तत्त्वचिन्तामणिः/उपमानखण्डः

विकिस्रोतः तः
Jump to navigation Jump to search
उपमानखण्डः
अथोपमानं निरूप्यते । तत्र सादृश्यप्रमाकरणमुपमानमितिकेचित्  । सादृश्यञ्च पदार्थान्तरम् । तथाहि - सादृश्यव्यवहारादबाधितादस्ति सादृश्यम्। तच्च न
प्रतिपदार्थमेकम् , सर्वस्य सर्वसदृशत्वापत्तेः सुसदृशमन्दसदृशव्यवहारस्य तदेकत्वेऽनुपपत्तेश्च । न च व्यञ्जकभूयःसामान्याल्पत्वभूयस्त्वाभ्यां तद्धीरिति वाच्यम्।
बहुभिरल्पैश्च व्यज्यमानघटादौ ह्रासवृद्ध्योेरदर्शनात् व्यञ्जकाभिमतादेव व्यवहारसिद्धौ अतिरिक्तासिद्धेश्च । नापि संयोगवत् व्यासज्यवृत्त्यनेकम्, गोत्वोपलक्षितसादृश्याश्रयत्वात्,
गवयवत् गोरपि सुसदृशत्वप्रसङ्गात् , गोरसन्निकर्षे संयोगवदप्रत्यक्षत्वप्रसङ्गाच्च । प्रत्यक्षत्वे वा गवयनिरूपितसादृश्यस्यैकवित्तिवेद्यत्वेन गोनिष्ठतया चाक्षुषत्वप्रसङ्गः,
किन्तु प्रत्याश्रयं भिन्नम् । न चैकैकस्य व्यभिचारादनुगतरूपाभावाच्च अनुगतप्रत्ययः सादृश्यपदव्युत्पत्तिश्च न स्यादिति वाच्यम् । अनुगताकारवित्तिवेद्यसादृश्यत्वसामान्यात्
सप्तपदार्र्थातिरिक्तत्वाद्वा जातिवदन्त्यविशेषवच्च स्वलक्षणाद्वा तयोरुपपत्तेः।

तच्च न द्रव्यं गुणः कर्म वा गुणकर्मवृत्तित्वात्। न च सदृशाश्रयत्वादेव तत्र व्यवहारः , आश्रयवैसादृश्येऽपि तत्र तत्प्रतीतेः । अत एव नाश्रयसादृश्यासंसर्गाग्रहात्
सः बाधकाभावात् अविशेषेण वैपरीत्यसम्भवाच्च। नापि सामान्यम् , तद्धि न सर्ववृत्त्येकम् , अनभ्युपगमात् सुसदृशमन्दसदृशव्यवहारानुपपत्तेश्च ।
अथ विजातीयत्वे सत्यवयवगुणकर्मवृत्तिभूयःसामान्यं तत् , अत एव दूरस्थे प्रतियोगिनि भूयःसामान्याज्ञानान्न तथा सादृश्यप्रत्ययः वनं प्रासादा इतिवत् बहुत्वस्य
समुदायत्वस्य वैकल्यत्वादेकं सादृश्यमिति धीप्रयोगौ। अन्यथा वनाद्यपि अर्थान्तरं स्यात् । सामान्यस्य बहुत्वाल्पत्वाभ्यां सुसदृशमन्दसदृशव्यवहारः। तदुच्यते - -सामान्यान्येव भूयांसि गुणावयवकर्मणाम् ।
भिन्नप्रधानसामान्यव्यक्तं सादृश्यमिष्यते ॥ इति ।

न , साजात्येऽप्यरविन्दद्वयवत् सजातीयावयवादिशून्ये गुणादौ जातौ च सदृशप्रत्ययात् विसदृशयोः करभरासभयोस्तत्सत्त्वाच्च । नापि धर्म्यन्तरे धर्म्यन्तरवृत्तिधर्मबाहुल्यम्,
असाधारणधर्मशूून्यत्वे सति तद्गतभूयोधर्मवत्त्वं वा , स्वनिष्ठात्यन्ताभावप्रतियोगिधर्मसमानाधिकरणभूयोधर्मवत्त्वं वा , त्रिचतुःपञ्चादिभेदेन भूयस्त्वस्याननुगमात् । न च
कपिञ्जलवत् त्रित्वपर्यवसन्नम् , विसदृशयोरपि हस्तिमशकयोः सादृश्यप्रसङ्गात् । तदुक्तम् - -एवं जातिगुणद्रव्यक्रियाशक्तिषु धर्मतः ।
एकैकद्वित्रिसाधर्र्म्यभेदादेकत्र चित्रता ॥ इति ॥

अथ व्यावर्र्तकधर्मापेक्षया तद्गतधर्मबाहुल्यं सादृश्यम् । बाहुल्यञ्च त्रिचतुरादिष्वनुगतम् । हस्तिमशकयोस्तु बहु व्यावर्र्तकम् । साधारणन्त्वल्पम्। एत एव
किञ्चिद्भेदाधिष्ठानं सादृश्यमुच्यते इति चेत् , न । व्यावर्र्तकसमसङ्ख्येनाल्पेनागणितेनापि धर्मेण सादृश्यव्यवहारात् । किञ्च सामान्यान्याश्रयभेदेनाभिन्नानि भवन्ति।
सादृश्यन्तु भिन्नम् । सामान्यं निष्प्रतियोगिकं तदनिरूप्यञ्च । सादृश्यन्तु सप्रतियोगिकं तद्धीव्यङ्ग्यञ्च।

