवादे तु सैव प्रतिबन्धिका मण्डपपदवत्।
ज्ञातस्य चावयवनियमस्य प्रयोजकत्वे पद्मेे शक्तिरेव पद्मज्ञानजनकत्वज्ञानस्य शक्तिनिर्वाह्यत्वात् । उद्भित्पदे त्ववयवार्थः कर्मण्योग्यत्वादेव नान्वीयते न तु रूढ्या
प्रतिबन्धात् । अवयवान्वययोग्ये खनित्रेऽपि न प्रतिबन्धः योगेन खनित्रेऽपि प्रयोगात् । एवञ्च रूढियोगाभ्यामद्भित्पदस्य नानार्थतुल्यतैव उभाभ्यामेकार्थानवगमात् ।  ननु
गृहीतपद्मप्रयोगस्यावयवैःसह प्रयोगे पद्ममेवानुभाव्यत इति स्वभावकल्पनमस्तु । नचैवं व्युत्पत्त्यन्तरं । स्वरूपसत एव प्रयोगग्रहस्य शक्तिग्रहस्येवोपसन्धानत्वात्
उपसर्गस्येव धातोः प्रकर्षादिबोधकत्वे , उपसन्धानं विना कुमुदबोधो भवत्येव ।

यत्तु  पदानां स्वार्र्थान्वयबोधसामर्थ्यं उपजीव्य कुमुदाबोधार्थं नान्विताभिधानेऽवयनियमः कल्प्यते उपजीव्यविरोधात् । किन्तु समुदायस्य कुमुदे स्वार्थत्वाभाव
एवेति ।  तन्न। एवं स्वार्थत्वाभावेन समुदायात् कुमुदधीर्न स्यात् अवयवेभ्यस्तु स्यादेवेति ।

मैवम्। न हि पदानां स्वभावाधीनं बोधकत्वम्। किन्तु शक्तिज्ञानाधीनं अज्ञातशक्तेरबोधकत्वाच्छक्तिभ्रमेण बोधकत्वाच्च । तथाच बोधकशक्त्यभावादेवाबोधकत्वं
कार्याभावे हेत्वभावस्यैव तन्त्रत्वात् । धातोश्चोपसर्गोपसन्धानात् प्रकर्षादौ शक्तिरेव ।

स्यादेतत्। यथा सर्वनामत्वमहम्पदेषु बुद्धिस्थत्वसम्बोध्यत्वोच्चारयितृत्वानि प्रयोगोपाधमः। तेन बुद्धिस्थादिकमेव तद्बोधयति। तत्रैव प्रयुज्यते च। न तु
बुद्धिस्थत्वादिकं शक्यम्। तेन रूपेण ज्ञानाभावात् । तथा पद्मत्वमपि प्रयोगोपाधिरिति चेत् , न । तेन हि नावयवशक्तिÐवच्छिद्यते पद्मे तत्सत्त्वात् । नापि कुमुदे
तात्पर्यमपोद्यते , बाधकं विना तस्यौत्सर्गिकत्वात् । नाप्यवयवाधीनज्ञानं प्रतिबध्यते । शक्त्याकाङ्क्षादितात्पर्याणां सत्त्वे अन्वयज्ञानस्यावश्यकत्वात्
उपाधेरन्वयबोधप्रतिविबन्धाहेतुत्वात् । नापि प्रयागौेवार्यते , इष्टकुमुदधीहेतुतया इष्टसाधनताज्ञानस्य तल्लिङ्गककार्यताज्ञानस्य वा प्रयोगहेतोः सत्त्वे अप्रयोगस्याहेतुत्वात्।
अहमादिपदे त्वात्ममाशक्ते शक्तिग्रहसहकारितया स्वरूपसदेव उच्चारयितृत्वादिकं धीनियामकं स्वभावान्नियमतस्तस्यैव बोधनादिति स्वरूपसत एवोपाधित्वम् । पद्मत्वन्तु
न तथा । कुमुदसाधारणबोधदर्शनात् ।

ननु कुमुदे पूर्वेषामप्रयोगादाधुनिकानामप्रयोगः। न च प्रयोगमात्रे को हेतुरिति वाच्यम्। प्रयोगाणां हि न मेलनकार्यता । किन्तु प्रत्येकम्। तत्रोत्तरस्य पूर्वोहेतुः।
यथा पूर्वगौरुत्तरस्य । अन्यथा गोमात्रे को हेतुरित्यत्र किमुत्तरं तवेति चेत् , न प्रयोगहेतोः सत्त्वात् पूर्वप्रयोगस्य चाहेतुत्वात् पूर्वप्रयोगमज्ञात्वाप्यवयवव्युत्पन्नेन
पाचकादिपदानां नवकाव्यानां गौणलाक्षणिकदेवदत्तादिपदानाञ्च प्रयोगात् । स्यादेतत् । ग्रामगामादिपदेऽन्वयबोधाभावात् साधुत्वज्ञानमपि हेतुः । न चैवं तदेव हेतुरस्तु किं
शक्त्या। गौणलाक्षणिकविवेकश्च सोपाधित्वानुपाधित्वाभ्यामेवास्तु इति वाच्यम् । प्रथमं व्यवहारेण शब्दस्य ज्ञानकारणतावगमात् तत्रैव शक्तिकल्पनम्। ततो ग्रामगामादौ
व्यभिचारादाकाङ्क्षादेरिव साधुत्वज्ञानस्य हेतुत्वकल्पनात् । साधुत्वञ्च न पूर्वप्रयोगप्रवाहाविच्छेदः । नवकाव्यादौ तद्भावात्। किन्तु भ्रमादिजन्यत्वाभावः । कुमुदे च
तत्प्रयोगो बोधकत्वभ्रमात् । न चैवं भ्रमजन्यत्वादबोधकत्वम् अबोधकत्वे च भ्रमजन्यत्वम्। इत्यन्योन्याश्रयः । पूर्वभ्रमजन्यत्वेनोत्तरं प्रति बोधकत्वभ्रमात् उत्तरस्य प्रयोगो
भ्रमजन्यः । एवं पूर्वस्यापीति तत्र भ्रमपरम्परैव मूलम्। एवं ग्रामगामादेरपि । कथमिदं ज्ञातव्यमिति चेत् , ग्रामगमनकर्तरिकिग्रामगामपदस्येव प्रामाणिकानां कुमुदे तस्य
निरुपाधिप्रयोगाभावात् । अत एव साधुत्वभ्रमात् कुमुदसाधारणो बोधोऽपि । कुमुदे ह्यसाधुत्वात् समुदायेन तत्र पङ्कजन्मकर्तृत्वं लक्ष्यते । न चासाधुत्वे ग्रामगामपदवत्
लक्षणापि न स्यात् , पद्मे तस्य साधुत्वात् । उच्यते । पङ्कजन्मकर्तरि तत्प्रयोगस्य भ्रमाद्यजन्यत्वेन साधुत्वम्। कुमुदे न तथेति चेत् , न। पुण्डरीकवन्नवपद्मवच्च तस्य
व्यक्तिस्थानीयत्वात् । प्रतिवाक्यार्थञ्च साधुत्वज्ञानस्य हेतुत्वे अभिनवव्यक्तौ भ्रमाद्यजन्यत्वस्य ग्रहीतुमशक्यतया पाचकादिपदप्रयोगो न स्यात् । पाचककर्तृजातीये
भ्रमाद्यजन्यत्वस्य सुग्रहत्ववत् पङ्कजन्मकर्तृजातीयेऽपि सुग्रहत्वात् येन रूपेणान्वयबोधस्तस्य कुमुदवृत्तित्वात्।

147

अथ पङ्कजपदं कुमुदे वृत्त्यन्तरं विना न साधु वृत्त्यन्तरं विना वृद्धैस्तत्राप्रयुज्यमानत्वात्। यः शब्दः यत्र वृध्यन्तरं विना वृद्धैः न प्रयुज्यते स तत्र वृत्त्यन्तरे विना
न साधुः। यथा गङ्गापदं तीरे। यथा वा ग्रामगामपदं ग्रामगमनकर्तरि। न प्रयुज्यते च वृत्त्यन्तरं विना पङ्कजपदं कमुदे । तस्मात् वृत्यन्तरं विना न तत्र साध्विति  चेत्,
न। व्यर्थविशेषणत्वात् । तत्राप्रयुज्यमानत्वस्यैव व्याप्त्यत्वात्। व्यात्वत् आकाङ्क्षादिमवद्वाक्यासाधुत्वे अवयवार्थान्वयाबोधकत्वस्य व्याकरणस्मृत्यनुपगृहीतत्वस्य
पक्षधर्मावच्छिन्नसाध्यव्यापकस्योपाधित्वाच्च । पक्षे उभयाभावेन साधनाव्यापकत्वात् । पङ्कजशब्दः कुमुदे साधुः साधुत्वे सति कुमुदबोधप्रयोजकाकाङ्क्षादिमद्वाक्यत्वात्।
साधुत्वे सति यद्वाक्यं यद्बोधप्रयोजकाकांक्षादिमत् भवति, तत्तत्र साधु। यथा तरुप्रसूनशब्दः कस्तुमे। यथा वा पाचकशब्दः पाककर्तरि, तथा पङ्कजपदं कुमुदे तस्मात्तथेति
मत्प्रतिपक्षत्वाच्च। वस्तुतस्तु साधुन्वज्ञानं न हेतुः । अवयवादिव्युत्पन्नेन भ्रमाद्यजन्यं पूर्वप्रयोगमज्ञात्वापि नवकाव्यादि प्रयोगात्। कुतस्तर्हि ग्रामगामादौ नान्वयबोधः।
असाधुत्वनिश्चयादिति ब्रूमः। साधोरप्यसाधुत्वनिश्चयेनाबोधकत्वात् अभिनवकाव्यादौ नासाधुत्वनिश्चयः। संशश्च न प्रतिबन्धकेः अन्यथा योगरूढिसंशये सत्यभिनवव्यक्तौ
पाचकादिप्रयोगो न स्यात्।

अन्ये तु ततोऽन्वयबोधो भवत्येव। साधुत्वे सति यद्वाक्यं यद्बोधप्रयोजकाकांक्षादिमत् भवति, यथा तरुप्रसूनशब्दः कसुमे। यथा वा पाचकशब्दः पाककर्तरि, तथा
पङ्कजपदं कुमुदे तस्मात्तथेति सत्प्रतिपक्षत्वाच्च। वस्तुतस्तु साधुत्वज्ञानं न हेतुः। अवयवादिव्युत्पन्नेन भ्रमाद्यजन्यं पूर्वप्रयोगमज्ञात्वापि नवकाव्यादिप्रयोगात्। कुतस्तर्हि
ग्राम गामादौ नान्वयबोधुत्वनिश्चयः। संशभिश्च न प्रतिबन्धकेः। अन्यथा योगरूढिसंशये सत्यभिनवव्यक्तौ पाचकादिप्रयोगो न स्यात्। अन्ये तु ततोऽन्वयबोधो भवत्येव
अपभ्रंशादिव यथा तव साधुत्वं तस्य नास्ति तद्वदेव यथा अपरे शादिव यथा तव साधुत्वं तस्य नास्ति तद्वदेक अपरे त्वत्राकाङ्क्षैव नास्ति घटः कर्मत्वमानयनमित्यत्रेेव ।
यत्तुगमाद्यनुत्तराण्त्वेन गमादिपूर्र्वेतराण्त्वेन वा शक्तिः काशपूर्वतरकुशत्वेनेवेति । तन्न । कर्मोपपदाधातूत्तराण्त्वेनैव शक्तेर्न तु तत्तज्ञानद्धात्वनुत्तराण्त्वेन
गौरवात् । तत्तद्धातूनां विशिष्याज्ञाने शक्तिग्रहानुपपत्तेः कमण्यणि सूत्रार्थमजानतः कुम्भकारादिपदप्रयोगानुपपत्तेश्च शक्तिसन्देहात् ।
असाधुत्वञ्च न भ्रमादिजन्यत्वम्। अनोप्तोक्ते असाधुत्वापत्तेः। शुकाद्युदीरिते ग्रामगामादौ भ्रमाद्यजन्यत्वाच्च । किन्तु महाजनपरिगृहीतव्याकरणस्मृतिनिषिद्धत्वं
तदपरिगृहीतत्वं वेति वक्ष्यते । पदस्य साधुत्वं वृत्तिरेव। वृत्तिश्च शाब्दबोधहेतुपदार्थोपस्थित्यनुकूलपदपदार्थयोः सम्बन्धः । वाक्यसाधुत्वञ्चाकाङ्क्षादिमत्स्वार्थान्वयबोधकत्वे
सति व्याकरणस्मृत्यनिषिद्धत्वम्। तस्मात् कुमुदे पङ्कजशब्दस्य साधुत्वे सति प्रयोगप्रतिबन्धकत्वेन समुदायशक्तिसिद्धिरिति । न चैवं लाघवात् जशब्द एव शक्तिरस्तु न
समुदाये, मन्दुरजादौ पद्मधीप्रसङ्गात् । पङ्कोत्तरजपदत्वेन शक्तिरिति चेत्तर्हि सर्वत्र तद्वर्णोत्तरान्त्यवर्ण एव शक्तिरिति समुदायशक्त्युच्छेदः । न चैवम्। विनिगमकाभावादिति
सम्प्रदायः। अत्र ब्रूमः- ज्ञाता हि या शक्यमनुभावयति सा शक्तिः । न च समुदायः पद्मानुभवहेतुः , अवयवादेव तदुपपत्तेः । एवञ्च प्रतिबन्धकमात्रेे शक्तिपदं
पारिभाषिकम्। शक्तित्वादनुभावकत्वसाधनेऽन्योन्याश्रयः प्रतिबन्धकत्वेनावगते शक्तित्वासिद्धिश्च । मण्डपादौ त्वनुभावकत्वेनैव शक्तिसिद्धिः । किञ्च रूढियोगयोÐवरोध
एव परं रूढ्या योगप्रतिबन्धः मण्डपादौ तथा निर्णयात् । अन्यथा लम्बकर्णदावपि योगप्रतिबन्धः स्यात् । न चेह विरोधः । पद्मे समावेशात् । योगादर्थधीश्चोभयत्र तुल्या।
यत्तु  पङ्कजमानयेत्यादौ रूढ्या शीघ्रोपस्थितं पद्ममेव क्रिययान्वीयते । न पङ्कजन्मकर्तृ । तस्य वाक्यार्थत्वेन विलम्बितप्रतीतिकत्वात् । एवञ्चाविरोधेऽपि
रूढेर्योगापहारितेति ।  तन्न। क्रियापदतदर्थयोग्यतादिज्ञानाधीनत्वेन क्रियान्वयबोधस्य विलम्बितत्वात् रूढ्यवयव

अत्रोच्यते। नियमतः स्मृतं पद्ममेवावयवैः पङ्कजनिकर्तृत्वेनानुभाव्यते । बाधकं विना व्यक्तिवचनानां सन्निहितविशेषपरत्वनियमात् । अतः सर्वत्र पद्मानुभवसामग्र्येवेति
न कुमुदे धीप्रयोगौ । न चैवमनुभवाजनकत्वेन न सा शक्तिः। या ज्ञाता नियमतः शक्यं ज्ञापयति सैव हि शक्तिः ज्ञप्तिश्च स्मृतिरनुभूतिश्चेति नियतस्मारिकापि शक्तिः ।
वस्तुतः स्वार्थस्मृतिद्वारा अवयवानामिव समुदायस्य स्वार्थानुभावकत्वमविशेषादिति पश्चादनुभाविकापि रूढिः पङ्कजमानयेत्यादावानयनादिना स्वार्थान्वयानुभवे
समुदायावयवयोर्हेतुत्वाच्च तस्मान्वियतस्मृतिहेतुत्वेनैव रूढिसिद्धिः न तु प्रतिबन्धकत्वेन । यदि च नियता स्मृतिः प्रकारान्तरेण भवति तदा योग एव, न रूढिः ।
रूढिन्यायेनैव कुमुदे धी-प्रयोगयोरभावादिति । गोपादस्य गवि वेदेऽहीनपदस्य कर्मविशेषे रूढिरेव, लाघवात् । न तु "गमेर्डोरह्नः खः क्रतावि"त्यनुशासनाद्योगोऽपि । डोः
खप्रत्ययोर्लोके कर्र्तरि कर्मविशेषे च शक्तिर्न क्लृप्ता। अतः प्रत्यये शक्तिः । नियामकञ्च गमिपदोत्तरत्वं अहः पदोत्तरत्वञ्च कल्प्यम् , तथा च गौरवम् । एवं
धेनुपदेऽप्येकैकस्यातिप्रसक्तत्वात् गोत्वविशिष्टधानकर्मणि रूढिरेव। नियमतो गोत्वविशिष्टोपस्थितेः । न तु योगोऽपि । दानुभानुकृशान्वादौ भिन्नार्थत्वेन नुप्रत्ययशक्तेरकल्पनात्
गमेर्डोरह्नः खः क्रतौ दाभाभ्यां नुर्र्धेटइच्चेत्यादिस्मृतिश्चालवड्डादिवत् कथञ्चिद्व्युत्पादनपरा । अत एव भगवान् पाणिनिरर्थाननुगमात् समुदायशक्त्यपेक्षया गौरवादुणदिप्रत्ययेषु
न शक्तिरिति पञ्चपादिकाविहितानुणादिप्रत्ययान् उणदयो बहुलमित्येकेनैव सूत्रेण विहितवान् । यत्र तु प्रत्यये शक्तिस्तत्र प्रत्येकमेवासत्रयत् ।
यत्तु  धेनुपदे गोत्वं न शक्यम् । किन्तु शक्योपलक्षणतया शक्त्युपाधिः । यत्र गोत्वं तद्धानकर्म शक्यम्। शक्यास्तूपलक्ष्या महिष्यादिव्यावृत्ता धानकर्मव्यक्तिविशेषा
एव । अनुगमस्तूपलक्षणैक्यात् । न चैवं लाघवाद्गोत्वं शक्यं धानकर्मत्वमुपाधिः । उपलक्ष्यस्य गोत्वस्यातिप्रसक्तत्वात् । गोत्वविशिष्टधानस्मृतिस्त्वेकैव शब्दसंस्काराभ्यां
जन्यते न तूभयस्मृत्यनन्तरं परस्परमन्वयबोधः अवयवशक्तेरभावादिति । तन्न । शकिं्त विना नियतगोत्वोपस्थित्यभावादुपलक्षणैक्येन उपलक्ष्यैक्याभावाच्च । अन्यथा
महिष्यादिव्यावृत्तधानकर्मत्वेऽपि न शक्तिः। धान गोत्वे शक्त्युपाधौ । अग्रे च संस्कारादुपस्थितयोस्तयोः कर्मणि धेनुपदादन्वयो भासत इति धानमपि न शक्यम्। यदि
चानुगतं विशेषणं शक्त्युपाधिÐवशेष्ये च शक्तिरननुगमातिप्रसङ्गाभावश्चोपाधिनैव , तदौपाधिककारणादिपदानां विशिष्टे शक्तिर्न स्यात् ।
नन्ववयवात् पङ्कजनिकर्तृत्वानुभवः समुदायाच्च पद्मस्मरणं स्यान्न तु पङ्कजनिकर्तृ पद्ममित्यनुभव इति चेत् , न , अवयवसमुदायस्मारितपङ्कजनिकर्तृपद्मानां
पङ्कजनिकर्तृ पद्ममित्यनुभवोऽवयव समुदायाभ्यां सम्भूय जन्यते । समुदायोपस्थितपद्मेन समं स्वार्थान्वयोऽवयवैर्वा अवयवजनितानुभवोपस्थिइतपङ्कजनिकर्तृत्वेम
समं स्वार्थान्वयः समुदायेन वा अनुभाव्यते । आकाङ्क्षाद्युपेतशब्दानां तात्पर्यविषयोपस्थापितस्वार्थान्वयबोधकत्वनियमात् । न च वाक्यान्तरे तथात्वादर्शनेन नैवं
व्युत्पत्तिरिति वाच्यम्। वाक्यान्तरे हि समुदायशक्त्यभावेन तथा। अत्र तु समुदायशक्तिबलात् पदविधया वाक्यविधया वा एकस्मादेवोपस्थितयोः पङ्कजनिकर्तृपद्मयोरन्वयो
बोध्यते। समुदायेन पदैकवाक्यतावत् । पङ्कजं कुमुदमित्यत्र समुदायेनैव पङ्कजनिकर्तृत्वमशक्यं स्वार्थपद्मसम्बन्धि लक्ष्यते । कुमुदे साधुत्वात् कथं तत्र लक्षणेति चेत्,
न । समुदायस्य तत्रासाधुत्वात् ।

148

यत्तु  तत्र पद्मत्वमयोग्यतया नान्वेति योगादेव मुख्यया वृत्त्या कुमुदे पङ्कजनिकर्तृत्वं अनुभूयते इति।  तन्न। कुमुदेऽवयवशक्तेः समुदायशक्त्या ज्ञातया
प्रतिबन्धात् तथैव । तदवगमात् ।

ननु यदा व्यक्तिवचनन्यायात् न कुमुदे धीर्न त्ववयवशक्तिप्रतिबन्धात् तदा पङ्कजशब्दादुपस्थिते पङ्कजं पद्ममिति वाक्यार्थेऽयोग्यतया पद्ममपहाय पदवाक्यैकवाक्यतया
पङ्कजनिकर्तृ कुमुदमित्यनुभव इति चेत् , तर्हि पद्मान्वितत्वेनोपस्थितस्य पङ्कजनिकर्तृत्वस्या श्रयाकाङ्क्षा नास्तीति स्वतन्त्रोपस्थित्यर्थमवश्यं लक्षणा, यथा
पुरोडाशकपालपदेऽधिष्ठानलक्षणा । ननु प्रथममेवावयवकुमुदपदैरन्वययोग्यतया स्मृतं पद्मं त्यक्त्वा स्वार्थान्वयानुभव इति चेत् , कुमुदपदतदर्थयोग्यतादिज्ञानात् पूर्वमेव
पङ्कजशब्दात् पङ्कजं पद्ममित्यनुभवात् विलम्बे हेत्वभावात् , स्थलपङ्कजन्तु विजातीयमेव । साजात्येऽपि तत्र लक्षणा।

यत्तु  अयोग्यतया योगार्थोनान्वेति किन्तु योग्यतया रुढ्युपस्थितं पज्नत्वमेवान्वीयते इति । तन्न । पद्मत्वस्य योगार्थगतत्वेन उपस्थित्या निराकाङ्कजत्वात् ।
स्वतन्त्रोपस्थितये लक्षणाया अवश्यं वाच्यत्वादिति ।

नन्वेवं पङ्कजपदस्येवापभ्रंशानामपि शक्तिस्ततो नियमेनार्थप्रतीतेः व्यवहाराधीनव्युत्पत्तेरविशेषात् । अन्यथा असति वृत्त्यन्तरे तेभ्योऽर्थधीर्न स्यात् । न च
लक्षण , मुख्यार्थबाधात् न चापभ्रंशेन स्मारितसाधुशब्दादन्वयबोधः साधुशब्दमजानतामपि पामरणं ततोऽर्थप्रतीतेः तदर्थकसंस्कृतेनार्थप्रतीतेश्च । शक्त्यारोपात्ततोऽर्थप्रत्यय
इति चेत् ,न मानाभावात् व्यवहारादिनावृत्तशक्तिग्रहे बाधकाभावाच्च । न च शक्ति साध्यं शक्यारोपाद्भवितुमर्हति , आरोपितादपि दहनाद्दाहापत्तेः ।
अथ ज्ञायमानकरणे प्रयोजकरूपवत्तया ज्ञायमानादेव फलं वाष्पे धूमारोपाद्यह्यानुमितिवदिति चेत् न तर्हि तद्धदेव फलस्यायथार्थत्वापत्तिः । अन्यथा अपभ्रंश एव
शक्तिः साधुशब्द एव तथेति किं न स्यात् । न च सादित्वात् देवदत्तादिशब्दवदाधुनिका एव तच शङ्केताः गवादिपदे त्वनादित्वात् शक्तिरिति वाच्यम् । सजातीयप्रयोगजन्यप्रयोगत्वस्य
भ्रमाद्यजन्यत्वस्य वा अनादित्वस्यापभ्रंशेऽपि सत्त्वात् । तत्तद्देशीयापभ्रंशेऽपि सङ्केतयितृणमस्मरणाच्च । न चापभ्रंशानां देशभेदेन एकत्रार्थे बहुत्वात् संस्कृतस्यैकत्वाल्लाघवेन
तत्रैव शक्तिः। प्रमाणवतो गौरवस्यापीष्टत्वात् । अन्यथा नानार्थोच्छेदः प्रतीत्यन्यथानुपपत्तिस्तुल्यैव ।

ननूभयोः शक्तत्वे साध्वसाधुविभागाभावात् तद्व्यवहारविरोधः। साधुभिर्भाषितव्यम् , नापभ्रंशितवै न म्लेच्छित वै इत्यादिकवैदिकविधिनिषेधानुपपत्तिश्चेति चेत्,
तर्हि शक्तत्वाविशेषेऽपि तदभियुक्तेन्द्रपाणिन्यादिप्रणीतव्याकरणौप गृहीतानामेव संस्कृतानां साधुत्वमस्तु । न ह्यपभ्रंशे तैः साधुत्वं स्मर्यते । तद्विषया एव साधुभिर्भाषितव्यमित्यादिविधयः
तेषामेव धर्मोपयोगित्वं स्वभावात् बीजस्येवाङ्कुरे । तस्मादपभ्रंशोऽप्यर्थप्रत्यायकत्वाच्छक्त इति । उच्यते । एकत्र शक्त्याप्यन्यत्र तदारोपात् तदर्थ प्रतीत्युपपत्तावेकत्रैव
शक्तिर्लाघवात्। अनन्यलभ्यस्यैव शब्दार्थत्वात् । अन्यथा वृत्त्यन्तरोच्छेदः । तदाह-भगवान् जैमिनिः " "अन्यायश्चानेकशब्दत्वमि" "ति । सा च शक्तिः संस्कृत एव सर्वदेशे
तस्यैकत्वात् नापभ्रंशेषु तेषां प्रतिदेशमेकत्रार्थे भिन्नभिन्नरूपाणां तावच्छक्तिकल्पने गौरवात् पर्यायबहुतरत्वञ्चोभयत्रापि । न च देशभेदेऽपि प्राकृतस्यैकरूपत्वात्  तत्रैव
शक्तिः। संस्कृतप्रभवतत्समदेशिभेदेन तस्याप्यनेकत्वात् । एवमेकत्र शक्त्यारोपदार्थप्रत्ययोपपत्तौ नापभ्रंशे शक्तिः।