अथ भेदे सति तद्गतभूयःसामान्यवत्त्वं सादृश्यम्। भेदश्च प्रत्याश्रयमन्यः सप्रतियोगिकश्चेति चेत् , तर्हि सादृश्यस्य भेदघटितत्वेन सावधित्वे तस्मात् सदृश इति
स्यात् , न तु तेन तस्य वा सदृश इति स्यात् । न च सादृश्यस्यापि सप्रतियोगिकत्वेन तस्मात् सदृश इति स्यात् । सावधौ हि तथा प्रतीतिप्रयोगौ न तु प्रतियोगिनि ,
अभावेऽपि घटादिति प्रतीतिप्रसङ्गात् ।

अपि च तद्धर्मवत्त्वं यदि सादृश्यं तदा तत्तद्भिन्नतयोः सङ्करःस्यात् । तद्धर्मवत्ता हि तत्ता तदन्या च तद्वत्ता। यदि च तत्रैव तद्वत्ता, तदा तदेव तद्वदिति स्यात् ।
तथाच तद्धर्मवत्ताप्रत्यभिज्ञानवत् सोऽयमिति स्यात् , न तु तद्वदयमिति । एवं तद्वत्तैव हि तत्तेति गवयेऽपि गोबुद्धिव्यपदेशौ स्याताम् , गोगतसामान्ययोगित्वेन
गोवत्तत्ताश्रयत्वात् न विशेषः प्रत्यक्षत्वात् । न समवायः वृत्तिमत्त्वात् इत्यधिकं सादृश्यम्।

यत्तु  सादृश्यं भावोऽभावो वा , भावोऽपि सगुणं निर्गुणं वा , निर्गुणमप्याश्रितमनाश्रितं वा , आश्रितमपि सामान्यवन्निःसामान्यं वा , सामान्यवत्त्वे स्पन्दोऽस्पन्दो
वा , निर्गुणं निःसामान्यमाश्रितमेकाश्रितमनेकाश्रितं वा इति यथायथं सप्तपदार्थान्तर्गतमिति ।

तन्न। व्यवहारानुपपत्त्या तद्बहिर्भावात् । अन्यथा एतादृशविकल्पेन सामान्यविशेषसमवायानामपि द्रव्यादित्रयसाधर्म्यात् तत्तदन्तर्भावः स्यादिति ।
उच्यते। असाधारणान्यतद्गतभूयोधर्मवत्त्वं तत्सादृश्यम् । यज्जात्यादिसाधारणं भेदाघटिततया च निरवधि तद्गतबहुधर्मवत्त्वं तन्निरूप्यमिति इतरनिरूप्यत्वमेव
तस्य सप्रतियोगिकत्वम् । तवापि सादृश्ये तदेव सप्रतियोगिकत्वम् , न तु भेददीर्घादिवत्सावधित्वम् , तस्मात् सदृश इति प्रत्ययापत्तेः । बहुत्वञ्च त्रिचतुरादिसाधारणमिति
नाननुगमः । न चातिप्रसङ्गः , हस्तिमशकयोरपि प्राणित्वसुखित्वदुःखित्वादिना सादृश्यात् । अत एव वैसादृश्येऽपि आह्लादजनकत्वादिना चन्द्र इव मुखं पुष्ट्यादिना
महिषीव गौरिति बह्वल्पतद्गतधर्मवत्त्वेन सुसदृशत्वमन्दसदृशत्वम् । अत एव गवये गोसादृश्यं पृष्टः तद्धर्मवत्त्वमेव विवेचयति । वराहं गावोऽनुधावन्तीत्यत्र गोसादृश्यं
वराहेेऽप्युक्तम् । तद्धर्मवत्त्वेनोपमानोपमेयव्यवहारः काव्यादौ । साध्यसाधनवत्तामात्रेेण दृष्टान्ते पक्षसादृश्यवाचकवति प्रयोगः परीक्षकाणाम् । न चैते गौणाः , मुख्ये
बाधकाभावात् । तस्मात् केनचिद्धर्मेण कस्यचित् क्वचित् सादृश्यवत्त्वमननुगतमस्ति।

110

किञ्च यादृशबहुतद्धर्मवत्त्वज्ञानं सादृश्यव्यञ्जकं तदेव तद्व्यवहारनियामकमस्तु , किमधिकेन । अन्यथा त्रिचतुरादित्वे तु व्यञ्जकमपि बहुधर्मवत्त्व मननुगतं
स्यात् । व्यञ्जकमननुगतमपि वह्नौ प्रत्यक्षादिवदिति चेत् , न । तत्राभिव्यक्तीनां वैजात्यात् धूमालोकादौ वह्निव्याप्यत्वमेवानुगतम् । अत्रापि तद्व्याप्यत्वमस्तीति चेत्,
तर्हि यादृशंं तद्व्याप्यत्वं तदेव तद्व्यवहारनिमित्तम् । न च तद्गतबहुधर्मवत्त्वं न व्यञ्जकमेवानुभवविरोधात् तद्गतभूयोधर्मस्य बह्वल्पत्वज्ञानं विना सुसदृशमन्दसदृशत्वज्ञानाभावाच्च।
अथ तद्गतबहुधर्मवत्त्वं न सप्रतियोगिकम्। सादृश्यन्तु न तथेति व्यवहर्र्तव्यसाधकमिति चेत् , न। सादृश्यवत्तस्यापि सप्रतियोगिकत्वात् ।
यत्तु  तत्तातद्वत्तयोः सङ्करः स्यादिति ,  तन्न। तत्रैैव तद्धर्मवत्ता तदभेदो वा तत्ता। सा च सोऽयमिति प्रत्यक्षज्ञाने भासते । भेदे भासमाने तदन्यस्मिन् तद्धर्मवत्ता,
तद्वत्ता यतो भवति तद्वदयं न तु स इति तयोर्भेदात् ।