ननु म्लेच्छादीनां संस्कृतमजानतां कथं तच्छक्यारोपः । उच्यते । केनचिद्गौरिति शब्दे प्रयोक्तव्ये प्रमादाद् गावीशब्दे प्रयुक्ते व्युत्पन्नस्तेन गोशब्दमुन्नीय ततो गां
प्रतीत्य व्यवहृतवान् । यथाहुः ः- "अम्बाम्बेति यदा बालः  शिक्ष्यमाणः प्रभाषते । अव्यक्तं तद्विदां तेन व्यक्ते भवति निर्णयः"॥ इति पार्श्वस्थश्च व्युत्पित्सुर्गावीशब्दादेव
अयं गां प्रतीतवान् इत्यवगम्य गावीशब्दमेव गोशक्तत्वेन प्रतीत्य अन्येषां व्युत्पादको बभूवेति ततः प्रभृत्यपभ्रंशे शक्तत्वभ्रमः । एवञ्च प्रथमव्युत्पन्नस्या पभ्रंशादेव
स्मारितसाधुशब्दार्थप्रत्ययस्तन्मूलकश्चानुसंहितसाधुशब्दानामपि शक्तिभ्रमात् शक्तिमत्तया ज्ञायमानस्यैव शाब्दज्ञानहेतुत्वात्।
यत्तु-जनकज्ञानस्य भ्रमत्वे शाब्दज्ञानायथार्थत्वं लिङ्गभ्रमजन्यानुमितिवदिति ।  तन्न। न हि शक्तिज्ञानयथार्थत्वं शाब्दप्रमायां प्रयोजकं , अनाप्तोक्ते व्यभिचारात्।
नापि जनकज्ञानभ्रमत्वेन अयथार्थत्वं भ्रमानुव्यवसाये व्यभिचारात् । प्रमाजनकत्वञ्चापभ्रंशस्यावश्यकशाब्दप्रमाप्रयोजकयोग्यतादेर्यथार्थतद्बोधाद्वा न तु शक्तिज्ञानयथार्थत्वं
तन्त्रं गौरवात् । अबाधितसंसर्गज्ञानजनकपदार्थोपस्थापकत्वादित्यन्ये । संसर्गबाधकप्रमाविरहादित्यपरे ।

ननु साधुत्वं न प्रतिपादकत्वं अपभ्रंशेतिव्याप्तेः । नापि यस्य यचानादिप्रयोग) स तत्र साधुः हेऽरयो हेऽलय इति वदन्तोऽसुराः पराबभूवुरिति वेदे श्रवणात्
अलिशब्देऽपभ्रंशे गतत्वात् , संज्ञाशब्दाव्यपनात् । लौकिकगौणलाक्षणिकयोरसाधुत्वापत्तेश्च । तथाभ्युपगमे वेदेऽपि तयोः साधुत्वं न स्यात् । अनादित्वं सजातीयप्रयोगपूर्वकत्वंम्।
अपभ्रंशेऽपि नियमतस्तथात्वञ्च सर्गादौ स्वतन्त्रपुरुषप्रयोगेऽव्यापकं भ्रमाद्यजन्यत्वमपभ्रंशेऽपि।

ननु साधुत्वं जातिर्गत्वादिव्यापिका । न चानुपलब्धिबाधः , व्याकरणसंस्कृतश्रोत्रग्राह्यत्वात् । न च संज्ञाशब्दानामसाधुत्वापत्तिः । तत्रापि प्रकृतिप्रत्ययोहसम्भवात्।
गाव्यादिशब्देऽपि तत्सम्भवात् साधुत्वञ्च स्यादिति चेत् , न। यत्रार्थे तथा सम्भवः तत्र तथैव गवादौ न तथेति तत्रासाधुत्वमिति चेत् , न । जातिरूपत्वे सप्रतियोगिकत्वानुपपत्तौ
सर्वस्य सर्वत्र साधुत्वापत्तेः ।

ननु गोशब्दः अश्वेे प्रयुक्तः साधुरेव। ज्ञापकस्तु न भवति तच्छक्तत्वेनाज्ञानादिति चेत् , एवं गावीशब्दोऽपि कयाचिद्व्युत्पत्त्या क्वचित् साधुरिति साधुत्वजातियोगात्
गव्यपि साधुः स्यात् । प्रतिशब्दञ्च भिन्नतद्विषयजातिस्वीकारेऽननुगमः । तारत्वादेस्तु जातित्वेऽप्युत्कर्षरूपतया अवधिनिरूप्यत्वम् । नापि यज्ञप्रयोगार्हत्वं साधुत्वम्।
एकमवच्छेदकं विना प्रतिशब्दमर्हत्वस्य दुर्निरूप्यत्वात् । साधुत्वेनैव यज्ञे विधानात् । चाण्डालाद्युच्चार्यमाणस्यापि साधुत्वात् । यज्ञाग्रहणेऽपि साधुत्वव्यवहाराच्च । नापि
धर्मजनकशब्दत्वम् । अपभ्रंशेऽपि गतत्वात् । पतितोच्चार्यमाणस्यापि साधुत्वाच्च । नापि वेदस्थशब्दत्वम्। अपभ्रंशेऽलिशब्देऽपि गतत्वात् , संज्ञाशब्दे तदभावात् ।
भाषायां सदवसश्रुव इत्यादेः साधुत्वानुशासनविरोधात् सर्वेषां साधुत्वेन सप्रतियोगिकत्वानुपपत्तेश्च । न हि क्वचिद्विषये तद्वेदस्थं क्वचिन्नेति युज्यते , विरोधात् । नापि
व्याकरणव्युत्पाद्यशब्दत्वम्। संज्ञाशब्दे तदभावात् । साधुत्वेन सिद्धे व्याकरणप्रवृत्तेः साधुत्वान्वाख्यापकस्य व्याकरणशब्दवाच्यत्वात् ।

149

उच्यते । यः शब्दो यत्रेश्वरेण सङ्केतितः स तत्र शक्तः साधुरित्युच्यते । परेषां शब्दार्थयोः स्वाभाविकसम्बन्धवत् अस्माकमीश्वरसङ्केतस्य नियामकत्वात् । यथा
या काचिदोषधीनकूलदंष्ट्रा स्पष्टा सा विषं हन्ति तथा प्रतिपादकत्वाविशेषेऽपि ईश्वरसङ्केतिता एव शब्दा धर्मोपयोगिनः स्वभावात्। तद्विषया एव साधुभिर्भाषितव्यमित्यादिविधयः।
ईश्वरसङ्केतज्ञानञ्च व्यवहारात् उपमानात् प्रसिद्धार्थपदसामानाधिकरण्यात् आप्तोपदेशात् यववराहेन्द्रादिशब्देषु वाक्यशेषात्। कोषात् तदभियुक्तेन्द्रपणिन्यादिरप्रणीतशब्दानुशासनाच्च
तेषां साध्वसाधुविभाग एवाधिकारात् । तदुक्तं तत्र तत्त्वमभियोगात् स्यादि"ति । "अभियुक्ताश्च ये यत्र यन्निबद्धप्रयोजनाः । ते तत्र गुणदोषाणां ज्ञाने चाधिकृता मताः "॥
इति । न च साधुत्वे सिद्धे शब्दानुशासनं तस्मिंश्च सति तद्धीरित्यन्योन्याश्रयः । पूर्वपूर्वशब्दान्वाख्यानेन साधुत्वमवगम्य उत्तरोत्तरानुशासनप्रवृत्तेः । सर्गादौ भगवत एव
तत्प्रणीतव्याकरणाद्वा साधुत्वनिश्चयेन उत्तरव्याकरणप्रवृत्तिः । विश्रामविश्रमशब्दयोश्च साधुत्वे पाणिनिचन्द्रगोमिव्याकरणविरोधे " "वौे श्रमेÐवकल्प इष्यत" " इति
महाभाष्यकारवचनादुभयमपि साधु ।

ननु मैत्रादिशब्दानामीश्वरसङ्केताभावादसाधुत्वे यज्ञादौ न प्रयोगः स्यादिति चेत् , न । द्वादशेऽहनि पिता नाम कुर्यादित्यनेन सामान्यतस्तेषामपीश्वरसङ्केतविषयत्वात्।
ननु वासुदेवशब्दस्य वसुदेवापत्ये व्याकरणेन व्युत्पादनात् तत्रैव साधुत्वं न त्वाधुनिकसङ्केतविषये । अथ तत्र प्रकृतिप्रत्ययविभागपरिकल्पना कर्त्तव्या । तर्हि
गाव्यादिशब्देऽपि तथात्वं सम्भवतीति तस्यापि साधुत्वं स्यादिति चेत् , न। द्वादशेऽहनि पिता नाम कुर्यादिति सामान्यतः तस्येश्वरसङ्केतितत्वेन तस्य साधुत्वनिश्चयात्
व्याकरणस्य तद्विशेषविषयत्वमस्तु । न तु गावीशब्दे तथा ।

अथ शास्त्रकारसङ्केतितशब्दादश्वादिषु सङ्केतितगवादिशब्दाद्वा कथमर्थप्रत्ययः। शक्तितदारोपवृत्त्यन्तराणामभावादिति चेत् , न, येन शब्देन उपस्थितेऽर्थे
गवादिशब्दसङकेतग्रहः तस्मादेव गवादिपदेन स्मारितादर्थप्रत्ययात् चेष्टास्मारितपदादिवेति सम्प्रदायः ।

अत्र वदन्ति । नेश्वरसङ्केतितत्वं साधुत्वम्। तस्य निष्प्रतियोगिकत्वेन सर्वत्र सर्वस्य साधुत्वापत्तेः । नापि यः शब्दः यत्रेश्वरेण सङ्केतितः स तत्र साधुः।
गौणलाक्षणिकयोरसाधुत्वापत्तेः । केवलयोः प्रकृतिप्रत्यययोः बाधतिग्रामगाम इत्यादेश्च साधुत्वापत्तेः । बाधतीत्यादौ समुदायस्यासङ्केतितत्वादसाधुत्वे बाधत इत्यस्यापि
साधुता न स्यात् । प्रकृतिप्रत्यययोः प्रत्येकं सङ्केतितत्वात् । अन्वयस्य प्रत्येकशक्तिलभ्यत्वात् । प्रत्युत प्रकृतिप्रत्यय समुदायो न साधुः स्यात् । समुदायस्यासङ्केतितत्वात्
ईश्वरसङ्केतमज्ञात्वापि व्याकरणव्युत्पाद्यत्वमवधार्य साधुत्वव्यवहाराच्च । शक्तत्वं साधुत्वमित्यपि न । ईश्वरसङ्केतोक्तदोषग्रासात् ।
अत्रोच्यते । व्याकरणव्युत्पाद्यत्वं साधुत्वम्। यः शब्दो यस्मिन्नर्थे व्याकरणव्युत्पादितः स तत्र साधुः । अत एव गावीशब्दो व्याकरणेक्तव्युत्पत्त्या यमर्थं प्रतिपादयति
स तत्र साधुरसाधुरन्यत्र। नाम्नाम"प्युणादयो बहुलमि"त्यादिना व्युत्पादनात् । केवलप्रकृतिप्रत्यययोर्बाधतिग्रामगाम इत्यादेश्च न व्युत्पाद्यत्वं तत्प्रयोगस्यानभिधानात्
निषेधाच्च । गौणलाक्षणिकयोश्च यथा प्रतिपादकत्वं तद्व्युत्पादनमपि तत्र तथेति तयोरपि साधुत्वम्। तस्माच्छक्तत्वमीश्वरसङ्केतितत्वं वा अज्ञात्वापि साधुत्वव्यवहारात्
ज्ञात्वाप्यव्यवहाराच न तत्साधुत्वं किन्तु व्याकरणपरिगृहीतत्वतदभावाभ्यामेव प्रामणिकानां साध्वसाधुव्यवहारात् तावेव ते । न च साधुशब्दव्युत्पादकत्वमेव व्याकरणत्वम्
इत्यात्माश्रयः । शब्दान्वाख्यायकस्य व्याकरणत्वात् । न च साधुत्वे सिद्धे व्याकरणव्युत्पाद्यत्वं तद्व्युत्पाद्यत्वे साधुत्वम् । इत्यन्योन्याश्रयः पूर्वपूर्वव्याकरणतः
साधुत्वमवगम्य उत्तरोत्तरव्याकरणेन व्युत्पादनमित्युक्तत्वात् ।

ननु तद्धीजनकतावच्छेदिकायाः शक्तेः तद्धीजनकता विषयकेश्वरसङ्केतस्य वा ज्ञानादर्थप्रत्यय इत्यावश्यकत्वात् लाघवाच्च तद्धीजनकत्वज्ञानमेवार्थप्रतीतो
हेतुरस्तु। किं शक्तेरीश्वरसङ्केतस्य वा ज्ञानेन। अन्यथा मीमांसकस्य शक्तिज्ञानादर्थप्रत्ययो नैयायिकस्येश्वरसङ्केतज्ञानादिति व्यभिचारेणैकस्यापि कारणता न स्यादिति ।
अत एव लौकिकानां शक्तीश्वरसङ्केताज्ञानेऽपि वृद्धव्यवहारादर्थज्ञाने शब्दस्य जनकत्वमवधार्य्य अग्रे शब्दादर्थप्रत्ययः । न चैवं लक्षणोच्छेदे गङ्गापदात् विलम्बितार्थधीर्न
स्यादिति वाच्यम् । लाक्षणिकस्याननु भावकत्वात् । तथात्वेऽपि तीरज्ञानजनकत्वेन ज्ञातस्य न तीरज्ञापकत्वम् , किन्तु प्रवाहज्ञानजनकत्वेन लाघवात् । अथ
ज्ञानजनकता ज्ञाप्यसम्बन्धाधीना प्रत्यक्षादौ तथा दर्शनादिति सम्बन्धत्वेन शक्तिसङ्केतयोरन्यतरसिद्धिरिति चेत् , न। तद्धीजनकत्वेन ज्ञातत्वस्यैव सम्बन्धत्वात् । न च
तद्धीजनकत्वमेव न गृह्यते सम्बन्धज्ञानं विनेति वाच्यम् । तवापि ज्ञानजनकत्वज्ञाने नैवं प्रत्यक्षादिवदत्रापि सम्बन्धत्वेन शक्तिकल्पनात् । अन्यथा अन्योन्याश्रयः।
सम्बन्धज्ञाने सति ज्ञानजनकत्वज्ञानं , तस्मिन् सति सम्बन्धज्ञानात् । यथार्थतद्धीजनकत्वज्ञानं यत्र भवति तत्र तत्पूर्वं सम्बन्धोऽस्त्येवेति चेत् , अस्त्येव पूर्वपूर्वेषां
तद्धीजनकत्वेन ज्ञातत्वस्य पूर्वमपि सत्त्वात् । एतावतापि शक्तिः सङ्केतो वा सम्बन्धोऽस्तु तथात्वेऽपि तद्बोधस्य नार्थप्रत्यायकत्वं गौरवात् । किन्तु तद्विषयधीजनकत्वज्ञानस्यैव।
एवञ्च तद्धीजनकत्वेन ज्ञातं यत्पदं यदनुभवं जनयति तस्यैव तत्र शक्तत्वं न तु शक्तिरीश्वरसङ्केतो वेति ।

उच्यते ।देवदत्तादिपदादर्थबुद्धौ सङ्केतज्ञानस्य कारणतावधारणात् अन्यत्रापि तत्कल्पनात् । न ह्यस्माच्छब्दादयमर्थो बोद्धव्य इति यस्तत्र सङ्केतः तद्बोधं विना
ततस्तदर्थप्रत्ययः , सङ्केतज्ञानात् पूर्वं तद्धीजनकत्वस्य तद्ग्रहस्य वा असम्भवात् । सादिपदे तथा अनादिपदे त्वर्थप्रत्ययस्य अन्यथापि भावात् न तत्कल्पनेति चेत् , न।
पदत्वस्यैव प्रयोजकत्वे सम्भवति तत्र विशेषणे गौरवात् । सङ्केत एव मुख्या वृत्तिः तात्पर्यनिर्वाहकत्वात् । अन्वयप्रतियोग्युपस्थापकत्वाच्च ।
लक्षणा च वृत्त्यन्तरम्। यत्र वाच्यार्थान्वयानुपपत्त्या वाच्यसम्बन्धोपस्थापिते वाक्यार्थान्वयः । यथा गङ्गायां घोष इत्यत्र गङ्गापदस्य तीरे । तदुच्यतेवाच्यस्यार्थस्य
वाक्यार्थे सम्बन्धानुपपत्तितः । तत्सम्बन्धवशप्राप्तस्यान्वयात् लक्षणेच्यते ॥ इति ।

अथ तीरे शक्तिरेव शक्तिग्राहकव्यवहारस्य मुख्यलक्ष्यसाधारणत्वात् । पदानां सम्भूय वाच्यार्थान्वयबोधकत्वव्युत्पत्तेः पदजन्योपस्थितेः शक्तिसाध्यत्वात् । अन्यथा
न तत्र शाब्दत्वं तात्पर्यं वा। तयोः शक्तिनियतत्वात् । किञ्च तीरे यदि तात्पर्यमवधृतं तदा तन्निर्वाहकत्वेन शक्तिरेव कल्प्या । क्लृप्तत्वादक्षादिपदवन्नानार्थतैव युक्ता। न
त्वक्लृप्तवृत्त्यन्तरं कल्प्यत इति । उच्यते । गङ्गापदस्य लक्षणीयतीरादिसहस्त्रेषु प्रत्येकं शक्तिकल्पनं तद्ग्रहार्थं लक्षणीयेषु प्रत्येकं वृद्धव्यवहारान्तरापेक्षया स्यात्। तथा
च गौरवमननुभवश्च । लक्षणातु शक्यसम्बन्धस्वरूपैका लक्षणीयविषयकवृद्धव्यवहारान्तरानपेक्षा चेति लाघवात् सैव युक्ता । न च गौरवमपि न्याय्यम् , प्रामाणिकत्वात्
लक्ष्यत्वभिमतान्वयबोधस्य शकिं्त तद्ग्रहं वा विनानुपपत्तेः लक्षणायाः कापि कारणत्वाग्रहादिति वाच्यम्। शकिं्त विनापि तीरान्वयबोधोपपत्तेः । तथाहि- - व्युत्पन्नो

150

निरूपिताप्तभावस्य गङ्गायां घोषः प्रतिवसतीति वाक्यं श्रुत्वा विमृशति इदं प्रमाणं आप्तोक्तत्वात् । सम्भवति चेदं तथा ,। यथा वस्त्रेण पिधेहीत्यत्र कर्मत्वापन्ने द्वारे
अध्याहृते योग्ये इतरपदैः स्वार्थान्वयो बोध्यते । तथा शक्या गङ्गापदस्मारितमुख्यार्थस्मारिते तीरे योग्याकाङ्क्षिते इतरपदैः स्वार्थान्वयबोधोऽत्रापि सम्भवति इति ततो
मुख्यार्थस्मारिते तीरे घोषादिपदैः स्वार्थान्वयबुद्धिरस्य उत्पद्यते । एवञ्च तीरान्वितवाक्यार्थबुद्धिः तीरप्रतिबद्धवृद्धव्यवहारादिदर्शनं विनैव जायते पदानां स्मृतयोग्यान्वितस्वार्थप्रतिपादनस्य
प्रागेव व्युत्पन्नत्वात् । एवञ्च तीरस्मृत्यनुभवयोः शक्यसम्बन्धज्ञानादेवोपपत्तेः न शक्तिः। स्वार्थसम्बन्ध एव च लक्षणा पश्चात्तु परम्परया गङ्गासम्बन्धितीरप्रतिपत्तये
अनेनाप्तेन गङ्गापदं प्रयुक्तमिति तात्पर्यधीर्जायते । गङ्गास्मारिततीरान्वयबोधश्च न तात्पर्यज्ञानमपेक्षते। न्यायत एव तीरस्य प्रथमं वाक्यार्थान्वयबोधोत्पत्तेः । अथवा
निश्चिते स्वार्थसम्बन्धिनोऽन्वये तद्विशेषज्ञानार्थं तदपेक्षास्तु । न च तदर्थमपि । योग्यतादेरेव तद्विशेषलाभात् । अन्यथानुपस्थिते विशेषे तात्पर्यस्यावगन्तुमशक्यत्वात् ।
शक्तिस्मारितशक्यसम्बन्धो वा तज्जन्या शक्यसम्बन्धस्मृतिर्वा लक्षणा । उभयथापि लक्षकपदस्य लक्ष्ये तात्पर्यज्ञानं लक्षणायामनुपयुक्तमेव । उक्तन्यायेन शब्दात् परम्परया
अशक्यस्मृतेस्तात्पर्यग्रहात् पूर्वमेव क्लृप्तकारणादुपपत्तेः । शक्त्योपस्थापितार्थे शब्दतात्पर्यात् लक्षणेति। तात्पर्याद्धि वृत्तिरिति च लक्षणास्थले लक्ष्ये वस्तुतस्तात्पर्यमस्तीत्येवम्परम्।
नन्वेवं तात्पर्यानपेक्षणे यत्र तीरं नीरञ्चान्वययोग्यं तत्र कदाचित्तीरान्वयोऽपि बोध्येतेति चेत् , न । शक्त्युपस्थापितेन योग्याकाङ्क्षितेनैवान्विताभिधानमिति व्युत्पत्तेः।
शाब्दत्वन्तु तीरस्याध्याहृतस्येव इतरपदैस्तीरान्वितस्वार्थान्वयाभिधानात् । तदेवं वृद्धव्यवहारादिदर्शनं विनैव तीरादौ लक्षणेति स्थितम् । अथवा गङ्गायां घोषः प्रतिवसति,
तमानयेति वाक्यश्रवणानन्तरं प्रयोज्यस्य तीरोषितघोषानयने प्रवृत्तिमुपलभ्य किं तीरेऽपि गङ्गापदस्य शक्तिरुत स्वार्थेन सम्बन्धात् स्मारिततीरे तात्पर्यमात्रम् ।
तीरान्विताभिधानन्तु पदान्तरैः । एवमप्ययोग्यार्थपरत्वाभावेन प्रामाण्यादाप्तोक्तत्वोपपत्तेरिति विचिकित्सन् बालः तीरादौ न शक्तिः तथासत्येकार्थसम्बन्धिषु बहुष्वेकपदस्य
बह्नि शक्तिरेवं पदान्तरेष्वपि। तेषु तेषु च शक्तिग्रहार्थं वृद्धव्यवहारापेक्षा च । तथा च गौरवमतः स्वार्थसम्बन्धिनि तीरादौ तात्पर्यमात्रम् , लाघवादिति तत्र तत्र लक्षणामेव
कल्पयति । यस्य चैवं विमर्शः प्रथमं लाक्षणिकपदश्रवणेन जायते तस्य तत्र शक्तिबुद्धावपि यदा लक्षणाख्यवृत्त्यन्तरज्ञानं पूर्वोक्तन्यायेन जायते तदा प्रथमावगतशक्तिज्ञानं
मम भ्रम इति कल्पयति लाघवात् । अन्यत्र तु यत् प्रथमावगतस्य सत्यत्वकल्पनं तदुपपादककल्पनञ्च तल्लाघवादेव । अत्र तु न तथा । अन्यथा सम्बन्धिसहस्रेष्वपि
शक्तिकल्पनाप्रसङ्गात् । एवञ्च लक्षणास्थले यस्य प्रयोज्यव्यवहारादाद्या व्युत्पत्तिः तीरादौ स यदा तीरनीरयोरन्वयबोधयोग्यप्रयोगे तीरे व्यवहारं पश्यति तदा तत्रैव  शक्तिः
तीरधीस्तु प्रयोज्यस्य लक्षणावशात् मम तदनाकलनात्तत्र शक्तिज्ञानं भ्रम इति कल्पयति । यदा तूभयानुगतमेकमेवावच्छेदकमस्ति उभयत्र प्रयोगश्च तत्रोभयत्र शक्तिरेव, न
लक्षणा। तुल्यवद्व्युत्पत्तेरेकत्र मुख्यत्वोपमर्दे हेत्वभावात् । यत्र तु न तथा तत्रानेकार्थत्वमेव । अक्षादिपदे तावदन्यतरत्वं तत्राप्यनुगतमस्तीति चेत् , न । तावदन्योन्याभाववदन्यत्वं
हि तत् । न च तावदन्योन्याभाववदन्यत्वेन रूपेण तावतामक्षपदादवगतिः । किन्तु पाशकत्वादिनैव । किञ्च यदि तीरेऽपि शक्तिस्तदा न तीरमात्रे । किन्तु गङ्गातीरे ।
तथा च विशिष्टशक्तौ विशेषणे शक्तिरावश्यकी, नागृहीतविशेषणान्यायात् ।

अथ लक्षणापक्षे यथा प्रवाहेणोपलक्षणेन व्यावृत्ततीरविशेषस्यान्वयो न तु तीरान्तरस्य तथा प्रवाहोपलक्षिते तीरे शक्तिरस्तु न तु तीरे प्रवाहेऽपीति चेत् , न ।
गङ्गापदशक्तौ प्रवाहस्य शक्यत्वेन विशेषणत्वे सम्भवति नोपलक्षणत्वं विशेषणत्वासम्भवे सत्येव उपलक्षणत्वादतः प्रवाहः एव शक्तिः । किञ्च तीरशक्तौ उपलक्षणत्वं
प्रवाहस्य न शक्यतावच्छेदकत्वम् । नापि धेनुपदे गोत्वस्येव शक्त्युपाधित्वम् , गौरवात् ।

अन्ये तु तीरे नीरे च व्यवहार एव विलक्षणः । नीरे त्वनुपपतिं्त विनैव व्यवहारो निरुपाधिकत्वाच्छक्त्युपपाद्यः । तीरे त्वनुपपत्त्या ह्यौपाधिक एव व्यवहारः । स
च शक्त्यभावोपपाद्य इति ।  तन्न। लक्षणायामव्युत्पन्नो बालः प्रयोज्यस्य तीरान्वितानयनादिरूपं व्यवहारं पश्यन्नन्यत्र दृष्टां शकिं्त कथं न कल्पयेत् ।
अथ लक्षणया तीरत्वेनोपस्थितौ तीरान्तरान्वयोऽपि स्यात् । गङ्गातीरत्वेनैवोपस्थितौ युगपद्वृत्तिद्वयविरोधः। गङ्गोपस्थितेः शक्तिसाध्यत्वादिति चेत् , लक्षणाधीनतीरस्मृतेर्न
गङ्गासम्बन्धित्वेन तीरं विषयः। किन्तु यद्वस्तुगत्य गङ्गासम्बन्धि तदेव तीरत्वेन परिचीयते । सम्बन्धिदर्शनजस्मृतेस्तत्सम्बन्ध्यविषयत्वात् । यथा पदहस्तिदर्शनात्
पदार्थहस्तिपकस्मृतेर्न पदहस्तिविषयत्वम्। अत एव तीरान्वितवाक्यार्थबोधेऽपि न गङ्गासम्बन्धित्वेन तीरं विषयः । अपि च गङ्गायामित्यादिपदानां आप्तोक्तत्वेन
प्रामाण्यात् संभूय पदप्रतिपाद्यान्वयबोधकत्वमेकवाक्यत्वमवगतम्। मुख्यार्थश्चायोग्य इति योग्य आकाङ्क्षितश्चामुख्यार्थोऽपि पदप्रतिपाद्यः कल्प्यते । अन्यथैकवाक्यत्वभङ्गप्रसङ्गात्।
न चापदार्थेनैव योग्यतादिमतान्वयबोधकत्वस्त्विति वाच्यम् । गङ्गापदवैयर्थ्यप्रसङ्गात् । प्रतिपाद्यता च लक्षणीयस्य क्लृप्तेनैव स्मार्थसम्बन्धेन न तु शक्त्या
गौरवात्तादन्वयबोधश्चेतरपदेनैव । शक्त्योपस्थितस्य पदेनान्वयो बोध्यते अन्यत्र तथा दर्शनात् इति चेत् , न। लाघवेन पदोपस्थापितत्वस्यैव तन्त्रत्वात् । यद्यपि
लाक्षणिकस्य पदान्तरेण सम्भूय न प्रतिपादकत्वम् , अननुभावकत्वात् । लक्ष्यस्मृतौ च न सम्भूयकारित्वम्। अत एव नैकवाक्यत्वमपि । तथापि घोषादिपदानां
समभिव्याहृतपदप्रतिपाद्यान्वयबोधकत्वमवगतम् । तच्च न लक्षणां विनेति तां कल्पयति ।