नन्वेवं व्यक्त्यन्तरे गोत्वग्रहे तद्गोवदियमिति स्यान्न त्वियमपि गौरिति चेत् , न। गोत्वमात्रस्य तदन्यव्यक्तिवृत्तित्वसमुच्चयात् एकत्र नानासम्बन्धानवगमात्।
तद्गोेवृत्तिबहुधर्मज्ञाने भवत्येव तद्गोेवदियमिति । तथाप्ययमपि शृङ्गादिमानिति समुच्चयधीः स्यात् , न तु गोसदृश इति चेत् , न । एकत्रोभयसम्बन्धः समुच्चयः
अन्यगतभूयोधर्मवत्त्वमन्यत्र सादृश्यमिति विवेकात् ।

नवीनास्तु  विलक्षणसुखद्वये इतरसकलव्यावृत्तं सादृश्यमनुभूयते न तु तदुभयमात्रवृत्तिजातिरस्ति , तदुभयाभावे जातेरनाश्रयत्वेनानित्यत्वप्रसङ्गात्। नापि जन्यं
धर्मान्तरमस्तीत्यधिकं सादृश्यमुपेयम् , तवापि समानधर्मवत्त्वं व्यञ्जकं विना कथं तत्र सादृश्याभिव्यक्तिरिति चेत् , न। प्रतीतिबलात् द्रव्ये तथा, गुणादौ तु व्यभिचारात्।
अत एव न व्यञ्जकेनान्यथासिद्धिः , तदभावेऽपि सादृश्यानुभवादिति ।

तत्तुच्छम् ।विलक्षणं सुखद्वयं न सुखमात्रहेतुजन्य्म् , सुखान्तरस्यापि तादृशत्वापत्तेः , किन्तु विलक्षणादृष्टजन्यम्। तच्चादृष्टं विहिततद्धेतुक्रियाविशेषानुष्ठानादन्येषामप्यस्तीति
तेषामपि तादृशानि सुखानि भवन्तीति तेषु कारणविशेषप्रयोज्या विलक्षणजातिरस्ति । तस्मात् जीवानामानन्त्यात् अनादिनिधनत्वादुत्पन्नानागतविजातीयं न सुखमस्ति।
एवं दुःखादिकार्यान्तरेऽपि । न ह्यनुत्पन्नजातीयमनुत्पत्स्यमानजातीयं वा कार्यमस्ति । यच्च व्यक्तिनाशे जातेरनित्यत्वमापादितम् , तदपि न। नाशकाभावात् । अत एव
द्वयोरपि तदवस्थानम् ।

अपि चैकत्र प्रतियोगिभेदेन सादृश्यं भिन्नम् , न त्वेकम् , सुसदृशमन्दसदृशव्यवहारात् । तथाच योग्यत्वादेकग्रहे सर्वग्रहप्रसङ्गः । प्रतियोगिगतभूयोधर्मज्ञानस्य
व्यञ्जकस्य क्रमात् क्रमे तदेव व्यवहारनिमित्तमित्युक्तम् ।

किञ्चैवं वैसादृश्यमपि स्यात् । न च सादृश्याभावः , तद्वैपरीत्यस्यापि सम्भवात् । सादृश्याभावत्वेनैव प्रतीतिः विशब्दस्य निषेधार्थकत्वात् इति चेत्, तर्हि गौरिव
महिषीत्यत्र पावनत्वक्षीरवत्त्वादिना विवक्षितसादृश्यानाश्रये गवये वैसादृश्यं न स्यात् । न हि तत्र गोसादृश्यं तदभावश्च । तस्मात् साधर्र्म्यवैधर्म्ये सादृश्यवैसादृश्ये ।
यत्तु  तद्वृत्त्यनेकधर्मवत्त्वं सादृश्यम्। तेनाभेदेऽपि

गगनं गगनाकारं सागरः सागरोपमः ।
रामरावणयोर्युद्धं रामरावणयोरिव॥ इत्यादौ सादृश्यम् । न चैवं गोरपि गोसदृशत्वे गवयपदाभिधेयत्वापत्तिः । तत्र सादृश्यपदस्य विशेषे तात्पर्यात्। अन्यथा
महिषेऽतिप्रसङ्ग इति ।

तन्न  । तस्य तेन वा सदृश इति प्रयोगात् । न चाभेदे सम्बन्धः सहार्थो वा सम्भवति । गगनं गगनाकारमित्यादौ तु गगनाद्येव एतादृशधर्मवत् नान्यदित्यत्र
तात्पर्यम् ।

यद्वास्थानान्तरीयगगनसागरयोरुपमानत्वम्। तयोर्युद्धविशेषे तयोरेव युद्धान्तरमुपमानमिति ।
नन्वयं देवदत्तस्तदन्यो वा भवतु तत्सदृशस्तावदयमिति भेदाभेदसंशयेऽपि सादृश्यनिश्चयात् अतिरिक्तं सादृश्यमस्त्विति चेत् , न । देवदत्तधर्ममात्राभिप्रायेण एकदेशे
सादृश्यपदप्रयोगात् । कथमन्यथा स एवायं न तु तत्सदृश इति , तत्सदृशोऽयं न तु स इति प्रतीतिप्रयोगौ । न चात्र सदृशपदं भेदमात्रपरमिति युक्तम्, मुख्ये सम्भवति
लक्षणाया अयोगात् । तस्मान्न पदार्थान्तरं सादृश्यमिति ।

स्यादेतत् । मा भूत् पदार्थान्तरम् । तथापि प्रत्यक्षाच्छब्दाद्वा गवये गोसादृश्यज्ञानात् गवयसदृशो गौरितिज्ञानमुपमितिः । न चैतत्प्रत्यक्षम् , असन्निहितविशेष्यकत्वात्।
नानुमानम् , लिङ्गाभावात् । न च गवयगतं सादृश्यं लिङ्गम् , अपक्षधर्मत्वात् ।