यत्तुसामान्यतो गङ्गादिपदार्थान्वयो ज्ञात इति तद्रक्षार्थं परम्परया गङ्गादिपदार्थस्मारिते तीरादौ लक्षणा कल्प्यत इति ।  तन्न। प्रथमं गङ्गापदार्थान्वय
बोधकाभावात्। अन्वयबोधेऽपि लक्षणया गङ्गापरिचिततीरस्य घोषान्वयबोधेऽपि गङ्गया अन्वयबोधाविषयत्वेन तदन्वयस्यारक्षणत् । यत्तु गङ्गायां घोष इत्यादेरेकवाक्यत्वं
पदस्मारितार्थान्वयबोधकत्वरूपमवगतम् । तच्च यद्यपि गङ्गापदार्थस्य साक्षात् घोषाधारत्वायोग्यत्वात् न सम्भवति, गङ्गासम्बन्धितीरे योग्ये घोषान्वयात् तीरावच्छेदकतया
गङ्गापदार्थस्य घोषान्वयादेकवाक्यत्वं सम्भवति । अत एवैकवाक्यत्वस्य सामान्यतोऽवगत पदार्थान्वयस्य च रक्षार्थं गङ्गापदस्मारितस्वार्थस्मारिते तीरे वृत्त्यन्तरं लक्षणा
कल्प्यते। तयोरन्यथा भङ्गप्रसङ्गादिति ।तन्न। तीरार्थस्य घोषान्वयबोधेऽपि गङ्गापदार्थस्य तदन्वयबोधाविषयत्वात् ।

अथ गङ्गातीरत्वेनोपस्थिते घोषान्वयबोधात् भवति गङ्गायास्यतीरावच्छेदकतया अन्वयबोधविषयत्वमिति चेत् , न । गङ्गापदाद्गाङ्गतीरयोर्युगपदुपस्थितौ
वृत्तिद्वयविरोधात् । न ह्युभयोः शक्त्या लक्षणया वोपस्थितिः सम्भवति । अथ लक्षणास्वाभाव्यात् लक्षकपदेन स्वार्थसम्बन्धित्वेनैव लक्षणीयतीरादेरुपस्थितिः । अन्यथा
तीरमात्रान्वयप्रसङ्गात् । तथा च लक्षणयैव गङ्गोपस्थितरिति चेत् , न। गङ्गासम्बन्धात् तीरस्य स्मृतिः सम्भवति। न तु गङ्गासम्बन्धस्य तत्सम्बन्धे तत्सम्बन्धाभावात्।
अत एव एकसम्बन्धिज्ञानात् अपरसम्बन्धिस्मृतेरपरसम्बन्धिसम्बन्धाविषयत्वनियमः । यथा पदहस्तिज्ञानात् पदार्थहस्तिपकयोः स्मृतौ न पदहस्तितोर्विषयत्वम्। पदे पदस्य-हस्तिनि हस्तिनः सम्बन्धाभावात् । सामान्यतो गङ्गापदार्थन्वयो नावगम्यते बोधकाभावात् । लक्षणा च शब्दात् परम्परया अशक्यासदृशस्यान्वयपरोपस्थितिरूपा
शक्यसम्बन्धादशक्यासदृशान्वयपरोपस्थितिरूपा वा अशक्यासदृशान्वयप्रतियोग्युपस्थितिहेतुः । स्वशक्यसम्बन्धो लक्षणेति परमार्थः । उपस्थितिहेतुर्हि वृत्तिः शक्तिवत् ।
अत एव क्लृप्तेन स्वार्थसम्बन्धेन लक्ष्योपस्थितिसम्भवात् न तदर्थं शक्तिः । न चैवं राजपुरुषादौ षष्ठ्यर्थलक्षणद्यव्याप्तिः राजसम्बन्धे राजसम्बन्धाभावादिति वाच्यम् ।
शक्येन राज्ञा स्वसम्बन्धं विना सम्बन्धस्य लक्षयितुमशक्यत्वात् । अन्यथातिप्रङ्गात् । न चात्माश्रयः । राजनिरूपितपुरुषसम्बन्धस्य स्वसम्बन्धस्य च भिन्नत्वात् ।

151

अथैवं मुख्यपरत्वेऽपि लक्षणा स्याच्छक्यसम्बन्धस्य तीरादौ सत्त्वादिति चेत् , न । लक्षणायां तात्पर्य्याभावेन शक्तेरिव मुख्यपरत्वेऽपि लक्षणाया मूकत्वात्
वृत्तेस्तात्पर्यानुरोधित्वात् । तदुक्तम्- - तात्पर्याद्धि वृत्तिर्न न वृत्तेस्तात्पर्यम् इति । गोपदादेश्च स्वपरत्वे लक्षणैव न शक्तिः । स्वार्थसम्बन्धेनैव स्वोपस्थितिसम्भवात् ।
अन्ये तुपदानामौत्सर्गिकमर्थपरत्वम्। तदभावे स्वपरत्वम्। गामुच्चारयेत्यादौ वाच्याविवक्षया पदेन स्वान्विताभिधानादिति। तन्न। वृतिं्त विना स्वपरत्वस्यानिर्वाहात्।
अन्यथा वृत्त्यन्तरोच्छेदः। तत्पदादेव तदन्विताभिधानसम्भवात् ।

ननु पदगोचरश्रोत्रजनितप्रत्यक्षोपस्थितस्वपरत्वमेव पदानाम् । तदन्वितस्वार्थाभिधानन्तु पदान्तरेण । न च वृत्त्युपस्थितेनैव स्वार्थान्वयः पदेनाभिधीयत इति
व्युत्पत्तिः । किन्तुपस्थितिमात्रेण लाघवात् अध्याहारे तथैव स्वीकारात् । लक्षणादीनाञ्चोपस्थितिरूपतया तद्द्वारा चान्विताभिधानोपयुक्तत्वात् । लक्षणात्वाद्यसाधारणरूपेण
तदुपयोगे परस्परव्यभिचारादिति चेत् , न । वर्णानां अयौगपद्येन पदगोचरप्रत्यक्षस्याभावात् । भावे वा योग्यतादिविमर्शापेक्षया प्रत्यक्षस्यातीतत्वात् । किञ्चैवं
गामुच्चारयेत्यादौ विकृतं गांपदमेव उच्चारणकर्म स्यात् तस्यैव श्रात्रप्रत्यक्षत्वात् न त्वविकृतं गोपदम् । एकमुच्चारयेत्युक्तौ च न प्रकृतं पदान्तरमुच्चारणकर्म स्यात्
किन्त्वेकमुच्चारयेति पदमेव । सत्यन्वययोग्यसमभिव्याहृते प्रकरणाणदेरनुपयुक्तत्वात् । अपि चाध्याहारे वृत्त्युपस्थापितेनान्विताभिधानमस्तु । तस्यापदार्थत्वेऽपीतरपदैरन्वयबोधात्।
अत्र तु स्वरूपस्य पदार्थत्वमवश्यं वाच्यम्। तच्च वृत्त्यन्तर्भावादेव । अन्यथा गामुच्चारयेत्यादौ द्वितीया अच्छावाकीयं सामेत्यादौ च छप्रत्ययो न स्यात् । अर्थशून्यत्वेनाप्रातिपदिकत्वात्।
तस्माच्च छप्रत्ययानुशासनात् । किञ्च गौरस्तीत्यादौ उभयपरत्वसम्भवे स्वपरत्वमेव स्यात् । स्वस्य प्रत्यक्षेण शीघ्रमुपास्थितत्वात् । प्रत्यक्षमूलकस्मृतपदार्थस्यान्वयो
भवतीति चेत् , न । उक्तदोषात् । पदार्थस्मरणस्य अन्वयपरत्वानिश्चयात्र तत्परसन्निधानस्य अन्विताभिधानोपयोगात् । किञ्च विभक्त्युपनीतान्वयप्रकार
कर्मत्वादिनानुपस्थितस्याकाङ्क्षाविरहेण क्रियाद्यन्वयो न स्यात् । स्मृतपदे द्वितीयार्थकर्मत्वान्वय इति चेत् , न । विभक्तेः प्रकृत्यर्थान्वितस्वार्थान्वयबोधकत्वस्य
व्युत्पत्तिसिद्धत्वात् । अत एव गङ्गायामित्यत्र सप्तम्यर्थान्वयार्थं तीरे लक्षण। अन्यथा स्मृत्युपनीततीरस्यान्वयबोधसम्भवे लक्षणोेच्छेदः । नन्वेवं जबगडदशमाहेत्यादौ
निरर्थकेषु लक्षणा न स्यात् । स्वार्थसम्बन्धाभावात् । प्रत्यक्षोपस्थिते स्मृते वा स्वरूपे क्रियान्वय इति दूषितमेवेति चेत् , न । न हि जबगडदशमाहेत्यत्र समुदाये
क्रियान्वयः । समुदायस्योच्चारणासम्भवात् । किन्तु द्वन्द्वानन्तरश्रुतक्रियापदेन प्रत्येकवर्णे स्वार्थान्वयबोधनम्, प्रत्येकवर्णस्य च शक्तत्वेन स्वार्थसम्बन्धादेव स्वस्मिन्
लक्षणा। स्तोभेऽप्येवम् । स्वार्थसम्बन्धाग्रहे च स्वरूपोपस्थितिः शक्तिभ्रमात् । निरर्थकस्य स्वरूपे शक्तिरेव वृत्त्यन्तरं विनैवोपस्थितेः शक्तिसाध्यत्वात् इत्यप्याहुः ।
अन्ये तुपदस्य स्वबोधकत्वं वृतिं्त विनैव स्वभावात् । अन्येन ह्यन्यबोधनेऽतिप्रसङ्गात् शक्तिकल्पनम्। स्वबोधकत्वे च न तथा । यथा घटस्य स्वबोधकत्वं
स्वसम्बन्धं विनैव । एवञ्च स्वबोधिते स्वस्मिन् विभक्त्यर्थान्वयोऽपि । न च पदस्य स्वभावात् स्वबोधकत्वे सर्वत्र स्वबोधप्रसङ्ग इति वाच्यम् । इत्यादिपदस्य
स्वार्थन्वायानुपपत्त्यादेः सहकारित्वात् यथा घटस्य स्वबोधकत्वे इन्द्रियसम्बन्धाद्यपेक्षेति यत्तु स्वार्थसम्बन्धिनि तात्पर्यमेव लक्षणा। तत् तत्ताप्तर्यञ्च तत्प्रतीतिमुद्दिश्योच्चरितत्वमिति।
तन्न। लक्ष्यस्मृतये लक्षण सा च स्वार्थसम्बन्धज्ञानादेवेत्यधिकस्य व्यर्थत्वात् । सम्बन्धधीः स्मृतिहेतुः क्लृप्ता न तु तात्पर्यधीरपि तस्या लक्ष्यस्मृतिजन्यत्वेनान्योन्याश्रयप्रसङ्गात्।
तात्पर्यज्ञानञ्च लक्षणवीजानुपपत्तिज्ञानेऽन्वयानुभवे चोपयुक्तमतोऽशक्योपस्थितिस्तहेतुः शक्यसम्बन्धो वा लक्षणेति तत्स्वरूपे तात्पर्यमनुपयुक्तमेव । लक्ष्ये तात्पर्यात्
लक्षणा  " "तात्पर्याद्धि वृत्तिरि" "ति च लक्षणास्थले । वस्तुतस्तु लक्ष्ये तात्पर्यमस्तीत्येवम्परम्। किञ्चैवं मुख्येऽपि तत्तात्पर्यकत्वमेव वृत्तिरस्तु किं शक्त्या , तात्पर्यमेव वृतिं्त
विना न निर्वहतीत्युच्यत इति चेत् , तर्हि लक्षणापि तन्निर्वाहिकैव न तु तदेव । अपि च तात्पर्यानुपपत्तिर्लक्षणवीजं न तु तदनुपपत्तिरेव तद्धीजं विरोधात् । अत एवाशक्ये
तात्पर्यं न लक्षण वृत्तेस्तात्पर्यनिर्वाहकत्वात् । निर्वाहक सम्बन्धपश्यत आप्तस्य तात्पर्यभावात् । शक्या शक्यसम्बन्धेन वा पदादमुमर्थं जानात्वित्यभिप्रायेण पदप्रयोगे न
तु तात्पर्यदेवायममुमर्थं ज्ञास्यतीति बुद्धा तात्पर्यमात्रस्य वृत्तित्वे सर्वस्य सर्वत्र प्रयोगो नानार्थोच्छेदश्च । स्वार्थसम्बन्धेनेदं पदमर्थं बोधयिष्यतीति वक्तुरभिप्रायोलक्षण
तदभिप्रायज्ञानं विना श्रोतुर्लक्ष्यानुपस्थितेरित्यन्ये। तन्न । अयं ह्यभिप्रायः- - प्रयोगनिमित्तं यथा शक्त्यायमर्थं बोधयिष्यतीत्यभिप्रायः। न तु स एव लक्षणा गौरवात् । किन्तु
स्वार्थसम्बन्ध एव लक्षणा तत एव लक्ष्योपस्थितिसम्भवात् वृत्तेस्तत्रैवोपयोगात् तस्य चाबोधकत्वे स्वार्थसम्बन्धेनायं बोधयिष्यतीत्यभिप्रायवान् वक्ता नाप्तः स्यात् तात्पर्यं
धीस्त्वन्यबोधेहेतुरित्युक्तम्। शक्यसंबन्धश्चा। विनाभाव एव यष्टी प्रवेशय मञ्चाः क्रोशन्तीत्यत्रापि प्रवेशनक्रोशनसमये यष्टिधर मञ्चस्थपुरुषयोर्यष्टिमञ्चाविनाभाव एव।
एवञ्च छत्रिणो यान्ति काकेभ्यो दधि रक्ष्यतामित्यत्राजहत्स्वार्थलक्षणायामपि छत्रिणेस्तत्समूहानन्तर्गतेनाछत्रिणाप्यविनाभाव एव । काककुक्कुरादीनां दध्युपघातकत्वेन
युगपदुपस्थितिसमये काकस्य कुक्कुराद्यविनाभावः। यत्र तूपाघातकत्वेन काकमात्रमुपस्थितं न कुक्कुरादि तत्र काकपदेऽप्युघातकत्वेन लक्षणापि नास्ति।
दध्युपघातकत्वेनातर्किताद्रक्षणोेपदेशानर्हत्वादिति  सम्प्रदायः।

वस्तुतः शक्यसम्बन्ध एव लक्षणा अतिप्रसङ्गश्च सम्बन्धस्याविनाभावस्वरूपत्वेऽपि , तात्पर्यादन्वयनियमः शक्यसम्बन्धमात्रलक्षणापक्षेऽपि , लक्षणाबीजं
तात्पर्य्यानुपपत्तिः पदस्य वृतिं्त विना लक्ष्ये तात्पर्यानिर्वाहात् । न तु शक्यान्वयायोग्यत्वं बीजम्। यष्टीः प्रवेशयेत्यत्राजहत्स्वार्थायाञ्च शक्यस्यान्वययोग्यत्वेऽपि
लक्षणासत्त्वात्तात्पर्यानुपपत्तिस्तत्रापि । लक्ष्ये तात्पर्यं विना लक्षणानुदयादिति  सम्प्रदायः।

वस्तुतोऽन्वयपरप्रमाणशब्दस्य मुख्येऽन्वयायोग्यत्वमेव लक्षणाबीजम् । " "गङ्गायां घोष" " इत्यादौ पूर्वोक्तन्यायेन लक्ष्ये तात्पर्य्यग्रहात्पूर्वमेव मुख्यस्यान्वयायोग्यत्वज्ञानेन
लक्षणीेपपादनात् । अस्तु वा तत्रापि लक्ष्ये तात्पर्य्यग्रहः तथापि मुख्येऽन्वयानुपपत्तिरेव लक्षणाबीजं प्रथमोपस्थितत्वात् तात्पर्य्यानुपपतिं्त विनैव लक्षणाबीजत्वसम्भवाच्च।
यष्टीः प्रवेशयेत्यत्राजहत्स्वार्थायाञ्च मुख्यस्यान्वयानुपपत्तिरेव । तथाहि प्रकरणादिना " "प्रवेशये" "त्यस्य भोक्तृप्रवेशनपरत्वं यान्तीत्यस्य छत्रितदितरघटितसमूहगमनकर्त्तृपरत्वञ्च
ज्ञातम् । तादृशप्रवेशनगमनयोरन्वयायोग्यावेव यष्टिच्छत्रिणौ ।

अथ प्रकरणादिनैवेतरपदवत् यष्टिच्छत्रिपदयोरपि लक्ष्ये तात्पर्यमवगतमतस्तदनुपपत्तिरेव तद्बीजमिति चेत् , न , लक्षणाताः पूर्वमवश्यं लक्ष्योपस्थितौ तत्र
तात्पर्य्यग्रहे मानाभावात् । लक्षणाया अन्यथाऽपि सम्भवात् । भावे वास्तु तत्रोभयानुपपत्तिस्तथाप्यन्वयानुपपत्तिरेव लक्षणाबीजं , " "गङ्गायां घोष" " इत्यादौ पूर्वोक्तन्यायेन
लक्ष्ये तात्पर्य्यग्रहात्पूर्वमेव मुख्यार्थाऽनुपपत्तेः क्लृप्तत्वात् ।

ननु पदार्थविशेषस्मृतौ तदन्वयबोधे वा प्रकरणादेः सहकारिता न तु तात्पर्य्यग्रह इति चेत् । न । शब्दसहकारित्वेऽननुगमात् तात्पर्य्यग्रहे तु तद्व्याप्यत्वेनानुगमः
तात्पर्य्यव्याप्यत्वग्रहे तात्पर्य्यग्रहः सम्भवत्येव । बहुव्रीहौ चित्रगोपदार्थस्यान्वयायोग्यत्वादन्यपदार्थे तात्पर्य्यानुपपत्तिरेव लक्षणाबीजमिति चेत् । न । तत्रापि

152

चित्रगोस्वाम्यानयनपरानयनपदार्थान्वयानुपपत्तेः । यद्यपि लक्षणायामन्वयायोग्यत्ववन्निराकाङ्क्षत्वमप्यस्ति तथाहि " "गङ्गायां घोष" " इत्यत्र घोषस्य निबिडाधाराकाङ्क्षितत्वेन
न प्रवाहाकाङ्क्षा एवं समूहगमनस्य छत्रिषु नाकाङ्क्षा तेष्वपरिसमाप्तेः , तथापि नोभयं निमित्तम् अन्यतरज्ञानेऽपि लक्षणासम्भवात् । नैकैकमेव निमित्तम् अननुगमात्।
अन्वयानुपपत्तिव्याप्यत्वेन वानुगमेऽन्वयानुपपत्तिरेव लक्षणाबीजं तस्या उभयत्र सत्त्वात् । लक्षणास्थले च स्मृतशक्यान्वयानुपपत्तिज्ञानानन्तरं गङ्गापदात् पुनः शक्यस्मृतिः
स्मृतशक्यात्स्वसम्बन्धेन तीरस्मृतिः शक्तेः शक्यस्मृतौ प्रवाहस्य स्वसम्बन्धेन तीरस्मृतौ सामर्थ्यावधारणात् । अतः शक्यस्मारिततीरस्येतरपदादेवान्वयबोधः । अत एव
लाक्षणिकं पदं नानुभावकम् अन्वयप्रतियांगिनस्तीनस्तीरस्य ततोऽनुपस्थितेः अन्वयप्रतियोग्युपस्थापकत्वेन पदानामन्वयानुभावकत्वात्। न च गङ्गापदात्स्वशक्यसम्बन्धेन
प्रथमं तीरस्मृतिरेव पुनः शक्यस्मरणे गौरवादिति वाच्यम् । गङ्गापदस्य स्वशक्यसम्बन्धेनान्वयप्रतियोगिस्मारकत्वाकल्पनात् । न चेहैव तत्कल्पनं , क्लृप्तकारणताकस्मृतिद्वयादेव
तीरोपस्थितिसम्भवादिति  प्राञ्चः।

तन्न। गङ्गापदात्तीरस्यानुपस्थितौ तत्र सप्तम्यर्थान्वयानुपपत्तेः विभक्तेः प्रकृत्युपनीतस्वार्थान्वयबोधकत्वव्युत्पत्तेः प्रकृत्यर्थोपस्थाप्यस्य विभक्त्यर्थान्वयेऽतिप्रसङ्गेऽननुगमश्च।
न च प्रकृतितात्पर्य्यविषयस्वार्थान्वयबोधकत्वं विभक्तीनां गौरवात् । एवञ्च प्रकृत्यर्थे विभक्तर्थान्वयनियमाच्छक्यसम्बन्ध एव साक्षात्तीरोपस्थितौ शक्तिः , तां विनापि
तदुपस्थितिसम्भवात् । नन्वेवमन्वयप्रतियोग्युपस्थापकतया इतरपदवल्लाक्षणिकमप्यनुभावकं स्यादिति चेत् , न, इतरपदार्थैः सह स्वशक्यान्वयानुभावकत्वेन क्लृप्तादितरपदादेव
तीरानुभवसम्भवेन लाक्षणिकस्याननुभावकत्वात् स्वशक्यान्वयानुभवे पदानां कारणत्वावधारणाच्च ।

अथ यदि गङ्गापदं नान्वयबोधकं तदा गङ्गापदान्तर्भावेन सम्भूयान्वयबोधकत्वलक्षणं नैकवाक्यत्वं स्यान्न वा प्रमाणत्वं तथाच तदुभयरक्षार्थं न लक्षणाकल्पनम्।
न च परम्परया साक्षाद्वान्वयप्रतियोगिस्मृतिहेतुत्वेन प्रमाणत्वं , स्मृतेरप्रमाणत्वात् । न चैकवाक्यत्वं , वाक्यभेदेऽपि पदार्थस्मृतिसत्त्वादिति चेत् , न । आप्तोक्तत्वात्
गङ्गापदान्तर्भावेनान्वयप्रमाप्रयोजकत्वं सम्भूयान्वयबोधप्रयोजकत्वञ्च गृहीतं तदुभयमपि तीरोपस्थितिद्वारा निर्वहति ।

नव्यास्तु  लाक्षणिकमप्यनुभावकम् । न चैवं ज्ञाने शक्तिः शक्यत्वादिति लक्ष्यमपि शक्यं स्यात् । प्रवाहशक्तत्वेन ज्ञातादेव गङ्गापदाच्छकिं्त विनापि तीरानुभवसम्भवात्।
यथा परेषां जातिशक्तत्वेन ज्ञातादेव व्यक्त्यनुभवसम्भवात् यथा वास्माकं पदार्थशक्तत्वेन ज्ञातादेवान्वयानुभवसम्भवान्न व्यक्त्यन्वययोः शक्तिरिति।
क्वचिद्योगार्थान्वयसम्भवेऽपि रूढिपूर्विका लक्षणायथा मण्डपं भोजयेत्यत्र रूढ्यर्थगृहविशेषस्यान्वयायोग्यत्वात् रूढ्यर्थगृहसम्बन्धिजनज्ञानं लक्षणया मण्डपपदेन
क्रियते न तु योगान्मण्डपानकर्त्तुरिति  मीमांसकाः  ।

ननु रूढिपूर्विका लक्षणा न युक्ता श्रौर्थपरत्वे सम्भवति लक्षणया अन्याय्यत्वात् रूढ्या योगापहारान्न मुख्यतेति चेत् । न । अपहारो हि न यौगिकार्थस्मृतिः ,
स्मारकसम्बन्धस्य शक्तेः रूढ्यर्थ इव यौगिकेऽपि सत्त्वात् । नापि योगार्थस्य प्रथममस्मृतिः , यदैव हि समुदायेन स्वार्थस्मरणं तदा अवयवैरपि स्मारकसमुदायज्ञाने
अवयवानामपि विषयत्वात् , प्रत्युतावयवैरेव शीघ्रं स्वार्थस्मरणम् अवयवज्ञानपूर्वकत्वात् समुदायज्ञानस्य । विलम्बेऽपि यदा रूढ्यर्थेन लक्षणया स्वार्थसम्बन्धिस्मरणं तदा
यौगिकार्थस्मरणं वाच्यं तथाचौत्सर्गिकान्वयाभिधायकत्वानुरोधाद्यौगिकार्थान्वयावबोधोऽस्तु। नापि स्मृतस्याप्यवयार्थस्यान्वयवोधबहिर्भूतत्वमपहारः ,
योग्यतादिबलादवयवार्थस्यान्वयबोधः स्यादेव , न तु रूढ्यर्थस्यायोग्यत्वात्। नापि लक्षणया स्मारितस्यार्थस्य , लाक्षणिकस्यानभिधायकत्वात् ।
अथ मण्डपशब्दस्य गृहविशेषे प्रयोगदर्शनादवयवशक्तया च तदनिर्वाहात्तत्र समुदाये शक्तिकल्पना तथाच मण्डपानकर्त्तरि सत्यपि योगे प्रयोगादर्शनात्तत्रावयवशक्तिकुण्ठनमपि
कल्प्यं कार्यानुरोधित्वात् कल्पनायाः । अन्यथा अनेकार्थरूढाक्षादिपदादिव क्वचित् मण्डपानकर्त्तुरप्यवगमः स्याद् बहुव्रीहौ समुदायशक्तावपि नावयवशक्तीनां कुण्ठनम्
अवयवार्थे लम्बकर्णादीं प्रयोगप्राचुर्यात् , कुण्ठनस्य प्रयोगाभावकल्प्यत्वात् , एवञ्च मण्डपादिपदेऽवयव शक्तेः कुण्ठितत्वात् रूढ्यर्थस्योपस्थितस्य परम्परयापि वाक्यार्थप्रतीत्यन्वयाय
तत्पूर्विका लक्षणेति चेत् , न , तप्ते पयसि दध्यानयति सा वैश्वदेव्यामिक्षा वाजिभ्यो वाजिनमित्यत्रामिक्षाया उत्पत्तिशिष्टत्वेन विश्वेदेवदेवताकत्वं , वाजमन्नमामिक्षारूपं
तधेषामस्ति ते विश्वेदेवा देवता इति चतुर्थ्यन्तवाजिपदाद्योगेनामिक्षारूपान्नयोगिनां विश्वेदेवानामुपस्थितेर्वाजिनस्यापि विश्वेदेवदेवताकत्वमेव । ननु वाजिपदात् रूढ्योपस्थितानामश्वानां
वाजिने देवतात्वमिति सिद्धान्तः स न स्यात् रूढ्या योगापहारादश्वानामेव तत्र देवतात्वापत्तेः । न ह्यत्र लम्बकर्र्णादिवद्वाजिपदस्य विश्वेदेवेषु प्रयोगप्राचुर्य्यमस्ति ।
अथान्वयप्रकारोविभक्त्योपनीयते , सा च यतः समभिव्यह्रता तस्यान्वयं बोधयति विभक्तिश्च समुदायात् , अतः समुदायोपनीतस्य रूढ्यर्थस्यैवान्वयबोधो नावयवोपनीतस्येति
चेत् , न , पङ्कजनिकर्तुरिव मण्डपानकर्तुरप्यन्वयबोधसम्भवात् । नन्ववयवार्थानां परस्परमन्वयीयोग्यतादिसापेक्षतया विलम्बितः रूढ्यर्थधीस्तु न तथेति चेत् , अस्तु
तावदवयार्थस्यान्वयधीर्विलम्बिता न तु स्मृतिरूपापि सा तथा, सा चान्वयबोधोपयोगिनी , एवञ्च यथा पङ्कजमानयेत्यत्र प्रथमं पदार्थवाक्यार्थान्वयधीः ततस्तदन्वितजन्मधीः
तदनु च परम्परया तथाभूतजन्मनि पङ्कपदार्थान्वयधीः कार्र्यान्वितव्युत्पत्त्यनुसारात् न तु सिद्धपङ्कजन्मकर्तृत्वानां प्रथममन्वयधीः तथा मण्डपादिपदेऽप्यस्ति । यदि च
सिद्धार्थेऽप्यन्वयधीर्योग्यतादिवशात्तदा रूढ्यर्थवयवार्थानां स्मृताववयवार्थान्वयबोधसम्भवात् । रूढ्यर्थान्वितबोधस्येतरपदात्तदर्थस्मरणकाङ्क्षायोग्यतादिज्ञानसापेक्षतया
विलम्बितत्वात् ।

अथ यावत्सु वर्णेष्ठेका शक्तिस्तावतां वर्णानां स्मृतिरप्येकैव कार्यबलात् कल्प्यते , अत एकदा स्मृतसमुदायनिष्ठशक्तिस्मृतिः शीध्रा अवयवशक्तीनान्तु
स्मृतिर्विच्छद्य कतिचिद्वर्णस्मृताविति विलम्ब इति चेत् , न , यथा हि मण्डपसमुदायगोचरैका स्मृतिस्तथा मण्डादिपदविषयापीति न कश्चिद्विशेषः अतः कथं योगाद्रूढेर्वलवत्त्वमिति।
उच्यते । यदा मण्डपपदाद्गृहविशेषस्मृतिस्तदैव प्रथमं मण्डार्थोपस्थितिः तदुत्तरम्पिबत्यर्थस्य तदनन्तरं प्रत्ययार्थस्य ततो मण्डपानकर्तृत्वेन ज्ञातस्य स्मृतिः तदेवं
रूढियौगिकयोर्बलाबलं शीघ्रविलम्बितधीकृतमेव , तथाच रूढ्यर्थस्य शीघ्रोपस्थितत्वाद्बलवत्त्वमौत्सर्गिकम् । यत्र तु प्रकरणादिना यौगिकार्थस्य शीघ्रन्धीविषयता तत्र
रूढेर्योग एव बलवान् । यथा " "अग्निर्वसुभिः सोमो रुद्रैरिन्द्रो मरुद्भिर्वरुण आदित्यैर्वृहस्पतिर्विश्वेदेवैरित्यत्र विश्वेदेवपदाद्योगेन सकलदेवप्रतिपादकात् प्रकरणवशेन
सन्निहितवसु-रुद्र-मरुदादित्यरूपसकलदेवतानां शीघ्रं बुद्धिस्थता प्रकरणादवयवार्थे संस्कारोद्बोधात् , न तु पूरुरवोमाद्रवःप्रभृतिषु गणेषु रूढादपि विश्वेदेवपदात्तेषां धीः । एवं
सा वैश्वदेव्यामिक्षा वाजिभ्यो वाजिनमि" "त्यामिक्षारूपार्थस्योत्पत्तिशिष्टविश्वेदेवदेवताकत्वं ज्ञातं , " "वाजिभ्य इति चतुर्थ्यन्तपदादश्वे रूढादपि वाजमन्नं तद्यस्यास्तीति
व्युत्पत्त्या वाजनामकामिक्षारूपान्नयोगिनां विश्वेदेवानाञ्च प्रकरणात् शीघ्रमुपस्थितिः । न च रूढ्याश्वानां , तेन वाजिनस्यापि विश्वेदेवदेवताकत्वं प्रतीयते ।

153

ननु रूढेर्बलवत्त्वादत्रापि रूढ्यर्थधीरेव स्यादिति चेत् , न , द्वयोरुपस्थितयोरनुपस्थितयोर्वा रूढिर्र्बलीयसी । अत्र तु प्रकारणरूपहेत्वन्तरादुद्बुद्धसंस्कारेण योगार्थ
एव ज्ञाने सम्भृतसामग्रीकः । ननु शाब्दानुभवे शब्दकारिता स्मृतिरुपयोगिनी न तु प्रकरणदिकारितापि उच्छृङ्खलज्ञानकारितायास्तस्या अन्विताभिधानानुपयोगादिति चेत्,
न। प्रकरणादुद्बुद्धसंस्कारस्यैव शब्दादप्युद्बोध इति प्रकरणासहकृतशब्दादवयवार्थसंस्कारोब्दद्धोधादवयवार्थस्मृतिः शब्दकारिता शीघ्रा वा न तु रूढ्यर्थस्मृतिः तत्र  च
संस्कारोद्बोधकाभावात् । न चैवं लोकेऽपि मण्डपादौ योगस्य बलवत्त्वान्न लक्षणेति वाच्यम् । प्रकरणाद्यभावे हि शीघ्रं रूढ्यर्थोपस्थितौ रूढिपूर्विका लक्षणा
प्रकरणादिसत्त्वे तु मण्डपादिपदेऽपि योगार्थ एव बलीयानिति न लक्षणा । अत एव रूढिच्युतकप्रकरणादिसत्त्वेन रूढ्यर्थास्मरणन्न लक्षणा किन्तु योग एव ।
तस्मात्प्रकरणाद्यभावे रूढ्यर्थस्य शीघ्रमुपस्थितत्वाद्रूढिपूर्विका रूढ्यर्थसम्बन्धिनि लक्षणा। प्रकरणादिसद्भावे तु रूढ्यर्थस्य न स्मृतिरिति योग एवेति तत्त्वम् । न चैवं
प्रोद्गातृणमित्यत्रोद्गथाख्यसामभागयोेगिनां त्रयाणां प्रकृतत्वाद्योगस्यैव बलवत्त्वं स्यात् न तु रूढिपूर्विकानुवाके लक्षणेति वाच्यम् । तत्र हि रूढौ योगे च प्रकरणस्य
तुल्यत्वाद्रूढ्यर्थस्य शीघ्रोपस्थितत्वेन बलवत्त्वाद्रूढिपूÐव्वका लक्षणैव ।

अत्र वदन्ति  । भवतु रूढ्यर्थस्य शीघ्रमुपस्थितिस्तथापि तस्यायोग्यत्वादनन्वयेन शक्त्योपस्थापितावयवार्थस्यैव योग्यतादिमत्त्वादन्वयबोधो भवेत् प्रतिबन्धकस्य
रूढ्यर्थान्वयबोधस्याभावात् लाक्षणिकार्थस्य विलम्बितोपस्थितिकत्वात् । नन्वेवं मण्डपं भोजयेत्यत्रावयार्थपरत्वेऽवयवार्थानां प्रथममेकमन्विताभिधानं तदनन्तरं तस्य
वाक्यार्थेऽपरमन्विताभिधानमिति तात्पर्य्ये गौरवं रूढिपूर्वकलक्षणायान्तु एकत्रान्विताभिधाने तात्पर्यमिति लाघवमिति चेत् । न ।
सामग्रीसत्त्वेनावयवार्थान्वयबोधस्यागौरवेणापहस्तयितुमशक्यत्वात् । लक्षणीये तात्पर्यग्राहकस्याभावात् भावे वा न्यायाभिधानस्य व्यर्थत्वात् ।
ननु रूढ्यर्थस्य प्रथमं स्मृतत्वात्तस्य च लक्षणया परम्परयापि प्रयोजकत्वसम्भवे तत्त्यागायोगाब्दरं लक्षितस्यान्वयबोध इति चेत् , तर्हि , प्रथमं रूढ्यर्थस्मरणसमकालं
वा स्मृतस्य मण्डाद्यवयवार्थस्य बाधकं विनान्वयरक्षार्थं तत्त्यागोऽपि नोचितः तत्त्यागहेतोः रूढ्यर्थान्वयबोधस्याभावात् । अथ रूढ्यर्थस्योपस्थितिरेव योगार्थान्वयबोधप्रतिबन्धिका
न तु रूढ्यर्थान्वयबोधे गौरवात् यत्र च प्रकरणादिना योगार्थान्वयबोधस्तत्र रूढ्यर्थस्य स्मृतिरेव नास्ति संस्कारोब्दोधाभावात् किन्तु प्रकरण-शब्दाभ्यामवयवार्थस्य
संस्कारोद्बोधनादवयवार्थस्यैव स्मृतिरिति चेत् , न, अवयवार्थस्य स्मृतावन्वयबोधे वा रूढ्यर्थस्य स्मृतेः प्रतिबन्धकत्वे मानाभावात् मण्डपपदस्य गृहपरत्वे रूढ्यर्थस्यान्वयबोधो
योग्यत्वात् स्मृतस्याप्यवयवार्थस्य नान्वयबोधः क्लृप्तकारणयोग्यताविरहान्न तु रूढ्यर्थस्मृत्या प्रतिबन्धात् । तस्मान्न न्यायलभ्या रूढिपूर्विका लक्षणा । किन्तु यत्र
रूढ्यर्थसम्बन्धिनि तात्पर्यं मानान्तरादवधार्य्यते तत्र रूढिपूर्विका लक्षणा रूढ्यर्थसम्बन्धिविशेषज्ञापनार्थं विशेषे तात्पर्यग्रहस्यावश्यकत्वात् । यत्र तु प्रकरणाद्यभावान्न
योगबलवत्त्वं तत्र रूढ्यर्थस्य शीघ्रोपस्थितितत्वान्तेनैवेतरपदार्थान्वय इति रूढेर्योगापहारः । उपपदधातुप्रत्ययार्थानां स्मृतिस्ततस्तेषां योग्यतादिज्ञानं ततोऽवयवार्थान्वयबोध
इति यौगिकार्थस्य विलम्बितोपस्थितकत्वात् यथा " "वर्षासुरथकार आदधीते" "त्यत्र रथकारशब्दाद्रूढ्या जातिविशेषवत्प्रतीतेः शीघ्रत्वात्तस्यैवाधानं प्रतीयते तदर्थं तदनुकूलविद्याप्रयुक्तिरपि
तस्याक्षिप्यते न तु रथकारशब्दस्य योगोपस्थितरथकरणयोग्यान्यतोलब्धविद्यत्रैवर्णिकपरत्वं , विद्याप्रयुक्तिकल्पनातो रथकारशब्दे योगसङ्कीचमात्रस्य लघुत्वादिति युक्तं ,
शब्दार्थानुरोधेन हि कल्पना न तु कल्पनाभयेन शब्दार्थत्यागः प्रमाणशब्दमूलकत्वेन फलमुखगौरवस्यादोषत्वात् । अत एव च क्रतुविशेषे " "हिरण्मयौ प्राकाशावध्वर्यवे
दक्षिणां ददाती" "ति श्रूयते , तत्राध्वर्युशब्दाद्रूढ्या ऋत्विग्विशेषस्य शीघ्रमुपस्थितेः तस्यैव प्राकाशस्य स्वत्वलक्षणसम्बन्धो विधीयते ददातीत्यनुवादः । तेन
क्रतुदक्षिणायामध्वर्युभागमात्रबाधः अन्येषामृत्विजां प्राकाशस्वत्वाभावात् क्रतुदक्षिणायामन्वयः । यदि चाध्वरं युनक्तीति यागोपस्थित ऋत्विङ्मात्रे प्राकाशसम्बन्धविधिः
स्यात्तदा सर्वेषामेव ऋत्विजां क्रतुदक्षिणाबाधो नाध्वर्युभागमात्रस्य ।

नन्वेवं स्वर्गकामो यजेतेत्यत्र स्वर्गकामशब्दात् स्वर्गकामत्वेन स्त्री-शूद्रयोरप्युपस्थितेरधिकारो बोध्येत शब्दार्थानुरोधादिद्याप्रयुक्तिरपि तयोराक्षिप्येतेति चेत्  । न ।
स्त्री-शूद्रयोर्विद्यानिषेधात् स्वर्गकामपदस्य स्त्री-शूद्रेतरपरत्वं तेन स्वर्गकामपदार्थे सङ्कोचमात्र न बाधः सङ्कोचे च न शब्दार्थहानं स्वर्गकामत्रैवर्णिकस्याधिकारबोधनात्
रथकारशब्दे च पदार्थमात्रस्यैव बाधः स्यात् । यद्यपि सङ्कोचोऽप्येकदेशबाध एवेति सोऽपि न युक्तः तदंशे शब्दार्थहानप्रसङ्गात् , तथापि सामान्यबाधादेकदेशबाध  एव
लघुरिति । लक्षणा च पदवृत्तिर्वृत्तित्वात् शक्तिवत् ।

ननु " "गभीरायां नद्यां घोष" " इत्यत्र नैकपदे लक्षणा तीरस्यानदीत्वादगभीरत्वाच्च मुख्य-लक्ष्ययोरनन्वयापत्तेः । नापि पदद्वये प्रत्येकशक्त्या सम्बन्धिनो
गभीरनदीतीरस्याप्राप्तिप्रसङ्गात् । तस्माद्गभीरनद्योरन्वयबोधानन्तरं वाक्येन स्वज्ञाप्यगभीरनद्यारूतीरं लक्ष्यते। वाक्यार्थगभीरनदीसम्बन्धिनस्तीरत्वेन प्रतीतेः । न च
वाक्ये शक्त्यभावात्तत्सम्बन्धं विना न लक्षणेति वाच्यम् । स्वज्ञाप्यसम्बन्ध एव हि लक्ष्यस्मृतौ तन्त्रं । न तु सम्बन्धविशेषः शक्तिर्गौरवात् ज्ञाप्यश्च स्वशक्यवद्वाक्यार्थोऽपि।
घोष-नद्योरन्वयबोधाद्गभीरनद्योरन्वयबोध एव नेति चेत् , न , प्रथमोपस्थितत्वेन गभीरनद्योरन्वयबोधस्य शीघ्रत्वात् । घोषे तदनुपपत्तिज्ञानाधीनतया तीरस्मृतविलम्बेन
नदी-घोषयोरन्वयबोधे विलम्बात् । न चैवं वाक्यभेदः , कर्त्तव्यान्विताभिधानान्तरानुकूलत्वेन वाक्यैकवाक्यतावच्छेदेकवाक्यत्वादिति ।
अत्र नव्याः । वाक्यस्य ज्ञाप्याभावेन ज्ञाप्यसम्बन्धाभावान्न लक्षणा । अथान्वयबोधकं वाक्यं पदानि हि सम्भूयार्थान्वयं बोधयन्ति न प्रत्येकमात्रमिति चेत् । न।
पदं हि स्वार्र्थान्वयं बोधयति न तु समूहः समूहे स्वार्र्थाभावात् । न च पदेषु व्यासज्यवृत्तिर्बोधकता , न वेतरपदावच्छिन्न इतरपदे गौरवात् । किञ्च " "गभीरायां नद्या" "मित्यत्र
विभकिं्त विना अन्वयबोधाभावाद्धिभक्त्यन्तर्भावेन वाक्यत्वं , तथाच लक्ष्ये विभक्त्यर्थान्वयो न स्यात् लक्षकार्थस्य लक्ष्येऽनन्वयनियमात् । नापि गभीरायां नदीतिविभक्तिशून्ये
लक्षणा अन्वयस्य तदज्ञाप्यत्वाद्विभक्तिश्च प्रकृतिनदीगतं स्वार्थमभिदध्यान्न गभीरनदीगतं तस्या अप्रकृतित्वात् ।

वस्तुतः पदलक्षणयैवोपपत्तौ न वाक्यलक्षणा, तथा हि गभीरनद्योरन्वयबोधोत्तरं नदीपदं गभीरपदं वा स्वज्ञाप्यगभीरनद्यास्तीरं लक्षयति न वाक्यम् । न च
विनिगमकाभावात् पदयोर्लक्षणाद्वयं वाक्ये चैकैव लक्षणेति युक्तम् , पदे क्लृप्तत्वाद्वाक्यापेक्षया लघुत्वाच्च पद एव लक्षणा अन्यथा विनिगमकाभावाल्लक्षणाद्वयं पदे
एका वाक्ये चापरा लक्षणेति गौरवं स्यात् । अन्वयबोधपूर्विका प्रत्येकं पदद्वये लक्षणैव वाक्ये लक्षणेति च परिभाषा पद-वाक्योर्भिन्नत्वात् , वस्तुतस्तु गभीरपदात्
स्वार्थपरम्परासम्बन्धेन शीध्रं तीरोपस्थितिसम्भवात्तत्रैव लक्षणा ।

अथ ""पदं पांशुना यूपमनक्ति सप्तमं पदं गृह्यती" "त्यत्र पदस्य ग्रहणकर्मानर्हत्वेन ग्रहणकर्मार्हेष्वञ्जनसाधनत्वेन निरूढेषु सोमक्रयार्थानीयमानैकहायन्युपलक्षितसप्तमपदपांशषुु
सप्तमार्थान्वितपद-पदार्थान्वयबोधके सप्तमं पदमिति वाक्ये लक्षणेति चेत् , न। अत्रापि हि सप्तमपदयोरन्यबोधानन्तरं सप्तमपदार्थान्वितस्वार्थबोधके पदे लक्षणा  न तु

154

वाक्ये । अतएव पुरोडाशकपालेन तुषानुपवतीत्यत्रावघातजनितव्रीहितुषाणांं पुरोडाशकपलेनोपवापो विधीयते पुरोडाशश्रपणप्रयोजनत्वेनोपस्थिते च कपाले नोपवापप्रयोजनाकाङ्क्षा
नह्येकप्रयोजनस्य किं प्रयोजनमित्याकाङ्क्षा भवति । अन्यत्र विनियुक्तत्वेन शब्दादन्यत्राकाङ्क्षा विरहेण विनियोगाप्रतीतेरेव हि विनियुक्तविनियोगविरोधः । अत
आकाङ्क्षोत्थापनार्थं पुरोडाशकपालवाक्यस्य पुरोडाशार्थाधिष्ठाने आश्रयस्वरूपे लक्षणेति निरस्तम् । अत्रापि हि पुरोडाशपदेन पुरोडाशश्रपणप्रयोजनकाधिष्ठानमाश्रयस्वरूपं
लक्ष्यते । कपालपदञ्च तत्र कपालत्वविशिष्टबोधकमिति पुरोडाशपदे लक्षणा न पुरोडाशकपालवाक्ये ।

इति श्रीमद्गङ्गेशोपाध्यायविरचिते तत्त्वचिन्तामणौ शब्दाख्यतुरीयखण्डे शक्तिवादः।
अथ समासवादः

ननु बहुव्रीहौ " "चित्रगुमानये" "त्यत्र वाक्यार्थचित्रगोस्वामिनः सम्बन्धितया अन्यपदार्थस्य प्रतीतेर्वाक्य एवान्यपदार्थे लक्षणा । अथ " "चित्रा गौर्यस्ये" "ति विग्रहवाक्यस्थं
लुप्तं यत्पदं स्मृतमन्यपदार्थं बोधयति यथा " "दधि पश्ये" "त्यादौ लुप्ता द्वितीया स्मृता कर्मत्वं अन्यथा तत्र कर्मत्वे लक्षणापत्तेः । अज्ञातविग्रहस्य वहुव्रीहौ शक्तिभ्रमादन्यपदार्थधीरिति
चेत् , न, स्मृतयत्पदात् सम्बन्धितयोपस्थिते अन्यपदार्थे कर्मत्वेनोपस्थितं विना आनयनान्वयानुपपत्तेः राज्ञः पुरुषमानयेत्यत्र राज्ञ इव विशेषणत्वेनोपस्थिते क्रियान्वयाभावाच्च।
विभक्तिशून्यत्पदादुपस्थिते च चित्रगुपदेन क्रियया चान्वयो न स्यात् अन्वयप्रकारबोधकविभक्त्यभावात् । न च " "चित्राया गोर्य इति विग्रहे स्मृतप्रथमान्त य" " इति
पदादुपस्थितिः प्रथमान्तेनानयनानन्वयात् । प्रथमान्तविग्रहेतदभियुक्तैर्बहुब्रीहेः साधुत्वनिषेधाच्च । न च " "चित्रा गौर्यस्य तमानयेति" " तत्पदार्थस्य क्रियान्वयत्पदइति वाच्यम्।
तथाननुभवात् " "चित्रगोसम्बन्धिनमानये" "ति हि वाक्यार्थधीः विग्रहे तत्पदस्याप्रयोगेण स्मृत्यभावाच्च । यत्तदोर्नित्यसम्बन्धात्तत्पदस्मरणमपीति चेत् , न, अध्याहारापत्तेः ,
तथापि " "चित्रगुमानये" "त्यत्र विभक्तिस्तत्पदार्थगतं न स्वार्थमुपनयेत् किन्तु गो-गतमेव विभक्तेः प्रकृत्यर्थगतस्वार्थबोधजनकत्वव्युत्पत्तेः । अत एवान्यपदार्थोपस्थापकेन
समासेनोक्तार्थत्वात् यत्पदाप्रयोगः । अन्यथा यत्पदप्रयोगोऽपि स्यात् । न च यत्पदप्रयोगः सधुत्वार्थमेव स्त्रीप्रत्ययस्येवेति वाच्यम् । " "गोस्त्रियोरुपसर्जनस्ये" "त्यनुशासनबलात्तत्तथैव
साधु यत्पदे तूक्तार्थत्वं विना असाधुत्वादन्वये न निमित्तान्तरमस्ति , बहुब्रीहेर्नित्यसमासत्वेन विग्रहाभावाच्च । " "चित्रा गौर्यंस्येति" " वाक्यं बहुब्रीहेरन्यपदार्थकथनाय ।
अन्यथा ""चित्रगुमानये" "त्यत्र प्रक्रान्त-प्रक्रंस्यमानयोरभावे यत्पदार्थव्यवहारो न स्यात् । न च चित्रापदं चित्रगोस्वामिलक्षकं , तत्र गोपदार्थानन्वयात् । नापि गोपदं लक्षकं,
गोस्वामिनि चित्रापदार्थानन्वयापत्तेः । तस्माद्वाक्यार्थचित्रगोसम्बन्धितया पुरुषस्य प्रतीतेर्बहुब्रीहौ वाक्य एव लक्षणेति । वार्त्तिकमेतत् , वाक्ये निरर्थकतया स्वार्थसम्बन्धाभावेन
लक्षणानिषेधात् , अत्रापि पदलक्षणयैवोपपत्तेश्च । तथा हि चित्रगोपदयोरन्वयबोधानन्तरं गोपदं चित्रगोस्वामिलक्षकं स्वज्ञाप्यचित्रगोसम्बन्धेन तत्स्वामिस्मारकत्वात् ।
चित्रापदं गवान्वितस्वार्थबोधकतया मुख्यार्थमेव । कर्त्तव्यान्वयबोधानुकूलत्वेन न वाक्यभेदोऽपि। न चैवमेकस्यैव गोपदस्यान्यपदार्थे वृत्तौ समासो न स्यात् अनेकस्यान्यपदार्थे
वर्त्तमानस्य समासानुशासनादिति वाच्यम् । चित्रापदस्यापि परम्परया अन्यदार्थबोधकत्वात् । अस्तु वा चित्रापदेऽपि लक्षणा चित्रापदार्थस्य परम्परया चित्रगोस्वामिसम्बन्धात्।
न चैवमेकपदे लक्षणायामितरपदवैयर्थ्यम् , इतरपदमहिम्नैव विशेषस्य लक्षणीयत्वात् । न चैवं वाक्यार्थबोधकपदलक्षणाद्वयमेव वाक्यलक्षणा , पदवाक्योर्भिन्नत्वात् ।
यत्तु  चित्रापदेन गोपदसन्निधानात् स्वार्थसम्बन्धिनी गौर्लक्ष्यते च्त्रिगवा च स्वामी लक्षित इति लक्षितलक्षणया अन्यपदार्थधीरिति ।तन्न  । एकपदलक्षणातोलक्षितलक्षणाया
जघन्यत्वात् । ""भूवादयो धातवः" " चैत्रादीन् भोजय ""लम्बकर्णमानये" "त्यादितद्गुणसंविज्ञानबहुब्रीहौ चित्रादेर्विशेषणस्यापि कार्य्यान्वयात् ।
क्रियावाचित्वनियन्त्रितत्वादिरूपेणाजहत्स्वार्थलक्षणेति सम्प्रदायः ।

अत्राहुः- -अनस्तमितपदपदार्थविभागस्य चित्रगुसमुदायस्यान्योन्यान्वितावयवार्थसम्बन्धिन्यन्यपदार्थे शक्तिः कल्प्यते अतो नानेकार्थत्वम् न वा अवयवार्थत्यागो न
वा तद्गुणसंविज्ञाने लक्षणा योगरूढिस्वीकारात् अवयवार्र्थाज्ञाने तत्सम्बन्धिनोऽज्ञानात् । मण्डपादौ तु अवयवार्थनिरपेक्षैव गृहविशेषधीरित्यवयवार्थत्याग एव समुदाये
रूढिः । तथाह्यस्ति चित्रग्वादिपदस्यान्यपदार्थे तात्पर्यमेव तत्रैव च तात्पर्यं नियमतोऽन्यपदार्थस्य प्रतीतेः तदन्या प्रतीतेश्च , नियततात्पर्यं विना अन्यपदार्थे बहुब्रीहौ
नियमतलक्षणापि न स्यात् । तस्मान्नियततात्पर्य्यनिर्वाहिका बहुव्रीहेरन्यपदार्थे शक्तिरेव , लक्षकपदस्य लक्ष्ये तात्पर्यानियमात् तात्पर्य्यनियमे च क्वचिद्बहुव्रीहेरन्यपदार्थपरत्वमपि
न स्यात् ।