अथ सदृशद्वयान्तरदर्शने यो यद्गतसादृश्यप्रतियोगी स तत्सदृश इति प्रत्यक्षेण व्याप्तिग्रहे सति गवयगतसादृश्यप्रतियोगित्वात् गौर्गवयसदृश इत्यनुमितिरिति चेत्,
न । व्याप्तिग्रहं विनैव प्रथममपि प्रत्यक्षाच्छब्दाद्वा गोसदृशं गवयं ज्ञात्वा गवि गवयसादृश्यज्ञानोदयात् ।

111

किञ्च गवि गवयसादृश्यं न साध्यम् , प्रथमतस्तदप्रतीतेः , गवयगतसादृश्यप्रतियोगित्वञ्च गवि न प्रत्यक्षम् , विशेष्यस्यासन्निकर्षादिति नानुमितिगम्यम् ,
तल्लिङ्गस्यापि तद्गतत्वेनाप्रत्यक्षस्य लिङ्गान्तरगम्यत्वेनानवस्थानात् । न च गौरेतद्गवयसदृशः गवयगतबभूयोऽवयवादिसामान्यवत्त्वात् गवयान्तरवदिति रामम्  ।
गवयान्तराज्ञानेऽपि गवि गवयसदृशत्वप्रत्ययात् । अत एव गवि गवयगतगोसादृश्यं गोगतगवयसादृश्यं विनानुपपद्यमानं तत्कल्पयति। न हि गोसदृशो गवय एतद्विसदृशो
गौरिति वाच्यमिति निरस्तम् । गवयनिरूपितगोसादृश्यप्रसिद्धौ तेन विनानुपपत्तिज्ञानाभावात् । किञ्च तवार्थापत्तिर्व्यतिरेक्यनुमानम्। न च गवयगतसादृश्यप्रतियोगित्वं
गवि प्रत्यक्षादिना ज्ञातुं शक्यमित्युक्तम् ।

नन्वेवं करभे गोवैधर्म्यज्ञानात् गवि करभवैधर्म्यज्ञानमपि मानान्तरात् स्यादिति चेत् , न । गवि करभवैधर्म्यं यदि करभवृत्तिधर्माभाववत्त्वं तदा स्मृते गवि
प्रागस्तितावदनुपलब्धेः गम्यमेव । अथ करभावृत्तिधर्मवत्त्वं तदा गोधर्मा गवि गृहीता एव इदानीं स्मृतगोधर्र्माणां करभेऽभावमात्रमधिकं गम्यम्। तच्च प्रत्यक्षादेव । अथ
तत्प्रतियोगिकैतन्निष्ठसादृश्ये भासमाने समानसंवित्संवेद्यतया एतत्प्रतियोगिकतन्निष्ठसादृश्यं वैधर्म्यञ्च ज्ञातमेवेति चेत् , न । विशेषणविशेष्यप्रतियोगिभेदेन समानसंवित्संवेद्यत्वासिद्धेः
एतत्सदृश एतद्विधर्मा स इत्येतद्विशेष्यकप्रत्ययानुदयाच्च , तद्विशेष्यकप्रत्यक्षे तत्सन्निकर्षस्य हेतुत्वात्।

ननु प्रत्यक्षे विशेष्यसन्निकर्षो हेतुर्न तु यावद्विशेष्यसन्निकर्षः, गौरवात् । अन्यथा अतीतानागतवर्र्तमानव्याप्यविशेष्यकव्याप्तिप्रत्यक्षं न स्यादिति चेत्, न।
अतीतानागतविशेष्ये सामान्यलक्षणायाः सत्त्वात् । अथ गवयसादृश्यं गवि गवयगतशृृङ्गित्वादिसामान्यवत्त्वम् । तच्च गवये गोसादृश्ये भासमाने गवि भातमेव । यद्वा
गोगतशृृङ्गित्वादेर्गवयगतत्वं गवये गोसादृश्यम् । एवं तस्यैव गवयगतस्य गोगतत्वं गवि सादृश्यम् । तच्चेन्द्रियेणैव ज्ञातं सामान्यस्यैकत्वेनेन्द्रियसन्निकृष्टत्वात्अयं
सइति विपरीतप्रत्यभिज्ञायामिवेति चेत् , सत्यं , गोविशेष्यकगवयगतशृङ्गित्वादिज्ञानं नेन्द्रियजन्यं गोरसन्निकर्षात्। तस्मादेतत्सदृश एतद्विधर्मा एतस्माद्दीर्घः स इति  ज्ञानं
नानुमानात् विशेष्यासन्निकर्षे तद्गतबहुलिङ्गाज्ञानात् । एवञ्च सप्रतियोगिकपदार्थज्ञाने तत्प्रतियोगिकपदार्थज्ञानमुपमानम्। तदाहुः- -प्रत्यक्षादिकं विनार्थादर्थान्तरज्ञानं
पूर्वेषामुपमानात् । विगार्हितमेतत् । तथाहि - -परस्परसदृशं हस्त्यादिकं प्रत्यक्षम्। अतो यो यत्सादृश्यप्रतियोगी स तत्सदृश इति सामान्यतो व्याप्तिज्ञाने सति गौर्गवयसदृशः
तत्सादृश्यप्रतियोगित्वात् , यथा भ्रातुर्भगिनी । गवयगतसादृश्यप्रतियोगित्वञ्च गोर्गवयगतसादृश्यवित्तिवेद्यमेव सादृश्ये गोः प्रतियोगित्वेनैव ज्ञानात् । अन्यथा सादृश्ये
गोरनन्वयापत्तेः । यत्तद्भ्यां सामान्यतो व्याप्तिग्रहं विना एतत्सदृशः स इति फलासिद्धेः। यत्तद्भ्यां व्याप्तिग्रहेऽस्माकं व्यतिरेकी परेषामर्थापत्तिरित्यन्यदेतत् , सादृश्यस्योभयवृत्तिधर्मस्य
किञ्चिद्विशेष्यसन्निकर्षात् प्रत्यक्षेण भानं यावद्विशेष्यसन्निकर्षस्याप्रयोजकत्वात् । अन्यथा अयं स इति भ्रान्तविपरीतप्रत्यभिज्ञायां का गतिः । मनसैव चैतन्निष्ठसादृश्यप्रतियोगित्वग्रहः।
प्रत्यक्षविशेष्यकत्वं परामर्शे न प्रयोजकमित्युक्तम् । कीदृशगवय इति जिज्ञासायां यथा गौस्तथा गवय इति श्रुतोत्तरस्य तथाभूते पिण्डे दृष्टे तथायमित्यतिदेशवाक्यार्थानुसन्धाने
अयं गवयशब्दवाच्य इति मतिरुपमानफलम् । न चेयं वाक्यमात्रात् , अप्रत्यक्षीकृतपिण्डस्यापि प्रसङ्गात् । नापि प्रत्यक्षमात्रात् , अश्रुतवाक्यस्यापि प्रसङ्गात् । नापि
तयोः समाहारात् । स हि प्रमाणसमाहारो वा फलसमाहारो वा । आद्ये प्रमाणत्वे सति समाहारः समाहृतयोर्वा प्रामाण्यम् । नाद्यः , फलानेकत्वे समाहारानुपपत्तेः तस्य
परस्परसहकारिरूपत्वात् । नान्त्यः, वाक्यप्रत्यक्षयोर्भिन्नकालत्वात् । वाक्यतदर्थयोः स्मृतिद्वारोपनयेऽपि समयपरिच्छेदासिद्धेः। फलसमाहारे च तदन्तर्भावे शब्दानुमानयोरपि
प्रत्यक्षत्वप्रसङ्गः । तत् किं तत्फलस्य प्रमाणबहिर्भाव एव अन्तर्भावे वा कियती सा मतिः , तत्तदसाधारणेन्द्रियादिसाहित्यम् अस्ति , तर्हि सादृश्यज्ञानेऽपि विस्फारितस्य
चक्षुषो व्यापारः अस्मिन् सति तस्यानुपयोगात् उपलब्धगोसादृश्यविशिष्टगवयपिण्डस्य वाक्यार्थस्मृतिमतः कालान्तरेऽपि तदनुसन्धानबलात् समयपरिच्छेदोत्पत्तेः ।
तस्मादागमप्रत्यक्षाभ्यामन्यदेवेदमागमस्मृतिसहितं सादृश्यज्ञानमुपमानप्रमाणमिति  जरन्नैयायिका जयन्तप्रभृतयः।

तन्न  । वैधर्म्याव्याप्तेः । यदोदीच्येन क्रमेण कं निर्गत्योक्तं धिक्करभमतिदीर्धग्रीवं प्रलम्बचपलौष्ठं कठोरतीक्ष्णकण्टकाशिनं कुत्सितावयवसन्निवेशमपसदं पशूनामिति
तदुपश्रुत्य दाक्षिणात्य उत्तरापथं गत्वा तादृशं वस्तूपलभ्य नूनमसौ करभ इति प्रत्येति । तत्र किं मानम् ? न तावदुपमानम् । सादृश्याभावात् । न च प्रमाणान्तरं सम्भवति।
उच्यते  । न तावदनुगतं शक्यतावच्छेदकमुपलक्षणं वा विना प्रत्यभिज्ञानतः शरीरैकत्ववादिनां शरीरविशेषे चैत्रादिपदवदध्यक्षत्वेन शृङ्गग्राहकतया गवयादिपदशक्तिग्रहः,
गवयान्तरेऽपि भावात् । नाप्यनध्यक्षे गत्यन्तरोपस्थिते परिभाषातः आकाशदिपदवत् । अत एवाध्यक्षत्वाच्च उपलक्षणस्य च शक्तौ बहिर्भावाभावात् तद्वदेव । नापि
योगनिर्वचनात् पाचकादिपदवत् । अन्यथा पचिक्रियानुपहिते पचतीति न प्रयोगः स्यात् । अतस्तदनुगुणज्ञानादियोगिनि शक्तिः । अवच्छेदकतया तूपलक्षणेऽपीति योगात्।
नाप्युपस्थितनिमित्तसङ्कोचनात् , स्वर्गादिपदवत् तदभावात् । अतः गन्धाद्युपलक्षितेन पृथिवीत्वेन निमित्तेन पृथिव्यादिपदवत् सादृश्याद्युपलक्षिते गवयत्वादौ गवयादिपदानां
शक्तिरिति तु  परमार्थतः। अन्यथा फलस्याभासत्वे मानत्वविरोधात् । न च पूर्वं गवयत्वमुपस्थितम् , उपस्थापकाभावात् । न च गवयपदादेव तदुपस्थितिः ,
अन्योन्याश्रयात् ।

अथ वाक्यादेवानेन समयः परिच्छिन्नः केवलमग्रेऽप्यभिजानाति योगेनेदृशो गवयपदवाच्यत्वेनावगतः सोऽयमिति नोपमानस्य विषय इति चेत् , न। न हि
सादृश्यमेव निमित्तम् । अप्रतीतानामव्यवहारप्रसङ्गात् गौरवाच्च । नापि गवयत्वम् , तदनुपस्थितेः । अत एव नोभयम् , स्वयं प्रतीतसमसङ्क्रान्तयेऽतिदेशवाक्यप्रयोगानुपपत्तेः।
गवयत्वे ह्ययं व्युत्पन्नः, न गोसादृश्ये, निमित्तस्य गवत्वस्य प्रतीतेः ।