अथ क्वचिद्बहुब्रीहेरन्यपदार्थे तात्पर्यमेव न भवति यथा यजमानपञ्चमा ऋत्विजोलोहितोष्णीषा ऋत्विज इत्यत्र यजमानपञ्चमत्वलौहित्ययोर्विधेयत्वेन प्राधान्यात्तत्परतया
अन्यपदार्थे तात्पर्याभावादेवं क्वचिल्लोकेऽपीति चेत् , तर्हि तत्रान्यपदार्थे तात्पर्याभावात् तदनुपपतिं्त विना लक्षणाविरहादन्यपदार्थे शक्तिरेव । अन्यथा तत्रान्यपदार्थबुद्ध्यनुदयापत्तिः।
न च तत्रान्यपदार्थबुद्धिराभिधानिक्येव न भवतीति युक्तम् , ऋत्विग्भिः सामानाधिकरण्यानुदयात् तस्माद्बहुव्रीहेर्नियमतोऽन्यपदार्थबुद्ध्युदयात्तत्र शक्तिरेव । यद्यपिशक्तस्य
शक्ये न तात्पर्यनियमः लक्ष्येऽपि क्वचित् तात्पर्यात् । तथापि शक्ये तात्पर्यमौत्सर्गिकं क्वचिदन्यत्र प्रयोगादपोद्यते । बव्रीहौ चान्यपदार्थादन्यत्राप्रयोगाच्छक्यार्थेऽपि
तात्पर्यनियम भवति ।

यत्तु  केवललाक्षणिकस्याभावाद्बहुब्रीहौ शक्यनियमे परिशेषादन्यपदार्थ एव शक्य इति ।तन्न  । शकिं्त विनापि तात्पर्यनिर्वाहात् ।
अत्रब्रूमः। बहुव्रीहौ न वाक्ये लक्षणा किन्तु पदे तस्य च नान्यपदार्थे तात्पर्यनियमः क्वचिच्छक्येऽपि तात्पर्यात् । अथास्ति बव्रीहिस्थपदद्वयस्यान्यपदार्थे
तात्पर्यनियमः ततोऽन्यत्राप्रयोगनियमात् अतस्तन्निर्वाहिका पदद्वये शक्तिः सैव च वाक्ये वाक्यस्य पदद्वयात्मकत्वादिति चेत् , अस्तु तर्हि बहुव्रीहिस्थपदद्वये निरूढा लक्षणा
तयैवान्यपदार्थे तात्पर्यनियमोपपत्तौ समुदायशक्तौ मानाभावात् ।

नवीनास्तु  बहुव्रीहावन्यपदार्थस्य लक्ष्यत्वे नियमतो लक्षणीयपदलिङ्गता न स्यात् लक्षकपदस्य लक्षणीयपदलिङ्गग्राहकत्वनियमात् स्वलिङ्गापरित्यागाच्च ।
अतोऽन्यपदार्थे शक्तिरेवेति ।  अत्र ब्रूमः। बहुव्रीहेर्लाक्षणिकत्वेन विशेषणपदत्वनियमान्नियमतो लक्षणीयविशेष्यपदलिङ्गकत्वं । समानाधिकरणस्य समानविभक्तिकस्य
विशेषणपदस्य विशेष्यपदलिङ्गत्वनियमात् । भिन्नविभक्तिकयोरिव भिन्नलिङ्गकयोरपि सामानाधिकरण्येन विशेषण-विशेष्यपदभावाभावात् । अजहल्लिङ्गे तु
लिङ्गविशेषनियमानुशासनान्न तथा , अन्यदन्यस्य लिङ्गं गृह्यातीत्यत्र विशेषणविशेष्यपदस्य भावत्वमेव नियामकम् ।

155

अथ नियमतो विशेष्यलिङ्गतैव विशेषणपदस्य बहुव्रीहेः शकिं्त विना न निर्वहतीति चेत् , न , विशेषणपदत्वमेव हि विशेष्यलिङ्गकत्वे तन्त्रं न तु शक्तत्वे सति
गौरवात् । दण्ड्यद्धादिवाक्यस्याशक्तस्यापि पुरुषादिविशेष्यलिङ्गकत्वात् , गुणवाचिशुक्लादिपदानां " "शुक्लः पट" " इत्यादौ लक्षणया विशेषणानां विशेष्यलिङ्गत्वाच्च ।
ननु शुक्लादेर्गुणिपरत्वे लाक्षणिकत्वेन स्वलिङ्गप्राप्तौ " "गुणे शुक्लादयः पुंसि गुणिलिङ्गास्तु तद्वती" "त्यनुशासनाल्लाक्षणिकस्यापि विशेष्यलिङ्गकत्वम् । न च
बहुव्रीहौ तथानुशासनमस्तीति चेत् , न, तस्य न्यायप्राप्तानुवादकत्वात् । अत एव शुक्लं रूपमिति शुक्लगुणवाचकत्वेऽपि लिङ्गानुशासनं परिभूय विशेषणपदत्वात्
शुक्लपदं विशेष्यरूपपदस्यैव लिङ्गं गृह्यातीति । अन्यथा " "शुक्लोरूप" "मिति स्यात् । किञ्च बहुव्रीहेर्लिङ्गानुशासनाभावेन स्वलिङ्गाभावाद्विशेषणोपस्थापकवाक्यत्वाच्च
विशेष्यपदलिङ्गतैव युक्ता यथा " "दण्डी पुरुष" " इत्यादौ । वस्तुतो बहुव्रीहेरन्यपदार्थे शक्तावपि कथं नानालिङ्गकत्वं तथा लिङ्गानुशासनाभावात् ।
अथ विशेषणपदत्वाद्विशेष्यपदलिङ्गता विशेष्यपदञ्च नानालिङ्गमतो नानालिङ्गतेति चेत् , तर्हि लाघवाल्लक्षणैवास्तु उक्तन्यायेनैव

लक्षणीयविशेष्यपदलिङ्गत्वोपपत्तेरिति। तत्पुरुषेऽपि " "राजपुरुष " " इत्यादौ पूर्वपदस्य षष्ठ्यर्थसम्बन्धे निरूढलक्षणयैव राजसम्बन्धिपुरुषबुद्ध्युपपत्तेर्न समासे शक्तिरनन्यलभ्यस्य
शब्दार्थत्वात् । यत्तु समस्यमानपदातिरिक्तं न समासपदं समस्यमानपदानां प्रत्यभिज्ञानादतो न समासे शक्तिरिति । तन्न । पदतत्समुदाययोर्भिन्नत्वात् । नन्वनुपपतिं्त विना
कथं षष्ठ्यर्थे लक्षणेति चेत् , यदि षष्ठ्यर्थो न लक्ष्यते तदा " "राजपुरुषादौ" " लाघवादिना प्राक्सामानाधिकरण्यावगमाद्राजत्वविशिष्टपुरुषस्यैव वैभक्तिकोऽन्वयः स्यात् ,
" "राजवाहनमानये" "त्यादौ वाहनपदे वाहनवल्लक्षणा स्यात् । अथ राजत्वविशिष्टेऽस्मादाद्यानयनान्वयोऽयोग्य इति चेत् , तर्ह्यनयैवानुपपत्त्या तात्पर्यानुपपत्त्या वा षष्ठ्यर्थे
लक्षणा, विभक्त्यर्थापेक्षो हि सर्वत्र नामार्थान्वयः । अतः श्रुतविभक्त्यर्थासम्भवे विभक्त्यर्थलक्षणैवोचिता ।

अथ राजपुरुषादावन्वयप्रकारतया षष्ठ्यर्थसम्बन्धबुद्धिरतो न पूर्वपदे लक्षणा न वा समासे शक्तिरिति । तन्न । ""राजपुरुषमानये" "त्युक्ते पूर्वं नियमेन विग्रहाश्रवणात्।
शाब्दिकानान्तु विग्रहाभिधानं समासार्थकथनपरं विभाषाधिकारे च समासानुशासनं समासविग्रहयोः पर्यायत्वं साधुत्वं वा बोधयितुम् । विशेषस्तु विग्रहे सोऽर्थोनामविभक्त्यादिभिः
शक्त्याभिधीयते समासे तु राजादिपदेन लक्षणया । बहुव्रीहौ तु नित्यसमासत्वाभिधानं विग्रहस्यासाधुत्वस्थापनार्थम् " "चित्रा गौर्यस्ये" "ति विग्रहाभिधानं बहुव्रीह्यर्थकथनपरम्।
स्यादेतत् " "विभाषेति" " सूत्रेण वाक्यसमासयोस्तुल्यार्थता दर्शिता वाक्ये च मुख्या वृत्तिरतः समासेऽपि सैव वृत्तिः अन्यथा अतुल्यार्थतापत्तेः वाचकस्यैवानुशासनाच्च यथा
लिङ्गादेः । न च लाक्षणिकं वाचकम् , अन्यथा गाव्यादेरप्यनुशासनापत्तेः ।

अथ वाचकव्युत्पादनवल्लाक्षणिकव्युत्पादनमपि उभयोरपि ज्ञानयोः पदार्थोपस्थापकत्वादिति चेत् , न , वाचकत्वज्ञानं विना वाच्याज्ञानाद्युक्तं वाचकत्वानुशासनं,
लाक्षणिकञ्च शक्यव्युत्पत्त्यैव परम्परया लक्ष्यस्मारकमतो न तस्य व्युत्पत्त्यन्तरापेक्षा । न च प्रयोगानुशासनं व्याकरणं स च लक्षणायामप्यस्ति अतस्तस्याप्यनुशासनं
घोषसमभिव्याहारे गङ्गापदस्येवेति वाच्यम् । गङ्गयामितिमात्रं ह्यनुशिष्टं तच्च स्रातिसमभिव्याहारेऽप्युपपन्नं न तु तत्तद्वाक्यस्थत्वेन । किञ्च गङ्गायामितिपदं नानुशिष्टं
किन्तु विभक्तिः सा चोभयत्र वाचिकैवेति न प्रातिपदिकवृत्तेर्मुख्याया वा लक्षणाया वा अपेक्षा , अत एव विभक्तौ न लक्षणा अवाचकस्याननुशासनादिति ।
उच्यते  । साधुपदस्यानुशासनं व्याकरणं तस्य साधुत्वज्ञापकत्वेनैव प्रामाणिकप्रसिद्धिसित्वात् । अत एव न गाव्यादेरनुशासनं तस्यासाधुत्वात् । अस्ति च समासः
साधुरतोयुक्तं तस्य साधुत्वानुशासनम् । साधुता च लाक्षणिकेनापि सम्भवति पदवाचकता चानन्यलभ्यत्वादवगम्यते , न तु व्याकरणं वाचकत्वानुशासनम् , प्रयोगमात्रे
साधूनां टाप्ङीबादीनां शप्श्यनादिविकरणनां इ-ई-नुमाद्यागमानां वर्णविकारषकारणकारादीनां निरर्थकानामपि साधुत्वार्थमनुशासनात् । अत एव द्वयेकयोरित्याद्यनुशासनस्यैकत्व
एवैकवचनप्रयोगः साधुरिति साधुत्वज्ञापनार्थत्वेन सार्थकता , अन्यथैकत्वे एकवचनस्य स्वादिसूत्रेण विहितत्वाद्वैयर्थ्यं स्यात् । द्वित्वादावशक्तत्वादेवैकवचनाप्रयोग इति  चेत्,
न । लक्षणया द्वित्वादौ प्रसक्तः प्रयोगोऽसाधुरितिज्ञापकत्वेन सार्थकत्वम् । एवञ्च विभक्तौ न लक्षणा लिङ्गादेस्त्वपूर्वे क्वाप्यनुशासनं नास्तीति लोके क्रियाकार्यत्वे न
लक्षणा एवञ्च तृतीयाया अपि लक्षणया न कर्मत्वादौ प्रयोगः सामान्यतः साधु। " "कर्तृकरणयोस्तृतीये" "त्यनुशासनबलात् । व्यत्ययेऽपि च साधुत्वमनुशासनान्तरबलात्।
तस्माद् यदि समासो नानुशिष्येत तदा तस्य लोके साधुत्वं न ज्ञायेत प्रत्युत गाव्यादिशब्दवदपशब्दतैव स्यात् । यदि च " "विभाषेति" " सूत्रं न प्रणीयेत तदा तथाभूतेऽर्थे
समासस्यैव साधुत्वं ज्ञायेत न वाक्यस्य तदभिधानशक्तस्यापि शैवाल इव पङ्कजादेः । विभाषाशब्दः समास-विग्रहयोः साधुत्वज्ञापनार्थो न तु विकल्पेन समासस्य
साधुत्वबोधकः । अवाचकः शब्दः समासोऽतोऽसाधुर्गाव्यादिपदवत् , वाक्यमेव वाचकत्वात्साध्विति शङ्कां तुल्यार्थौ वाक्य-समासाविति बोधयद्विभाषापदमेव निराकरोति।
न च साधुत्वादेव शक्तत्वम् , अन्यलभ्यत्वेन शक्तिनिरासात् तिङन्तसुबन्तयोर्व्यभिचाराच्च । तत्र हि समुदाये साधुत्वं प्रत्येकं शक्तिरसाधुत्वञ्च ।
ननु नामार्थयोः राजसम्बन्धि-पुरुषयोर्विभकिं्त विना अन्वयाभावाद्राजसम्बन्धिपुरुषाप्रतीतेः विभक्तेः प्रकृत्यर्थगतस्वार्थबोधकत्वव्युत्पत्तेश्च राजसम्बन्धिपुरुषे समासस्य
शक्तिरेव , एवं बहुब्रीहि-कर्मधारयादावपि सार्थकत्वेऽपि प्रातिपदिकत्वविधा" "नमर्थवदादि" "सूत्रस्य प्रपञ्च इति चेत् । उच्यते । " "नीलं घटमानये" "त्यादौ नामार्थयोर्विशेषणविशेष्योरन्वयबोधे
आकाङ्क्षादिकमेव हेतुर्न तु विशेषणविभक्तिरपि नीलस्य घटकर्मत्वाभावात् शब्दात्तथाऽननुभवाच्च , नीलविशिष्टस्य कर्मत्वं विभक्त्यर्थबहिर्भावेनैव नीलघटयोरन्वयबोधे
स्यान्न त्वन्यथा । न च विभकिं्त विना समस्यमानपदानां साधुत्वन्नेति वाच्यम् । विभकिं्त विनापि समासस्य साधुत्वानुशासनात् । तस्मान्नमार्थयोरन्वयबोधे विशेषणविभक्तिः
साधुत्वार्था न तु कर्मत्वोपनायिका । एवञ्च राजसम्बन्धिपुरुषस्य विभकिं्त विनापि पुरुषपदादुपस्थितिः । अत एव तादृशपुरुषपदार्थे विभक्त्यर्थान्वयः । यदि च
विभक्तिबलात् क्रियान्वयो नीलमित्य" "स्यारुणया" "न्यायादार्थः समाजस्तथापि राजसम्बन्धिपुरुषयोः क्रियान्वयादार्थः समाजोऽस्तु । न च राजसम्बन्धिनः कर्मत्वेनानुपस्थितेर्न
क्रियान्वय इति वाच्यम् । समस्यमानपदार्थान्वयार्र्थं समासाद्विभक्त्यनुशासनमतो विशेषणेऽपि विभक्त्यर्थान्वयादन्यलभ्ये शक्त्यभावनियमात् । समासान्निरर्थकाद्विभक्तिश्च
समस्यमानपदार्थमात्रगतमेव स्वार्थमाह तथैव व्युत्पत्त्यन्तरकल्पनात् समासेष्वनन्तशक्तिकल्पनातो लघुत्वात् ।

यद्वाविभक्तेः सन्निहितपदार्थगतस्वार्थबोधकत्वमतो बहुव्रीह्यादावन्वयबोधपूर्वकोत्तरपदलक्षणायां षष्ठीतत्पुरुषे च विभक्तिसन्निहितोत्तरपदार्थगतस्वार्थबोधकत्वं ,
विभक्तिसन्निहितपदस्यार्थश्च मुख्यया लक्षणया वा । एवं नीलोत्पलमानयेत्यादौ कर्मधारये विभकिं्त विनैव नामार्थयोरन्वयबोधानन्तरं विशिष्टस्य कर्मत्वेन क्रियान्वयः।
कर्मधारये तु न शक्तिर्न वा लक्षणा ताभ्यां विनापि विवक्षितार्थान्वयबोधोपपत्तेः ।

ननु नीलघटयोः सामानाधिकरण्यप्रतीतेस्तत्र लक्षणैव अन्वयप्रकारत्वादिना च तस्य भाने राजपुरुषादौ षष्ठर्थोपस्थितिरपि तथास्तु । अत्र ब्रूमः । कर्मधारये

156

सामानाधिकरण्यं नामार्थयोरभेदो वा गुणगुणिनोः समवायो वा अनुभूयते स चान्वय एव न त्वन्वयप्रतियोगी अतोऽन्वयप्रतियोगिनोरुपस्थितिर्नामपदात् शक्त्यैवेतिन
तदर्थं लक्षणा । " "राजपुरुष" " इत्यत्र तु राजसम्बन्धिपुरुषयोरन्वयोऽनुभूयते राजसम्बन्धिनश्चान्वयप्रतियोगिन उपस्थितिर्न राजपदे षष्ठ्यर्थलक्षणां विना राज्ञः पुरुषं
राजसम्बन्धिनं पुरुषं राजपुरुषमानयेत्यादौ पर्यायत्वात् । राजसम्बन्धिनः पुरुषेऽन्वयोऽनुभूयते राजम्बन्धी अन्वयप्रतियोगित्वेन । एवञ्च बहुव्रीहौ सर्वपदानां षष्ठीतत्पुरुषे
पूर्वपदस्यान्यपरतया लाक्षणिकत्वात्ताभ्यां कर्मधारयो बलवान् तत्र सर्वेषां पदानां स्वार्थपरतया मुख्यत्वात्। अतएव एतया ऋचा निषादस्थपतिं याजयेदित्यत्र कर्मधार एव
मुख्यत्वे शब्दस्वरसात् षष्ठीतत्पुरुषे च षष्ठ्यर्थलक्षणापत्तेः । एवञ्चेश्वरनिषादप्रतीतेस्तस्यैवाधिकारात्तदपूर्वेण स्वनिर्वाहकतयैवेश्वरनिषादस्यैव यागानुकूलविद्याप्रयुक्तिराक्षिप्यते
, अन्यथा मुख्यार्थहानिप्रसङ्गात् ।

नन्वत्र षष्ठ्यर्थलक्षणया लब्धविद्यस्त्रैवर्णिकएव निषादानामीश्वरोऽधिकारी बोध्यते न त्वीश्वरनिषादोऽक्त्लृप्तविद्याप्रयुक्तिकल्पनातः षष्ठ्यर्थलक्षणाया लघुत्वादिति
चेत् । उच्यते । मुख्यार्थान्वयाधीनकल्पनागौरवेण मुख्यार्थो न हीयते किन्तु बाधकं विना मुख्यार्थान्वयबोधस्य प्राथमिकत्वात्तदनुरोधेन तदुपपदाकं कल्प्यते फलमुखञ्च
गौरवं न दोषाय प्रमाणवतो गौरवस्य न्यय्यत्वात् । न चाक्लृप्तकल्पनाप्रसङ्गएव मुख्यार्थन्वये बाधकः , अक्लृप्तस्य प्रागनवगमात् मुख्यार्थान्वयबलादेव तदवगमे
उपजीव्यविरोधात् । अन्यथा प्रतीतानुपपत्तिबलात् कल्पना क्वापि न स्यात् अक्लृप्तकल्पनागौरवेण कल्पकस्य बाधितत्वात् । अथ शूद्रस्य वेदपाठनिषेधादीश्वरनिषादोऽधिकारी
बोधयितुं न शक्यत इति मुख्ये बाधकान्न कर्म्मधारयः । न चेश्वरनिषादे विधिबलाद्वेदपाठनिषेध एव बाध्यत इति युक्तम् । षष्ठ्यर्थलक्षणया अबाधे सम्भवति
निषेधकवेदबाधकल्पनाया अन्याय्यत्वादिति चेत् , न, सामान्यनिषेधस्य तद्विशेषविधाने तदितरपरत्वात् । यथा " "न हिंस्यात्सर्वाभूतानि श्वेतं छागमालभेतेत्यत्र" " । एवं
निषादपदस्य मुख्यत्वे शूद्रपदे सङ्कोचमात्रम् । शूद्रपदस्य निषादपरत्वे निषादपदस्य मुख्यत्वबाध एव । यद्यपि सङ्कोचेऽप्येकदेशबाध एव तथापि सङ्कोचेऽद्वयोरपि
मुख्यत्वरक्षणादबाधाच्च सङ्कोच एव ज्यायान् ।

अन्ये तु  नात्र षष्ठ्यर्थोलक्ष्यते अनुपपत्त्यभावात् । अतः समासस्य षष्ठ्यर्थमन्तर्भाव्य शक्तिरेव । अन्यथा कर्म्मधारयेऽपि पदार्थसामानाधिकरण्यप्रतीतेः तत्रापि
लक्षणेति तुल्यम् । अथान्वयप्रकारतया सामानाधिकरण्यप्रतीतेर्न तत्र लक्षणा , तर्हि षष्ठ्यर्थेऽपि तथैव न लक्षणा । नचान्वयप्रकारतया नियमतोविशेषोपस्थितौ प्रमाणं
तस्मादुभयत्र समासस्यैव बोधकत्वम् , कर्मधारये तु बलवत्त्वमुत्सर्गतः सामानाधिकरण्यस्योचितत्वात् । निषादस्थपतौ तु स्थपतिपदार्थस्येश्वरस्य प्रतियोग्यपोक्षत्वात्तत्पूरणसमर्थः
षष्ठीतत्पुरुष एव निष्प्रतियोगिके कर्मधारयः नीलोत्पलमित्यादावुत्पलस्य निष्प्रतियोगिकत्वात् । तथाच निषादेश्वरस्याधिकारः , ऐश्वर्यस्य सजातीयापेक्षत्वात् ।
नरपतिपदान्नरपतेर्नरस्येव निषादस्थपतिपदान्निषादस्येश्वरस्य प्रतीतेरिति ।

तन्न  । राजवाहनादौ पूर्वपदे षष्ठ्यर्थलक्षणयैव राजसम्बन्धिप्रतीतेः समासे शक्त्यभावात् अनुपपत्तिरुक्तैव । " "उपकुम्भमि" "त्यद्यव्ययीभावोऽ" "र्द्धपिप्यली" "त्यादिश्च
तत्पुरुषः पूर्वपदार्थप्रधान एव कुम्भस्य समीपे पिप्पल्याअर्धे तात्पर्यादतस्तत्रोत्तरपदे षष्ठ्यर्थलक्षणा न तु समासे शक्तिः । नञ्समासे अब्राह्यणमानयेत्यत्र पर्युदासे पूर्वपदे नञि
उत्तरपदार्थसदृशे क्षत्रिये लक्षणा । " "अघटः पट" " इत्यादौ च प्रसज्यप्रतिषेधार्थे नञि सामानाधिकरण्यादभाववल्लक्षणा व्यासेऽपि " "न घटः पट" "इत्यादौ यथा " "शुक्ल पट" "
इत्यत्र शुक्लवल्लक्षणा । " "न पचती" "त्यादौ क्रियासम्बन्धे " "भूतले न घट" " इत्यादौ प्रसज्यप्रतिषेधे नञोमुख्यार्थता सुबन्तसम्बन्धेऽपि न समासः विभाषाधिकाराद्विकल्पेन
समासानुशासनात् । " "यजतिषु च येयजामहं करोति नानुयाजेष्वित्यत्र पर्युदासे नञ् तेनायमर्थः यजतिषु यागेषु नानुयाजेषु अनुयाजव्यतिरिक्तेषु , ये यजामह इति मन्त्रं
करोति । अथ नानुयाजेष्वित्यत्र न पर्युदासे नञ् । तदा हि पदद्वयस्यान्यपरत्वं स्यात्समासापत्तिश्च। तस्मादनुषङ्गात् करोतिना नञोऽन्वयात् प्रसज्यप्रतिषेधः ।
तेनानुयाजेषु ये यजामह इति मन्त्रं न करोतीत्यर्थः । एवञ्च नानुयाजेष्विति पदद्वयस्य नान्यपरता न वा नञो मुख्यार्थत्यागः समासाभावेन साधुता च इति चेत् , न  ।
समासस्यानित्यत्वात् नानुयाजेष्विति वाक्ये पर्युदासे नञ् । न चैवं वाक्यवृत्तिपदत्वान्नञोऽन्यपरत्वाभावः , " "गौर्वाहीक" " इत्यादौ वाक्येऽपि गवादिपदस्यान्यपरत्वात् । यदि
च प्रसज्यप्रतिषेधे नञ् तदा मन्त्रविधायकतन्निषेधयोर्विरुद्धार्थत्वेन वाक्यभेदापत्तिः तस्मात् प्रथमप्रतीतैकवाक्यताबलादेकवाक्यत्वे सम्भवति वाक्यभेदस्यान्याय्यत्वात्
नञ्पदे लक्षणा कल्प्यते न तु नञ्पदे मुख्यत्वानुरोधादेकवाक्यतात्यागः । न हि पदार्थानुरोधेन वाक्यार्थकल्पनं किन्तु वाक्यार्थानुरोधेन पदार्थकल्पना । एवञ्च केवलं
नास्त्येव नञ्पदादेव सर्वत्र समासानित्यत्वेन प्रयोगोपपत्तेः । अन्यथा प्रसज्यप्रतिषेधे नञ् न स्यादेव नपदेनैव गतार्थत्वात् । अमानोना इत्यत्रापदमेव निषेधवाचकं
समासवाक्यभेदेन नञो द्वैविध्याद्वा तथाभिधानम् । इतरेतरद्वन्द्वे च धवखदिरौ छिन्धीत्यादौ विभक्त्युपनीतद्वित्वस्य धवखदिरयोः प्रत्येकं न योग्यत्वं न वा साकाङ्क्षत्वं
द्वित्वमपि प्रत्येकं न योग्यं न वा साकाङ्क्षम् एकत्र द्वित्वाभावात् । न च व्यासज्यवृत्तित्वेन द्वित्वमेकाश्रितमपीति वाच्यम् । स हि द्वित्वमाकाङ्क्षति द्वित्वञ्च तं यत्र द्वित्वं
परिसमाप्यते , एकस्य तथात्वे द्वौ बहव इत्येकत्रापि स्यात् अतोन्दद्वे पदशक्यस्य नान्वयबोधः बोधे वा धवद्वयधीः खरिदद्वयधीश्च स्यात् । तस्मात्पदशक्ये द्वित्वान्वयानुपपत्त्या
सहितावस्थमुभयं द्वित्वान्यावगमयोग्यं तत्साकाङ्क्षञ्चेति खदिरसहितधवोपस्थितये धवपदे साहित्यलक्षणा ।