ननु यद्यपि तद्वाक्यं समयपरिच्छेदपूर्वं नाजीजनत् , तथापि तदेव वाक्यं स्मृतं सत् प्रवृत्तिनिमित्तं परिच्छेत्स्यति अध्ययनसमयगृहीत इव वेदराशिरङ्गेपाङ्गपर्यवसितः
कालान्तरे । न च वाक्यार्थस्येवास्य प्रागेव बोधितत्वात् पर्यवसितमिति वाच्यम् । गोः सादृश्योपलक्षणत्वनिमित्तत्वयोः सन्देहात् , पश्चात् गवयत्वेऽवगते तर्कलाघवसहकारात्
सादृश्यस्योपलक्षणत्वे निश्चिते गङ्गायां घोष इत्यत्रेवान्वयबोधो भविष्यतीति चेत् , न । उपलक्षणनिमित्तत्वसन्देहेऽपि यो गोसदृशः स गवयपदवाच्य इति
सामानाधिकरण्यमात्रेणान्वयोपपत्तौ मानान्तरोपनीतानपेक्षणात् रक्तारक्तसन्देहेऽपि पटो भवतीति वाक्यवत् । अन्यथा पर्यवसितेऽपि वाक्ये मानान्तरसहकारात् तदन्वयबुद्धौ
वाक्यभेदापत्तेः । गङ्गायां घोष इत्यत्र तु पदार्थ एवान्वयायोग्य इति युक्तं तत्र मानान्तरापेक्षणम् । यदि च प्रतीतसंसर्गबलायातोऽप्यर्थो वाक्यस्यैव तदा वाक्यभेदापत्तिः ।
अथतात्पर्यानुपपत्त्या यष्टीः प्रवेशयेतिवत् तल्लक्षणास्तु । गवयपदव्युत्पन्नं प्रति तद्बुद्धेरुत्पत्तये वाक्यमाप्तेनोक्तम्। तच्च न प्रवृत्तिनिमित्तोपादानं विना । न च
गोसादृश्यं तथेति तात्पर्यतो गोसादृश्यपदेन गोसमानाधिकरणं गवयत्वमुपलक्षितं कल्प्यते न तु यथा धूमोऽस्तीत्यत्र वह्नौ तात्पर्यमनुमानेन निर्र्वहतीति न लक्षणा । न

112

चात्र प्रमाणान्तरमस्तीति येन तन्निर्वाह्यम् , उपमानस्यासिद्धेः । अन्यथा अन्योन्याश्रयात् । न च वाक्ये न लक्षणा तस्याः पदधर्मत्वादिति वाच्यम्। एकपद एव लक्षणा
पदान्तरन्तु नियामकमित्यस्य वक्ष्यमाणत्वात् ।

अथ गवयत्वेन लक्षणया तदुपस्थितावपि व्यक्तिवाच्यता न ज्ञायेत तच्छब्दादिति विशिष्टवाच्यताग्राहकमानान्तरमवश्यं स्वीकरणीयम् । न च यन्निष्ठो धर्मो
यत्पदवाच्यः सोऽपि तद्वाच्य इति नियमः , जातिपदे व्यभिचारादिति चेत् , न। प्रवृत्तिनिमित्तवद्वाच्यत्वबोधतात्पर्यकत्वेन ज्ञातातिदेशवाक्ये गवयत्वविशिष्टव्यक्तेरेव
लक्षणतः । अथ यदि गवयत्वे साक्षात् तात्पर्यं गोसदृशपदस्य गृहीतम् , तदा लक्षणा। न च साक्षात् तात्पर्यमवधृतम् । अन्यथा धूमोऽस्तीत्यत्रापि साम्यादिति चेत् , न।
उपस्थापकान्तराभावे तात्पर्यस्यैव साक्षात् तात्पर्यरूपत्वात् । न चोपमानमेव तथा । अन्योन्याश्रयात् ।

मैवम्  । यत्र प्रवृत्तिनिमित्तविषयबोधने न तात्पर्यं यो गोसदृशः स गवयशब्दवाच्य इति स्वरूपाख्यानमात्रं तत्राप्युक्तसामग्रीतः समयपरिच्छित्तिर्भवत्येव। न च तत्र
व्युत्पित्सुव्युत्पत्तये प्रवृत्तिनिमित्तविशेषे तात्पर्यं यदनुपपत्तिर्लक्षणाबीजं स्यात् ।

अपि च धिक्करभमतिदीर्घग्रीवमित्यादिवाक्यस्य करभनिन्दातात्पर्यकस्य प्रवृत्तिनिमित्तपरत्वाभावेऽपि तादृशपिण्डमनुभवतः स्मरतश्च वाक्यार्थमयं करभशब्दवाच्य
इति भवति मतिः । न च तत्र प्रवृत्तिनिमित्तविशेषे तात्पर्यमस्ति लक्षणाया बीजम् , निन्दापरत्वात् ।

किञ्च सर्वत्रान्वयानुपपत्तिरेव लक्षणाबीजम् । यष्टीः प्रवेशयेत्यादावपि प्रकरणादिना पुरस्कारादिप्रयोजनकत्वं प्रवेशनस्यावगतम् । तादृशे च प्रवेशनादौ
यष्ट्यादेरनन्वयात् । तात्पर्यानुपपत्तेरपि तात्पर्यमज्ञात्वा ज्ञातुमशक्यत्वेन तदर्थं प्रकारणादेरवश्योपजीव्यत्वात् । अथ प्रकरणादेरननुगमः। तात्पर्यव्याप्यत्वेन तदनुगमे
तात्पर्यानुपपत्तिरेव तद्बीजमस्तु लाघवादिति चेत् , न । धूमादिवदननुगतस्यापि व्याप्यत्वाविरोधात् । तस्मात् गवयशब्दः कस्यचिद्वाचकः शिष्टैः प्रयुक्तत्वादिति सामान्यतो
निश्चितेऽपि गवयत्वविशिष्टो धर्मी गवयपदवाच्य इति लाघवान्निर्णेयम् । तच्च प्रमाणसहकारि। न च तस्यां दशायां प्रमाणान्तरमस्ति। अतो यत्प्रमाणसहकारि
तत्प्रमाणान्तरमास्थेयम् ।

अथास्त्वनुमानम्। तथाहि- -गवयशब्दो गवयत्वविशिष्टधÐमवाचकः असति वृत्त्यन्तरे वृद्धैेः प्रयुज्यमानत्वात् गवि गोशब्दवदिति चेत् , न। गवयत्वविशिष्टो यो
धर्मी तस्य वाचकत्वग्रहेऽपि गवयत्वस्य प्रवृत्तिनिमित्तत्वासिद्धेः । न च शक्तिमज्ञात्वा वृत्त्यन्तरं क्वापि अवधारयितुं शक्यते । सामानाधिकरण्यमात्रस्य
निमित्तोपलक्षणतासाधारणत्वात्।

अथ गोसादृश्यस्य प्रवृत्तिनिमित्ततायां गौरवावतारे नोपमानस्यावतारः । तथा च तर्केण इतराप्रवृत्तिनिमित्तत्त्वे निश्चिते गवयपदं गवयत्वप्रवृत्तिनिमित्तकं
इतराप्रवृत्तिनिमित्तकत्वे सति सप्रवृत्तिनिमित्तकत्वात् यन्नैवं तन्नैवमिति चेत् , न। तर्कस्यानिश्चायकत्वात् । न चायं तर्को व्याप्तिग्रहमूलकः येन विपर्ययानुमानादर्थसिद्धिः।
अथ गवयपदं सप्रवृत्तिनिमित्तकमिति सामान्यतोदृष्टमेव तर्कसहकृतं गवयपदस्येतराप्रवृत्तिनिमित्तकत्वं परिच्छिनत्ति, न तु मानान्तरं कल्पयित्वा तर्कः सहकारी
कल्प्यते इति चेत् , न। इदं सप्रवृत्तिनिमित्तकम् अन्यच्च न प्रवृत्तिनिमित्तमिति बुद्धावपि गवयत्वप्रवृत्तिनिमित्तकं गवयपदमिति मानान्तरं विना अप्रतीतेः,
अनुमितेर्व्यापकतावच्छेदकमात्रप्रकारकत्वनियमात् ।

अथ यथा इच्छायां सामान्यतोदृष्टेन विशेषबाधकसहकृतेन अष्टद्रव्यानाश्रयत्वं प्रतीयते , अन्यथा विशेषबाधकानां द्रव्यव्यतिरेकविषयकत्वेनाष्टद्रव्यानाश्रयत्वं
केन ग्राह्यम् ; तथा अत्रापि गौरवाख्यतर्कसहकृतसामान्यतोदृष्टादितराप्रवृत्तिनिमित्तकत्वे ज्ञाते पश्चात् स व्यतिरेकी स्यात् कल्प्यप्रमाणान्तरापेक्षया क्लृप्तप्रमाणसहकारित्वस्य
युक्तत्वादिति चेत् , न। इच्छायामेकैकबाधसहकृतापरबाधकैरेव तावद्द्रव्यविशिष्टवैशिष्ट्यादष्टद्रव्यानाश्रयत्वपरिच्छेदात् न तु सामान्यतोदृष्टेन विशेषणद्वयोः परिच्छित्त्यैव
विशिष्टवैशिष्ट्यबोधनिर्वाहात् तर्कानवतारदशायां तस्य परिच्छेदकत्वाच्च । न च व्याप्तिपरमिदं वाक्यं यो गोसदृशः स गवयपदार्थ इति वाक्यादवगतव्याप्तेरनुमित्युदयादयं
गवयपदवाच्यो गोसदृशत्वात् अतिदेशकालावगतपिण्डवदिति वाच्यम्। न हि गोसदृशं ज्ञात्वा अनेन पृष्टः स किंशब्दवाच्य इति। किन्तु सामान्यतो गवयपदार्थमवगत्य स
कीदृगिति । तथाच यद्योगप्राथम्याभ्यां तस्यैव व्याप्यत्वम् । ततः किं तेन ।

अथ लक्षणपरमिदं वाक्यम् । किंलक्ष्यकोऽसाविति प्रश्नार्थः। एवञ्च वाच्य इति प्रयोक्तव्यपरम् , असौ गवय इति व्यवहर्तव्यः गोसदृशत्वात् , यस्तु न तथा
नासौ गोसदृशः यथा हस्तीति चेत् , न । न हि हस्त्यादीनां विलक्षणत्वे प्रमाणमस्ति , सर्वप्रयोगस्य दुर्ज्ञेयत्वात् । कतिपयव्यवहारस्यानैकान्तिकत्वात्। न च कीदृक्
किंलिङ्गक इति प्रश्नार्थः । न ह्यनेन लिङ्गमज्ञात्वा गवयपदस्य वाचकत्वं कस्यचिच्च तद्व्याप्यत्वं नावगतम् , येन तदर्थं प्रश्नः । प्रवृत्तिनिमित्तविशेषलिङ्गे प्रश्नः
गवयपदं येन निमित्तेन वर्र्तते तस्य किं लिङ्गमित्यर्थः इति चेत् , न हि तदनुमानमेवेत्यनेन निश्चितं यत इति स्यात् । ज्ञानहेतुमात्रप्रश्ने तद्विशेषेणोत्तरमिति चेत् , न ।
अविशेषादिन्द्रियसन्निकर्षमप्युत्तरयेत् , वनं गतो द्रक्ष्यसीति । तस्मान्निमित्तभेदे एवायं प्रश्नः कीदृग्गवयः केन निमित्तेन गवयपदं प्रवर्तते , गवयत्वस्य साक्षादुपदर्शयितुमशक्यत्वात्।
पृष्टः स तदुपलक्षकं सादृश्यमाचष्टे। पश्चाच्च दृष्टेऽपि पिण्डेऽतिदेशवाक्यार्थं स्मरतस्तर्कसहकारात् गवयत्वविशिष्टो धर्मी गवयशब्दवाच्य इति
प्रवृत्तिनिमित्तविशेषपरिच्छित्तिरुपमानफलम् ।