ननु खदिरसहितधवस्यैकत्वात् खदिरसहितो धव इतिवद्द्विवचनानुपपत्तिः धवसहितखदिरसाहित्यावस्थालक्षकत्वे च तस्या एकत्वादेकवचनापत्तिः अवस्थाश्रययोरुपसर्जनत्वेन
द्विवचनान्वयानुपपत्तिश्चेति चेत् ,  अत्र कश्चित् , अस्यालक्ष्यत्वेऽपि तदाश्रयगतस्वार्थबोधकत्वमेव हि द्विवचनबहुवचनयोः पदवृत्तिवैचित्र्यात् तथैव व्युत्पत्तेः यथा
गुणवाचि नीलादिपदं क्वचिद्गुणमात्रवाचकं क्वचित्तदुपलक्षितद्रव्यपरम् , अन्यथा " "नीलः पट" " इति सामानाधिकरण्यं न स्यात् एकत्र वृत्त्यभावात् ।  यत्तुलक्षिता
साहित्यावस्था स्वाश्रयमुभयं लक्षयतीति ।  तन्न। लक्षितलक्षणायाः जघन्यत्वात् ।

वस्तुतस्तु साहित्याश्रयः प्रधानं साहित्यन्त्ववच्छेदकतया गुणभूतं पदेन लक्ष्यते तेन साहित्याश्रयस्यानेकत्वाद्द्विवचनबहुवचने भवतः । अत एवेतरेतद्वन्द्वः
सर्वपदार्थप्रधानः धवश्च खदिरश्चेति विग्रहेण तथैवार्थविवरणात् । समाहारे तु साहित्यावस्था प्रधानं पदार्थो गुणभूतः तेन तस्या एकत्वाद्" "भेरीपटहमि" "त्यादावेकवचनम् ।
धर्मे धर्मिणि च तात्पर्याद्द्वन्द्वयोर्भेदः । अत एव युगपदधिकरणवचन इतरेतरद्वन्द्व इति शाब्दिकाः । अधिक्रियत इत्यधिकरणं पदार्थस्तेषां युगपद्वचनमेकेनैकदोपस्थापनं तच्च
न शक्त्या एकपदस्येतरपदार्थे शक्त्यभावात् । अन्यथेतरपदवैयर्थ्यप्रसङ्गः । अनेकार्थत्वेऽप्येकस्यैकत्रानेकार्थपरत्वाभावात् । नापि पदद्वयं मिलितमुभयोरुपस्थापकं ,
मिलितस्य मिलिते शक्त्यभावात् । नापि द्वन्द्वे शक्तिरेव , पदलक्षणयैवानेकार्थोपस्थितिसम्भवात् । अत एवाङ्गवाङ्गकालिङ्गशब्दाद्द्वन्द्वे बहुषु वर्त्तमानात् परस्य
तद्राजस्याञादे। " "तद्राजस्य बहुषु तेनैवास्त्रियां" " इत्यनेन लोपे अङ्गवङ्ग कलिङ्गा इति भवति । अन्यथा साहित्यलक्षणांं विना तेषां प्रत्येकपदस्य बहुषु वृत्त्यभावादञ्लोपे
न स्यात् । घटौ घटा इत्यत्रापि घटसहितघटत्वेन द्विवचनबहुवचनान्वययोग्यतेति तदुपस्थितये घटपदे साहित्यलक्षणा । तदर्थप्रदर्शनार्थं द्वन्द्वापवादकं सरूपणामेकेशेषानुशासनमपि।
तदुक्तम्- -" "सहभावविवक्षायां वृत्तिर्द्वन्द्वकशेषयोः । क्रमेणार्थप्रतीतौ हि न स्याद्द्विवचनादिकम्" "॥ इति ।

157

ननु स्वरूपद्वयमेव साहित्यमतिरिक्तस्याभावात् । स्वरूपयोश्च धवपदादुपस्थितौ युगपद्वृत्तिद्वयविरोधः । न चाजहत्स्वार्था , साधारणरूपाभावात् ।
एकक्रियान्वयित्वमेकान्वयप्रकारत्वम् अपेक्षाबुद्धिविशेषविषयत्वादिकं द्वित्वान्वयात् पूर्वमविद्यमानमप्रतीतञ्च धवखदिराविति हि प्रतीतिः न तु रूपान्तरेण । न च
धवपदस्य खदिरे स्वार्थसम्बन्धो लक्षणबीजमस्तीति चेत् , न । साहित्यं हि तुल्यद्वारता सा च धातूपनीतफलानुकूलसजातीयविजातीयव्यापारप्रचयस्यैकरूपस्तुल्यः
सम्बन्धः। द्वन्द्वेऽन्योन्यसम्बन्धोऽप्ययमेव । धवखदिरौ छिन्धीत्यत्र छिदानुकूलो यावान् व्यापारः स तयोस्तुल्य एव भासते च । अत एव स्वर्गकामादौ पत्नग्रः
सहत्वेनानुप्रवेशेऽपि न द्विवचनापत्तिरेकत्वविरोधो वा अतुल्यद्वारकत्वात् दम्पत्योरेकरूपसजातीय-विजातीयव्यापारप्रचयसम्बन्धरूपसाहित्याभावात् । एवं छिदानुकूलतुल्यव्यापारत्वेन
साहित्यरूपेण शक्यलक्ष्यसाधारणेनाजहत्स्वार्थलक्षणया धवपदादुपस्थिते धवखदिररूपे विभक्त्यर्थद्वित्वान्वयः धवपदार्थस्ये खदिरेण सम्बन्धोऽपि तुल्यद्वारत्वमेव । न चास्य
लक्ष्यत्वान्न सम्बन्धरूपतेति वाच्यम् । अजहत्स्वार्थायां हि येन रूपेण लक्ष्यता स एव सम्बन्धः यथा छत्रिकाकपदयोः छत्रिघटितसमूहवर्त्तित्वं द्ध्युपातकत्वञ्च लक्ष्यमेव
सम्बन्धः । न चैवं खदिरपदवैयर्थ्यं लक्षणायां लक्षणीयपदानुपयोगादिति वाच्यम् । खदिरपदं विना न नियता खदिरोपस्थितिरिति साहित्याश्रयद्वितीयविशेषज्ञापनाय
पदसार्थकत्वम् अन्यथा लक्षणाविरहेण धवद्वयधीप्रसङ्गात् । अत एवग्नीषोमीये अग्नीषोमौ देवते इति द्वित्वान्वयबलादेव साहित्यावस्थयोः सापेक्षयोर्देवतात्वं द्वन्द्वे आद्यं पदं
लक्षकं प्राथम्यात् द्धितीयं पदं सहित्यनिरूपकाकाङ्क्षिितसमर्थकं मुख्यमेव उभयोरमुख्यार्थत्वे हेत्वभावात् । अन्ये तु द्वितीयपदेऽपि लक्षणा समभिव्याहृतविभक्त्यर्थान्वयानुरोधात्।
अन्यथा समभिव्याहारभङ्गापत्तेः पदार्थगतस्वार्थबोधिका हि विभक्तिः । न च समासे पदमन्यदस्ति , समस्यमानपदात् समासे शक्त्यभावात् , तेन धवपदार्थगतं
खदिरपदार्थगतञ्च द्वित्वं तन्त्रेण विभक्तिराह, अतोधवपदवत् खदिरपदेऽपीतरसम्बन्धावस्थस्वार्थपरता प्रातिपदिकार्थे इतरपदार्थान्वयस्य विभक्त्यर्थगर्भत्वादुभयपदार्थगत एव
द्वित्वकर्मत्वे विभक्तिराह । न च द्वयोः सहितावस्थस्वार्थपरत्वे धवद्वयं खदिरद्वयञ्च वाक्यार्थेऽन्वीयेत न त्वेको धवः खदिरश्चेति चतुष्टयापत्तिरिति वाच्यम् । पदद्वयेन हि
सहितयोरेकमेव साहित्यं लक्ष्यते । तच्च न चतुष्टयवृत्ति।

अपरे तु द्वितीयपदं फलतोऽनुवादकं यथान्विताभिधाने एकं पदम् । अत एव समुच्चये अन्वाचये च तयोः साहित्यानवगमान्न द्विवचनबहुवचने न वा द्वन्द्वः ।
यद्यपि चार्थमात्रेे द्वन्द्वानुशासनं तथापि यत्रान्योन्यसाहित्यान्वयपूर्वक इतरेतरपदार्थान्वयस्तत्र समासः साधुस्तेनेतरेतरयोगसमाहारयोस्तत्राभावात् समासः । समुच्चये
अन्वाचये च न तथा । असम्बद्ध एव एकैकशः क्रियान्वयात् । एवं ""धवं खदिरञ्च छिब्धी" "त्यादौ समुच्चये तुल्यवदसम्बद्धयोः क्रियान्वयधीः पश्चात्तु तयोरेकरूपसजातीय-विजातीयव्यापारप्रचययोगित्वं साहित्यञ्चकारादवगम्यते । क्रियाभेदेऽन्वाचयः यथे" "न्धनमाहर्तुं वनं व्रज शाकमप्यानेष्यसी" "ति । गौश्चाश्चश्चेति द्वन्द्वसमानार्थकं वाक्यमेव
साहित्यं परमनेन न स्फोरितं द्विवचनबहुवचनयोरेव तद्व्यञ्जकत्वात् ।

यत्तुद्वित्वान्वयार्थं तदन्वययोग्यार्थोपनयनं अपेक्षाबुद्धिविषयत्वावस्थया च द्वित्वान्वय इत्यपेक्षाबुद्धिविषयत्वावस्थस्वार्थपरतास्तु इदमेव च साहित्यं न त्वेकक्रियान्वयः
तस्य च विभक्त्यैव बोधितत्वात् । एकक्रियान्वयाभावेऽपि च द्वित्वान्वयदर्शनादिति ।तन्न  । अपेक्षाबुद्धिविशेषविषयत्वार्थमप्येक उपाधिरवश्यं वाच्य इति तथैव लक्षणाया
युक्तत्वात् लाघवात् । न च विना लक्षणमप्यन्यसम्बन्धस्य सतः सापेक्षस्य क्रियान्वयोऽपि विभक्त्या बोध्यत इति ।

अत्रोच्यते । एकस्मृत्यारूढपदद्वयात् स्वस्य शक्त्या स्वस्वार्थयोरेकदा स्मृतिसम्भवादनेकस्मृत्यर्थं न साहित्ये लक्षणा एकैकमात्रगोचरसंस्कारद्वयाद्धि पदयोस्तदर्थयोश्चैका
स्मृतिरित्यनुभवसिद्धम् प्रत्येकेन्द्रियसंयोगात् समूहालम्बनमिव । अन्यथा द्वन्द्वे न लक्षणा न वा तया अनेकस्मृतिः पदयोस्तदर्थयोश्चैकस्मृत्यभावात् । एवञ्च पदद्वयादुपस्थिते
धवखदिरादिस्वरूपे विभक्त्या द्वित्वान्वयोबोध्यते । यथेन्द्रियसन्निकृष्टे ज्ञाते वा धवखदिरादिस्वरूपे प्रत्यक्षेण द्वित्वं बोध्यते । न च तत्र तयोः स्वरूपातिरिक्तं तुल्यद्वारत्वादिकं
साहित्यमस्ति ज्ञायते वा तथा विभक्त्यापि विलक्षणस्वरूपे द्वित्वं बोध्यते । उभयोर्द्वित्वान्यबोधकत्वे विशेषाभावात् ।

ननु योग्यतावच्छेदकरूपेणोपस्थिते इतरपदादन्वयबोधः साहित्याश्रयत्वेन च धवखदिरौै तथा न प्रत्येकं छिद्रेतरत्वविशिष्टे घटपदस्य लक्षणैवेति चेत् , न।
उपस्थिते योग्येऽन्वयबोधोऽधिकस्य गुरुत्वात् । घटपदादपि योग्यस्यान्वयो बोध्यते न तु छिद्रेतरत्वेनेत्युक्तम् । स्यादेतत् । पदद्वयात् स्वस्वश्क्त्या एकदा स्मृतेनैकत्र
इतरपदार्थस्य विभ्क्त्यर्थस्य चान्वयबोधो न स्यात् इतरपदार्थे इतरपदानां नामार्थे विभक्तीनां स्वार्थान्वयबोधकत्वमिति व्युत्पत्तेः व्याप्तेश्च । अनेकञ्च न पदार्थो नापि
नामार्थः मिलितपदद्वये पदत्वनामत्वयोरभावात् । अतो द्वित्वान्वययोग्यस्य पदार्थत्वनामार्थत्वनिर्वाहाय द्वन्द्वपदे साहित्यलक्षणेति ।
तन्न  । पदार्थत्वं हि वृत्त्या पदोपस्थाप्यत्वं पदतात्पर्यविषयत्वं वा । अस्ति च द्वन्द्वे पदस्यानेकमुपस्थाप्यं तत्र तात्पर्यञ्च तन्निर्वाहश्चानेकैकस्मृतिद्वारा लक्षणाया पदेन
वा स्वस्वशक्त्या पदाभ्यां वेति न कश्चिद्विशेषः । एकपदोपस्थाप्यत्वञ्च न पदार्थत्वं गौरवात् । एवं नामार्थत्वमपि तत्तात्पर्यविषयत्वमेव ।
अथ पदार्थतावच्छेदकावच्छिन्ने विभक्तेः स्वार्थान्वयबोधकत्वमतोमिलिते तदवच्छिन्नत्वं न मिलितवृत्तिपदार्थतावच्छेदके लक्षणां विनेति चेत् , न, धवखदिरस्वरूपद्वयस्य
प्रत्येकं तदवच्छिन्नत्वमेव मेलकञ्च न स्वरूपद्वयातिरिक्तं प्रत्येक स्यायोग्यत्वात् न द्वित्वान्वयः । तथापि यादृशे द्वित्वान्वयस्तादृशे न तदवच्छिन्नस्तदवच्छिन्ने च न द्वित्वान्वय
इति चेत् ,न। स्वरूपद्वयातिरिक्तस्य यादृशपदार्थस्याभावात् ।

वस्तुतः " "समभिव्याहृतपदार्थे विभक्तर्थान्वय" " इति व्युत्पत्तिर्लाघवान्न तु पदार्थतावच्छेदकावच्छिन्ने गौरवात्। ननुविभक्तेः पदार्थतावच्छेदकधर्मव्याप्यसङ्ख्याबोधकत्वं
द्वद्वादन्यत्र तथा व्युत्पत्तेरिति उभयगतपदार्थतावच्छेदके साहित्ये लक्षणेति चेत् , न । पदार्थतावच्छेदकधर्मसमानाधिकरणस्वार्थबोधकत्वे विभक्तिव्युत्पत्तिर्लाघवात् नतु
सामानाधिकरण्ये नियमांशोऽपि प्रविशति गौरवात् ।

नन्वेवं घटावानय पटञ्चेत्यत्र घटत्वसमानाधिकरणं द्वित्वं समभिव्याहृते पटेऽपीति तमादायान्वयबोधः स्यादिति चेत् , न । विभक्तीनां
योग्यतादिमत्प्रकृत्यर्थगतस्वार्थान्वयबोधकत्वं व्युत्पन्नम् । न च घटावित्यत्र पटपदं प्रकृतिः । धवखदिरावित्यत्र धवपदं व्यवहितमपि विभक्तिसमभिव्याहृतमेव तदन्तर्भावेनैव
समासस्य प्रातिपदिकत्वात् विभ्क्त्यर्थान्तर्भावेनैव नामार्थस्य क्रियान्वयित्वात् । विभक्तेरेकपदार्थमात्रगतसङ्ख्याभिधायकत्वं नानापदार्थगतसङ्ख्यान्वयबोधकत्वञ्चेति
चेत्, न । आद्ये एकमात्रपदयोर्व्युत्पत्तावधिकत्वात् द्वितीयेऽन्वयाबोधकत्वे योग्यताविरहस्योपाधिकत्वात् । न चैकधर्मावच्छेदकं विना यदि स्वरूपद्वये द्वित्वान्वयस्तदा
धवञ्च खदिरञ्चेत्यत्रेव वाक्यभेदः स्यात् द्वित्वविशिष्टैकार्थाप्रतिपादकत्वादिति वाच्यम् । आनयनान्वितद्वित्वविशिष्टैकार्थबोधकत्वात् । धवखदिराविति च न वाक्यं

158

क्रियायाः प्रत्येकमन्वये वाक्यभेद इत्यपि न लक्षणापक्षेऽपि प्रत्येकमेव क्रियान्वयित्वात् गमनादिक्रियाया व्यासज्यवृत्तित्वाभावात् । तद्राजानान्तु प्रत्येकं तेनैव बहुषु
वर्त्तमानात्परस्याञादेर्लोपो भवति तद्राजस्य बहुषु तेनैवेति वचनात् न त्वेकत्वबोधकात् । अत एवाङ्गानामपत्यानि राजानो वा अङ्ग इति इत्युदाहरणं अङ्गानामपत्यं
राजा वा आङ्ग इति प्रत्युदाहरणं वृत्तिकारोदर्शयति स्म, तस्मान्नानापदादप्युपस्थितेऽनैकत्र द्वित्वान्वय इति नानेकोपस्थित्यर्थं साहित्यलक्षणा ।
अत एव ""चन्द्रे कलङ्कः सुजने दरिद्रता विकाशलक्ष्मीः कमलेषु चञ्चला । मुखाप्रसादः सधनेषु सर्वदा यशोविधातुः कथयन्ति खण्डिता ॥
इत्यादावेकैकस्मृत्यारूढनानापदजनितैकस्मृतिविषयेषु कलङ्कादिषु बहुत्वान्वयबोधः मेलकोपस्थापकस्य द्वन्द्वस्य तत्राभावात् तत्कल्पने मानाभावात् एकवचनान्तानां
वाक्येऽनन्वयप्रसङ्गाच्च ।

नन्वेवं धवखदिरौ छिन्धीत्यत्र तयोश्छिदानुकूलव्यापारवत्त्वं साहित्यं न प्रतीयेतेति चेत् , न, द्वित्वान्वयबोधात्पूर्वं तन्न प्रतीयत एव तदुत्तरन्तु विभक्त्या क्रियापदेन
च सम्भूय छिदानुकूलसजातीयविजातीयव्यापारप्रचयस्य तुल्य एव सम्बन्धो धवे खदिरे च बोध्यते यथा धवं छिन्धि खदिरञ्चेति समुच्चयेन । न चैवं द्वन्द्वसमानार्थत्वेन
समुच्चयेऽपि समासः स्यादिति वाच्यम् । द्वन्द्वे युगपदुपस्थिते द्वये एकदा क्रियान्वयबोधे तात्पर्यं तेन तत्र समासः समुच्चये क्रमेणोपस्थिते क्रमेण क्रियान्वयबोधे
तात्पर्यमित्यसमासः । अन्वाचयेऽप्येवम् । किञ्च यदि तुल्यव्यापारत्वेन साहित्येन द्वयोरुपस्थितिः पदार्थता च तदा तुल्य व्यापारौ सहितौ वा गच्छत इति धीः स्यात् न
तु चैत्रमैत्राविति पदार्थतावच्छेदकरूपेण पदार्थे विभक्तेः क्रियापदस्य चान्वयबोधकत्वव्युत्पत्तेर्व्याप्तेश्च यथा दध्युपघातकत्वेन काकादेरितरपदार्थान्वयः सहितावस्थचैत्र-मै
त्रत्वेनोपस्थितौ प्रत्येकं द्वित्वयानुपपत्तिर्वृत्तिद्वयविरोधञ्च। अपि च मैत्रोै गच्छत इत्यत्र गमनस्य व्यासज्यवृत्तित्वाभावात् चैत्रत्वेन गमानन्वयार्थं चैत्रपदात् चैत्रत्वेन
द्वित्वान्वयार्थं मैत्रसहितचैत्रत्वेनोपस्थितौ युगपद्वृत्तिद्वयविरोधः सहितावस्थे च गमनकर्तृत्वाभावात् आख्यातार्थसङ्ख्यान्वयोऽपि न सहितावस्थे । न च सहितत्वेनोपस्थिते
पदार्थैकदेशे चैत्र मैत्रे च धात्वर्थगमनान्वय इति वाच्यम् । " "सहितो गच्छतीति" " धीप्रसङ्गात् । न च धात्वर्थगमने आख्यातार्थद्वित्वान्वयः सामानाधिकरण्यभङ्गप्रसङ्गात्
सुबन्ततिङन्तयोरेकसंख्याभिधायकत्वात् । एवं " "गर्गाभुञ्जत इत्यत्र भोजनस्यैककर्तृकत्वनियमात् अनेककर्तृकं भोजनं न सम्भवतीति तन्त्रवृत्त्या गर्गत्वेनोपस्थितेऽनेकत्र
सुप्तिर्ङ्थबहुत्वान्वयः न तु सहितत्वेनोपस्थिते ।

यत्तु  तत्रापि धात्वर्थभोजनगतं बहुत्वमाख्यातेनोच्यत इति ।  तन्न। तिङ्ग्न्तसुबन्तयोः सामानाधिकरण्यानुपपत्तेः भोजनानां सहितत्वेनानुपस्थितेश्च । यदा
चानुगतं रूपं विनैवैकैकपदात् स्वस्वशक्त्योेपस्थितेऽनेकत्र योग्यतया द्वित्वबहुत्वान्वयस्तदा सुबन्ततिङन्तसंख्यान्वयः प्रातिपदिकार्थे भवतीति नैते दोषाः ।
यत्तु  साहित्यं नोभयानुगतं तुल्यव्यापारत्वादिकं तेन रूपेण धवखदिरयोर्विभक्तिधात्वर्थान्वयाप्रतीतेः किन्तु प्रत्येकविलक्षणं स्वरूपद्वयमेव प्रत्येकाच्चोभयमन्यदेव
भवति हि द्वयादन्य एकः धवोन धवखदिरौ तौ च न धव इत्यनुभवात् । तथा चैकमात्रवाचकेन द्वयमशक्यं लक्ष्यत इति न वृत्तिद्वयविरोधः । धवपदस्य च
स्वार्थनिरूप्यत्वमेव लक्ष्ये स्वरूपद्वये सम्बन्ध एकनिरूप्यत्वाद्द्वस्य । अनुगतधर्र्मं विनापि धवपदादनेकोपस्थितिर्र्ध्रुवपदादिव चतुर्दशानाम् । योग्यतया विभक्त्यर्थस्य
स्वरूपद्वये धात्वर्थस्य च प्रत्येकमन्वय इति ।तन्न। उक्तरीया हि स्वस्वशक्ता नानापदजनितैकस्मृतिविषयेऽनेकत्र द्वित्वान्वयबोधसम्भवात् न तदर्थं साहित्यलक्षणा घटौ
घटा इत्यत्र द्वित्वबहुत्वान्वययोग्यानेकोपस्थितिः शक्तित एव तन्त्रवृत्त्या घटपदात् सम्भवतीति न तदर्थं लक्षणा । यथा ग्रहं सम्माष्टीत्यत्र ग्रहपदात्तन्त्रवृत्त्योपस्थितानेकग्रहे
सम्मार्र्गान्वयः , तर्हि तत्रानेकग्रहस्वरूपमात्रज्ञानवदिहाप्यनेकघटस्वरूपधीः स्यात् न तु तेषां सहितावस्थत्वधीरिति चेत् , न। तां विनापि द्वित्वबहुत्वान्वययोग्योपस्थितेः ।
सहितावस्थत्वेनानेकस्य द्वित्वबहुत्वान्वययोग्यतेति चेत् , न । प्रकृत्युपस्थितानेकत्वेनैव तद्योग्यत्वात् लाघवात् । भवत्वनेकत्र द्वित्वान्वयबोधस्तेषां साहित्यधीस्तल्लक्षणांं
विना न स्यादिति चेत् , न । विभक्त्यर्थधात्वर्थव्यापारान्वयबोधात्पूर्वमनेकत्र तुल्यव्यापारवत्त्वस्याप्रतीतेः । किञ्चैवं न विभक्त्यर्थद्वित्व बहुत्वान्वयानुपपत्त्या लक्षणा
किन्तु साहित्यप्रतीत्यनुरोधात् । न चैवमपि , धातुनैव तुल्यव्यापारवत्त्वस्य बोधनात् तदन्वयबोधात्पूर्वं तत्प्रतीत्यसिद्धेः ।
समाहारे तु " "पाणिपादं" " " "पञ्चपूली" "त्यादौ तावद्वृत्त्येकधर्माभिधानं लक्षणयैव तदेकत्वादेकवचनम् । तदाहुः शब्दिकाः समाहरणं समाहारोऽनेकस्यैकीकरणम्
एकोधर्म इति यावत् । स चैकोधर्मः सेनावनादाविव द्वित्वबहुत्वसङ्ख्यापेक्षाबुद्धिविशेषविषयत्वं वा । विरूपैकशेषे तु " "पितरा" "वित्यत्रैकस्य पितृद्वयाभावात् अगत्या
पितृपदेन जनकदाम्पत्ये लक्षणा विभक्त्युपनीतञ्च द्वित्वं विरूपयोरेव मातापित्रोरवगम्यते , सरूपस्य तु पितृद्वयस्य मातृद्वयस्य वैकं प्रत्यजनकत्वात् । श्वशुरावित्यत्र
श्वशुरपदे पत्नीजनकदाम्पत्ये लक्षणा पत्नीजनकद्वित्वञ्चोक्तन्यायात् पत्नीमातापित्रोरेव । ब्राह्मणावानयेत्यत्र दम्पतिपूजाप्रकरणे मानान्तराद्ब्राह्मणाब्राह्मणीपरत्वावगमे
" "पुमान् स्त्रिये" "ति विरूपैकशेषत्वाद्ब्राह्मणपदे स्त्रीपुंसलक्षणैवानन्यगतिकत्वात् । पुंलिङ्गत्वन्तु पदार्थैकदेशगतमनूद्यते । स्त्रीपरत्वाज्ञाने न ब्राह्मणपदेन तन्त्रवृत्त्या
पुंद्वयमेवोच्यते न तु स्त्रीपुंसौ सरूपैकशेषापेक्षया विरूपैकशेषस्य लाक्षणिकत्वेन जघन्यत्वात् । यदि च स्वरूपैकशेषेऽपि लक्षणा तदप्यौकारान्तपदात्सद्वितीयपुंबुद्धौ
द्वितीयापेक्षायां तत्पदबोधस्य पुमवरुद्धत्वात् लिङ्गानुरोधात् ङीबाद्यर्थकल्पने मानाभावात् पुन्द्वयमेवावगम्यते न तु स्त्रीपुंसौ । शिवौ नमस्कुर्यादित्यत्र नमस्यशिवान्तराभावाद्विरूपैकशेष
इत्यगत्या शिवपदेन शिवश्च शिवा च लक्षणयोच्यते । भ्रातरौ पुत्रावित्यत्रापि मानान्तरात् स्त्रीपरत्वज्ञाने भ्रातृपुत्रौ स्वसृदुहितृभ्यामिति विरूपैकशेषाद्भ्रातृ पदेन
भ्रातृस्वसारौ पत्रपदेन पुत्रदुहितरौ लक्ष्येते । स्त्रीपरत्वाज्ञाने च तन्त्रवृत्त्योक्तयुक्त्या भ्रातृद्वयं पुत्रद्वयमेवोच्यते ।
नन्वेवं " "क्षौमे वसानावग्नीनादधीयातामि" "त्यत्राप्यौकारान्तवसानपदात् सद्वितीयपुंबुद्धौ द्वितीयापेक्षायां तत्पदबोध्यस्य पुमवरुद्धत्वात् टाबाद्यर्थकल्पने च हेत्वभावात्
पुंद्वयबुद्धौ पुरुषद्वयविधिराधाने स्यात् वसानपदात्तन्त्रवृत्त्यापि स्त्रीपुंसयोर्ज्ञानासम्भवात् । न चैवं " "पुमान् स्त्रिये" "ति विरूपैकशेषोच्छेदः , यत्र तु मानान्तरात् स्त्रीपरत्वधीस्तत्र
स्त्रीद्वितीयस्य प्रातिपदिकार्थत्वात् । उभयसमवेतद्वित्वस्य पुंस्यपि सम्भव इति विभक्त्या तद्गतसङ्ख्याभिधाने विरूपैकशेषसम्भवात् । इह तु स्त्रिया उपानायकाभावात्
द्वितीयत्वेन स्त्रिया अप्राप्तत्वात् वसानपदस्योक्तयुक्त्या तदुपस्थापकत्वाभावात् सरूपैकशेषतैव स्यादिति । मैवम् । " "क्षौमे वसाना" "वित्यत्र यत् कर्त्तव्यं तदनया सहेति
विधिना अग्न्याधाने सहत्वेन प्राप्तया पत्न्यैव पुंसः सद्वितीयत्वात् न त्वप्राप्तेन पुमन्तरेण वाक्यभेदापत्तेः । पुंस्त्वन्तु विभक्त्या नामार्थगतमेवानुद्यते न तु नामार्थैकदेशगतम्
अन्यसहितावस्थपुमर्थस्यैव नामार्थत्वादिति ।