अथ गौरवेण अन्यानिमित्तकत्वे सति सनिमित्तकत्वादिति व्यतिरेकिण एव गवयत्वप्रवृत्तिनिमित्तकत्वाधीरिति चेत् , न। व्याप्त्यमूलकतया गौरवस्य तद्विपर्ययस्य
वा अप्रमाणत्वात् तत्राप्रमाणे सहकारितामात्रेण अन्यनिमित्तत्वशङ्कायां कथमुपमानमिति चेत् , न । गौरवसहकृतोपमानादेवान्यानिमित्तकत्वे सति सनिमित्तकत्वपरिच्छेदात्।

113

अस्तु गौरवसहकृतात् सनिमित्तकत्वमानादेव गवयत्वनिमित्तकत्वसिद्धिः । न चैवम् , व्यतिरेक्युच्छेदात् । कार्यत्वे पर्यवसिते बाधकानन्तरं व्यतिरेक्युदयात् । यत्र चप्रथमं
व्यतिरेकाभावः तत्र कार्यत्वादेव फलम्। अन्यानिमित्तकत्वं सनिमित्तकत्वञ्चेति बुद्धावपि गवयत्वनिमित्तकं गवयपदमिति बुद्धेरसिद्धेरुक्तत्वात्। किञ्च अत्र व्यवहारेण
प्रवृत्तिविशेषे पदशक्तिग्रहो न तु तन्निमित्ते तेनाप्रतिबन्धात् , न गौरवातिव्याप्त्यादिनेतरनिरासे गोत्वादेर्निमित्तत्वग्रहः , गौरवादेरतर्कत्वात् अप्रमाणत्वाच्च । तस्मात् व्यक्तौ
शक्तिग्रह एव लाघवादिसाहित्येन इतरानिमित्तकत्वे सति गोत्वादिनिमित्तकत्वमवधारयति।

सर्वत्र तदेवोपमानफलमिति  कश्चित्  ।  तन्न। शक्तिग्राहकमेव लाघवादिसहकृतं निमित्तमप्यवधारयति , यथा क्षित्यादौ कर्तुरेकताम् ।
अथैवं भिन्नकर्तृकेषु लाघवात् कार्यमेककर्तृतां बोधयेत् । बोधयत्येव। पश्चात् बाधकेन त्यज्यते इति चेत् , न । बाधितविषयत्वेनाभासत्वात् अलघुनि
लघुज्ञानस्य अयथार्थत्वेन तज्जन्यानुमितेराभासत्वाच्च । न चोपमितिरेव इतरव्युत्पत्तिः, अन्यथा तदनिरुक्तेरिति वाच्यम्। व्युत्पत्तेः शब्दसहकारित्वे मानान्तरत्वे
व्याघातात्। व्युत्पत्तिस्तु यां बुद्धिमासाद्य पदार्थविशेषबोधः सा ।

अन्ये तु यत्तदादिपदानामनुगतैकरूपाभावेनैकत्रैव शक्तिग्रहात् अन्यत्रापीति पदान्तरव्यवहारः पदान्तरवैधर्म्यात् ,न प्रमाणान्तरमुपमानमिति ।  तन्न। बुद्धिस्थत्वादिनोपलक्षणेन
साधारणेन शक्तिग्रहात् बुद्धिविशेषादेव विशेषपर्यवसानम्। तथैव व्यवहारात् । अन्यथा मानान्तरेऽपि दोषः । न ह्यनुगतरूपप्रतीतावेव तत्र शक्तिग्रहः ।
यत्तु  मात्रादिपदानां जनकस्त्रीत्वादिना शक्तिग्रहे कथं मैत्रमात्रादिलाभः । न च समभिव्याहारविशेषादिति वाच्यम्। पदार्थो हि पदार्थान्तरमन्वेति , जनकस्त्रीत्वञ्च
न तथेति कथं मैत्रादिना जनकत्वान्वय इति मानान्तरमिति ,  तन्न। जनकत्वस्य जन्यसापेक्षत्वेन योग्यत्वादिना मैत्रेणान्वयात् ।

लक्षणन्तु उपमितिकरणत्वम् । उपमितित्वञ्च जातिः । न चासिद्धिः। कारणविशेषे कार्यवैजात्यमावश्यकमिति कारणव्यङ्ग्यत्वात् ।
यद्वा नियतधर्मसमानाधिकरणशब्दप्रवृत्तिनिमित्तज्ञानमुपमितिः । प्रकारतया शब्दशक्तिविषयत्वं निमित्तत्वम् । अगृहीतसमयकसंज्ञया वाक्यार्थसामानाधिकरण्येन
संज्ञानिमित्तप्रकारतापरिच्छेदो वा , किञ्चिद्वाक्यार्थसामानाधिकरण्येन संज्ञानिमित्तप्रकारतापरिच्छेदो वा । गोविसदृशो न गवय इत्यत्रापि परम्परया तत्र तात्पर्यमस्त्येवेति
सर्वमवदातम्।

॥ इति श्रीमद्गङ्गेशोपाध्यायविरचिते तत्त्वचिन्तामणौ  तृतीयः उपमानखण्डः समाप्तः।