इति श्रीमद्गङ्गेशोपाध्यायविरचिते तत्त्वचिन्तामणौ शब्दाख्यतुरीयखण्डे समासवादः।

159

अथाख्यातवादः ।
आख्यातस्य यत्नवाचकत्वादचेतने ""रथो गच्छती" "त्यादौ आख्याते व्यापारलक्षणा । तथाहि " "पचती" "त्यादावाख्यातस्य यत्नो वाच्यः पचति पाकं
करोतीत्यादियत्नार्थककरोतिना सर्वाख्यातविवरणात् । वृद्धव्यवहारादिवद्बाधकाभावे विवरणादपि व्युत्पत्तः । द्वन्द्वादिसमासस्य विग्रहेण विवरणेऽपि विग्रहार्थे न शक्तिरन्यलभ्यत्वात्।
किं करोतीतियत्नप्रश्ने पचतीत्युत्तरस्य यत्नार्थत्वं विना अनुपपत्तेरित्याचार्याः । अत्र वदन्ति आख्यातस्य करोतेश्च न यत्नार्थत्वं " "रथो-गच्छति" " " "जानाति" " " "यतते" "
" "निद्राती" "त्यादौ धात्वर्थानुकूलयत्नाभावेऽप्याख्यातप्रयोगात् गमनं करोतीति करोतिना तत्राख्यातविवरणाच्च तत्र व्यापारस्य करोत्यर्थत्वे चेतनेऽपि तथा। न च
तत्राख्यातकरोत्योर्गौणत्वम् , मुख्ये बाधकाभावात् । अत एव प्रश्नोत्तरयोर्न यत्नार्थत्वं किन्तु कृञ क्रियावाचित्वमेव तेन किं करोतीतिक्रियामात्रप्रश्ने
पचतिगच्छतीतिक्रियाविशेषणोेत्तरमपि समञ्जसम्भवति ।

अथ क्रियाजन्यत्वाविशेषेऽपि यत्नजन्यत्वाजन्यत्वाभ्यां घटाङ्कुरयोः कृताकृतव्यवहारात् तृजन्तकृञधातुव्युत्पन्नकर्तृपदस्य कृत्याश्रयवाचकत्वाच्च कृञ्जोयत्नार्थत्वम्
क्रियामात्रार्थत्वे कृञः क्रियाश्रयः कर्तृपदार्थः स्यात् तथाच कारकमात्रेऽतिप्रसङ्गः । एवञ्च कृञो यत्नार्थत्वे तेन चाख्यातविवरणात् तस्यापि यत्नोऽर्थः । तदुच्यते ,
कृताकृतविभागेन कर्तृरूपव्यवस्थया । यत्न एव कृतिः पूर्वा परस्मिन् सैव भावना ॥ सैवाख्यातार्थोभावनोच्यते इति चेत् , न। बीजेनाङ्कुरः कृतः स्रगादिना सुखं कृतं
बीजमङ्कुरं करोतीति यत्नं विनापि व्यवहारात् । कर्तृपदञ्च न यौगिकम् तथाहि कृञोेयत्नार्थत्वे तृचश्च कृत्यर्थत्वे कर्त्रर्थत्वे वा धातुप्रत्ययार्थयोः कृत्योः कृतिकर्त्रोर्वा
परम्परमनन्वयः कृतौ कृतिजन्यत्वस्य तद्विषयत्वस्य चाभावात् कृतिविशिष्टस्य कृतिनिराकाङ्क्षत्वाच्च । एवं कृञः क्रियार्थत्वे तृचश्च क्रियाश्रयवाचकत्वे तयोः
परम्परमनन्वय एवेत्युभयदर्शने कर्तृपदं कर्मादिपदवद्रूढमेव । रूढिश्च कृत्याश्रये क्रियाश्रये वेत्यन्यदेतत् । तस्मात् कृताकृतविभागेन कर्तृरूपव्यवस्थया च न
कृञोयत्नार्थत्वमिति । किञ्चाख्यातस्य करोतेश्च न यत्नार्थत्वम् पाकाय यतते पाकं करोतीत्यादौ यत्नद्वयस्य यत्नविषयकयत्नस्य वा प्रतीतेः प्रकृति-प्रत्ययार्थयोः
साम्येनान्वयानुपपत्तेः पौनरुक्त्यात् एकत्रैव विध्यनुवाददोषाच्च ।

ननु प्रकृतेस्तदर्थत्वेऽपि प्रत्ययस्य तदर्थत्वं न दोषाय । एको द्वौ बहवः इषिषिषतीत्यत्र च व्यभिचारात् । यत्तु द्वितीयसङ्ख्येच्छादिकल्पनवदिहापि द्वितीययत्नकल्पनमिति।
तन्न द्वितीयसङ्ख्येच्छायत्नाभावात् ।

वस्तुतस्तु प्रत्येकं सामर्थ्यावधृतौ सम्भेदे तूभयोपस्थितेरावश्यकत्वेऽप्येकस्यानन्वयेऽप्यदोषात् ।  " "पाकाययतते" " " "पाकं कुर्यादि" "त्यत्र कृत्यर्थकाख्याते त्वयापि
तथैवाङ्गीकारदिति चेत् , न। एको द्वौ बहव इत्यत्र नामार्थस्य विभक्त्युपनीतसङ्ख्यान्वयावगमयोग्यत्वात् । लडादेर्यत्ने सामर्थ्यानवधारणाल्लिङः " "पचेते" "त्यत्र कृतौ
सामर्थ्यावधारणाच्च ।

अथायत्नार्थकधातुपराख्यातस्य यत्नार्थत्वं तेन यतत इत्यत्र नन्वयः अचेतने चाख्यातप्रयोगो गौण एव । न च वृत्त्यन्तरेणापि प्रयोगसम्भवे शक्तिकल्पना युक्ता।
यद्वा अनुकूलयत्ने प्रवृत्तं पदं तदेकदेशेऽनुकूलमात्रेे प्रयुज्यते विशुद्धिमात्रं पुरस्कृत्य ब्राह्मणे श्रोत्रियपदवत् । अचेतने च मध्यमपुरुषोत्तमपुरुषौ न भवत
एवोपपदयोर्युष्मदस्मदोश्चेतनार्थत्वात्। भवतु वा गौण एव लोकस्यापर्य्यनुयोज्यत्वादिति चेत् , न। अचेतने आख्यातस्य मुख्यत्वे बाधकाभावेन गौणत्वाभावात्
तस्मादाख्यातस्यानुकूलत्वेन व्यापारो वाच्य इति भट्टाः तेन चेतनाचेतनयोर्धात्वर्थानुकूलव्यापारस्य सत्त्वादाख्यातप्रयोगो मुख्य एव । न चैवं पथिश्रमशयाने पचतीति
स्यात् श्रमशान्तिद्वारा शयनस्य पाकानुकूलव्यापारत्वादिनिवाच्यम्। तव प्रयत्नविशेषस्येवानुकूलव्यापारविशेषस्य वाच्यत्वात् । अन्यथा यत्नवाच्यत्वेऽपि तण्डुलानुकूलयत्नवति
पचतीति स्यात् । एवमचेतनेऽपि करोतिना आख्यातविवरणात् करोत्यर्थोऽपि व्यापारविशेष एव , कथं तर्हि चैत्रः पचतीत्यत्र पाकानुकूलयत्नवत्प्रतीतिः , आक्षेपादिति
चेत् , न। आख्यातार्र्थेन व्यापारेण सङ्ख्याया वा यत्नाक्षेपात् तयोः प्रयत्नं विनापि सत्त्वात् । नापि कर्त्रा , द्रव्यमात्रस्य कर्तृत्वात् , यत्नवतश्च कर्तृत्वेन आख्यातेन
तदभिधाने यत्नस्याप्यभिधानात् । नापि धात्वर्थमात्रेण , तस्य प्रयत्नं विनापि सत्त्वात् । नापि यत्नोधात्वर्थः क्रियायास्तत्फलस्य वा धातुवाच्यत्वात् । अन्यथा " "पाक" "
इत्यत्रापि यत्नानुभव प्रसङ्गादिति चेत्, न, धात्वर्थविशेषपाकादिना यत्नाक्षेपात्तस्य प्रयत्नं विनाऽनुपपत्तेः । अथ पचतीत्यस्य पाकयत्नवानिति विवरणाद्यत्नार्थतेति चेत्,
तर्हि कर्त्रर्थतापि स्यात् । न हि पाकयत्न इत्येव विवरणम् । पचतीत्यस्य तात्पर्यविवरणं तत् तच्चाक्षेपेण निर्वहतीति चेत् , तुल्यं यत्नेपि । कथं तर्हि " "रथो गच्छति" "
" "विद्यते व्योमे" "ति भावनानुभव इति चेत् , न । कथञ्चित् , भवनायाः धात्वर्थान्वयायोग्यत्वेन त्वयापि तत्र गौणत्वाभ्युपगमादिति ।
उच्यते । चैत्रः पचतीत्यत्र पाकाकूलयत्नानुभवाद्यत्न एवाख्यातार्थो लाघवात् न त्वनुकूलो व्यापारः यत्नत्वापेक्षया व्यापारत्वस्योपाधित्वेन गौरवात् । न
चाचेतनेऽपि आख्यातस्य मुख्यत्वार्थमनुगतोव्यापार एव शक्यः मुख्यत्वसम्भवे त्यागायोगदिति वाच्यम् । शक्तिग्राहकेन प्रमाणेन लघुनि शक्तिपरिच्छेदात् अचेतने प्रयोगस्य
वृत्त्यन्तरेणापि सम्भवात् मुख्यत्वार्थं शक्तिकल्पने च वृत्त्यन्तरोच्छेदः । एतेन व्यापारवाचकाख्यातस्य यत्नसाध्यार्थकपच्यादिधातूपलाघवेन सन्दानेन व्यापारविशेषयत्नोपस्थापकत्वमिति
निरस्तम्। यत्नस्यैव शक्यत्वात् । ननु यत्नेनाख्यातार्थः पाकत्वेन पाकस्य यत्नसाध्यत्वानुमित्या यत्नलाभादित्युक्तमिति चेत् , न। चैत्रः पचतीत्यत्र चैत्रः पाकानुकूलवर्त्तमानयत्नवान्
प्रतीयते, न च पाकस्य वर्त्तमानयत्नेन व्याप्तिरस्ति , अतीतानागते व्यभिचारात् । न च धात्वर्थेनानुमिते यत्ने आख्यातेन वर्त्तमानत्वान्वयबोधः सम्भवति ,
यत्नस्यापदार्थत्वात् स्वार्थव्यापारस्य वर्त्तमानत्वबोधनेनाख्यातस्य पर्यवसितत्वाच्च। अथ चैत्रः पाकानुकूलवर्त्तमानव्यापारवानिति शाब्दबोधानन्तरं चैत्रः पाकानुकूलवर्तमानयत्नवान्
चेतनत्वे सति पाकानूकूलवर्त्तमानव्यापारवत्त्वात् मैत्रवत् अनुमानं विना च पाकयत्ने वर्त्तमानत्वज्ञानमाख्यातस्य यत्ने शक्तिभ्रमादिति चेत् , न । यत्नाभावकालेऽपि
तज्जन्यव्यापारस्य वर्त्तमानतया व्यभिचारात् । किञ्च व्यापारस्य वाच्यत्वं तल्लिङ्गकं वर्त्तमानयत्नानुमानमिति च कल्पनाद्वयाद्वरं यत्नवाच्यत्वं लाघवात् । न चाचेतने
आख्यातस्य व्यापारवाचकत्ववधारणात् एवं कल्पनेति युक्तम् , गौणतया शक्तिभ्रमेण वा तत्राख्याताद्व्यापारावगमोपपत्तेः । यत्नविगमदशायां तज्जन्यव्यापारकाले
पचतीत्यत्र वर्त्तमानव्यापाराभिधानमाख्यातेन लक्षणया यथा " "रथो" "च्छतीत्यत्र अतोऽन्यलभ्यत्वान्न तदनुरोधेन व्यापारे शक्तिः । अन्यथा तवापि यत्नकाले पचतीति न
स्यात् । तस्माल्लडाख्यातं यत्नवाचकं आख्यातत्वात् लिङादिवत् तर्कश्चोक्त एव ।

एतेनफलानुकूलो व्यापारो धात्वर्थः आख्यातवाच्या सङ्ख्यैव। तेन " "चैत्रः पचति" " " "रथोगच्छती" "त्यत्र चैत्ररथयोर्धात्वर्थानुकूलव्यापारवत्त्वप्रतीतेर्मुख्य एव
प्रयोगः, पचतीत्यत्र यत्नालाभोधात्वर्थेनाक्षेपादिति विक्लित्त्यनुकूलव्यापारस्य यत्नं विनानुपपत्तेरिति  गुरुमतमपास्तम्  । ""पचती" "त्यस्य पाकानुकूलयत्न

160

वर्त्तमानत्वस्याक्षेपादलाभेनाख्यातार्थत्वात् । यत्तु रत्नकोशकारोक्तं धात्वर्थोयापारः आख्यातार्थउत्पादना सा चोत्पादकता सैव भावना पचतीत्यादौ आख्यातस्य पाकमुत्पादयतीति
विवरणात् । धात्वर्थोत्पादना च चेतनाचेतनयोरिति सर्वत्राख्यातप्रयोगा ेमुख्य एव । " "यतते" " " "जानाती" "त्यादावपि यत्नं ज्ञानमुत्पादयतीत्यर्थात् । न तु व्यापारो यत्नो
वाख्यातार्थः। " "यतत" " इत्यादौ मुख्यत्वे सति गौणत्वस्यान्याय्यत्वात् ।

आख्यातार्थविवरणं करोत्यर्थोऽप्युत्पादकतैव। ""पाकं करोती" "त्यादौ करोतीत्यस्योत्पादयतीति विवरणात् । " "घटं करोती" "त्यत्र कृञर्थ उत्पत्तिरेवावगम्यते । अत
एव किं करोतीति सामान्येनोत्पादनाप्रश्ने पचतीति पाकोत्पादनाविशेषेणोत्तरमपि समञ्जसम् । चैत्र उत्पादयतीत्यत्र धात्वर्थ एवोत्पादना चैत्रेणान्वेति । आख्यातार्थ
उत्पादनानन्वितैवोत्पत्तेरुत्पत्त्यभावात् ।

वस्तुतस्तूत्पादयतीत्यत्र धात्वर्थ एवोत्पादना अतोऽनुत्पादनपरधातूत्तरवर्त्तिन आख्यातस्यानन्यलभ्यतयोत्पादना वाच्या । " "पचती" "त्यादौ यत्नलाभः पाकादिना
धात्वर्थेनाक्षेपान्न तूत्पादनामात्रेण व्यभिचारादिति तदप्यतएव निरस्तम् । " "पचती" "त्यत्र यत्नप्रतीतेर्यत्न एवाख्यातार्थोलाघवान्न तूत्पादकत्वमुपाधितया गौरवात्
पाकानुकूलवर्त्तमानयत्नस्याक्षेपादिनाप्यलाभाच्च ।

वस्तुतस्तु चैत्रोजानातीच्छति यतत इत्यादौ ज्ञानादिमत्त्वं चैत्रस्य प्रतीयते न तूत्पादकत्वं अचेतनेऽपि ज्ञानोत्पादके शब्दलिङ्गेन्द्रियादौ जानातीत्यादिप्रयोगप्रसङ्गात्
घटं जानातीत्युक्ते घटज्ञानवान्न वेति संशयापत्तेश्च । अचेतनस्यापि ज्ञानोत्पादकत्वात् । शब्दादिकं ज्ञापयतीति चानुभवो न तु जानातीति तस्माल्लाघवात्
पचतिपक्ष्यत्यपाक्षीदित्यत्रातीतानागतवर्त्तमानयत्नप्रतीतेश्च यत्न आख्यातवाच्यस्तेन यत्नस्य वर्त्तमानत्वादिकमाख्यातेनाभिधीयते प्रकारान्तरेण तदलाभात् । जानातीच्छति
यतते निद्रातीत्यत्र धात्वर्थ एव यत्नादिश्चैचेणान्वेति यत्नादिमांश्चैत्र इत्यनुभवात् । धात्वर्थे च यत्नादौ नाख्यातार्थयत्नान्वयः । यत्नादिविषयकयत्नस्याभावात् रथो
गच्छतीत्यत्राख्याते व्यापारलक्षणा तेन गत्यनुकूलव्यापारवत्त्वमात्रं रथस्य प्रतीयते । अथ पाकानुकूलैककृतिकाले पचतीतिवत्कृतेरत्ययेऽग्रिमकृतेरनुत्पादे च मध्येऽप्यपाक्षीत्पक्ष्यतीति
च स्यात् । न च ध्रुवपदवत्कृतिप्रचयस्य शक्यत्वात् प्रचयस्य ध्वंसे प्रागभावे वा अपाक्षीत्पक्ष्यतीतिप्रयोग इति वाच्यम् । एवं हि पचतीति न स्यादेव एकदा
कृतिप्रचयस्यासत्त्वात् । अथ भूतभविष्यतोः कृत्यभावनिरूप्यत्वं कृतिकाले च कृत्यभावोनास्ति प्रतियोगिजातीयवत्यभावस्यासत्त्वादिति चेत् , न। प्रागभावप्रध्वंसयोः
कृतिविशेषप्रतियोगित्वेन कृतिकालेऽपि सत्त्वात् तयोः सकलकृतिप्रतियोगिकत्वासम्भवात् ।

ननु फलायोगव्यवच्छिन्ना कृतिः शक्या अत एव पाकानुकूलतण्डुलक्रयकाले पचतीति न प्रयोगः, एवं चरमकृतिकाले पचति तत्प्रागभावकाले पक्ष्यति
तद्ध्वंसकाले चापाक्षीदिति मुख्यप्रयोगः तत्पूर्वं पचतीति गौण एवेति चेत् , न । तर्हि मध्येऽपि पक्ष्यतीति स्यात् तदा चरमकृतेरनागतत्वात्, एवं व्यापारप्रचयस्याख्यातार्थत्वे
धात्वर्थत्वे वा मध्ये पक्ष्यत्यपाक्षीदिति स्यात् ।

उच्यते । यत्राख्यातवाच्ये प्रचये एकैकस्य वर्त्तमानव्यावहारनिमित्तत्वं तच तावतां ध्वंसैः प्रागभावैश्च भूत-भविष्यद्व्यवहारः, न तु वर्त्तमानव्यवहारनिमित्तं
किञ्चिदभावात् । चेतनाचेतनयोर्भोजनगमनादौ तथैव प्रयोगात् । प्रयोगे सति निमित्तानुसरणात् धातोराख्यातस्य वा पाकानुकूलव्यापारवाचकत्ववादिभिरप्यनन्यगतिकतया
तथैव स्वीकाराच्च । स्यादेतत्। " "चैत्रस्तण्डुलं पचति" " " "चैत्रेण पच्यते तण्डुल" " इत्यत्र कर्तरि कर्मणि चाख्यातार्थसंख्यान्वयात्कर्र्तृृकर्मणी अपि यत्न इव लकारवाच्ये। तेन
वाच्यगामिनौ सङ्ख्येति नियमो भवति । अन्यथा आक्षिप्तसङ्ख्येयमात्रान्वये नियमो न स्यादितिवैयाकरणाः।

तन्न। कर्तृगता सङ्ख्या यत्र वाच्या तत्र कर्त्रा तदन्वयः प्रतीयते इति तदुपपत्तेः । कर्तृगतैव सङ्ख्य क्व वाच्येति चेत् , अन्योन्याश्रयात् कर्त्तृवाच्यत्वे
तद्गतसङ्ख्याधीः तद्गतसङ्ख्याप्रतीत्या च तद्वाच्यतेति, यत्राख्यातेन कर्तुर्विवक्षा तत्र कर्त्ता वाच्य इति चेत् , न । यत्र कर्त्तृगतसङ्ख्या विवक्ष्या तत्र सा वाच्येति तुल्यम्।
एवं कर्मापि न शक्यं किन्तु तद्गतसङ्ख्यैव कर्त्तृकर्मणी लकारवाच्ये इत्यस्यायमर्थः तद्गतसङ्ख्या वाच्येति । सम्प्रदायस्तु सङ्ख्येयमात्रसाकाङ्क्षापि सङ्ख्या
भावनान्वयिनैवान्वेति एकपदोपात्तत्वप्रत्यासत्तेः । भावना च व्यापारत्वेन शुद्धं प्रातिपदिकार्थमाकाङ्क्षि न तु कर्मकरणदि द्वितीयादिना तस्य व्यापारवत्त्वेनोपस्थितेः,  अत
एव कर्माद्यपि न व्यापारमाकाङ्क्षति । अतः प्रथमानिर्द्दिष्टेनैव भावनान्वयः प्रातिपदिकस्यापि क्रियान्वयार्थं व्यापाराकाङ्क्षितत्वात् । शुद्धश्चाग्निना " "चैत्रस्तण्डुलं
पचती" "त्यत्र कर्ता " "चैत्रेण पच्यते तण्डुल" " इत्यत्र कर्म अतस्तत्रैव भावनान्वय इति सङ्ख्यान्वयोऽपि तत्रैव । तदुक्तं " "यं यं भावनानुधावति तं तं सङ्ख्यापीति
स्थितिरि" "ति । स्यादेतत् । चैत्रस्तण्डुलं पचतीत्यत्र भावनान्वयश्चैत्रे सम्भवति आश्रयत्वात् , " "चैत्रेण तण्डुलः पच्यते" " इत्यत्र भावनान्वयस्तण्डुलस्य न विषयतया
यत्नस्य विक्लित्त्यनुकूलव्यापारविषयत्वात् । विषयत्वेनान्वये वा तण्डुलं पचतीत्यत्रापि तण्डुलस्य विषयत्वेन भावनान्वय इति तद्गतैव सङ्ख्या स्यात् नाश्रयतया
तत्रावृत्तेश्चैत्रेेऽपि न यत्नान्वयः तृतीयार्थयत्नेनावरुद्धत्वात् इत्यनन्वितैव तत्र भावना । अचेतने च भावनान्वयाभावात् कथं सङ्ख्यान्वयनियम इति न, यत्नविशेष्ये
सङ्ख्यान्वयात् , " "चैतस्तण्डुलं पचती" "त्यत्र तण्डुलस्य कर्मत्वेनान्वयात्तण्डुलवृत्तिफलजनकव्यापारजनकयत्नाश्रयश्चैत्र इति प्रतीयते इति स एव विशेष्यः । चैत्रेण पच्यते
तण्डुल इत्यत्र चैत्रवृत्तियत्नजन्यव्यापारजन्यफलाश्रयस्तण्डुलः प्रतीयते इति यत्नस्य परम्परया तण्डुल एव विशेष्यः । एवञ्च यद्यप्युभयत्रैव चैत्रः कर्त्ता तण्डुलं कर्म तथापि
यत्नविशेष्ये सङ्ख्यान्वयः । अचेतनेऽपि " "रथो ग्रामं गच्छती" "त्यत्र " "ग्रामवृत्तिगमनफलजनकव्यापाराश्रयो रथः" " प्रतीयते , " "रथेन गम्यते ग्राम" " इत्यत्र रथवृत्तिव्यापारजन्यफलाश्रयो
ग्रामइति तत्रापि विशेष्ये सङ्ख्यान्वयः। नचैवं यत्नस्य व्यापारस्य च विशेष्ये सङ्ख्यान्वये नियामकमननुगतमिति वाच्यम् । आख्याततात्पर्यविषयस्य विशेष्ये
सङ्ख्यान्वयात् स च यत्नाव्यापारो वा । चैत्रेण सुप्यतइत्यत्र चैत्रो न भावनाविशेष्यः तृतीयार्थावरुद्धत्वात् । कर्म च तत्र नास्त्येवातोधात्वर्थ एव भावनाविशेष्यः
फलत्वाद्विषयत्वाद्वेति तत्र सङ्ख्यान्वयः । द्विवचनबहुवचनयोस्तत्रासाधुत्वमेव । तदुक्तम् । आक्षेपलभ्ये सङ्ख्येयेनाभिधानस्य कल्पना । सङ्ख्येयमात्रलाभेऽपि
साकाङ्क्षेण व्यवस्थितिः ॥ इति । इदमेव च कर्त्तुः कर्मणश्चाक्षेपलभ्यत्वं यद्भावनाविशेष्यत्वे सति प्रथमान्तपदोपस्थाप्यत्वं न तु सङ्ख्यालिङ्गकानुमितिविषयत्वम्
अनुमित्या सङ्ख्येयमात्रगतत्वेन सङ्ख्याप्रतीतेः ।

ननु नामार्थे भावनान्वयेऽपि न सङ्ख्यान्वयः प्रथमोपस्थितसङ्ख्यान्वयेन तस्या निराकाङ्क्षत्वात् । न च प्रथमा न सङ्ख्यावाचिका किन्तु प्रयोगसाधुरिति
वाच्यम् । " "चैत्रं इदानीं राजे" "त्यत्र केवलादपि एकत्वप्रतीतेः। अन्यथा प्रथमोपस्थितसङ्ख्या कर्त्तु-कर्मान्वये सङ्ख्या न तिङर्थ इत्यपि कल्प्येतेति चेत् , न। एकैव हि
सङ्ख्या प्रथमाख्याताभ्यामभिधीयते सामानाधिकरण्यानुरोधात् यथा चैत्रोदण्डीत्यत्र , अन्यथा त्वन्मतेऽप्याख्यातेन चैचसङ्ख्यभिधानात् प्रथमावाच्यसङ्ख्यान्वयश्चैत्रे न

161

स्यात् । " "ओदनकामः पचेतेत्यत्र" " त्वयाप्येषैव गतिरवगन्तव्या तत्र कर्त्तुरवाच्यत्वादिति वक्ष्यते । अथ कर्त्ताप्याख्यातावाच्यः " "चैत्रः पचती" "ति सामानाधिकरण्यात् अन्यथा
नामाख्यातयोर्भिन्नप्रवृत्तिनिमित्तकत्वेऽप्येकत्र वृत्त्यभावे सामानाधिरकण्यं न स्यादिति चेत् , न। " "नीलः पट" "श्चैत्रः पचति " "पच्यते तण्डुल" " इत्यादौ नाम्नोर्नामाख्यातयोर्वा
एकसङ्ख्यावाचकत्वमेव हि शाब्दसामानाधिकरण्यंं न तु भिन्नप्रवृत्तिनिमित्तस्यैकत्रार्थे वृत्तिर्गौरवात् ओदनकामः पचेतेत्यादौ व्यभिचाराच्च । विध्याख्यातस्य हि कृतिशक्तस्य
नामसामानाधिकरण्यं तयोरेकसङ्ख्याभिधायकत्वात् न त्वेककर्तृवाचकत्वेन । तत्रापि कर्तुर्वाच्यत्वे तस्येष्टसाधनत्वबोधने अप्रवृत्तिस्तस्यासाध्यत्वात् । अयोग्यतया
कर्त्तारं विहाय कृतिविषये पाके पाकविषयकृतौ वेष्टसाधनतान्वये कर्त्तुरनन्वयादप्रतीतेश्च नाभिधेयत्वम् । पचतीत्यस्य पाकयत्नवानिति विवरणात् कर्त्ता वाच्य इतिचेत्,
न। द्वन्द्वादिसमासस्य विग्रहेण विवरणेऽपि विग्रहार्थे शक्त्यभावेन व्यभिचारात् कर्त्तुरन्यलभ्यत्वेनावाच्यत्वस्थितौ विवरणस्य तात्पर्यविषयज्ञापकत्वात् कर्त्तृशक्तिभ्रममूलत्वाद्वा।
वस्तुतः पचतीत्यत्र यत्नवतः शक्यत्वे धात्वर्थस्य विषयत्वेन साध्यत्वेन वा कृतावन्वयो न स्यादितरपदार्थविशेषणतयोपस्थिते पदार्थैकदेशे इतरपदार्थस्यानन्वयात्।
राजपुरुषमानयेत्यत्र राज्ञ इवानयने पदार्थे पदार्थान्वयस्य व्युत्पत्तिसिद्धत्वात्। यत्नस्याश्रयान्वितत्वेनोपस्थितस्येतरानाकाङ्क्षत्वात् । पाकयत्नवतोरन्वये च यत्नवत्साध्यः
पाकः पाकजनको यत्नवानिति धीः स्यात् न तु पाक-यत्नयोर्विषयविषयिभावधीः । पाककर्त्ता इत्यत्रापि न पाकस्य कृतावन्वयधीः कृतेरपदार्थत्वात् । किन्तु कृत्याश्रयः
पाकजनक इति प्रतीतिः । अत एवापचत्यपि पाचकपदप्रयोगात् वुणः कृतियोग्यता वाच्येति निरस्तम् । पाकस्य कृतावनन्वयप्रसङ्गादिति तत्र पाचकपदं गौणमेव । ननु
कर्त्तु-कर्मणी लकारवाच्ये तेनभिहिते कर्त्तरि कर्मणि चानभिहिताधिकारीया कर्त्तृ-कर्मविभक्तिर्न भवति किन्तु प्रथमैव लकारेण तयोरनभिधाने च " "चैत्रेण पचति तण्डुलः" "
" "चैत्रः पच्यते आदेनमि" "त्याद्यपि स्यादिति चेत् , न , कर्त्तृ-कर्मगतसङ्ख्याभिधानानभिधानभ्यामेवाभिहितानभिहितकार्योपपत्तेः तादृशप्रयोगस्यासाधुत्वाच्च । साधुत्वे हि
सत्यनुशासनं न त्वनुशासनानुरोधेन साधुत्वम् ग्रामगामादौ साधुत्वापत्तेः । नवीनास्तु सुपः प्रकृत्यर्थगतस्वार्थसङ्ख्याबोधकत्वं तिङः प्रथमान्तपदार्थगतसङ्ख्याबोधकत्वमिति
व्युत्पत्तिरेव व्युत्पत्तिश्च तत्स्वभावत्वं तत्र फलोन्नेयम् । प्रथमान्तपदार्थः कर्त्ता कर्म वा । अत एव " "चैत्रेण सुप्यते" " इत्यत्र प्रथमान्तपदाभावान्न सङ्ख्यान्वयः । न च धात्वर्थे
सङ्ख्यान्वयः स्वापस्य द्वित्वबहुत्वेपि द्विवचनबहुवचनयोरभावात्सुप्यत इत्येव प्रयोगः स्यात् । अत एव स्वापमात्रावगमात् आख्यातार्थयत्नसङ्ख्योरनन्वये आख्यातं
प्रयोगमात्रे साध्विति तिङं विना धातोः केवलस्यासाधुत्वात्। अतोनसङ्ख्यानुरोधेन कर्तृकर्मणी लकारवाच्ये ।

वयन्तु ब्रूमः। चैत्रेेण पच्यते तण्डुलः " "रथेन गम्यते ग्राम इत्यत्र तण्डुलग्रामौ कर्मणी प्रतीयेते अस्ति च तयोः परसमवेतक्रियाफलशालित्वं कर्मत्वं
तच्चाख्यातवाच्यमेव । तण्डुलं पचतीत्यत्र द्वितीयात इवान्यतः कर्मत्वालाभात् । तस्मात्कर्र्तृत्ववत्कर्मत्वमपि लकारवाच्यम्। तद्धर्मिणोः कर्र्तृकर्मणोरन्यत एव लाभादिति।
इति श्रीमद्गङ्गेशोपाध्यायविरचिते तत्त्वचिन्तामणौ शब्दाख्यतुरीयखण्डे आख्यातवादः।

अथ धातुवादः ।
धात्वर्थः फलमिति मण्डनाचार्याः, तथा हि पच्यथोेर्विक्लित्तिर्लाघवान्न तु तत्फलकोव्यापारोऽधः सन्तापनादिर्गौरवात् गमेरुत्तरसंयोगः पतेरधः संयोगः त्यजेर्विभागोऽर्थोन
तु तत्फलजनकः स्पन्दः । हन्तेरपि मरणमर्थः न तु तत्फलजनकोव्यापारः खङ्गाभिघातादिः गौरवात् । यजत्यर्थोऽपि देवतोद्देश्यकत्यागफलं स्वस्वत्वध्वंस एव ।
जुहोत्यर्थस्त्यागफलं प्रक्षेपः । ददात्यर्थः सम्प्रदानस्वीकारपूर्वकत्यागफलं स्वस्य स्वत्वध्वंसः परस्वत्वं वा न तु तत्तत्फलकत्यागो गौरवात् । न चैवं व्यापारविगमे
फलदशायां पचति-गच्छति-ददातीत्यादिप्रयोगः स्यान्न त्वापाक्षीदित्यादिः व्यापारकाले च पचतीत्यादि न स्यादिति वाच्यम् । धात्वर्थानुकूलव्यापारवर्त्तमानत्वमाख्यातार्थः  तेन
व्यापारकाले पचतीत्यादि भवति न तु व्यापारविगमे । न च स्पन्दजन्यसंयोगाविभागश्रयत्वे" "नाकाशो गच्छति पतति त्यजती" "ति स्यात् विनश्यदवस्थे कर्मणि च न स्यात्
संयोग-विभागाद्यभावादिति वाच्यम् । व्यापारवति व्यापारकाले आख्यातप्रयोगात् ।

नन्वेवं धात्वर्थत्वेन फलं क्रिया तथाच " "तण्डुलं पचती" "त्यादौ तण्डुलादेः कर्मतापि न स्याद्विक्लित्त्यादिरूपक्रियाजन्यफलशलित्वाभावादिति चेत् , न।
परसमवेतव्यापारफलशालित्वं कर्म्मत्वं स च व्यापारोधात्वर्थ अख्यातार्थोवेत्युभयथापि परसमवेतव्यापारफलशालिनस्तण्डुलादेः कर्मत्वं विक्लित्त्यनुत्पादे व्यापारकाले
पाकोवर्त्तत इत्यत्र पाकपदे व्यापारलक्षणा लाघवेन विक्लित्तेः शक्यत्वात् । जानातीच्छति-यतते-विद्यते-तिष्ठतीत्यादौ ज्ञानेच्छा-प्रयत्नसत्ता-गतिनिवृत्तिरेव धात्वर्थः , न
ज्ञानादिफलं न वा ज्ञानाद्यनुकूलोव्यापारः ज्ञानादिमत्त्वमात्रप्रतीतेरिति ।

अत्रोच्यते । ""ओदनकामः पचेते" "त्यत्र विधिप्रत्ययेन धात्वर्थे प्रवृत्त्यर्थं कृतिसाध्यत्वमिष्टसाधनत्वञ्च बोध्यते । न च फले विक्लित्यादावोदनसाधनत्वं न वा
फले प्रवृत्तिः सम्भवति , उपायमकृत्वा फलस्य साक्षात् कृत्या साधयितुमशक्यत्वात् उपायकृतिसाध्यमेव हि फलं न तु तदन्यकृतिसाध्यम् उपायकृतित एव तत्सिद्धेरधः
सन्तापनादेः कृतिसाध्येष्टसाधनत्वं विना विक्लित्त्यर्थमप्रवृत्तेश्च । उपाय एवाधः सन्तापनादिर्व्यापारः प्रवृत्तिविषयत्वात् कृतिसाध्यत्वेनेष्टसाधनत्वेन च विधिप्रत्ययेन
बोध्यत इति फलानुकूलोव्यापार एव धात्वर्थः ।

अथोपायस्य कृतिसाध्यत्वज्ञानं प्रवर्त्तकमिति सत्यं किन्तु विधिबोधितफलकृतिसाध्यत्वेन तदुपायकृतिसाध्यत्वमाक्षिप्यते तेन विना तदनुपपत्तेरिति चेत् , न।
व्यवहारात्प्रवृत्तिजनके ज्ञाने विधिप्रत्ययस्य शक्तिग्रहात् प्रवृत्तिसाक्षादुपपादकविषयत्वात्कल्पनायाः । एवं यजि-गमि-पचि-जुहोति-ददातीनामपि व्यापार एव वाच्यः फले
प्रवृत्त्यसम्भवात् । तत्र पच्यर्थोऽधः सन्तापनमेव तच्च रूप-रस-गन्ध-स्पर्शपरावृत्तिफलाविनाभूतम् , अधः सन्तापने च जातिविशेषोरूपादिपरावृत्तिजनकतावच्छेदकोऽवश्यं
वाच्यः । अन्यथा फलार्थमधः सन्तापनेऽप्रवृत्तेः व्यापारस्याख्यातवाच्यत्वेऽपि विशेषस्यावश्यं वाच्यत्वात् । पच्यर्थे च फलं न विशेषणं न वोपलक्षणं लोकेऽधः
सन्तापनविशेषस्य रूपादिपरावृत्त्यव्यभिचारेण व्यावत्र्त्याभावात् । वेदेऽधः सन्तापनमात्रं पाकपदार्थः " "कृष्णलं श्रपयेदि" "त्यादौ फलाभावात् । अस्तु वोपलक्षणं रूपादिपरावृत्तियोग्याधः
सन्तापनं पाकपदार्थः योग्यता च सन्तापने कृष्णलादावप्यस्ति । गमेः स्पन्दविशेष एव वाच्यो न तूत्तरदेशसंयोगजनकत्वेन स्पन्दस्य वाच्यता सर्वस्पन्दानां तथात्वेन
व्यावत्र्त्याभावात् । स्पन्दे च विशेषः संयोगाविभागजनकतावच्छेदकः सर्वसिद्ध एव । त्यजेश्च कर्ममात्रं शक्यं न तु पूर्वदेशविभागफलककर्मत्वेन शक्यत्वं सर्वकर्मणां
तथात्वेन व्यावत्र्त्याभावात् । त्यजतीतिप्रयोगे च तद्बुद्धिर्निमित्तं । पतत्यर्थोऽपि कर्मविशेष एव गुरुत्वासमवायिकारणप्रयोज्याधः संयोगफलजनकः , फलन्तु
कर्मविशेषपरिचायकमात्रम्। यजति-ददाति-जुहोती-नामिदं न ममेत्यादितत्तत्सङ्कल्पविशेषपूर्वस्त्याग एव वाच्यः सङ्कल्पे च विशेषस्तु तत्तद्विशेषकृतस्तत्तत्फलविशेषजनकतावच्छेदको

162

मानसप्रत्यक्षसिद्ध एव न तु तत्तत्फलजनकसङ्कल्पविशेषे शक्तिः गौरवात् । देवतोद्देश्यकस्वस्वत्वध्वंसफलकत्यागत्वं सम्प्रदानस्वीकरणपूर्वकस्वत्वध्वंसपरस्वत्वापत्ति
फलजनकत्यागत्वं देवतोद्देश्यकप्रक्षेपफलकत्यागत्वञ्च तत्तत्सङ्कल्पविशेषपरिचायकमात्रमिति ।

इति श्रीमद्गङ्गेशोपाध्यायविरचिते तत्त्वचिन्तामणौ शब्दाख्यतुरीयखण्डे धातुवादः।
अथ उपसर्गवादः ।

उपसर्गास्तु द्योतकाः न वाचकाः । द्योतकत्वञ्च धातोरर्थविशेषे तात्पर्यग्राहकत्वं तदुपसन्दानेन तत्र शक्तिर्वा न तु धात्वर्र्थाभिधायकत्वं पौनरुक्त्यापत्तेः ।
ननु प्रजयतीत्यादौ प्रकर्षस्य विजयते इत्यादावतिशयस्य अभ्यागच्छतीत्यादावाभिमुख्य-सामीप्ययोः प्रतीतावुपसर्गान्वय-व्यतिरेकानुविधानात् पदान्तरवदत्रापि
शक्तिः। न च प्रतिष्ठत इत्यत्र गतिधीर्न स्यात् प्रशब्दस्य प्रकर्षवाचित्वेनातिशयेन गमनार्थधीप्रसङ्गादिति वाच्यम् । तत्र प्रशब्दस्य धात्वर्थावरुद्धार्थत्वात् तच्च गमनमेव
धातोरिव तस्यात्यनेकार्थत्वात्। न च धातोः सार्थकत्वं क्लृप्तमतस्तत्रानेकार्थता युक्ता उपसर्गे तु नैवमिति वाच्यम् । धातूनां बहुत्वान्न प्रकर्षवाचित्वं गौरवात् किन्तु
प्रशब्दस्यैकस्येति तस्यापि सार्थकत्वात् । धातोरनेकार्थत्वं क्लृप्तं तदभियुक्तैर्नोप सर्गस्येति चेत् , न। तर्हि धातोर्नानार्थत्वे उपसर्गानुविधानमर्थविशेषे न स्यात्अक्षादिपदे
तथा दर्शनात् । उपसर्गस्यापि शक्तत्वे धात्वनुविधानं न स्यादिति चेत् , न । साधुत्वार्थं तत्र तदनुविधानं तेन विना प्रयोगाभावात् न तु शक्त्यौै । धातोस्तु शक्तावेव
तदपेक्षेति वैषम्यम् ।

अथ प्रजयत्यभ्यागच्छतीत्यादौ सामान्यवाचकाद्धातोरेव प्रकर्ष-सामीप्यादिविशिष्टस्य विशेषस्योपस्थितिः । तात्पर्यग्राहकत्वमात्रमुपसर्र्गाणामिति चेत् , न।
प्रकर्षादेर्विशेषस्याशक्यत्वेन तत्र लक्षणायां युगपद्वृत्तिद्वयापत्तेः । " "एतेनाभ्यागच्छती" "त्यादौ सामीप्यादिविशिष्टधात्वर्थप्रतीतेर्वाचकत्वमुपसर्गणाम् , " "प्रतिष्ठत" " इत्यादौ
धातोरेव गमनार्थत्वं तात्पर्यग्राहकस्तु प्रशब्दः। अन्यथा धातूपसर्र्गार्थयोर्विरोधेनान्वयानुपपत्तेः । एवं धातूपसर्गयोर्विरोधस्तत्र द्योतकत्वमन्यत्र वाचकत्वमिति मतमपास्तम्।
अगमनविरोधिगमनस्यैव प्रशब्दार्थत्वात् ।

अत्रोच्यते । आख्यातस्य धात्वर्थेन सह स्वार्र्थान्वयबोधकत्वमतः प्रतिष्ठत इत्यत्र गमनं धात्वर्थ एव । प्रशब्दार्थत्वे भावनान्वयो न स्यात् प्रकृति-प्रत्यययोः
सम्भूयान्वयबोधकत्वनियमात् । एवञ्च प्रोत्तरस्थत्वेन गमने शक्तिरिति प्रशब्दः शक्ततावच्छेदको न शक्त इत्यौपसन्दानिकी शक्तिरेव द्योतकत्वम् ।
प्रकर्षाभिमुख्यसामीप्यादेरुपसर्गवाच्यत्वेऽपि तद्विशिष्टधात्वर्थान्वयः सम्भवत्येव भावनाया " "ओदनं पचती" "त्यत्रौदनविषयकपाकान्वयवदिति यद्यपि । तथापि उपसर्गस्य
शतावच्छेदकत्वं न शक्तत्वं गौरवात् तथात्र प्रोत्तरजित्वेन प्रकृष्टजये शक्तिः । एवं हि क्लृप्तविशेष्यशक्तेर्विशेषणविषयत्वमात्रं कल्प्यते अन्यथा तु शक्त्यन्तरमेव । न चैवं
जिपूर्वप्रत्वेन तत्रैव शक्तिरस्त्विति वाच्यम् । धात्ववाच्यत्वे भावनानन्वयप्रसङ्गात् " "प्रतिष्ठत" "इत्यत्रोपसर्गस्य शक्त्यवच्छेदकत्वमात्रकल्पनाच्च । अथ वा " "प्रतिष्ठत" "
इत्यत्र विरोधिलक्षणया धातोर्गमनोपस्थितिः प्रशब्दस्तु तात्पर्य्यग्राहकः अनन्यलभ्यस्य शब्दार्थत्वात् " "प्रजयती" "त्यादावपि विशेष्यवाचकस्य धातोर्विशिष्टे लक्षणा
विशेष्याद्विशिष्टस्यान्यत्वात् प्रादेस्तात्पर्यग्राहकत्वम् । न हि शकिं्त विनापि धातुतः प्रतीतिसम्भवे तत्कल्पनमर्हम् । अनन्यलभ्यस्य शब्दार्थत्वात् । व्यतिसे इत्यादौ तु लुप्तः
स्मृतो धातुरेवार्थप्रत्यायकः। धातुलोपमजानतस्तत्रार्थप्रत्ययाभावादिति कृतं प्रसक्तानुप्रसक्त्या ।

इति श्रीमद्गङ्गेशोपाध्यायविरचिते तत्त्वचिन्तामणौ शब्दाख्यतुरीयखण्डे उपसर्गवादः ।
अथ प्रमाणचतुष्टयप्रामाण्यवादः ।

स्यादेतत् , तथापि सङ्केतग्रहे चेष्टातोऽप्यनुभवसम्भवाच्छब्दवत्सापि प्रमाणमतश्चत्वारि न प्रमाणनीति चेत् , उच्यते , शब्देन चेष्टायां सङ्केतग्रहाच्छब्दस्मृत्युपयोगिनी
चेष्टा लिपिवत् शब्द एव प्रमाणमर्थे क्लृप्तत्वात् ।

नन्वेवं सति कथमेड-मूकस्य व्यवहारस्तस्य शब्दास्मरणादिति चेत् , न। अव्युत्पन्नत्वाच्चेष्टायां तस्य शब्देन न सङ्केतग्रहोन मानान्तरेणेति समयाग्रहाच्छब्दवत्
चेष्टापि तं प्रति कुण्ठितैव । व्यवहारस्तु एडमूकस्यैतद्विषया मम प्रवृत्तिर्निवृत्तिर्वा चेष्टां करोति इत्यन्वय-व्यतिरेकाभ्यां व्याप्तिग्रहात्तथाभिप्रायमनुमाय प्रवृत्तिनिवृत्ती ।
कशाङ्कुशाभिघातादिव करि-तुरगादेः । न च कृतसमयापि चेष्टा अभिप्रायानुमापिकास्तु किं शब्दस्मरणेनेति वाच्यम् । अविनाभावाभावात् । न चैवं शब्देऽप्यभिप्रायानुमानादेव
प्रवृत्त्याद्यस्त्विति वाच्यम् । शब्दादेव प्रत्येमीत्यनुव्यवसायात्तदनुभावकत्वे स्थिते तदनुकूलशक्तिकल्पनात् । एडमूकादौ तु मानाभावात्तत्प्रवृत्तेरन्यथाप्युपपत्तेः । एवमन्यत्रापि
शब्दप्रयोजकत्वे स्थिते तद्द्वारैव चेष्टायामनुभावकत्वं सम्भवतीति न सा पृथक् प्रमाणम् । अथ वा स्मारयतु चेष्टा पदार्थानेव न तु शब्दांस्तथापि सा न प्रमाणम् ,
ऊर्ध्वाङ्गुलीकरणे यात्रां करिष्यसीत्यादिका कृत्यन्वयिनी प्रयोजकाभिप्रायं स्मारयन्ती प्रमाणमेव न , शङ्खध्वनौ यात्रां करिष्यसीत्यत्र शङ्खध्वनिवत् । झप्त्यन्वयिनी तु
कारकेषु प्रातिपदिकार्थप्रधानक्रिया आनयनादिस्वरूपप्रधाना। तथा च गौरश्वः पुरुष इत्यादिपदैरिव स्वतन्त्रेषु पदार्थेषु स्मारितेषु परस्परमन्वयायोगः प्रातिपदिकार्थे
कर्मत्वादेरानयनादिष्वतीतानागतवर्त्तमानत्वस्य चान्वयप्रकारस्यानुपस्थितेः। पदैकदेशविभक्तिविशेषवच्चेष्टैकदेशविशेषात् प्रकरणादिविशेषाद्वा कर्मत्वादि-वर्त्तमानत्वादिस्मृतिनियम
इति चेत् , न। कर्मत्वाद्यतीतत्वाद्युपस्थापकचेष्टैकदेशाभावात् । प्रकरणादयस्तु विषयविशेषे शब्दादीन्नियमयन्ति न त्वन्वयप्रकारकर्मत्वादौ कालविशेषे वा प्रवर्त्तयन्ति ।
अन्यथा गौररव इत्यादावपि प्रकरणादिभिः कर्मत्वाद्युन्नीय विवक्षितार्थाध्यवसायः स्यात् । न हि चेष्टाकलापप्रकरणादयः कारकविशेषानाक्षेप्तुमलं न तु पदकदम्ब इत्यस्ति
नियमः , तथाच कालसङ्ख्याकर्मत्वादिप्रतिपादकविभक्त्यादिसमभिव्याहारवैयर्थ्यप्रसङ्गः । कथं तर्हि ततोऽर्थव्यवहारः संशयप्रतिभयोरन्यतरस्मात् चेष्टास्मारितशब्दानामपि
कर्मत्वाद्यन्वयप्रकारोपस्थापकविभक्त्यादेरभावात् । कथमन्वयबोधकत्वमिति चेत् , न। विभक्त्यादिमतामेव शब्दानां स्मरणात् शब्दमात्रेण सङ्केताग्रहात् । नन्वपभ्रंशात्
कथंवाक्यार्थधीः तत्रान्वयप्रकारोपस्थापकविभक्त्यादेरभावात् । न च साधुशब्दस्मरणादिति वाच्यम् । साधुशब्दसङ्कथाविरहिणामपि पामराणामर्थप्रत्ययात् साधुपदमात्रस्मरणेऽपि

163

कर्मत्वाद्युपस्थापकविभक्त्यादेरभावाच्चेति चेत् , न। यथा हि पदार्थशक्तत्वेन ज्ञातादपभ्रंशात्पदार्थोपस्थितिः तथा विभक्तर्थकर्मत्वादिशक्त्यत्वेन ज्ञातादभ्रंशैकदेशात् तत्तत्स्वरावच्छिन्नात्
कर्मत्वाद्युपस्थितिः । अथ साधुशब्देऽन्वयप्रकारविभक्त्यादेः सहकारित्वं न तु चेष्टायां किन्तु तात्पर्यग्राहकत्वमात्रं सहकारीति चेत् , न। समयाधीनप्रवृत्तिकमानमात्रं प्रति
तत्सहकारित्वात् । तद्विशेषशब्दस्य गुरुत्वादिति न सा प्रमाणान्तरम् । ऐतिह्यञ्चाप्तोक्तत्वेन शब्द एवान्तर्भवति । अर्थापत्त्यनुपलब्ध्योस्तु यथायथमन्तर्भावः प्रागेव
चिन्तितः। अतः सिद्धं चत्वारि प्रमाणानीत्युपरम्यते ।

धीराः कुशाग्रमतयो भवतः प्रणम्य मौलौ निधाय करवारिरुहे समीहे ।
वाणीयमर्थरहितापि विशृङ्खलापि सानुग्रहेण हृदयेन विलोकनीया॥

इति महामहोपाध्यायश्रीमद्गङ्गेशोपाध्यायविरचिते तत्त्वचिन्तामणौ शब्दखण्डे प्रमाणचतुष्टयप्रामाण्यवादः समाप्तः।
समाप्तश्च शब्दाख्यस्तुरीयः परिच्छेदः ॥

॥तत्त्वचिन्तामणिः समाप्तः॥

शुभमस्तु